कर्पूरादिस्तोत्रम्

[[कर्पूरादिस्तोत्रम् Source: EB]]

[

कर्पूरादिस्तोत्रम्

..
कर्पूरादिस्तोत्रम्..

श्रीगुरवे नमः .
ॐ नमः परमदेवतायै .
.
श्रीकर्पूरादिस्तोत्रम्

कर्पूरं मधमान्त्यस्वरपरिरहितं सेन्दुवामाक्षियुक्तं
बीजं ते
मातरेतत्त्रिपुरहरवधु त्रिःकृतं ये जपन्ति .

तेषां गद्यानि पद्यानि च मुकुहुहरादुल्लसन्त्येव वाचः

स्वच्छन्दं
ध्वान्तधाराधरुरुचिरुचिरे सर्वसिद्धिं गतानाम्.. १..

ईशान् सेन्दुवामश्रवणपरिगतो बीजमन्यन्महेशि
द्वन्द्वं ते
मन्दचेता यदि जपति जनो वारूमेकं कदाचित् .

जित्वा वाचामधीशं धनमपि चिरं मोहयन्नम्बुजाक्षी
वृन्दं
चन्द्रार्धचूडे प्रभवति स महाघोरबालावतंसे.. २..

ईशो वैश्वानरस्थः शशधरविलसद् वामनेत्रेण युक्तो
बीजं ते
द्वन्द्वमन्यद् विगलितचिकुरे कालिके ये जपन्ति .

द्वेष्टारं घ्नन्ति ते च त्रिभुवनमपि ते वश्यभावं
नयन्ति
सृक्कद्वन्दास्रधाराद्वयधरवदने दक्षिणे त्र्यक्षरेति.. ३..

ऊर्ध्वे वामे कृपाणं करकमलतले छिन्नमुण्डं तथाधः
सव्ये
चाभीर्वरं च त्रिजगदघहरे दक्षिणे कालिके च .

जप्त्वैतन्नाम ये वा तव मनुविभवं भावयन्त्येतदम्ब
तेषामष्टौ
करस्थाः प्रकटितरदने सिद्धयस्त्र्यम्बकस्य.. ४..

वर्गाद्यं वह्निसंस्थं विधुरतिललितं तत्त्रयं कूर्चयुग्मं

लज्जाद्वन्द्वं च पश्चात् स्मितमुखि तदधष्ठद्वयं योजयित्वा .

मातर्ये ये जपन्ति स्मरहरमहिले भावयन्तः स्वरूपं
ते
लक्ष्मीलास्यलीलाकमलदलदृशः कामरूपा भवन्ति.. ५..

प्रत्येकं वा द्वयं वा त्रयमपि च परं बीजमत्यन्तगुह्यं

त्वन्नाम्ना
योजयित्वा सकलमपि सदा भावयन्तो जपन्ति .

तेषां नेत्रारविन्दे विहरति कमला वक्त्रशुभ्रांशुबिम्बे
वाग्देवी
देवि मुण्डस्त्रगतिशयलसत्कण्ठि पीनस्तनाढ्ये.. ६..

गतासूनां बाहुप्रकरकृतकञ्चीपरिलस-
न्नितम्बां दिग्वस्त्राम्
त्रिभुवनविधात्रीं त्रिणयनां .

श्मशानस्ते तल्पे शवहृदि महाकालसुरत-
प्रयुक्तां त्वाम्
ध्यायन् जननि जडचेता अपि कविः .. ७..

शिवाभिर्घोराभिः शवनिवहमुण्डास्थिकरैः
परं सम्कीर्णायाम्
प्रकटितचितायां हरवधूम् .
प्रविष्टां
सम्तुष्टामुपरिसुरतेनातियुवतीं
सदा त्वां ध्यायन्ति क्वचिदपि

न तेषां परिभवः .. ८..

वदामस्ते किं वा जननि वयमुच्चैर्जडधियो
न धाता नापीशो
हरिरपि न ते वेत्ति परमम् .

तथापि त्वद्भक्तिर्मुखरयति चास्माकममिते
तदेतत्क्षन्तव्यं न
खलु
पशुरोषः समुचितः .. ९..

समन्तादापीनस्तनजघनधृघौवनवती
रतासक्तो नक्तं यदि
जपति
भक्तस्तव मनुम् .

विवासास्त्वां ध्यायन् गलितचिकुरस्तस्य वशगाः
समस्ताः
सिद्धौघा भुवि चिरतरं जीवति कविः .. १०..

समाः सुस्थीभूतो जपति विपरीतां यदि सदा
विचिन्त्य त्वाम्
ध्यायन्नतिशयमहाकालसुरताम् .

तदा तस्य क्षोणीतलविहरमाणस्य विदुषः
कराम्भोजे वश्या
पुरहस्वधू सिद्धिनिवहाः .. ११..

प्रसूते सम्सारं जननि भवती पालयति च
समस्तं क्षित्यादि
प्रलयसमये स.म्हरति च .

अतस्त्वं धातासि त्रिभुवनपतिः श्रीपतिरपि
महेशोऽपि प्रायः
सकलमपि किं स्तौमि भवतीम् .. १२..

अनेके सेवन्ते भवदधिकगीवार्णनिवहान्
विमूढास्ते मातः किमपि

हि जानन्ति परमम् .

समाराध्यामाद्यां हरिहरविरिञ्चादिविबुधैः
प्रपन्नोऽस्मि
स्वैर.म्
रतिरससमहानन्दनिरताम् .. १३..

धरत्रि कीलालं शुचिरपि समीरोऽपि गगनं
त्वमेका कल्याणी
गिरिशरमणी कालि सकलम् .

प्रसन्नां त्वं भूया भवमनु न भूयान्मम जनुः .. १४..

श्मशानस्थः सुस्थो गलितचिकुरो दिक्पटधरः
सहस्रं त्वकार्णा.म्
निजगलितवीर्येण कुसुमम् .

जप.म्स्त्वत्प्रयेकं मनुमपि तव ध्याननिरतो
महाकालि स्वैरं स
भवति धरित्रीपरिवृढः .. १५..

गृहे सम्मार्ज्यन्या परिगलितविर्यं हि चिकुरं
समूलं मध्याह्ने
वितरति चितायां कुजदिने .

समुच्चार्य प्रमेणा मनुमपि सकृत्कालि सततं
गजारूढो याति
क्षितिपरिवृढः सत्कविवरः .. १६..

स्वपुष्पैराकीर्णं कुसुमधनुषो मन्दिरमहो
पुरो ध्यायन्ध्यायन्
यदि जपति भक्तस्तव मनुम् .

स गन्धर्वश्रेणीपतिरपि कवित्वामृतनदी-
नदीनः पर्यन्ते
परमपदलीनः प्रभवति .. १७..

त्रिपञ्चारे पीठे शवशिवहृदि स्मेरवदना.
म्
महाकालेनोच्चैर्मदनरसलावण्यनिरताम् .

समासक्तो नक्तं स्वयमपि रतानन्दनिरतो
जनो यो ध्यायेत्त्वामयि
जननि स स्यात् स्मरहरः .. १८..

सलोमास्थि स्वैरं पललमपि मार्जारमसिते
परं चोष्ट्त्र.म्
मैश.म्
नरमहिषयोश्छागमपि वा .

बलिम् ते पूजायामयि वितरतां मर्त्यवसतां
सतां सिद्धिः
सर्वा
प्रतिपदमपूर्वा प्रभवति .. १९..

वशी लक्षं मन्त्रं प्रजपति हविष्याशनरतो
दिवा
मातर्युष्मच्चरणयुगलध्याननिपुणः .

परं नक्तं नग्नो निधुवनविनोदेन च मनुं
जपेल्लक्षं स स्यात्
स्मरहरसमानः क्षितितले .. २०.
.
इदं स्तोत्रं मातस्तव मनुसमुद्धारणजनुः
स्वरूपाख्य.म्
पादाम्बुजयुगलपूजाविधियुतम् .

निशार्धं वा पूजासमयमधि वा यस्तु पठति
प्रलापस्तस्यापि
प्रसरति कवित्वामृतरसः .. २१..

कुरङ्गाक्षीवृन्दं तमनुसरति प्रेमतरलं
वशस्तस्य क्षोणीपतिरपि
कुबेरप्रतिनिधिः .

रिपुः कारागारं कलयति च तं केलिकलया
चिरं जीवन्मुक्तः
प्रभवति स भक्तः प्रतिजनुः .. २२..

इति श्रीमन्महाकालिविरचितं श्रीमद्दक्षिणकालिकायाः
स्वरूपाख्यं स्तोत्रं समाप्तम्

]