[[मरुशतकम् Source: EB]]
[
मरुशतकम्
ज्याकृष्टिबद्धखटकामुखपाणिपृष्ठ-
पेङ्खन्नखांशुचयसंवलितोऽम्बिकायाः ।
त्वां पातु पञ्जरितपल्लवकर्णपूर-
लोभभ्रमद्भ्र मरविभ्रमभृत्कटाक्षः ॥ 1 ॥
क्षिप्तो हस्तावलग्नः प्रसभमभिहतोऽप्याददानोंऽशुकान्तं
गृह्णन्केशेष्वपास्तश्चरणनिपतितो नेक्षितः संभ्रमेण ।
आलिङ्गन्योऽवधूतस्त्रिपुरयुवतिभिः साश्रुनेत्रोत्पलाभिः
कामीवार्द्रापराधः स दहतु दुरितं शांभवो वः शराग्निः ॥ 2 ॥
आलोलामलकावलिं विलुलितां बिभ्रच्चलत्कुण्डलं
किंचिन्मृष्टविशेषकं तनुतरैः स्वेदाम्भसः शीकरैः ।
तन्व्या यत्सुरतान्ततान्तनयनं वकं रतिव्यत्यये
तत्त्वां पातु चिरय किं हरिहरब्रह्मादिभिर्दैवतैः ॥ 3 ॥
अलसवलितैः प्रेमार्द्रार्द्रैर्मुहुर्मुलीकृतैः
क्षणमभिमुखैर्लज्जालोलैर्निमेषपराङ्मुखैः ।
हृदयनिहितं भावाकूतं वमद्भिरिवेक्षणैः
कथय सुकृती कोऽयं मुग्धे त्वयाद्यं विलोक्यते ॥ 4 ॥
अङ्गुल्यग्रनखेन बाष्पसलिलं विक्षिप्य विक्षिप्य किं
तूष्णीं रोदिषि कोपने बहुतरं फूत्कृत्य रोदिष्यसि ।
यस्यास्ते पिशुनोपदेशवचनैर्मानेऽतिभूमिं गते
निर्विण्णोऽनुनयं प्रति प्रियतमो पध्यस्थतोमेष्यसि ॥ 5 ॥
दत्तोऽस्याः प्रणयस्त्वयैव भवता सेयं चिरं लालिता
दैवादद्य किल त्वमेव कृतवानस्य नवं विप्रयम् ।
मन्युर्दुः सह एष यात्युपशमं नो सान्त्ववादैः स्फुटं
हे निस्त्रिंश विमुक्तकण्ठकरुणं तावत्सखी रोदितु ॥ 6 ॥
लिखन्नास्ते भूमिं बहिरवनतः प्राणदयितो
निराहाराः सख्यः सततरुदितोच्छूननयनाः ।
परित्यक्तं सर्वं हसितपठितं पञ्जरशुकै-
स्तवावस्था चेयं विसृज कठिने मानमधुना ॥ 7 ॥
नार्यो मुग्धशठा हरन्ति रमणं तिष्ठन्ति नो वारिता-
स्तत्किं ताम्यसि किं च रोदिषि मुधा तासां प्रियं मा कृथाः ।
कान्तः केलरुचिर्युवा सहृदयस्तादृक्पतिः कातरे
किं नो बर्बरकर्कशैः प्रियशतैराकम्य विकीयते ॥ 8 ॥
कोपात्कोमललोलबाहुलतिकापाशेन बद्ध्वा दृढं
नीत्वा केलिनिकेतनं दयितया सायं सखीनां पुरः ।
भूयोऽप्येवमिति स्खलन्मृदुगिरा संसूच्य दुश्चेष्टितं
धन्यो हन्यत एव निह्नु तिपरः प्रयात्रुदन्त्या हसन् ॥ 9 ॥
याताः किं न मिलन्ति सुन्दरि पुनश्चिन्ता त्वया मत्कृते
नो कार्या नितरां कृशासि कथयत्येवं सभाष्पे मयि ।
लज्जामन्थरतारकेण निपतत्पीताश्रुणा चक्षुषा
दृष्टा मां हसितेन भाविमरणोत्साहस्तया सूचितः ॥ 10 ॥
दद्वक्त्राभिमुखं मुखं विनमितं दृष्टिः कृता पादयो-
स्तस्यालापकुतूहलाकुलतरे श्रोत्रे निरुद्धे मया ।
पाणिभ्यां च तिरस्कृतः सपुलकः स्वेदोद्गमो गण्डयोः
सख्यः किं करवाणि यान्ति शतधा यत्कञ्चुके संधयः ॥ 11 ॥
प्रहरविरतौ मध्ये वाह्नस्ततोऽपि परेण वा
किमुत सकले याते वाह्नि प्रिय त्वमिहैष्यसि ।
इति दिनशतप्राप्यं देशं प्रियस्य यियासतो
हरति गमनं बालालापैः सबाष्पगलज्जलैः ॥ 12 ॥
कृतो दूरादेव स्मितमधुरमभ्युद्गमविधिः
शिरस्याज्ञा न्यस्ता प्रतिवचनवत्यानतिमति ।
न दृष्टैः शैथिल्यं मिलन इति चेतो दहति मे
निगूढान्तः कोपा कठिनहृदये संवृतिरियम् ॥ 13 ॥
कथमपि सखि कीडाकोपाद् व्रजेति मयोदिते
कठिनहृदयः शय्यां त्यक्त्वा बालद्गत एव सः ।
इति सरभसं ध्वस्तप्रेम्णि व्यपेतघृणे स्फृहां
पुनरपि हतव्रीडं चेतः करोति करोमि किम् ॥ 14 ॥
दंपत्योर्निशि जल्पतोर्गुहशुकेनाकर्णितं यद्वच-
स्तत्प्रातर्गुरुसंनिधौ निगदतस्तस्यैव तारं वधूः ।
कर्णालम्बितपझरागशकलं विन्यस्य चञ्चूपुटे
व्रीडार्ता प्रकरोति दाडिमफलव्याजेन वाग्बन्धनम् ॥ 15 ॥
अज्ञानेन पराड्मुखीं परिभवादाश्लिष्य मां दुः खितां
किं लब्धं शठ दुर्नयेन नयता सौभाग्यमेतां दशाम् ।
पश्यैतद्दयिताकुचव्यतिकरोन्मृष्टाङ्गरागारुणं
वक्षस्ते मलतैलपङ्कशबलैर्वेणीपदैरङ्कितम् ॥ 16 ॥
एकत्रासनसंस्थितिः परिहृता प्रत्युद्गमाद्दूरत-
स्ताम्बूलानयनच्छलेन रभासाश्लेषोऽपि संविध्नितः ।
आलापोऽपि न मिश्रितः परिजनं व्यापारयन्त्यान्तिके
कान्तं प्रत्युपचारतश्चतुरया कोपः कृतार्थोकृतः ॥ 17 ॥
दृष्ट्वैकासनसंस्थिते प्रियतमे पश्चादुपेत्यादरा-
देकस्या नयने पिधाय विहितकीडानुबन्धच्छलः ।
ईषद्वकितकंधरः सपुलकः प्रेमोल्लसन्मानसा-
मन्तर्हासलसत्कपोलफलकां धूर्तोऽपरां चुम्बति ॥ 18 ॥
चरणपतनप्रत्याख्यानात्प्रसादपराङ्मुखे
निभृतकितवाचारेत्युक्ते रुषा परुषीकृते ।
व्रजति रमणे निः श्वस्योच्चैः स्तनाहितहस्तया
नयनसलिलच्छन्ना दृष्टिः सखीषु निपातिताः ॥ 19 ॥
काञ्च्या गाढतरावबद्धवसनप्रान्ता किमर्थं पुन-
र्मुग्धाक्षी स्वपितीति तत्परिजनं स्वैरं प्रिये पृच्छति ।
मातः स्वप्तुमपीह वारयति मामित्याहितकोधया
पर्यस्य स्वपनच्छलेन शयने दत्तोऽवकाशस्तया ॥ 20 ॥
एकस्मिञ्शयने विपक्षरमणीनामग्रहे मुग्धया
सद्यः कोपपराड्मुखं ग्लपितया चाटूनि कुर्वन्नपि ।
आवेगादवधीरितः प्रियतमस्तूष्णीं स्थितस्तत्क्षणा-
न्मा भूत्सुप्त इवेत्यमन्दवलितग्रीवं पुनर्वोक्षितः ॥ 21 ॥
एकस्मिञ्शयने पराङ्मुखतया वीतोत्तरं ताम्यतो-
रन्योन्यस्य हृदि स्थतेऽप्यनुनये संरक्षतोर्गौरवम् ।
दंपत्योः शनकैरपाङ्गवलनान्मिश्रीभवच्छक्षुषो-
र्भग्नो मानकलिः सहासरभसं व्यवृत्तकण्ठग्रहः ॥ 22 ॥
पश्यामो मयि किं प्रपद्यत इति स्थैर्यं मयालम्बितं
किं मां नालपतीत्ययं खलु शठः कोपस्तयाप्याश्रितः ।
इत्यन्योन्यविलक्षदृष्टिचतुरे तस्मिन्नवस्थान्तरे
सव्याजं हसितं मया धृतिहरो बाष्पस्तु मुक्तस्तया ॥ 23 ॥
परिम्लाने माने मुखशशिनि तस्याः करधृते
मयि क्षीणोपाये प्रणिपतनमात्रैकशरणे ।
तया पक्ष्मप्रान्तव्रजपुटनिरुद्धेन सहसा
प्रसादो बाष्पेण स्तनतटविशीर्णेन कथितः ॥ 24 ॥
तस्याः सान्द्रविलेनस्तनतटप्रश्लेषमुद्राङ्कितं
किं वक्षरचरणानतिव्यतिरव्याजेन गोपाय्यते ।
इत्युक्ते क्व तदित्युदीर्य सहसा तत्संप्रमार्ष्टुं मया
साश्लिष्टा रभसेन तत्सुखवशात्तन्व्या च तद्विस्मृतम् ॥ 25 ॥
त्वं मुग्धाक्षि विनैव कञ्चुलिकया धत्से मनोहारिणीं
लक्ष्मीमित्यभिधायिनि प्रियतमे तद्वीटिकासंस्पृशि ।
शय्योपान्तनिविष्टसस्मितसखीनेत्रोत्सवानन्दितो
निर्यातः शनकैरलीकवचनोपन्यासमालीजनः ॥ 26 ॥
भ्रूभङ्गे रचितेऽपि दृष्टिरधिकं सोत्कण्ठमुद्वीक्षते
रुद्धायामपि वाचि सस्मितमिदं दग्धाननं जायते ।
कार्कश्यं गमितेऽपि चेतसि तनू रोमाञ्चमालम्बते
दृष्टे निर्वहणं भविष्यति कथं मानस्य तस्मिञ्जने ॥ 27 ॥
सा पत्युः प्रथमापराधसमये सख्योपदेशं विना
नो जानाति सविभ्रमाङ्गवलनावकोक्तिसंसूचनम् ।
स्वच्छैरच्छकपोलमूलगलितैः पर्यस्तनेत्रोत्पला
बाला केवलमेव रोदिति लुठल्लोलालकैरश्रुभिः ॥ 28 ॥
भवतु विदितं व्यर्थालापैरलं प्रिय गम्यतां
तनुरपि न ते दोषोऽस्माकं विधिस्तु पराङ्मुख
तव यदि तथारूढं प्रेम प्रपन्नमिमां दशां
प्रकृतितरले का नः पीडा गते हतजीविते ॥ 29 ॥
उरसि निहितस्तारो हारः कृता जघने घने
कलकलवती काञ्ची पादौ रणन्मणिनूपुरौ ।
प्रियमभिसरस्येवं मुग्धे त्वमाहतडिण्डिमा
यदि किमधिकत्रासोत्कम्पं दिशः समुदीक्षसे ॥ 30 ॥
प्रातः प्रातरुपागतेन जनिता निर्निद्रता चक्षुषो-
र्मन्दाया मम गौरवव्यपनयादुत्पादितं लाघवम् ।
किं तद्यन्न कृतं त्वया मरणभीर्मुक्ता मया गम्यतां
दुःखं तिष्ठसि यच्च पथ्यमधुना कर्तास्मि तच्छ्रोष्यसि ॥ 31 ॥
प्रस्थानं वलयैः कृतं प्रियसखैरस्त्रमजस्त्रं गतं
धृत्या न क्षणमासितं व्यवसितं चित्तेन गन्तुं पुरः ।
यातुं निश्चितचेतसि प्रियतमे सर्वे समं प्रस्थिता
गन्तव्ये सति जीवित प्रियसुहृत्सार्थः किमु त्यज्यते ॥ 32 ॥
संदष्टाधरपल्लवा सचकितं हस्ताग्रमाधुन्वती
मा मा मुञ्च शठेति कोपवचनैरानर्तितभ्रूलता ।
शीत्काराञ्चितलोचना सरभसं यैश्चुम्बिता मानिनी
प्राप्तं तैरमृतं श्रमाय मथितो मूढैः सुरैः सागरः ॥ 33 ॥
सुप्तोऽयं सखि सुप्यतामिति गताः सख्यस्ततोऽनन्तरं
प्रमावेशितया मया सरलया न्यस्तं मुखं तन्मुखे ।
ज्ञातेऽलीकनिमीलने नयनयोर्धूर्तस्य रोमाञ्चतो
लज्जासीन्मम तेन साप्यहृता तत्कालयोग्यैः कमैः ॥ 34 ॥
कोपो यत्र भ्रुकुटिरचना निग्रहो यत्र मौनं
यत्रान्योन्यस्मितमनुनयो दृष्टिपातः प्रसादः ।
तस्य प्रेम्णस्तदिदमधुना वैशसं पश्य जातं
त्वं पादान्ते लुठसि न च मे मन्युमोक्षः खलायाः ॥ 35 ॥
सुतनु जहिहि मौनं पश्य पादानतं मां
न खलु तव कदाचित्कोप एवंविधोऽभूत् ।
इति निगदति नाथे तिर्यगामीलिताक्ष्या
नयनजलमनल्पं मुक्तमुक्तं न किंचित् ॥ 36 ॥
गाढालिङ्गनवामनीकृतकुचप्रोद्भिन्नरोमोद्गमा
सान्द्रस्नेहरसातिरेकविगलच्छ्रीमन्नितम्बाम्बरा ।
मा मा मानद माति मामलमिति क्षामाक्षरोल्लापिनी
सुप्ता किं नु मृता नु किं मनसि मे लीना विलीना नु किम् ॥ 37 ॥
पटालग्ने पत्यौ नमयति मुखं जातविनया
हठाश्लेषं वाञ्छत्यपहरति गात्राणि निभृतम् ।
न शक्नोत्याख्यातुं स्मितमुखसखीदत्तनयना
ह्रिया ताम्यत्यन्तः प्रथमपरिहासे नववधूः ॥ 38 ॥
गते प्रेमावन्धे प्रणयबहुमाने विगलिते
निवृत्ते सद्भावे जन इव जने गच्छति पुरः ।
तदुत्प्रेक्ष्योत्प्रेक्ष्य प्रियसखि गतांस्तांश्च दिवसा-
न्न जाने को हेतुर्दलति शतधा यन्न हृदयम् ॥ 39 ॥
चिरविरहिणोरुत्कण्ठार्तिश्लथीकृतगात्रयो-
र्नवमिव जगज्जातं भूयश्चिरादभिनन्दतोः ।
कथमपि दिने दीर्घे याते निशामधिरूढयोः
प्रसरति कथा बह्वी यूनोर्यथा न तथा रतिः ॥ 40 ॥
दीर्घा वन्दनमालिका विरचिता दृष्ट्यैव नेन्दीवरैः
पुष्पाणां प्रकरः स्मितेन रचितो नो कुन्दजात्यादिभिः ।
दत्तः स्वेदमुचा पयोधारभरेणार्घो न कुम्भाम्भसा
स्वैरेवावयवैः प्रियस्य विशतस्तन्व्या कृतं मङ्गलम् ॥ 41 ॥
कान्ते सागसि शापिते प्रियसखीवेषं विधायागते
भ्रान्त्यालिङ्ग्य मया रहस्यमुदितं तत्संगमाकाङ्क्षया ।
मुग्धे दुष्करमेतदित्यतितरामुक्त्वा सहासं बला-
दालिङ्ग्य च्छलितास्मि तेन कितवेनाद्य प्रदोषागमे ॥ 42 ॥
आशङ्क्य पणतिं पटन्तपहितौ पादौ करोत्यादरा-
द्व्याजेनागतमावृणोति हसितं न स्पष्टमुद्वीक्षते ।
मय्यालापवति प्रतीपवचनं सख्या सहाभाषते
तन्व्यास्तिष्ठतु निर्भरप्रणयिता मानोऽपि रम्योदयः ॥ 43 ॥
सा यावन्ति पदान्यलीकवचनैरालीजनैः पाठिता
तावन्त्येव कृतागसो द्रुततरं व्यावहृत्य पत्युः पुरः ।
प्रारब्धा परतो यथा मनसिजस्येच्छा तथा वर्तितुं
प्रेम्णो मौग्ध्यविभूषणस्य सहजः कोऽप्येष कान्तः कमः ॥ 44 ॥
दूरादुत्सुकमागते विवलितं संभाषिणि स्फारितं
संश्लिष्यत्यरुणं गृहीतवसने संकोचितभ्रूलतम् ।
मानिन्याश्चरणानतिव्यतिकरे बाष्पाम्बुपूर्णेक्षणं
चक्षुर्जातमहो प्रपञ्चचतुरं जातागसि प्रेयसि ॥ 45 ॥
अङ्गानामतितानवं कुत इदं कम्पश्च कस्मात्कुतो
मुग्धे पाण्डुकपोलमाननमिति प्राणेश्वरे पृच्छति ।
तन्व्या सर्वमिदं स्वभावत इति व्याहृत्य पक्ष्मान्तर-
व्यापी बाष्पभारस्तया वलितया निःश्वस्य मुक्तोऽन्यतः ॥ 46 ॥
कठिनहृदये मुञ्च भ्रान्तिं व्यलीककथाश्रितां
पिशुनवचनैर्दुःखं नेतुं न युक्तमिमं जनम् ।
किमिदमथ वा सत्यं मुग्धे त्वयाद्य विनिश्चितं
यदभिरुचितं तन्मे कृत्वा प्रिये सुखमास्यताम् ॥ 47 ॥
रात्रौ वारिभरालसाम्बुदरवोद्विग्नेन जाताश्रुणा
पान्थेनात्मवियोगदुःखपिशुनं गीतं तथोत्कण्ठया ।
आस्तां जीवितहारिणः प्रवसनालापस्य संकीर्तनं
मानस्यापि जलाञ्जालिः सरभसं लोकेन दत्तो यथा ॥ 48 ॥
स्वं दृष्ट्वा करजक्षतं मधुमदक्षीबाविचार्येर्ष्यया
गच्छन्ती क्व नु गच्छसीति विधृता बाला पटान्ते मया ।
प्रत्यावृत्तमुखी सबाष्पनयना मां मुञ्च मुञ्चेति सा
कोपप्रस्फुरिताधरा यदवदत्तत्केन विस्मार्यते ॥ 49 ॥
चपलहृदये किं स्वातन्त्र्यात्तथा गृहमागत-
श्चरणपतितः प्रेमार्द्रार्द्रः प्रियः समुपेक्षितः ।
तदिदमधुना यावज्जीवं निरस्तसुखोदया
रुदितशरणा दुर्जातानां सहस्व रुषां फलम् ॥ 50 ॥
बाले नाथ विमुञ्च मानिनि रुषं रोषान्मया किं कृतं
खेदोऽस्मासु न मेऽपराध्यति भवान्सर्वेऽपराधा मयि ।
तत्किं रोदिषि गद्गदेन वचसा कस्याग्रतो रुद्यते
नन्वेतन्मम का तवास्मि दयिता नास्मीत्यतो रुद्यते ॥ 51 ॥
श्लिष्टः कण्ठे किमिति न मया मूढया प्राणनाथ-
श्चुम्बत्यस्मिन्वनतिः किं कृता किं न दृष्टः ।
नोक्तः कस्मादिति नववधूचेष्टितं चिन्तयन्ती
पश्चात्तापं वहति तरुणी प्रेम्णि जाते रसज्ञा ॥ 52 ॥
लाक्षालक्ष्म ललाटपट्टमभितः केयूरमुद्रा गले
वक्त्रे कज्जलकालिमा नयनयोस्ताम्बूलरागोऽपरः ।
दृष्ट्वा कोपविधायि मण्डनमिदं प्रातश्चिरं प्रेयसो
लीलातामरसोदरे मृगदृशः श्वासाः समाप्तिं गताः ॥ 53 ॥
लोलैर्लोचनवारिभिः सशपथैः पादप्रणामैः प्रियै-
रन्यास्ता विनिवारयन्ति कृपणाः प्राणेश्वरं प्रस्थितम् ।
पुण्याहं व्रज मङ्गलं सुदिवसं प्रातः प्रायातस्य ते
यत्स्नेहोचितमीहितं प्रियतम त्वं निर्गतः श्रोष्यसि ॥ 54 ॥
लग्ना नांशुकपल्लवे भुजलता न द्वारदेशेऽर्पिता
नो वा पादयुगे तया निपतितं तिष्ठेति नोक्तं वचः ।
काले केवलमम्बुदालिमलिने गन्तुं प्रवृत्तः शठ-
स्तन्व्या बाष्पजलौघकल्पितनदीपूरेण रुद्धः प्रियः ॥ 55 ॥
विरहविषमः कामो वामस्तनुं कुरुते तनुं
दिवसगणनादक्षश्चायं व्यपेतघृणो यमः ।
त्वमपि वशगो मानव्याधेर्विचिन्तय नाथ हे
किसलयमृदुर्जोवेदेवं कथं प्रमदाजनः ॥ 56 ॥
पादासक्ते सुचिरमिह ते वामता कैव कान्ते
मन्दारम्भे प्रणयिनि जने कोपने कोऽपराधः ।
इत्थं तस्याः परिजनकथाकोमले कोपवेगे
बाष्पोद्भेदैस्तदनु सहसा न स्थितं न प्रवृत्तम् ॥ 57 ॥
पुराभूदस्माकं प्रथमविभिन्ना तनुरियं
ततो न त्वं प्रेयानहमपि हताशा प्रियतमा ।
इदानीं नाथस्त्वं वयमपि कलत्रं किमपरं
मयाप्तं प्राणानां कुलशकठिनानां फलमिदम् ॥ 58 ॥
मुग्धे मुग्धतयैव नेतुमखिलः कालः किमारभ्यते
मानं धत्स धृतिं बधान ऋजुतां दूरे कुरु प्रेयसि ।
सख्यैवं प्रतिबोधिता प्रतिवचस्तामाह भीतानना
नीचैः शंस हृदि स्थतो हि ननु मे प्राणेश्वरः श्रोष्यसि ॥ 59 ॥
लीलातामरसाहतोऽन्यवनितानिः शङ्कदष्टाधरः
कश्चित्केसरदूषितेक्षण इव व्यामील्य नेत्रे स्थितः ।
मुग्धा कुङ्मलिताननेन दधती वायुं स्थिता तत्र सा
भ्रान्त्या धूर्ततयाथवा नतिमृते तेनानिशं चुम्बिता ॥ 60 ॥
स्फुटनु हृदयं कामः कामं करोतु तनुं तनुं
न सखि चटुलप्रेम्णा कार्यं पुनर्दयितेन मे ।
इति सरभसं मानावेशादुदीर्य वचस्तया
रमणपदवी सारङ्गाक्ष्या सखङ्कितमीक्षिता ॥ 61 ॥
पश्याश्लेषविशीर्णचन्दनरजः पुञ्जप्रकर्षादियं
शय्या संप्रति कोमलाङ्गि परुषेत्यारोप्य मां वक्षसि ।
गाढौष्ठग्रहपीडनाकुलतया पादाग्रसंदंशके-
नाकृष्याम्बरमात्मनो यदुचितं दूर्तेन तत्प्रस्तुतम् ॥ 62 ॥
कथमपि कृतप्रत्यावृत्तौ प्रिये स्खलितोत्तरे
विरहकृशया कृत्वा व्याजं प्रकल्पितमश्रुतम् ।
असहनसखीश्रोत्रप्राप्तिप्रमादससंभ्रमं
विवलितदृशा शून्ये गेहे समुच्छ्वसितं पुनः ॥ 63 ॥
आ दृष्टिप्रसरात्प्रियस्य पदवीमुद्वीक्ष्य निर्विण्णया
विच्छिन्नेषु पथिष्वहः परिणतौ ध्वान्ते समुत्सर्पति ।
दत्त्वैकं सशुचा गृहं प्रति पदं पान्थस्त्रियास्मिन्क्षणे
मा भूदागत इत्यमन्दवलितग्रीवं पुनर्वोक्षितम् ॥ 64 ॥
आयाते दयिते मनोरथशतैर्नोत्वा कथंचिद्दिनं
वैदग्ध्यापगमज्जडे परिजने दीर्धां कथां कुर्वति ।
दष्टास्मीत्यभिधाय सत्वरपदं व्याधूय चीनांशुकं
तन्वङ्ग्या रतिकातरेण मनसा नीतः प्रदीपः शमम् ॥ 65 ॥
अनालेच्य प्रेम्णः परिणतिमनादृत्य सुहृद-
स्त्वयाकाण्डे मानः किमिति सरले संप्रति कृतः ।
समाकृष्टा ह्येते प्रलयदहनोद्भासुरशिखाः
स्वहस्तेनाङ्गरास्तदलमधुनारण्यरुदितैः ॥ 66 ॥
कपोले पत्राली करतलनिरोधेन मृदिता
निपीतो निः श्वासैरयममृतहृद्योऽधररसः ।
मुहुः कण्ठे लग्नस्तरलयति बाष्पः स्तनतटं
प्रियो मन्युर्जातस्तव निरनुरोधे न तु वयम् ॥ 67 ॥
शून्यं वासगृहं विलोक्य शयनादुत्थाय किंचिच्छनै-
र्निद्राव्याजमुपागतस्य सुचिरं निर्वर्ण्य पत्युर्मुखम् ।
विस्त्रब्धं परिचुम्ब्य जातपुलकामालोक्य गण्डस्थलीं
लज्जानम्रमुखी प्रियेण हसता बाला चिरं चुम्बिता ॥ 68 ॥
दृष्टः कातरनेत्रया चिरतरं बद्ध्वाञ्जलिं याचितः
पश्चादंशुकपल्लवेन विधृतो निर्व्याजमालिङ्गितः ।
इत्याक्षिप्य यदा समस्तमधृणो गन्तुं प्रवृत्तः शठः
पूर्वं प्राणपरिग्रहो दयितया मुक्तस्ततो वल्लभः ॥ 69 ॥
चिन्तामोहविनिश्चलेन मनसा मौनेन पादानतः
प्रत्याख्यानपराङ् मुखः प्रियतमो गन्तुं प्रवृत्तोऽधुना ।
सव्रीडैरलसैर्निरन्तरलुठद्वाष्पाकुलैरीक्षणैः
श्वासोत्कम्पकुचं निरीक्ष्य सुचिरं जीवाशया वारितः ॥ 70 ॥
भ्रूभेदो गुणितश्चिरं नयनयोरभ्यस्तमामीलनं
रोद्धुं शिक्षितमादरेण हसितं मौनेऽभियोगः कृतः ।
धैर्यं कर्तुमपि स्थिरीकृतमिदं चेतः कथंचिन्मया
बद्धो मानपरिग्रहे परिकरः सिद्धिस्तु दैवे स्थिता ॥ 71 ॥
दैशैरन्तरिता शतैश्च सरितामुर्वोभृतां काननै-
र्यत्नेनापि न याति लोचनपथं कान्तेति जानन्नपि ।
उद्ग्रीवश्चरणार्धरुद्धवसुधः प्रोन्मृज्य सास्त्रे दृशौ
तामाशां पथिकस्तथापि किमपि ध्यायन्मुहुर्वोक्षते ॥ 72 ॥
संशयितश्लोकाः
धीरं वारिधरस्य वारि किरतः श्रुत्वा निशीथे ध्वनिं
दीर्घोच्छ्वासमुदश्रुणा विरहिणीं बालां चिरं ध्यायता ।
अध्वन्येन विमुक्तकण्ठमखिलां रात्रिं तथा कन्दितं
ग्रामीणैः मुनरध्वगस्य वसतिर्ग्रामे निषिद्धा यथा ॥ 1 ॥
मलयमरुतां व्राता याता विकासितमल्लिका-
परिमलभरो भग्नो ग्रीष्मस्त्वमुत्सहसे यदि ।
धन घटयितुं तं निः स्नेहं य एव निवर्तने
प्रभवति गवां किं नश्छिन्नं स एव धनंजयः ॥ 2 ॥
सा बाला वयमप्रगल्भमनसः सा स्त्री वयं कातराः
सा पीनोन्नतिमत्पयोधरयुगं धत्ते सखेदा वयम् ।
साकान्ता जघनस्थलेन गुरुणा गन्तुं न शक्ता वयं
दोषैरन्यजनाश्रयैरपटवो जाताः स्म इत्यद्भुतम् ॥ 3 ॥
नोपेतोऽनुनयेन यः प्रियसुहृद्वाक्यैर्न यः संहृतो
यो दीर्घं दिवसं विषह्य विषमं यत्नात्कथंचिद्धृतः ।
अन्योन्यस्य हृते मुखे विहितयोस्तिर्यक्कथंचिद्दृशोः
स द्वाभ्यामतिविस्मृतव्यतिकरो मानो विहस्योज्झितः ॥ 4 ॥
पुरस्तन्व्या गोत्रस्खलनचकितोऽहं नतमुखः
प्रवृत्तो वैलक्ष्यात्किमपि लिखितुं दैवहतकः ।
स्फुटो रेखान्यासः कथमपि स तादृक्परिणतो
गता येन व्यक्तिं पुनरवयवैः सैव तरुणी ॥ 5 ॥
आस्तां विश्वसनं सखीषु विदिताभिप्रायसारे जने
तत्राप्यर्पयितुं दृशं सुरचितां शक्नोमि न व्रीडया ।
लोकोऽप्येष परोपहासचतुरः सूक्ष्मेङ्गिज्ञोऽप्यलं
मातः कं शरणं व्रजामि हृदये जीर्णोऽनुरागानलः ॥ 6 ॥
न जाने संमुखायाते प्रियाणि वदति प्रिये ।
सर्वाण्यङ्गानि मे यान्ति श्रोत्रतां किमु नेत्रताम् ॥ 7 ॥
लोलभ्रूलतया विपक्षदिगुपन्यासेऽवधूतं शिर-
स्तद्वृत्तान्तनिरीक्षणे कृतनमस्कारो विलक्षः स्थितः ।
सोपात्ताम्रकपोलभित्तिनि मुखे दृष्ट्या गतः पादयो-
रुत्सृष्टो गुरुसंनिधावपि विधिर्द्वाभ्यां न कालोचितः ॥ 8 ॥
जाता नोत्कलिका स्तनौ न लुलितौ गात्रं न रोमाञ्चितं
वक्त्रं स्वेदकणान्वितं न सहसा यावच्छठेनामुना ।
वृष्टेनैव मनो हृतं धृतिमुषा प्राणेश्वरेणाद्य मे
तत्केनापि निरुप्यमाणनिपुणो मानः समाधीयताम् ॥ 9 ॥
तप्ते महाविरहवह्निशिखावलीभि-
रापाण्डुरस्तनतटे हृदये प्रियायाः ।
मन्मार्गवीक्षणनिवेशितदीनदृष्टे-
र्नूनं छमच्छमिति बाष्पकणाः पतन्ति ॥ 10 ॥
म्लानं पाण्डु कृशं वियोगविधुरं लम्बालकं सालसं
भूयस्तत्क्षणजातकान्तिसरसं प्राप्ते मयि प्रोषिते ।
साटोपं रतिकेलिकालरभसं रम्यं कियप्यादरा-
त्पीतं यत्सुतनोर्मया वदनकं तत्केन विस्मार्यते ॥ 11 ॥
करकिसलयं धूत्वा धूत्वा विमार्गति वाससी
क्षिपति सुमनोमालाशेषं प्रदीपशिखां प्रति ।
स्थगयति मुहुः पत्युर्नेत्रे विहस्य समाकुला
सुरतविरतौ रम्या तन्वी मुहुर्मुहुरीक्षते ॥ 12 ॥
सन्त्येवात्र गृहे गृहे युवतयस्ताः पृच्छ गत्वाधुना
प्रेयांसः प्रणमन्ति किं तव पुनर्दासो यथा वर्तते ।
आत्मद्रोहिणि दुर्जनैः प्रलपितं कर्णेऽनिशं मा कृथा-
श्छिन्नस्नेहरसा भवन्ति पुरुषा दुः खानुवर्त्याः पुनः ॥ 13 ॥
निः श्वासा वदनं दहन्ति हृदयं निर्मूलमुन्मूल्यते
निद्रा नैति न दृश्यते प्रियमुखं नक्तंदिवं रुद्यते ।
अङ्गं शोषमुपैति पादपतितः प्रेयांस्तथोपेक्षितः
सख्यः कं गुणमाकलय्य दयिते मानं वयं कारिताः ॥ 14 ॥
आद्यारभ्य यदि प्रिये पुनरहं मानस्य वान्यस्य वा
गृह्णीयां शठदुर्नयेन मनसा नामापि संक्षेपतः ।
तत्तेनैव विना शशाङ्कधवलाः स्पष्टाट्टहासा निशा
एको वा दिवसो पयोदमलिनो यायान्मम प्रावृषि ॥ 15 ॥
चरणपतनं सख्यालापा मनोहरचाटवः
कृशतरतनोर्गाढाश्लेषो हठात्परिचुम्बनम् ।
इति बहुफलो मानारम्भस्तथापि हि नोत्सहे
हृदयदयितः कान्तः कामं किमत्र करोम्यहम् ॥ 16 ॥
तन्वङ्ग्या गुरुसंनिधौ नयनजं यद्वारि संस्तम्भितं
तेनान्तर्गलितेन मन्मथशिखी सिक्तोऽनुषङ्गोद्भवः ।
मन्ये तस्य निरस्यमानकिरणस्यैषा मुखेनोद्गता
श्वासायाससमाकुलालिसरणिव्यजेन धूमावलिः ॥ 17 ॥
अहं तेनाहूता किमपि कथयामीति विजने
समीपे चासीना सरलहृदयत्वादवहिता ।
ततः कर्णोपान्ते किमपि वदताघ्राय वदनं
गृहीता धम्मिल्ले सखि स च मया गाढमधरे ॥ 18 ॥
सालक्तकेन नवपल्लवकोमलेन
पादेन नूपुरवता मदनालसेन ।
यस्ताङ्यते दयितया प्रणयापराधा-
त्सोऽङ्गीकृतो भगवता मकरध्वजेन ॥ 19 ॥
आलम्व्याङ्गणवापिकापरिसरे चूतद्रुमे मञ्जरीं
सर्पत्सान्द्रपरागलम्पटरटद्भृङ्गाङ्गनाशोभिनीम् ।
मन्ये स्वां तनुमुत्तरीयशकलेनाच्छाद्य बाला स्फुर-
त्कण्ठध्वाननिरोधकम्पितकुचश्वासोद्गमा रोदिति ॥ 20 ॥
चक्षुः प्रीतिप्रसक्ते मनसि परिचवे चिन्त्यमानाभ्युपाये
रागे यातेऽतिभूमिं विकसति सुतरां गोचरे दूतिकायाः ।
आस्तां दूरेण तावत्सरभरसदयितालिङ्गनानन्दलाभ-
स्तद्गेहोपान्तरथ्याभ्रमणमपि परां निर्वृतिं संतनोति ॥ 21 ॥
कान्ते तल्पमुपागते विगलिता नीवी स्वयं बन्धना-
द्वासो विश्लथमेखलागुणधृतं किंचिन्नितम्बे स्थितम् ।
एतावत्सखि वेद्मि केवलमहं तस्याङ्गसङ्गे पुनः
कोऽयं कास्मि रतं नु वा कथमिति स्वल्पापि मे न स्मृतिः ॥ 22 ॥
नभसि जलदलक्ष्मीं सास्त्रया वीक्ष्य दृष्ट्या
प्रवससि यदि कान्त्येत्यर्धमुक्त्वा कथंचित् ।
मम पटमवलम्ब्य प्रोल्लिखन्ती धरित्रीं
यदनु कृतवती सा तत्र वाचो निवृत्ताः ॥ 23 ॥
श्रुत्वा नामापि यस्य स्फुटघनपुलकं जायतेऽङ्ग समन्ता-
द्दृष्ट्वा यस्याननेन्दुं भवति वपुरिदं चन्द्रकान्तानुकारि ।
तस्मिन्नागत्य कण्ठग्रहनिकटपदस्थायिनि प्राणनाथे
भग्ना मानस्य चिन्ता भवति मम पुनर्वज्रमय्याः कदा नु ॥ 24 ॥
क्व प्रस्थितासि करभोरु घने निशीथे
प्राणाधिको वसति यत्र जनः प्रियो मे ।
एकाकिनी वद कथं न विभेषि बाले
नन्वस्ति पुङ्खितशरो मदनः सहायः ॥ 25 ॥
THE TEXT
1. (a) S कटकामुखः Rdr 2 K - खटिकां. Some B MS पाणिपद्मः (b) S संवलितो मृडान्याः.
2. (a) S आदधानों-; (b) S सभ्रमेण.
3. (b) S खेदाम्भसां जालकैः ; (d) A Rdr हरिहरस्कन्दादिभिः.
4. (a) K अलसलुलितैः . Some Dev. MS स्नेहार्द्रार्द्रैः ; (d) Some Beng. MS त्वयाद्य निरीक्ष्यते .
5. Rr omits. (a) R निक्षिप्य निक्षिप्य ; (b) V फूत्कृत्य फूत्कृत्य च ; (c) Some Dev. MS पिशुनोपचारवचनैः .
6. (a) R Rdr भवता चेयं ; W Rr भवतैवेयं ; (c) A दुःसह एव. Rdr 1.2 शान्तवादैः ; (d) Rr हे निःशङ्क K विमुक्तकण्ठकुहरं.
8. (a) R Rr नार्यस्तन्वि हठाद् ; (b) S पुनस्तासां. Some Dev. MS तत्किं रोदिषि किं च ताम्यसि ; (c) S तादृक् प्रियः . Rr केलिरुचिः प्रसन्नहृदयस्तादृक् ; some Dev.MS युवा सुहृदयः ; (d) Some Dev. MS नो कर्कशकर्कशैः .
9. (b) S नीत्वा मोहनमन्दिरं ; WRdr नीत्वा वासनिकेतनं. S स्वैरं सखीनां ; (c) Rdr Rr भूयो नैवमित ; (d) the solecism रुदन्त्या occurs in S Rdr 1.2 and Dasarupaka (N.S.P. ed.) ; रुदत्या in other MSS.
10. (b) Rr कार्यातितरां ; (c) R Rr निपतद्- (or विगलद्-) धाराश्रुणा. Some Dev. MS लज्जानिश्चल-.
11. Rr omits. (b) S तत्सल्लापकुतूहला-; (c) V सपुलस्वेदो-; (d) V मत्कञ्चुकी-.
12. (a) SR Rdr 3 परेऽथवा ; (b) V त्वमुपेष्यसि ; R त्वमेष्यसि (sub-metric). Dasrupaka दिनकृति गते वास्तं नाथ त्वमद्य समेष्यसि ; (d) S बाला वाक्यैः सबाष्पझलझलैः ; R notes : झलज्झलैरिति वा पाठः .
13. Rr omits. (b) शिरस्याज्ञा दत्ता ; Rdr 2 आज्ञाभ्यस्ता. S प्रतिवचनमप्यालपसि च ; R प्रतिवचनमुच्चैः प्रणमितं ; Rdr 1 प्रतिवचनवत्यानतिरपि ; Rdr 2.3 corrupt ; some Ben. MSS प्रतिवचनमप्यानतिमति ; (c) S दृष्टिः शैथिल्यं भजत इति ; (d) S निगूढन्तः कोपे ; R o कोपत्. S संप्रतिरियं.
14. (d) E (except Rdr 3 ) V त्यक्त्वा शय्यां by trsp ; (c) S सरभसध्वस्त-. R Rr- घृणे जने ; (d) R Rr चेतः प्रयाति.
15. (a) Rdr 3 जल्पितं (for जल्पतोः) ; (b) W श्रुत्वैव तारं ; S तस्यातिमात्रं ; E(except Rdr) तस्योपहारं ; (c) R Rr कर्णालंकृति-. A चञ्च्वाः पुरो ; K Rdr 3 चञ्चोः पुटे ; Rdr 1.2 चञ्च्वाः पुटे ; (d) S व्रीडार्ता विदधातिं
16. (b) E (except Rdr) किं लब्धं चटुल त्वयेह नयता. Some S MSS एनां दशां ; (c) S व्यतिकरासक्ताङ्ग- ; (d) S मम तैलपङ्कमलिनैः.
17. Rr omits. (a) S एकत्रासनसंगतिः ; (b) A and Some Dev. MS ताम्बूलाहरण- ; (c) Rन विश्रुतः ; Rdr. 1.2 न विस्मृतः .
18. Rr omits. (a) S Rdr 2.3 एकत्रासनसंगते ; (b) W Rdr नयने निमील्य ; (c) S तिर्यग्वकित- ; R ईषद्वकिम-. V सपुलकप्रेमो- ; Rdr सपुलकां प्रेमो-.
19. Rr omits. (a) V चरणपतित-. A Rdr प्रत्याख्यानप्रसाद- ; (b) S उक्त्या ; R उक्त्वा ; (c) A स्तनार्पित- ; R Rdr स्तनस्थित- ; (d) S सलिलक्लिन्ना ; R o च्छलाद् (against metre). RK निवेशिता.
20. Rr omitsx (a) W Rdr नद्ध ; R रुद्ध ; (b) Some Beng. MS लोलाक्षी, and प्राणेश्वरे पृच्छति ; (c) S सुप्तिमपीह लुम्पति ममेत्यारोपित-. R Rdr सुप्तं (for स्वप्तुं) ;(d) some Beng. MS पर्यस्त-. R स्वपिति च्छलेनं R तथा (for तया).
21. Rr omits. (b) S पराङ्मुखग्लपितया ; R पराङ्मुखं शयितया ; Rdr o शठतया ; (c) Some Beng. MSS आवेशाद्. Rdr 3 अवधीरितप्रिय-. S तत्क्षणं ; (d) W भून्म्लान. R इवैषमन्द- (for इवेत्यमन्द-). V वीक्षितं.
22. (b) W Rdr 1.2 अन्योन्यं हृदयस्थिते ; (d) S रभसव्यावृत्तकण्ठग्रहं ; R रभसं व्यासक्तकण्ठग्रहं ; Rdr रभसं (रभस-Rdr 3) कण्ठग्रहोऽनुष्ठितः .
23. (a) A पश्येयमिति पाठो युक्तः ; K पश्येयमिति वा पाठः. Rdr 3 प्रपत्स्यत. K Rdr समालम्बितं ; (b) R Rdr किं मामालपतीत्ययं ; Rr किं मां मालपतीo ; (d) S मुक्तश्च बाष्पस्तया.
24. (a) Some Dev. MS तन्व्याः कर- ; (c) S तदा (for तया). W प्रान्तध्वजपुट- ; Rdr- प्रान्ते धृतपुट-. Rdr महता (for सहसा).
25. (a) W Rdr स्तनयुग- ; (b) S गोपायते ; (d) R Rr तन्व्यापि ; W Rdr तस्याश्च.
26. (b) Some Beng. MS शोभां (for लक्ष्मीं). V तद्वेणिका- ; (c) V सस्मितवधू- ; R सस्मितमुखी.
27. (b) R transp. a and b.
28. (a) V प्राणेशप्रणयापराध- ; W Rdr सा पत्युः प्रथमेऽपराध- ; (b) S Rdr भ्रमाङ्गवलना वकोक्ति- ; K and some Beng. and Dev. MS o वलनं and o रचनं ; (c) Rdr 3 स्वच्छैरक्त-. Some Dev. MS khanhenf- ; (d) W Rdr लोलोदकैरश्रुभिः .
29. (a) R Rr भव्यालापैः . R खलु (for प्रियः ; (c) V तदा रूढं ; R Rr तथाभूतं ; (d) Rdr प्रकृतिकृपणे ; Rr o चपले.
30. (a) Some Beng. MS तथा (for कृता). Some Dev. MS जघनस्थले ; (b) R क्वणन्मणि-; (c) R प्रियमभिसरसि मुग्धे त्वं समाहत- ; R Rr समाहत- ; Rdr 1.2 o समाहित- ; (d) V किमिमधिकत्रासोत्कम्पा दिशः समुपेक्षसे ; Rdr-त्रासोत्कम्पा (Rdr 3 -त्रोसोत्कम्पं)दिशः परिवीक्षसे. Some Beng. MS. दिशो मुहुरीक्षसे.
31. (a) K Rdr 3 उपागतोऽसि. Rdr चोन्निद्रता ; (b) W Rdr गौरवं व्यपगतं. W Rdr 3 प्रोत्पादितं ; Rdr 1.2 प्रत्यागतं . R मन्दायां मयि गौरवव्यपगमाद् ; (c) V किं मुग्धेन कृतं त्वया रमणभीर्मुक्ता मया ; R Rr किं मुग्धेन मया कृतं रमणधीर्मुक्ता त्वया ; (d) R दुःस्थं तिष्ठसिं Rdr 1.2 पश्य (for यच्च).
32. (b) V Rdr 3 क्षणमास्थितं ; (c) S सर्वैः समं प्रस्थितं ; (d) S किमुत्सृज्यते33. (a) W संदष्टेऽधरपल्लवे ; (b) Some Dev. MS o भ्रूलतं ; (c) S सपुलकं (for सरभसं) . Rdr 3 कामिनी ; (d) R मुधैव ; Rr वृथैव (for श्रमाय).
34. (b) S Rdr प्रेमावेशतया. R प्रेमावासिया. S Rdr तरलया ; (c) Some Dev. MS रोमाञ्चतैः ; (d) Rr तत्कालयोग्यकमैः .
35. Rr omits. (a) S विग्रहो य6 ; (b) Rdr यत्रान्योन्यं. E (except Rdr) यत्र दृष्टिः प्रसादः ; Vema notes: यत्र दृष्टिः प्रसाद इति पाठः . R वैषमं ; (d) R न हि मे
36. (a) E (except Rdr 3) कोपं ; Sp, Sbh मानं.
37. (a) W Rdr कुचप्रोद्भूत- ; V-रोमोद्गमात् ; (b) S विगलत्काञ्चीप्रदेशाम्बरा ; (d) A किं (for मे) . A suggests किं म्लाना शयिता नु किं मनसि मे as an emendation because of the word मृता. Rdr (except Rdr 3 ) लिखिता (for नु मृता).
38. (a) Some Dev. MS स्थगयति मुखं ; (b) Rdr 3 बलाश्लेषं. Some Beng. MS अपनयति गात्राणि ; (c) S अशक्ता चाख्यातुं ; (d) Rdr ह्रिया यात्यन्यत्र.
39. (a) S प्रेमावेशे.
40. (a) S उत्कण्ठार्त्या ; A Rdr अत्युत्कण्ठा ; (c) A कथमिव. V Rdr याते दीर्घे by trsp ; (d) Rdr 3 कथा यूनोर्बह्वी by trsp.
41. (a) Some S MSS तोरणमालिका or चन्दनo ; (c) Some Dev. MS स्वेदवताo. R Rdr पयोधरयुगेना-; Rr पयोधरघटेन. V दत्तं and अर्ध्यं.
42. (a) S यापिते प्रिय- ; RK Rdr 3 शायिते प्रिय- ; Rr शामिते प्रिय-; Rdr 1 शापितेऽपि हि ; (b) Some S MS तत्संगमापेक्षया ; (c) V Rdr 3 दुष्कर एष इत्यति-. W Rdr 2 अतितरामुद्दामहासं ; Rdr 1 oमुच्छम्य हास्यं ; (d) W आश्लिष्य (for आलिङ्ग्य).
43. (a) Rr प्रणतं ; (b) Rdr 1.2 द्रुतं (for आगतं) ; (c) S Rdr प्रतीपवचना. S Rr Rdr 3 समं भाषते ; (d) E (except Rr) तस्याः (for तन्व्याः). some S MS रम्यकमः.
44.(a) W Rdr यावन्त्येव पदा-. Rdr अलीकपिशुनैः. R Rr शिभिता (for पाठिता) ; (b) K कृतागसोऽद्भुततरं. W Rr Rdr 1.2 संलप्य ; Rdr 3 संभाष्य ; (c) W प्रारेभे. R Rr पुरतो यथा मनसिजस्याज्ञा.
45. (a) K Rr Rdr 1.2 विचलितं ; some Dev. MS विलुलितं ; (b) A K Rdr 3 Rr कोपाञ्चितभ्रूलतं ; R किंचिन्नत o ; Rdr 1.2 किंचाञ्चित o ; (c) S बाष्पाम्बुपूर्णं क्षणात्46. (a) R Rr कथमिदं. V Rdr कम्पश्च कस्मादयं ; W कस्मादकस्मादिदं (for कम्पश्च कस्मात्कुतो) ; (b) Rdr 3 इदं (for इति) ; (c) E स्वभावजमिति ; (d) E (except Rdr 3) चलितया ; V दयितया.
47. (a) S कथाश्रयां.
48. (a) Rr वारिभरोद्भुतोद्भटरवो- ; some Beng. MS. वारिधरागमेऽम्बुदरवो ; (b) R Rr आत्ममनोजदुःख- ; some Beng. Ms. आत्मविनोद o ; (c) Rdr प्रवचनालापस्य.
49. (a) Rdr 3 क्षीबाभिसार्येर्ष्यया ; Rdr 1.2 क्षीबाभिचार्य प्रिया ; (c) Rdr 1.2 सरागनयना. S Rdr सा मुञ्च मुञ्चेति मां ; (d) R कोपात्प्रस्फुरिताधरा ; S कोपप्रस्फुरिताधरं.
50. (a) Rr त्वयाद्य गृहागतः ; (d) R दुर्जातीनां. Rr लभस्व (for सहस्व). Some Beng. MS फलं रुषां by trsp.
51. (a) Rdr 1 कोपात् (for रोषात्).
52. (b) R वदनविधुतिः ; Rdr 1.2 o विहृतिः or o विकृतिः ; some Beng. MS o विरतिः ;(d) Some S MS व्रजति (for वहति).
53. Rdr 1.2 omit. (b) R Rr ताम्बूलरागोदयः.
54. (a) S वान्तैः (for लोलैः). Rdr 1.2 प्रिया ; (b) S अन्यैस्ता ; Rdr 1.2 धन्यास्ता ; (c) S धन्याहं ; Rdr 3 तुष्टाहं. Rdr 1.2 तव (for व्रज). W Rr Rdr सुदिवसः ; (d) Some Dev. MS प्रेमोचितं. Rdr 3 ईरितं. W Rdr प्रिय मया तन्निर्गतः.
55. (a) S द्वारदेशे स्थितं ; (b) E (except Rdr) W स्वयं ; S मुहुः (for तया) ; (c) R अम्बुदाति- (comm. अम्बुदालि-). Rr क्षणात् ; some Dev. MS शनैः (for शठः) ; (d) some Deev. and Beng. MS संभृत or पूरित (for कल्पित) . R (comm. रुद्धः) Rr बद्धः. Rdr 1 पतिः (for प्रियः).
56. (a) S कामं (for वामः) ; A (printed ed.) Rdr 1 तनूकुरुते ; some Dev. MSS करोति तनुं तनुं or तनुं तनुते तनुं ; (b) R Rr Rdr 1 चासौ ; S स्वैरं (for चायं).
57. (a) Rdr 3 पादासक्ते शिरसि निहितो. S (except V as in text) नैव (for कैव). W Rdr 3 मुग्धे (for कान्ते) ; (b) R Rr सन्मार्गस्थे प्रणयिनि. W Rdr कोऽपराधोपरोधः ; (c) S तन्व्या परिजनगिरा कोपवेगे प्रशान्ते ; R Rr तस्याः परिजनकथाकोपवेगोपशान्त्यै ; (d) R Rr न प्रयातं ; Rdr 1 नो निवृत्तं (for न प्रवृत्तं).
58. (a) W तथाभूद्. Rr यदासीद् ; R Rr नियतं (for प्रथमं). E Rdr अविभक्ता ; (b) S R Rdr 1 ततो नु ; Rr तदा न. S R Rdr 3 वयमपि हताशाः प्रियतमाः . Rr न तादृक् (for हताशा) ; (d) S हतानां (for मयाप्तं).
59. (a) S अखिलं कालं ; (c) V सख्येदं ; (d) V स्थितो हि सखि मे ; R Rr स्थितो ननु स मे ; Rdr 1 स्थितोऽपि ननु मे ; Rdr 2.3 स्थितोऽयमधुना.
60. (a) Rdr 1.2 हतो वनितया ; (b) S प्रेयान् (for कश्चित्) ; (c) S कान्ता (for मुग्धा). W कुड्मलिताननेन्दु. W Rdr ददती. R Rr तस्य सा ; Rdr तत्क्षणं (for तत्र सा) ; (d) R Rr धूर्ततया च वेपथुमती ; Rdr oतया कपोलफलके. S तदा (for ऽथवा). V तेनाभवत् ; some S MS तेनाधरे.
61. (a) S कृशां तनुं ; (b) Rdr खलु (for सखि). A चपलप्रेम्णा ; (c) V and some S MSS मानाटोपात् (comm. कोपात्-) ; R Rdr मानोद्रेकात् ; Rr मानोद्वेगात् ; (d) W निरन्तरं ; R ससंभ्रमं ; Rr न शङ्कितं (for सशङ्कितं). R उदीक्षिता (hypermetric) ; some Beng. MS सशङ्कमुदीक्षिता.
62. (a) W Rdr गाढश्लेष-. K Rdr प्रसङ्गादियं ; (b) R कठिनेत्यारोप्य ; (c) W Rdr -ग्रहपूर्वं.
63. (a) V कृतप्रत्यापत्तौ ; R प्रत्यावृत्ते ; W कृतप्रत्याख्याने ; some S and Dev. MS प्रत्यासत्तौ ; (b) R Rr अश्रु तत् ; Rdr 1 अश्रुमत् ; (c) Rdr 1 गोत्र (for श्रोत्र). S -प्राप्तिं विशङ्क्य ; Rdr 1.2 प्राप्तिप्रसाद- ; (d) W विगलित- ; R Rr प्रचलित- ; Rdr विचलित-.
64. (a) R Rr आदृष्टिप्रसरं ; (b) S विश्रान्तेषु पथि-. R Rr समुन्मीलति (for समुत्सर्पति) ; (c) Some Beng. MSS and Rdr 1 गत्वैकं or Rdr 2 कृत्वैकं. Rdr 2 सशुचा पदं प्रतिपदं पान्थ- ; Rdr 3 गच्छन्त्या निलयं मुहुः प्रितपदं. Rr सहसा (for सशुचा) ; (d) R सोऽभूद्. Rdr 3 अमन्दचलित-. R वीभितः.
62. (a) W Rdr गाढश्लेष-. K Rdr प्रसङ्गादियं ; (b) R कठिनेत्यारोप्य ; (c) W Rdr -ग्रहपूर्वं.
63. (a) V कृतप्रत्यापत्तौ ; R प्रत्यावृत्ते ; W कृतप्रत्याख्याने ; some S and Dev. MS प्रत्यासत्तौ ; (b) R Rr अश्रु तत् ; Rdr 1 अश्रुमत् ; (c) Rdr 1 गोत्र (for श्रोत्र). S -प्राप्तिं विशङ्क्य ; Rdr 1.2 प्राप्तिप्रसाद- ; (d) W विगलित- ; R Rr प्रचलित- ; Rdr विचलित-.
64. (a) R Rr आदृष्टिप्रसरं ; (b) S विश्रान्तेषु पथि-. R Rr समुन्मीलति (for समुत्सर्पति) ; (c) Some Beng. MSS and Rdr 1 गत्वैकं or Rdr 2 कृत्वैकं. Rdr 2 सशुचा पदं प्रतिपदं पान्थ- ; Rdr 3 गच्छन्त्या निलयं मुहुः प्रितपदं. Rr सहसा (for सशुचा) ; (d) R सोऽभूद्. Rdr 3 अमन्दचलित-. R वीभितः.
62. (a) W Rdr गाढश्लेष-. K Rdr प्रसङ्गादियं ; (b) R कठिनेत्यारोप्य ; (c) W Rdr -ग्रहपूर्वं.
63. (a) V कृतप्रत्यापत्तौ ; R प्रत्यावृत्ते ; W कृतप्रत्याख्याने ; some S and Dev. MS प्रत्यासत्तौ ; (b) R Rr अश्रु तत् ; Rdr 1 अश्रुमत् ; (c) Rdr 1 गोत्र (for श्रोत्र). S -प्राप्तिं विशङ्क्य ; Rdr 1.2 प्राप्तिप्रसाद- ; (d) W विगलित- ; R Rr प्रचलित- ; Rdr विचलित-.
64. (a) R Rr आदृष्टिप्रसरं ; (b) S विश्रान्तेषु पथि-. R Rr समुन्मीलति (for समुत्सर्पति) ; (c) Some Beng. MSS and Rdr 1 गत्वैकं or Rdr 2 कृत्वैकं. Rdr 2 सशुचा पदं प्रतिपदं पान्थ- ; Rdr 3 गच्छन्त्या निलयं मुहुः प्रितपदं. Rr सहसा (for सशुचा) ; (d) R सोऽभूद्. Rdr 3 अमन्दचलित-. R वीभितः.
62. (a) W Rdr गाढश्लेष-. K Rdr प्रसङ्गादियं ; (b) R कठिनेत्यारोप्य ; (c) W Rdr -ग्रहपूर्वं.
63. (a) V कृतप्रत्यापत्तौ ; R प्रत्यावृत्ते ; W कृतप्रत्याख्याने ; some S and Dev. MS प्रत्यासत्तौ ; (b) R Rr अश्रु तत् ; Rdr 1 अश्रुमत् ; (c) Rdr 1 गोत्र (for श्रोत्र). S -प्राप्तिं विशङ्क्य ; Rdr 1.2 प्राप्तिप्रसाद- ; (d) W विगलित- ; R Rr प्रचलित- ; Rdr विचलित-.
64. (a) R Rr आदृष्टिप्रसरं ; (b) S विश्रान्तेषु पथि-. R Rr समुन्मीलति (for समुत्सर्पति) ; (c) Some Beng. MSS and Rdr 1 गत्वैकं or Rdr 2 कृत्वैकं. Rdr 2 सशुचा पदं प्रतिपदं पान्थ- ; Rdr 3 गच्छन्त्या निलयं मुहुः प्रितपदं. Rr सहसा (for सशुचा) ; (d) R सोऽभूद्. Rdr 3 अमन्दचलित-. R वीभितः.
62. (a) W Rdr गाढश्लेष-. K Rdr प्रसङ्गादियं ; (b) R कठिनेत्यारोप्य ; (c) W Rdr -ग्रहपूर्वं.
63. (a) V कृतप्रत्यापत्तौ ; R प्रत्यावृत्ते ; W कृतप्रत्याख्याने ; some S and Dev. MS प्रत्यासत्तौ ; (b) R Rr अश्रु तत् ; Rdr 1 अश्रुमत् ; (c) Rdr 1 गोत्र (for श्रोत्र). S -प्राप्तिं विशङ्क्य ; Rdr 1.2 प्राप्तिप्रसाद- ; (d) W विगलित- ; R Rr प्रचलित- ; Rdr विचलित-.
64. (a) R Rr आदृष्टिप्रसरं ; (b) S विश्रान्तेषु पथि-. R Rr समुन्मीलति (for समुत्सर्पति) ; (c) Some Beng. MSS and Rdr 1 गत्वैकं or Rdr 2 कृत्वैकं. Rdr 2 सशुचा पदं प्रतिपदं पान्थ- ; Rdr 3 गच्छन्त्या निलयं मुहुः प्रितपदं. Rr सहसा (for सशुचा) ; (d) R सोऽभूद्. Rdr 3 अमन्दचलित-. R वीभितः.
62. (a) W Rdr गाढश्लेष-. K Rdr प्रसङ्गादियं ; (b) R कठिनेत्यारोप्य ; (c) W Rdr -ग्रहपूर्वं.
63. (a) V कृतप्रत्यापत्तौ ; R प्रत्यावृत्ते ; W कृतप्रत्याख्याने ; some S and Dev. MS प्रत्यासत्तौ ; (b) R Rr अश्रु तत् ; Rdr 1 अश्रुमत् ; (c) Rdr 1 गोत्र (for श्रोत्र). S -प्राप्तिं विशङ्क्य ; Rdr 1.2 प्राप्तिप्रसाद- ; (d) W विगलित- ; R Rr प्रचलित- ; Rdr विचलित-.
64. (a) R Rr आदृष्टिप्रसरं ; (b) S विश्रान्तेषु पथि-. R Rr समुन्मीलति (for समुत्सर्पति) ; (c) Some Beng. MSS and Rdr 1 गत्वैकं or Rdr 2 कृत्वैकं. Rdr 2 सशुचा पदं प्रतिपदं पान्थ- ; Rdr 3 गच्छन्त्या निलयं मुहुः प्रितपदं. Rr सहसा (for सशुचा) ; (d) R सोऽभूद्. Rdr 3 अमन्दचलित-. R वीभितः.
65. (b) S गत्वा वासगृहं जडे ; (c) R Rr दृष्टास्मीत्य-. R Rdr 3 सत्वरतरं. V चेलाञ्चलं ; some S MS चीनाम्बरं ; Rr नीचाशुंकं. Rdr 1.2 व्याधूनयन्त्याम्बरं ; Rdr 3 व्याधूनयन्स्वाम्बरं ; (d) Some Dev. MS रतिलालसेन. Rr प्रदीपः क्षयं.
66. (b) R Rr त्वया मुग्धे (some Beng.MSS कान्ते) मानः ; Rdr 3 त्वयाकाले मानः. S तरले (for सरले). R Rr प्रेयसि कृतः ; (c) Rdr एते (for ह्येते). Rdr and some Dev.MS विरहदहनो- ; some Beng. MS प्रणयदहनो. Some Dev. MS दहनोद्भासितशिखाः .
67. (a) Some S MS पत्रालिः ; (b) Rr अमृतकल्पो- (some Beng. MS oसारो) ; (c) V स्तनतटीं ; (d) Rdr 1 निरुपरोधे.
68. (c) V (comm.) Rdr 1 (but the text reading in the rfepeated st.) परिरभ्य (forपरिचुम्ब्य) ; (d) Rdr 1 सहसा (for हसता). V बालाभवच्चुम्बिता.
69. (a) Rdr दृष्टः कातरया दृशा द्रुततरं ; (b) S अंशुअपल्लवे च ; (c) Rdr 3 सदा (for यदा). S इत्याक्षिप्य समस्तमेवम (some S MS मेतद) घृणो ; (d) Rdr 3 सर्वं (for पूर्वं).
70. Koke omits. (a) S -निबध्यमान-; Rr-विसंस्थूलेन (for -विनिश्चलेन) ; (b) V प्रत्याख्यात-. S प्रवृत्तः शठः ; Rdr 3 प्रवृत्तो यदा ; (c) R Rr लोचनैः (for ईक्षणैः); (d) S तन्व्यङ्ग्या स पुनस्तथा तरलया तत्रान्तरे वारितः .
71. Rdr 3 omits. (a) R रचितः (or गुणितः) ; (b) Rdr 1 मौनेऽपि योगः ; (c) Rdr (Rdr 3 missing) कर्तुमपीहितं धृतमिदं चेतः ; (d) Rdr (Rdr 3 missing) सज्जो (for बद्धो).
72. Rdr 3 omits. (c) S चरणाग्ररुद्ध-; R Rr कृत्वाश्रुपूर्णे दृशौ (Rr oश्रुपूर्णां दिशं) ; Rdr (Rdr 3 missing) o श्रुपुर्णां दृशं (for प्रोन्मृज्य सास्त्रे दृशौ) ; (d) S तथैव (for तथापि) . A पुनः ; K as in text ; Rr चिरं (for मुहुः). Dr तथापि किमपि ध्यात्वा चिरं.
DOUBTFUL STANZAS
*Stanzas which are exoluded by one recension only, as indicated.
1. S omits. (c) Rdr विमुक्तकण्ठकरुणं रात्रौ ; (d) R व्रजतो जनस्य (for पुनरध्वगस्य).
2. S omits. (a) R गता (contrary to metre) ; Rdr वाता (for याता ) ; (b) Rdr 1.2 रुचो (for भरो).
3. S omits. (d) E (except Rdr 3) जनाश्रितैः .
4. E (except Rdr) omits. (a) Rdr 1.2 नो यातोऽनुनयेन ; (b) Rdr 1.2 विमुह्य (for विषह्य). S हृदये (for विषमं). W भृतः (for धृतः) ; (c) W Rdr 1 निहितयोः ; (d) S संभेदे सपदि स्मितव्यतिकरे.
5. S omits. ; (a) Some Beng. MS तस्याः (for तन्व्याः) ; (c) some Dev. MS परिणतिं ; (d) R व्यक्तं.
6. E (except Rdr) omits. (b) S सललितां ; Rdr सुरुचिरां (for सुरचितां). Rdr 1.2 नो लज्जया (for न व्रीडया) ; (c) S लोको ह्येष (for लोकोऽप्येष) ; (d) Rdr 1.2 दीर्धोऽनुरागानलः.
7. S omits. (c) A किं (for मे) ; (d) W नेत्रतां किमु कर्णतां. Rdr उत (for किमु).8. E (except Rdr) omits. (a) W Rdr 1.2 लोलद्भ्रूलतया. Rdr 1 विपक्षदिशि दृग्न्यासे. S Rdr 3 विधूतं (for ऽवधूतं) ; (b) S तद्वृत्तान्तविदीक्षणे. S विलक्षस्थितः ; Rdr 3 विलक्ष्य स्थितः ; (c) S ई षताभ्रकपोलकान्तिनि. V Rdr 1.2 दृष्ट्वा (for दृष्ट्या). S नतः (for गतः).
9. S omits. Rdr trsp. (b) and (c) and read for (b) हे मातः कथया कृतं त्वपरया नाहं क्षमा सांप्रतं ; (b) R स्वेदकणाञ्चितं ; (d) A केनात्र. Rdr 3 निरुप्य शंस निपुणो. K Rdr 3 समाधीयते.
10. S omits. (c) R रथ्यालिवीक्षण- ; Rr रथ्यानिरीक्षण-. R लोलदृष्टेः (for दीनo) ; (d) R छनच्छनिति ; Rr छसच्छसिति.
11. E (except Rdr) omits. (a) S विलासविधुरं. Rdr 1 लम्बालकान्तं मया ; Rdr 3 चूडालकान्तं. S चालसं (for सालसं) ; (b) S कान्तिमधुरं प्राप्ते ; A कान्तिरभसप्राप्ते ; (c) S रतिकेलिदत्तरभसं ; W केलिकालसरसं ; (d) A यत्पीतं. S मया मुखमिदं. A वक्तुं न तत्पार्यते.
12. E (except Rdr 1.2)omits. (a) S विलम्बितमेखला (for विमार्गति वाससी) ; (d) S रम्यं तन्वी पुनः पुनरीक्ष्यते ; K ईक्ष्यत इति वा पाठः.
13. E (except Rdr 1.2) omits. (c) S दुर्जनप्रलपितं ; S कर्णे भृशं ; Rdr 1.2 कर्णे विषं ; (d) S Rdr 1.2 दुःखानुवृत्या . Rdr 1.2 यतः required by comm. for पुनः.
14.E (except Rdr 1.2) omits. (a) W उन्मथ्यते ; (c) Rdr 1.2 कण्ठः (for अङ्गं). W तदा (for तथा).
15. E (except Rdr 1.2) omits. (a) Rdr चान्यस्य or नान्यस्य ; (ab) S अद्यारभ्य न हि प्रिये पुनरहं मानस्य वा भाजनं गृह्णीयां विषरूपिणः शठमतेर्नामापि ; (c) S किं तेनैव. Rdr 1.2 धवलस्पष्टा ; S किरणस्पष्टा ; (d) S नैकोऽपि (for एको वा).
16. E (except Rdr 1.2) omits. (a) S सास्त्रालापा ; Rdr 1.2 सान्त्वालापा or शान्ताo ; (c) W इति हि चपलो माना- ; Rdr 2 इति च बहुलो माना-. S च (for हि) ; (d) Rdr 1.2 दयिता कान्ता.
17. S Rdr 3 omit. (a) W नयनयोः ; (b) W Rdr 2 सिक्तो वियोगोद्भवः ; Rdr 1 स कोधयोगोद्भवः ; (c) Rdr 1 सिक्तः ; Rdr 2 मन्योः (for मन्ये) ; Rdr 1 inter.lin. विनाश्यमान-. Rdr 1.2 मुखाद् ; (d) R श्वासामोद-समाकुलालिनिकर-. Rdr 1.2 रम्य (or मन्ये) श्वासनिरन्तरोष्णसरणि-.
18. E (except Rdr 1.2) omits. (b) W सरसहृदया ; (d) K Rdr 1.2 धम्मिले स च सखि मया; S गृहीत्वा धम्मिल्लं मम सखि निपीतोऽधरसः .
19. W omits. (c) Rdr 1.2 प्रणयात्तकोपात्; Rdr 3 प्रणयान्तकोपात् ; (d) Rdr नोपेक्षितो or नोपेभ्यते.
20. R omits. (a) S दीर्धिका (or वापिका as in text) ; W Rdr वाटिका. Rr सा वीक्ष्याङ्गणवाटिका-; (b) Rdr 3 उद्यत्सान्द्र-. S रणद् ; Rdr पतद् (for रटद्) ; (c) Rdr नन्वेषा तनुं ; Rr आनम्राननं. Rr Rdr 3 बाला स्फुटं ; (d) Rdr निरोधि. Rr Rdr श्वासोद्गमं.
21. E (except Rdr 1.2) omits. (a) S चक्षुःप्रीत्या निषण्णे ; Rdr 1.2 oप्रीतिप्रसन्ने. S परिचयाच्चिन्त्यमानेऽभ्युपाये ; (b) S याते रागे विवृद्धिं प्रविसरति (or प्रसरति च) गिरां विस्तरे दूतिकायाः ; Rdr 1.2 पश्चाद्योगे गुरुत्वं प्रविकसिततरां (Rdr 2 विकसति नितरां) गोचरे दूतिकायाः ; (c) S दूरे स ; (d) Rdr 1.2 संदधाति (for संतनोति).
22. E omits. (a) S स्वयं तत्क्षणात् ; (b) S तद्वासः श्लथ- ; (c) W सांप्रतं (for केवलं) ; (d) S कोऽसौ कास्मि रतं च किं कथमिति.
23. W Rdr omit. (a) R Rr संभृतां (for सास्त्रया). R विष्ट्या (for दृष्ट्या) ; (b) R प्रसरसि ; (d) R Rr तदनु (for यदनु). R यत्र (for तत्र).
24.A suspects this st. to be interpolated, but includes it ; Koka and Surya omit. (a) Some S MSS प्रियस्य (for - पि यस्य). Rdr 3 स्मृत्वा (for श्रुत्वा). S जायते यत् (for जायतेऽङ्गं), (c) R Rr कण्ठग्रहणसरभसस्थायिनि ; (d) Rdr 1.2 भग्ना नो मानचिन्ता. W Rdr भवति मयि पुनर्वज्रमय्यां कदाचित्. S कथंचित् (for कदाचित्).
25. A considers this st. to be interpolated but includes ; K omits : Ramananda says : अयं श्लोकोऽत्र प्रक्षिप्त इति बहवः ; (b) S प्राणेश्वरो वसति यत्र मनः प्रियो मे. Rr प्राणाधिपो (for प्राणाधिको) ; (c) A वत कथं .
N.B:- With regard to Nos. 4, 6, 8, 11-16, 18, 20, 21 (12 stanzas) which are not excluded by the particular recension in its entirety it is possible to entertain some doubt. But since the recension in question in E which is not homogenous, we have accepted the printed text of R as the standard.
———————————————————————
]