श्रीभक्तिरसामृतसिन्धुः

[[श्रीभक्तिरसामृतसिन्धुः Source: EB]]

[

श्रीलरूपगोस्वामिविरचित-

श्रीश्रीभक्तिरसामृतसिन्धुः॥

[१]
भगवद्भक्तिभेदनिरूपकः

**
पूर्वविभागः।**

[१.१]
सामान्यभक्तिः
प्रथमलहरी

श्रीश्रीराधागोविन्ददेवौ विजयेते

अखिलरसामृतमूर्तिः प्रसृमररुचिरुद्धतारकापालिः ।
कलितश्यामाललितो राधाप्रेयान् विधुर्जयति ॥ ऋBह्र्स्_१,१.१ ॥
हृदि यस्य प्रेरणया प्रवर्तितोऽहं वराकरूपोऽपि ।
तस्य हरेः पदकमलं वन्दे चैतन्यदेवस्य ॥ ऋBह्र्स्_१,१.२ ॥
विश्राममन्दिरत्या तस्य सनातनतनोर्मद्ईशस्य ।
भक्तिरसामृतसिन्धुर्भवतु सदायं प्रमोदाय ॥ ऋBह्र्स्_१,१.३ ॥
भक्तिरसामृतसिन्धौ चरतः परिभूतकालजालभियः ।
भक्तमकरानशीलितमुक्तिनदीकान्नमसामि ॥ ऋBह्र्स्_१,१.४ ॥
मीमांसकबडवाग्नेः कठिनामपि कुण्ठयन्नसौ ।
स्फुरतु सनातन सुचिरं तव भक्तिरसामृताम्भोधिः ॥ ऋBह्र्स्_१,१.५ ॥
भक्तिरसस्य प्रस्तुतिरखिलजगङ्मङ्गलप्रसङ्गस्य ।
अज्ञेनापि मयास्य क्रियते सुहृदां प्रमोदाय ॥ ऋBह्र्स्_१,१.६ ॥

एतस्य भगवद्भक्तिरसामृतपयोनिधेः ।
चत्वारह्खलु वक्ष्यन्ते भागाः पूर्वादयः क्रमात् ॥ ऋBह्र्स्_१,१.७ ॥
तत्र पूर्वे विभागेऽस्मिन् भक्तिभेदनिरूपके ।
अनुक्रमेण वक्तव्यं लहरीणां चतुष्टयम् ॥ ऋBह्र्स्_१,१.८ ॥
आद्या सामान्यभक्त्य्आढ्या द्वितीया साधनान्विता ।
भावाश्रिता तृतीया च तुर्या प्रेमनिरूपिका ॥ ऋBह्र्स्_१,१.९ ॥
तत्रादौ सुष्ठु वैशिष्ट्यमस्याः कथयितुं स्फुटम् ।
लक्षणं क्रियते भक्तेरुत्तमायाः सतां मतम् ॥ ऋBह्र्स्_१,१.१० ॥

अन्याभिलाषिताशून्यं ज्ञानकर्माद्य्अनावृतम् ।
आनुकूल्येन कृष्णानुशीलनं भक्तिरुत्तमा ॥ ऋBह्र्स्_१,१.११ ॥

यथा श्रीनारदपञ्चरात्रे
सर्वोपाधिविनिर्मुक्तं तत्परत्वेन निर्मलम् ।
हृषीकेण हृषीकेशसेवनं भक्तिरुच्यते ॥ ऋBह्र्स्_१,१.१२ ॥

श्रीभागवतस्य तृतीयस्कन्धे च (३.२९.१११३)
अहैतुक्यव्यवहिता या भक्तिः पुरुषोत्तमे ॥ ऋBह्र्स्_१,१.१३ ॥
सालोक्यसार्ष्टिसामीप्यसारूप्यैकत्वमप्युत ।
दीयमानं न गृह्णन्ति विना मत्सेवनं जनाः ॥ ऋBह्र्स्_१,१.१४ ॥
स एव भक्तियोगाख्य आत्यन्तिक उदाहृतः ॥ ऋBह्र्स्_१,१.१५ ॥

सालोक्येत्यादिपद्यस्थभक्तोत्कर्षणिरूपणम् ।
भक्तेर्विशुद्धताव्यक्त्या लक्षणे पर्यवस्यति ॥ ऋBह्र्स्_१,१.१६ ॥
क्लेशघ्नी शुभदा मोक्षलघुताकृत्सुदुर्लभा ।
सान्द्रानन्दविशेषात्मा श्रीकृष्णाकर्षिणी च सा ॥ ऋBह्र्स्_१,१.१७ ॥

तत्रास्याः क्लेशघ्नत्वम्
क्लेशास्तु पापं तद्बीजमविद्या चेति ते त्रिधा ॥ ऋBह्र्स्_१,१.१८ ॥

तत्र पापम्
अप्रारब्धं भवेत्पापं प्रारब्धं चेति तद्द्विधा ॥ ऋBह्र्स्_१,१.१९ ॥

तत्र अप्रारब्धहरत्वम्, यथा एकडशे (११.१४.१९)
यथाग्निः सुसमिद्धार्चिः करोत्येधांसि भस्मसात् ।
तथा मद्विषयाभक्तिरुद्धवैनांसि कृत्स्नशः ॥ ऋBह्र्स्_१,१.२० ॥

प्रारब्धहरत्वम्, यथा तृतीये (३.३३.६)
यन्नामधेयश्रवणानुकीर्तनाद्
यत्प्रह्वणद्यत्स्मरणादपि क्वचित् ।
श्वादोऽपि सद्यः सवनाय कल्पते
कुतः पुनस्ते भगवन्नु दर्शनात् ॥ ऋBह्र्स्_१,१.२१ ॥

दुर्जातिरेव सवनायोग्यत्वे कारणं मतम् ।
दुर्जात्य्आरम्भकं पापं यत्स्यात्प्रारब्धमेव तत् ॥ ऋBह्र्स्_१,१.२२ ॥

पद्मपुराने च
अप्रारब्धफलं पापं कूटं बीजं फलोन्मुखम् ।
क्रमेणैव प्रलीयेत विष्णुभक्तिरतात्मनाम् ॥ ऋBह्र्स्_१,१.२३ ॥

बीजहरत्वम्, यथा षष्ठे (६.२.१७)
तैस्तान्यघानि पूयन्ते तपोदानव्रतादिभिः ।
नाधर्मजं तद्हृदयं तदपीशाङ्घ्रिसेवया ॥ ऋBह्र्स्_१,१.२४ ॥

अविद्याहरत्वम्, यथा चतुर्थे (४.२२.३९)
यत्पादपङ्कजपलाशविलासभक्त्या
कर्माशयं ग्रथितमुद्ग्रथयन्ति सन्तः ।
तद्वन्न रिक्तमतयो यतयोऽपि रुद्ध
स्रोतोगणास्तमरणं भज वासुदेवम् ॥ ऋBह्र्स्_१,१.२५ ॥

पाद्मे च
कृतानुयात्राविद्याभिर्हरिभक्तिरनुत्तमा ।
अविद्यां निर्दहत्याशु दावज्वालेव पन्नगीम् ॥ ऋBह्र्स्_१,१.२६ ॥

शुभदत्वम्
शुभानि प्रीणनं सर्वजगतामनुरक्तता ।
सद्गुणाः सुखमित्य्आदीन्याख्यातानि मनीषिभिः ॥ ऋBह्र्स्_१,१.२७ ॥

तत्र जगत्प्रीणनादिद्वयप्रदत्वम्, यथा पाद्मे
येनार्चितो हरिस्तेन तर्पितानि जगन्त्यपि ।
रज्यन्ति जन्तवस्तत्र जन्गमाः स्थावरा अपि ॥ ऋBह्र्स्_१,१.२८ ॥

सद्गुणादिप्रदत्वम्, यथा पञ्चमे (५.१८.१२)
यस्यास्ति भक्तिर्भगवत्यकिञ्चना
सर्वैर्गुणैस्तत्र समासते सुराः ।
हरावभक्तस्य कुतो महद्गुणा
मनोरथेनासति धावतो बहिः ॥ ऋBह्र्स्_१,१.२९ ॥

सुखप्रदत्वम्
सुखं वैषयिकं ब्राह्ममैश्वरं चेति तत्त्रिधा ॥ ऋBह्र्स्_१,१.३० ॥

यथा तन्त्रे
सिद्धयः परमाश्चर्या भुक्तिर्मुक्तिश्च शाश्वती ।
नित्यं च परमानन्दो भवेद्गोविन्दभक्तितः ॥ ऋBह्र्स्_१,१.३१ ॥

यथा हरिभक्तिसुधोदये च
भूयोऽपि याचे देवेश त्वयि भक्तिर्दृढास्तु मे ।
या मोक्षान्तचतुर्वर्ग फलदा सुखदा लता ॥ ऋBह्र्स्_१,१.३२ ॥

मोक्षलघुताकृत्
मनागेव प्ररूढायां हृदये भगवाद्रतौ ।
पुरुषार्थास्तु चत्वारास्तृणायन्ते समन्ततः ॥ ऋBह्र्स्_१,१.३३ ॥

यथा श्रीनारदपञ्चरात्रे
हरिभक्तिमहादेव्याः सर्वा मुक्त्य्आदिसिद्धयः ।
भुक्त्यश्चाद्भुतास्तस्याश्चेटिकावदनुव्रताः ॥ ऋBह्र्स्_१,१.३४ ॥ इति ।

सुदुर्लभा
साधनौघैरनासन्गैरलभ्या सुचिरादपि ।
हरिणा चाश्वदेयेति द्विधा सा स्यात्सुदुर्लभा ॥ ऋBह्र्स्_१,१.३५ ॥

तत्र आद्या, यथा तान्त्रे
ज्ञानतः सुलभा मुक्तिर्भुक्तिर्यज्ञादिपुण्यतः ।
सेयं साधनसाहस्रैर्हरिभक्तिः सुदुर्लभा ॥ ऋBह्र्स्_१,१.३६ ॥

द्वितीया, यथा पञ्चमस्कन्धे (५.६.१८)
राजन् पतिर्गुरुरलं भवतां यदूनां
दैवं प्रियः कुलपतिः क्व च किङ्करो वः ।
अस्त्वेवमङ्ग भजतां भगवान्मुकुन्दो
मुक्तिं ददाति कर्हिचित्स्म न भक्तियोगम् ॥ ऋBह्र्स्_१,१.३७ ॥

सान्द्रानन्दविशेषात्मा
ब्रह्मानन्दो भवेदेष चेत्परार्द्धगुणीकृतः ।
नैति भक्तिसुखाम्भोधेः परमाणुतुलामपि ॥ ऋBह्र्स्_१,१.३८ ॥
यथा, हरिभक्तिसुधोदये
त्वत्साक्षात्करणाह्लादविशुद्धाब्धिस्थितस्य मे ।
सुखानि गोष्पदायन्ते ब्राह्माण्यपि जगद्गुरो ॥ ऋBह्र्स्_१,१.३९ ॥

तथा भावार्थदीपिकायां (१०.८८.११) च
त्वत्कथामृतपाथोधौ विहरन्तो महामुदः ।
कुर्वन्ति कृतिनः केचित्चतुर्वर्गं तृणोपमम् ॥ ऋBह्र्स्_१,१.४० ॥

श्रीकृष्णाकर्षिणी
कृत्वा हरिं प्रेमभाजं प्रियवर्गसमन्वितम् ।
भक्तिर्वशीकरोतीति श्रीकृष्णाकर्षिणी मता ॥ ऋBह्र्स्_१,१.४१ ॥

यथा एकादशे (११.१४.२०)
न साध्यति मां योगो न साङ्ख्यं धर्म उद्धव ।
न स्वाध्यायस्तपस्त्यागो यथा भक्तिर्ममोर्जिता ॥ ऋBह्र्स्_१,१.४२ ॥

सप्तमे (७.१०.४८) च नारदोक्तौ
यूयं नृलोके बत भूरिभागा
लोकं पुनाना मुनयोऽभियन्ति ।
येषां गृहानावसतीति साक्षाद्
गुढं परं ब्रह्म मनुष्यलिङ्गम् ॥ ऋBह्र्स्_१,१.४३ ॥

अग्रतो वक्ष्यमाणायास्त्रिधा भक्तेरनुक्रमात् ।
द्विशः षड्भिः पदैरेतन्माहात्यं परिकीर्तितम् ॥ ऋBह्र्स्_१,१.४४ ॥

किं च
स्वल्पापि रुचिरेव स्याद्भक्तितत्त्वावबोधिका ।
युक्तिस्तु केवला नैव यदस्या अप्रतिष्ठता ॥ ऋBह्र्स्_१,१.४५ ॥

तत्र प्राचीनैरप्युक्तम्
यत्नेनापादितोऽप्यर्थः कुशलैरनुमातृभिः ।
अभियुक्ततरैरन्यैरन्यथैवोपपाद्यते ॥ ऋBह्र्स्_१,१.४६ ॥

इति श्री श्री भक्तिरसामृतसिन्धौ
पूर्वभागे भक्तिसामान्य लहरी प्रथमा

___________________________________________________

(१.२)
द्वितीया लहरी
साधनभक्तिः

सा भक्तिः साधनं भावः प्रेमा चेति त्रिधोदिता ॥ ऋBह्र्स्_१,२.१ ॥

तत्र साधनभक्तिः
कृतिसाध्या भवेत्साध्यभावा सा साधनाभिधा ।
नित्यसिद्धस्य भावस्य प्राकट्यं हृदि साध्यता ॥ ऋBह्र्स्_१,२.२ ॥
सा भक्तिः सप्तमस्कन्धे भङ्ग्या देवर्षिणोदिता ॥ ऋBह्र्स्_१,२.३ ॥

यथा सप्तमे (७.१.३१)
तस्मात्केनाप्युपायेन मनः कृष्णे निवेशयेत् ॥ ऋBह्र्स्_१,२.४ ॥ इति ।

वैधी रागानुगा चेति सा द्विधा साधनाभिधा ॥ ऋBह्र्स्_१,२.५ ॥

तत्र वैधी
यत्र रागानवाप्तत्वात्प्रवृत्तिरुपजायते ।
शासनेनैव शास्त्रस्य सा वैधी भक्तिरुच्यते ॥ ऋBह्र्स्_१,२.६ ॥

यथ, द्वितीये (२.१.६)
तस्माद्भारत सर्वात्मा भगवानीश्वरो हरिः ।
श्रोतव्यः कीर्तितव्यश्च स्मर्तव्यश्चेच्छताभयम् ॥ ऋBह्र्स्_१,२.७ ॥

पाद्मे च
स्मर्तव्यः सततं विष्णुर्विस्मर्तव्यो न जातुचित् ।
सर्वे विधिनिषेधाः स्युरेतयोरेव किङ्कराः ॥ ऋBह्र्स्_१,२.८ ॥

इत्यसौ स्याद्विधिर्नित्यः सर्ववर्णाश्रमादिषु ।
नित्यत्वेऽप्यस्य निर्णीतमेकादश्य्आदिवत्फलम् ॥ ऋBह्र्स्_१,२.९ ॥

यथा, एकादाशे (११.५.२३) तु व्यक्तमेवोक्तम्
मुख बाहूरुपादेभ्यः पुरुषस्याश्रमैः सह ।
चत्वारो जज्ञिरे वर्णा गुणैर्विप्रादयः पृथक् ॥ ऋBह्र्स्_१,२.१० ॥
य एषां पुरुषं साक्षादात्मप्रभवमीश्वरम् ।
न भजन्त्यवजानन्ति स्थानाद्भ्रष्टाः पतन्त्यधः ॥ ऋBह्र्स्_१,२.११ ॥
तत्फलं च, तत्रैव (११.२७.४९)
एवं क्रियायोगपथैः पुमान् वैदिकतान्त्रिकैः ।
अर्चन्नुभ्यतः सिद्धिं मत्तो विन्दत्यभीप्सिताम् ॥ ऋBह्र्स्_१,२.१२ ॥

पञ्चरात्रे च
सुरर्षे विहिता शास्त्रे हरिमुद्दिश्य या क्रिया ।
सैव भक्तिरिति प्रोक्ता तया भक्तिः परा भवेत् ॥ ऋBह्र्स्_१,२.१३ ॥

तत्र अधिकारी
यः केनाप्यतिभाग्येन जातश्रद्धोऽस्य सेवने ।
नातिसक्तो न वैराग्यभागस्यामधिकार्यसौ ॥ ऋBह्र्स्_१,२.१४ ॥

यथैकादशे (११.२०.२८)
यदृच्छया मत्कथादौ जातश्रद्धोऽस्तु यः पुमान् ।
न निर्विण्णो नातिसक्तो भक्तियोगोऽस्य सिद्धिदः ॥ ऋBह्र्स्_१,२.१५ ॥

उत्तमो मध्यमश्च स्यात्कनिष्ठश्चेति स त्रिधा ॥ ऋBह्र्स्_१,२.१६ ॥

तत्र उत्तमः
शास्त्रे युक्तौ च निपुणः सर्वथा दृढनिश्चयः ।
प्रौढश्रद्धोऽधिकारी यः स भक्तावुत्तमो मतः ॥ ऋBह्र्स्_१,२.१७ ॥

तत्र मध्यमः
यः शास्त्रादिष्वनिपुणः श्रद्धावान् स तु मध्यमः ॥ ऋBह्र्स्_१,२.१८ ॥

तत्र कनिष्ठः
यो भवेत्कोमलश्रद्धः स कनिष्ठो निगद्यते ॥ ऋBह्र्स्_१,२.१९ ॥

तत्र गीतादिषूक्तानां चतुर्णामधिकारिणाम् ।
मध्ये यस्मिन् भगवतह्कृपा स्यात्तत्प्रियस्य वा ॥ ऋBह्र्स्_१,२.२० ॥
स क्षीणतत्तद्भावः स्याच्छुद्धभक्त्य्अधिकारवान् ।
यथेभः शौनकादिश्च ध्रुवः स च चतुःसनः ॥ ऋBह्र्स्_१,२.२१ ॥
भुक्तिमुक्तिस्पृहा यावत्पिशाची हृदि वर्तते ।
तावद्भक्तिसुखस्यात्र कथमभ्युदयो भवेत् ॥ ऋBह्र्स्_१,२.२२ ॥
तत्रापि च विशेषेण गतिमण्वीमनिच्छतः ।
भक्तिर्हृतमनःप्राणान् प्रेम्णा तान् कुरुते जनान् ॥ ऋBह्र्स्_१,२.२३ ॥

तथा च, तृतीये (३.२५.३६)
तैर्दर्शनीयावयवैरुदार
विलासहासेक्षितवामसूक्तैः ।
हृतात्मनो हृतप्राणांश्च भक्तिर्
अनिच्छतो मे गतिमण्वीं प्रयुङ्क्ते ॥ ऋBह्र्स्_१,२.२४ ॥

श्री कृष्णचरणाम्भोजसेवानिर्वृतचेतसाम् ।
एषां मोक्षाय भक्तानां न कदाचित्स्पृहा भवेत् ॥ ऋBह्र्स्_१,२.२५ ॥

यथा तत्रैव, श्रीमद्उद्धवोक्तौ (३.४.१५)
को न्वीश ते पादसरोजभाजां
सुदुर्लभोऽर्थेषु चतुर्ष्वपीह ।
तथापि नाहं प्रवृणोमि भूमन्
भवत्पदाम्भोजनिषेवणोत्सुकः ॥ ऋBह्र्स्_१,२.२६ ॥

तत्रैव, श्रीकपिलदेवोक्तौ (३.२५.३५)
नैकात्मतां मे स्पृहयन्ति केचिन्
मत्पादसेवाभिरता मद्ईहाः ।
येऽन्योन्यतो भागवताः प्रसज्य
सभाजयन्ते मम पौरुषाणि ॥ ऋBह्र्स्_१,२.२७ ॥

तत्रैव (३.२९.१३)
सालोक्यसार्ष्टिसामीप्य सारूप्यैकत्वमप्युत ।
दीयमानं न गृह्णन्ति विना मत्सेवनं जनाः ॥ ऋBह्र्स्_१,२.२८ ॥

चतुर्थे श्रीध्रुवोक्तौ (४.९.१०)
या निर्वृतिस्तनुभृतां तव पादपद्म
ध्यानाद्भवज्जनकथाश्रवणेन वा स्यात् ।
सा ब्रह्मणि स्वमहिमन्यपि नाथ मा भूत्
किं त्वन्तकासिलुलितात्पततां विमानात् ॥ ऋBह्र्स्_१,२.२९ ॥

तत्रैव श्रीमद्आदिराजोक्तौ (४.२०.२४)
न कामये नाथ तदप्यहं क्वचिन्
न यत्र युष्मच्चरणाम्बुजासवः ।
महत्तमान्तर्हृदयान्मुखच्युतो
विधत्स्व कर्णायुतमेष मे वरः ॥ ऋBह्र्स्_१,२.३० ॥

पञ्चमे श्रीशुकोक्तौ (५.१४.४४)
यो दुस्त्यजान् क्षितिसुतस्वजनार्थदारान्
प्रार्थ्यां श्रियं सुरवरैः सदयावलोकाम् ।
नैच्छन्नृपस्तद्उचितं महतां मधुद्विट्
सेवानुरक्तमनसामभवोऽपि फल्गुः ॥ ऋBह्र्स्_१,२.३१ ॥

षष्ठे श्रीवृत्रोक्तौ (६.११.२५)
न नाकपृष्ठं न च पारमेष्ठ्यं
न सार्वभौमं न रसाधिपत्यम् ।
न योगसिद्धीरपुनर्भवं वा
समञ्जस त्वा विरहय्य काङ्क्षे ॥ ऋBह्र्स्_१,२.३२ ॥

तत्रैव श्रीरुद्रोक्तौ (६.१७.२८)
नारायणपराः सर्वे न कुतश्चन बिभ्यति ।
स्वर्गापवर्गनरकेष्वपि तुल्यार्थदर्शिनः ॥ ऋBह्र्स्_१,२.३३ ॥

तत्रैव इन्द्रोक्तौ (६.१८.७४)
आराधनं भगवत ईहमाना निराशिषः ।
ये तु नेच्छन्त्यपि परं ते स्वार्थकुशलाः स्मृताः ॥ ऋBह्र्स्_१,२.३४ ॥

सप्तमे प्रह्लादोक्तौ (७.६.२५)
तुष्टे च तत्र किमलभ्यमनन्त आद्ये
किं तैर्गुणव्यतिकरादिह ये स्वसिद्धाः ।
धर्मादयः किमगुणेन च काङ्क्षितेन
सारं जुषां चरणयोरुपगायतां नः ॥ ऋBह्र्स्_१,२.३५ ॥

तत्रैव शक्रोक्तौ (७.८.४२)
प्रत्यानीताः परम भवता त्रायता नः स्वभागा
दैत्याक्रान्तं हृदयकमलं तद्गृहं प्रत्यबोधि ।
कालग्रस्तं कियदिदमहो नाथ शुश्रूषतां ते
मुक्तिस्तेषां न हि बहुमता नारसिंहापरैः किम् ॥ ऋBह्र्स्_१,२.३६ ॥

अष्टमे श्रीगजेन्द्रोक्तौ (८.३.२०)
एकान्तिनो यस्य न कञ्चनार्थं
वाञ्छन्ति ये वै भगवत्प्रपन्नाः ।
अत्य्अद्भुतं तच्चरितं सुमङ्गलं
गायन्त आनन्दसमुद्रमग्नाः ॥ ऋBह्र्स्_१,२.३७ ॥

नवमे श्रीवैकुण्ठनाथोक्तौ (९.४.६७)
मत्सेवया प्रतीतं ते सालोक्यादिचतुष्टयम् ।
नेच्छन्ति सेवया पूर्णाः कुतोऽन्यत्कालविप्लुतम् ॥ ऋBह्र्स्_१,२.३८ ॥

श्रीदशमे नागपत्नीस्तुतौ (१०.१६.३७)
न नाकपृष्ठं न च सार्वभौमं
न पारमेष्ठ्यं न रसाधिपत्यम् ।
न योगसिद्धीरपुनर्भवं वा
वाञ्छन्ति यत्पादरजःप्रपन्नाः ॥ ऋBह्र्स्_१,२.३९ ॥

तत्रैव श्रीवेदस्तुतौ (१०.८७.२१)
दुरवगमात्मतत्त्वनिगमाय तवात्ततनोश्
चरितमहामृताब्धिपरिवर्तपरिश्रमणाः ।
न परिलषन्ति केचिदपवर्गमपीश्वर ते
चरणसरोजहंसकुलसङ्गविसृष्टगृहाः ॥ ऋBह्र्स्_१,२.४० ॥

एकादशे श्रीभगवद्उक्तौ (११.२०.३४)
न किञ्चित्साधवो धीरा भक्ता ह्येकान्तिनो मम ।
वाञ्छन्त्यपि मया दत्तं कैवल्यमपुनर्भवम् ॥ ऋBह्र्स्_१,२.४१ ॥

तथा (११.१४.१४)
न पारमेष्ठ्यं न महेन्द्रधिष्ण्यं
न सार्वभौमं न रसाधिपत्यम् ।
न योगसिद्धीरपुनर्भवं वा
मय्यर्पितात्मेच्छति मद्विनान्यत् ॥ ऋBह्र्स्_१,२.४२ ॥

द्वादशे श्रीरुद्रोक्तौ (१२.१०.६)
नैवेच्छत्याशिषः क्वापि ब्रह्मर्षिर्मोक्षमप्युत ।
भक्तिं परां भगवति लब्धवान् पुरुषेऽव्यये ॥ ऋBह्र्स्_१,२.४३ ॥

पद्मपुराणे च कार्त्तिकमाहात्म्ये (दामोदराष्टके)
वरं देव मोक्षं न मोक्षावधिं वा
न चान्यं वृणेऽहं वरेशादपीह ।
इदं ते वपुर्नाथ गोपालबालं
सदा मे मनस्यविरास्तां किमन्यैः ॥ ऋBह्र्स्_१,२.४४ ॥

कुवेरात्मजौ बद्धमूर्त्यैव यद्वत्
त्वया मोचितौ भक्तिबद्धौ कृतौ च ।
तथा प्रेमभक्तिं स्वकां मे प्रयच्छ
न मोक्षे ग्रहो मेऽस्ति दामोदरेह ॥ ऋBह्र्स्_१,२.४५ ॥
हयशीर्षीयश्रीनारायणव्यूहस्तवे च
न धर्म काममर्थं वा मोक्षं वा वरदेश्वर ।
प्रार्थये तव पादाब्जे दास्यमेवाभिकामये ॥ ऋBह्र्स्_१,२.४६ ॥

तत्रैव
पुनः पुनर्वरान् दित्सुर्विष्णुर्मुक्तिं न याचितः ।
भक्तिरेव वृता येन प्रह्लादं तं नमाम्यहम् ॥ ऋBह्र्स्_१,२.४७ ॥
यदृच्छया लब्धमपि विष्णोर्दाशरथेस्तु यः ।
नैच्छन्मोक्षं विना दास्यं तस्मै हनुमते नमः ॥ ऋBह्र्स्_१,२.४८ ॥

अत एव प्रसिद्धं श्रीहनुमद्वाक्यम्
भवबन्धच्छिदे तस्यै स्पृहयामि न मुक्तये ।
भवान् प्रभुरहं दास इति यत्र विलुप्यते ॥ ऋBह्र्स्_१,२.४९ ॥

श्रीनारद पञ्चरात्रे च जितन्तेस्तोत्रे
धर्मार्थकाममोक्षेषु नेच्छा मम कदाचन ।
त्वत्पादपञ्कजस्याधो जीवितं दीयतं मम ॥ ऋBह्र्स्_१,२.५० ॥
मोक्षसालोक्यसारूप्यान् प्रार्थये न धराधर ।
इच्छामि हि महाभाग कारुण्यं तव सुव्रत ॥ ऋBह्र्स्_१,२.५१ ॥

अतएव श्रीभागवते षष्ठे (६.१४.५)
मुक्तानामपि सिद्धानां नारायणपरायणः ।
सुदुर्लभः प्रशान्तात्मा कोटिष्वपि महामुने ॥ ऋBह्र्स्_१,२.५२ ॥

प्रथमे च श्रीधर्मराजमातुः स्तुतौ (१.८.२०)
तथा परमहंसानां मुनीनाममलात्मनाम् ।
भक्तियोगविधानार्थं कथं पश्येम हि स्त्रियः ॥ ऋBह्र्स्_१,२.५३ ॥

तत्रैव श्रीसूतोक्तौ (१.७.१०)
आत्मारामाश्च मुनयो निर्ग्रन्था अप्युरुक्रमे ।
कुर्वन्त्यहैतुकीं भक्तिमित्थम्भूतगुणो हरिः ॥ ऋBह्र्स्_१,२.५४ ॥

अत्र त्याज्यतयैवोक्ता मुक्तिः पञ्चविधापि चेत् ।
सालोक्यादिस्तथाप्यत्र भक्त्या नातिविरुध्यते ॥ ऋBह्र्स्_१,२.५५ ॥
सुखैश्वर्योत्तरा सेयं प्रेमसेवोत्तरेत्यपि ।
सालोक्यादिर्द्विधा तत्र नाद्या सेवाजुषं मता ॥ ऋBह्र्स्_१,२.५६ ॥
किन्तु प्रेमैकमाधुर्यजुष एकान्तिनो हरौ ।
नैवाङ्गीकुर्वते जातु मुक्तिं पञ्चविधामपि ॥ ऋBह्र्स्_१,२.५७ ॥
तत्राप्येकान्तिनां श्रेष्था गोविन्दहृतमानसाः ।
येषां श्रीशप्रसादोऽपि मनो हर्तुं न शक्नुयात् ॥ ऋBह्र्स्_१,२.५८ ॥
सिद्धान्ततस्त्वभेदेऽपि श्रीशकृष्णस्वरूपयोः ।
रसेनोत्कृष्यते कृष्णरूपमेषा रसस्थितिः ॥ ऋBह्र्स्_१,२.५९ ॥
शास्त्रतः श्रूयते भक्तौ नृमात्रस्याधिकारिता ।
सर्वाधिकारितां माघस्नानस्य ब्रुवता यतः ।
दृष्तान्तिता वशिष्ठेन हरिभक्तिर्नृपं प्रति ॥ ऋBह्र्स्_१,२.६० ॥

यथा पाद्मे
सर्वेऽधिकारिणो ह्यत्र हरिभक्तौ यथा नृप ॥ ऋBह्र्स्_१,२.६१ ॥

काशीखण्डे च तथा
अन्त्यजा अपि तद्राष्ट्रे शङ्खचक्राङ्कधारिणः ।
सम्प्राप्य वैष्णवीं दीक्षां दीक्षिता इव सम्बभुः ॥ ऋBह्र्स्_१,२.६२ ॥

अपि च
अननुष्ठानतो दोषो भक्त्य्अङ्गानां प्रजायते ।
न कर्मणामकरणादेष भक्त्य्अधिकारिणाम् ॥ ऋBह्र्स्_१,२.६३ ॥
निषिद्धाचारतो दैवात्प्रायश्चित्तं तु नोचितम् ।
इति वैष्णवशास्त्राणां रहस्यं तद्विदां मतम् ॥ ऋBह्र्स्_१,२.६४ ॥

यथैकादशे (११.२०.२६, ११.२१.२)
स्वे स्वेऽधिकारे या निष्ठा सा गुणः परिकीर्तितः ।
विपर्ययस्तु दोषः स्यादुभयोरेष निश्चयः ॥ ऋBह्र्स्_१,२.६५ ॥

प्रथमे (१.५.१७)
त्यक्त्वा स्वधर्मं चरणाम्बुजं हरेर्
भजन्नपक्वोऽथ पतेत्ततो यदि ।
यत्र क्व वाभद्रमभूदमुष्य किं
को वार्थ आप्तोऽभजतां स्वधर्मतः ॥ ऋBह्र्स्_१,२.६६ ॥

एकादशे (११.११.३७)
आज्ञायैव गुणान् दोषान्मयादिष्टानपि स्वकान् ।
धर्मान् सन्त्यज्य यः सर्वान्मां भजेत्स च सत्तमः ॥ ऋBह्र्स्_१,२.६७ ॥

तत्रैव (११.५.४१)
देवर्षिभूताप्तनॄणां पितॄणां
न किङ्करो नायमृणी च राजन् ।
सर्वात्मना यः शरणं शरण्यं
गतो मुकुन्दं परिहृत्य कर्तम् ॥ ऋBह्र्स्_१,२.६८ ॥

श्रीभगवद्गीतासु (१८.६६)
सर्वधर्मन् परित्याज्य मामेकं शरणं व्रज ।
अहं त्वां सर्वपापेभ्यो मोक्षयिष्यामि मा सुचः ॥ ऋBह्र्स्_१,२.६९ ॥

अगस्त्यसंहितायाम्
यथा विधिनिषेधौ तु मुक्तं नैवोपसर्पतः ।
तथा न स्पृशतो रामोपासकं विधिपूर्वकम् ॥ ऋBह्र्स्_१,२.७० ॥

एकादशे एव (११.५.४२)
स्वपादमुलं भजतः प्रियस्य
त्यक्तान्यभावस्य हरिः परेशः ।
विकर्म यच्चोत्पतितं कथञ्चिद्
धुनोति सर्वं हृदि सन्निविष्टः ॥ ऋBह्र्स्_१,२.७१ ॥

हरिभक्तिविलासेऽस्या भक्तेरङ्गानि लक्षशः ।
किन्तु तानि प्रसिद्धानि निर्दिश्यन्ते यथामति ॥ ऋBह्र्स्_१,२.७२ ॥

अत्र अङ्गलक्षणम्
आश्रितावान्तरानेकभेदं केवलमेव वा ।
एकं कर्मात्र विद्वद्भिरेकं भक्त्य्अङ्गमुच्यते ॥ ऋBह्र्स्_१,२.७३ ॥

अथ अङ्गानि
गुरुपादाश्रयस्तस्मात्कृष्णदीक्षादिशिक्षणम् ।
विश्रम्भेण गुरोः सेवा साधुवर्त्मानुवर्तनम् ॥ ऋBह्र्स्_१,२.७४ ॥
सद्धर्मपृच्छा भोगादित्यागः कृष्णस्य हेतवे ।
निवासो द्वारकादौ च गङ्गादेरपि सन्निधौ ॥ ऋBह्र्स्_१,२.७५ ॥
व्यावहारेषु सर्वेषु यावद्अर्थानुवर्तिता ।
हरिवासरसम्मानो धात्र्य्अश्वत्थादिगौरवम् ॥ ऋBह्र्स्_१,२.७६ ॥
एषामत्र दशाङ्गानां भवेत्प्रारम्भरुपता ॥ ऋBह्र्स्_१,२.७७ ॥
सङ्गत्यागो विदूरेण भगवद्विमुखैर्जनैः ।
शिष्याद्य्अननुबन्धित्वं महारम्भाद्य्अनुद्यमः ॥ ऋBह्र्स्_१,२.७८ ॥
बहुग्रन्थकलाभ्यासव्याख्यावादविवर्जनम् ॥ ऋBह्र्स्_१,२.७९ ॥
व्यावहारेऽप्यकार्पण्यं शोकाद्य्अवशवर्तिता ॥ ऋBह्र्स्_१,२.८० ॥
अन्यदेवानवज्ञा च भूतानुद्वेगदायिता ।
सेवानामापराधानामुद्भवाभावकारिता ॥ ऋBह्र्स्_१,२.८१ ॥
कृष्णतद्भक्तविद्वेषविनिन्दाद्य्असहिष्णुता ।
व्यतिरेकतयामीषां दशानां स्यादनुष्ठितीः ॥ ऋBह्र्स्_१,२.८२ ॥
अस्यास्तत्र प्रवेशाय द्वारत्वेऽप्यङ्गविंशतेः ।
त्रयां प्रधानमेवोक्तं गुरुपादाश्रयादिकम् ॥ ऋBह्र्स्_१,२.८३ ॥
धृतिर्वैष्णवचिह्णानां हरेर्नामाक्षरस्य च ।
निर्माल्यादेश्च तस्याग्रे ताण्डवं दण्डवन्नतिः ॥ ऋBह्र्स्_१,२.८४ ॥
अभ्युत्थानमनुव्रज्या गतिः स्थाने परिक्रमः ।
अर्चनं परिचर्या च गीतं सङ्कीर्तनं जपः ॥ ऋBह्र्स्_१,२.८५ ॥
विज्ञप्तिः स्तवपाठश्च स्वादो नैवेद्यपाद्ययोः ।
धूपमाल्यादिसौरभ्यं श्रीमूर्तेः स्पृष्टिरीक्षणम् ॥ ऋBह्र्स्_१,२.८६ ॥
आरात्रिकोत्सवादेश्च श्रवणं तत्कृपेक्षणम् ।
स्मृतिर्ध्यानं तथा दास्यं सख्यमात्मनिवेदनम् ॥ ऋBह्र्स्_१,२.८७ ॥
निजप्रियोपहरणं तद्अर्थेऽखिलचेष्टितम् ।
सर्वथा शरणापत्तिस्तदीयानां च सेवनम् ॥ ऋBह्र्स्_१,२.८८ ॥
तदीयास्तुलसीशास्त्रमथुरावैष्णवादयः ।
यथावैभवसामग्री सद्गोष्ठीभिर्महोत्सवः ॥ ऋBह्र्स्_१,२.८९ ॥
ऊर्जादरो विशेषेण यात्रा जन्मदिनादिषु ।
श्रद्धा विशेषतः प्रीतिः श्रीमूर्तेरङ्घ्रिसेवने ॥ ऋBह्र्स्_१,२.९० ॥
श्रीमद्भागवतार्थानामास्वादो रसिकैः सह ।
सजातीयाशये स्निग्धे साधौ सङ्गः स्वतो वरे ॥ ऋBह्र्स्_१,२.९१ ॥
नामसङ्कीर्तनं श्रीमथुरामण्डले स्थितिः ॥ ऋBह्र्स्_१,२.९२ ॥
अङ्गानां पञ्चकस्यास्य पूर्वं विलिखितस्य च ।
निखिलश्रैष्ठ्यबोधाय पुनरप्यत्र कीर्तनम् ॥ ऋBह्र्स्_१,२.९३ ॥
इति कायहृषीकान्तःकरणानामुपासनाः ॥ ऋBह्र्स्_१,२.९४ ॥
चतुःषष्टिः पृथक्साङ्घातिकभेदात्क्रमादिनाः ॥ ऋBह्र्स्_१,२.९५ ॥
अथार्षानुमतेनैषामुदाहरणमीर्यते ॥ ऋBह्र्स्_१,२.९६ ॥

१ तत्र गुरुपादाश्रयो, यथा एकादशे (११.३.२१)
तस्माद्गुरुं प्रपद्येत जिज्ञासुः श्रेय उत्तमम् ।
शाब्दे परे च निष्णातं ब्रह्मण्युपशमाश्रयम् ॥ ऋBह्र्स्_१,२.९७ ॥

२ श्रीकृष्णदीक्षादिशिक्षणं, यथा तत्रैव (११.३.२२)
तत्र भागवतान् धर्मान् शिक्षेद्गुर्व्आत्मदैवतः ।
अमाययानुवृत्त्या यैस्तुष्येदात्मात्मदो हरिः ॥ ऋBह्र्स्_१,२.९८ ॥

३ विश्रम्भेण गुरोः सेवा, यथा तत्रैव (११.१७.२७)
आचार्यं मां विजानीयान्नावमन्येत कर्हिचित् ।
न मर्त्यबुद्ध्यासूयेत सर्वदेवमयो गुरुः ॥ ऋBह्र्स्_१,२.९९ ॥
४ साधुवर्त्मानुवर्तनम्, यथा स्कान्दे
स मृग्यः श्रेयसां हेतुः पन्थाः सन्तापवर्जितः ।
अन्वाप्तश्रमं पूर्वे येन सन्तः प्रतस्थिरे ॥ ऋBह्र्स्_१,२.१०० ॥

ब्रह्मयामले च
श्रुतिस्मृतिपुराणादिपञ्चरात्रविधिं विना ।
ऐकान्तिकी हरेर्भक्तिरुत्पातायैव कल्पते ॥ ऋBह्र्स्_१,२.१०१ ॥

भक्तिरैकान्तिकी वेयमविचारात्प्रतीयते ।
वस्तुतस्तु तथा नैव यदशास्त्रीयतेक्ष्यते ॥ ऋBह्र्स्_१,२.१०२ ॥

५ सद्धर्मपृच्छा, यथा नारदीये
अचिरादेव सर्वार्थः सिध्यत्येषामभीप्सितः ।
सद्धर्मस्यावबोधाय येषां निर्बन्धिनी मतिः ॥ ऋBह्र्स्_१,२.१०३ ॥

६ कृष्णार्थे भोगादित्यागो, यथा पाद्मे
हरिमुद्दिश्य भोगानि काले त्यक्तवतस्तव ।
विष्णुलोकस्थिता सम्पद्अलोला सा प्रतीक्षते ॥ ऋBह्र्स्_१,२.१०४ ॥

७ द्वारकादिनिवासो, यथा स्कान्दे
संवत्सरं वा षण्मासान्मासं मासार्धमेव वा ।
द्वारकावासिनः सर्वे नरा नार्यश्चतुर्भुजाः ॥ ऋBह्र्स्_१,२.१०५ ॥

आदिपदेन पुरुषोत्तमवासश्च, यथा ब्राह्मे
अहो क्षेत्रस्य माहात्म्यं समन्ताद्दशयोजनम् ।
दिविष्ठा यत्र पश्यन्ति सर्वानेव चतुर्भुजान् ॥ ऋBह्र्स्_१,२.१०६ ॥

गङ्गादिवासो, यथा प्रथमे (१.१९.६)
या वै लसच्छ्रीतुलसीविमिश्र
कृष्णाङ्घ्रिरेण्व्अभ्यधिकाम्बुनेत्री ।
पुनाति सेशानुभयत्र लोकान्
कस्तां न सेवेत मरिष्यमाणः ॥ ऋBह्र्स्_१,२.१०७ ॥

८ यावद्अर्थानुवर्तिता, यथा नारदीये
यावता स्यात्स्वनिर्वाहः स्वीकुर्यात्तावदर्थवित् ।
आधिक्ये न्यूनतायां च च्यवते परमार्थतः ॥ ऋBह्र्स्_१,२.१०८ ॥

९ हरिवासरसम्मानो, यथा ब्रह्मवैवर्ते
सर्वपापप्रशमनं पुण्यमात्यन्तिकं तथा ।
गोविन्दस्मारणं नॄणामेकदश्यामुपोषणम् ॥ ऋBह्र्स्_१,२.१०९ ॥

१० धात्र्य्अश्वत्थादिगौरवम्, यथा स्कान्दे
अश्वत्थतुलसीधात्रीगोभूमिसुरवैष्णवाः ।
पूजिताः प्रणताः ध्याताः क्षपयन्ति नॄणामघम् ॥ ऋBह्र्स्_१,२.११० ॥

११ अथ श्रीकृष्णविमुखजनसंत्यागो, यथा कात्यायनसंहितायाम्
वरं हुतवहज्वालापञ्जरान्तर्व्यवस्थितिः ।
न शौरिचिन्ताविमुखजनसंवासवैशसम् ॥ ऋBह्र्स्_१,२.१११ ॥

विष्णुरहस्ये च
आलिङ्गनं वरं मन्ये व्यालव्याघ्रजलौकसाम् ।
न सङ्गः शल्ययुक्तानां नानादेवैकसेविनाम् ॥ ऋBह्र्स्_१,२.११२ ॥

१२ १३ १४ शिष्याननुबन्द्धित्वादित्रयं, यथा सप्तमे (७.१३.८)
न शिष्याननुबध्नीत ग्रन्थान्नैवाभ्यसेद्बहून् ।
न व्याख्यामुपयुञ्जीत नारम्भानारभेत्क्वचित् ॥ ऋBह्र्स्_१,२.११३ ॥

१५ व्यावहारेऽप्यकार्पण्यं, यथा पाद्मे
अलब्धे वा विनष्टे वा भक्ष्याच्छादनसाधने ।
अविक्लवमतिर्भूत्वा हरिमेव धिया स्मरेत् ॥ ऋBह्र्स्_१,२.११४ ॥

१६ शोकाद्य्अवशवर्तिता, यथा तत्रैव
शोकामर्षादिभिर्भावैराक्रान्तं यस्य मानसम् ।
कथं तत्र मुकुन्दस्य स्फूर्तिसम्भावना भवेत् ॥ ऋBह्र्स्_१,२.११५ ॥।

१७ अन्यदेवानज्ञा, यथा तत्रैव
हरिरेव सदाराध्यः सर्वदेवेश्वरेश्वरः ।
इतरे ब्रह्मरुद्राद्या नावज्ञेयाः कदाचन ॥ ऋBह्र्स्_१,२.११६ ॥

१८ भूतानुद्वेगदायिता, यथा महाभारते
पितेव पुत्रं करुणो नोद्वेजयति यो जनम् ।
विशुद्धस्य हृषीकेशस्तूर्णं तस्य प्रसीदति ॥ ऋBह्र्स्_१,२.११७ ॥

१९ सेवानामापराधानां वर्जनं, यथा वाराहे
ममार्चनापराधा ये कीर्त्यन्ते वसुधे मया ।
वैष्णवेन सदा ते तु वर्जनीयाः प्रयत्नतः ॥ ऋBह्र्स्_१,२.११८ ॥
पाद्मे च
सर्वापराधकृदपि मुच्यते हरिसंश्रयः ।
हरेरप्यपराधान् यः कुर्याद्द्विपदपांशुलः ॥ ऋBह्र्स्_१,२.११९ ॥
नामाश्रयः कदाचित्स्यात्तरत्येव स नामतः ।
नाम्नो हि सर्वसुहृदो ह्यपराधात्पतत्यधः ॥ ऋBह्र्स्_१,२.१२० ॥

२० तन्निन्दाद्यसहिष्णुता, यथा श्रीदशमे (१०.७४.४०)
निन्दां भगवतः श्र्ण्वंस्तत्परस्य जनस्य वा ।
ततो नापैति यः सोऽपि यात्यधः सुकृताच्च्युतः ॥ ऋBह्र्स्_१,२.१२१ ॥

२१ अथ वैष्णवचिह्णधृतिः, यथा पाद्मे
ये कण्ठलग्नतुलसीनलिनाक्षामाला
ये बाहुमूलपरिचिह्णितशङ्खचक्राः ।
ये वा ललाटफलके लसद्ऊर्ध्वपुण्ड्रास्
ते वैष्णवा भुवनमाशु पवित्रयन्ति ॥ ऋBह्र्स्_१,२.१२२ ॥

२२ नामाक्षरधृतिः, यथा स्कान्दे
हरिनामाक्षरयुतं भाले गोपीमृडङ्कितम् ।
तुलसीमालिकोरस्कं स्पृशेयुर्न यमोद्भटाः ॥ ऋBह्र्स्_१,२.१२३ ॥

पाद्मे च
कृष्णनामाक्षरैर्गात्रमङ्कयेच्चन्दनादिना ।
स लोकपावनो भुत्वा तस्य लोकमवाप्नुयात् ॥ ऋBह्र्स्_१,२.१२४ ॥

२३ निर्माल्यधृतिः, यथा एकादशे (११.६.४६)
त्वयोपयुक्तस्रग्गन्धवासोऽलङ्कारचर्चिताः ।
उच्छिष्टभोजिनो दासास्तव मायां जयेमहि ॥ ऋBह्र्स्_१,२.१२५ ॥

स्कान्दे च
कृष्णोत्तीर्णं तु निर्माल्यं यस्याङ्गं स्पृशते मुने ।
सर्वरोगैस्तथा पापैर्मुक्तो भवति नारद ॥ ऋBह्र्स्_१,२.१२६ ॥

२४ अग्रे ताण्डवं, यथा द्वारकामाहात्म्ये
यो नृत्यति प्रहृष्टात्मा भावैर्बहुषु भक्तितः ।
स निर्दहति पापानि मन्वन्तरशतेष्वपि ॥ ऋBह्र्स्_१,२.१२७ ॥

तथा श्रीनारदोक्तौ च
नृत्यतां श्रीपतेरग्रे तालिकावादनैर्भृशम् ।
उड्डीयन्ते शरीरस्थाः सर्वे पातकपक्षिणः ॥ ऋBह्र्स्_१,२.१२८ ॥

२५ दण्डवन्नतिः, यथा नारदीये
एकोऽपि कृष्णाय कृतः प्रणामो
दशाश्वमेधावभृथैर्न तुल्यः ।
दशाश्वमेधी पुनरेति जन्म
कृष्णप्रणामी न पुनर्भवाय ॥ ऋBह्र्स्_१,२.१२९ ॥

२६ अभ्यूत्थानं, यथा ब्रह्माण्डे
यानारूढं पुरः प्रेक्ष्य समायान्तं जनार्दनम् ।
अभ्युत्थानं नरः कुर्वन् पातयेत्सर्वकिल्बिषम् ॥ ऋBह्र्स्_१,२.१३० ॥

२७ अनुव्रज्या, यथा भविष्योत्तरे
रथेन सह गच्छन्ति पार्श्वतः पृष्ठतोऽग्रतः ।
विष्णुनैव समाः सर्वे भवन्ति श्वपदादयः ॥ ऋBह्र्स्_१,२.१३१ ॥

२८ स्थाने गतिः
स्थानं तीर्थं गृहं चास्य तत्र तीर्थे गतिर्यथा ॥ ऋBह्र्स्_१,२.१३२ ॥

पुराणान्तरे
संसारमरुकान्तारनिस्तारकरणक्षमौ ।
स्लाघ्यौ तावेव चरणौ यौ हरेस्तीर्थगामिनौ ॥ ऋBह्र्स्_१,२.१३३ ॥

आलये च, यथा हरिभक्तिसुधोदये
प्रवीशन्नालयं विष्णोर्दर्शनार्थं सुभक्तिमान् ।
न भूयः प्रविशेन्मातुः कुक्षिकारागृहं सुधीः ॥ ऋBह्र्स्_१,२.१३४ ॥

२९ परिक्रमो, यथा तत्रैव
विष्णुं प्रदक्षिनीकुर्वन् यस्तत्रावर्तते पुनः ।
तदेवावर्तनं तस्य पुनर्नावर्तते भवे ॥ ऋBह्र्स्_१,२.१३५ ॥

स्कान्दे च चतुर्मास्यमाहात्म्ये
चतुर्वारं भ्रमीभिस्तु जगत्सर्वं चराचरम् ।
क्रान्तं भवति विप्राग्र्य तत्तीर्थगमनादिकम् ॥ ऋBह्र्स्_१,२.१३६ ॥

३० अथ अर्चनम्
शुद्धिन्यासादिपूर्वाङ्गकर्मनिर्वाहपूर्वकम् ।
अर्चनं तूपचाराणां स्यान्मन्त्रेणोपपादनम् ॥ ऋBह्र्स्_१,२.१३७ ॥
तद्, यथा दशमे (१०.८१.१९)
स्वर्गापवर्गयोः पुंसां रसायां भुवि सम्पदाम् ।
सर्वासामपि सिद्धीनां मूलं ताच्चरणार्चनम् ॥ ऋBह्र्स्_१,२.१३८ ॥

विष्णुरहस्ये च
श्रीविष्णोरर्चनं ये तु प्रकुर्वन्ति नरा भुवि ।
ते यान्ति शाश्वतं विष्णोरानन्दं परमं पदम् ॥ ऋBह्र्स्_१,२.१३९ ॥

३१ परिचर्या
परिचर्या तु सेवोपकरणादिपरिष्क्रिया ।
तथा प्रकीर्णकच्छत्रवादित्राद्यैरुपासना ॥ ऋBह्र्स्_१,२.१४० ॥

यथा नारदीये
मुहूर्तं वा मुहूर्तार्धं यस्तिष्ठेद्धरिमन्दिरे ।
स याति परमं स्थानं किमु शुश्रूषणे रताः ॥ ऋBह्र्स्_१,२.१४१ ॥

यथा चतुर्थे (४.२१.३१)
यत्पादसेवाभिरुचिस्तपस्विनाम्
अशेषजन्मोपचितं मलं धियः ।
सद्यः क्षिणोत्यन्वहमेधती सती
यथा पदाङ्गुष्ठविनिःसृता सरित् ॥ ऋBह्र्स्_१,२.१४२ ॥

अङ्गानि विविधान्येव स्युः पूजापरिचर्ययोः ।
न तानि लिखितान्यत्र ग्रन्थबाहुल्यभीतितः ॥ ऋBह्र्स्_१,२.१४३ ॥

३२ अथ गीतं, यथा लैङ्गे
ब्राह्मणो वासुदेवाख्यं गायमानोऽनिशं परम् ।
हरेः सालोक्यमाप्नोति रुद्रगानाधिकं भवेत् ॥ ऋBह्र्स्_१,२.१४४ ॥

३३ अथ संकीर्तनम्
नामलीलागुणदीनामुच्चैर्भाषा तु कीर्तनम् ॥ ऋBह्र्स्_१,२.१४५ ॥

तत्र नामकीर्तनम्, यथा विष्णुधर्मे
कृष्णेति मङ्गलं नाम यस्य वाचि प्रवर्तते ।
भस्मीभवन्ति राजेन्द्र महापातककोटयः ॥ ऋBह्र्स्_१,२.१४६ ॥

लीलाकीर्तनम्, यथा सप्तमे (७.९.१८)
सोऽहं प्रियस्य सुहृदः परदेवताया
लीलाकथास्तव नृसिंह विरिञ्चगीताः ।
अञ्जस्तितर्म्यनुगृणन् गुणविप्रमुक्तो
दुर्गाणि ते पदयुगालयहंससङ्गः ॥ ऋBह्र्स्_१,२.१४७ ॥

गुणकीर्तनम्, यथा प्रथमे (१.५.२२)
इदं हि पुंसस्तपसः श्रुतस्य वा
स्विष्टस्य सूक्तस्य च बुद्धिदत्तयोः ।
अविच्युतोऽर्थः कविभिर्निरूपितो
यदुत्तमःश्लोकगुणानुवर्णनम् ॥ ऋBह्र्स्_१,२.१४८ ॥

३४ अथ जपः
मन्त्रस्य सुलघूच्चारो जप इत्यभिधीयते ॥ ऋBह्र्स्_१,२.१४९ ॥

यथा पाद्मे
कृष्णाय नम इत्येष मन्त्रः सर्वार्थसाधकः ।
भक्तानां जपतां भूप स्वर्गमोक्षफलप्रदः ॥ ऋBह्र्स्_१,२.१५० ॥

३५ अथ विज्ञप्तिः, यथा स्कान्दे
हरिमुद्दिश्य यत्किञ्चित्कृतं विज्ञापनं गिरा ।
मोक्षद्वारार्गलान्मोक्षस्तेनैव विहितस्तव ॥ ऋBह्र्स्_१,२.१५१ ॥

सम्प्रार्थनात्मिका दैन्यबोधिका लालसामयी ।
इत्यादिर्विविधा धीरैः कृष्णे विज्ञप्तिरीरिता ॥ ऋBह्र्स्_१,२.१५२ ॥

तत्र सम्प्रार्थनात्मिका, यथा पाद्मे
युवतीनां यथा यूनि यूनां च युवतौ यथा ।
मनोऽभिरमते तद्वन्मनोऽभिरमतां त्वयि ॥ ऋBह्र्स्_१,२.१५३ ॥

दैन्यबोधिका, यथा तत्रैव
मत्तुल्यो नास्ति पापात्मा नापराधी च कश्चन ।
परिहारेऽपि लज्जा मे किं ब्रूवे पुरुषोत्तम ॥ ऋBह्र्स्_१,२.१५४ ॥

लालसामयी, यथा श्रीनारदपञ्चरात्रे
कदा गम्भीरया वाचा श्रिया युक्तो जगत्पते ।
चामरव्यग्रहस्तं मामेवं कुर्विति वक्ष्यसि ॥ ऋBह्र्स्_१,२.१५५ ॥

यथा वा
कदाहं यमुनातीरे नामानि तव कीर्तयन् ।
उद्बाष्पः पुण्डरीकाक्ष रचयिष्यामि ताण्डवम् ॥ ऋBह्र्स्_१,२.१५६ ॥

३६ अथ स्तवपाठः
प्रोक्ता मनीषिभिर्गीतास्तवराजादयः स्तवाः ॥ ऋBह्र्स्_१,२.१५७ ॥

यथा स्कान्दे
श्रीकृष्णस्तवरत्नौघैर्येषां जिह्वा त्वलङ्कृता ।
नमस्या मुनिसिद्धानां वन्दनीया दिवौकसाम् ॥ ऋBह्र्स्_१,२.१५८ ॥

नारसिंहे च
स्तोत्रैः स्तवश्च देवाग्रे यः स्तौति मधुसूदनम् ।
सर्वपापविनिर्मुक्तो विष्णुलोकमवाप्नुयात् ॥ ऋBह्र्स्_१,२.१५९ ॥

३७ अथ नैवेद्यास्वादो, यथा पाद्मे
नैवेद्यमन्नं तुलसीविमिश्रं
वीशेषतः पादजलेन सिक्तम् ।
योऽश्नाति नित्यं पुरतो मुरारेः
प्राप्णोति यज्ञायुतकोटिपुण्यम् ॥ ऋBह्र्स्_१,२.१६० ॥

३८ अथ पाद्यास्वादो, यथा तत्रैव
न दानं न हविर्येषां स्वाध्यायो न सुरार्चनम् ।
तेऽपि पादोदकं पीत्वा प्रयान्ति परमां गतिम् ॥ ऋBह्र्स्_१,२.१६१ ॥

३९ अथ धूपसौरभ्यम्, यथा हरिभक्तिसुधोदये
आघ्राणं यद्धरेर्दत्तधूपोच्छिष्टस्य सर्वतः ।
तद्भवव्यालदष्टानां नस्यं कर्म विषापहम् ॥ ऋBह्र्स्_१,२.१६२ ॥

अथ माल्यसौरभ्यं, यथा तन्त्रे
प्रविष्टे नासिकारन्ध्रे हरेर्निर्माल्यसौरभे ।
सद्यो विलयमायाति पापपञ्जरबन्धनम् ॥ ऋBह्र्स्_१,२.१६३ ॥

अगस्त्यसंहितायां च
आघ्राणं गन्धपुष्पादेरर्चितस्य तपोधन ।
विशुद्धिः स्यादनन्तस्य घ्राणस्येहाभिधीयते ॥ ऋBह्र्स्_१,२.१६४ ॥

४० अथ श्रीमूर्तेः स्पर्शनं, यथा विष्णुधर्मोत्तरे
स्पृस्ट्वा विष्णोरधिष्ठानं पवित्रः श्रद्धयान्वितः ।
पापबन्धैर्विनिर्मुक्तः सर्वान् कामानवाप्नुयात् ॥ ऋBह्र्स्_१,२.१६५ ॥
४१ अथ श्रीमूर्तेर्दर्शनम्, यथा वाराहे
वृन्दावने तु गोविन्दं ये पश्यन्ति वसुन्धरे ।
न ते यमपुरं यान्ति यान्ति पुण्यकृतां गतिम् ॥ ऋBह्र्स्_१,२.१६६ ॥

४२ आरात्रिकदर्शनं, यथा स्कान्दे
कोटयो ब्रह्महत्यानामगम्यागमकोटयः ।
दहत्यालोकमात्रेण विष्णोः सारात्रिकं मुखम् ॥ ऋBह्र्स्_१,२.१६७ ॥

उत्सवदर्शनं, यथा भविष्योत्तरे
रथस्थं ये निरीक्षन्ते कौतिकेनापि केशवम् ।
देवतानां गणाः सर्वे भवन्ति श्वपचादयः ॥ ऋBह्र्स्_१,२.१६८ ॥

आदिशब्देन पूजादर्शनं, यथाग्नेये
पूजितं पूज्यमानं वा यः पश्येद्भक्तितो हरिम् ॥ ऋBह्र्स्_१,२.१६९ ॥

४३ अथ श्रवणम्
श्रवणं नामचरितगुणादीनां श्रुतिर्भवेत् ॥ ऋBह्र्स्_१,२.१७० ॥

तत्र नामश्रवणं, यथा गारुडे
संसारसर्पदष्टनष्टचेष्टैकभेषजम् ।
कृष्णेति वैष्णवं मन्त्रं श्रुत्वा मुक्तो भवेन्नरः ॥ ऋBह्र्स्_१,२.१७१ ॥

चरित्रश्रवणं, यथा चतुर्थे (४.२९.४१)
तस्मिन्महन्मुखरिता मधुभिच्चरित्र
पीयूषशेषसरितः परितः स्रवन्ति ।
ता ये पिबन्त्यवितृषो नृप गाढकर्णैस्
तान्न स्पृशन्त्यशनतृड्भयशोकमोहाः ॥ ऋBह्र्स्_१,२.१७२ ॥

गुणश्रवणं, यथा द्वादशे (१२.३.१५)
यस्तूत्तमःश्लोकगुणानुवादः
सङ्गीयतेऽभीक्ष्णममङ्गलघ्नः ।
तमेव नित्यं शृणुयादभीक्ष्णं
कृष्णेऽमलां भक्तिमभीप्समानः ॥ ऋBह्र्स्_१,२.१७३ ॥

अथ तत्कृपेक्षणं, यथा दशमे (१०.१४.८)
तत्तेऽनुकम्पां सुसमीक्षमाणो
भुञ्जान एवात्मकृतं विपाकम् ।
हृद्वाग्वपुर्भिर्विदधन्नमस्ते
जीवेत यो मुक्तिपदे स दायभाक् ॥ ऋBह्र्स्_१,२.१७४ ॥

अथ स्मृतिः
यथा कथं चिन्मनसा सम्बन्धः स्मृतिरुच्यते ॥ ऋBह्र्स्_१,२.१७५ ॥

यथा विष्णुपुराणे (५.१७.१७)
स्मृते सकलकल्याणभाजनं यत्र जायते ।
पुरुषं तमजं नित्यं व्रजामि शरणं हरिम् ॥ ऋBह्र्स्_१,२.१७६ ॥

यथा च पाद्मे
प्रयाणे चाप्रयाणे च यन्नाम स्मरतां नॄणाम् ।
सद्यो नश्यति पापौघो नमस्तस्मै चिद्आत्मने ॥ ऋBह्र्स्_१,२.१७७ ॥

अथ ध्यानम्
ध्यानं रुपगुणक्रीडासेवादेः सुष्ठु चिन्तनम् ॥ ऋBह्र्स्_१,२.१७८ ॥

तत्र रूपध्यानं, यथा नारसिंहे
भगवच्चरणद्वन्द्वध्यानं निर्द्वन्द्वमीरितम् ।
पापिनोऽपि प्रसङ्गेन विहितं सुहितं परम् ॥ ऋBह्र्स्_१,२.१७९ ॥

गुणध्यानं, यथा विष्णुधर्मे
ये कुर्वन्ति सदा भक्त्या गुणानुस्मरणं हरेः ।
प्रक्षीणकलुषौघास्ते प्रविशन्ति हरेः पदम् ॥ ऋBह्र्स्_१,२.१८० ॥

क्रीदाध्यानं, यथा पद्मे
सर्वमाधुर्यसाराणि सर्वाद्भुतमयानि च ।
ध्यायन् हरेश्चरित्राणि ललितानि विमुच्यते ॥ ऋBह्र्स्_१,२.१८१ ॥

सेवाध्यानं, यथा पुराणान्तरे
मानसेनोपचारेन परिचर्य हरिं सदा ।
परे वाङ्मनसाऽगम्यं तं साक्षात्प्रतिपेदिरे ॥ ऋBह्र्स्_१,२.१८२ ॥

अथ दास्यम्
दास्यं कर्मार्पणं तस्य कैङ्कर्यमपि सर्वथा ॥ ऋBह्र्स्_१,२.१८३ ॥

तत्र आद्यं यथा स्कान्दे
तस्मिन् समर्पितं कर्म स्वाभाविकमपीश्वरे ।
भवेद्भागवतो धर्मस्तत्कर्म किमुतार्पितम् ॥ ऋBह्र्स्_१,२.१८४ ॥
कर्म स्वाभाविकं भद्रं जपध्यानार्चनादि च ।
इतीदं द्विविधं कृष्णे वैष्णवैर्दास्यमर्पितम् ॥ ऋBह्र्स्_१,२.१८५ ॥
मृदुश्रद्धस्य कथिता स्वल्पा कर्माधिकारिता ।
तद्अर्पितं हरौ दास्यमिति कैश्चिदुदीर्यते ॥ ऋBह्र्स्_१,२.१८६ ॥

द्वितियं, यथा नारदीये
ईहा यस्य हरेर्दास्ये कर्मणा मनसा गिरा ।
निखिलास्वप्यवस्थासु जीवन्मुक्तः स उच्यते ॥ ऋBह्र्स्_१,२.१८७ ॥

अथ सख्यम्
विश्वासो मित्रवृत्तिश्च सख्यं द्विविधमीरितम् ॥ ऋBह्र्स्_१,२.१८८ ॥

तत्र आद्यं, यथा महाभारते
प्रतिज्ञा तव गोविन्द न मे भक्तः प्रणश्यति ।
इति संस्मृत्य संस्मृत्य प्राणान् संधारयाम्यहम् ॥ ऋBह्र्स्_१,२.१८९ ॥

तथा एकादशे (११.२.५३) च
त्रिभुवनविभवहेतवेऽप्यकुण्ठ
स्मृतिरजितात्मसुरादिभिर्विमृग्यात् ।
न चलति भगवत्पदारविन्दाल्
लवनिमिषार्धमपि यः स वैष्णवाग्र्यः ॥ ऋBह्र्स्_१,२.१९० ॥

श्रद्धामात्रस्य तद्भक्तावधिकारित्वहेतुता ।
अङ्गत्वमस्य विश्वासविशेषस्य तु केशवे ॥ ऋBह्र्स्_१,२.१९१ ॥

द्वितीयं, यथा अगस्त्यसंहितायाम्
परिचर्या पराः केचित्प्रासादेषु च शेरते ।
मनुष्यमिव तं द्रष्टुं व्यावहर्तुं च बन्धुवत् ॥ ऋBह्र्स्_१,२.१९२ ॥

रागानुगाङ्गतास्य स्याद्विधिमार्गानपेक्षत्वात् ।
मार्गद्वयेन चैतेन साध्या सख्यरतिर्मता ॥ ऋBह्र्स्_१,२.१९३ ॥

अथ आत्मनिवेदनं, यथा एकादशे (११.२९.३४)
मर्त्यो यदा त्यक्तसमस्तकर्मा
निवेदितात्मा विचिकीर्षितो मे ।
तदामृतत्वं प्रतिपद्यमानो
मयात्मभुऊयाया च कल्पते वै ॥ ऋBह्र्स्_१,२.१९४ ॥

अर्थो द्विधात्मशब्दस्य पण्डितैरुपपायते ।
देह्य्अहन्तास्पदं कैश्चिद्देहः कैश्चिन्ममत्वभाक् ॥ ऋBह्र्स्_१,२.१९५ ॥

तत्र देही, यथा यामुनाचार्यस्तोत्रे (४९)
वपुरादिषु योऽपि कोऽपि वा
गुणतोऽसानि यथा तथाविधः ।
तदयं तव पादपद्मयोर्
अहमद्यैव मया समर्पितः ॥ ऋBह्र्स्_१,२.१९६ ॥

देहो, यथा भक्तिविवेके
चिन्तां कुर्यान्न रक्षायै विक्रीतस्य यथा पशोः ।
तथार्पयन् हरौ देहं विरमेदस्य रक्षनात् ॥ ऋBह्र्स्_१,२.१९७ ॥

दुष्करत्वेन विरले द्वे सख्यात्मनिवेदने ।
केषांचिदेव धीराणां लभते साधनार्हताम् ॥ ऋBह्र्स्_१,२.१९८ ॥

अथ निजप्रियोपहरणं, यथा एकादशे (११.११.४१)
यद्यदिष्टतमं लोके यच्चातिप्रियमात्मनः ।
तत्तन्निवेदयेन्मह्यं तदानन्त्याय कल्पते ॥ ऋBह्र्स्_१,२.१९९ ॥

अथ तद्अर्थेऽखिलचेष्टितं, यथा पञ्चरात्रे
लौकिकी वैदिकी वापि या क्रिया क्रियते मुने ।
हरिसेवानुकूलैव सा कार्या भक्तिमिच्छता ॥ ऋBह्र्स्_१,२.२०० ॥

अथ शरणापत्तिः, यथा हरिभक्तिविलासे (११.६७७)
तवास्मीति वदन् वाचा तथैव मनसा विदन् ।
तत्स्थानमाश्रितस्तन्वा मोदते शरणागतः ॥ ऋBह्र्स्_१,२.२०१ ॥

श्रीनारसिंहे च
त्वां प्रपन्नोऽस्मि शरणं देवदेव जनार्दन ।
इति यः शरणं प्राप्तस्तं क्लेशादुद्धराम्यहम् ॥ ऋBह्र्स्_१,२.२०२ ॥

५३ अथ तदीयानां सेवनम् । तुलास्यः, यथा स्कान्दे
या दृष्टा निखिलाघसङ्गशमनी स्पृष्टा वपुःपावनी
रोगाणामभिवन्दिता निरसनी सिक्तान्तकत्रासिनी ।
प्रत्यासत्तिविधायिनी भगवतः कृष्णस्य संरोपिता
न्यस्ता तच्चरणे विमुक्तिफलदा तस्यै तुलस्यै नमः ॥ ऋBह्र्स्_१,२.२०३ ॥

तथा च तत्रैव
दृष्ता स्पृष्टा तथा ध्याता कीर्तिता नमिता स्तुता ।
रोपिता सेविता नित्यं पूजिता तुलसी शुभा ॥ ऋBह्र्स्_१,२.२०४ ॥
नवधा तुलसीं देवीं ये भजन्ति दिने दिने ।
युगकोटिसहस्राणि ते वसन्ति हरेर्गृहे ॥ ऋBह्र्स्_१,२.२०५ ॥

५४ अथ शास्त्रस्य,
शास्त्रमत्र समाख्यातं यद्भक्तिप्रतिपादकम् ॥ ऋBह्र्स्_१,२.२०६ ॥

यथा स्कान्दे
वैष्णवानि तु शास्त्राणी ये शृण्वन्ति पठन्ति च ।
धन्यास्ते मानवा लोके तेसां कृष्णः प्रसीदति ॥ ऋBह्र्स्_१,२.२०७ ॥
वैष्णवानि तु शास्त्राणी येऽर्चयन्ति गृहे नराः ।
सर्वपापविनिर्मुक्ता भवन्ति सुरवन्दिताः ॥ ऋBह्र्स्_१,२.२०८ ॥
तिष्ठते वैष्णवं शास्त्रं लिखितं यस्य मन्दिरे ।
तत्र नारायणो देवः स्वयं वसति नारद ॥ ऋBह्र्स्_१,२.२०९ ॥

तथा श्रीभागवते द्वादशे (१२.१३.१५) च
सर्ववेदान्तसारं हि श्रीभागवतमिष्यते ।
तद्रसामृततृप्तस्य नान्यत्र स्याद्रतिः क्वचित् ॥ ऋBह्र्स्_१,२.२१० ॥

५५ अथ मथुरायाः, यथा आदिवाराहे
मथुरां च परित्यज्य योऽन्यत्र कुरुते रतिम् ।
मूढो भ्रमति संसारे मोहिता मम मायया ॥ ऋBह्र्स्_१,२.२११ ॥

ब्रह्माण्डे च
त्रैलोक्यवर्तितीर्थानां सेवनाद्दुर्लभा हि या ।
परानन्दमयी सिद्धिर्मथुरास्पर्षमात्रतः ॥ ऋBह्र्स्_१,२.२१२ ॥

श्रुता स्मृता कीर्तिता च वाञ्छिता प्रेक्षिता गता ।
स्पृष्टा श्रिता सेविता च मथुराभीष्टदा नृणाम् ।
इति ख्यातं पुराणेषु न विस्तारभियोच्यते ॥ ऋBह्र्स्_१,२.२१३ ॥

५६अथ वैष्णवानां सेवनं, यथा पाद्मे (६.२५३.१७६)
आराधनानां सर्वेषां विष्णोराराधनं परम् ।
तस्मात्परतरं देवि तदीयानां समर्चनम् ॥ ऋBह्र्स्_१,२.२१४ ॥

तृतीये (३.७.१९) च
यत्सेवया भगवतः कूटस्थस्य मधुद्विषः ।
रतिरासो भवेत्तीव्रः पादयोर्व्यसनार्दनः ॥ ऋBह्र्स्_१,२.२१५ ॥

स्कान्दे च
शङ्खचक्राङ्किततनुः शिरसा मञ्जरीधरः ।
गोपीचन्दनलिप्ताङ्गो दृष्तश्चेत्तद्अघं कुतः ॥ ऋBह्र्स्_१,२.२१६ ॥

प्रथमे (१.१९.३३) च
येषां संस्मरणात्पुंसां सद्यः शुद्ध्यन्ति वै गृहाः ।
किं पुनर्दर्शनस्पर्शपादशौचासनादिभिः ॥ ऋBह्र्स्_१,२.२१७ ॥

आदीपुराणे
ये मे भक्तजनाः पार्थ न मे भक्ताश्च ते जनाः ।
मद्भक्तानां च ये भक्तास्ते मे भक्ततमा मताः ॥ ऋBह्र्स्_१,२.२१८ ॥

यावन्ति भगवद्भक्तेरङ्गानि कथितानीह ।
प्रायस्तावन्ति तद्भक्तभक्तेरपि बुधा विदुः ॥ ऋBह्र्स्_१,२.२१९ ॥

५७ अथ यथावैभवमहोत्सवो, यथा पाद्मे
यः करोति महीपाल हरेर्गेहे महोत्सवम् ।
तस्यापि भवति नित्यं हरिलोके महोत्सव ॥ ऋBह्र्स्_१,२.२२० ॥

५८ अथ ऊर्जादरो, यथा पाद्मे
यथा दामोदरो भक्तवत्सलो विदितो जनैः ।
तस्यायं तादृशो मासः स्वल्पमप्युरुकारकः ॥ ऋBह्र्स्_१,२.२२१ ॥

तत्रापि मथुरायां विशेषो, यथा तत्रैव
भुक्तिं मुक्तिं हरिर्दद्यादर्चितोऽन्यत्र सेविनाम् ।
भक्तिं तु न ददात्येव यतो वश्यकरी हरेः ॥ ऋBह्र्स्_१,२.२२२ ॥
सा त्वञ्जसा हरेर्भक्तिर्लभ्यते कार्त्तिके नरैः ।
मथुरायां सकृदपि श्रीदामोदरसेवनात् ॥ ऋBह्र्स्_१,२.२२३ ॥

५९ अथ श्रीजन्मदिनयात्रा, यथा भविष्योत्तरे
यस्मिन् दिने प्रसूतेयं देवकी त्वां जनार्दन ।
तद्दिनं ब्रूहि वैकुण्ठ कुर्मस्ते तत्र चोत्सवम् ।
तेन सम्यक्प्रपन्नानां प्रसादं कुरु केशवः ॥ ऋBह्र्स्_१,२.२२४ ॥

६० अथ श्रीमूर्तेर्अन्घ्रिसेवने प्रीतिः, यथा आदिपुराणे
मम नामसदाग्राही मम सेवाप्रियः सदा ।
भक्तिस्तस्मै प्रदातव्या न तु मुक्तिः कदाचन ॥ ऋBह्र्स्_१,२.२२५ ॥

६१ अथ श्रीभागवतार्थास्वादो, यथा प्रथमे (१.१.३)
निगमकल्पतरोर्गलितं फलं
शुकमुखादमृतद्रवसंयुतम् ।
पिबत भागवतं रसमालयं
मुहुरहो रसिका भुवि भावुकाः ॥ ऋBह्र्स्_१,२.२२६ ॥

तथा द्वितीये (२.१.९) च
परिनिष्ठितोऽपि नैर्गुण्ये उत्तमःश्लोकलीलया ।
गृहितचेता राजर्षे आख्यानं यदधीतवान् ॥ ऋBह्र्स्_१,२.२२७ ॥

६२अथ सजातीयाशयस्निग्धश्रीभगवद्भक्तसङ्गो, यथा प्रथमे (१.१८.१३)
तुलयाम लवेनापि न स्वर्गं नापुनर्भवम् ।
भगवत्सङ्गिसङ्गस्य मर्त्यानां किमुताशिषः ॥ ऋBह्र्स्_१,२.२२८ ॥

हरिभक्तिसुधोदये च
यस्य यत्सङ्गतिः पुंसो मणिवत्स्यात्स तद्गुणः ।
स्वकूलर्द्ध्यै ततो धीमान् स्वयूथ्यानेव संश्रयेत् ॥ ऋBह्र्स्_१,२.२२९ ॥

६३ अथ श्रीनाम संकीर्तनं, यथा द्वितीये (२.१.११)
एतन्निर्विद्यमानानामिच्छतामकुतोभयम् ।
योगिनां नृप निर्णीतं हरेर्नामानुकीर्तनम् ॥ ऋBह्र्स्_१,२.२३० ॥

आदिपुराणे च
गीत्वा च मम नामानि विचरेन्मम सन्निधौ ।
इति ब्रवीमि ते सत्यं क्रीतोऽहं तस्य चार्जुन ॥ ऋBह्र्स्_१,२.२३१ ॥

पाद्मे च
येन जन्मसहस्राणि वासुदेवो निषेवितः ।
तन्मुखे हरिनामानि सदा तिष्ठन्ति भारत ॥ ऋBह्र्स्_१,२.२३२ ॥

यतस्तत्रैव च
नाम चिन्तामणिः कृष्णश्चैतन्यरसविग्रहः ।
पूर्णः शुद्धो नित्यमुक्तोऽभिन्नत्वान्नामनामिनोः ॥ ऋBह्र्स्_१,२.२३३ ॥

अतः श्रीकृष्णनामादि न भवेद्ग्राह्यमिन्द्रियैः ।
सेवोन्मुखे हि जिह्वादौ स्वयमेव स्फुरत्यदः ॥ ऋBह्र्स्_१,२.२३४ ॥

६४ अथ श्रीमथुरामण्डले स्थितिः, यथा पाद्मे
अन्येषु पुण्यतीर्थेषु मुक्तिरेव महाफलम् ।
मुक्तैः प्रार्थ्या हरेर्भक्तिर्मथुरायां तु लभ्यते ॥ ऋBह्र्स्_१,२.२३५ ॥
त्रिवर्गदा कामिनां या मुमुक्षूणां च मोक्षदा ।
भक्तीच्छोर्भक्तिदा कस्तां मथुरां नाश्रयेद्बुधः ॥ ऋBह्र्स्_१,२.२३६ ॥
अहो मधुपुरी धन्या वैकुण्ठाच्च गरीयसी ।
दिनमेकं निवासेन हरौ भक्तिः प्रजायते ॥ ऋBह्र्स्_१,२.२३७ ॥

दुरूहाद्भुतवीर्येऽस्मिन् श्रद्धा दूरेऽस्तु पञ्चके ।
यत्र स्वल्पोऽपि सम्बन्धः सद्धियां भावजन्मने ॥ ऋBह्र्स्_१,२.२३८ ॥

तत्र श्रीमुर्तिः यथा
स्मेरां भङ्गीत्रयपरिचितां साचिविस्तीर्णदृष्टिं
वंशीन्यस्ताधरकिशलयामुज्ज्वलां चन्द्रकेण ।
गोविन्दाख्यां हरितनुमितः केशितीर्थोपकण्ठे
मा प्रेक्षिष्ठास्तव यदि सखे बन्धुसन्गेऽस्ति रङ्गः ॥ ऋBह्र्स्_१,२.२३९ ॥

श्रीभागवतं यथा
शङ्के नीताः सपदि दशमस्कन्धपद्यावलीनां
वर्णाः कर्णाध्वनि पथि कतामानुपुर्व्याद्भवद्भिः ।
हंहो दिम्भाः परमशुभदान् हन्त धर्मार्थकामान्
यद्गर्हन्तः सुखमयममी मोक्षमप्याक्षिपन्ति ॥ ऋBह्र्स्_१,२.२४० ॥

कृष्णभक्तो यथा
दृग्अम्भोभिर्धौतः पुलकपतली मण्डिततनुः
स्खलन्नन्तःफुल्लो दधदतिपृथुं वेपथुमपि ।
दृशोः कक्षां यावन्मम स पुरुषः कोऽप्युपययौ
न जाते किं तावन्मतिरिह गृहे नाभिरमते ॥ ऋBह्र्स्_१,२.२४१ ॥

नाम यथा
यदवधि मम शीता वैणिकेनानुगीता
श्रुतिपथमघशत्रोर्नामागाथा प्रयाता ।
अनवकलितपूर्वां हन्त कामप्यवस्थां
तदवधि दधद्अन्तर्मानसं शाम्यतीव ॥ ऋBह्र्स्_१,२.२४२ ॥

श्री मथुरामण्डलं, यथा
तटभुवि कृतकान्तिः श्यामला यास्तटिन्याः
स्फुटितनवकदम्बालम्बिकूजद्द्विरेफा ।
निरवधिमधुरिम्णा मण्डितेयं कथं मे
मनसि कमपि भावं काननश्रीस्तनोति ॥ ऋBह्र्स्_१,२.२४३ ॥

अलौकिकपदार्थानामचिन्त्या शक्तिरीदृशी ।
भावं तद्विषयं चापि या सहैव प्रकाशयेत् ॥ ऋBह्र्स्_१,२.२४४ ॥
केषांचित्क्वचिदङ्गानां यत्क्षुद्रं श्रूयते फलम् ।
बहिर्मुखप्रवृत्त्यैतत्किन्तु मुख्यं फलं रतिः ॥ ऋBह्र्स्_१,२.२४५ ॥
संमतं भक्तिविज्ञानां भक्त्य्अङ्गत्वं न कर्मणाम् ॥ ऋBह्र्स्_१,२.२४६ ॥

यथ चैकादशे (११.२०.९)
तावत्कर्माणि कुर्वीत न निर्विद्येत यावता ।
मत्कथाश्रवणादौ वा श्रद्धा यावन्न जायते ॥ ऋBह्र्स्_१,२.२४७ ॥

ज्ञानवैराग्ययोर्भक्तिप्रवेशायोपयोगिता ।
ईषत्प्रथममेवेति नाङ्गत्वमुचितं तयोः ॥ ऋBह्र्स्_१,२.२४८ ॥
यदुभे चित्तकाठिन्यहेतू प्रायः सतां मते ।
सुकुमारस्वभावेयं भक्तिस्तद्धेतुरीरिता ॥ ऋBह्र्स्_१,२.२४९ ॥

यथा तत्रैव (११.२०.३१)
तस्मान्मद्भक्तियुक्तस्य योगिनो वै मद्आत्मनः ।
न ज्ञानं न च वैराग्यं प्रायः श्रेयो भवेदिह ॥ ऋBह्र्स्_१,२.२५० ॥

किन्तु ज्ञानविरक्त्य्आदिसाध्यं भक्त्यैव सिध्यति ॥ ऋBह्र्स्_१,२.२५१ ॥

यथा तत्रैव (११.२०.३२३३)
यत्कर्मभिर्यत्तपसा ज्ञानवैराग्य तश्च यत् ।
योगेन दान धर्मेण श्रेयोभिरितरैरपि ॥ ऋBह्र्स्_१,२.२५२ ॥
सर्वं मद्भक्तियोगेन मद्भक्तो लभतेऽन्जसा ।
स्वर्गापवर्गं मद्धाम कथञ्चिद्यदि वाञ्छति ॥ ऋBह्र्स्_१,२.२५३ ॥

रुचिमुद्वहतस्तत्र जनस्य भजने हरेः ।
विषयेषु गरिष्ठोऽपि रागः प्रायो विलीयते ॥ ऋBह्र्स्_१,२.२५४ ॥
अनासक्तस्य विषयान् यथार्हमुपयुञ्जतः ।
निर्बन्धः कृष्णसम्बन्धे युक्तं वैराग्यमुच्यते ॥ ऋBह्र्स्_१,२.२५५ ॥
प्रापञ्चिकतया बुद्ध्या हरिसम्बन्धिवस्तुनः ।
मुमुक्षुभिः परित्यागो वैराग्यं फल्गु कथ्यते ॥ ऋBह्र्स्_१,२.२५६ ॥
प्रोक्तेन लक्षणेनैव भक्तिरधिकृतस्य च ।
अङ्गत्वे सुनिरस्तेऽपि नित्याद्य्अखिलकर्मणाम् ॥ ऋBह्र्स्_१,२.२५७ ॥
ज्नानस्याध्यात्मिकस्यापि वैरग्यस्य च फल्गुनः ।
स्पष्टतार्थं पुनरपि तदेवेदं निराकृतम् ॥ ऋBह्र्स्_१,२.२५८ ॥
धनशिष्यादिभिर्द्वारैर्या भक्तिरुपपाद्यते ।
विदूरत्वादुत्तमताहान्या तस्याश्च नाङ्गता ॥ ऋBह्र्स्_१,२.२५९ ॥
विशेषणत्वमेवैषां संश्रयन्त्यधिकारिणाम् ।
विवेकादीन्यतोऽमीषामपि नाङ्गत्वमुच्यते ॥ ऋBह्र्स्_१,२.२६० ॥
कृष्णोन्मुखं स्वयं यान्ति यमाः शौचादयस्तथा ।
इत्येषां च न युक्ता स्याद्भक्त्य्अङ्गान्तरपातिता ॥ ऋBह्र्स्_१,२.२६१ ॥

यथा स्कान्दे
एते न ह्यद्भुता व्याध तवाहिंसादयो गुणाः ।
हरिभक्तौ प्रवृत्ता ये न ते स्युः परतापिनः ॥ ऋBह्र्स्_१,२.२६२ ॥

तत्रैव
अन्तःशुद्धिर्बहिःशुद्धिस्तपःशान्त्य्अदयस्तथा ।
अमी गुणाः प्रपद्यन्ते हरिसेवाभिकामिनाम् ॥ ऋBह्र्स्_१,२.२६३ ॥

सा भक्तिरेकमुख्याण्गाश्रितानैकाङ्गि काथ वा ।
स्ववासनानुसारेण निष्ठातः सिद्धिकृद्भवेत् ॥ ऋBह्र्स्_१,२.२६४ ॥

तत्र एकाङ्गा, यथा ग्रन्थान्तरे {*ড়द्यावली, ५३. आनोन्य्मोउस्}
श्री विष्णोः श्रवणे परीक्षिदभवद्वैयासकिः कीर्तने
प्रह्लादः स्मरणे तद्अङ्घ्रिभजने लक्ष्मीः पृथुः पूजने ।
अक्रूरस्त्वभिवन्दने कपिपतिर्दास्येऽथ सख्येऽर्जुनः
सर्वस्वात्मनिवेदने बलिरभूत्कृष्णाप्तिरेषां परा ॥ ऋBह्र्स्_१,२.२६५ ॥

अनेकाङ्गा, यथा नवमे (९.४.१८२०)
स वै मनः कृष्णपदारविन्दयोर्
वचांसि वैकुण्ठगुणानुवर्णने ।
करौ हरेर्मन्दिरमार्जनादिषु
श्रुतिं चकाराच्युतसत्कथोदये ॥ ऋBह्र्स्_१,२.२६६ ॥

मुकुन्दलिङ्गालयदर्शने दृशौ
तद्भृत्यगात्रस्पर्शेऽङ्गसङ्गमम् ।
घ्राणं च तत्पादसरोजसौरभे
श्रीमत्तुलस्या रसनां तद्अर्पिते ॥ ऋBह्र्स्_१,२.२६७ ॥
पादौ हरेः क्षेत्रपदानुसर्पणे
शिरो हृषीकेशपदाभिवन्दने ।
कामं च दास्ये न तु कामकाम्यया
यथोत्तमःश्लोकजनाश्रय रतिः ॥ ऋBह्र्स्_१,२.२६८ ॥

शास्त्रोक्तया प्रबलया तत्तन्मर्यादयान्विता ।
वैधि भक्तिरियं कैश्चन्मर्यादामार्ग उच्यते ॥ ऋBह्र्स्_१,२.२६९ ॥

अथ रागानुगा
विराजन्तीमभिव्यक्तां व्रजवासी जनादिषु ।
रागात्मिकामनुसृता या सा रागानुगोच्यते ॥ ऋBह्र्स्_१,२.२७० ॥
रागानुगाविवेकार्थमादौ रागात्मिकोच्यते ॥ ऋBह्र्स्_१,२.२७१ ॥
इष्टे स्वारसिकी रागः परमाविष्टता भवेत् ।
तन्मयी या भवेद्भक्तिः सात्र रागात्मिकोदिता ॥ ऋBह्र्स्_१,२.२७२ ॥
सा कामरूपा सम्बन्धरूपा चेति भवेद्द्विधा ॥ ऋBह्र्स्_१,२.२७३ ॥

तथा हि सप्तमे (७.१.२९३०)
कामाद्द्वेषाद्भयात्स्नेहाद्यथा भक्त्येश्वरे मनः ।
आवेश्य तदघं हित्वा बहवस्तद्गतिं गताः ॥ ऋBह्र्स्_१,२.२७४ ॥
गोप्यः कामाद्भयात्कंसो द्वेषाच्चैद्यादयो नृपाः ।
सम्बन्धाद्वृष्णयः स्नेहाद्यूयं भक्त्या वयं विभो ॥ ऋBह्र्स्_१,२.२७५ ॥
इति ॥

आनुकूल्यविपर्यासाद्भीतिद्वेषौ पराहतौ ।
स्नेहस्य सख्यवाचित्वाद्वैधभक्त्य्अनुवर्तिता ॥ ऋBह्र्स्_१,२.२७६ ॥
किं वा प्रेमाभिधायित्वान्नोपयोगोऽत्र साधने ।
भक्त्या वयमिति व्यक्तं वैधी भक्तिरुदीरिता ॥ ऋBह्र्स्_१,२.२७७ ॥
यद्अरीणां प्रियाणां च प्राप्यमेकमिवोदितम् ।
तद्ब्रह्मकृष्णयोरैक्यात्किरणार्कोपमाजुषोः ॥ ऋBह्र्स्_१,२.२७८ ॥
ब्रह्मण्येव लयं यान्ति प्रायेण रिपवो हरेः ।
केचित्प्राप्यापि सारूप्याभासं मज्जन्ति तत्सुखे ॥ ऋBह्र्स्_१,२.२७९ ॥

तथा च ब्रह्माण्ड पुराणे
सिद्धलोकस्तु तमसः पारे यत्र वसन्ति हि ।
सिद्धा ब्रह्मसुखे मग्ना दैत्याश्च हरिण हताः ॥ ऋBह्र्स्_१,२.२८० ॥

रागबन्धेन केनापि तं भजन्तो व्रजन्त्यमी ।
अङ्घ्रिपद्मसुधाः प्रेमरूपास्तस्य प्रिया जनाः ॥ ऋBह्र्स्_१,२.२८१ ॥
तथा हि श्रीदशमे (१०.८७.२३)
निभृतमरुन्मनोऽक्षदृढयोगयुजो हृदि यन्
मुनय उपासते तद्अरयोऽपि ययुः स्मरणात् ।
स्त्रिय उरगेन्द्रभोगभुजदण्डविषक्तधियो
वयमपि ते समाः समदृशोऽङ्घ्रिसरोजसुधाः ॥ ऋBह्र्स्_१,२.२८२ ॥

तत्र रूपा
सा कामरूपा सम्भोगतृष्णां या नयति स्वताम् ।
यदस्यां कृष्णसौख्यार्थमेव केवलमुद्यमः ॥ ऋBह्र्स्_१,२.२८३ ॥
इयं तु व्रजदेवीषु सुप्रसिद्धा विराजते ।
आसां प्रेमविशेषोऽयं प्राप्तः कामपि माधुरीम् ।
तत्तत्क्रीडानिदानत्वात्काम इत्युच्यते बुधैः ॥ ऋBह्र्स्_१,२.२८४ ॥

तथा च तन्त्रे
प्रेमैव गोपरामाणां काम इत्यगमत्प्रथाम् ॥ ऋBह्र्स्_१,२.२८५ ॥

इत्युद्धवादयोऽप्येतं वाञ्छति भगवत्प्रियाः ॥ ऋBह्र्स्_१,२.२८६ ॥
कामप्राया रतिः किन्तु कुब्जायामेव सम्मता ॥ ऋBह्र्स्_१,२.२८७ ॥

तत्र सम्बन्धरूपा
सम्बन्धरूपा गोविन्दे पितृत्वाद्य्आभिमानिता ।
अत्रोपलक्षणतया वृष्णीनां वल्लवा मताः ।
यदैश्यज्ञानशून्यत्वादेषां रागे प्रधानता ॥ ऋBह्र्स्_१,२.२८८ ॥
कामसम्बन्धरूपे ते प्रेममात्रस्वरूपके ।
नित्यसिद्धाश्रयतया नात्र सम्यग्विचारिते ॥ ऋBह्र्स्_१,२.२८९ ॥
रागात्मिकाया द्वैविध्याद्द्विधा रागानुगा च सा ।
कामानुगा च सम्बन्धानुगा चेति निगद्यते ॥ ऋBह्र्स्_१,२.२९० ॥

तत्र अधिकारी
रागात्मिकैकनिष्ठा ये व्रजवासिजनादयः ।
तेषां भावाप्तये लुब्धो भवेदत्राधिकारवान् ॥ ऋBह्र्स्_१,२.२९१ ॥
तत्तद्भावादिमाधुर्ये श्रुते धीर्यदपेक्षते ।
नात्र शास्त्रं न युक्तिं च तल्लोभोत्पत्तिलक्षणम् ॥ ऋBह्र्स्_१,२.२९२ ॥
वैधभक्त्य्अधिकारी तु भावाविर्भवनावधि ।
अत्र शास्त्रं तथा तर्कमनुकूलमपेक्षते ॥ ऋBह्र्स्_१,२.२९३ ॥
कृष्णं स्मरन् जनं चास्य प्रेष्ठं निजसमीहितम् ।
तत्तत्कथारतश्चासौ कुर्याद्वासं व्रजे सदा ॥ ऋBह्र्स्_१,२.२९४ ॥
सेवा साधकरूपेण सिद्धरूपेण चात्र हि ।
तद्भावलिप्सुना कार्या व्रजलोकानुसारतः ॥ ऋBह्र्स्_१,२.२९५ ॥
श्रवणोत्कीर्तनादीनि वैधभक्त्य्उदितानि तु ।
यान्यङ्गानि च तान्यत्र विज्ञेयानि मनीषिभिः ॥ ऋBह्र्स्_१,२.२९६ ॥

तत्र कामानुगा
कामानुगा भवेत्तृष्णा कामरूपानुगामिनी ॥ ऋBह्र्स्_१,२.२९७ ॥
सम्भोगेच्छामयी तत्तद्भावेच्छात्मेति सा द्विधा ॥ ऋBह्र्स्_१,२.२९८ ॥
केलितात्पर्यवत्येव सम्भोगेच्छामयी भवेत् ।
तद्भावेच्छात्मिका तासां भावमाधुर्यकामिता ॥ ऋBह्र्स्_१,२.२९९ ॥
श्रीमूर्तेर्माधुरीं प्रेक्ष्य तत्तल्लीलां निशम्य वा ।
तद्भावाकाण्क्षिणो ये स्युस्तेषु साधनतानयोः ।
पुराणे श्रुयते पाद्मे पुंसमपि भवेदियम् ॥ ऋBह्र्स्_१,२.३०० ॥

यथा
पुरा महर्षयः सर्वे दण्डकारण्यवासिनः ।
दृष्ट्वा रामं हरिं तत्र भोक्तुमैच्छन् सुविग्रहम् ॥ ऋBह्र्स्_१,२.३०१ ॥
ते सर्वे स्त्रीत्वमापन्नाः समुद्भूताश्च गोकुले ।
हरिं सम्प्राप्य कामेन ततो मुक्ता भवार्णवात् ॥ ऋBह्र्स्_१,२.३०२ ॥

रिरंसां सुष्ठु कुर्वन् यो विधिमार्गेण सेवते ।
केवलेनैव स तदा महिषीत्वमियात्पुरे ॥ ऋBह्र्स्_१,२.३०३ ॥

तथा च महाकौर्मे
अग्निपुत्रा महात्मानस्तपसा स्त्रीत्वमापिरे ।
भर्तारं च जगद्योनिं वासुदेवमजं विभुम् ॥ ऋBह्र्स्_१,२.३०४ ॥

अथ सम्बन्धानुगा
सा सम्बन्धानुगा भक्तिः प्रोच्यते सद्भिरात्मनि ।
या पितृत्वादिसम्बन्धमननारोपनात्मिका ॥ ऋBह्र्स्_१,२.३०५ ॥
लुब्धैर्वात्सल्यसख्यादौ भक्तिः कार्यात्र साधकैः ।
व्रजेन्द्रसुबलादीनां भावचेष्टितमुद्रया ॥ ऋBह्र्स्_१,२.३०६ ॥
तथा हि श्रुयते शास्त्रे कश्चित्कुरुपुरीस्थितः ।
नन्दसूनोरधिष्ठानं तत्र पुत्रतया भजन् ।
नारदस्योपदेशेन सिद्धोऽभूद्वृद्धवर्धकिः ॥ ऋBह्र्स्_१,२.३०७ ॥

अतएव नारायणव्यूहस्तवे
पतिपुत्रसुहृद्भ्रातृपितृवन्मैत्रवद्धरिम् ।
ये ध्यायन्ति सदोद्युक्तास्तेभ्योऽपीह नमो नमः ॥ ऋBह्र्स्_१,२.३०८ ॥
कृष्णतद्भक्तकारुण्यमात्रलाभैकहेतुका ।
पुष्टिमार्गतया कैश्चिदियं रागानुगोच्यते ॥ ऋBह्र्स्_१,२.३०९ ॥

इति श्रीश्रीभक्तिरसामृतसिन्धौ
पुर्वविभागे साधनभक्तिलहरीद्वितिया ॥

___________________________________________________

[१.३]
अथ भावः

शुद्धसत्त्वविशेषात्मा प्रेमसूर्यांशुसाम्यभाक् ।
रुचिभिश्चित्तमासृण्यकृदसौ भाव उच्यते ॥ ऋBह्र्स्_१,३.१ ॥

तथा हि तन्त्रे
प्रेम्णस्तु प्रथमावस्था भाव इत्यभिधीयते ।
सात्त्विकाः स्वल्पमात्राः स्युरत्राश्रुपुलकादयः ॥ ऋBह्र्स्_१,३.२ ॥

स यथा पद्मपुराणे
ध्यायं ध्यायं भगवतः पादाम्बुजयुगं तदा ।
ईषद्विक्रियमाणात्मा सार्द्रदृष्तिरभूदसौ ॥ ऋBह्र्स्_१,३.३ ॥

आविर्भूय मनोवृत्तौ व्रजन्ति तत्स्वरूपताम् ।
स्वयंप्रकाशरूपापि भासमाना प्राकाश्यवत् ॥ ऋBह्र्स्_१,३.४ ॥
वस्तुतः स्वयमास्वादस्वरूपैव रतिस्त्वसौ ।
कृष्णादिकर्मकास्वादहेतुत्वं प्रतिपद्यते ॥ ऋBह्र्स्_१,३.५ ॥
साधनाभिनिवेशेन कृष्णतद्भक्तयोस्तथा ।
प्रसादेनातिधन्यानां भावो द्वेधाभिजायते ।
आद्यस्तु प्रायिकस्तत्र द्वितीयो विरलोदयः ॥ ऋBह्र्स्_१,३.६ ॥

तत्र साधनाभिनिवेशजः
वैधीरागानुगामार्गभेदेन परिकीर्तितः ।
द्विविधः खलु भावोऽत्र साधनाभिनिवेशजः ॥ ऋBह्र्स्_१,३.७ ॥
साधनाभिनिवेशस्तु तत्र निष्पादयन् रुचिम् ।
हरावासक्तिमुत्पाद्य रतिं संजनयत्यसौ ॥ ऋBह्र्स्_१,३.८ ॥

तत्र आद्यो (१.५.२६)
तत्रान्वहं कृष्णकथाः प्रगायताम्
अनुग्रहेणाशृणवं मनोहराः ।
ताः श्रद्धया मेऽनुपदं विशृण्वतः
प्रियश्रवस्यङ्ग ममाभवद्रतिः ॥ ऋBह्र्स्_१,३.९ ॥ इति ।

रत्या तु भाव एवात्र न तु प्रेमाभिधीयते ।
मम भक्तिः प्रवृत्तेति वक्ष्यते स यदग्रतः ॥ ऋBह्र्स्_१,३.१० ॥

यथा तत्रैव (१.५.२८)
इत्थं शरत्प्रावृषिकावृतू हरेर्
विशृण्वतो मेऽनुसवं यशोऽमलम् ।
सङ्कीर्त्यमानं मुनिभिर्महात्मभिर्
भक्तिः प्रवृत्तात्म रजस्तमोपहा ॥ ऋBह्र्स्_१,३.११ ॥

तृतीये च (३.२५.२५)
सतां प्रसङ्गान्मम वीर्यसंविदो
भवन्ति हृत्कर्णरसायनाः कथाः ।
तज्जोषणादाश्वपवर्गवर्त्मनि
श्रद्धा रतिर्भक्तिरनुक्रमिष्यति ॥ ऋBह्र्स्_१,३.१२ ॥

पुराणे नात्यशास्त्रे च द्वयोस्तु रतिभावयोः ।
समानार्थतया ह्यत्र द्वयमैक्येन लक्षितम् ॥ ऋBह्र्स्_१,३.१३ ॥

द्वितीयो, यथा पाद्मे
इत्थं मनोरथं बाला कुर्वती नृत्य उत्सुका ।
हरिप्रीत्या च तां सर्वां रात्रिमेवात्यवाहयत् ॥ ऋBह्र्स्_१,३.१४ ॥

अथ श्रिकृष्णतद्भक्तप्रसादजः
साधनेन विना यस्तु सहसैवाभिजायते ।
स भावः कृष्णतद्भक्तप्रसादज इतीयते ॥ ऋBह्र्स्_१,३.१५ ॥

अथ श्रीकृष्णप्रसादजः
प्रसादा वाचिकालोकदानहार्दादयो हरेः ॥ ऋBह्र्स्_१,३.१६ ॥

तत्र वाचिकप्रसादजः, यथा नारदीये
सर्वमण्गलमूर्धन्या पूर्णानन्दमयी सदा ।
द्विजेन्द्र तव मय्यस्तु भक्तिरव्याभिचारिणी ॥ ऋBह्र्स्_१,३.१७ ॥
आलोकदानजः, यथा स्कान्दे
अदृष्टपूर्वमालोक्य कृष्णं जाङ्गलवासिनः ।
विक्लिद्यद्अन्तरात्मनो दृष्टिं नाक्रष्टुमीशिरे ॥ ऋBह्र्स्_१,३.१८ ॥

हार्दः
प्रसाद आन्तरो यः स्यात्स हार्द इति कथ्यते ॥ ऋBह्र्स्_१,३.१९ ॥

यथा शुकसंहितायां
महाभागवतो जातः पुत्रस्ते बादरायण ।
विनोपायैरुपेयाभूद्विष्णुभक्तिरिहोदिता ॥ ऋBह्र्स्_१,३.२० ॥

अथ तद्भक्तप्रसादजः, यथा सप्तमे (७.४.३६)
गुणैरलमसङ्ख्येयैर्महात्म्यं तस्य सूच्यते ।
वासुदेवे भगवति यस्य नैसर्गिकी रतिः ॥ ऋBह्र्स्_१,३.२१ ॥

नारदस्य प्रसादेन प्रह्लादे शुधवासना ।
निसर्गः सैव तेनात्र रतिर्नैसर्गिकी मता ॥ ऋBह्र्स्_१,३.२२ ॥

स्कान्दे च
अहो धन्योऽसि देवर्षे कृपया यस्य तत्क्षणात् ।
नीचोऽप्युत्पुलको लेभे लुब्धको रतिमच्युते ॥ ऋBह्र्स्_१,३.२३ ॥

भक्तानां भेदतः सेयं रतिः पञ्चविधा मता ।
अग्रे विविच्य वक्तव्या तेन नात्र प्रपञ्च्यते ॥ ऋBह्र्स्_१,३.२४ ॥
क्षान्तिरव्यर्थकालत्वं विरक्तिर्मानशुन्यता ।
आशाबन्धः समुत्कण्ठा नामगाने सदा रुचिः ॥ ऋBह्र्स्_१,३.२५ ॥
आसक्तिस्तद्गुणाख्याने प्रीतिस्तद्वसतिस्थले ।
इत्यादयोऽनुभावाः स्युर्जातभावाङ्कुरे जने ॥ ऋBह्र्स्_१,३.२६ ॥

तत्र क्षान्तिः
क्षोभहेतावपि प्राप्ते क्षान्तिरक्षुभितात्मता ॥ ऋBह्र्स्_१,३.२७ ॥

यथा प्रथमे (१.१९.१५)
तं मोपयातं प्रतियन्तु विप्रा
गङ्गा च देवी धृतचित्तमीशे ।
द्विजोपसृष्टः कुहकस्तक्षको वा
दशत्वलं गायत विष्णुगाथाः ॥ ऋBह्र्स्_१,३.२८ ॥

अथ अव्यार्थकालत्वं, यथा हरिभक्तिसुधोदये
वाग्भिः स्तुवन्तो मनसा स्मरन्तस्
तन्वा नमन्तोऽप्यनिशं न तृप्ताः ।
भक्ताः स्रवन्नेत्रजलाः समग्रम्
आयुर्हरेरेव समर्पयन्ति ॥ ऋBह्र्स्_१,३.२९ ॥

अथ विरक्तिः
विरक्तिरिन्द्रियार्थानां स्यादरोचकता स्वयम् ॥ ऋBह्र्स्_१,३.३० ॥

यथा पञ्चमे (५.१४.४३)
यो दुस्त्यजान् दारसुतान् सुहृद्राज्यं हृदिस्पृशः ।
जहौ युवैव मलवदुत्तमःश्लोकलालसः ॥ ऋBह्र्स्_१,३.३१ ॥

अथ मानशून्यता
उत्कृष्टत्वेऽप्यमानित्वं कथिता मानशून्यता ॥ ऋBह्र्स्_१,३.३२ ॥

यथा पाद्मे
हरौ रतिं वहन्नेष नरेन्द्राणां शिखामणिः ।
भिक्षामटन्नरिपुरे श्वपाकमपि वन्दते ॥ ऋBह्र्स्_१,३.३३ ॥

अथ आशाबन्धः
आशाबन्धो भगवतः प्राप्तिसम्भावना दृढा ॥ ऋBह्र्स्_१,३.३४ ॥

यथा श्रीमत्प्रभुपादानां
न प्रेमा श्रवणादिभक्तिरपि वा योगोऽथवा वैष्णवो
ज्ञानं वा शुभकर्म वा कियदहो सज्जातिरप्यस्ति वा ।
हीनार्थाधिकसाधके त्वयि तथाप्यच्छेद्यमूला सती
हे गोपीजनवल्लभ व्यथयते हा हा मद्आशैव माम् ॥ ऋBह्र्स्_१,३.३५ ॥

अथ समुत्कण्ठा
समुत्कण्ठा निजाभीष्टलाभाय गुरुलुब्धता ॥ ऋBह्र्स्_१,३.३६ ॥

अथ कृष्णकर्णामृते (५४)
आनम्रामसितभ्रुवोरुपचितमक्षीणपक्ष्माङ्कुरेष्व्
आलोलामनुरागिणोर्नयनयोरार्द्रां मृदौ जल्पिते ।
आताम्रामधरामृते मदकलामम्लान वंशीस्वनेष्व्
आशास्ते मम लोचनं व्रजशिशोर्मूर्तिं जगन्मोहिनीम् ॥ ऋBह्र्स्_१,३.३७ ॥

अथ नामगाने सदा रुचिः, यथा
रोदनबिन्दुमरन्दस्यन्दिदृग्इन्दीवराद्य गोविन्द ।
तव मधुरस्वरकण्ठी गायति नामावलीं बाला ॥ ऋBह्र्स्_१,३.३८ ॥

तद्गुणाख्याने आसाक्तिः, यथा कृष्णकर्णामृते (८८)
माधुर्यादपि मधुरं
मन्मथता तस्य किमपि कैशोरम् ।
चपल्यादपि चपलं
चेतो बत हरति हन्त किं कुर्मः ॥ ऋBह्र्स्_१,३.३९ ॥

तद्वसतिस्थले प्रीतिः, यथा पद्यावल्याम् {*णोत्fओउन्दिन्म्येदितिओन्.}
अत्रासीत्किल नन्दसद्म शकटस्यात्राभवद्भञ्जनं
बन्धच्छेदकरोऽपि दामभिरभूद्बद्धोऽत्र दामोदरः ।
इत्थं माथुरवृद्धवक्त्रविगलत्पीयूषधारां पिबन्न्
आनन्दाश्रुधरः कदा मधुपुरीं धन्यश्चरिष्याम्यहम् ॥ ऋBह्र्स्_१,३.४० ॥

अपि च
व्यक्तं मसृणितेवान्तर्लक्ष्यते रतिलक्षणम् ।
मुमुक्षुप्रभृतीनां चेद्भवेदेषा रतिर्न हि ॥ ऋBह्र्स्_१,३.४१ ॥
विमुक्ताखिलतर्षैर्या मुक्तिरपि विमृग्यते ।
या कृष्णेनातिगोप्याशु भजद्भ्योऽपि न दीयते ॥ ऋBह्र्स्_१,३.४२ ॥
सा भुक्तिमुक्तिकामत्वाच्छुद्धां भक्तिमकुर्वताम् ।
हृदये सम्भवत्येषां कथं भागवती रतिः ॥ ऋBह्र्स्_१,३.४३ ॥
किन्तु बालचमत्कारकरी तच्चिह्नवीक्षया ।
अभिज्ञेन सुबोधोऽयं रत्य्आभासः प्रकीर्तितः ॥ ऋBह्र्स्_१,३.४४ ॥
प्रतिबिम्बस्तथा च्छाया रत्य्आभासो द्विधा मतः ॥ ऋBह्र्स्_१,३.४५ ॥

तत्र प्रतिबिम्बः
अश्रमाभीष्टनिर्वाही रतिलक्षणलक्षितः ।
भोगापवर्गसौख्यांशव्यञ्जकः प्रतिबिम्बकः ॥ ऋBह्र्स्_१,३.४६ ॥
दैवात्सद्भक्तसङ्गेन कीर्तनाद्य्अनुसारिणाम् ।
प्रायः प्रसन्नमनसां भोगमोक्षादि रागिणाम् ॥ ऋBह्र्स्_१,३.४७ ॥
केषांचिथृदि भावेन्दोः प्रतिबिम्ब उदञ्चति ।
तद्भक्तहृन्नभःस्थस्य तत्संसर्गप्रभावतः ॥ ऋBह्र्स्_१,३.४८ ॥

अथ छाया
क्षुद्रकौतूहलमयी चञ्चला दुःखहारिणी ।
रतेश्छाया भवेत्किंचित्तत्सादृश्यावलम्बिनी ॥ ऋBह्र्स्_१,३.४९ ॥
हरिप्रियक्रियाकालदेशपात्रादिसङ्गमात् ।
अप्यानुषङ्गिकादेष क्वचिदज्ञेष्वपीक्ष्यते ॥ ऋBह्र्स्_१,३.५० ॥
किन्तु भाग्यं विना नासौ भावच्छायाप्युदञ्चति ।
यदभ्युदयतः क्षेमं तत्र स्यादुत्तरोत्तरम् ॥ ऋBह्र्स्_१,३.५१ ॥
हरिप्रियजनस्यैव प्रसादभरलाभतः ।
भावाभासोऽपि सहसा भावत्वमुपगच्छति ॥ ऋBह्र्स्_१,३.५२ ॥
तस्मिन्नेवापराधेन भावाभासोऽप्यनुत्तमः ।
क्रमेण क्षयमाप्नोति खस्थः पूर्णशशी यथा ॥ ऋBह्र्स्_१,३.५३ ॥

किं च
भावोऽप्यभावमायाति कृष्णप्रेष्ठापराधतः ।
आभासतां च शनकैर्न्यूनजातीयतामपि ॥ ऋBह्र्स्_१,३.५४ ॥
गाढासङ्गात्सदायाति मुमुक्षौ सुप्रतिष्ठिते ।
आभासतामसौ किं वा भजनीयेशभावताम् ॥ ऋBह्र्स्_१,३.५५ ॥
अत एव क्वचित्तेषु नव्यभक्तेषु दृश्यते ।
क्षणमीश्वरभावोऽयं नृत्यादौ मुक्तिपक्षगः ॥ ऋBह्र्स्_१,३.५६ ॥
साधनेक्षां विना यस्मिन्नकस्माद्भाव ईक्ष्यते ।
विघ्नस्थगितमत्रोह्यं प्राग्भवीयं सुसाधनम् ॥ ऋBह्र्स्_१,३.५७ ॥
लोकोत्तरचमत्कारकारकः सर्वशक्तिदः ।
यः प्रथीयान् भवेद्भावः स तु कृष्णप्रसादजः ॥ ऋBह्र्स्_१,३.५८ ॥
जने चेज्जातभावेऽपि वैगुण्यमिव दृश्यते ।
कार्या तथापि नासूया कृतार्थः सर्वथैव सः ॥ ऋBह्र्स्_१,३.५९ ॥

यथा नारसिंहे
भगवति च हरावनन्यचेता
भृशमलिनोऽपि विराजते मनुष्यः ।
न हि शशकलुषच्छविः कदाचित्
तिमिरपराभवतामुपैति चन्द्रः ॥ ऋBह्र्स्_१,३.६० ॥

रतिरनिशनिसर्गोष्णप्रबलतरानन्दपूररूपैव ।
उष्माणमपि वमन्ती सुधांशुकोटेरपि स्वाद्वी ॥ ऋBह्र्स्_१,३.६१ ॥

इति श्रीश्री भक्तिरसामृतसिन्धौ
पुर्वविभागे भावभक्तिलहरी तृतीया ॥

___________________________________________________

[१.४]
अथ प्रेमा

सम्यङ्मसृणितस्वान्तो ममत्वातिशयाङ्कितः ।
भावः स एव सान्द्रात्मा बुधैः प्रेमा निगद्यते ॥ ऋBह्र्स्_१,४.१ ॥

यथा पञ्चरात्रे
अनन्यममता विष्णौ ममता प्रेमसङ्गता ।
भक्तिरित्युच्यते भीष्मप्रह्लादोद्धवनारदैः ॥ ऋBह्र्स्_१,४.२ ॥

भक्तिः प्रेमोच्यते भीष्ममुख्यैर्यत्र तु सङ्गता ।
ममतान्यममत्वेन वर्जितेत्यत्र योजना ॥ ऋBह्र्स्_१,४.३ ॥
भावोत्थोऽतिप्रसादोत्थः श्रीहरेरिति स द्विधा ॥ ऋBह्र्स्_१,४.४ ॥

तत्र भावोत्थः
भाव एवान्तर्अङ्गाणम्अङ्गानाम्अनुसेवया ।
आरूढः परमोत्कर्षं भावोत्तः परिकीर्तितः ॥ ऋBह्र्स्_१,४.५ ॥

तत्र वैधभावोत्थो, यथैकादशे (११.२.४०)
एवंव्रतः स्वप्रियनामकीर्त्या
जातानुरागो द्रुतचित्त उच्चैः ।
हसत्यथो रोदिति रौति गायत्य्
उन्मादवन्नृत्यति लोकबाह्यः ॥ ऋBह्र्स्_१,४.६ ॥

रागानुगीयभावोत्थो, यथा पाद्मे
न पतिं कामयेत्कञ्चिद्ब्रह्मचर्यस्थिता सदा ।
तम्एव मूर्तिं ध्यायन्ती चन्द्रकन्तिर्वरानना ॥ ऋBह्र्स्_१,४.७ ॥
श्रीकृष्णगाथां गायन्ती रोमाण्चोद्भेदलक्षणा ।
अस्मिन्मन्वन्तरे स्निग्धा श्रीकृष्णप्रियवर्तया ॥ ऋBह्र्स्_१,४.८ ॥

अथ हरेरतिप्रसादोत्थः
हरेरतिप्रसादोऽयं सङ्गदानादिरात्मनः ॥ ऋBह्र्स्_१,४.९ ॥

यथैकादशे (११.१२.७)
ते नाधीतश्रुतिगणा नोपासितमहत्तमाः ।
अव्रतातप्ततपसः मत्सङ्गान्मामुपागताः ॥ ऋBह्र्स्_१,४.१० ॥

माहात्म्यज्ञानयुक्तश्च केवलश्चेति स द्विधा ॥ ऋBह्र्स्_१,४.११ ॥
अथ आद्यो, यथा पञ्चरात्रे
माहात्म्यज्ञानयुक्तस्तु सुदृढः सर्वतोऽधिकः ।
स्नेहो भक्तिरिति प्रोक्तस्तया सार्ष्ट्यादिनान्यथा ॥ ऋBह्र्स्_१,४.१२ ॥

केवलो, यथा तत्रैव
मनोगतिरविच्छिन्ना हरौ प्रेमपरिप्लुता ।
अभिसन्धिविनिर्मुक्ता भक्तिर्विष्णुवशङ्करी ॥ ऋBह्र्स्_१,४.१३ ॥ इति ।

महिमज्ञानयुक्तः स्याद्विधिमार्गानुसारिणाम् ।
रागानुगाश्रितानां तु प्रायशः केवलो भवेत् ॥ ऋBह्र्स्_१,४.१४ ॥

आदौ श्रद्धा ततः साधुसङ्गोऽथ भजनक्रिया ।
ततोऽनर्थनिवृत्तिः स्यात्ततो निष्ठा रुचिस्ततः ॥ ऋBह्र्स्_१,४.१५ ॥
अथासक्तिस्ततो भावस्ततः प्रेमाभ्युदञ्चति ।
साधकानामयं प्रेम्नः प्रादुर्भावे भवेत्क्रमः ॥ ऋBह्र्स्_१,४.१६ ॥
धन्यस्यायं नवः प्रेमा यस्योन्मीलति चेतसि ।
अन्तर्वाणीभिरप्यस्य मुद्रा सुष्ठु सुदुर्गमा ॥ ऋBह्र्स्_१,४.१७ ॥

अतएव श्रीनारदपञ्चरात्रे, यथा
भावोन्मत्तो हरेः किञ्चिन्न वेद सुखमात्मनः ।
दुखं चेति महेशानि परमानन्द आप्लुतः ॥ ऋBह्र्स्_१,४.१८ ॥

प्रेम्ण एव विलासत्वाद्वैरल्यात्साधकेष्वपि ।
अत्र स्नेहादयो भेदा विविच्य न हि शंसिताः ॥ ऋBह्र्स्_१,४.१९ ॥

श्रीमत्प्रभुपदाम्भोजैः सर्वा भागवतामृते ।
व्यक्तीकृतास्ति गूढापि भक्तिसिद्धान्तमाधुरी ॥ ऋBह्र्स्_१,४.२० ॥
गोपालरूपशोभां दधदपि रघुनाथभावविस्तारी ।
तुष्यतु सनातनात्मा प्रथमविभागे सुधाम्बुनिधेः ॥ ऋBह्र्स्_१,४.२१ ॥

इति श्रीश्रीभक्तिरसामृतसिन्धौ
पूर्वविभागे प्रेमभक्तिलहरीचतुर्थी

इति श्रीश्रीभक्तिरसामृतसिन्धौ
रसोपयोगिस्थायिभावोपपादनो नाम
पूर्वविभागः समाप्तः।

___________________________________________________

[२]

सामान्यभगवद्भक्तिरसनिरूपको

दक्षिणविभागः।

[२.१]
विभावाख्या
प्रथमलहरी

प्रबलमनन्यश्रयिणा निषेवितः सहजरूपेण ।
अघदमनो मथुरायां सदा सनातनतनुर्जयति ॥ ऋBह्र्स्_२,१.१ ॥
रसामृताब्धेर्भागेऽस्मिन् द्वितीये दक्षिणाभिधे ।
सामान्यभगवद्भक्तिरसस्तावदुदीर्यते ॥ ऋBह्र्स्_२,१.२ ॥
अस्य पञ्च लहर्यः स्युर्विभावाख्याग्रिमा मता ।
द्वितीया त्वनुभावाख्या तृतीया सात्त्विकाभिधा ।
व्यभिचार्य्अभिधा तुर्या स्थायिसंज्ञा च पञ्चमी ॥ ऋBह्र्स्_२,१.३ ॥

अथास्याः केशवरतेर्लक्षिताया निगद्यते ।
सामग्रीपरिपोषेन परमा रसरूपता ॥ ऋBह्र्स्_२,१.४ ॥
विभावैरनुभावैश्च सात्त्विकैर्व्यभिचारिभिः ।
स्वाद्यत्वं हृदि भक्तानामानीता श्रवणादिभिः ।
एषा कृष्णरतिः स्थायी भावो भक्तिरसो भवेत् ॥ ऋBह्र्स्_२,१.५ ॥
प्राक्तन्याधुनिकी चास्ति यस्य सद्भक्तिवासना ।
एष भक्तिरसास्वादस्तस्यैव हृदि जायते ॥ ऋBह्र्स्_२,१.६ ॥
भक्तिनिर्धूतदोषाणां प्रसन्नोज्ज्वलचेतसाम् ।
श्रीभागवतरक्तानां रसिकासङ्गरङ्गिणाम् ॥ ऋBह्र्स्_२,१.७ ॥
जीवनीभूतगोविन्दपादभक्तिसुखश्रियाम् ।
प्रेमान्तरङ्गभूतानि कृत्यान्येवानुतिष्ठताम् ॥ ऋBह्र्स्_२,१.८ ॥
भक्तानां हृदि राजन्ती संस्कारयुगलोज्ज्वला ।
रतिरानन्दरूपैव नीयमाना तु रस्यताम् ॥ ऋBह्र्स्_२,१.९ ॥

कृष्णादिभिर्विभावाद्यैर्गतैरनुभवाध्वनि ।
प्रौढानन्दचमत्कारकाष्ठामापद्यते पराम् ॥ ऋBह्र्स्_२,१.१० ॥
किन्तु प्रेमा विभावाद्यैः स्वल्पैर्नीतोऽप्यणीयसीम् ।
विभावनाद्य्अवस्थां तु सद्य आस्वाद्यतां व्रजेत् ॥ ऋBह्र्स्_२,१.११ ॥

अत्र विभावादिसामान्यलक्षणम्
ये कृष्णभक्तमुरलीनादाद्या हेतवो रतेः ।
कार्यभूताः स्मिताद्याश्च तथाष्टौ स्तब्धतादयः ॥ ऋBह्र्स्_२,१.१२ ॥
निर्वेदाद्याः सहायाश्च ते ज्ञेया रसभावने ।
विभावा अनुभावाश्च सात्त्विका व्यभिचारिणः ॥ ऋBह्र्स्_२,१.१३ ॥

तत्र विभावाः
तत्र ज्ञेया विभावास्तु रत्य्आस्वादनहेतवः ।
ते द्विधालम्बना एके तथैवोद्दीपनाः परे ॥ ऋBह्र्स्_२,१.१४ ॥

तदुक्तमग्निपुराणे (अलङ्कारविभाग, ३.३५)
विभाव्यते हि रत्य्आदिर्यत्र येन विभाव्यते ।
विभावो नाम स द्वेधालम्बनोद्दीपनात्मकः ॥ ऋBह्र्स्_२,१.१५ ॥

तत्र आलम्बनाः
कृष्णश्च कृष्णभक्ताश्च बुधैरालम्बना मताः ।
रत्य्आदेर्विषयत्वेन तथाधारतयापि च ॥ ऋBह्र्स्_२,१.१६ ॥

तत्र श्रीकृष्णः
नायकानां शिरोरत्नं कृष्णस्तु भगवान् स्वयम् ।
यत्र नित्यतया सर्वे विराजन्ते महागुणाः ।
सोऽन्यरूपस्वरूपाभ्यामस्मिन्नालम्बनो मतः ॥ ऋBह्र्स्_२,१.१७ ॥

तत्र अन्यरूपेण, यथा
हन्त मे कथमुदेति सवत्से, वत्सपालपटले रतिरत्र ।
इत्यनिश्चितमतिर्बलदेवो, विस्मयस्तिमितमूर्तिरिवासीत् ॥ ऋBह्र्स्_२,१.१८ ॥

अथ स्वरूपम्
आवृतं प्रकटं चेति स्वरूपं कथितं द्विधा ॥ ऋBह्र्स्_२,१.१९ ॥

तत्र आवृतम्
अन्यवेशादिनाच्छन्नं स्वरूपं प्रोक्तमावृतम् ॥ ऋBह्र्स्_२,१.२० ॥

तेन, यथा
मां स्नेहयति किमुच्चैर्, महिलेयं द्वारकावरोधेऽत्र ।
आं विदितं कुतुकार्थी, वनितावेशो हरिश्चरति ॥ ऋBह्र्स्_२,१.२१ ॥

प्रकटस्वरूपेण, यथा
अयं कम्बुग्रीवः कमलकमनीयाक्षिपटिमा
तमालश्यामाङ्गद्युतिरतितरां छत्रितशिराः ।
दरश्रीवत्साङ्कः स्फुरद्अरिदराद्य्अङ्कितकरः
करोत्युच्चैर्मोदं मम मधुरमूर्तिर्मधुरिपुः ॥ ऋBह्र्स्_२,१.२२ ॥

अथ तद्गुणाः
अयं नेता सुरम्याङ्गः सर्वसल्लक्षणान्वितः ।
रुचिरस्तेजसा युक्तो बलीयान् वयसान्वितः ॥ ऋBह्र्स्_२,१.२३ ॥
विविधाद्भुतभाषावित्सत्यवाक्यः प्रियं वदः ।
वावदूकः सुपाण्डित्यो बुद्धिमान् प्रतिभान्वितः ॥ ऋBह्र्स्_२,१.२४ ॥
विदग्धश्चतुरो दक्षः कृतज्ञः सुदृढव्रतः ।
देशकालसुपात्रज्ञः शास्त्रचक्षुः शुचिर्वशी ॥ ऋBह्र्स्_२,१.२५ ॥
स्थिरो दान्तः क्षमाशीलो गम्भीरो धृतिमान् समः ।
वदान्यो धार्मिकः शूरः करुणो मान्यमानकृत् ॥ ऋBह्र्स्_२,१.२६ ॥
दक्षिणो विनयी ह्रीमान् शरणागतपालकः ।
सुखी भक्तसुहृत्प्रेमवश्यः सर्वशुभङ्करः ॥ ऋBह्र्स्_२,१.२७ ॥
प्रतापी कीर्तिमान् रक्तलोकः साधुसमाश्रयः ।
नारीगणमनोहारी सर्वाराध्यः समृद्धिमान् ॥ ऋBह्र्स्_२,१.२८ ॥
वरीयानीश्वरश्चेति गुणास्तस्यानुकीर्तिताः ।
समुद्रा इव पञ्चाशद्दुर्विगाहा हरेरमी ॥ ऋBह्र्स्_२,१.२९ ॥
जीवेषु एते वसन्तोऽपि बिन्दुबिन्दुतया क्वचित् ।
परिपूर्णतया भान्ति तत्रैव पुरुषोत्तमे ॥ ऋBह्र्स्_२,१.३० ॥

तथा हि पाद्मे पार्वत्यै शितिकण्ठेन तद्गुणाः ।
कन्दर्पकोटिलावण्य इत्याद्याः परिकीर्तिताः ॥ ऋBह्र्स्_२,१.३१ ॥
एत एव गुणाः प्रायो धर्माय वनमालिनः ।
पृथिव्या प्रथमस्कन्धे प्रथयाञ्चक्रिरे स्फुटम् ॥ ऋBह्र्स्_२,१.३२ ॥

यथा प्रथमे (१.१६.२७३०)
सत्यं शौचं दया क्षान्तिस्त्यागः सन्तोष आर्जवम् ।
शमो दमस्तपः साम्यं तितिक्षोपरतिः श्रुतम् ॥ ऋBह्र्स्_२,१.३३ ॥
ज्ञानं विरक्तिरैश्वर्यं शौर्यं तेजो बलं स्मृतिः ।
स्वातन्त्र्यं कौशलं कान्तिर्धैर्यं मार्दवमेव च ॥ ऋBह्र्स्_२,१.३४ ॥
प्रागल्भ्यं प्रश्रयः शीलं सह ओजो बलं भगः ।
गाम्भीर्यं स्थैर्यमास्तिक्यं कीर्तिर्मानोऽनहङ्कृतिः ॥ ऋBह्र्स्_२,१.३५ ॥
इमे चान्ये च भगवन्नित्या यत्र महागुणाः ।
प्रार्थ्या महत्त्वमिच्छद्भिर्न वियन्ति स्म कर्हिचित् ॥ ऋBह्र्स्_२,१.३६ ॥

अथ पञ्चगुणा ये स्युरंशेन गिरिशादिषु ॥ ऋBह्र्स्_२,१.३७ ॥
सदा स्वरूपसम्प्राप्तः सर्वज्ञो नित्यनूतनः ।
सच्चिद्आनन्दसान्द्राङ्गः सर्वसिद्धिनिषेवितः ॥ ऋBह्र्स्_२,१.३८ ॥
अथोच्यन्ते गुणाः पञ्च ये लक्ष्मीशादिवर्तिनः ।
अविचिन्त्यमहाशक्तिः कोटिब्रह्माण्डविग्रहः ॥ ऋBह्र्स्_२,१.३९ ॥
अवतारावलीबीजं हतारिगतिदायकः ।
आत्मारामगणाकर्षीत्यमी कृष्णे किलाद्भुताः ॥ ऋBह्र्स्_२,१.४० ॥
सर्वाद्भुतचमत्कार लीलाकल्लोलवारिधिः ।
अतुल्यमधुरप्रेममण्डितप्रियमण्डलः ॥ ऋBह्र्स्_२,१.४१ ॥
त्रिजगन्मानसाकर्षिमुरलीकलकूजितः ।
असमानोर्ध्वरूपश्रीविस्मापितचराचरः ॥ ऋBह्र्स्_२,१.४२ ॥
लीलाप्रेम्णा प्रियाधिक्यं माधुर्यं वेणुरूपयोः ।
इत्यसाधारणं प्रोक्तं गोविन्दस्य चतुष्टयम् ॥ ऋBह्र्स्_२,१.४३ ॥
एवं गुणाश्चतुर्भेदाश्चतुःषष्टिरुदाहृताः ।
सोदाहरणमेतेषां लक्षणं क्रियते क्रमात् ॥ ऋBह्र्स्_२,१.४४ ॥

तत्र (१) सुरम्याङ्गः
श्लाघ्याङ्गसन्निवेशो यः सुरम्याङ्गः स कथ्यते ॥ ऋBह्र्स्_२,१.४५ ॥

यथा
मुखं चन्द्राकारं करभनिभमुरुद्वयमिदं
भुजौ स्तम्भारम्भौ सरसिजवरेण्यं करयुगम् ।
कवाटाभं वक्षःस्थलमविरलं श्रोणिफलकं
परिक्षामो मध्यः स्फुरति मुरहन्तुर्मधुरिमा ॥ ऋBह्र्स्_२,१.४६ ॥

(२) सर्वसल्लक्षणान्वितः
तनौ गुणोत्थमङ्कोत्थमिति सल्लक्षणं द्विधा ॥ ऋBह्र्स्_२,१.४७ ॥

तत्र गुणोत्थम्
गुणोत्थं स्याद्गुणैर्योगो रक्ततातुङ्गतादिभिः ॥ ऋBह्र्स्_२,१.४८ ॥

यथा
रागः सप्तसु हन्त षट्स्वपि शिशोरङ्गेष्वलं तुङ्गता
विसारस्त्रिषु खर्वता त्रिषु तथा गम्भीरता च त्रिषु ।
दैर्घ्यं पञ्चसु किं च पञ्चसु सखे सम्प्रेक्ष्यते सूक्ष्मता
द्वात्रिंशद्वरलक्षणः कथमसौ गोपेषु सम्भाव्यते ॥ ऋBह्र्स्_२,१.४९ ॥

अङ्कोत्थम्
रेखामयं रथाङ्गादि स्यादङ्कोत्थं करादिषु ॥ ऋBह्र्स्_२,१.५० ॥

यथा
करयोः कमलं तथा रथाङ्गं
स्फुटरेखामयमात्मजस्य पश्य ।
पदपल्लवयोश्च वल्लवेन्द्र
ध्वजवज्राङ्कुशमीनपङ्कजानि ॥ ऋBह्र्स्_२,१.५१ ॥

(३) रुचिरः
सौन्दर्येण दृग्आनन्दकारी रुचिर उच्यते ॥ ऋBह्र्स्_२,१.५२ ॥

यथा तृतीये (भा.पु. ३.२.१३)
यद्धर्मसूनोर्बत राजसूये
निरीक्ष्य दृक्स्वस्त्ययनं त्रिलोकः ।
कार्त्स्न्येन चाद्येह गतं विधातुर्
अर्वाक्सृतौ कौशलमित्यमन्यत ॥ ऋBह्र्स्_२,१.५३ ॥

यथा वा
अष्टानां दनुजभिद्अङ्गपङ्कजानाम्
एकस्मिन् कथमपि यत्र बल्लवीनाम् ।
लोलाक्षिभ्रमरततिः पपात तस्मान्
नोत्थातुं द्युतिमधुपङ्किलात्क्षमासीत् ॥ ऋBह्र्स्_२,१.५४ ॥

(४) तेजसा युक्तः
तेजो धाम प्रभावश्चेत्युच्यते द्विविधं बुधैः ॥ ऋBह्र्स्_२,१.५५ ॥

तत्र धाम
दीप्तिराशिर्भवेद्धाम ॥ ऋBह्र्स्_२,१.५६ ॥

यथा
अम्बरमणिनिकुरम्बं विडम्बयन्नपि मरीचिकुलैः ।
हरिवक्षसि रुचिनिविडे मणिराडयमुडुरिव स्फुरति ॥ ऋBह्र्स्_२,१.५७ ॥

प्रभावः
प्रभावः सर्वजित्स्थितिः ॥ ऋBह्र्स्_२,१.५८ ॥

यथा
दूरतस्तमवलोक्य माधवं
कोमलाङ्गमपि रङ्गमण्डले ।
पर्वतोद्भटभुजान्तरोऽप्यसौ
कंसमल्लनिवहः स विव्यथे ॥ ऋBह्र्स्_२,१.५९ ॥

(५) बलीयान्
प्राणेन महता पूर्णो बलीयानिति कथ्यते ॥ ऋBह्र्स्_२,१.६० ॥

यथा
पश्य विन्ध्यगिरितोऽपि गरिष्ठं
दैत्यपुङ्गवमुदग्रमरिष्टम् ।
तुलखण्डमिव पिण्डितमारात्
पुण्डरीकनयनो विनुनोद ॥ ऋBह्र्स्_२,१.६१ ॥

यथा वा
वामस्तामरसाक्षस्य भुजदण्डः स पातु वः ।
क्रीडाकन्दुकतां येन नीतो गोवर्धनो गिरिः ॥ ऋBह्र्स्_२,१.६२ ॥

(६) वयसान्वितः
वयसो विविधत्वेऽपि सर्वभक्तिरसाश्रयः ।
धर्मी किशोर एवात्र नित्यनानाविलासवान् ॥ ऋBह्र्स्_२,१.६३ ॥

यथा
तदात्वाभिव्यक्तीकृततरुणिमारम्भरभसं
स्मितश्रीनिर्धूतस्फुरद्अमलराकापतिमदम् ।
दरोदञ्चत्पञ्चाशुगनवकलामेदुरमिदं
मुरारेर्माधुर्यं मनसि मदिराक्षीर्मदयति ॥ ऋBह्र्स्_२,१.६४ ॥

(७) विविधाद्भुतभाषावित्
विविधाद्भुतभाषावित्स प्रोक्तो यस्तु कोविदः ।
नानादेश्यासु भाषासु संस्कृते प्राकृतेषु च ॥ ऋBह्र्स्_२,१.६५ ॥

यथा
व्रजयुवतिषु शौरिः शौरसेनीं सुरेन्द्रे
प्रणतशिरसि सौरीं भारतीमातनोति ।
अहह पशुषु कीरेष्वप्यपभ्रंसरूपां
कथमजनि विदग्धः सर्वभाषावलीषु ॥ ऋBह्र्स्_२,१.६६ ॥

(८) सत्यवाक्यः
स्यान्नानृतं वचो यस्य सत्यवाक्यः स कथ्यते ॥ ऋBह्र्स्_२,१.६७ ॥

यथा
पृथे तनयपञ्चकं प्रकटमर्पयिष्यामि ते
रणोर्वरितमित्यभूत्तव यथार्थमेवोदितम् ।
रविर्भवति शीतलः कुमुदबन्धुरप्युष्णलस्
तथापि न मुरान्तक व्यभिचरिष्णुरुक्तिस्तव ॥ ऋBह्र्स्_२,१.६८ ॥

यथा वा
गूढोऽपि वेषेण महीसुरस्य
हरिर्यथार्थं मगधेन्द्रमूचे ।
संसृष्टमाभ्यां सह पाण्डवाभ्यां
मां विद्धि कृष्णं भवतः सपत्नम् ॥ ऋBह्र्स्_२,१.६९ ॥

(९) प्रियंवदः
जने कृतापराधेऽपि सान्त्ववादी प्रियंवदः ॥ ऋBह्र्स्_२,१.७० ॥

यथा
कृतव्यलीकेऽपि न कुण्डलीन्द्र
त्वया विधेया मयि दोषदृष्टिः ।
प्रवास्यमानोऽसि सुरार्चितानां
परं हितायाद्य गवां कुलस्य ॥ ऋBह्र्स्_२,१.७१ ॥

(१०) वावदूकः
श्रुतिप्रेष्ठोक्तिरखिलवाग्गुणान्वितवागपि ।
इति द्विधा निगदितो वावदूको मनीषिभिः ॥ ऋBह्र्स्_२,१.७२ ॥

तत्र आद्यो, यथा
अश्लिष्टकोमलपदावलिमञ्जुलेन
प्रत्य्अक्षरक्षरद्अमन्दसुधारसेन ।
सख्यः समस्तजनकर्णरसायनेन
नाहारि कस्य हृदयं हरिभाषितेन ॥ ऋBह्र्स्_२,१.७३ ॥

द्वितीयो, यथा
प्रतिवादिचित्तपरिवृत्तिपटुर्
जगद्एकसंशयविमर्दकरी ।
प्रमिताक्षराद्यविविधार्थमयी
हरिवागियं मम धिनोति धियः ॥ ऋBह्र्स्_२,१.७४ ॥

(११) सुपण्डित्यः
विद्वान्नीतिज्ञ इत्येष सुपण्डित्यो द्विधा मतः ।
विद्वानखिलविद्याविन्नीतिज्ञस्तु यथार्हकृत् ॥ ऋBह्र्स्_२,१.७५ ॥

तत्र आद्यो, यथा
यं सुष्ठु पूर्वं परिचर्य गौरवात्
पितामहाद्य्अम्बुधरैः प्रवर्तिताः ।
कृष्णार्णवं काश्यगुरुक्षमाभूतस्
तमेव विद्यासरितः प्रपेदिरे ॥ ऋBह्र्स्_२,१.७६ ॥

यथा वा
आम्नायप्रथितान्वया स्मृतिमती बाढं षड्अङ्गोज्ज्वला
न्यायेनानुगता पुराणसुहृदा मीमांसया मण्डिता ।
त्वां लब्धावसरा चिराद्गुरुकुले प्रेक्ष्य स्वसङ्गार्थिनं
विद्या नाम वधूश्चतुर्दशगुणा गोविन्द शुश्रूयते ॥ ऋBह्र्स्_२,१.७७ ॥

द्वितीयो, यथा
मृत्युस्तस्करमण्डले सुकृतिनां वृन्दे वसन्तानिलः
कन्दर्पो रमणीषु दुर्गतकुले कल्याणकल्पद्रुमः ।
इन्दुर्बन्धुगणे विपक्षपटले कालाग्निरुद्राकृतिः
शास्ति स्वस्तिधुरन्धरो मधुपुरीं नीत्या मधूनां पतिः ॥ ऋBह्र्स्_२,१.७८ ॥

(१२) बुद्धिमान्
मेधावी सूक्ष्मधीश्चेति प्रोच्यते बुद्धिमान् द्विधा ॥ ऋBह्र्स्_२,१.७९ ॥

तत्र मेधावी, यथा
अवन्तिपुरवासिनः सदनमेत्य सान्दीपनेर्
गुरोर्जगति दर्शयन् समयमत्र विद्यार्थिनाम् ।
सकृन्निगदमात्रतः सकलमेव विद्याकुलं
दधौ हृदयमन्दिरे किमपि चित्रवन्माधवः ॥ ऋBह्र्स्_२,१.८० ॥

सूक्ष्मधीः, यथा
यदुभिरयमवध्यो म्लेच्छराजस्तदेनं
तरलतमसि तस्मिन् विद्रवन्नेव नेष्ये ।
सुखमयनिजनिद्राभञ्जनध्वंसिदृष्टिर्
झरमुचि मुचुकुन्दः कन्दरे यत्र शेते ॥ ऋBह्र्स्_२,१.८१ ॥

(१३) प्रतिभान्वितः
सद्यो नवनवोल्लेखिज्ञानं स्यात्प्रतिभान्वितः ॥ ऋBह्र्स्_२,१.८२ ॥

यथा पद्यावल्यां (२८३)
वासः सम्प्रति केशव क्व भवतो मुग्धेक्षणे नन्विदं
वासं ब्रूहि शठ प्रकामसुभगे त्वद्गात्रसंसर्गतः ।
यामिन्यामुषितः क्व धूर्त वितनुर्मुष्णाति किं यामिनी
शौरिर्गोपवधूं छलैः परिहसन्नेवंविधैः पातु वः ॥ ऋBह्र्स्_२,१.८३ ॥

(१४) विदग्धः
कलाविलासदिग्धात्मा विदग्ध इति कीर्त्यते ॥ ऋBह्र्स्_२,१.८४ ॥

यथा
गीतं गुम्फति ताण्डवं घटयति ब्रूते प्रहेलीक्रमं
वेणुं वादयते स्रजं विरचयत्यालेख्यमभ्यस्यति ।
निर्माति स्वयमिन्द्रजालपटलीं द्यूते जयत्युन्मदान्
पश्योद्दामकलाविलासवसतिश्चित्रं हरिः क्रीडति ॥ ऋBह्र्स्_२,१.८५ ॥

(१५) चतुरः
चतुरो युगपद्भूरिसमाधानकृदुच्यते ॥ ऋBह्र्स्_२,१.८६ ॥

यथा
पारावतीविरचनेन गवां कलापं
गोपाङ्गनागणमपाङ्गतरङ्गितेन ।
मित्राणि चित्रतरसङ्गरविक्रमेण
धिन्वन्नरिष्टभयदेन हरिर्विरेजे ॥ ऋBह्र्स्_२,१.८७ ॥

(१६) दक्षः
दुष्करे क्षिप्रकारी यस्तं दक्षं परिचक्षते ॥ ऋBह्र्स्_२,१.८८ ॥

यथा श्रीदशमे (१०.५९.१७)
यानि योधैः प्रयुक्तानि शस्त्रास्त्राणि कुरूद्वह ।
हरिस्तान्यच्छिनत्तीक्ष्णैः शरैरेकैकशस्त्रिभिः ॥ ऋBह्र्स्_२,१.८९ ॥

यथा वा
अघहर कुरु युग्मीभूय नृत्यं मयैव
त्वमिति निखिलगोपीप्रार्थनापूर्तिकामः ।
अतनुत गतिलीलालाघवोर्मिं तथासौ
ददृशुरधिकमेतास्तं यथा स्वस्वपार्श्वे ॥ ऋBह्र्स्_२,१.९० ॥

(१७) कृतज्ञः
कृतज्ञः स्यादभिज्ञो यः कृतसेवादिकर्मणाम् ॥ ऋBह्र्स्_२,१.९१ ॥

यथा महाभारते {*णोत्fओउन्दिन् च्रितिचलेदितिओन्.}
ऋणमेतत्प्रवृद्धं मे हृदयान्नापसर्पति ।
यद्गोविन्देति चुक्रोश कृष्णा मां दूरवासिनम् ॥ ऋBह्र्स्_२,१.९२ ॥

यथा वा
अनुगतिमतिपूर्वं चिन्तयन्नृक्षमौलेर्
अकुरुत बहुमानं शौरिरादाय कन्याम् ।
कथमपि कृतमल्पं विस्मरेन्नैव साधुः
किमुत स खलु साधुश्रेणिचूडाग्ररत्नम् ॥ ऋBह्र्स्_२,१.९३ ॥

(१८) सुदृढव्रतः
प्रतिज्ञानियमौ यस्य सत्यौ स सुदृढव्रतः ॥ ऋBह्र्स्_२,१.९४ ॥

तत्र सत्यप्रतिज्ञो, यथा हरिवंशे (२.६८.३८) {*णोत्fओउन्दिन् च्रितिचलेदितिओन्.}
न देवगन्धर्वगणा न राक्षसा
न चासुरा नैव च यक्षपन्नगाः ।
मम प्रतिज्ञामपहन्तुमुद्यता
मुने समर्थाः खलु सत्यमस्तु ते ॥ ऋBह्र्स्_२,१.९५ ॥

यथा वा
सहेलमाखण्डलपाण्डुपुत्रौ
विधाय कंसारिरपारिजातौ ।
निजप्रतिज्ञां सफलां दधानः
सत्यां च कृष्णां च सुखामकार्षीत् ॥ ऋBह्र्स्_२,१.९६ ॥

सत्यनियमो, यथा
गिरेरुद्धरणं कृष्ण दुष्करं कर्म कुर्वता ।
मद्भक्तः स्यान्न दुःखीति स्वव्रतं विवृतं त्वया ॥ ऋBह्र्स्_२,१.९७ ॥

(१९) देशकालसुपात्रज्ञः
देशकालसुपात्रज्ञस्तत्तद्योग्यक्रियाकृतिः ॥ ऋBह्र्स्_२,१.९८ ॥

यथा
शरज्ज्योत्स्नातुल्यः कथमपि परो नास्ति समयस्
त्रिलोक्यामाकृईडः क्वचिदपि न वृन्दावनसमः ।
न काप्यम्भोजाक्षी व्रजयुवतिकल्पेति विमृशन्
मनो मे सोत्कण्ठं मुहुरजनि रासोत्सवरसे ॥ ऋBह्र्स्_२,१.९९ ॥

(२०) शास्त्रचक्षुः
शास्त्रानुसारिकर्मा यः शास्त्रचक्षुः स कथ्यते ॥ ऋBह्र्स्_२,१.१०० ॥

यथा
अभूत्कंसरिपोर्नेत्रं
शास्त्रमेवार्थदृष्टये ।
नेत्राम्बुजं तु युवती
वृन्दान्मादाय केवलम् ॥ ऋBह्र्स्_२,१.१०१ ॥

(२१) शुचिः
पावनश्च विशुद्धेश्चेत्युच्यते द्विविधः शुचिः ।
पावनः पापनाशी स्याद्विशुद्धस्त्यक्तदूसणः ॥ ऋBह्र्स्_२,१.१०२ ॥

तत्र पावनो, यथा पाद्मे
तं निर्व्याजं भज गुणनिधे पावनं पावनानां
श्रद्धारज्यन्मतिरतितरामुत्तमःश्लोकमौलिम् ।
प्रोद्यन्नन्तःकरणकुहरे हन्त यन्नामभानोर्
आभासोऽपि क्षपयति महापातकध्वान्तराशिम् ॥ ऋBह्र्स्_२,१.१०३ ॥

विशुद्धो, यथा
कपटं च हठश्च नाच्युते
बत सत्राजिति नाप्यदीनता ।
कथमद्य वृथा स्यमन्तक
प्रसभं कौस्तुभसख्यमिच्छसि ॥ ऋBह्र्स्_२,१.१०४ ॥

(२२) वशी
वशी जितेन्द्रियः प्रोक्तः ॥ ऋBह्र्स्_२,१.१०५ ॥

यथा प्रथमे (१.११.३७)
उद्दामभावपिशुनामलवल्गुहास
व्रीडावलोकनिहतो मदनोऽपि यासाम् ।
संमुह्य चापमजहात्प्रमदोत्तमास्ता
यस्येन्द्रियं विमथितुं कुहकैर्न शेकुः ॥ ऋBह्र्स्_२,१.१०६ ॥

(२३) स्थिरः
आफलोदयकृत्स्थिरः ॥ ऋBह्र्स्_२,१.१०७ ॥

यथा,
निर्वेदमाप न वनभ्रमणे मुरारिर्
नाचिन्तयद्व्यसनमृक्षविलप्रवेशे ।
आहृत्य हन्त मणिमेव पुरं प्रपेदे
स्यादुद्यमः कृतधियां हि फलोदयान्तः ॥ ऋBह्र्स्_२,१.१०८ ॥

(२४) दान्तः
स दान्तो दुःसहमपि योग्यं क्लेशं सहेत यः ॥ ऋBह्र्स्_२,१.१०९ ॥

यथा
गुरुमपि गुरुवासक्लेशमव्याजभक्त्या
हरिरजगणदन्तः कोमलाङ्गोऽपि नायम् ।
प्रकृतिरतिदुरूहा हन्त लोकोत्तराणां
किमपि मनसि चित्रं चिन्त्यमाना तनोति ॥ ऋBह्र्स्_२,१.११० ॥

(२५) क्षमाशीलः
क्षमाशीलोऽपराधानां सहनः परिकीर्त्यते ॥ ऋBह्र्स्_२,१.१११ ॥

यथा माघकाव्ये {=शिशुपालवध} (१६.२५)
प्रतिवाचमदत्त केशवः
शपमानाय न चेदिभूभृते ।
अनहुङ्कुरुते घनध्वनिः
न हि गोमायुरुतानि केशरी ॥ ऋBह्र्स्_२,१.११२ ॥

यथा वा यामुनाचार्यस्तोत्रे {=ष्तोत्ररत्नम्} (६०)
रघुवर यदभूस्त्वं तादृशो वायसस्य
प्रणत इति दयालुर्यच्च चैद्यस्य कृष्ण ।
प्रतिभवमपराद्धुर्मुग्ध सायुज्यदोऽभूर्
वद किमपदमागस्तस्य तेऽस्ति क्षमायाः ॥ ऋBह्र्स्_२,१.११३ ॥

(२६) गम्भीरः
दुर्विबोधाशयो यस्तु स गम्भीरः इतीर्यते ॥ ऋBह्र्स्_२,१.११४ ॥

यथा
वृन्दावने वरातिः स्तुतिभिर्नितरामुपास्यमानोऽपि ।
शक्तो न हरिर्विधिना रुष्टस्तुष्टोऽथवा ज्ञातुम् ॥ ऋBह्र्स्_२,१.११५ ॥

यथा वा
उन्मदोऽपि हरिर्नव्यराधाप्रणयसीधुना ।
अभिज्ञेनापि रामेण लक्षितोऽयमविक्रियः ॥ ऋBह्र्स्_२,१.११६ ॥

(२७) धृतिमान्
पूर्णस्पृहश्च धृतिमान् शान्तश्च क्षोभकारणे ॥ ऋBह्र्स्_२,१.११७ ॥

तत्र आद्यो
स्वीकुर्वन्नपि नितरां यशःप्रियत्वं
कंसारिर्मगधपतेर्वधप्रसिद्धाम् ।
भीमाय स्वयमतुलामदत्त कीर्तिं
किं लोकोत्तरगुणशालिनामपेक्ष्यम् ॥ ऋBह्र्स्_२,१.११८ ॥

द्वितीयो, यथा
निन्दितस्य दमघोषसूनुना
सम्भ्रमेण मुनिभिः स्तुतस्य च ।
राजसूयसदसि क्षितीश्वरैः
कापि नास्य विकृतिर्वितर्किता ॥ ऋBह्र्स्_२,१.११९ ॥

(२८) समः
रागद्वेषविमुक्तो यः समः स कथितो बुधैः ॥ ऋBह्र्स्_२,१.१२० ॥

यथा श्रीदशमे (१०.१६.३३)
न्याय्यो हि दण्डः कृतकिल्बिषेऽस्मिंस्
तवावतारः खलनिग्रहाय ।
रिपोः सुतानामपि तुल्यदृष्टेर्
धत्से दमं फलमेवानुशंसन् ॥ ऋBह्र्स्_२,१.१२१ ॥

यथा वा
रिपुरपि यदि शुद्धो मण्डनीयस्तवासौ
यदुवर यदि दुष्टो दण्डनीयः सुतोऽपि ।
न पुनरखिलभर्तुः पक्षपातोज्झितस्य
क्वचिदपि विषमं ते चेष्टितं जाघटीति ॥ ऋBह्र्स्_२,१.१२२ ॥

(२९) वदान्यः
दानवीरो भवेद्यस्तु स वदान्यो निगद्यते ॥ ऋBह्र्स्_२,१.१२३ ॥

यथा
सर्वार्थिनां बाढमभीष्टपूर्त्या
व्यर्थीकृताः कंसनिसूदनेन ।
ह्रियेव चिन्तामणिकामधेनु
कल्पद्रुमा द्वारवतीं भजन्ति ॥ ऋBह्र्स्_२,१.१२४ ॥

यथा वा
येषां षोडशपूरिता दशशती स्वान्तःपुराणां तथा
चाष्टाश्लिष्टशतं विभाति परितस्तत्सङ्ख्यपत्नीयुजाम् ।
एकैकं प्रति तेषु तर्णकभृतां भूषाजुषामन्वहं
गृष्टीनां युगपच्च बद्धमददाद्यस्तस्य वा कः समः ॥ ऋBह्र्स्_२,१.१२५ ॥

(३०) धार्मिकः
कुर्वन् कारयते धर्मं यः स धार्मिक उच्यते ॥ ऋBह्र्स्_२,१.१२६ ॥

यथा
पादैश्चतुर्भिर्भवता वृषस्य
गुप्तस्य गोपेन्द्र तथाभ्यवर्धि ।
स्वैरं चरन्नेव यथा त्रिलोक्याम्
अधर्मस्पर्शाणि हठाज्जघास ॥ ऋBह्र्स्_२,१.१२७ ॥

यथा वा
वितायमानैर्भवता मखोत्करैर्
आकृष्यमाणेषु पतिष्वनारतम् ।
मुकुन्द खिन्नः सुरसुभ्रुवां गणस्
तवावतारं नवमं नमस्यति ॥ ऋBह्र्स्_२,१.१२८ ॥

(३१) शूरः
उत्साही युधि शूरोऽस्त्रप्रयोगे च विचक्षणः ॥ ऋBह्र्स्_२,१.१२९ ॥

तत्र आद्यो, यथा
पृथुसमरसरो विगाह्य कुर्वन्
द्विषद्अरविन्दवने विहारचर्याम् ।
स्फुरसि तरलबाहुदण्डशुण्डस्
त्वमघविदारण वारणेन्द्रलीलः ॥ ऋBह्र्स्_२,१.१३० ॥

द्वितीयो, यथा
क्षणादक्षौहिणीवृन्दे जरासन्धस्य दारुणे ।
दृष्टः कोऽप्यत्र नादष्टो हरेः प्रहरणाहिभिः ॥ ऋBह्र्स्_२,१.१३१ ॥

(३२) करुणः
परदुःखासहो यस्तु करुणः स निगद्यते ॥ ऋBह्र्स्_२,१.१३२ ॥

यथा
राज्ञामगाधगतिभिर्मगधेन्द्रकारा
दुःखान्धकारपटलैः स्वयमन्धितानाम् ।
अक्षीणि यः सुखमयानि घृणी व्यतानीद्
वृन्दे तमद्य यदुनन्दनपद्मबन्धुम् ॥ ऋBह्र्स्_२,१.१३३ ॥

यथा वा
स्खलन्नयनवारिभिर्विरचिताभिषेकश्रिये
त्वराभरतरङ्गतः कवलितात्मविस्फूर्तये ।
निशान्तशरशायिना सुरसरित्सुतेन स्मृतेः
सपद्यवशवर्त्मणो भगवतः कृपायै नमः ॥ ऋBह्र्स्_२,१.१३४ ॥

(३३) मान्यमानकृत्
गुरुब्राह्मणवृद्धादिपूजको मान्यमानकृत् ॥ ऋBह्र्स्_२,१.१३५ ॥

यथा
अभिवाद्य गुरोः पदाम्बुजं
पितरं पूर्वजमप्यथानतः ।
हरिरञ्जलिना तथा गिरा
यदुवृद्धाननमत्क्रमादयम् ॥ ऋBह्र्स्_२,१.१३६ ॥

(३४) दक्षिणः
सौशील्यसौम्यचरितो दक्षिणः कीर्त्यते बुधैः ॥ ऋBह्र्स्_२,१.१३७ ॥

यथा
भृत्यस्य पश्यति गुरूनपि नापराधान्
सेवां मनागपि कृतां बहुधाभ्युपैति ।
आविष्करोति पिशुनेष्वपि नाभ्यसूयां
शीलेन निर्मलमतिः पुरुषोत्तमोऽयम् ॥ ऋBह्र्स्_२,१.१३८ ॥

(३५) विनयी
औद्धत्यपरिहारी यः कथ्यते विनयीत्यसौ ॥ ऋBह्र्स्_२,१.१३९ ॥

यथा माघकाव्ये (१३.७)
अवलोक एष नृपतेः सुदूरतो
रभसाद्रथादवतरीतुमिच्छतः ।
अवतीर्णवान् प्रथममात्मना हरिर्
विनयं विशेषयति सम्भ्रमेण सः ॥ ऋBह्र्स्_२,१.१४० ॥

(३६) ह्रीमान्
ज्ञातेऽस्मररहस्येऽन्यैः क्रियमाणे स्तवेऽथवा ।
शालीनत्वेन सङ्कोचं भजन् ह्रीमानुदीर्यते ॥ ऋBह्र्स्_२,१.१४१ ॥

यथा ललितमाधवे (९.४०)
दरोदञ्चद्गोपीस्तनपरिसरप्रेक्षणभयात्
करोत्कम्पादीषच्चलति किल गोवर्धनगिरौ ।
भयार्तैरारब्धस्तुतिरखिलगोपैः स्मितमुखं
पुरो दृष्ट्वा रामं जयति नमितास्यो मधुरिपुः ॥ ऋBह्र्स्_२,१.१४२ ॥

(३७) शरणागतपालकः
पालयन् शरणापन्नान् शरणागतपालकः ॥ ऋBह्र्स्_२,१.१४३ ॥

यथा
ज्वर परिहर वित्रासं त्वमत्र समरे कृतापराधेऽपि ।
सद्यः प्रपद्यमाने यदिन्दवति यादवेन्द्रोऽयम् ॥ ऋBह्र्स्_२,१.१४४ ॥

(३८) सुखी
भोक्ता च दुःखगन्धैरप्यस्पृष्टश्च सुखी भवेत् ॥ ऋBह्र्स्_२,१.१४५ ॥

तत्र आद्यो, यथा
रत्नालङ्कारभारस्तव धनदमनो राज्यवृत्त्याप्यलभ्यः
स्वप्ने दम्भोलिपाणेरपि दुरधिगमं द्वारि तौर्यत्रिकं च ।
पार्श्वे गौरीगरिष्ठाः प्रचुरशशिकलाः कान्तसर्वाङ्गभाजः
सीमन्तिन्यश्च नित्यं यदुवर भुवने कस्त्वद्अन्योऽस्ति भोगी ॥ ऋBह्र्स्_२,१.१४६ ॥

द्वितीयो, यथा
न हानिं न म्लानिं निजगृहकृत्यव्यसनितां
न घोरं नोद्घूर्णां न किल कदनं वेत्ति किमपि ।
वराङ्गीभिः साङ्गीकृतसुहृद्अनङ्गाभिरभितो
हरिर्वृन्दारण्ये परमनिशमुच्चैर्विहरति ॥ ऋBह्र्स्_२,१.१४७ ॥

(३९) भक्तसुहृत्
सुसेव्यो दासबन्धुश्च द्विधा भक्तसुहृन्मतः ॥ ऋBह्र्स्_२,१.१४८ ॥

तत्र आद्यो, यथा विष्णुधर्मे
तुलसीदलमात्रेण जलस्य चुलुकेन च ।
विक्रीणीते स्वमात्मानं भक्तेभ्यो भक्तवत्सलः ॥ ऋBह्र्स्_२,१.१४९ ॥

द्वितीयो, यथा प्रथमे (१.९.३७)
स्वनिगममपहाय मत्प्रतिज्ञाम्
ऋतमधिकर्तुमवप्लुतो रथस्थः ।
धृतरथचरणोऽभ्ययाच्चलद्गुर्
हरिरिव हन्तुमिभं गतोत्तरीयः ॥ ऋBह्र्स्_२,१.१५० ॥

(४०) प्रेमवश्यः
प्रियत्वमात्रवश्यो यः प्रेमवश्यो भवेदसौ ॥ ऋBह्र्स्_२,१.१५१ ॥

यथा श्रीदशमे (१०.८०.१९)
सख्युः प्रियस्य विप्रर्षेरङ्गसङ्गातिनिर्वृतः ।
प्रीतो व्यमुञ्चदध्विन्दून्नेत्राभ्यां पुष्करेक्षणः ॥ ऋBह्र्स्_२,१.१५२ ॥

यथा वा तत्रैव (१०.९.१८)
स्वमातुः स्विन्नगात्राया विस्रस्तकवरस्रजः ।
दृष्ट्वा परिश्रमं कृष्णः कृपयासीत्स्वबन्धने ॥ ऋBह्र्स्_२,१.१५३ ॥

(४१) सर्वशुभङ्करः
सर्वेषां हितकारी यः स स्यात्सर्वशुभङ्करः ॥ ऋBह्र्स्_२,१.१५४ ॥

यथा
कृताः कृतार्था मुनयो विनोदैः
खलक्षयेणाखिलधार्मिकाश्च ।
वपुर्विमर्देन खलाश्च युद्धे
न कस्य पथ्यं हरिणा व्यधायि ॥ ऋBह्र्स्_२,१.१५५ ॥
(४२) प्रतापी
प्रतापी पौरुषोद्भूतशत्रुतापि प्रसिद्धिभाक् ॥ ऋBह्र्स्_२,१.१५६ ॥

यथा
भवतः प्रतापतपने
भुवनं कृष्ण प्रतापयति ।
घोरासुरघुकानां
शरणमभूत्कन्दरातिमिरम् ॥ ऋBह्र्स्_२,१.१५७ ॥

(४३) कीर्तिमान्
साद्गुण्यैर्निर्मलैः ख्यातः कीर्तिमानिति कीर्त्यते ॥ ऋBह्र्स्_२,१.१५८ ॥

यथा
त्वद्यशःकुमुदबन्धुकौमुदी
शुभ्रभावमभितो नयन्त्यपि ।
नन्दनन्दन कथं नु निर्ममे
कृष्णभावकलिलं जगत्त्रयम् ॥ ऋBह्र्स्_२,१.१५९ ॥

यथा वा ललितमाधवे (५.१८)
भीता रुद्रं त्यजति गिरिजा श्याममप्रेक्ष्य कण्ठं
शुभ्रं दृष्ट्वा क्षिपति वसनं विस्मितो नीलवासाः ।
क्षीरं मत्वा श्रपयति यमीनीरमाभीरिकोत्का
गीते दामोदरयशसि ते वीणया नारदेन ॥ ऋBह्र्स्_२,१.१६० ॥

(४४) रक्तलोकः
पात्रं लोकानुरागाणां रक्तलोकं विदुर्बुधाः ॥ ऋBह्र्स्_२,१.१६१ ॥

यथा प्रथमे (१.११.९)
यर्ह्यम्बुजाक्षापससार भो भवान्
कुरून्मधून् वाथ सुहृद्दिदृक्षया
तत्राब्दकोटिप्रतिमः क्षणो भवेद्
रविं विनाक्ष्णोरिव नस्तवाच्युत ॥ ऋBह्र्स्_२,१.१६२ ॥

यथा वा
आशीस्तथ्या जय जय जयेत्याविरास्ते मुनीनां
देवश्रेणीस्तुतिकलकलो मेदुरः प्रादुरस्ति ।
हर्षाद्घोषः स्फुरति परितो नागरीणां गरीयान्
के वा रङ्गस्थलभुवि हरौ भेजिरे नानुरागम् ॥ ऋBह्र्स्_२,१.१६३ ॥
(४५) साधुसमाश्रयः
सद्एकपक्षपाती यः स स्यात्साधुसमाश्रयः ॥ ऋBह्र्स्_२,१.१६४ ॥

यथा
पुरुषोत्तम चेदवातरिष्यद्
भुवनेऽस्मिन्न भवान् भुवः शिवाय ।
विकटासुरमण्डलान्न जाने
सुजनानां बत का दशाभविष्यत् ॥ ऋBह्र्स्_२,१.१६५ ॥

(४६) नारीगणमनोहारी
नारीगणमनोहारी सुन्दरीवृन्दमोहनः ॥ ऋBह्र्स्_२,१.१६६ ॥

यथा श्रीदशमे (१०.९०.२६)
श्रुतमात्रोऽपि यः स्त्रीणां प्रसह्याकर्षते मनः ।
उरुगायोरुगीतो वा पश्यन्तीनां च किं पुनः ॥ ऋBह्र्स्_२,१.१६७ ॥

यथा वा
त्वं चुम्बकोऽसि माधव लोहमयी नूनमङ्गनाजातिः ।
धावति ततस्ततोऽसौ यतो यतः क्रीडया भ्रमसि ॥ ऋBह्र्स्_२,१.१६८ ॥

(४७) सर्वाराध्यः
सर्वेषामग्रपूज्यो यः स सर्वाराध्य उच्यते ॥ ऋBह्र्स्_२,१.१६९ ॥

यथा प्रथमे (१.९.४१)
मुनिगणनृपवर्यसङ्कुलेऽन्तः
सदसि युधिष्ठिरराजसूय एषाम् ।
अर्हणमुपपेद ईक्षणीयो
मम दृशिगोचर एष आविरात्मा ॥ ऋBह्र्स्_२,१.१७० ॥

(४८) समृद्धिमान्
महासम्पत्तियुक्तो यो भवेदेष समृद्धिमान् ॥ ऋBह्र्स्_२,१.१७१ ॥

यथा
षट्पञ्चाशद्यदुकुलभुवां कोटयस्त्वां भजन्ते
वर्षन्त्यष्टौ किमपि निधयश्चार्थजातं तवामी ।
शुद्धान्तश्च स्फुरति नवभिर्लक्षितः सौधलक्ष्मैर्
लक्ष्मीं पश्यन्मुरदमन ते नात्र चित्रायते कः ॥ ऋBह्र्स्_२,१.१७२ ॥

यथा वा कृष्णकर्णामृते {*णोतिनन्योf थे एxतन्त्KK चेन्तुरिएस्.}
चिन्तामणिश्चरणभूषणमङ्गनानां
शृङ्गारपुष्पतरवस्तरवः सुराणाम् ।
वृन्दावने व्रजधनं ननु कामधेनु
वृन्दानि चेति सुखसिन्धुरहो विभूतिः ॥ ऋBह्र्स्_२,१.१७३ ॥

(४९) वरीयान्
सर्वेषामतिमुख्यो यः स वरीयानितीर्यते ॥ ऋBह्र्स्_२,१.१७४ ॥

यथा
ब्रह्मन्नत्र पुरुद्विषा सह पुरः पीठे निषीद क्षणं
तुष्णीं तिष्ठ सुरेन्द्र चाटुभिरलं वारीश दूरीभव ।
एते द्वारि मुहुः कथं सुरगणाः कुर्वन्ति कोलाहलं
हन्त द्वारवतीपतेरवसरो नाद्यापि निष्पद्यते ॥ ऋBह्र्स्_२,१.१७५ ॥

(५०) ईश्वरः
द्विधेश्वरः स्वतन्त्रश्च दुर्लङ्घ्याज्ञश्च कीर्त्यते ॥ ऋBह्र्स्_२,१.१७६ ॥

तत्र स्वतन्त्रो, यथा
कृष्णः प्रसादमकरोदपराध्यतेऽपि
पादाङ्कमेव किल कालियपन्नगाय ।
न ब्रह्मणे दृशमपि स्तुवतेऽप्यपूर्वं
स्थाने स्वतन्त्रचरितो निगमैर्नुतोऽयम् ॥ ऋBह्र्स्_२,१.१७७ ॥

दुर्लङ्घ्याज्ञो, यथा तृतीये (३.२.२१)

स्वयं त्वसाम्यातिशयस्त्र्यधीशः
स्वाराज्यलक्ष्म्य्आप्तसमस्तकामः ।
बलिं हरद्भिश्चिरलोकपालैः
किरीटकोट्य्एडितपादपीठः ॥ ऋBह्र्स्_२,१.१७८ ॥

यथा वा
नव्ये ब्रह्माण्डवृन्दे सृजति विधिगणः सृष्टये यः कृताज्ञो
रुद्रौघः कालजीर्णे क्षयमवतनुते यः क्षयायानुशिष्टः ।
रक्षां विष्णुस्वरूपा विदधति तरुणे रक्षिणो ये त्वद्अंशाः
कंसारे सन्ति सर्वे दिशि दिशि भवतः शासनेऽजाण्डनाथाः ॥ ऋBह्र्स्_२,१.१७९ ॥

अथ (५१) सदास्वरूपसम्प्राप्तः
सदास्वरूपसम्प्राप्तो मायाकार्यवशीकृतः ॥ ऋBह्र्स्_२,१.१८० ॥

यथा प्रथमे (१.११.३९)
एतदीशनमीशस्य प्रकृतिस्थोऽपि तद्गुणैः ।
न युज्यते सदात्मस्थैर्यथा बुद्धिस्तद्आश्रया ॥ ऋBह्र्स्_२,१.१८१ ॥

(५२) सर्वज्ञः
परचित्तस्थितं देशकालाद्य्अन्तरितं तथा ।
यो जानाति समस्तार्थः स सर्वज्ञो निगद्यते ॥ ऋBह्र्स्_२,१.१८२ ॥

यथा प्रथमे (१.१५.११)
यो नो जुगोप वन एत्य दुरन्तकृच्छ्राद्
दुर्वाससोऽरिरचितादयुताग्रभुग्यः ।
शाकान्नशिष्टमुपयुज्य यतस्त्रिलोकीं
तृप्ताममंस्त सलिले विनिमग्नसङ्घः ॥ ऋBह्र्स्_२,१.१८३ ॥

(५३) नित्यनूतनः
सदानुभूयमानोऽपि करोत्यननुभूतवत् ।
विस्मयं माधुरीभिर्यः स प्रोक्तो नित्यनूतनः ॥ ऋBह्र्स्_२,१.१८४ ॥

यथा प्रथमे (१.११.३४)
यद्यप्यसौ पार्श्वगतो रहोगतस्
तथापि तस्याङ्घ्रियुगं नवं नवम् ।
पदे पदे का विरमेत तत्पदाच्
चलापि यच्छ्रीर्न जहाति कर्हिचित् ॥ ऋBह्र्स्_२,१.१८५ ॥

यथा वा ललितमाधवे (१.५२)
कुलवरतनुधर्मग्राववृन्दानि भिन्दन्
सुमुखि निशितदीर्घापाङ्गटङ्कच्छटाभिः ।
युगपदयमपूर्वः कः पुरो विश्वकर्मा
मरकतमणिलक्षैर्गोष्ठकक्षां चिनोति ॥ ऋBह्र्स्_२,१.१८६ ॥

(५४) सच्चिद्आनन्दसान्द्राङ्गः
सच्चिद्आनन्दसान्द्राङ्गश्चिदानन्दघनाकृतिः ॥ ऋBह्र्स्_२,१.१८७ ॥

यथा
क्लेशे क्रमात्पञ्चविधे क्षयं गते
यद्ब्रह्मसौख्यं स्वयमस्फुरत्परम् ।
तद्व्यर्थयन् कः पुरतो नराकृतिः
श्यामोऽयमामोदभरः प्रकाशते ॥ ऋBह्र्स्_२,१.१८८ ॥

यथा व ब्रह्मसंहितायामादिपुरुषरहस्ये (५.५१)
यस्य प्रभा प्रभवतो जगद्अण्डकोटि
कोटिष्वशेषवसुधादि विभूतिभिन्नम् ।
तद्ब्रह्म निष्कलमनन्तमशेषभूतं
गोविन्दमादिपुरुषं तमहं भजामि ॥ ऋBह्र्स्_२,१.१८९ ॥

अतः श्रीवैष्णवैः सर्वश्रुतिस्मृतिनिदर्शनैः ।
तद्ब्रह्म श्रीभगवतो विभूतिरिति कीर्त्यते ॥ ऋBह्र्स्_२,१.१९० ॥

तथा हि यामुनाचार्यस्तोत्रे (१४)
यद्अण्डान्तरगोचरं च यद्
दशोत्तराण्यावरणानि यानि च ।
गुणाः प्रधानं पुरुषः परं पदं
परात्परं ब्रह्म च ते विभूतयः ॥ ऋBह्र्स्_२,१.१९१ ॥

(५५) सर्वसिद्धिनिषेवितः
स्ववशाखिलसिद्धिः स्यात्सर्वसिद्धिनिषेवितः ॥ ऋBह्र्स्_२,१.१९२ ॥

यथा
दशभिः सिद्धसखीभिर्वृता महासिद्धयः क्रमादष्टौ ।
अणिमादयो लभन्ते नावसरं द्वारि कृष्णस्य ॥ ऋBह्र्स्_२,१.१९३ ॥

(५६) अथ अविचिन्त्यमहाशक्तिः
दिव्यसर्गादिकर्तृत्वं ब्रह्मरुद्रादिमोहनम् ।
भक्तप्रारब्धविध्वंस इत्याद्यचिन्त्यशक्तिता ॥ ऋBह्र्स्_२,१.१९४ ॥

तत्र दिव्यसर्गादिकर्तृत्वं, यथा
आसीच्छायाद्वितीयः प्रथममथ विभुर्वत्सडिम्भादिदेहान्
अंशेनांशेन चक्रे तदनु बहुचतुर्बाहुतां तेषु तेने ।
वृत्तस्तत्त्वादिवीतैरथ कमलभवैः स्तूयमानोऽखिलात्मा
तावद्ब्रह्माण्डसेव्यः स्फुटमजनि ततो यः प्रपद्ये तमीशम् ॥ ऋBह्र्स्_२,१.१९५ ॥

ब्रह्मरुद्रादिमोहनं, यथा
मोहितः शिशुकृतौ पितामहो
हन्त शम्भुरपि जृम्भितो रणे ।
येन कंसरिपुणाद्य तत्पुरः
के महेन्द्र विबुधा भवद्विधाः ॥ ऋBह्र्स्_२,१.१९६ ॥

भक्तप्रारब्धविध्वंसो, यथा श्रीदशमे (१०.४५.४५)
गुरुपुत्रमिहानीतं निजकर्मनिबन्धनम् ।
आनयस्व महाराज मच्छासनपुरस्कृतः ॥ ऋBह्र्स्_२,१.१९७ ॥

आदिशब्देन दुर्घटघटनापि
अपि जनिपरिहीनः सूनुराभीरभर्तुर्
विभुरपि भुजयुग्मोत्सङ्गपर्याप्तमूर्तिः ।
प्रकटितबहुरूपोऽप्येकरूपः प्रभुर्मे
धियमयमविचिन्त्यानन्तशक्तिर्धिनोति ॥ ऋBह्र्स्_२,१.१९८ ॥

(५७) कोटिब्रह्माण्डविग्रहः
अगण्यजगद्अण्डाढ्यः कोटिब्रह्माण्डविग्रहः ।
इति श्रीविग्रहस्यास्य विभुत्वमनुकीर्तितम् ॥ ऋBह्र्स्_२,१.१९९ ॥

यथा तत्रैव (१०.१४.११)
क्वाहं तमोमहद्अहंखचराग्निवार्भू
संवेष्टिताण्डघटसप्तवितस्तिकायः ।
क्वेदृग्विधाविगणिताण्डपराणुचर्या
वाताध्वरोमविवरस्य च ते महित्वम् ॥ ऋBह्र्स्_२,१.२०० ॥

यथा वा
तत्त्वैर्ब्रह्माण्डमाढ्यं सुरकुलभुवनैश्चाङ्कितं योजनानां
पञ्चाशत्कोट्य्अखर्वक्षितिखचितमिदं यच्च पातालपूर्णम् ।
तादृग्ब्रह्माण्डलक्षायुतपरिचयभागेककक्षं विधात्रा
दृष्टं यस्यात्र वृन्दावनमपि भवतः कः स्तुतौ तस्य शक्तः ॥ ऋBह्र्स्_२,१.२०१ ॥

(५८) अवतारावलीबीजम्
अवतारावलीबीजमवतारी निगद्यते ॥ ऋBह्र्स्_२,१.२०२ ॥

यथा श्रीगीतगोविन्दे (१.१६)
वेदानुद्धरते जगन्ति वहते भूगोलमुद्बिभ्रते
दैत्यं दारयते बलिं छलयते क्षत्रक्षयं कुर्वते ।
पौलस्त्यं जयते हलं कलयते कारुण्यमातन्वते
म्लेच्छान्मूर्च्छयते दशाकृतिकृते कृष्णाय तुभ्यं नमः ॥ ऋBह्र्स्_२,१.२०३ ॥

(५९) हतारिगतिदायकः
मुक्तिदाता हतारीणां हतारिगतिदायकः ॥ ऋBह्र्स्_२,१.२०४ ॥

यथा
पराभवं फेनिलवक्त्रतां च
बन्धं च भीतिं च मृतिं च कृत्वा ।
पवर्गदातापि शिखण्डमौले
त्वं शात्रवाणामपवर्गदोऽसि ॥ ऋBह्र्स्_२,१.२०५ ॥

यथा वा
चित्रं मुरारे सुरवैरिपक्षस्
त्वया समन्तादनुबद्धयुद्धः ।
अमित्रवृन्दान्यविभिद्य भेदं
मित्रस्य कुर्वन्नमृतं प्रयाति ॥ ऋBह्र्स्_२,१.२०६ ॥

(६०) आत्मारामगणाकर्षी
आत्मारामगणाकर्षीत्येतद्व्यक्तार्थमेव हि ॥ ऋBह्र्स्_२,१.२०७ ॥

यथा
पूर्णपरमहंसं मां माधव लीलामहौषधिर्घ्राता ।
कृत्वा बत सारङ्गं व्यधित कथं सारसे तृषितम् ॥ ऋBह्र्स्_२,१.२०८ ॥

अथासाधरणगुणचतुष्के (६१) लीलामाधुर्यं

यथा बृहद्वामने
सन्ति यद्यपि मे प्राज्या लीलास्तास्ता मनोहराः ।
न हि जाने स्मृते रासे मनो मे कीदृशं भवेत् ॥ ऋBह्र्स्_२,१.२०९ ॥

यथा वा
परिस्फुरतु सुन्दरं चरित्रमत्र लक्ष्मीपतेस्
तथा भुवननन्दिनस्तद्अवतारवृन्दस्य च ।
हरेरपि चमत्कृतिप्रकरवर्धनः किन्तु मे
बिभर्ति हृदि विस्मयं कमपि रासलीलारसः ॥ ऋBह्र्स्_२,१.२१० ॥

(६२) प्रेम्णा प्रियाधिक्यम्, यथा श्रीदशमे (१०.३१.१५)
अटति यद्भवानह्नि काननं
त्रुटिर्युगायते त्वामपश्यताम् ।
कुटिलकुन्तलं श्रीमुखं च ते
जड उदीक्षितां पक्ष्मकृत्दृशाम् ॥ ऋBह्र्स्_२,१.२११ ॥

यथा वा
ब्रह्मरात्रिततिरप्यघशत्रो
सा क्षणार्धवदगात्तव सङ्गे ।
हा क्षणार्धमपि वल्लविकानां
ब्रह्मरात्रिततिवद्विरहेऽभूत् ॥ ऋBह्र्स्_२,१.२१२ ॥

(६३) वेणुमाधुर्यम्, यथा तत्रैव (१०.३३.१५)
सवनशस्तद्उपधार्य सुरेशाः
शक्रशर्वपरमेष्ठिपुरोगाः ।
कवय आनतकन्धरचित्ताः
कश्मलं ययुरनिश्चिततत्त्वाः ॥ ऋBह्र्स्_२,१.२१३ ॥

यथा वा विदग्धमाधवे (१.२६)
रुन्धन्नम्बुभृतश्चमत्कृतिपरं कुर्वन्मुहुस्तुम्बुरुं
ध्यानादन्तरयन् सनन्दनमुखान् विस्मेरयन् वेधसम् ।
औत्सुक्यावलिभिर्बलिं चटुलयन् भोगीन्द्रमाघूर्णयन्
भिन्दन्नण्डकटाहभित्तिमभितो बभ्राम वंशीध्वनिः ॥ ऋBह्र्स्_२,१.२१४ ॥

(६४) रूपमाधुर्यं, यथा तृतीये (३.२.१२)

यन्मर्त्यलीलौपयिकं स्वयोग
मायाबलं दर्शयता गृहीतम् ।
विस्मापनं स्वस्य च सौभगर्द्धेः
परं पदं भूषणभूषणाङ्गम् ॥ ऋBह्र्स्_२,१.२१५ ॥

श्रीदशमे च (१०.२९.४०)
का स्त्र्यङ्ग ते कलपदायतमूर्च्छितेन
संमोहिताऽर्यपदवीं न चलेत्त्रिलोक्याम् ।
त्रैलोक्यसौभगमिदं च निरीक्ष्य रूपं
यद्गोद्विजद्रुममृगान् पुलकान्यबिभ्रत् ॥ ऋBह्र्स्_२,१.२१६ ॥

यथा वा, ललितमाधवे (८.३४)
अपरिकलितपूर्वः कश्चमत्कारकारी
स्फुरति मम गरीयानेष माधुर्यपूरः ।
अयमहमपि हन्त प्रेक्ष्य यं लुब्धचेताः
सरभसमुपभोक्तुं कामये राधिकेव ॥ ऋBह्र्स्_२,१.२१७ ॥
समस्तविविधाश्चर्यकल्याणगुणवारिधेः ।
गुणानामिह कृष्णस्य दिङ्मात्रमुपदर्शितम् ॥ ऋBह्र्स्_२,१.२१८ ॥

यथा च श्रीदशमे (१०.१४.७)
गुणात्मनस्तेऽपि गुणान् विमातुं
हितावतीर्णस्य क ईशिरेऽस्य ।
कालेन यैर्वा विमिताः सुकल्पैर्
भूपांशवः खे मिहिका द्युभासः ॥ ऋBह्र्स्_२,१.२१९ ॥

नित्यगुणो वनमाली, यदपि शिखामणिरशेषनेतॄणाम् ।
भक्तापेक्षिकमस्य, त्रिविधत्वं लिख्यते तदपि ॥ ऋBह्र्स्_२,१.२२० ॥
हरिः पूर्णतमः पूर्णतरः पूर्ण इति त्रिधा ।
श्रेष्ठमध्यादिभिः शब्दैर्नाट्ये यः परिपठ्यते ॥ ऋBह्र्स्_२,१.२२१ ॥
प्रकाशिताखिलगुणः स्मृतः पूर्णतमो बुधैः ।
असर्वव्यञ्जकः पूर्णतरः पूर्णोऽल्पदर्शकः ॥ ऋBह्र्स्_२,१.२२२ ॥
कृष्णस्य पूर्णतमता व्यक्ताभूद्गोकुलान्तरे ।
पूर्णता पूर्णतरता द्वारकामथुरादिषु ॥ ऋBह्र्स्_२,१.२२३ ॥

स पुनश्चतुर्विधः स्याद्धीरोदात्तश्च धीरललितश्च ।
धीरप्रशान्तनामा तथैव धीरोद्धतः कथितः ॥ ऋBह्र्स्_२,१.२२४ ॥
बहुविधगुणक्रियाणामास्पदभूतस्य पद्मनाभस्य ।
तत्तल्लीलाभेदाद्विरुध्यते न हि चतुर्विधाः ॥ ऋBह्र्स्_२,१.२२५ ॥

तत्र धीरोदात्तः
गम्भीरो विनयी क्षन्ता करुणः सुदृढव्रतः ।
अकत्थनो गूढगर्वो धीरोदात्तः सुसत्त्वभृत् ॥ ऋBह्र्स्_२,१.२२६ ॥

यथा
वीरंमन्यमदप्रहारिहसितं धौरेयमार्तोद्धृतौ
निर्व्यूढव्रतमुन्नतक्षितिधरोद्धारेण धीराकृतिम् ।
मय्युच्चैः कृतकिल्बिषेऽपि मधुरं स्तुत्या मुहुर्यन्त्रितं
प्रेक्ष्य त्वां मम दुर्वितर्क्यहृदयं धीर्गीश्च न स्पन्दते ॥ ऋBह्र्स्_२,१.२२७ ॥

गम्भीरत्वादिसामान्यगुणा यदिह कीर्तिताः ।
तदेतेषु तद्आधिक्यप्रतिपादनहेतवे ॥ ऋBह्र्स्_२,१.२२८ ॥
इदं हि धीरोदात्तत्वं पूर्वैः प्रोक्तं रघूद्वहे ।
तत्तद्भक्तानुसारेण तथा कृष्णे विलोक्यते ॥ ऋBह्र्स्_२,१.२२९ ॥

धीरललितः
विदग्धो नवतारुण्यः परिहासविशारदः ।
निश्चिन्तो धीरललितः स्यात्प्रायः प्रेयसीवशः ॥ ऋBह्र्स्_२,१.२३० ॥

यथा
वाचा सूचितशर्वरीरतिकलाप्रागल्भ्यया राधिकां
व्रीडाकुञ्चितलोचनां विरचयन्नग्रे सखीनामसौ ।
तद्वक्षोरुहचित्रकेलिमकरीपाण्डित्यपारं गतः
कैशोरं सफलीकरोति कलयन् कुञ्जे विहारं हरिः ॥ ऋBह्र्स्_२,१.२३१ ॥

गोविन्दे प्रकटं धीरललितत्वं प्रदर्श्यते ।
उदाहरन्ति नाट्यज्ञाः प्रायोऽत्र मकरध्वजम् ॥ ऋBह्र्स्_२,१.२३२ ॥

धीरशान्तः
शमप्रकृतिकः क्लेशसहनश्च विवेचकः ।
विनयादिगुणोपेतो धीरशान्त उदीर्यते ॥ ऋBह्र्स्_२,१.२३३ ॥

यथा
विनयमधुरमूर्तिर्मन्थरस्निग्धतारो
वचनपटिमभङ्गीसूचिताशेषनीतिः ।
अभिदधदिह धर्मं धर्मपुत्रोपकण्ठे
द्विजपतिरिव साक्षात्प्रेक्ष्यते कंसवैरी ॥ ऋBह्र्स्_२,१.२३४ ॥

युधिष्ठिरादिको धीरैर्धीरशान्तः प्रकीर्तितः ॥ ऋBह्र्स्_२,१.२३५ ॥

धीरोद्धतः
मात्सर्यवानहङ्कारी मायावी रोषणश्चलः ।
विकत्थनश्च विद्वद्भिर्धीरोद्धत उदाहृतः ॥ ऋBह्र्स्_२,१.२३६ ॥

यथा
आः पापिन् यवनेन्द्र दर्दुर पुनर्व्याघुट्य सद्यस्त्वया
वासः कुत्रचिदन्धकूपकुहरक्रोडेऽद्य निर्मीयताम् ।
हेलोत्तानितदृष्टिमात्रभसितब्रह्माण्डाण्डः पुरो
जागर्मि त्वद्उपग्रहाय भुजगः कृष्णोऽत्र कृष्णाभिधः ॥ ऋBह्र्स्_२,१.२३७ ॥

धीरोद्धतस्तु विद्वद्भिर्भीमसेनादिरुच्यते ॥ ऋBह्र्स्_२,१.२३८ ॥
मात्सर्याद्याः प्रतीयन्ते दोषत्वेन यदप्यमी ।
लीलाविशेषशालित्वान्निर्दोषेऽत्रे गुणाः स्मृताः ॥ ऋBह्र्स्_२,१.२३९ ॥
यथा वा
अम्भोभारभरप्रणम्रजलदभ्रान्तिं वितन्वन्नसौ
घोराडम्बरडम्बरः सुविकुटामुत्क्षिप्य हस्तार्गलाम् ।
दुर्वारः परवारणः स्वयमहं लब्धोऽस्मि कृष्णः पुरो
रे श्रीदामकुरङ्गसङ्गरभुवो भङ्गं त्वमङ्गीकुरु ॥ ऋBह्र्स्_२,१.२४० ॥

मिथो विरोधिनोऽप्यत्र केचिन्निगदिता गुणाः ।
हरौ निरङ्कुशैश्वर्यात्कोऽपि न स्यादसम्भवः ॥ ऋBह्र्स्_२,१.२४१ ॥

तथा च कौर्मे
अस्थूलश्चाणुश्चैव स्थूलोऽणुश्चैव सर्वतः ।
अवर्णः सर्वतः प्रोक्तः श्यामो रक्तान्तलोचनः ।
ऐश्वर्ययोगाद्भगवान् विरुद्धार्थोऽभिधीयते ॥ ऋBह्र्स्_२,१.२४२ ॥
तथापि दोषाः परमे नैवाहार्याः कथञ्चन ।
गुणा विरुद्धा अप्येते समाहार्याः समन्ततः ॥ ऋBह्र्स्_२,१.२४३ ॥

महावाराहे च
सर्वे नित्याः शाश्वताश्च देहास्तस्य परात्मनः ।
हानोपादानरहिता नैव प्रकृतिजाः क्वचित् ॥ ऋBह्र्स्_२,१.२४४ ॥
परमानन्दसन्दोहा ज्ञानमात्राश्च सर्वतः ।
सर्वे सर्वगुणैः पूर्णाः सर्वदोषविवर्जिताः ॥ ऋBह्र्स्_२,१.२४५ ॥

वैष्णवतन्त्रेऽपि
अष्टादशमहादोषै रहिता भगवत्तनुः ।
सर्वैश्वर्यमयी सत्यविज्ञानानन्दरूपिणी ॥ ऋBह्र्स्_२,१.२४६ ॥

अष्टादशमहादोषाः, यथा विष्णुयामले
मोहस्तन्द्रा भ्रमो रुक्षरसता काम उल्बणः ।
लोलता मदमात्सर्ये हिंसा खेदपरिश्रमौ ॥ ऋBह्र्स्_२,१.२४७ ॥
असत्यं क्रोध आकाङ्क्षा आशङ्का विश्वविभ्रमः ।
विषमत्वं परापेक्षा दोषा अष्टादशोदिताः ॥ ऋBह्र्स्_२,१.२४८ ॥

इत्थं सर्वावतारेभ्यस्ततोऽप्यत्रावतारिणः ।
व्रजेन्द्रनन्दने सुष्ठु माधुर्यभर ईरितः ॥ ऋBह्र्स्_२,१.२४९ ॥

तथा च ब्रह्मसंहितायामादिपुरुषरहस्ये (५.५९)

यस्यैकनिश्वसितकालमथावलम्ब्य
जीवन्ति लोमबिलजा जगद्अण्डनाथाः ।
विष्णुर्महान् स इह यस्य कलाविशेषो
गोविन्दमादिपुरुषं तमहं भजामि ॥ ऋBह्र्स्_२,१.२५० ॥

अथाष्टावनुकीर्त्यन्ते सद्गुणत्वेन विश्रुताः ।
मङ्गलालङ्क्रियारूपाः सत्त्वभेदास्तु पौरुषाः ॥ ऋBह्र्स्_२,१.२५१ ॥
शोभा विलासो माधुर्यं माङ्गल्यं स्थैर्यतेजसी ।
ललितौदार्यमित्येते सत्त्वभेदास्तु पौरुषाः ॥ ऋBह्र्स्_२,१.२५२ ॥

तत्र शोभा
नीचे दयाधिके स्पर्धा शौर्योत्साहौ च दक्षता ।
सत्यं च व्यक्तिमायाति यत्र शोभेति तां विदुः ॥ ऋBह्र्स्_२,१.२५३ ॥

यथा
स्वर्गध्वंसं विधित्सुर्व्रजभुवि कदनं सुष्ठु वीक्ष्यातिवृष्ट्या
नीचानालोच्य पश्चान्नमुचिरिपुमुखानूढकारुण्यवीचिः ।
अप्रेक्ष्य स्वेन तुल्यं कमपि निजरुषामत्र पर्याप्तिपात्रं
बन्धूनानन्दयिष्यन्नुदहरतु हरिः सत्यसन्धो महाद्रिम् ॥ ऋBह्र्स्_२,१.२५४ ॥

विलासः
वृषभस्येव गम्भीरा गतिर्धीरं च वीक्षणम् ।
सस्मितं च वचो यत्र स विलास इतीर्यते ॥ ऋBह्र्स्_२,१.२५५ ॥

यथा
मल्लश्रेण्यामविनयवतीं मन्थरां न्यस्य दृष्टिं
व्याधुन्वानो द्विप इव भुवं विक्रमाडम्बरेण ।
वाग्आरम्भे स्मितपरिमलैः क्षालयन्मञ्चकक्षां
तुङ्गे रङ्गस्थलपरिसरे सारसाक्षः ससार ॥ ऋBह्र्स्_२,१.२५६ ॥

माधुर्यम्
तन्माधुर्यं भवेद्यत्र चेष्टादेः स्पृहणीयता ॥ ऋBह्र्स्_२,१.२५७ ॥

यथा
वरामध्यासीनस्तटभुवमवष्टम्भरुचिभिः
कदम्बैः प्रालम्बं प्रवलितविलम्बं विरचयन् ।
प्रपन्नायामग्रे मिहिरदुहितुस्तीर्थपदवीं
कुरङ्गीनेत्रायां मधुरिपुरपाङ्गं विकिरति ॥ ऋBह्र्स्_२,१.२५८ ॥

माङ्गल्यम्
माङ्गल्यं जगतामेव विश्वासास्पदता मता ॥ ऋBह्र्स्_२,१.२५९ ॥

यथा
अन्याय्यं न हराविति व्यपगतद्वारार्गला दानवा
रक्षी कृष्ण इति प्रमत्तमभितः क्रीडासु रक्ताः सुराः ।
साक्षी वेत्ति स भक्तिमित्यवनतव्राताश्च चिन्तोज्झिताः
के विश्वम्भर न त्वद्अङ्घ्रियुगले विश्रम्भितां भेजिरे ॥ ऋBह्र्स्_२,१.२६० ॥

स्थैर्यम्
व्यवसायादचलनं स्थैर्यं विघ्नाकुलादपि ॥ ऋBह्र्स्_२,१.२६१ ॥

यथा
प्रतिकुलेऽपि सशूले, शिवे शिवायां निरंशुकायां च ।
व्यलुनादेव मुकुन्दो विन्ध्यावलिनन्दनस्य भुजान् ॥ ऋBह्र्स्_२,१.२६२ ॥

तेजः
सर्वचित्तावगाहित्वं तेजः सद्भिरुदीर्यते ॥ ऋBह्र्स्_२,१.२६३ ॥

यथा श्रीदशमे (१०.४३.१७)
मल्लानामशनिर्नॄणां नरवरः स्त्रीणां स्मरो मूर्तिमान्
गोपानां स्वजनोऽसतां क्षितिर्भुजां शास्ता स्वपित्रोः शिशुः ।
मृत्युर्भोजपतेर्विराडविदुषां तत्त्वं परं योगिनां
वृष्णीनां परदेवतेति विदितो रङ्गः गतः साग्रजः ॥ ऋBह्र्स्_२,१.२६४ ॥

यथा
तेजो बुधैरवज्ञादेरसहिष्णुत्वमुच्यते ॥ ऋBह्र्स्_२,१.२६५ ॥

यथा
आक्रुष्टे प्रकटं दिदण्डयिषुणा चण्डेन रङ्गस्थले
नन्दे चानकदुन्दुभौ च पुरतः कंसेन विश्वद्रुहा ।
दृष्टिं तत्र सुरारिमृत्युकुलटासम्पर्कदूतीं क्षिपन्
मञ्चस्योपरि सञ्चुकुर्दिषुरसौ पश्याच्युतः प्राञ्चति ॥ ऋBह्र्स्_२,१.२६६ ॥

ललितम्
शृङ्गारप्रचुरा चेष्टा यत्र तं ललितं विदुः ॥ ऋBह्र्स्_२,१.२६७ ॥

यथा
विधत्ते राधायाः कुचमुकुलयोः केलिमकरीं
करेण व्यग्रात्मा सरभसमसव्येन रसिकः ।
अरिष्टे साटोपं कटु रुवति सव्येन विहसन्न्
उदञ्चद्रोमाञ्चं रचयति च कृष्णः परिकरम् ॥ ऋBह्र्स्_२,१.२६८ ॥

औदार्यम्
आत्माद्य्अर्पणकारित्वमौदार्यमिति कीर्त्यते ॥ ऋBह्र्स्_२,१.२६९ ॥

यथा
वदान्यः को भवेदत्र वदान्यः पुरुषोत्तमात् ।
अकिञ्चनाय येनात्मा निर्गुणायापि दीयते ॥ ऋBह्र्स्_२,१.२७० ॥

सामान्या नायकगुणाः स्थिरताद्या यदप्यमी ।
तथापि पूर्वतः किञ्चिद्विशेषात्पुनरीरिताः ॥ ऋBह्र्स्_२,१.२७१ ॥

अथास्य सहायाः
अस्य गर्गादयो धर्मे युयुधानादयो युधि ।
उद्धवाद्यास्तथा मन्त्रे सहायाः परिकीर्तिताः ॥ ऋBह्र्स्_२,१.२७२ ॥

अथ कृष्णभक्ताः
तद्भावभावितस्वान्ताः कृष्णभक्ता इतीरिताः ॥ ऋBह्र्स्_२,१.२७३ ॥
यो सत्यवाक्य इत्याद्या ह्रीमानित्यन्तिमा गुणाः ।
प्रोक्ताः कृष्णेऽस्य भक्तेषु ते विज्ञेया मनीषिभिः ॥ ऋBह्र्स्_२,१.२७४ ॥
ते साधकाश्च सिद्धाश्च द्विविधाः परिकीर्तिताः ॥ ऋBह्र्स्_२,१.२७५ ॥

तत्र साधकाः
उत्पन्नरतयः सम्यङ्नैर्विघ्न्यमनुपागताः ।
कृष्णसाक्षात्कृतौ योग्याः साधकाः परिकीर्तिताः ॥ ऋBह्र्स्_२,१.२७६ ॥

यथैकादशे (११.२.४६)
ईश्वरे तद्अधीनेषु बालिशेषु द्विषत्सु च ।
प्रेममैत्रीकृपोपेक्षा यः करोति स मध्यमः ॥ ऋBह्र्स्_२,१.२७७ ॥

यथा वा
सिक्ताप्यश्रुजलोत्करेण भगवद्वार्तानदीजन्मना
तिष्ठत्येव भवाग्निहेतिरिति ते धीमन्नलं चिन्तया ।
हृद्व्योमन्यमृतस्पृहाहरकृपावृष्टेः स्फुटं लक्ष्यते
नेदिष्टः पृथुरोमताण्डवभरात्कृष्णाम्बुधस्योद्गमः ॥ ऋBह्र्स्_२,१.२७८ ॥
बिल्वमङ्गलतुल्या ये साधकास्ते प्रकीर्तिताः ॥ ऋBह्र्स्_२,१.२७९ ॥

अथ सिद्धाः
अविज्ञाताखिलक्लेशाः सदा कृष्णाश्रितक्रियाः ।
सिद्धाः स्युः सन्ततप्रेमसौख्यास्वादपरायणाः ॥ ऋBह्र्स्_२,१.२८० ॥
सम्प्राप्तसिद्धयः सिद्धा नित्यसिद्धाश्च ते त्रिधा ॥ ऋBह्र्स्_२,१.२८१ ॥

तत्र सम्प्राप्तसिद्धयः
साधनैः कृपया चास्य द्विधा सम्प्राप्तसिद्धयः ॥ ऋBह्र्स्_२,१.२८२ ॥

तत्र साधनसिद्धाः, यथा तृतीये (३.१५.२५)

यच्च व्रजन्त्यनिमिषामृषभानुवृत्त्या
दूरे यमा ह्युपरि नः स्पृहणीयशीलाः ।
भर्तुर्मिथः सुयशसः कथनानुराग
वैक्लव्यबाष्पकलया पुलकीकृताङ्गाः ॥ ऋBह्र्स्_२,१.२८३ ॥

यथा वा
ये भक्तिप्रभविष्णुताकवलितक्लेशोर्मयः कुर्वते
दृक्पातेऽपि घृणां कृतप्रणतिषु प्रायेण मोक्षादिषु ।
तान् प्रेमप्रसरोत्सवस्तवकितस्वान्तान् प्रमोदाश्रुभिर्
निर्धौतास्यतटान्मुहुः पुलकिनो धन्यान्नमस्कुर्महे ॥ ऋBह्र्स्_२,१.२८४ ॥

मार्कण्डेयादयः प्रोक्ताः साधनैः प्राप्तसिद्धयः ॥ ऋBह्र्स्_२,१.२८५ ॥

अथ कृपासिद्धाः, यथा श्रीदशमे (१०.२३.४२४३)

नासां द्विजातिसंस्कारो न निवासो गुरावपि ।
न तपो नात्ममीमांसा न शौचं न क्रियाः शुभाः ॥ ऋBह्र्स्_२,१.२८६ ॥
अथापि ह्युत्तमःश्लोके कृष्णे योगेश्वरेश्वरे ।
भक्तिर्दृढा न चास्माकं संस्कारादिमतामपि ॥ ऋBह्र्स्_२,१.२८७ ॥

यथा वा
न काचिदभवद्गुरोर्भजनयन्त्रणेऽभिज्ञता
न साधनविधौ च ते श्रमलवस्य गन्धोऽप्यभूत् ।
गतोऽसि चरितार्थतां परमहंसमृग्यश्रिया
मुकुन्दपदपद्मयोः प्रणयसीधुनो धारया ॥ ऋBह्र्स्_२,१.२८८ ॥

कृपासिद्धा यज्ञपत्नीवैरोचनिशुकादयः ॥ ऋBह्र्स्_२,१.२८९ ॥

अथ नित्यसिद्धाः
आत्मकोटिगुणं कृष्णे प्रेमाणं परमं गताः ।
नित्यानन्दगुणाः सर्वे नित्यसिद्धा मुकुन्दवत् ॥ ऋBह्र्स्_२,१.२९० ॥

यथा पाद्मे श्रीभगवत्सत्यभामादेवीसंवादे
अथ ब्रह्मादिदेवानां तथा प्रार्थनया भुवः ।
आगतोऽहं गणाः सर्वे जातास्तेऽपि मया सह ॥ ऋBह्र्स्_२,१.२९१ ॥
एते हि यादवाः सर्वे मद्गणा एव भामिनि ।
सर्वदा मत्प्रिया देवि मत्तुल्यगुणशालिनः ॥ ऋBह्र्स्_२,१.२९२ ॥

तथा च श्रीदशमे (१०.१४.३२)
अहो भाग्यमहो भाग्यं नन्दगोपव्रजौकसाम् ।
यन्मित्रं परमानन्दं पूर्णं ब्रह्म सनातनम् ॥ ऋBह्र्स्_२,१.२९३ ॥

तत्रैव (१०.२६.१३)
दुस्त्यजश्चानुरागोऽस्मिन् सर्वेषां नो व्रजौकसाम् ।
नन्द ते तनयेऽस्मासु तस्याप्यौत्पत्तिकः कथम् ॥ ऋBह्र्स्_२,१.२९४ ॥

सनातनं मित्रमिति तस्याप्यौत्पत्तिकः कथम् ।
स्नेहोऽस्मास्विति चैतेषां नित्यप्रेष्ठत्वमागतम् ॥ ऋBह्र्स्_२,१.२९५ ॥
इत्यतः कथिता नित्यप्रिया यादववल्लवाः ।
एषां लौकिकवच्चेष्टा लीला मुररिपोरिव ॥ ऋBह्र्स्_२,१.२९६ ॥

तथा हि पाद्मोत्तरखण्डे
यथा सौमित्रिभरतौ यथा सङ्कर्षणादयः ।
तथा तेनैव जायन्ते निजलोकाद्यदृच्छया ॥ ऋBह्र्स्_२,१.२९७ ॥
पुनस्तेनैव गच्छन्ति तत्पदं शाश्वतं परम् ।
न कर्मबन्धनं जन्म वैष्णवानां च विद्यते ॥ ऋBह्र्स्_२,१.२९८ ॥

ये प्रोक्ताः पञ्चपञ्चाशत्क्रमात्कंसरिपोर्गुणाः ।
ते चान्ये चापि सिद्धेषु सिद्धिदत्वादयो मताः ॥ ऋBह्र्स्_२,१.२९९ ॥
भक्तास्तु कीर्तिताः शान्तास्तथा दाससुतादयः ।
सखायो गुरुवर्गाश्च प्रेयस्यश्चेति पञ्चधा ॥ ऋBह्र्स्_२,१.३०० ॥

अथ उद्दीपनाः
उद्दीपनास्तु ते प्रोक्ता भावमुद्दीपयन्ति ये ।
ते तु श्रीकृष्णचन्द्रस्य गुणाश्चेष्टाः प्रसाधनम् ॥ ऋBह्र्स्_२,१.३०१ ॥
स्मिताङ्गसौरभे वंशशृङ्गनूपुरकम्बवः ।
पदाङ्कक्षेत्रतुलसीभक्ततद्वासरादयः ॥ ऋBह्र्स्_२,१.३०२ ॥

तत्र गुणाः
गुणास्तु त्रिविधाः प्रोक्ताः कायवाङ्मानसाश्रयाः ॥ ऋBह्र्स्_२,१.३०३ ॥

तत्र कायिकाः
वयःसौन्दर्यरूपाणि कायिकामृदुतादयः ॥ ऋBह्र्स्_२,१.३०४ ॥
गुणाः स्वरूपमेवास्य कायिकाद्या यदप्यमी ।
भेदं स्वीकृत्य वर्ण्यन्ते तथाप्युद्दीपना इति ॥ ऋBह्र्स्_२,१.३०५ ॥
अतस्तस्य स्वरूपस्य स्यादालम्बनतैव हि ।
उद्दीपनत्वमेव स्याद्भूषणादेस्तु केवलम् ॥ ऋBह्र्स्_२,१.३०६ ॥
एषामालम्बनत्वं च तथोद्दीपनतापि च ॥ ऋBह्र्स्_२,१.३०७ ॥

तत्र वयः
वयः कौमारपौगण्डकैशोरमिति तत्त्रिधा ॥ ऋBह्र्स्_२,१.३०८ ॥
कौमारं पञ्चमाब्दान्तं पौगण्डं दशमावधि ।
आषोडशाच्च कैशोरं यौवनं स्यात्ततः परम् ॥ ऋBह्र्स्_२,१.३०९ ॥
औचित्यात्तत्र कौमारं वक्तव्यं वत्सले रसे ।
पौगण्डं प्रेयसि तत्तत्खेलादियोगतः ॥ ऋBह्र्स्_२,१.३१० ॥
श्रैष्ठ्यमुज्ज्वल एवास्य कैशोरस्य तथाप्यदः ।
प्रायः सर्वरसौचित्यादत्रोदाह्रियते क्रमात् ॥ ऋBह्र्स्_२,१.३११ ॥
आद्यं मध्यं तथा शेषं कैशोरं त्रिविधं भवेत् ॥ ऋBह्र्स्_२,१.३१२ ॥

तत्र आद्यम्
वर्णस्योज्ज्वलता कापि नेत्रान्ते चारुणच्छविः ।
रोमावलिप्रकटता कैशोरे प्रथमे सति ॥ ऋBह्र्स्_२,१.३१३ ॥

तथा
हरति शितिमा कोऽप्यङ्गानां महेन्द्रमणिश्रियं
प्रविशति दृशोरन्ते कान्तिर्मनागिव लोहिनी ।
सखि तनु रुहां राजिः सूक्ष्मा दरास्य विरोहते
स्फुरति सुषमा नव्येदानीं तनौ वनमालिनः ॥ ऋBह्र्स्_२,१.३१४ ॥

वैजयन्तीशिखण्डादिनटप्रवरवेशता ।
वंशीमधुरिमा वस्त्रशोभा चात्र परिच्छदः ॥ ऋBह्र्स्_२,१.३१५ ॥

यथा श्रीदशमे (१०.२१.५)
बर्हापीडं नटवरवपुः कर्णयोः कर्णिकारं
बिभ्रद्वासः कनककपिशं वैजयन्तीं च मालाम् ।
रन्ध्रान् वेणोरधरसुधया पूरयन् गोपवृन्दैर्
वृन्दारण्यं स्वपदरमणं प्राविशद्गीतकीर्तिः ॥ ऋBह्र्स्_२,१.३१६ ॥

खरतात्र नखाग्राणां धनुरान्दोलिता भ्रुवोः ।
रदानां रञ्जनं रागचूर्णैरित्यादि चेष्टितम् ॥ ऋBह्र्स्_२,१.३१७ ॥

यथा
नवं धनुरिवातनोर्नटद्अघद्विषोर्भ्रूयुगं
शरालिरिव शाणिता नखरराजिरग्रे खरा ।
विराजति शरीरिणी रुचिरदन्तलेखारुणा
न का सखि समीक्षणाद्युवतिरस्य वित्रस्यति ॥ ऋBह्र्स्_२,१.३१८ ॥

तन्मोहनता, यथा
कर्तुं मुग्धाः स्वयमचटुना न क्षमन्तेऽभियोगं
न व्यादातुं क्वचिदपि जने वक्त्रमप्युत्सहन्ते ।
दृष्ट्वा तास्ते नवमधुरिमस्मेरतां माधवार्ताः
स्वप्राणेभ्यस्त्रयमुदसृजन्नद्य तोयाञ्जलीनाम् ॥ ऋBह्र्स्_२,१.३१९ ॥

अथ मध्यमम्
ऊरुद्वयस्य बाह्वोश्च कापि श्रीरुरसस्तथा ।
मूर्तेर्माधुरिमाद्यं च कैशोरे सति मध्यमे ॥ ऋBह्र्स्_२,१.३२० ॥

यथा
स्पृहयति करिशुण्डादण्डनायोरुयुग्मं
गरुडमणिकवाटीसख्यमिच्छत्युरश्च ।
भुजयुगमपि धित्सत्यर्गलावर्गनिन्दाम्
अभिनवतरुणिम्नः प्रक्रमे केशवस्य ॥ ऋBह्र्स्_२,१.३२१ ॥

मुखं स्मितविलासाढ्यं विभ्रमोत्तरले दृशौ ।
त्रिजगन्मोहनं गीतमित्यादिरिह माधुरी ॥ ऋBह्र्स्_२,१.३२२ ॥

यथा
अनङ्गनयचातुरीपरिचयोत्तरङ्गे दृशौ
मुखाम्बुजमुदञ्चितस्मितविलासरम्याधरम् ।
अचञ्चलकुलाङ्गनाव्रतविडम्बिसङ्गीतकं
हरेस्तरुणिमाङ्कुरे स्फुरति माधुरी काप्यभूत् ॥ ऋBह्र्स्_२,१.३२३ ॥

वैदग्धीसारविस्तारः कुञ्जकेलिमहोत्सवः ।
आरम्भो रासलीलादेरिह चेष्टादिसौष्ठवम् ॥ ऋBह्र्स्_२,१.३२४ ॥

यथा
व्यक्तालक्तपदैः क्वचित्परिलुठत्पिञ्छावतंसैः क्वचित्
तल्पैर्विच्युतकाञ्चिभिः क्वचिदसौ व्याकीर्णकुञ्जोत्करा ।
प्रोद्यन्मण्डलबन्धताण्डवघटालक्ष्मोल्लसत्सैकता
गोविन्दस्य विलासवृन्दमधिकं वृन्दाटवी शंसति ॥ ऋBह्र्स्_२,१.३२५ ॥

तन्मोहनता, यथा
विदूरान्माराग्निं हृदयरविकान्ते प्रकटयन्न्
उदस्यन् धर्मेन्दुं विदधदभितो रागपटलम् ।
कथं हा नस्त्राणं सखि मुकुलयन् बोधकुमुदं
तरस्वी कृष्णाब्भ्रे मधुरिमभरार्कोऽभ्युदयते ॥ ऋBह्र्स्_२,१.३२६ ॥

अथ शेषम्
पूर्वतोऽप्यधिकोत्कर्षं बाढमङ्गानि बिभ्रति ।
त्रिवलिव्यक्तिरित्याद्यं कैशोरे चरमे सति ॥ ऋBह्र्स्_२,१.३२७ ॥

यथा
मरकतगिरेर्गण्डग्रावप्रभाहररक्षसं
शतमखमणिस्तम्भारम्भप्रमाथिभुजद्वयम् ।
तनुतरणिजावीचिच्छायाविडम्बिबलित्रयं
मदनकदलीसाधिष्ठोरुं स्मराम्यसुरान्तकम् ॥ ऋBह्र्स्_२,१.३२८ ॥

तन्माधुर्यं, यथा
दशार्धशरमाधुरीदमनदक्षयाङ्गश्रिया
विधूनितवधूधृतिं वरकलाविलासास्पदम् ।
दृग्अञ्चलचमत्कृतिक्षपितखञ्जरीटद्युतिं
स्फुरत्तरुणिमोद्गमं तरुणि पश्य पीताम्बरम् ॥ ऋBह्र्स्_२,१.३२९ ॥

इदमेव हरेः प्राज्ञैर्नवयौवनमुच्यते ॥ ऋBह्र्स्_२,१.३३० ॥
अत्र गोकुलदेवीनां भावसर्वस्वशालिता ।
अभूतपूर्वकन्दर्पतन्त्रलीलोत्सवादयः ॥ ऋBह्र्स्_२,१.३३१ ॥

यथा
कान्ताभिः कलहायते क्वचिदयं कन्दर्पलेखान् क्वचित्
कीरैरर्पयति क्वचिद्वितनुते क्रीडाभिसारोद्यमम् ।
सख्या भेदयति क्वचित्स्मरकलाषाड्गुण्यवानीहते
सन्धिं क्वाप्यनुशास्ति कुञ्जनृपतिः शृङ्गारराज्योत्तमम् ॥ ऋBह्र्स्_२,१.३३२ ॥

तन्मोहनता, यथा
कर्णाकर्णि सखीजनेन विजने दूतीस्तुतिप्रक्रिया
पत्युर्वञ्चनचातुरी गुणनिका कुञ्जप्रयाणे निशि* ।
वाधिर्यं गुरुवाचि वेणुविरुतावुत्कर्णतेति व्रतान्
कैशोरेण तवाद्य कृष्ण गुरुणा गौरीगणः पठ्यते ॥ ऋBह्र्स्_२,१.३३३ ॥
{*कुण्ड इति क्वचित्}

नेतुः स्वरूपमेवोक्तं कैशोरमिह यद्यपि ।
नानाकृतिप्रकटनात्तथाप्युद्दीपनं मतम् ॥ ऋBह्र्स्_२,१.३३४ ॥
बाल्येऽपि नवतारुण्यप्राकट्यं क्वचित् ।
तन्नातिरसवाहित्वान्न रसज्ञैरुदाहृतम् ॥ ऋBह्र्स्_२,१.३३५ ॥

अथ सौन्दर्यम्
भवेत्सौन्दर्यमङ्गानां सन्निवेशो यथोचितम् ॥ ऋBह्र्स्_२,१.३३६ ॥

यथा
मुखं ते दीर्घाक्षं मरकततटीपीवरमुरो
भुजद्वन्द्वं स्तम्भद्युतिसुवलितं पार्श्वयुगलम् ।
परिक्षीणो मध्यः प्रथिमलहरीहारि जघनं
न कस्याः कंसारे हरति हृदयं पङ्कजदृशः ॥ ऋBह्र्स्_२,१.३३७ ॥

अथ रूपम्
विभूषणं विभूष्यं स्याद्येन तद्रूपमुच्यते ॥ ऋBह्र्स्_२,१.३३८ ॥

यथा
कृष्णस्य मण्डनततिर्मणिकुण्डलाद्या
नीताङ्गसङ्गतिमलङ्कृतये वराङ्गि ।
शक्ता बभूव न मनागपि तद्विधाने
सा प्रत्युत स्वयमनल्पमलङ्कृतासीत् ॥ ऋBह्र्स्_२,१.३३९ ॥

अथ मृदुता
मृदुता कोमलस्यापि संस्पर्शासहतोच्यते ॥ ऋBह्र्स्_२,१.३४० ॥

यथा
अहह नवाम्बुदकान्तेरमुष्य सुकुमारता कुमारस्य ।
अपि नवपल्लवसङ्गादङ्गान्यपरज्य शीर्यन्ति ॥ ऋBह्र्स्_२,१.३४१ ॥

ये नायकप्रकरणे वाचिका मानसास्तथा ।
गुणाः प्रोक्तान्त एवात्र ज्ञेया उद्दीपना बुधः ॥ ऋBह्र्स्_२,१.३४२ ॥

चेष्टा
चेष्टा रासादिलीलाः स्युस्तथा दुष्टवधादयः ॥ ऋBह्र्स्_२,१.३४३ ॥

तत्र रासो, यथा
नृत्यद्गोपनितम्बिनीकृतपरीरम्भस्य रम्भादिभिर्
गीर्वाणीभिरनङ्गरङ्गविवशं सन्दृश्यमानश्रियः ।
क्रीडाताण्डवपण्डितस्य परितः श्रीपुण्डरीकाक्ष ते
रासारम्भरसार्थिनो मधुरिमा चेतांसि नः कर्षति ॥ ऋBह्र्स्_२,१.३४४ ॥

दुष्टवधो, यथा ललितमाधवे (९.५०)

शम्भुर्वृषं नयति मन्दरकन्दरान्तर्
म्लानः सलीलमपि यत्र शिरो धुनाने ।
आः कौतुकं कलय केलिलवादरिष्टं
तं दुष्टपुङ्गवमसौ हरिरुन्ममाथ ॥ ऋBह्र्स्_२,१.३४५ ॥

अथ प्रसाधनम्
कथितं वसनाकल्पमण्डनाद्यं प्रसाधनम् ॥ ऋBह्र्स्_२,१.३४६ ॥

तत्र वसनम्
नवार्करश्मिकाश्मीरहरितालादिसन्निभम् ।
युगं चतुष्कं भूयिष्ठं वसनं त्रिविधं हरेः ॥ ऋBह्र्स्_२,१.३४७ ॥

तत्र युगम्
परिधानं ससंव्यानं युगरूपमुदीरितम् ॥ ऋBह्र्स्_२,१.३४८ ॥

यथा स्तवावल्यां मुकुन्दाष्टके (३)

कनकनिवहशोभानन्दि पीतं नितम्बे
तद्उपरि नवरक्तं वस्त्रमित्थं दधानः ।
प्रियमिव किल वर्णं रागयुक्तं प्रियायाः
प्रणयतु मम नेत्राभीष्टपूर्तिं मुकुन्दः ॥ ऋBह्र्स्_२,१.३४९ ॥

चतुष्कम्
चतुष्कं कञ्चुकोष्णीषतुन्दबन्धान्तरीयकम् ॥ ऋBह्र्स्_२,१.३५० ॥

यथा
स्मेरास्यः परिहितपाटलाम्बरश्रीश्
छन्नाङ्गः पुरटरुचोरुकञ्चकेन ।
उष्णीषं दधदरुणं धटीं च चित्राः
कंसारिर्वहति महोत्सवे मुदं नः ॥ ऋBह्र्स्_२,१.३५१ ॥

भूयिष्ठम्
खण्डिताखण्डितं भूरि नटवेशक्रियोचितम् ।
अनेकवर्णं वसनं भूयिष्ठं कथितं बुधैः ॥ ऋBह्र्स्_२,१.३५२ ॥

यथा
अखण्डितविखण्डितैः सितपिशङ्गनीलारुणैः
पटैः कृतयथोचितप्रकटसन्निवेशोज्ज्वलः ।
अयं करभराट्प्रभः प्रचुररङ्गशृङ्गारितः
करोति करभोरु मे घनरुचिर्मुदं माधवः ॥ ऋBह्र्स्_२,१.३५३ ॥

अथ आकल्पः
केशबन्धनमालेपो मालाचित्रविशेषकः ।
ताम्बूलकेलिपद्मादिराकल्पः परिकीर्तितः ॥ ऋBह्र्स्_२,१.३५४ ॥
स्याज्जूटः कवरी चूडा वेणी च कचबन्धनम् ।
पाण्डुरः कर्बुरः पीत इत्यालेपस्त्रिधा मतः ॥ ऋBह्र्स्_२,१.३५५ ॥
माला त्रिधा वैजयन्ती रत्नमाला वनस्रजः ।
अस्या वैकक्षकापीडप्रालम्बाद्या भिदा मताः ॥ ऋBह्र्स्_२,१.३५६ ॥
मकरीपत्रभङ्गाढ्यं चित्रं पीतसितारुणम् ।
तथा विशेषकोऽपि स्यादन्यदूह्यं स्वयं बुधैः ॥ ऋBह्र्स्_२,१.३५७ ॥

यथा
ताम्बूलस्फुरद्आननेन्दुरमलं धंमिल्लमुल्लासयन्
भक्तिच्छेदलसत्सुघृष्टघुसृणालेपश्रिया पेशलः ।
तुङ्गोरःस्थलपिङ्गलस्रगलिकभ्राजिष्णुपत्राङ्गुलिः
श्यामाङ्गद्युतिरद्य मे सखि दृशोर्दुग्धे मुदं माधवः ॥ ऋBह्र्स्_२,१.३५८ ॥

अथ मण्डनम्
किरीटं कुण्डले हारश्चतुष्की वलयोर्मयः ।
केयूरनूपुराद्यं च रत्नमण्डनमुच्यते ॥ ऋBह्र्स्_२,१.३५९ ॥

यथा
काञ्ची चित्रा मुकुटमतुलं कुण्डले हारिहीरे
हारस्तारो वलयममलं चन्द्राचारुश्चतुष्की ।
रम्या चोर्मिर्मधुरिमपूरे नूपुरे चेत्यघारेर्
अङ्गैरेवाभरणपटली भूषिता दोग्धि भूषाम् ॥ ऋBह्र्स्_२,१.३६० ॥

कुसुमादिकृतं चेदं वन्यमण्डनमीरितम् ।
धातुक्प्तं तिलकं पत्रभङ्गलतादिकम् ॥ ऋBह्र्स्_२,१.३६१ ॥

अथ स्मितं, यथा कृष्णकर्णामृते (९९)
अखण्डनिर्वाणरसप्रवाहैर्
विखण्डिताशेषरसान्तराणि ।
अयन्त्रितोद्वान्तसुधार्णवानि
जयन्ति शीतानि तव स्मितानि ॥ ऋBह्र्स्_२,१.३६२ ॥

अथ अङ्गसौरभं, यथा
परिमलसरिदेषा यद्वहन्ती समन्तात्
पुलकयति वपुर्नः काप्यपूर्वा मुनीनाम् ।
मधुरिपुरुपरागे तद्विनोदाय मन्ये
कुरुभुवमनवद्यामोदसिन्धुर्विवेश ॥ ऋBह्र्स्_२,१.३६३ ॥

अथ वंशः
ध्यानं बलात्परमहंसकुलस्य भिन्दन्
निन्दन् सुधामधुरिमाणमधीरधर्मा ।
कन्दर्पशासनधुरां मुहुरेष शंसन्
वंशीध्वनिर्जयति कंसनिसूदनस्य ॥ ऋBह्र्स्_२,१.३६४ ॥

एष त्रिधा भवेद्वेणुमुरलीवंशिकेत्यपि ॥ ऋBह्र्स्_२,१.३६५ ॥

तत्र वेणुः
पाविकाख्यो भवेद्वेणुर्द्वादशाङ्गुलेर्दैर्घ्यभाक् ।
स्थौल्येऽङ्गुष्ठमितः षड्भिरेष रन्ध्रैः समन्वितः ॥ ऋBह्र्स्_२,१.३६६ ॥

मुरली
हस्तद्वयमितायामा मुखरन्ध्रसमन्विता ।
चतुःस्वरच्छिद्रयुक्ता मुरली चारुनादिनी ॥ ऋBह्र्स्_२,१.३६७ ॥

वंशी
अर्धाङ्गुलान्तरोन्मानं तारादिविवराष्टकम् ।
ततः सार्धाङ्गुलाद्यत्र मुखरन्ध्रं तथाङ्गुलम् ॥ ऋBह्र्स्_२,१.३६८ ॥
शिरो वेदाङ्गुलं पुच्छं त्र्य्अङ्गुलं सा तु वंशिका ।
नवरन्ध्रा स्मृता सप्तदशाङ्गुलमिता बुधैः ॥ ऋBह्र्स्_२,१.३६९ ॥
दशाङ्गुलान्तरा स्याच्चेत्सा तारमुखरन्ध्रयोः ।
महानन्देति व्याख्याता तथा संमोहिनीति च ॥ ऋBह्र्स्_२,१.३७० ॥
भवेत्सूर्यान्तरा सा चेत्तत आकर्षिणी मता ।
आनन्दिनी तदा वंशी भवेदिन्द्रान्तरा यदि ॥ ऋBह्र्स्_२,१.३७१ ॥
गोपानां वल्लभा सेयं वंशुलीति च विश्रुता ।
क्रमान्मणिमयी हैमी वैणवीति त्रिधा च सा ॥ ऋBह्र्स्_२,१.३७२ ॥

अथ शृङ्गम्
शृङ्गं तु गवलं हेमनिबद्धाग्रिमपश्चिमम् ।
रत्नजालस्फुरन्मध्यं मन्द्रघोषाभिधं स्मृतम् ॥ ऋBह्र्स्_२,१.३७३ ॥

यथा
तारावली वेणुभुजङ्गमेन
तारावलीलागरलेन दष्टा ।
विषाणिकानादपयो निपीय
विषाणि कामं द्विगुणीचकार ॥ ऋBह्र्स्_२,१.३७४ ॥

अथ नूपुरं, यथा
अघमर्दनस्य सखि नूपुरध्वनिं
निशमय्य सम्भृतगभीरसम्भ्रमा ।
अहमीक्षणोत्तरलितापि नाभवं
बहिरद्य हन्त गुरवः पुरः स्थिताः ॥ ऋBह्र्स्_२,१.३७५ ॥

अथ कम्बुः
कम्बुस्तु दक्षिणावर्तः पाञ्चजन्यतयोच्यते ॥ ऋBह्र्स्_२,१.३७६ ॥

यथा
अमररिपुवधूटीभ्रूणहत्याविलासी
त्रिदिवपुरपुरन्ध्रीवृन्दनान्दीकरोऽयम् ।
भ्रमति भुवनमध्ये माधवाध्मातधाम्नः
कृतपुलककदम्बः कम्बुराजस्य नादः ॥ ऋBह्र्स्_२,१.३७७ ॥
अथ पदाङ्कः, यथा श्रीदशमे (१०.३८.२६)
तद्दर्शनाह्लादविवृद्धसम्भ्रमः
प्रेम्णोर्ध्वरोमाश्रुकलाकुलेक्षणः ।
रथादवस्कन्द्य स तेष्वचेष्टत
प्रभोरमून्यङ्घ्रिरजांस्यहो इति ॥ ऋBह्र्स्_२,१.३७८ ॥

यथा वा
कलयत हरिरध्वना सखायः
स्फुटममुना यमुनातटीमयासीत् ।
हरति पदततिर्यद्अक्षिणी मे
ध्वजकुलिशाकुशपङ्कजाङ्कितेयम् ॥ ऋBह्र्स्_२,१.३७९ ॥

अथ क्षेत्रम्, यथा
हरिकेलिभुवां विलोकनं
बत दूरेऽस्तु सुदुर्लभश्रियाम् ।
मथुरेत्यपि कर्णपद्धतिं
प्रविशन्नाम मनो धिनोति नः ॥ ऋBह्र्स्_२,१.३८० ॥

अथ तुलसी, यथा बिल्वमङ्गले {*णोतिनन्योf थे KK चेन्तुरिएस्.}
अयि पङ्कजनेत्रमौलिमाले
तुलसीमञ्जरि किञ्चिदर्थयामि ।
अवबोधय पार्थसारथेस्त्वं
चरणाब्जशरणाभिलाषिणं माम् ॥ ऋBह्र्स्_२,१.३८१ ॥

अथ भक्तो, यथा चतुर्थे (४.१२.२१)
विज्ञाय तावुत्तमगायकिङ्कराव्
अभ्युत्थितः साध्वसविस्मृतक्रमः ।
ननाम नामानि गृणन्मधुद्विषः
पार्षत्प्रधानाविति संहताञ्जलिः ॥ ऋBह्र्स्_२,१.३८२ ॥

यथा वा
सुबल भुजभुजङ्गं न्यस्य तुङ्गे तवांसे
स्मितविलसद्अपाङ्गः प्राङ्गणे भ्राजमानः ।
नयनयुगमसिञ्चद्यः सुधावीचिभिर्नः
कथय स दयितस्ते क्वायमास्ते वयस्यः ॥ ऋBह्र्स्_२,१.३८३ ॥

अथ तद्वासरो, यथा
अद्भुता बहवः सन्तु भगवत्पर्ववासराः ।
आमोदयति मां धन्या कृष्णभाद्रपदाष्टमी ॥ ऋBह्र्स्_२,१.३८४ ॥

इति श्रीश्रीभक्तिरसामृतसिन्धौ दक्षिणविभागे
भक्तिरससामान्यनिरूपणे विभावलहरी प्रथमा ।

___________________________________________________

दक्षिणविभागः

[२.२]
अनुभावाख्या द्वितीयलहरी

अनुभावास्तु चित्तस्थभावानामवबोधकाः ।
ते बहिर्विक्रिया प्रायाः प्रोक्ता उद्भास्वराख्यया ॥ ऋBह्र्स्_२,२.१ ॥
नृत्यं विलुठितं गीतं क्रोशनं तनुमोटनम् ।
हुङ्कारो जृम्भणं श्वासभूमा लोकानपेक्षिता ।
लालास्रवोऽट्टहासश्च घूर्णाहिक्कादयोऽपि च ॥ ऋBह्र्स्_२,२.२ ॥
ते शीताः क्षेपणाश्चेति यथार्थाख्या द्विधोदिताः ।
शीताः स्युर्गीतजृम्भाद्या नृत्याद्याः क्षेपणाभिधाः ॥ ऋBह्र्स्_२,२.३ ॥

तत्र नृत्यं, यथा
मुरलीखुरलीसुधाकिरं
हरिवक्त्रेन्दुमवेक्ष्य कम्पितः ।
गणने सगणेशडिण्डिम
ध्वनिभिस्ताण्डवमाश्रितो हरः ॥ ऋBह्र्स्_२,२.४ ॥

विलुठितं, यथा तृतीये (३.१.३२)
कच्चिद्बुधः स्वस्त्य्अनमीव आस्ते
श्वफल्कपुत्रो भगवत्प्रपन्नः ।
यः कृष्णपादाङ्कितमार्गपांसुष्व्
अचेष्टत प्रेमविभिन्नधैर्यः ॥ ऋBह्र्स्_२,२.५ ॥

यथा वा
नवानुरागेण तवावशाङ्गी
वनस्रग्आमोदमवाप्य मत्ता ।
व्रजाङ्गने सा कठिने लुठन्ती
गात्रं सुगात्री व्रणयाञ्चकार ॥ ऋBह्र्स्_२,२.६ ॥

गीतं, यथा
रागडम्बरकरम्बितचेताः
कुर्वती तव नवं गुणगानम् ।
गोकुलेन्द्र कुरुते जलतां सा
राधिकाद्यदृषदां सुहृदां च ॥ ऋBह्र्स्_२,२.७ ॥

क्रोशनं, यथा
हरिकीर्तनजातविक्रियः
स विचुक्रोश तथाद्य नारदः ।
अचिरान्नरसिंहशङ्कया
दनुजा येन धृता विलिल्यिरे ॥ ऋBह्र्स्_२,२.८ ॥

यथा वा
उररीकृतकाकुराकुला
कररीव व्रजराजनन्द ।
मुरलीतरलीकृतान्तरा
मुहुराक्रोशदिहाद्य सुन्दरी ॥ ऋBह्र्स्_२,२.९ ॥

तनुमोटनं, यथा
कृष्णनामनि मुदोपवीणिते
प्रीणिते मनसि वैणिको मुनिः ।
उद्भटं किमपि मोटयन्
वपुस्त्रोटयत्यखिलयज्ञसूत्रकम् ॥ ऋBह्र्स्_२,२.१० ॥

हुङ्कारो, यथा
वैणवध्वनिभिरुद्भ्रमद्धियः
शङ्करस्य दिवि हुङ्कृतिस्वनः ।
ध्वंसयन्नपि मुहुः स दानवं
साधुवृन्दमकरोत्सदा नवम् ॥ ऋBह्र्स्_२,२.११ ॥

जृम्भणम्, यथा
विस्तृतकुमुदवनेऽस्मिन्न्
उदयति पूर्णे कलानिधौ पुरतः ।
तव पद्मिनि मुखपद्मं
भजते जृम्भामहो चित्रम् ॥ ऋBह्र्स्_२,२.१२ ॥

श्वासभूमा, यथा
उपस्थिते चित्रपटाम्बुदागमे
विवृद्धतृष्णा ललिताख्यचातकी ।
निःश्वासझञ्झामरुतापवाहितं
कृष्णाम्बुदाकारमवेक्ष्य चुक्षुभे ॥ ऋBह्र्स्_२,२.१३ ॥

लोकानपेक्षिता, यथा श्रीदशमे (१०.२३.४१)
अहो पश्यत नारीणामपि कृष्णे जगद्गुरौ ।
दुरन्तभावं योऽविध्यन्मृत्युपाशान् गृहाभिधान् ॥ ऋBह्र्स्_२,२.१४ ॥

यथा वा पद्यावल्याम् (७३)
परिवदतु जनो यथा तथा वा
ननु मुखरो न वयं विचारयामः
हरिरसमदिरा मदातिमत्ता
भुवि विलुठाम नटाम निर्विशाम ॥ ऋBह्र्स्_२,२.१५ ॥

लालास्रवो, यथा
शङ्के प्रेमभुजङ्गेन दष्टः कष्टं गतो मुनिः ।
निश्चलस्य यदेतस्य लाला स्रवति वक्त्रतः ॥ ऋBह्र्स्_२,२.१६ ॥

अट्टहासः
हासाद्भिन्नोऽट्टहासोऽयं चित्तविक्षेपसम्भवः ॥ ऋBह्र्स्_२,२.१७ ॥

यथा
शङ्के चिरं केशवकिङ्करस्य
चेतस्तटे भक्तिलता प्रफुल्ला ।
येनाधितुण्डस्थलमट्टहास
प्रसूनपुञ्जाश्चटुलं स्खलन्ति ॥ ऋBह्र्स्_२,२.१८ ॥

घूर्णा, यथा
ध्रुवमघरिपुरादधाति वात्यां
ननु मुरलि त्वयि फुत्कृतिच्छलेन ।
किमयमितरथा ध्वनिर्विघूर्णनं
सखि तव घूर्णयति व्रजाम्बुजाक्षीः ॥ ऋBह्र्स्_२,२.१९ ॥

हिक्का, यथा
न पुत्रि रचयौषधं विसृज रोममत्युद्धतं
मुधा प्रियसखीं प्रति त्वमशिवं किमाशङ्कसे ।
हरिप्रणयविक्रियाकुलतया ब्रुवाणा मुहुर्
वराक्षि हरिरित्यसौ वितनुतेऽद्य हिक्काभरम् ॥ ऋBह्र्स्_२,२.२० ॥

वपुर्उत्फुल्लतारक्तोद्गमाद्याः स्युः परेऽपि ये ।
अतीवविरलत्वात्ते नैवात्र परिकीर्तिताः ॥ ऋBह्र्स्_२,२.२१ ॥

इति श्रीश्रीभक्तिरसामृतसिन्धौ दक्षिणविभागे
भक्तिरससामान्यनिरूपणेऽनुभावलहरी द्वितीया ।

___________________________________________________

दक्षिणविभागः

[२.३]
सात्त्विकाख्या तृतीयलहरी

कृष्नसम्बन्धिभिः साक्टात्किञ्चिद्वा व्यवधानतः ।
भावैश्चित्तमिहाक्रान्तं सत्त्वमित्युच्यते बुधैः ॥ ऋBह्र्स्_२,३.१ ॥
सत्त्वादस्मात्समुत्पन्ना ये ये भावास्ते तु सात्त्विकाः ।
स्निग्धा दिग्धास्तथा रुक्षा इत्यमी त्रिविधा मताः ॥ ऋBह्र्स्_२,३.२ ॥

तत्र स्निग्धाः
स्निग्धास्तु सात्त्विका मुख्या गौणाश्चेति द्विधा मताः ॥ ऋBह्र्स्_२,३.३ ॥

तत्र मुख्याः
आक्रमान्मुख्यया रत्या मुख्याः स्युः सात्त्विका अमी ।
विज्ञेयः कृष्णसम्बन्धः साक्षादेवात्र सूरिभिः ॥ ऋBह्र्स्_२,३.४ ॥

यथा
कुन्दैर्मुकुन्दाय मुदा सृजन्ती
स्रजां वरां कुन्दविडम्बिदन्ती ।
बभूव गान्धर्वरसेन वेणोर्
गान्धर्विका स्पन्दनशून्यगात्री ॥ ऋBह्र्स्_२,३.५ ॥

मुख्यः स्तम्भोऽयमित्थं ते ज्ञेयाः स्वेदादयोऽपि च ॥ ऋBह्र्स्_२,३.६ ॥

अथ गौणाः
रत्याक्रमणतः प्रोक्ता गौणास्ते गौणभूतया ।
अत्र कृष्णस्य सम्बन्धः स्यात्किञ्चिद्व्यवधानतः ॥ ऋBह्र्स्_२,३.७ ॥

यथा
स्वविलोचनचातकाम्बुदे
पुरि नीते पुरुषोत्तमे पुरा ।
अतिताम्रमुखी सगद्गदं
नृपमाक्रोशति गोकुलेश्वरी ॥ ऋBह्र्स्_२,३.८ ॥
इमौ गौणौ वैवर्ण्यस्वरभेदौ ।

अथ दिग्धाः
रतिद्वयविनाभूतैर्भावैर्मनस आक्रमात् ।
जने जातरतौ दिग्धास्ते चेद्रत्य्अनुगामिनः ॥ ऋBह्र्स्_२,३.९ ॥

यथा
पूतनामिह निशाम्य निशायां
सा निशान्तलुठद्उद्भटगात्रीम् ।
कम्पिताङ्गलतिका व्रजराज्ञी
पुत्रमाकुलमतिर्विचिनोति ॥ ऋBह्र्स्_२,३.१० ॥

कम्पो रत्य्अनुगामित्वादसौ दिग्ध इतीर्यते ॥ ऋBह्र्स्_२,३.११ ॥

रुक्षाः
मधुराश्चर्यतद्वार्तोत्पन्नैर्मुद्विस्मयादिभिः ।
जाता भक्तोपमे रुक्षा रतिशून्ये जने क्वचित् ॥ ऋBह्र्स्_२,३.१२ ॥

यथा
भोगैकसाधनजुषा रतिगन्धशून्यं
स्वं चेष्टया हृदयमत्र विवृण्वतोऽपि ।
उल्लासिनः सपदि माधवकेलिगीतैस्
तस्याङ्गमुत्पुलकितं मधुरैस्तदासीत् ॥ ऋBह्र्स्_२,३.१३ ॥

रुक्ष एष रोमाञ्चाः
रुक्षोऽयं रतिशून्यत्वाद्रोमाञ्चं कथितो बुधैः ।
मुमुक्षुप्रभृतौ पूर्वं यो रताभ्यास ईरितः ॥ ऋBह्र्स्_२,३.१४ ॥
चित्तं सत्त्वीभवत्प्राणे न्यस्यत्यात्मानमुद्भटम् ।
प्राणस्तु विक्रियां गच्छन् देहं विक्षोभयत्यलम् ।
तदा स्तम्भादयो भावा भक्तदेहे भवन्त्यमी ॥ ऋBह्र्स्_२,३.१५ ॥
ते स्तम्भस्वेदरोमाञ्चाः स्वरभेदोऽथ वेपथुः ।
वैवर्ण्यमश्रु प्रलय इत्यष्टौ सात्त्विकाः स्मृताः ॥ ऋBह्र्स्_२,३.१६ ॥
चत्वारि क्ष्मादिभूतानि प्राणो जात्ववलम्बते ।
कदाचित्स्वप्रधानः सन् देहे चरति सर्वतः ॥ ऋBह्र्स्_२,३.१७ ॥
स्तम्भं भूमिस्थितः प्राणस्तनोत्यश्रुजलाश्रयः ।
तेजस्थः स्वेदवैवर्ण्ये प्रलयं वियद्आश्रयः ॥ ऋBह्र्स्_२,३.१८ ॥
स्वस्थ एव क्रमान्मन्दमध्यतीव्रत्वभेदभाक् ।
रोमाञ्चकम्पवैवर्ण्याण्यत्र त्रीणि तनोत्यसौ ॥ ऋBह्र्स्_२,३.१९ ॥
बहिरन्तश्च विक्षोभविधायित्वादतः स्फुटम् ।
प्रोक्तानुभावतामीषां भावता च मनीषिभिः ॥ ऋBह्र्स्_२,३.२० ॥

तत्र स्तम्भः
स्तम्भो हर्षभयाश्चर्यविषादामर्षसम्भवः ।
तत्र वाग्आदिराहित्यं नैश्चल्यं शून्यतादयः ॥ ऋBह्र्स्_२,३.२१ ॥

तत्र हर्षाद्, यथा तृतीये (३.२.१४)
यस्यानुरागप्लुतहासरास
लीलावलोकप्रतिलब्धमानाः ।
व्रजस्त्रियो दृग्भिरनुप्रवृत्त
धियोऽवतस्थुः किल कृत्यशेषाः ॥ ऋBह्र्स्_२,३.२२ ॥

भयाद्, यथा
गिरिसन्निभमल्लचक्ररुद्धं
पुरतः प्राणपरार्धतः परार्ध्यम् ।
तनयं जननी समीक्ष्य शुष्यन्
नयना हन्त बभूव निश्चलाङ्गी ॥ ऋBह्र्स्_२,३.२३ ॥

आश्चर्याद्, यथा श्रीदशमे (१०.१३.५६)
ततोऽतिकुतुकोद्वृत्य स्तिमितैकादशेन्द्रियः ।
तद्धाम्नाभूदजस्तूष्णीं पूर्देव्य्अन्तीव पुत्रिका ॥ ऋBह्र्स्_२,३.२४ ॥

यथा वा
शिशोः श्यामस्य पश्यन्ती शैलमभ्रंलिहं करे ।
तत्र चित्रार्पितेवासीद्गोष्ठी गोष्ठनिवासिनाम् ॥ ऋBह्र्स्_२,३.२५ ॥

विषादाद्, यथा
बकसोदरदानवोदरे
पूरतः प्रेक्ष्य विशन्तमच्युतम् ।
दिविषन्निकरो विषण्णधीः
प्रकटं चित्रपटायते दिवि ॥ ऋBह्र्स्_२,३.२६ ॥

अमर्षाद्, यथा
कर्तुमिच्छति मुरद्विषे पुरः
पत्रिमोक्षमकृपे कृपीसुते ।
सत्वरोऽपि रिपुनिष्क्रये रुषा
निष्क्रियः क्षणमभूत्कपिध्वजः ॥ ऋBह्र्स्_२,३.२७ ॥

अथ स्वेदः
स्वेदो हर्षभयक्रोधादिजः क्लेदकरस्तनोः ॥ ऋBह्र्स्_२,३.२८ ॥

तत्र हर्षाद्, यथा
किमत्र सूर्यातपमाक्षिपन्ती
मुग्धाक्षि चातुर्यमुरीकरोषि ।
ज्ञातं पुरः प्रेक्ष्य सरोरुहाक्षं
स्विन्नासि भिन्ना कुसुमायुधेन ॥ ऋBह्र्स्_२,३.२९ ॥

भयाद्, यथा
कुतुकादभिमन्युवेषिणं
हरिमाक्रुश्य गिरा प्रगल्भया ।
विदिताकृतिराकुलः क्षणाद्
अजनि स्विन्नतनुः स रक्तकः ॥ ऋBह्र्स्_२,३.३० ॥

क्रोधाद्, यथा
यज्ञस्य भङ्गादतिवृष्टिकारिणं
समीक्ष्य शक्रं सरुषो गरुत्मतः ।
घनोपरिष्टादपि तिष्ठतस्तदा
निपेतुरङ्गाद्घननीरबिन्दवः ॥ ऋBह्र्स्_२,३.३१ ॥

अथ रोमाञ्चः
रोमाञ्चोऽयं किलाश्चर्यहर्षोत्साहभयादिजः ।
रोम्णामभ्युद्गमस्तत्र गात्रसंस्पर्शनादयः ॥ ऋBह्र्स्_२,३.३२ ॥
तत्र आश्चर्याद्, यथा
डिम्भस्य जृम्भां भजतस्त्रीलोकीं
विलोक्य वैलक्ष्यवती मुखान्तः ।
बभूव गोष्ठेन्द्रकुटुम्बिनीयं
तनुरुहैः कुड्मलिताङ्गयष्टिः ॥ ऋBह्र्स्_२,३.३३ ॥

हर्षाद्, यथा श्रीदशमे (१०.३०.१०)
किं ते कृतं क्षिति तपो बत केशवाङ्घ्रि
स्पर्शोत्सवोत्पुलकिताङ्गरुहैर्विभासि ।
अप्यङ्घ्रिसम्भव उरुक्रमविक्रमाद्वा
आहो वराहवपुषः परिरम्भणेन ॥ ऋBह्र्स्_२,३.३४ ॥

उत्साहाद्, यथा
शृङ्गं केलिरणारम्भे रणयत्यघमर्दने ।
श्रीदाम्नो योद्धुकामस्य रेमे रोमाञ्चितं वपुः ॥ ऋBह्र्स्_२,३.३५ ॥

भयाद्, यथा
विश्वरूपधरमद्भुताकृतिं
प्रेक्ष्य तत्र पुरुषोत्तमं पुरः ।
अर्जुनः सपदि शुष्यद्आननः
शिश्रिये विकटकण्टकां तनुम् ॥ ऋBह्र्स्_२,३.३६ ॥

अथ स्वरभेदः
विसादविस्मयामर्षहर्षभीत्य्आदिसम्भवम् ।
वैस्वर्यं स्वरभेदः स्यादेष गद्गदिकादिकृत् ॥ ऋBह्र्स्_२,३.३७ ॥

तत्र विषादाद्, यथा
व्रजराज्ञि रथात्पुरो हरिं
स्वयमित्यर्धविशीर्णजल्पया ।
ह्रियमेणदृशा गुरावपि
श्लथयन्त्या किल रोदिता सखी ॥ ऋBह्र्स्_२,३.३८ ॥

विस्मयाद्, यथा श्रीदशमे (१०.१३.६४)
शनैरथोत्थाय विमृज्य लोचने
मुकुन्दमुद्वीक्ष्य विनम्रकन्धरः ।
कृताञ्जलिः प्रश्रयवान् समाहितः
सवेपथुर्गद्गदयैलतेलया ॥ ऋBह्र्स्_२,३.३९ ॥
अमर्षाद्, यथा तत्रैव (१०.२९.३०)
प्रेष्ठं प्रियेतरमिव प्रतिभाषमाणं
कृष्णं तद्अर्थविनिवर्तितसर्वकामाः ।
नेत्रे विमृज्य रुदितोपहते स्म किञ्चित्
संरम्भगद्गदगिरोऽब्रुवतानुरक्ताः ॥ ऋBह्र्स्_२,३.४० ॥

हर्षाद्, यथा तत्रैव (१०.३९.५६५७)
हृष्यत्तनूरुहो भावपरिक्लिन्नात्मलोचनः ॥
गिरा गद्गदयास्तौषीत्सत्त्वमालम्ब्य सात्वतः ।
प्रणम्य मूर्ध्नावहितः कृताञ्जलिपुटः शनैः ॥ ऋBह्र्स्_२,३.४१ ॥

भीतेर्, यथा
त्वय्यर्पितं वितर वेणुमिति प्रमादी
श्रुत्वा मद्ईरितमुदीर्णविवर्णभावः ।
तूर्णं बभूव गुरुगद्गदरुद्धकण्ठः
पत्री मुकुन्द तदनेन स हारितोऽस्ति ॥ ऋBह्र्स्_२,३.४२ ॥

अथ वेपथुः
वित्रासामर्षहर्षाद्यैर्वेपथुर्गात्रलौल्यकृत् ॥ ऋBह्र्स्_२,३.४३ ॥

तत्र वित्रासेन, यथा
शङ्खचूडमधिरूढविक्रमं
प्रेक्ष्य विस्तृतभुजं जिघृक्षया ।
हा व्रजेन्द्रतनयेतिवादिनी
कम्पसम्पदमधत्त राधिका ॥ ऋBह्र्स्_२,३.४४ ॥

अमर्षेण, यथा
कृष्णाधिक्षेपजातेन व्याकुलो नकुलाम्बुजः ।
चकम्पे द्रागमर्षेण भूकम्पे गिरिराडिव ॥ ऋBह्र्स्_२,३.४५ ॥

हर्षेण, यथा
विहससि कथं हताशे पश्य भयेनाद्य कम्पमानास्मि ।
चञ्चलमुपसीदन्तं निवारय व्रजपतेस्तनयम् ॥ ऋBह्र्स्_२,३.४६ ॥

अथ वैवर्ण्यम्
विषादरोषभीत्य्आदेर्वैवर्ण्यं वर्णविक्रिया ।
भावज्ञैरत्र मालिन्यकार्श्याद्याः परिकीर्तिताः ॥ ऋBह्र्स्_२,३.४७ ॥

तत्र विषादाद्, यथा
श्वेतीकृताखिलजनं विरहेण तवाधुना ।
गोकुलं कृष्ण देवर्षेः श्वेतद्वीपभ्रमं दधे ॥ ऋBह्र्स्_२,३.४८ ॥

रोषाद्, यथा
कंसशत्रुमभियुञ्जतः पुरो
वीक्ष्य कंससहजानुदायुधान् ।
श्रीबलस्य सखि तस्य रुष्यतः
प्रोद्यद्इन्दुनिभमाननं बभौ ॥ ऋBह्र्स्_२,३.४९ ॥

भीतेर्, यथा
रक्षिते व्रजकुले बकारिणा
पर्वतं वरमुदस्य लीलया ।
कालिमा बलरिपोर्मुखे भवन्न्
ऊचिवान्मनसि भीतिमुत्थिताम् ॥ ऋBह्र्स्_२,३.५० ॥

विषादे श्वेतिमा प्रोक्ता धौसर्यं कालिमा क्वचित् ।
रोषे तु रक्तिमा भीत्यां कालिमा क्वापि शुक्लिमा ॥ ऋBह्र्स्_२,३.५१ ॥
रक्तिमा लक्ष्यते व्यक्तो हर्षोद्रेकेऽपि कुत्रचित् ।
अत्रासार्वत्रिकत्वेन नैवास्योदाहृतिः कृता ॥ ऋBह्र्स्_२,३.५२ ॥

अथ अश्रु
हर्षरोषविषादाद्यैरश्रु नेत्रे जलोद्गमः ।
हर्षजेऽश्रुणि शीतत्वमौष्ण्यं रोषादिसम्भवे ।
सर्वत्र नयनक्षोभरागसंमार्जनादयः ॥ ऋBह्र्स्_२,३.५३ ॥

अत्र हर्षेण, यथा
गोविन्दप्रेक्षणाक्षेपिबाष्पपूराभिवर्षिणम् ।
उच्चैरनिन्ददानन्दमरविन्दविलोचना ॥ ऋBह्र्स्_२,३.५४ ॥

रोषेण, यथा हरिवंशे (२.६६.२४)
तस्याः सुस्राव नेत्राभ्यां वारि प्रणयकोपजम् ।
कुशेशयपलाशाभ्यामवश्यायजलं यथा ॥ ऋBह्र्स्_२,३.५५ ॥

यथा वा
भीमस्य चेदीशवधं विधित्सो
रेजेऽश्रुविस्रावि रुषोपरक्तम् ।
उद्यन्मुखं वारिकणावकीर्णं
सान्ध्यत्विषा ग्रस्तमिवेन्दुबिम्बम् ॥ ऋBह्र्स्_२,३.५६ ॥

विषादेन, यथा श्रीदशमे (१०.६०.२३)
पदा सुजातेन नखारुणश्रिया
भुवं लिखन्त्यश्रुभिरञ्जनासितैः ।
आसिञ्चती कुङ्कुमरूषितौ स्तनौ
तस्थावधोमुख्यतिदुःखरुद्धवाक् ॥ ऋBह्र्स्_२,३.५७ ॥

अथ प्रलयः
प्रलयः सुखदुःखाभ्यां चेष्टाज्ञाननिराकृतिः ।
अत्रानुभावाः कथिता महीनिपतनादयः ॥ ऋBह्र्स्_२,३.५८ ॥

तत्र सुखेन, यथा
मिलन्तं हरिमालोक्य लतापुञ्जादतर्कितम् ।
ज्ञप्तिशून्यमना रेजे निश्चलाङ्गी व्रजाङ्गना ॥ ऋBह्र्स्_२,३.५९ ॥

दुःखेन, यथा श्रीदशमे (१०.३९.१५)
अन्याश्च तद्अनुध्याननिवृत्ताशेषवृत्तयः ।
नाभ्यजाननिमं लोकमात्मलोकं गता इव ॥ ऋBह्र्स्_२,३.६० ॥

सर्वे हि सत्त्वमूलत्वाद्भावा यद्यपि सात्त्विकाः ।
तथाप्यमीषां सत्त्वैकमूलत्वात्सात्त्विकप्रथा ॥ ऋBह्र्स्_२,३.६१ ॥
सत्त्वस्य तारतम्यात्प्राणतनुक्षोभतारतम्यं स्यात् ।
तत एव तारतम्यं सर्वेषां सात्त्विकानां स्यात् ॥ ऋBह्र्स्_२,३.६२ ॥
धूमायितास्ते ज्वलिता दीप्ता उद्दीप्तसंज्ञिताः ।
वृद्धिं यथोत्तरं यान्तः सात्त्विकाः स्युश्चतुर्विधाः ॥ ऋBह्र्स्_२,३.६३ ॥
सा भूरिकालव्यापित्वं बह्व्अङ्गव्यापिताऽपि च ।
स्वरूपेण तथोत्कर्ष इति वृद्धिस्त्रिधा भवेत् ॥ ऋBह्र्स्_२,३.६४ ॥
तत्र नेत्राम्बुवैस्वर्यवर्जानामेव युज्यते ।
बह्व्अङ्गव्यापितामीषां तयोः कापि विशिष्टता ॥ ऋBह्र्स्_२,३.६५ ॥
तत्राश्रूणां दृग्औच्छून्यकारित्वमवदातता ।
तथा तारातिवैचित्रीवैलक्षण्यविधायिता ।
वैस्वर्ण्यस्य तु भिन्नत्वे कौण्ठ्यव्याकुलतादयः ॥ ऋBह्र्स्_२,३.६६ ॥
भिन्नत्वं स्थानविभ्रंशः कौण्ठ्यं स्यात्सन्नकण्ठता ।
व्याकुलत्वं तु नानोच्चनीचगुप्तविलुप्तता ॥ ऋBह्र्स्_२,३.६७ ॥
प्रायो धूमायिता एव रुक्षास्तिष्ठन्ति सात्त्विकाः ।
स्निग्धास्तु प्रायशः सर्वे चतुर्धैव भवन्त्यमी ॥ ऋBह्र्स्_२,३.६८ ॥
महोत्सवादिवृत्तेषु सद्गोष्ठीताण्डवादिषु ।
ज्वलन्त्युल्लासिनः क्वापि ते रुक्षा अपि कस्यचित् ॥ ऋBह्र्स्_२,३.६९ ॥
सर्वानन्दचमत्कारहेतुर्भावो वरो रतिः ।
एते हि तद्विनाभावान्न चमत्कारिताश्रयाः ॥ ऋBह्र्स्_२,३.७० ॥

तत्र धूमायिताः
अद्वितीया अमी भावा अथवा सद्वितीयकाः ।
ईषद्व्यक्ता अपह्नोतुं शक्या धूमायिता मताः ॥ ऋBह्र्स्_२,३.७१ ॥

यथा
आकर्णयन्नघहरामघवैरिकीर्तिं
पक्ष्माग्रमिश्रविरलाश्रुरभूत्पुरोधाः ।
यष्टा दरोच्छ्वसितलोमकपोलमीषत्
प्रस्विन्ननासिकमुवाह मुखारविन्दम् ॥ ऋBह्र्स्_२,३.७२ ॥

अथ ज्वलिताः
ते द्वौ त्रयो वा युगपद्यान्तः सुप्रकटां दशाम् ।
शक्याः कृच्छ्रेण निह्नोतुं ज्वलिता इति कीर्तिताः ॥ ऋBह्र्स्_२,३.७३ ॥

यथा
न गुञ्जामादातुं प्रभवति करः कम्पतरलो
दृशौ सास्रे पिञ्छं न परिचिनुतं सत्वरकृति ।
क्षमावूरू स्तब्धौ पदमपि न गन्तुं तव सखे
वनाद्वंशीध्वाने परिसरमवाप्ते श्रवणयोः ॥ ऋBह्र्स्_२,३.७४ ॥

यथा वा
निरुद्धं बाष्पाम्भः कथमपि मया गद्गदगिरो
ह्रिया सद्यो गूढाः सखि विघटितो वेपथुरपि ।
गिरिद्रोण्यां वेणौ ध्वनति निपुणैरिङ्गितमये
तथाप्यूहाञ्चक्रे मम मनसि रागः परिजनैः ॥ ऋBह्र्स्_२,३.७५ ॥

अथ दीप्ताः
प्रौढां त्रिचतुरा व्यक्तिं पञ्च वा युगपद्गताः ।
संवरीतुमशक्यास्ते दीप्ता धीरैरुदाहृताः ॥ ऋBह्र्स्_२,३.७६ ॥

यथा
न शक्तिमुपवीणने चिरमधत्त कम्पाकुलो
न गद्गदनिरुद्धवाक्प्रभुरभूदुपश्लोकने ।
क्षमोऽजनि न वीक्षणे विगलद्अश्रुपुरः पुरो
मधुद्विषि परिस्फुरत्यवशम्मूर्तिरासीन्मुनिः ॥ ऋBह्र्स्_२,३.७७ ॥

यथा वा
किमुन्मीलत्यस्रे कुसुमजरजो गञ्जसि मुधा
सरोमाञ्चे कम्पे हिममनिलमाक्रोशसि कुतः ।
किमूरुस्तम्भे वा वनविहरणं द्वेक्षि सखि ते
निराबाधा राधे वदति मदनाधिं स्वरभिदा ॥ ऋBह्र्स्_२,३.७८ ॥

अथ उद्दीप्ताः
एकदा व्यक्तिमापन्नाः पञ्चषाः सर्व एव वा ।
आरूढा परमोत्कर्षमुद्दीप्ता इति कीर्तिताः ॥ ऋBह्र्स्_२,३.७९ ॥

यथा
अद्य स्विद्यति वेपते पुलकिभिर्निस्पन्दतामङ्गकैर्
धत्ते काकुभिराकुलं विलपति म्लायत्यनल्पोष्मभिः ।
स्तिम्यत्यम्बुभिरम्बकस्तवकितैः पीताम्बरोड्डामरं
सद्यस्तद्विरहेण मुह्यति मुहुर्गोष्ठाधिवासी जनः ॥ ऋBह्र्स्_२,३.८० ॥

उद्दीप्ता एव सूद्दिप्ता महाभावे भवन्त्यमी ।
सर्व एव परां कोटिं सात्त्विका यत्र बिभ्रति ॥ ऋBह्र्स्_२,३.८१ ॥

किं च
अथात्र सात्त्विकाभासा विलिख्यन्ते चतुर्विधाः ॥ ऋBह्र्स्_२,३.८२ ॥
रत्य्आभासभवास्ते तु सत्त्वाभासभवास्तथा ।
निःसत्त्वाश्च प्रतीपाश्च यथापूर्वममी वराः ॥ ऋBह्र्स्_२,३.८३ ॥

तत्र आद्याः
मुमुक्षुप्रमुखेष्वाद्या रत्य्आभासात्पुरोदितात् ॥ ऋBह्र्स्_२,३.८४ ॥

यथा
वाराणसीनिवासी कश्चिदयं व्याहरन् हरेश्चरितम् ।
यतिगोष्ठ्यामुत्पुलकः सिञ्चति गण्डद्वयीमस्रैः ॥ ऋBह्र्स्_२,३.८५ ॥

अथ सत्त्वाभासभवाः
मुद्विस्मयादेराभासः प्रोद्यन् जात्या श्लथे हृदि ।
सत्त्वाभास इति प्रोक्तः सत्त्वाभासभवास्ततः ॥ ऋBह्र्स्_२,३.८६ ॥

यथा
जरन्मीमांसकस्यापि शृण्वतः कृष्णविभ्रमम् ।
हृष्टायमानमनसो बभूवोत्पुलकं वपुः ॥ ऋBह्र्स्_२,३.८७ ॥

यथा वा
मुकुन्दचरितामृतप्रसरवर्षिणस्ते मया
कथं कथनचातुरीमधुरिमा गुरुर्वर्ण्यताम् ।
मुहूर्तमतद्अर्थिनोऽपि विषयिणोऽपि यस्याननान्
निशम्य विजयं प्रभोर्दधति बाष्पधाराममी ॥ ऋBह्र्स्_२,३.८८ ॥

अथ निःसत्त्वाः
निसर्गपिच्छिलस्वान्ते तद्अभ्यासपरेऽपि च ।
सत्त्वाभासं विनापि स्युः क्वाप्यश्रुपुलकादयः ॥ ऋBह्र्स्_२,३.८९ ॥

यथा
निशमयतो हरिचरितं न हि सुखदुःखादयोऽस्य हृदि भावाः ।
अनभिनिवेशाज्जाता कथमस्रवदस्रमश्रान्तम् ॥ ऋBह्र्स्_२,३.९० ॥

प्रकृत्या शिथिलं येषां मनः पिच्छिलमेव वा ।
तेष्वेव सात्त्विकाभासः प्रायः संसदि जायते ॥ ऋBह्र्स्_२,३.९१ ॥

अथ प्रतीपाः
हितादन्यस्य कृष्णस्य प्रतीपाः क्रुद्भयादिभिः ॥ ऋBह्र्स्_२,३.९२ ॥

तत्र क्रुधा, यथा हरिवंशे (२.३०.६३) {*Cरितिचलेदितिओन्, ७६.१६}
तस्य प्रस्फुरितौष्ठस्य रक्ताधरतटस्य च ।
वक्त्रं कंसस्य रोषेण रक्तसूर्यायते तदा ॥ ऋBह्र्स्_२,३.९३ ॥

भयेन, यथा
म्लानाननः कृष्णमवेक्ष्य रङ्गे
सिष्वेद मल्लस्त्वधिभालशुक्ति ।
मुक्तिश्रियां सुष्ठु पुरो मिलन्त्याम्
अत्यादरात्पाद्यमिवाजहार ॥ ऋBह्र्स्_२,३.९४ ॥

यथा वा
प्रवाच्यमाने पुरतः पुराणे
निशम्य कंसस्य भयातिरेकम् ।
परिप्लवान्तःकरणः समन्तात्
परिम्लानमुखस्तदासीत् ॥ ऋBह्र्स्_२,३.९५ ॥
नास्त्यर्थः सात्त्विकाभासकथने कोऽपि यद्यपि ।
सात्त्विकानां विवेकाय दिक्तथापि प्रदर्शिता ॥ ऋBह्र्स्_२,३.९६ ॥

इति श्रीश्रीभक्तिरसामृतसिन्धौ दक्षिणविभागे
भक्तिरससामान्यनिरूपणे सात्त्विकलहरी तृतीया ।

___________________________________________________

[२.४]
व्यभिचार्याख्या चतुर्थलहरी

अथोच्यन्ते त्रयस्त्रिंशद्भावा ये व्यभिचारिणः ।
विशेषेणाभिमुख्येन चरन्ति स्थायिनं प्रति ॥ ऋBह्र्स्_२,४.१ ॥
वाग्अङ्गसत्त्वसूच्या ज्ञेयास्ते व्यभिचारिणः ।
सञ्चारयन्ति भावस्य गतिं सञ्चारिणोऽपि ॥ ऋBह्र्स्_२,४.२ ॥
उन्मज्जन्ति निमज्जन्ति स्थायिन्यमृतवारिधौ ।
ऊर्मिवद्वर्धयन्त्येनं यान्ति तद्रूपतां च ते ॥ ऋBह्र्स्_२,४.३ ॥
निर्वेदोऽथ विषादो दैन्यं ग्लानिश्रमौ च मदगर्वौ ।
शङ्कात्रासावेगा उन्मादापस्मृती तथा व्याधिः ॥ ऋBह्र्स्_२,४.४ ॥
मोहो मृतिरालस्यं जाड्यं व्रीडावहित्था च ।
स्मृतिरथ वितर्कचिन्तामतिधृतयो हर्ष उत्सुकत्वं च ॥ ऋBह्र्स्_२,४.५ ॥
औग्र्यमर्षासूयाश्चापल्यं चैव निद्रा च ।
सुप्तिर्बोध इतीमे भावा व्यभिचारिणः समाख्याताः ॥ ऋBह्र्स्_२,४.६ ॥

तत्र (१) निर्वेदः
महार्तिविप्रयोगेर्ष्यासद्विवेकादिकल्पितम् ।
स्वावमाननमेवात्र निर्वेद इति कथ्यते ।
अत्र चिन्ताश्रुवैवर्ण्यदैन्यनिःश्वसितादयः ॥ ऋBह्र्स्_२,४.७ ॥

तत्र महार्त्या, यथा
हन्त देहहतकैः किममीभिः
पालितैर्विफलपुण्यफलैर्नः ।
एहि कालियह्रदे विषवह्नौ
स्वं कुटुम्बिनि हठाज्जुहवाम ॥ ऋBह्र्स्_२,४.८ ॥

विप्रयोगेण, यथा
असङ्गमान्माधवमाधुरीणाम्
अपुष्पिते नीरसतां प्रयाते ।
वृन्दावने शीर्यति हा कुतोऽसौ
प्राणित्यपुण्यः सुबलो द्विरेफः ॥ ऋBह्र्स्_२,४.९ ॥

यथा वा, दानकेलिकौमुद्याम् (२०)
भवतु माधवजल्पमशृण्वतोः
श्रवणयोरलमश्रवणिर्मम ।
तमविलोकयतोरविलोचनिः
सखि विलोचनयोश्च किलानयोः ॥ ऋBह्र्स्_२,४.१० ॥

ईर्ष्यया, यथा हरिवंशे (२.६७.११) {*ईन् च्रितिचलेदितिओन्, अप्पेन्दिx २९.} सत्यादेवीवाक्यम्
स्तोतव्या यदि तावत्सा नारदेन तवाग्रतः ।
दुर्भगोऽयं जनस्तत्र किमर्थमनुशब्दितः ॥ ऋBह्र्स्_२,४.११ ॥

सद्विवेकेन, यथा श्रीदशमे (१०.५१.४७)
ममैष कालोऽजित निष्फलो गतो
राज्यश्रियोन्नद्धमदस्य भूपतेः ।
मर्त्यात्मबुद्धेः सुतदारकोषभूष्व्
आसज्जमानस्य दुरन्तचिन्तया ॥ ऋBह्र्स्_२,४.१२ ॥

अमङ्गलमपि प्रोच्य निर्वेदं प्रथमं मुनिः ।
मेनेऽमुं स्थायिनं शान्त इति जल्पन्ति केचन ॥ ऋBह्र्स्_२,४.१३ ॥

अथ (२) विषादः
इष्टानवाप्तिप्रारब्धकार्यासिद्धिविपत्तितः ।
अपराधादितोऽपि स्यादनुतापो विषण्णता ॥ ऋBह्र्स्_२,४.१४ ॥
अत्रोपायसहायानुसन्धिश्चिन्ता च रोदनम् ।
विलापश्वासवैवर्ण्यमुखशोषादयोऽपि च ॥ ऋBह्र्स्_२,४.१५ ॥

तत्र इष्टानवाप्तितो, यथा
जरां याता मूर्तिर्मम विवशतां वागपि गता
मनोवृत्तिश्चेयं स्मृतिविधुरतापद्धतिमगात् ।
अघध्वंसिन् दूरे वसतु भवद्आलोकनशशी
मया हन्त प्राप्तो न भजनरुचेरप्यवसरः ॥ ऋBह्र्स्_२,४.१६ ॥
प्रारब्धकार्यासिद्धेः, यथा
स्वप्ने मयाद्य कुसुमानि किलाहृतानि
यत्नेन तैर्विरचिता वनमालिका च ।
यावन्मुकुन्दहृदि हन्त निधीयते सा
हा तावदेव तरसा विरराम निद्रा ॥ ऋBह्र्स्_२,४.१७ ॥

विपत्तितेः, यथा
कथमनायि पुरे मयका सुतः
कथमसौ न निगृह्य गृहे धृतः ।
अमुमहो बत दन्तिविधुन्तुदो
विधुरितं विधुमत्र विधित्सति ॥ ऋBह्र्स्_२,४.१८ ॥

अपराधात्, यथा श्रीदशमे (१०.१४.९)
पश्येश मेऽनार्यमनन्त आद्ये
परात्मनि त्वय्यपि मायिमायिनि
मायां वितत्येक्षितुमात्मवैभवं
ह्यहं कियानैच्छमिवार्चिरग्नौ ॥ ऋBह्र्स्_२,४.१९ ॥

यथा वा
स्यमन्तकमहं हृत्वा गतो घोरास्यमन्तकम् ।
करवै तरणीं कां वा क्षिप्तो वैतरणीयमनु ॥ ऋBह्र्स्_२,४.२० ॥

अथ (३) दैन्यम्
दुःखत्रासापराधाद्यैरनौर्जित्यं तु दीनता ।
चाटुकृन्मान्द्यमालिन्यचिन्ताङ्गजडिमादिकृत् ॥ ऋBह्र्स्_२,४.२१ ॥

तत्र दुःखेन, यथा श्रीदशमे (१०.५१.५७)
चिरमिह वृजिनार्तस्तप्यमानोऽनुतापैर्
अवितृषषडमित्रो लब्धशान्तिः कथङ्चित् ।
शरणद समुपेतस्त्वत्पदाब्जं परात्मन्न्
अभयमृतमशोकं पाहि मापन्नमीश ॥ ऋBह्र्स्_२,४.२२ ॥

त्रासेन, यथा प्रथमे (१.८.१०)
अभिद्रवति मामीश शरस्तप्तायसो विभो ।
कामं दहतु मां नाथ मा मे गर्भो निपात्यताम् ॥ ऋBह्र्स्_२,४.२३ ॥

अपराधेन, यथा श्रीदशमे (१०.१४.१०)
अतः क्षमस्वाच्युत मे रजोभुवो
ह्यजानतस्त्वत्पृथगीशमानिनः
अजावलेपान्धतमोऽन्धचक्षुष
एषोऽनुकम्प्यो मयि नाथवानिति ॥ ऋBह्र्स्_२,४.२४ ॥

आद्यशब्देन लज्जयापि, यथा तत्रैव (१०.२२.१४)
माऽनयं भोः कृथास्त्वां तु नन्दगोपसुतं प्रियम् ।
जानीमोऽङ्ग व्रजश्लाघ्यं देहि वासांसि वेपिताः ॥ ऋBह्र्स्_२,४.२५ ॥

अथ (४) म्लानिः
ओजः सोमात्मकं देहे बलपुष्टिकृदस्य तु ।
क्षयाच्छमाधिरत्य्आद्यैर्ग्लानिर्निष्प्राणता मता ।
कम्पाङ्गजाड्यवैवर्ण्यकार्श्यदृग्भ्रमणादिकृत् ॥ ऋBह्र्स्_२,४.२६ ॥

तत्र श्रमेण, यथा
आघूर्णन्मणिवलयोज्ज्वलप्रकोष्ठा
गोष्ठान्तर्मधुरिपुकीर्तिनर्तितौष्ठी ।
लोलाक्षी दधिकलसं विलोडयन्ती
कृष्णाय क्लमभरनिःस्पृहा बभूव ॥ ऋBह्र्स्_२,४.२७ ॥

यथा वा
गुम्फितुं निरुपमां वनस्रजं
चारु पुष्पपटलं विचिन्वती ।
दुर्गमे क्लमभरातिदुर्बला
कानने क्षणमभून्मृगेक्षणा ॥ ऋBह्र्स्_२,४.२८ ॥

आधिना, यथा
सा रसव्यतिकरेण विहीना
क्षीणजीवनतयोच्चलहंसा ।
माधवाद्य विरहेण तवाम्बा
शुष्यति स्म सरसी शुचिनेव ॥ ऋBह्र्स्_२,४.२९ ॥

रत्या, यथा रससुधाकरे (२.१३ )
अतिप्रयत्नेन रतान्ततान्ता
कृष्णेन तल्पावरोपिता सा ।
आलम्ब्य तस्यैव करं करेण
ज्योत्स्नाकृतानन्दमलिन्दमाप ॥ ऋBह्र्स्_२,४.३० ॥

अथ (५) श्रमः
अध्वनृत्यरताद्य्उत्थः खेदः श्रम इतीर्यते ।
निद्रास्वेदाङ्गसंमर्दजृम्भाश्वासादिभागसौ ॥ ऋBह्र्स्_२,४.३१ ॥

अथ अध्वनो, यथा
कृतागसं पुत्रमनुव्रजन्ती
व्रजाजिरान्तर्व्रजराजराज्ञी ।
परिस्खलत्कुन्तलबन्धनेयं
बभूव घर्माम्बुकरम्बिताङ्गी ॥ ऋBह्र्स्_२,४.३२ ॥

नृत्यादेः, यथा
विस्तीर्योत्तरलितहारमङ्गहारं
सङ्गीतोन्मुखमुखरैर्वृतः सुहृद्भिः ।
अस्विद्यद्विरचितनन्दसूनुर्वा
कुर्वाणस्तटभुवि ताण्डवानि रामः ॥ ऋBह्र्स्_२,४.३३ ॥

रताद्, यथा श्रीदशमे (१०.३३.२०)
तासामतिविहारेण श्रान्तानां वदनानि सः ।
प्रामृजत्करुणः प्रेम्णा शन्तमेनाङ्ग पाणिना ॥ ऋBह्र्स्_२,४.३४ ॥

अथ (६) मदः
विवेकहर उल्लासो मदः स द्विविधो मतः ।
मधुपानभवोऽनङ्गविक्रियाभरजोऽपि च ।
गत्य्अङ्गवाणीस्खलनदृग्घूर्णारक्तिमादिकृत् ॥ ऋBह्र्स्_२,४.३५ ॥

तत्र मधुपानभवो, यथा ललितमाधवे (५.४१)
बिले क्व नु विलिल्यिरे नृपपिपीलिकाः पीडिताः
पिनस्मि जगद्अण्डकं ननु हरिः क्रुधं धास्यति ।
शचीगृहकुरङ्ग रे हससि किं त्वमित्युन्नदन्न्
उदेति मदडम्बरस्खलितचूडमग्रे हली ॥ ऋBह्र्स्_२,४.३६ ॥

यथा वा प्राचाम् {*ড়ुरुषोत्तमदेवस्य. षृK १२७, ष्Kं २३८.}
भभभ्रमति मेदिनी लललन्दते चन्द्रमाः
कृकृष्ण ववद द्रुतं हहहसन्ति किं वृष्णयः ।
सिसीधु मुमुमुञ्च मे पपपपानपात्रे स्थितः
मदस्खलितमालपन् हलधरः श्रियः वः क्रियात् ॥ ऋBह्र्स्_२,४.३७ ॥

उत्तमस्तु मदाच्छेते मध्यो हसति पायति ।
कनिष्ठः क्रोशति स्वैरं पुरुषं वक्ति रोदिति ॥ ऋBह्र्स्_२,४.३८ ॥
मदोऽपि त्रिविधः प्रोक्तस्तरुणादिप्रभेदतः ।
अत्र नात्युपयोगित्वाद्विस्तार्य न हि वर्णितः ॥ ऋBह्र्स्_२,४.३९ ॥

अनङ्गविक्रियाभरजो, यथा
व्रजपतिसुतमग्रे विक्ष्य भुग्नीभवद्भ्रूर्
भ्रमति हसति रोदित्यास्यमन्तर्दधाति ।
प्रलपति मुहुरालीं वन्दते पश्य वृन्दे
नवमदनमदान्धा हन्त गान्धर्विकेयम् ॥ ऋBह्र्स्_२,४.४० ॥

अथ (७) गर्वः
सौभाग्यरूपतारुण्यगुणसर्वोत्तमाश्रयैः ।
इष्टलाभादिना चान्यहेलनं गर्व ईर्यते ॥ ऋBह्र्स्_२,४.४१ ॥
अत्र सोल्लुण्ठवचनं लीलानुत्तरदायिता ।
स्वाङ्गेक्षा निह्नवोऽन्यस्य वचनाश्रवणादयः ॥ ऋBह्र्स्_२,४.४२ ॥

तत्र सौभाग्येन, यथा श्रीकृष्णकर्णामृते (३.९३)
हस्तमुत्क्षिप्य यातोऽसि बलात्कृष्ण किमद्भुतम् ।
हृदयाद्यदि निर्यासि पौरुषं गणयामि ते ॥ ऋBह्र्स्_२,४.४३ ॥

रूपतारुण्येन, यथा
यस्याः स्वभावमधुरां परिषेव्य मूर्तिं
धन्या बभूव नितरामपि यौवनश्रीः ।
सेयं त्वयि व्रजवधूशतभुक्तमुक्ते
दृक्पातमाचरतु कृष्ण कथं सखी मे ॥ ऋBह्र्स्_२,४.४४ ॥

गुणेन, यथा
गुम्फन्तु गोपाः कुसुमैः सुगन्धिभिर्
दामानि कामं धृतरामणीयकैः ।
निधास्यते किन्तु सतृष्णमग्रतः
कृष्णो मदीयां हृदि विस्मितः स्रजम् ॥ ऋBह्र्स्_२,४.४५ ॥

सर्वोत्तमाश्रयेण, यथा श्रीदशमे (१०.२.३३)
तथा न ते माधव तावकाः क्वचिद्
भ्रश्यन्ति मार्गात्त्वयि बद्धसौहृदाः
त्वयाभिगुप्ता विचरन्ति निर्भया
विनायकानीकपमूर्धसु प्रभो ॥ ऋBह्र्स्_२,४.४६ ॥

इष्टलाभेन, यथा
वृन्दावनेन्द्र भवतः परमं प्रसादम्
आसाद्य नन्दितमतिर्मुहुरुद्धतोऽस्मि ।
आशंसते मुनिमनोरथवृत्तिमृग्यां
वैकुण्ठनाथकरुणामपि नाद्य चेतः ॥ ऋBह्र्स्_२,४.४७ ॥

अथ (८) शङ्का
स्वीयचौर्यापराधादेः परक्रौर्यादितस्तथा ।
स्वानिष्टोत्प्रेक्षणं यत्तु सा शङ्केत्यभिधीयते ।
अत्रास्यशोषवैवर्ण्यदिक्प्रेक्षालीनतादयः ॥ ऋBह्र्स्_२,४.४८ ॥

तत्र चौर्याद्, यथा
सतर्णकं डिम्भकदम्बकं हरन्
सदम्भमम्भोरुहसम्भवस्तदा ।
तिरोभविष्यन् हरितश्चलेक्षणैर्
अष्टाभिरष्टौ हरितः समीक्षते ॥ ऋBह्र्स्_२,४.४९ ॥

यथा वा
स्यमन्तकं हन्त वमन्तमर्थं
निह्नुत्य दूरे यदहं प्रयातः ।
अवद्यमद्यापि तदेव कर्म
शर्माणि चित्ते मम निर्भिनत्ति ॥ ऋBह्र्स्_२,४.५० ॥

अपराधाद्, यथा
तद्अवधि मलिनोऽसि नन्दगोष्ठे
यद्अवधि वृष्टिमचीकरः शचीश ।
शृणु हितमभितः प्रपद्य कृष्णं
श्रियमविशङ्कमलङ्कुरु त्वमैन्द्रीम् ॥ ऋBह्र्स्_२,४.५१ ॥

परक्रौर्येण, यथा पद्यावल्याम् (३३१)
प्रथयति न तथा ममार्तिमुच्चैः
सहचरि वल्लवचन्द्रविप्रयोगः ।
कटुभिरसुरमण्डलैः परीते
दनुजपतेर्नगरे यथास्य वासः ॥ ऋBह्र्स्_२,४.५२ ॥

शङ्का तु प्रवरस्त्रीणां भीरुत्वाद्भयकृद्भवेत् ॥ ऋBह्र्स्_२,४.५३ ॥

अथ (९) त्रासः
त्रासः क्षोभो हृदि तडिद्घोरसत्त्वोग्रनिस्वनैः ।
पार्श्वस्थालम्बरोमाञ्चकम्पस्तम्भभ्रमादिकृत् ॥ ऋBह्र्स्_२,४.५४ ॥

तत्र तडिता, यथा
बाढं निविडया सद्यस्तडिता ताडितेक्षणः ।
रक्ष कृष्णेति चुक्रोश कोऽपि गोपीस्तनन्धयः ॥ ऋBह्र्स्_२,४.५५ ॥

घोरसत्त्वेन, यथा
अदूरमासेदुषि वल्लवाङ्गना
स्वं पुङ्गवीकृत्य सुरारिपुङ्गवे ।
कृष्णभ्रमेणाशु तरङ्गद्अङ्गिका
तमालमालिङ्ग्य बभूव निश्चला ॥ ऋBह्र्स्_२,४.५६ ॥

उग्रनिस्वनेन, यथा
आकर्ण्य कर्णपदवीविपदं यशोदा
विस्फूर्जितं दिशि दिशि प्रकटं वृकाणाम् ।
यामान्निकामचतुरा चतुरः स्वपुत्रं
सा नेत्रचत्वरचरं चिरमाचचार ॥ ऋBह्र्स्_२,४.५७ ॥

गात्रोत्कम्पी मनःकम्पः सहसा त्रास उच्यते ।
पूर्वापरविचारोत्थं भयं त्रासात्पृथग्भवेत् ॥ ऋBह्र्स्_२,४.५८ ॥

अथ (१०) आवेगः
चित्तस्य सम्भ्रमो यः स्यादावेगोऽयं स चाष्टधा ।
प्रियाप्रियानलमरुद्वर्षोत्पातगजारितः ॥ ऋBह्र्स्_२,४.५९ ॥
प्रियोत्थे पुलकः सान्त्वं चापल्याभ्युद्गमादयः ।
अप्रियोत्थे तु भूपातविक्रोशभ्रमणादयः ॥ ऋBह्र्स्_२,४.६० ॥
व्यत्यस्तगतिकम्पाक्षिमीलनास्रादयोऽग्निजे ।
वातजेऽजावृतिक्षिप्रगतिदृङ्मार्जनादयः ॥ ऋBह्र्स्_२,४.६१ ॥
वृष्टिजो धावनच्छत्रगात्रसङ्कोचनादिकृत् ।
औत्पाते मुखवैवर्ण्यविस्मयोऽकण्ठितादयः ॥ ऋBह्र्स्_२,४.६२ ॥
गाजे पलायनोत्कम्पत्रासपृष्ठेक्षणादयः ।
अरिजो वर्मशस्त्रादिग्रहापसरणादिकृत् ॥ ऋBह्र्स्_२,४.६३ ॥

अत्र प्रियदर्शनजो, यथा
प्रेक्ष्य वृन्दावनात्पुत्रमायान्तं प्रस्नुतस्तनी ।
सङ्कुला पुलकैरासीदाकुला गोकुलेश्वरी ॥ ऋBह्र्स्_२,४.६४ ॥
प्रियश्रवणजो, यथा श्रीदशमे (१०.२३.१८)
श्रुत्वाच्युतमुपायातं नित्यं तद्दर्शनोत्सुकाः ।
तत्कथाक्षिप्तमनसो बभूवुर्जातसम्भ्रमाः ॥ ऋBह्र्स्_२,४.६५ ॥

अप्रियदर्शनजो, यथा
किमिदं किमिदं किमेतदुच्चैर्
इति घोरध्वनिघूर्णिता लपन्ती ।
निशि वक्षति वीक्ष्य पूतनायास्
तनयं भ्राम्यति सम्भ्रमाद्यशोदा ॥ ऋBह्र्स्_२,४.६६ ॥

अप्रियश्रवणजो, यथा
निशम्य पुत्रं क्रटतोस्तटान्ते
महीजयोर्मध्यगमूर्ध्वनेत्रा ।
आभीरराज्ञी हृदि सम्भ्रमेण
बिद्धा विधेयं न विदाञ्चकार ॥ ऋBह्र्स्_२,४.६७ ॥

अग्निजो, यथा
धीर्व्यग्राजनि नः समस्तसुहृदां तां प्राणरक्षामणिं
गव्या गौरवतः समीक्ष्य निविडे तिष्ठन्तमन्तर्वने ।
वह्निः पश्य शिखण्डशेखर खरं मुञ्चन्नखण्डध्वनिं
दीर्घाभिः सुरदीर्घिकाम्बुलहरीमर्चिभिराचामति ॥ ऋBह्र्स्_२,४.६८ ॥

वातजो, यथा
पांशुप्रारब्धकेतौ बृहद्अटविकुटोन्माथिशौटीर्यपुञ्जे
भाण्डीरोद्दण्डशाखाभुजततिषु गते ताण्डवाचार्यचर्याम् ।
वातव्राते करीषङ्कषतरशिखरे शार्करे झात्करिष्णौ
क्षौण्यामप्रेक्ष्य पुत्रं व्रजपतिगृहिणी पश्य सम्बम्भ्रमीति ॥ ऋBह्र्स्_२,४.६९ ॥

वर्षजो, यथा श्रीदशमे (१०.२५.११)
अत्यासारातिवातेन पशवो जातवेपनाः ।
गोपा गोप्यश्च शीतार्ता गोविन्दं शरणं ययुः ॥ ऋBह्र्स्_२,४.७० ॥

यथा वा
सममुरुकरकाभिर्दन्तिशुण्डासपिण्डाः
प्रतिदिशमिह गोष्ठे वृष्टिधाराः पतन्ति ।
अजनिषत युवानोऽप्याकुलास्त्वं तु बालः
स्फुटमसि तद्अगारान्मा स्म भूर्निर्यियासुः ॥ ऋBह्र्स्_२,४.७१ ॥

उत्पातजो, यथा
क्षितिरतिविपुला टलत्यकस्माद्
उपरि घुरन्ति च हन्त घोरमुल्काः ।
मम शिशुरहिदूषितार्कपुत्री
तटमटतीत्यधुना किमत्र कुर्याम् ॥ ऋBह्र्स्_२,४.७२ ॥

गाजो, यथा
अपसरापसर त्वरया गुरुर्
मुदिरसुन्दर हे पुरतः करी ।
म्रदिमवीक्षणतस्तव नश्चलं
हृदयमाविजते पुरयोषिताम् ॥ ऋBह्र्स्_२,४.७३ ॥

गजेन दुष्टसत्त्वोऽन्यः पश्व्आदिरुपलक्ष्यते ॥ ऋBह्र्स्_२,४.७४ ॥

यथा वा
चण्डांशोस्तुरगान् सटाग्रनटनैराहत्य विद्रावयन्
द्रागन्धङ्करणः सुरेन्द्रसुदृशां गोष्ठोद्धूतैः पांशुभिः ।
प्रत्यासीदतु मत्पुरः सुररिपुर्गर्वान्धमर्वाकृतिर्
द्रगिष्ठे मुहुरत्र जाग्रति भुजे व्यग्रासि मातः कथम् ॥ ऋBह्र्स्_२,४.७५ ॥

अरिजो, यथा ललितमाधवे (२.२९)
स्थूलस्तालभुजान्नतिर्गिरितटीवक्षाः क्व यक्षाधमः
क्वायं बालतमालकन्दलमृदुः कन्दर्पकान्तः शिशुः ।
नास्त्यन्यः सहकारितापटुरिह प्राणी न जानीमहे
हा गोष्ठेश्वरि कीदृगद्य तपसां पाकस्तवोन्मीलति ॥ ऋBह्र्स्_२,४.७६ ॥

यथा वा तत्रैव (५.३०)
सप्तिः सप्ती रथ इह रथः कुञ्जरो मे
तूणस्तूणो धनुरुत धनुर्भोः कृपाणी कृपाणी ।
का भीः का भीरयमयमहं हा त्वरध्वं त्वरध्वं
राज्ञः पुत्री बत हृतहृता कामिना वल्लवेन ॥ ऋBह्र्स्_२,४.७७ ॥

आवेगाभास एवायं पराश्रयतापि चेत् ।
नायकोत्कर्षबोधाय तथाप्यत्र निदर्शितः ॥ ऋBह्र्स्_२,४.७८ ॥

अथ (११) उन्मादः
उन्मादो हृद्भ्रमः प्रौढानन्दापद्विरहादिजः ॥ ऋBह्र्स्_२,४.७९ ॥
अत्राट्टहासो नटनं सङ्गीतं व्यर्थचेष्टितम् ।
प्रलापधावनक्रोशविपरीतक्रियादयः ॥ ऋBह्र्स्_२,४.८० ॥

तत्र प्रौढानन्दाद्, यथा कर्णामृते (२.२५)
राधा पुनातु जगदच्युतदत्तचित्ता
मन्थानकं विदधती दधिरिक्तपात्रे ।
यस्याः स्तनस्तवकचञ्चललोचनालिर्
देवोऽपि रुद्धहृदयो धवलं दुदोह ॥ ऋBह्र्स्_२,४.८१ ॥

आपदो, यथा
पशूनपि कृताञ्जलिर्नमति मान्त्रिका इत्यलं
तरूनपि चिकित्सका इति विषौषधं पृच्छति ।
ह्रदं भुजगभैरवं हरि हरि प्रविष्टे हरौ
व्रजेन्द्रगृहिणी मुहुर्भ्रममयीमवस्थां गता ॥ ऋBह्र्स्_२,४.८२ ॥

विरहाद्, यथा श्रीदशमे (१०.३०.४)
गायन्त्य उच्चैरमुमेव संहता
विचिक्युरुन्मत्तकवद्वनाद्वनम् ।
पप्रच्छुराकाशवदन्तरं बहिर्
भूतेषु सन्तं पुरुषं वनस्पतीन् ॥ ऋBह्र्स्_२,४.८३ ॥

उन्मादः पृथगुक्तोऽयं व्याधिष्वन्तर्भवन्नपि ।
यत्तत्र विप्रलम्भादौ वैचित्रीं कुरुते पराम् ॥ ऋBह्र्स्_२,४.८४ ॥
अधिरूढे महाभावे मोहनत्वमुपागते ।
अवस्थान्तरमाप्तोऽसौ दिव्योन्माद इतीर्यते ॥ ऋBह्र्स्_२,४.८५ ॥

अथ (१२) अपस्मारः
दुःखोत्थधातुवैषम्याद्य्उद्भूतश्चित्तविप्लवः ।
अपस्मारोऽत्र पतनं धावनास्फोटनभ्रमाः ।
कम्पः फेनस्रुतिर्बाहुक्षेपणविक्रोशनादयः ॥ ऋBह्र्स्_२,४.८६ ॥

यथा
फेनायते प्रतिपदं क्षिपते भुजोर्मिम्
आघूर्णते लुठति कुजति लीयते च ।
अम्बा तवाद्य विरहे चिरमम्बुराज
बेलेव वृष्णितिलक व्रजराजराज्ञी ॥ ऋBह्र्स्_२,४.८७ ॥

यथा वा
श्रुत्वा हन्त हतं त्वया यदुकुलोत्तंसात्र कंसासुरं
दैत्यस्तस्य सुहृत्तमः परिणतिं घोरां गतः कामपि ।
लालाफेनकदम्बचुम्बितमुखप्रान्तस्तरङ्गद्भुजो
घूर्णन्नर्णवसीम्नि मण्डलतया भ्राम्यन्न विश्राम्यति ॥ ऋBह्र्स्_२,४.८८ ॥

उन्मादवदिह व्याधिविशेषोऽप्येष वर्णितः ।
परां भयानकाभासे यत्करोति चमत्कृतिम् ॥ ऋBह्र्स्_२,४.८९ ॥

अथ (१३) व्याधिः
दोषोद्रेकवियोगाद्यैर्व्याधयो ये ज्वरादयः ।
इह तत्प्रभवो भावो व्याधिरित्यभिधीयते ।
अत्र स्तम्भः श्लथाङ्गत्वश्वासोत्तापक्लमादयः ॥ ऋBह्र्स्_२,४.९० ॥

यथा
तव चिरविरहेण प्राप्य पीडामिदानीं
दधद्उरुजडिमानि ध्मापितान्यङ्गकानि ।
श्वसितपवनधाटीघट्टितघ्राणवाटं
लुठति धरणिपृष्ठे गोष्ठवाटीकुटुम्बम् ॥ ऋBह्र्स्_२,४.९१ ॥

अथ (१४) मोहः
मोहो हृन्मूढता हर्षाद्विश्लेषाद्भयतस्तथा ।
विषादादेश्च तत्र स्याद्देहस्य पतनं भुवि ।
शून्येन्द्रियत्वं भ्रमणं तथा निश्चेष्टतामयः ॥ ऋBह्र्स्_२,४.९२ ॥

तत्र हर्षाद्, यथा श्रीदशमे (१०.१२.४४)
इत्थं स्म पृष्टः स तु बादरायणिस्
तत्स्मारितानन्तहृताखिलेन्द्रियः ।
कृच्छ्रात्पुनर्लब्धबहिर्दृशिः शनैः
प्रत्याह तं भागवतोत्तमोत्तमम् ॥ ऋBह्र्स्_२,४.९३ ॥

यथा वा
निरुच्छ्वसितरीतयो विघटिताक्षिपक्ष्मक्रिया
निरीहनिखिलेन्द्रियाः प्रतिनिवृत्तचिद्वृत्तयः ।
अवेक्ष्य कुरुमण्डले रहसि पुण्डरीकेक्षणं
व्रजाम्बुजदृशोऽभजन् कनकशालभञ्जीश्रियम् ॥ ऋBह्र्स्_२,४.९४ ॥

विश्लेषाद्, यथा हंसदूते (४)
कदाचित्खेदाग्निं विघटयितुमन्तर्गतमसौ
सहालीभिर्लेभे तरलितमना यामुनतटीम् ।
चिरादस्याश्चित्तं परिचितकुटीरकलनाद्
अवस्था तस्तार स्फुटमथ सुषुप्तेः प्रियसखी ॥ ऋBह्र्स्_२,४.९५ ॥

भयाद्, यथा
मुकुन्दमाविष्कृतविश्वरूपं
निरूपयन् वानरवर्यकेतुः ।
करारविन्दात्पुरतः स्खलन्तं
न गाण्डीवं खण्डितधीर्विवेद ॥ ऋBह्र्स्_२,४.९६ ॥

विषादाद्, यथा श्रीदशमे (१०.११.४९)
कृष्णं महाबकग्रस्तं दृष्ट्वा रामादयोऽर्भकाः ।
बभूवुरिन्द्रियाणीव विना प्राणं विचेतसः ॥ ऋBह्र्स्_२,४.९७ ॥

अस्यान्यत्रात्मपर्यन्ते स्यात्सर्वत्रैव मूढता ।
कृष्णस्फूर्तिविशेषस्तु न कदाप्यत्र लीयते ॥ ऋBह्र्स्_२,४.९८ ॥

अथ (१५) मृतिः
विषादव्याधिसन्त्राससम्प्रहारक्लमादिभिः ।
प्राणत्यागो मृतिस्तस्यामव्यक्ताक्षरभाषणम् ।
विवर्णगात्रताश्वासमान्द्यहिक्कादयः क्रियाः ॥ ऋBह्र्स्_२,४.९९ ॥

यथा
अनुल्लासश्वासा मुहुरसरलोत्तानितदृशो
विवृण्वन्तः काये किमपि नववैवर्ण्यमभितः ।
हरेर्नामाव्यक्तीकृतमलघुहिक्कालहरीभिः
प्रजल्पन्तः प्राणान् जहति मथुरायां सुकृतिनः ॥ ऋBह्र्स्_२,४.१०० ॥

यथा वा
विरमद्अलघुकण्ठोद्घोषघुत्कारचक्रा
क्षणविघटितताम्यद्दृष्टिखद्योतदीप्तिः ।
हरिमिहिरनिपीतप्राणगाढान्धकारा
क्षयमगमदकस्मात्पूतना कालरात्रिः ॥ ऋBह्र्स्_२,४.१०१ ॥

प्रायोऽत्र मरणात्पूर्वा चित्तवृत्तिर्मृतिर्मता ।
मृतिरत्रानुभावः स्यादिति केनचिदुच्यते ।
किन्तु नायकवीर्यार्थं शत्रौ मरणमुच्यते ॥ ऋBह्र्स्_२,४.१०२ ॥

अथ (१६) आलस्यम्
सामर्थ्यस्यापि सद्भावे क्रियानुन्मुखता हि या ।
तृप्तिश्रमादिसम्भूता तद्आलस्यमुदीर्यते ॥ ऋBह्र्स्_२,४.१०३ ॥
अत्राङ्गभजो जृम्भा च क्रिया द्वेषोऽक्षिमर्दनम् ।
शय्यासनैकप्रियता तन्द्रानिद्रादयोऽपि च ॥ ऋBह्र्स्_२,४.१०४ ॥

तत्र तृप्तेर्, यथा
विप्राणां नस्तथा तृप्तिरासीद्गोवर्धनोत्सवे ।
नाशीर्वादेऽपि गोपेन्द्र यथा स्यात्प्रभविष्णुता ॥ ऋBह्र्स्_२,४.१०५ ॥

श्रमाद्, यथा
सुष्ठु निःसहतनुः सुबलोऽभूत्
प्रीतये मम विधाय नियुद्धम् ।
मोटयन्तमभितो निजमङ्गं
नाहवाय सहसाह्वयताममुम् ॥ ऋBह्र्स्_२,४.१०६ ॥

अथ (१७) जाड्यम्
जाड्यमप्रतिपत्तिः स्यादिष्टानिष्ठश्रुतीक्षणैः ।
विरहाद्यैश्च तन्मोहात्पूर्वावस्थापरापि च ।
अत्रानिमिषता तूष्णीम्भावविस्मरणादयः ॥ ऋBह्र्स्_२,४.१०७ ॥

तत्र इष्टश्रुत्या, यथा श्रीदशमे (१०.२१.१३)
गावश्च कृष्णमुखनिर्गतवेणुगीत
पीयूषमुत्तभितकर्णपुटैः पिबन्त्यः ।
शावाः स्नुतस्तनपयःकवलाः स्म तस्थुर्
गोविन्दमात्मनि दृशाश्रुकुलाः स्पृशन्त्यः ॥ ऋBह्र्स्_२,४.१०८ ॥

अनिष्टश्रुत्या, यथा
आकलय्य परिवर्तितगोत्रां
केशवस्य गिरमर्पितशल्याम् ।
बिद्धधीरधिकनिर्निमिषाक्षी
लक्ष्मणा क्षणमवर्तत तूष्णीम् ॥ ऋBह्र्स्_२,४.१०९ ॥

इष्टेक्षणेन, यथा श्रीदशमे (१०.७१.४०)
गोविन्दं गृहमानीय देवदेवेशमादृतः ।
पूजायां नाविदत्कृत्यं प्रमादोपहतो नृपः ॥ ऋBह्र्स्_२,४.११० ॥

अनिष्टेक्षणेन, यथा तत्रैव (१०.३९.३६)
यावदालक्ष्यते केतुर्यावद्रेणू रथस्य च ।
अनुप्रस्थापितात्मानो लेख्यानीवोपलक्षिताः ॥ ऋBह्र्स्_२,४.१११ ॥

विरहेण, यथा
मुकुन्द विरहेण ते विधुरिताः सखायश्चिराद्
अलङ्कृतिभिरुज्झिता भुवि निविश्य तत्र स्थिताः ।
स्खलन्मलिनवाससः शवलरुक्षगात्रश्रियः
स्फुरन्ति खलदेवलद्विजगृहे सुरार्चा इव ॥ ऋBह्र्स्_२,४.११२ ॥

अथ (१८) व्रीडा
नवीनसङ्गमाकार्यस्तवावज्ञादिना कृता ।
अधृष्टता भवेद्व्रीडा तत्र मौनं विचिन्तनम् ।
अवगुण्ठनभूलेखौ तथाधोमुखतादयः ॥ ऋBह्र्स्_२,४.११३ ॥

तत्र नवीनसङ्गमेन, यथा पद्यावल्याम् (१९८)
गोविन्दे स्वयमकरोः सरोजनेत्रे
प्रेमान्धा वरवपुरर्पणं सखि ।
कार्पण्यं न कुरु दरावलोकदाने
विक्रीते करिणि किमङ्कुशे विवादः ॥ ऋBह्र्स्_२,४.११४ ॥

अकार्येण, यथा
त्वमवागिह मा शिरः कृथा
वदनं च त्रपया शचीपते ।
नय कल्पतरुं न चेच्छचीं
कथमग्रे मुखमीक्षयिष्यसि ॥ ऋBह्र्स्_२,४.११५ ॥

स्तवेन, यथा
भूरिसाद्गुण्यभारेण स्तूयमानस्य शौरिणा ।
उद्धवस्य व्यरोचिष्ट नम्रीभूतं तदा शिरः ॥ ऋBह्र्स्_२,४.११६ ॥

अवज्ञया, यथा हरिवंशे (२.६७.१९) {*ईन् च्रितिचलेदितोन्, अप्पेन्दिx २९.} सत्यादेवीवाक्यम्
वसन्तकुसुमैश्चित्रं सदा रैवतकं गिरिम् ।
प्रिया भूत्वाऽप्रिया भूता कथं द्रक्ष्यामि तं पुनः ॥ ऋBह्र्स्_२,४.११७ ॥

अथ (१९) अवहित्था
अवहित्थाकारगुप्तिर्भवेद्भावेन केनचित् ॥ ऋBह्र्स्_२,४.११८ ॥
अत्राङ्गादेः पराभ्यूहस्थानस्य परिगूहनम् ।
अन्यत्रेक्षा वृथाचेष्टा वाग्भङ्गीत्य्आदयः क्रियाः ॥ ऋBह्र्स्_२,४.११९ ॥

तथा चोक्तम्
अनुभावपिधानार्थोऽवहित्थं भाव उच्यते ॥ ऋBह्र्स्_२,४.१२० ॥

तत्र जैह्म्येन, यथा श्रीदशमे (१०.३२.१५)
सभाजयित्वा तमनङ्गदीपनं
सहासलीलेक्षणविभ्रमभ्रुवा ।
संस्पर्शनेनाङ्ककृताङ्घ्रिहस्तयोः
संस्तुत्य ईषत्कुपिता बभाषिरे ॥ ऋBह्र्स्_२,४.१२१ ॥

दाक्षिण्येन, यथा
सात्राजितीसदनसीमनि पारिजाते
नीते प्रणीतमहसा मधुसूदनेन ।
द्राघीयसीमनि विदर्भभुवस्तदेर्ष्यां
सौशील्यतः किल न कोऽपि विदाम्बभूव ॥ ऋBह्र्स्_२,४.१२२ ॥

ह्रिया, यथा प्रथमे (१.११.३३)
तमात्मजैर्दृष्टिभिरन्तरात्मना
दुरन्तभावाः परिरेभिरे पतिम् ।
निरुद्धमप्यास्रवदम्बु नेत्रयोर्
विलज्जतीनां भृगुवर्य वैक्लवात् ॥ ऋBह्र्स्_२,४.१२३ ॥

जैह्म्यह्रीभ्यां, यथा
का वृषस्यति तं गोष्ठभुजङ्गं कुलपालिका ।
दूति यत्र स्मृते मूर्तिर्भीत्या रोमाञ्चिता मम ॥ ऋBह्र्स्_२,४.१२४ ॥

सौजन्येन, यथा
गूढा गाभीर्यसम्पद्भिर्मनोगह्वरगर्भगा ।
प्रौढाप्यस्या रतिः कृष्णे दुर्वितर्का परैरभूत् ॥ ऋBह्र्स्_२,४.१२५ ॥

गौरवेण, यथा
गोविन्दे सुबलमुखैः समं सुहृद्भिः
स्मेरास्यैः स्फुटमिह नर्म निर्मिमाणे ।
आनम्रीकृतवदनः प्रमोदमुग्धो
यत्नेन स्मितमथ संववार पत्री ॥ ऋBह्र्स्_२,४.१२६ ॥

हेतुः कश्चिद्भवेत्कश्चिद्गोप्यः कश्चन गोपनः ।
इति भावत्रयस्यात्र विनियोगः समीक्ष्यते ॥ ऋBह्र्स्_२,४.१२७ ॥
हेतुत्वं गोपनत्वं च गोप्यत्वं चात्र सम्भवेत् ।
प्रायेण सर्वभावानामेकशोऽनेकशोऽपि च ॥ ऋBह्र्स्_२,४.१२८ ॥

अथ (२०) स्मृतिः
या स्यात्पूर्वानुभूतार्थप्रतीतिः सदृशेक्षया ।
दृढाभ्यासादिना वापि सा स्मृतिः परिकीर्तिता ।
भवेदत्र शिरःकम्पो भ्रूविक्षेपादयोऽपि च ॥ ऋBह्र्स्_२,४.१२९ ॥

तत्र सदृशेक्षणा, यथा
विलोक्य श्याममम्भोदमम्भोरुहविलोचना ।
स्मारं स्मारं मुकुन्द त्वां स्मारं विक्रममन्वभूत् ॥ ऋBह्र्स्_२,४.१३० ॥

दृढाभ्यासेन, यथा
प्रणिधानविधिमिदानीमकुर्वतोऽपि प्रमादतो हृदि मे ।
हरिपदपङ्कजयुगलं क्वचित्कदाचित्परिस्फुरति ॥ ऋBह्र्स्_२,४.१३१ ॥

अथ (२१) वितर्कः
विमर्षात्संशयादेश्च वितर्कस्तूह उच्यते ।
एष भ्रूक्सेपणशिरोऽङ्गुलिसञ्चालनादिकृत् ॥ ऋBह्र्स्_२,४.१३२ ॥

तत्र विमर्षाद्, यथा विदग्धमाधवे (२.२७)
न जानीषे मूर्ध्नश्च्युतमपि शिखण्डं यदखिलं
न कण्ठे यन्माल्यं कलयसि पुरस्तात्कृतमपि ।
तदुन्नीतं वृन्दावनकुहरलीलाकलभ हे
स्फुटं राधानेत्रभ्रमरवर वीर्योन्नतिरियम् ॥ ऋBह्र्स्_२,४.१३३ ॥

संशयात्, यथा
असौ किं तापिञ्छो न हि तद्अमलश्रीरिह गतिः
पयोदः किं वामं न यदिह निरङ्को हिमकरः ।
जगन्मोहारम्भोद्धूरमधुरवंशीध्वनिरितो
ध्रुवं मूर्धन्यद्रेर्विधुमुखि मुकुन्दो विहरति ॥ ऋBह्र्स्_२,४.१३४ ॥

विनिर्णयान्त एवायं तर्क इत्यूचिरे परे ॥ ऋBह्र्स्_२,४.१३५ ॥

अथ (२२) चिन्ता
ध्यानं चिन्ता भवेदिष्टानाप्त्य्अनिष्टाप्तिनिर्मितम् ।
श्वासाधोमुखभूलेखवैवर्ण्यान्निद्रता इह ।
विलापोत्तापकृशताबाष्पदैन्यादयोऽपि च ॥ ऋBह्र्स्_२,४.१३६ ॥

तत्र इष्टानाप्त्या, यथा श्रीदशमे (१०.२९.२९)
कृत्वा मुखान्यवशुचः श्वसनेन शुष्यद्
बिम्बाधराणि चरणेन लिखन्त्यः ।
अस्रेरुपात्तमसिभिः कुचकुङ्कुमानि
तस्थुर्मृजन्त्य उरुदुःखभराः स्म तूष्णीम् ॥ ऋBह्र्स्_२,४.१३७ ॥

यथा वा
अरतिभिरतिक्रम्य क्षामा प्रदोषमदोषधीः
कथमपि चिरादध्यासीना प्रघाणमघान्तक ।
विधूरितमुखी घूर्णत्यन्तः प्रसूस्तव चिन्तया
किमहह गृहं क्रीडालुब्ध त्वयाद्य विसस्मरे ॥ ऋBह्र्स्_२,४.१३८ ॥

अनिष्टाप्त्या, यथा
गृहिणि गहनयान्तश्चिन्तयोन्निद्रनेत्रा
ग्लपय न मुखपद्मं तप्तबाष्पप्लवेन ।
नृपपुरमनुविन्दन् गान्दिनेयेन सार्धं
तव सुतमहमेव द्राक्परावर्तयामि ॥ ऋBह्र्स्_२,४.१३९ ॥

अथ (२३) मतिः
शास्त्रादीनां विचारोत्थमर्थनिर्धारणं मतिः ॥ ऋBह्र्स्_२,४.१४० ॥
अत्र कर्तव्यकरणं संशयभ्रमयोश्छिदा ।
उपदेशश्च शिष्याणामूहापोहादयोऽपि च ॥ ऋBह्र्स्_२,४.१४१ ॥

यथा पाद्मे वैशाखमाहात्म्ये
व्यामोहाय चराचरस्य जगतस्ते ते पुराणागमास्
तां तामेव हि देवतां परमिकां जल्पन्तु कल्पावधि ।
सिद्धान्ते पुनरेक एव भगवान् विष्णुः समस्तागम
व्यापारेषु विवेचनव्यतिकरं नीतेषु निश्चीयते ॥ ऋBह्र्स्_२,४.१४२ ॥

यथा वा श्रीदशमे (१०.६०.३९)
त्वं न्यस्तदण्डमुनिभिर्गदितानुभाव
आत्मात्मदश्च जगतामिति मे वृतोऽसि ।
हित्वा भवद्भ्रुव उदीरितकालवेग
ध्वस्ताशिषोऽब्जभवनाकपतीन् कुतोऽन्ये ॥ ऋBह्र्स्_२,४.१४३ ॥

अथ (२४) धृतिः
धृतिः स्यात्पूर्णता ज्ञानदुःखाभावोत्तमाप्तिभिः ।
अप्राप्तातीतनष्टार्थानभिसंशोचनादिकृत् ॥ ऋBह्र्स्_२,४.१४४ ॥
तत्र ज्ञानेन, यथा वैराग्यशतके (५५) भर्तृहरिः
अश्नीमहि वयं भिक्षामाशावासो वसीमहि ।
शयीमहि महीपृष्ठे कुर्वीमहि किमीश्वरैः ॥ ऋBह्र्स्_२,४.१४५ ॥

दुःखाभावेन, यथा
गोष्ठं रमाकेलिगृहं चकास्ति
गावश्च धावन्ति परःपरार्धाः ।
पुत्रस्तथा दीव्यति दिव्यकर्मा
तृप्तिर्ममाभूद्गृहमेधिसौख्ये ॥ ऋBह्र्स्_२,४.१४६ ॥

उत्तमाप्त्या, यथा
हरिलीलासुधासिन्धोस्तटमप्यधितिष्ठतः ।
मनो मम चतुर्वर्गं तृणायापि न मन्यते ॥ ऋBह्र्स्_२,४.१४७ ॥

अथ (२५) हर्षः
अभीष्टेक्षणलाभादिजाता चेतःप्रसन्नता ।
हर्षः स्यादिह रोमाञ्चः स्वेदोऽश्रु मुखफुल्लता ।
आवेगोन्मादजडतास्तथा मोहादयोऽपि च ॥ ऋBह्र्स्_२,४.१४८ ॥

तत्र अभीष्टेक्षणेन, यथा श्रीविष्णुपुराणे [वि.पु. ५.१७.२५]
तौ दृष्ट्वा विकसद्वक्त्रसरोजः स महामतिः ।
पुलकाञ्चितसर्वाङ्गस्तदाक्रूरोऽभवन्मुने ॥ ऋBह्र्स्_२,४.१४९ ॥

अभीष्टलाभेन, यथा श्रीदशमे (१०.३३.१२)
तत्रैकांसगतं बाहुं कृष्णस्योत्पलसौरभम् ।
चन्दनालिप्तमाघ्राय हृष्टरोमा चुचुम्ब ह ॥ ऋBह्र्स्_२,४.१५० ॥

अथ (२६) औत्सुक्यम्
कालाक्षमत्वमौत्सुक्यमिष्टेक्षाप्तिस्पृहादिभिः ।
मुखशोषत्वराचिन्तानिःश्वासस्थिरतादिकृत् ॥ ऋBह्र्स्_२,४.१५१ ॥

तत्र इष्टेक्षास्पृहया, यथा श्रीदशमे (१०.७१.३४)
प्राप्तं निशम्य नरलोचनपानपात्रम्
औत्सुक्यविश्लथितकेशदुकूलबद्धाः ।
सद्यो विसृज्य गृहकर्म पतींश्च तल्पे
द्रष्टुं ययुर्युवतयः स्म नरेन्द्रमार्गे ॥ ऋBह्र्स्_२,४.१५२ ॥

यथा वा, स्तवावल्यां श्रीराधिकाष्टके (१४.७)
प्रकटितनिजवासं स्निग्धवेणुप्रणादैर्
द्रुतगति हरिमारात्प्राप्य कुञ्जे स्मिताक्षी ।
श्रवणकुहरकण्डुं तन्वती नम्रवक्त्रा
स्नपयति निजदास्ये राधिका मां कदा नु ॥ ऋBह्र्स्_२,४.१५३ ॥

इष्टाप्तिस्पृहया, यथा
नर्मकर्मठतया सखीगणे
द्राघयत्यघहराग्रतः कथाम् ।
गुच्छकग्रहणकैतवादसौ
गह्वरं द्रुतपदक्रमं ययौ ॥ ऋBह्र्स्_२,४.१५४ ॥

अथ (२७) औग्र्यम्
अपराधदुरुक्त्य्आदि जातं चण्डत्वमुग्रता ।
वधबन्धशिरःकम्पभर्त्सनोत्ताडनादिकृत् ॥ ऋBह्र्स्_२,४.१५५ ॥

तत्र अपराधाद्, यथा
स्फुरति मयि भुजङ्गीगर्भविश्रंसिकीर्तौ
विरचयति मद्ईशे किल्बिषं कालियोऽपि ।
हुतभुजि बत कुर्यां जाठरे वौषडेनं
सपदि दनुजहन्तुः किन्तु रोषाद्बिभेमि ॥ ऋBह्र्स्_२,४.१५६ ॥

दुरुक्तितो, यथा सहदेवोक्तिः
प्रभवति विबुधानामग्रिमस्याग्रपूजां
न हि दनुजरिपोर्यः प्रौङ्धकीर्तेर्विसोढुम् ।
कटुतरयमदण्डोद्दण्डरोचिर्मयासौ
शिरसि पृथुनि तस्य न्यस्यते सव्यपादः ॥ ऋBह्र्स्_२,४.१५७ ॥

यथा वा बलदेवोक्तिः
रताः किल नृपासने क्षितिपलक्षभुक्तोज्झिते
खलाः कुरुकुलाधमाः प्रभुमजाण्डकोटिष्वमी ।
हहा बत विडम्बना शिव शिवाद्य नः शृण्वतां
हठादिह कटाक्षयन्त्यखिलवन्द्यमप्यच्युतम् ॥ ऋBह्र्स्_२,४.१५८ ॥

अथ (२८) अमर्षः
अधिक्षेपापमानादेः स्यादमर्षोऽसहिष्णुता ॥ ऋBह्र्स्_२,४.१५९ ॥
तत्र स्वेदः शिरःकम्पो विवर्णत्वं विचिन्तनम् ।
उपायान्वेषणाक्रोशवैमुख्योत्ताडनादयः ॥ ऋBह्र्स्_२,४.१६० ॥

तत्र अधिक्षेपाद्, यथा विदग्धमाधवे (२.५३)
निर्धौतानामखिलधरणीमाधुरीणां धूरीणा
कल्याणी मे निवसति वधूः पश्य पार्श्वे नवोढा ।
अन्तर्गोष्ठे चटुल नटयन्नत्र नेत्रत्रिभागं
निःशङ्कस्त्वं भ्रमसि भविता नाकुलत्वं कुतो मे ॥ ऋBह्र्स्_२,४.१६१ ॥

अपमानाद्, यथा पद्मोक्तिः
कदम्बवनतस्कर द्रुतमपेहि किं चाटुभिर्
जने भवति मद्विधे परिभवो हि नातः परः ।
त्वया व्रजमृगीदृशां सदसि हन्त चन्द्रावली
वरापि यदयोग्यया स्फुटमदूषि ताराख्यया ॥ ऋBह्र्स्_२,४.१६२ ॥

आदिशब्दाद्वञ्चनादपि, यथा श्रीदशमे (१०.३१.१६)
पतिसुतान्वयभार्तृबान्धवान्
अतिविलङ्घ्य तेऽन्त्यच्युतागताः ।
गतिविदस्तवोद्गीतमोहिताः
कितव योषितः कस्त्यजेन्निशि ॥ ऋBह्र्स्_२,४.१६३ ॥

अथ (२९) असूया
द्वेषः परोदयेऽसूयान्यसौभाग्यगुणादिभिः ।
तत्रेर्ष्यानादराक्षेपा दोषारोपो गुणेष्वपि ।
अपवृत्तिस्तिरोवीक्षा भ्रुवोर्भङ्गुरतादयः ॥ ऋBह्र्स्_२,४.१६४ ॥

तत्र अन्यसौभाग्येन, यथा पद्यावल्याम् (३०२) {*आत्त्रिबुतेद्तो डामोदर इन् ড়द्यावली. आल्सो fओउन्दिनामरु ५५; ष्Kं २.१४०.५ केशटस्य; ष्म्व्८६.१४; षाह्ड्३.१०५ (असनेxअम्प्ले ओf मद); डश २.२२.}
मा गर्वमुद्वह कपोलतले चकास्ति
कृष्णस्वहस्तलिखिता नवमञ्जरीति ।
अन्यापि किं न सखि भाजनमीदृशीनां
वैरी न चेद्भवति वेपथुरन्तरायः ॥ ऋBह्र्स्_२,४.१६५ ॥

यथा वा श्रीदशमे (१०.३०.३०)
तस्या अमूनि नः क्षोभं कुर्वन्त्युच्चैः पदानि यत् ।
यैकापहृत्य गोपीनां रहो भुङ्क्तेऽच्युताधरम् ॥ ऋBह्र्स्_२,४.१६६ ॥

गुणेन, यथा
स्वयं पराजयं प्राप्तान् कृष्णपक्षान् विजित्य नः ।
बलिष्ठा बलपक्षाश्चेद्दुर्बलाः के ततः क्षितौ ॥ ऋBह्र्स्_२,४.१६७ ॥

अथ (३०) चापल्यम्
रागद्वेषादिभिश्चित्तलाघवं चापलं भवेत् ।
तत्राविचारपारुष्यस्वच्छन्दाचरणादयः ॥ ऋBह्र्स्_२,४.१६८ ॥

तत्र रागेण, यथा श्रीदशमे (१०.५२.४१)
श्वो भाविनि त्वमजितोद्वहने विदर्भान्
गुप्तः समेत्य पृतनापतिभिः परीतः ।
निर्मथ्य चैद्यमगधेशबलं प्रसह्य
मां राक्षसेन विधिनोद्वह वीर्यशुल्काम् ॥ ऋBह्र्स्_२,४.१६९ ॥

द्वेषेण, यथा
वंशीपूरेण कालिन्द्याः सिन्धुं विन्दतु वाहिता ।
गुरोरपि पुरो नीवीं या भ्रंशयति सुभ्रुवाम् ॥ ऋBह्र्स्_२,४.१७० ॥

अथ (३१) निद्रा
चिन्तालस्यनिसर्गक्लमादिभिश्चित्तमीलनं निद्रा ।
तत्राङ्गभङ्गजृम्भाजाड्यश्वासाक्षिमीलनानि स्युः ॥ ऋBह्र्स्_२,४.१७१ ॥

तत्र चिन्तया, यथा
लोहितायति मार्तण्डे वेणुध्वनिमशृण्वती ।
चिन्तयाक्रान्तहृदया निदद्रौ नन्दगेहिनी ॥ ऋBह्र्स्_२,४.१७२ ॥

आलस्येन, यथा
दामोदरस्य बन्धनकर्मभिरतिनिःसहाङ्गलतिकेयम् ।
दरविघूर्णितोत्तमाङ्गा कृताङ्गभङ्गा व्रजेश्वरी स्फुरति ॥ ऋBह्र्स्_२,४.१७३ ॥

निसर्गेण, यथा
अघहर तव वीर्यप्रोषिताशेषचिन्ताः
परिहृतगृहवास्तुद्वारबन्धानुबद्धाः ।
निजनिजमिह रात्रौ प्राङ्गनं शोभयन्तः
सुखमविचलद्अङ्गाः शेरते पश्य गोपाः ॥ ऋBह्र्स्_२,४.१७४ ॥

क्लमेन, यथा
सङ्क्रान्तधातुचित्रा सुरतान्ते सा नितान्ततान्ताऽद्य ।
वक्षसि निक्षिप्ताङ्गी हरेर्विशाखा ययौ निद्राम् ॥ ऋBह्र्स्_२,४.१७५ ॥

युक्तास्य स्फूर्तिमात्रेण निर्विशेषेण केनचित् ।
हृन्मीलनात्पुरोऽवस्था निद्रा भक्तेषु कथ्यते ॥ ऋBह्र्स्_२,४.१७६ ॥
अथ (३२) सुप्तिः
सुप्तिर्निद्राविभावा स्यान्नानार्थानुभवात्मिका ।
इन्द्रियोपरतिश्वासनेत्रसंमीलनादिकृत् ॥ ऋBह्र्स्_२,४.१७७ ॥

यथा
कामं तामरसाक्ष केलिविततिः प्रादुष्कृता शैशवी
दर्पः सर्पपतेस्तदस्य तरसा निर्धूयतामुद्धूरः ।
इत्युत्स्वप्नगिरा चिराद्यदुसभां विस्मापयन् स्मेरयन्
निःश्वासेन दरोत्तरङ्गद्उदरं निद्रां गतो लाङ्गली ॥ ऋBह्र्स्_२,४.१७८ ॥

अथ (३३) बोधः
अविद्यामोहनिद्रादेर्ध्वंसोद्बोधः प्रबुद्धता ॥ ऋBह्र्स्_२,४.१७९ ॥

तत्र अविद्याध्वंसतः
अविद्याध्वंसतो बोधो विद्योदयपुरःसरः ।
अशेषक्लेशविश्रान्तिस्वरूपावगमादिकृत् ॥ ऋBह्र्स्_२,४.१८० ॥

यथा
विन्दन् विद्यादीपिकां स्वस्वरूपं
बुद्ध्वा सद्यः सत्यविज्ञानरूपम् ।
निष्प्रत्यूहस्तत्परं ब्रह्म मूर्तं
सान्द्रानन्दाकारमन्वेषयामि ॥ ऋBह्र्स्_२,४.१८१ ॥

मोहध्वंसतः
बोधो मोहक्षयाच्छब्दगन्धस्पर्शरसैर्हरेः ।
दृग्उन्मीलनरोमाञ्चधरोत्थानादिकृद्भवेत् ॥ ऋBह्र्स्_२,४.१८२ ॥

तत्र शब्देन, यथा
प्रथमदर्शनरूढसुखावली
कवलितेन्द्रियवृत्तिरभूदियम् ।
अघभिदः किल नाम्न्युदिते श्रुतौ
ललितयोदमिमीलदिहाक्षिणी ॥ ऋBह्र्स्_२,४.१८३ ॥

गन्धेन, यथा
अचिरमघहरेण त्यागतः स्रस्तगात्री
वनभुवि शवलाङ्गी शान्तनिःश्वासवृत्तिः ।
प्रसरति वनमाला सौरभे पश्य राधा
पुलकिततनुरेषा पांशुपुञ्जादुदस्थात् ॥ ऋBह्र्स्_२,४.१८४ ॥
स्पर्शेन, यथा
असौ पाणिस्पर्शो मधुरमसृणः कस्य विजयी
विशीर्यन्त्याः सौरपुलिनवनमालोक्य मम यः ।
दुरन्तामुद्धूय प्रसभमभितो वैशसमयीं
द्रुतं मूर्च्छामन्तः सखि सुखमयीं पल्लवयति ॥ ऋBह्र्स्_२,४.१८५ ॥

रसेन, यथा
अन्तर्हिते त्वयि बलानुज रासकेलौ
स्रस्ताङ्गयष्टिरजनिष्ट सखी विसंज्ञा ।
ताम्बूलचर्वितमवाप्य तवाम्बुजाक्षी
न्यस्तं मया मुखपुटे पुलकोज्ज्वलासीत् ॥ ऋBह्र्स्_२,४.१८६ ॥

निद्राध्वंसतः
बोधो निद्राक्षयात्स्वप्ननिद्रापूर्तिस्वनादिभिः ।
तत्राक्षिमर्दनं शय्यामोक्षोऽङ्गवलनादयः ॥ ऋBह्र्स्_२,४.१८७ ॥

तत्र स्वप्नेन, यथा
इयं ते हासश्रीर्विरमतु विमुञ्चाञ्चलमिदं
न यावद्वृद्धायै स्फुटमभिदधे त्वच्चटुलताम् ।
इति स्वप्ने जल्पन्त्यचिरमवबुद्धा गुरुमसौ
पुरो दृष्ट्वा गौरी नमितमुखबिम्बा मुहुरभूत् ॥ ऋBह्र्स्_२,४.१८८ ॥

निद्रापूर्त्या, यथा
दूती चागात्तद्आगारं जजागार च राधिका ।
तूर्णं पुण्यवतीनां हि तनोति फलमुद्यमः ॥ ऋBह्र्स्_२,४.१८९ ॥

स्वनेन, यथा
दूराद्विद्रावयन्निद्रामरालीर्गोपसुभ्रुवाम् ।
सारङ्गरङ्गदं रेजे वेणुवारिदगर्जितम् ॥ ऋBह्र्स्_२,४.१९० ॥

इति भावास्त्रयस्त्रिंशत्कथिता व्यभिचारिणः ।
श्रेष्ठमध्यकनिष्ठेषु वर्णनीया यथोचितम् ॥ ऋBह्र्स्_२,४.१९१ ॥
मात्सर्योद्वेगदम्भेर्ष्या विवेको निर्णयस्तथा ।
क्लैब्यं क्षमा च कुतुकमुत्कण्ठा विनयोऽपि च ॥ ऋBह्र्स्_२,४.१९२ ॥
संशयो धार्ष्ट्यमित्याद्या भावा ये स्युः परेऽपि च ।
उक्तेष्वन्तर्भवन्तीति न पृथक्त्वेन दर्शिताः ॥ ऋBह्र्स्_२,४.१९३ ॥

तथा हि
असूयायां तु मात्सर्यं त्रासेऽप्युद्वेग एव तु ।
दम्भस्तथावहित्थायामीर्ष्यामर्षे मतावुभौ ।
विवेको निर्णयश्चेमौ दैन्ये क्लैब्यं क्षमा धृतौ ॥ ऋBह्र्स्_२,४.१९४ ॥
औत्सुक्ये कुतुकोत्कण्ठे लज्जायां विनयस्तथा ।
संशयोऽन्तर्भवेत्तर्के तथा धार्ष्ट्यं च चापले ॥ ऋBह्र्स्_२,४.१९५ ॥
एषां सञ्चारिभावानां मध्ये कश्चन कस्यचित् ।
विभावश्चानुभावश्च भवेदेव परस्परम् ॥ ऋBह्र्स्_२,४.१९६ ॥
निर्वेदे तु यथेर्ष्याया भवेदत्र विभावता ।
असूयायां पुनस्तस्या व्यक्तमुक्तानुभावता ॥ ऋBह्र्स्_२,४.१९७ ॥
औत्सुक्यं प्रति चिन्तायाः कथितात्रानुभावता ।
निद्रां प्रति विभावत्वमेवं ज्ञेयः परेऽप्यमी ॥ ऋBह्र्स्_२,४.१९८ ॥
एषां च सात्त्विकानां च तथा नानाक्रियाततेः ।
कार्यकारणभावस्तु ज्ञेयः प्रायेण लोकतः ॥ ऋBह्र्स्_२,४.१९९ ॥
निन्दायास्तु विभावत्वं वैवर्ण्यामर्षयोर्मतम् ।
असूयायां पुनस्तस्याः कथितैवानुभावता ॥ ऋBह्र्स्_२,४.२०० ॥
प्रहारस्य विभावत्वं संमोहप्रलयौ प्रति ।
औग्र्यं प्रत्यनुभावत्वमेवं ज्ञेयाः परेऽपि च ॥ ऋBह्र्स्_२,४.२०१ ॥
त्रासनिद्राश्रमालस्यमदभिद्बोधवर्जिनाम् ।
सञ्चारिणामिह क्वापि भवेद्रत्य्अनुभावता ॥ ऋBह्र्स्_२,४.२०२ ॥
साक्षाद्रतेर्न सम्बन्धः षड्भिस्त्रासादिभिः सह ।
स्यात्परस्परया किन्तु लीलानुगुणताकृते ॥ ऋBह्र्स्_२,४.२०३ ॥
वितर्कमतिनिर्वेदधृतीनां स्मृतिहर्षयोः ।
बोधभिद्दैन्यसुप्तीनां क्वचिद्रतिविभावता ॥ ऋBह्र्स्_२,४.२०४ ॥
परतन्त्राः स्वतन्त्राश्चेत्युक्ताः सञ्चारिणो द्विधा ॥ ऋBह्र्स्_२,४.२०५ ॥

तत्र परतन्त्राः
वरावरतया प्रोक्ताः परतन्त्रा अपि द्विधा ॥ ऋBह्र्स्_२,४.२०६ ॥

तत्र वरः
साक्षाद्व्यवहितश्चेति वरोऽप्येष द्विधोदितः ॥ ऋBह्र्स्_२,४.२०७ ॥

तत्र साक्षात्
मुख्यामेव रतिं पुष्णन् साक्षादित्यभिधीयते ॥ ऋBह्र्स्_२,४.२०८ ॥

यथा
तनुरुहाली च तनुश्च नृत्यं
तनोति मे नाम निशम्य यस्य ।
अपश्यतो माथुरमण्डलं तद्
व्यर्थेन किं हन्त दृशोर्द्वयेन ॥ ऋBह्र्स्_२,४.२०९ ॥

अथ व्यवहितः
पुष्णाति यो रतिं गौणीं स व्यवहितो मतः ॥ ऋBह्र्स्_२,४.२१० ॥

यथा
धिगस्तु मे भुजद्वन्द्वं भीमस्य परिघोपमम् ।
माधवाक्षेपिणं दुष्टं यत्पिनष्टि न चेदिपम् ॥ ऋBह्र्स्_२,४.२११ ॥

निर्वेदः क्रोधवश्यत्वादयं व्यवहितो रतेः ॥ ऋBह्र्स्_२,४.२१२ ॥

अथ अवरः
रसद्वयस्याप्यङ्गत्वमगच्छन्नवरो मतः ॥ ऋBह्र्स्_२,४.२१३ ॥

यथा
लेलिह्यमानं वदनैर्ज्वलद्भिर्
जगन्ति दंष्ट्रास्फुटद्उत्तमाङ्गैः ।
अवेक्ष्य कृष्णं धृतविश्वरूपं
न स्वं विशुष्यन् स्मरति स्म जिष्णुः ॥ ऋBह्र्स्_२,४.२१४ ॥

घोरक्रियाद्य्अनुभावादाच्छाद्य सहजां रतिम् ।
दुर्वराविरभूद्भीतिर्मोहोऽयं भीवशस्ततः ॥ ऋBह्र्स्_२,४.२१५ ॥

अथ स्वतन्त्राः
सदैव पारतन्त्र्येऽपि क्वचिदेषां स्वतन्त्रता ।
भूपालसेवकस्येव प्रवृत्तस्य करग्रहे ॥ ऋBह्र्स्_२,४.२१६ ॥
भावज्ञै रतिशून्यश्च रत्य्अनुस्पर्शनस्तथा ।
रतिगन्धिश्च ते त्रेधा स्वतन्त्राः परिकीर्तिताः ॥ ऋBह्र्स्_२,४.२१७ ॥

तत्र रतिशून्यः
जनेषु रतिशून्येषु रतिशून्यो भवेदसौ ॥ ऋBह्र्स्_२,४.२१८ ॥

यथा श्रीदशमे (१०.२३.३९)
धिग्जन्म नस्त्रिवृद्विद्यां धिग्व्रतं धिग्बहुज्ञताम् ।
धिक्कुलं धिक्क्रियादीक्षां विमुखा ये त्वधोक्षजे ॥ ऋBह्र्स्_२,४.२१९ ॥
अत्र स्वतन्त्रो निर्वेदः ।

तत्र रत्य्अनुस्पर्शनः
यः स्वतो रतिगन्धेन विहीनोऽपि प्रसङ्गतः ।
पश्चाद्रतिं स्पृशेदेष रत्य्अनुस्पर्शनो मतः ॥ ऋBह्र्स्_२,४.२२० ॥

यथा
गरिष्ठारिष्टटङ्कारैर्विधुरा वधिरायिता ।
हा कृष्ण पाहि पाहीति चुक्रोशाभीरबालिका ॥ ऋBह्र्स्_२,४.२२१ ॥
अत्र त्रासः ।

अथ रतिगन्धिः
यः स्वातन्त्र्येऽपि तद्गन्धं रतिगन्धिर्व्यनक्ति सः ॥ ऋBह्र्स्_२,४.२२२ ॥

यथा
पीतांशुकं परिचिनोमि धृतं त्वयाङ्गे
सङ्गोपनाय न हि नप्त्रि विधेहि यत्नम् ।
इत्यार्यया निगदिता नमितोत्तमाङ्गा
राधावगुण्ठितमुखी तरसा तदासीत् ॥ ऋBह्र्स्_२,४.२२३ ॥
अत्र लज्जा ।

आभासः पुनरेतेषामस्थाने वृत्तितो भवेत् ।
प्रातिकूल्यमनौचित्यमस्थानत्वं द्विधोदितम् ॥ ऋBह्र्स्_२,४.२२४ ॥

तत्र प्रातिकूल्यम्
विपक्षे वृत्तिरेतेषां प्रातिकूल्यमितीर्यते ॥ ऋBह्र्स्_२,४.२२५ ॥

यथा
गोपोऽप्यशिक्षितरणोऽपि तमश्वदैत्यं
हन्ति मे हन्त मम जीवितनिर्विशेषम् ।
क्रीडाविनिर्जितसुराधिपतेरलं मे
दुर्जीवितेन हतकंसनराधिपस्य ॥ ऋBह्र्स्_२,४.२२६ ॥
अत्र निर्वेदस्याभासः ।

यथा वा
डुण्डभो जलचरः स कालियो
गोष्ठभूभृदपि लोष्ट्रसोदरः ।
तत्र कर्म किमिवाद्भुतं जने
येन मूर्ख जगदीशतेर्यते ॥ ऋBह्र्स्_२,४.२२७ ॥
अत्रासूयायाः ।

अथ अनौचित्यम्
असत्यत्वमयोग्यत्वमनौचित्यं द्विधा भवेत् ।
अप्राणिनि भवेदाद्यः तिर्यग्आदिषु चान्तिमम् ॥ ऋBह्र्स्_२,४.२२८ ॥

तत्र अप्राणिनि, यथा
छाया न यस्य सकृदप्युपसेविताभूत्
कृष्णेन हन्त मम तस्य धिगस्तु जन्म ।
मा त्वं कदम्ब विधुरो भव कालियाहिं
मृद्नन् करिष्यति हरिश्चरितार्थतां ते ॥ ऋBह्र्स्_२,४.२२९ ॥
अत्र निर्वेदस्य ।

तिरश्चि, यथा
अधिरोहतु कः पक्षी कक्षामपरो ममाद्य मेध्यस्य ।
हित्वापि तार्क्ष्यपक्सं भजते पक्षं हरिर्यस्य ॥ ऋBह्र्स्_२,४.२३० ॥
अत्र गर्वस्य ।

वहमानेष्वपि सदा ज्ञानविज्ञानमाधुरीम् ।
कदम्बादिषु सामान्यदृष्ट्य्आभासत्वमुच्यते ॥ ऋBह्र्स्_२,४.२३१ ॥
भावानां क्वचिदुत्पत्तिसन्धिशावल्यशान्तयः ।
दशाश्चतस्र एतासामुत्पत्तिस्त्विह सम्भवः ॥ ऋBह्र्स्_२,४.२३२ ॥

यथा
मण्डले किमपि चण्डमरीचेर्
लोहितायति निशम्य यशोदा ।
वैणवीं ध्वनिधुरामविदूरे
प्रस्रवस्तिमितकञ्चुलिकासीत् ॥ ऋBह्र्स्_२,४.२३३ ॥
अत्र हर्षोत्पत्तिः ।

यथा वा
त्वयि रहसि मिलन्त्यां सम्भ्रमन्यासभुग्नाप्य्
उषसि सखि तवाली मेखला पश्य भाति ।
इति विवृतरहस्ये कुञ्चितभ्रूर्
दृशमनृजु किरन्ती राधिका वः पुनातु ॥ ऋBह्र्स्_२,४.२३४ ॥
अत्रासूयोत्पत्तिः ।

अथ सन्धिः
सरूपयोर्भिन्नयोर्वा सन्धिः स्याद्भावयोर्युतिः ॥ ऋBह्र्स्_२,४.२३५ ॥

तत्र सरूपयोः सन्धिः
सन्धिः सरूपयोस्तत्र भिन्नहेतूत्थयोर्मतः ॥ ऋBह्र्स्_२,४.२३६ ॥

यथा
राक्षसीं निशि निशाम्य निशान्ते
गोकुलेशगृहिणी पतिताङ्गीम् ।
तत्कुचोपरि सुतं च हसन्तं
हन्त निश्चलतनुः क्षणमासीत् ॥ ऋBह्र्स्_२,४.२३७ ॥
अत्रानिष्टेष्टसंवीक्षाकृतयोर्जाड्ययोर्युतिः ।

अथ भिन्नयोः
भिन्नयोर्हेतुनैकेन भिन्नेनाप्युपजातयोः ॥ ऋBह्र्स्_२,४.२३८ ॥

अथ एकहेतुजयोः, यथा
दुर्वारचापलोऽयं धावन्नन्तर्बहिश्च गोष्ठस्य ।
शिशुरकुतश्चिद्भीतिर्धिनोति हृदयं दुनोति च मे ॥ ऋBह्र्स्_२,४.२३९ ॥
तत्र हर्षशङ्कयोः ।

तत्र भिन्नहेतुजयोः, यथा
विलसन्तमवेक्ष्य देवकी
सुतमुत्फुल्लविलोचनं पुरः ।
प्रबलामपि मल्लमण्डलीं
हिममुष्णं च जलं दृशोर्दधे ॥ ऋBह्र्स्_२,४.२४० ॥
अत्र हर्षविषादयोः सन्धिः ।

एकेन जायमानानामनेकेन च हेतुना ।
बहूनामपि भावानां सन्धिः स्फुटमवेक्ष्यते ॥ ऋBह्र्स्_२,४.२४१ ॥

तत्र एकहेतुजानां, यथा
निरुद्धा कालिन्दीतटभुवि मुकुन्देन बलिना
हठादन्तःस्मेरां तरलतरतारोज्ज्वलकलाम् ।
अभिव्यक्तावज्ञामरुणकुटिलापाङ्गसुषमां
दृशं न्यस्यन्त्यस्मिन् जयति वृषभानोः कुलमणिः ॥ ऋBह्र्स्_२,४.२४२ ॥
अत्र हर्षौत्सुक्यगर्वामर्षासूयानां सन्धिः ।

अनेकहेतुजानां, यथा
परिहितहरिहारा वीक्ष्य राधा सवित्रीं
निकटभुवि तथाग्रे तर्कभाक्स्मेरपद्माम् ।
हरिमपि दरदूरे स्वामिनं तत्र चासीन्
महसि विनतवक्रप्रस्फुरम्लानवक्त्रा ॥ ऋBह्र्स्_२,४.२४३ ॥
अत्र लज्जामर्षहर्षविषादानां सन्धिः ।

अथ शावल्यम्
शवलत्वं तु भावानां संमर्दः स्यात्परस्परम् ॥ ऋBह्र्स्_२,४.२४४ ॥

यथा
शक्तः किं नाम कर्तुं स शिशुरहह मे मित्रपक्षानधाक्षीद्
आतिष्ठेयं तमेव द्रुतमथ शरणं कुर्युरेतन्न वीराः ।
आं दिव्या मल्लगोष्ठी विहरति स करेणोद्दधाराद्रिवर्यं
कुर्यामद्यैव गत्वा व्रजभुवि कदनं हा ततः कम्पते धीः ॥ ऋBह्र्स्_२,४.२४५ ॥
अत्र गर्वविषाददैन्यमतिस्मृतिशङ्कामर्षत्रासानां शावल्यम् ।

यथा वा
धिग्दीर्घे नयने ममास्तु मथुरा याभ्यां न सा प्रेक्ष्यते
विद्येयं मम किङ्करीकृतनृपा कालस्तु सर्वङ्करः ।
लक्ष्मीकेलिगृहं गृहं मम हहा नित्यं तनुः क्षीयते
सद्मन्येव हरिं भजेय हृदयं वृन्दाटवी कर्षति ॥ ऋBह्र्स्_२,४.२४६ ॥
अत्र निर्वेदगर्वशङ्काधृतिविषादमत्य्औत्सुक्यानां शावल्यम् ।

अथ शान्तिः
अत्यारूढस्य भावस्य विलयः शान्तिरुच्यते ॥ ऋBह्र्स्_२,४.२४७ ॥

यथा
विधुरितवदना विदूनभासस्
तमघहरं गहने गवेषयन्तः ।
मृदुकलमुरलीं निशम्य शैले
व्रजशिशवः पुलकोज्ज्वला बभूवुः ॥ ऋBह्र्स्_२,४.२४८ ॥
अत्र विषादशान्तिः ।

शब्दार्थरसवैचित्री वाचि काचन नास्ति मे ।
यथाकथञ्चिदेवोक्तं भावोदाहरणं परम् ॥ ऋBह्र्स्_२,४.२४९ ॥
त्रयस्त्रिंशदिमेऽष्टौ च वक्ष्यन्ते स्थायिनश्च ये ।
मुख्यभावाभिधास्त्वेकचत्वारिंशदमी स्मृताः ॥ ऋBह्र्स्_२,४.२५० ॥
शरीरेन्द्रियवर्गस्य विकारणां विधायकाः ।
भावाविर्भावजनिताश्चित्तवृत्तय ईरिताः ॥ ऋBह्र्स्_२,४.२५१ ॥
क्वचित्स्वाभाविको भावः कश्चिदागन्तुकः क्वचित् ।
यस्तु स्वाभाविको भावः स व्याप्यान्तर्बहिःस्थितः ॥ ऋBह्र्स्_२,४.२५२ ॥
मञ्जिष्ठाद्ये यथा द्रव्ये रागस्तन्मय ईक्ष्यते ।
अत्र स्यान्नाममात्रेण विभावस्य विभावता ॥ ऋBह्र्स्_२,४.२५३ ॥
एतेन सहजेनैव भावेनानुगता रतिः ।
एकरूपापि या भक्तेर्विविधा प्रतिभात्यसौ ॥ ऋBह्र्स्_२,४.२५४ ॥
आगन्तुकस्तु यो भावः पटादौ रक्तिमेव सः ।
तैस्तैर्विभावैरेवायं धीयते दीप्यतेऽपि च ॥ ऋBह्र्स्_२,४.२५५ ॥
विभावनादिवैशिष्ट्याद्भक्तानां भेदतस्तथा ।
प्रायेण सर्वभावानां वैशिष्ट्यमुपजायते ॥ ऋBह्र्स्_२,४.२५६ ॥
विविधानां तु भक्तानां वैशिष्ट्याद्विविधं मनः ।
मनोऽनुसाराद्भावानां तारतम्यं किलोदये ॥ ऋBह्र्स्_२,४.२५७ ॥
चित्ते गरिष्ठे गम्भीरे महिष्ठे कर्कशादिके ।
सम्यग्उन्मीलिताश्चामी न लक्ष्यन्ते स्फुटं जनैः ॥ ऋBह्र्स्_२,४.२५८ ॥
चित्ते लघिष्ठे चोत्ताने क्षोदिष्ठे कोमलादिके ।
मनाग्उन्मीलिताश्चामी लक्ष्यन्ते बहिरुल्बणाः ॥ ऋBह्र्स्_२,४.२५९ ॥
गरिष्ठं स्वर्णपिण्डाभं लघिष्ठं तुलपिण्डवत् ।
चित्तयुग्मेऽत्र विज्ञया भावस्य पवनोपमा ॥ ऋBह्र्स्_२,४.२६० ॥
गम्भीरं सिन्धुवच्चित्तमुत्तानं पल्वलादिवत् ।
चित्तद्वयेऽत्र भावस्य महाद्रिशिखरोपमा ॥ ऋBह्र्स्_२,४.२६१ ॥
पत्तनाभं महिष्ठं स्यात्क्षोदिष्ठं तु कुटिरवत् ।
चित्तयुग्मेऽत्र भावस्य दीपेनेभेन वोपमा ॥ ऋBह्र्स्_२,४.२६२ ॥
कर्कशं त्रिविधं प्रोक्तं वज्रं स्वर्णं तथा जतु ।
चित्तत्रयेऽत्र भावस्य ज्ञेया वैश्वानरोपमा ॥ ऋBह्र्स्_२,४.२६३ ॥
अत्यन्तकठिनं वज्रमकुतश्चन मार्दवम् ।
ईदृशं तापसादीनां चित्तं तावदवेक्ष्यते ॥ ऋBह्र्स्_२,४.२६४ ॥
स्वर्णं द्रवति भावाग्नेस्तापेनातिगरीयसा ।
जतु द्रवत्वमायाति तापलेशेन सर्वतः ॥ ऋBह्र्स्_२,४.२६५ ॥
कोमलं च त्रिधैवोक्तं मदनं नवनीतकम् ।
अमृतं चेति भावोऽत्र प्रायः सूर्यातपायते ॥ ऋBह्र्स्_२,४.२६६ ॥
द्रवेदत्राद्ययुगलमातपेन यथायथम् ।
द्रवीभूतं स्वभावेन सर्वदैवामृतं भवेत् ।
गोविन्दप्रेष्ठवर्याणां चित्तं स्यादमृतं किल ॥ ऋBह्र्स्_२,४.२६७ ॥
कृष्णभक्तिविशेषस्य गरिष्ठत्वादिभिर्गुणैः ।
समवेतं सदामीभिर्द्वित्रैरपि मनो भवेत् ॥ ऋBह्र्स्_२,४.२६८ ॥
किन्तु सुष्ठु महिष्ठत्वं भावो बाढमुपागतः ।
सर्वप्रकारमेवेदं चित्तं विक्षोभयत्यलम् ॥ ऋBह्र्स्_२,४.२६९ ॥

यथा दानकेलिकौमुद्याम् (४)
गभीरोऽप्यश्रान्तं दुरधिगमपारोऽपि नितराम्
अहार्यां मर्यादां दधदपि हरेरास्पदमपि ।
सतां स्तोमः प्रेमण्युदयति समग्रे स्थगयितुं
विकारं न स्फारं जलनिधिरिवेन्दौ प्रभवति ॥ ऋBह्र्स्_२,४.२७० ॥

इति श्रीश्रीभक्तिरसामृतसिन्धौ दक्षिणविभागे
भक्तिरससामान्यनिरूपणे व्यभिचारिलहरी चतुर्थी ॥

___________________________________________________

(२.५)
स्थायिभावाख्या पञ्चमलहरी

अविरुद्धान् विरुद्धांश्च भावान् यो वशतां नयन् ।
सुराजेव विराजेत स स्थायी भाव उच्यते ॥ ऋBह्र्स्_२,५.१ ॥
स्थायी भावोऽत्र स प्रोक्तः श्रीकृष्णविषया रतिः ।
मुख्या गौणी च सा द्वेधा रसज्ञैः परिकीर्तिता ॥ ऋBह्र्स्_२,५.२ ॥

तत्र मुख्या
शुद्धसत्त्वविशेषात्मा रतिर्मुख्येति कीर्तिता ।
मुख्यापि द्विविधा स्वार्था परार्था चेति कीर्त्यते ॥ ऋBह्र्स्_२,५.३ ॥

तत्र स्वार्था
अविरुद्धैः स्फुटं भावैः पुष्णात्यात्मानमेव या ।
विरुद्धैर्दुःखग्लानिः सा स्वार्था कथिता रतिः ॥ ऋBह्र्स्_२,५.४ ॥

अथ परार्था
अविरुद्धं विरुद्धं च सङ्कुचन्ती स्वयं रतिः ।
या भावमनुगृह्णाति सा परार्था निगद्यते ॥ ऋBह्र्स्_२,५.५ ॥
शुद्धा प्रीतिस्तथा सख्यं वात्सल्यं प्रियतेत्यसौ ।
स्वपरार्थ्यैव सा मुख्या पुनः पञ्चविधा भवेत् ॥ ऋBह्र्स्_२,५.६ ॥
वैशिष्ट्यं पात्रवैशिष्ट्याद्रतिरेषोपगच्छति ।
यथार्कः प्रतिबिम्बात्मा स्फटिकादिषु वस्तुषु ॥ ऋBह्र्स्_२,५.७ ॥

तत्र शुद्धा
सामान्यासौ तथा स्वच्छा शान्तिश्चेत्यादिमा त्रिधा ।
एषाङ्गकम्पतानेत्रामीलनोन्मीलनादिकृत् ॥ ऋBह्र्स्_२,५.८ ॥

तत्र सामान्या
कञ्चिद्विशेषमप्राप्ता साधारणजनस्य या ।
बालिकदैश्च कृष्णे स्यात्सामान्या सा रतिर्मता ॥ ऋBह्र्स्_२,५.९ ॥

यथा
अस्मिन्मथुरावीथ्यामुदयति मधुरे विरोचने पुरतः ।
कथस्व सखे म्रदिमानं मानसमदनं किमेति मम ॥ ऋBह्र्स्_२,५.१० ॥

यथा वा
त्रिवर्षा बालिका सेयं वर्षीयसि समीक्ष्यताम् ।
या पुरः कृष्णमालोक्य हुङ्कुर्वत्यभिधावति ॥ ऋBह्र्स्_२,५.११ ॥

अथ स्वच्छा
तत्तत्साधनतो नानाविधभक्तिप्रसङ्गतः ।
साधाकानां तु वैविध्यं यान्ती स्वच्छा रतिर्मता ॥ ऋBह्र्स्_२,५.१२ ॥
यदा यादृशी भक्ते स्यादासक्तिस्तादृशं तदा ।
रूपं स्फटिकवद्धत्ते स्वच्छासौ तेन कीर्तिता ॥ ऋBह्र्स्_२,५.१३ ॥

यथा
क्वचित्प्रभुरिति स्तुवन् क्वचन मित्रमित्युद्धसन्
क्वचित्तनय इत्यवन् क्वचन कान्त इत्युल्लसन् ।
क्वचिन्मनसि भावयन् परम एष आत्मेत्यसाव्
अभूद्विविधसेवया विविधवृत्तिरार्यो द्विजः ॥ ऋBह्र्स्_२,५.१४ ॥

अनाचान्तधियां तत्तद्भावनिष्ठा सुखार्णवे ।
आर्याणामतिशुद्धानां प्रायः स्वच्छा रतिर्भवेत् ॥ ऋBह्र्स्_२,५.१५ ॥

अथ शान्तिः
मानसे निर्विकल्पत्वं शम इत्यभिधीयते ॥ ऋBह्र्स्_२,५.१६ ॥

तथ चोक्तम्
विहाय विषयोन्मुख्यं निजानन्दस्थितिर्यतः ।
आत्मनः कथ्यते सोऽत्र स्वभावः शम इत्यसौ ॥ ऋBह्र्स्_२,५.१७ ॥

प्रायः शमप्रधानानां ममतागन्धवर्जिता ।
परमात्मतया कृष्णे जाता शान्तरतिर्मता ॥ ऋBह्र्स्_२,५.१८ ॥

यथा
देवर्षिवीणया पीते हरिलीलामहोत्सवे ।
सनकस्य तनौ कम्पो ब्रह्मानुभविनोऽप्यभूत् ॥ ऋBह्र्स्_२,५.१९ ॥

यथा वा
हरिवल्लभसेवया समन्ताद्
अपरवर्गानुभवं किलावधीर्य ।
घनसुन्दरमात्मनोऽप्यभीष्टं
परमं ब्रह्म दिदृक्षते मनो मे ॥ ऋBह्र्स्_२,५.२० ॥

अग्रतो वक्ष्यमाणैस्तु स्वादैः प्रीत्य्आदिसंश्रयैः ।
रतेरस्या असम्पर्कादियं शुद्धेति भण्यते ॥ ऋBह्र्स्_२,५.२१ ॥
अथ भेदत्रयी हृद्या रतेः प्रीत्य्आदिरीर्यते ।
गाढानुकूलतोत्पन्ना ममत्वेन सदाश्रिता ॥ ऋBह्र्स्_२,५.२२ ॥
कृष्णभक्तेष्वनुग्राह्यसखिपूज्येष्वनुक्रमात् ।
त्रिविधेषु त्रयी प्रीतिः सख्यं वत्सलतेत्यसौ ॥ ऋBह्र्स्_२,५.२३ ॥
अत्र नेत्रादिफुल्लत्वजृम्भणोद्घूर्णनादयः ।
केवला सङ्कुला चेति द्विविधेयं रतित्रयी ॥ ऋBह्र्स्_२,५.२४ ॥

तत्र केवला
रत्य्अन्तरस्य गन्धेन वर्जिता केवला भवेत् ।
व्रजानुगे रसालादौ श्रीदामादौ वयस्यके ।
गुरौ च व्रजनाथादौ क्रमेणैव स्फुरत्यसौ ॥ ऋBह्र्स्_२,५.२५ ॥

तत्र सङ्कुला
एषां द्वयोस्त्रयाणां वा सन्निपातस्तु सङ्कुला ।
उद्भवादौ च भीमादौ मथुरादौ क्रमेण सा ।
यस्याधिक्यं भवेद्यत्र स तेन व्यपदिश्यते ॥ ऋBह्र्स्_२,५.२६ ॥

अथ प्रीतिः
स्वस्माद्भवन्ति ये न्यूनास्तेऽनुग्राह्या हरेर्मताः ।
आराध्यत्वात्मिका तेषां रतिः प्रीतिरितीरिता ॥ ऋBह्र्स्_२,५.२७ ॥
तत्रासक्तिकृदन्यत्र प्रीतिसंहारिणी ह्यसौ ॥ ऋBह्र्स्_२,५.२८ ॥

यथा मुकुन्दमालायाम् (८)–
दिवि वा भुवि वा ममास्तु वासो
नरके वा नरकान्तक प्रकामम् ।
अवधीरितशारदारविन्दौ
चरणौ ते मरणेऽपि चिन्तयामि ॥ ऋBह्र्स्_२,५.२९ ॥

अथ सख्यम्
ये स्युस्तुल्या मुकुन्दस्य ते सखायः सतां मताः ।
साम्याद्विश्रम्भरूपैषां रतिः सख्यमिहोच्यते ।
परिहासप्रहासादिकारिणीयमयन्त्रणा ॥ ऋBह्र्स्_२,५.३० ॥

यथा
मां पुष्पितारण्यदिदृक्षयागतं
निमेषविश्लेषविदीर्णमानसाः ।
ते संस्पृशन्तः पुलकाञ्चितश्रियो
दूरादहंपूर्विकयाद्य रेमिरे ॥ ऋBह्र्स्_२,५.३१ ॥

यथा वा
श्रीदामदोर्विलसितेन कृतोऽसि कामं
दामोदर त्वमिह दर्पधुरा दरिद्रः ।
सद्यस्त्वया तदपि कथनमेव कृत्वा
देव्यै ह्रिये त्रयमदायि ज्वलाञ्जलीनाम् ॥ ऋBह्र्स्_२,५.३२ ॥

अथ वात्सल्यम्
गुरवो ये हरेरस्य ते पूज्या इति विश्रुताः ।
अनुग्रहमयी तेषां रतिर्वात्सल्यमुच्यते ।
इदं लालनभव्याशीश्चिबुकस्पर्शनादिकृत् ॥ ऋBह्र्स्_२,५.३३ ॥

यथा
अग्रासि यन्निरभिसन्धिविरोधभाजः
कंसस्य किङ्करगणैर्गिरितोऽप्युदग्रैः ।
गास्तत्र रक्षितुमसौ गहने मृदुर्मे
बालः प्रयात्यविरतं बत किं करोमि ॥ ऋBह्र्स्_२,५.३४ ॥

यथा वा
सुतमङ्गुलिभिः स्नुतस्तनी
चिबुकाग्रे दधती दयार्द्रधीः ।
समलालयदालयात्पुरः
स्थितिभाजं व्रजराजगेहिनी ॥ ऋBह्र्स्_२,५.३५ ॥

मिथो हरेर्मृगाक्ष्याश्च सम्भोगस्यादिकारणम् ।
मधुरापरपर्याया प्रियताख्योदिता रतिः ।
अस्यां कटाक्षभ्रूक्षेपप्रियवाणीस्मितादयः ॥ ऋBह्र्स्_२,५.३६ ॥

यथा गोविन्दविलासे
चिरमुत्कुण्ठितमनसो राधामुरवैरिणोः कोऽपि ।
निभृतनिरीक्षणजन्मा प्रत्याशापल्लवो जयति ॥ ऋBह्र्स्_२,५.३७ ॥

यथोत्तरमसौ स्वादविशेषोल्लासमय्यपि ।
रतिर्वासनया स्वाद्वी भासते कापि कस्यचित् ॥ ऋBह्र्स्_२,५.३८ ॥

अथ गौणी
विभावोत्कर्षजो भावविशेषो योऽनुगृह्यते ।
सङ्कुचन्त्या स्वयं रत्या स गौणी रतिरुच्यते ॥ ऋBह्र्स्_२,५.३९ ॥
हासो विस्मय उत्साहः शोकः क्रोधो भयं तथा ।
जुगुप्सा चेत्यसौ भावविशेषः सप्तधोदितः ॥ ऋBह्र्स्_२,५.४० ॥
अपि कृष्णविभावत्वमाद्यषट्कस्य सम्भवेत् ।
स्याद्देहादिविभावत्वं सप्तम्यास्तु रतेर्वशात् ॥ ऋBह्र्स्_२,५.४१ ॥
हासादावत्र भिन्नेऽपि शुद्धसत्त्वविशेषतः ।
परार्थाया रतेर्योगाद्रतिशब्दः प्रयुज्यते ॥ ऋBह्र्स्_२,५.४२ ॥
हासोत्तरा रतिर्या स्यात्सा हासरतिरुच्यते ।
एवं विस्मयरत्य्आद्या विज्ञेया रतयश्च षट् ॥ ऋBह्र्स्_२,५.४३ ॥
कञ्चित्कालं क्वचिद्भक्ते हासाद्याः स्थायिताममी ।
रत्या चारुकृता यान्ति तल्लीलाद्य्अनुसारतः ॥ ऋBह्र्स्_२,५.४४ ॥
तस्मादनियताधाराः सप्त सामयिका इमे ।
सहजा अपि लीयन्ते बलिष्ठेन तिरस्कृताः ॥ ऋBह्र्स्_२,५.४५ ॥
काप्यव्यभिचरन्ती सा स्वाधारान् स्वस्वरूपतः ।
रतिरात्यन्तिकस्थायी भावो भक्तजनेऽ खिले ।
स्युरेतस्या विनाभावाद्भावाः सर्वे निरर्थकाः ॥ ऋBह्र्स्_२,५.४६ ॥
विपक्षादिषु यान्तोऽपि क्रोधाद्याः स्थायितां सदा ।
लभन्ते रतिशून्यत्वान्न भक्तिरसयोग्यताम् ॥ ऋBह्र्स्_२,५.४७ ॥
अविरुद्धैरपि स्पृष्टा भावैः सञ्चारिणोऽखिलाः ।
निर्वेदाद्या विलीयन्ते नार्हन्ति स्थायितां ततः ॥ ऋBह्र्स्_२,५.४८ ॥
इत्यतो मतिगर्वादिभावानां घटते न हि ।
स्थायिता कैश्चिदिष्टापि प्रमाणं तत्र तद्विदः ॥ ऋBह्र्स्_२,५.४९ ॥
सप्त हासादयस्त्वेते तैस्तैर्नीताः सुपुष्टताम् ।
भक्तेषु स्थायितां यान्तो रुचिरेभ्यो वितन्वते ॥ ऋBह्र्स्_२,५.५० ॥

तथा चोक्तम्
अष्टानामेव भावानां संस्काराधायिता मता ।
तत्तिरस्कृतसंस्काराः परे न स्थायितोचिताः ॥ ऋBह्र्स्_२,५.५१ ॥

तत्र हासरतिः
चेतोविकासो हासः स्याद्वाग्वेषेहादिवैकृतात् ।
स दृग्विकासनसौष्ठकपोलस्पन्दनादिकृत् ॥ ऋBह्र्स्_२,५.५२ ॥
कृष्णसम्बन्धिचेष्टोत्थः स्वयं सङ्कुचद्आत्मना ।
प्रत्यानुगृह्यमाणोऽयं हासो हासरतिर्भवेत् ॥ ऋBह्र्स्_२,५.५३ ॥

यथा
मया दृगपि नार्पिता सुमुखि दध्नि तुभ्यं शपे
सखी तव निरर्गला तदपि मे मुखं जिघ्रति ।
प्रशाधि तदिमां मुधा च्छलितसाधुमित्यच्युते
वदत्यजनि दूतिका हसितरोधने न क्षमा ॥ ऋBह्र्स्_२,५.५४ ॥

अथ विस्मयरतिः
लोकोत्तरार्थवीक्षादेर्विस्मयश्चित्तविस्तृतिः ।
अत्र स्युर्नेत्रविस्तारसाधूक्तिपुलकादयः ।
पूर्वोक्तरीत्या निष्पन्नः स विस्मयरतिर्भवेत् ॥ ऋBह्र्स्_२,५.५५ ॥

यथा
गवां गोपालानामपि शिशुगणः पीतवसनो
लसच्छ्रीवत्साङ्कः पृथुभुजचतुष्कैर्धृतरुचिः ।
कृतस्तोत्रारम्भः स विधिभिरजाण्डालिभिरलं
परब्रह्मोल्लासान् वहति किमिदं हन्त किमिदम् ॥ ऋBह्र्स्_२,५.५६ ॥

अथ उत्साहरतिः
स्थेयसी साधुभिः श्लाघ्यफले युद्धादिकर्मणि ।
सत्वरा मानसासक्तिरुत्साह इति कीर्त्यते ॥ ऋBह्र्स्_२,५.५७ ॥
कालानवेक्षणं तत्र धैर्यत्यागोद्यमादयः ।
सिद्धः पूर्वोक्तविधिना स उत्साह रतिर्भवेत् ॥ ऋBह्र्स्_२,५.५८ ॥

यथा
कालिन्दीतटभुवि पत्रशृङ्गवंशी
निक्वाणैरिह मुखरीकृताम्बरायाम् ।
विस्फूर्जन्नघदमनेन योद्धुकामः
श्रीदामा परिकरमुद्भटं बबन्ध ॥ ऋBह्र्स्_२,५.५९ ॥
अथ शोकरतिः
शोकस्त्विष्टवियोगाद्यैश्चित्तक्लेशभरः स्मृतः ।
विलापपातनिःश्वासमुखशोषभ्रमादिकृत् ।
पूर्वोक्तविधिनैवायं सिद्धः शोकरतिर्भवेत् ॥ ऋBह्र्स्_२,५.६० ॥

यथा श्रीदशमे (१०.७.२५)
रुदितमनु निशम्य तत्र गोप्यो
भृशमनुतप्तधियोऽश्रुपूर्णमुख्यः ।
रुरुदुरनुपलभ्य नन्दसूनुं
पवन उपारतपांशुवर्षवेगे ॥ ऋBह्र्स्_२,५.६१ ॥

यथा वा
अवलोक्य फणीन्द्रयन्त्रितं
तनयं प्राणसहस्रवल्लभम् ।
हृदयं न विदीर्यति द्विधा
धिगिमां मर्त्यतनोः कठोरताम् ॥ ऋBह्र्स्_२,५.६२ ॥

अथ क्रोधरतिः
प्रातिकूल्यादिभिश्चित्तज्वलनं क्रोध ईर्यते ।
पारुष्यभ्रूकुटीनेत्रलौहित्यादिविकारकृत् ॥ ऋBह्र्स्_२,५.६३ ॥
एवं पूर्वोक्तवत्सिद्धं विदुः क्रोधरतिं बुधाः ।
द्विधासौ कृष्णतद्वैरिभावत्वेन कीर्तिता ॥ ऋBह्र्स्_२,५.६४ ॥

अथ कृष्णविभावाः, यथा
कण्ठसीमनि हरेर्द्युतिभाजं
राधिकामणिसरं परिचित्य ।
तं चिरेण जटिला विकटभ्रू
भङ्गभीमतरदृष्टिर्ददर्श ॥ ऋBह्र्स्_२,५.६५ ॥

तद्वैरिविभावाः, यथा
अथ कंससहोदरोग्रदावे
हरिमभ्युद्यति तीव्रहेतिभाजि ।
रभसादलिकाम्बरे प्रलम्ब
द्विषतोऽभूद्भ्रूकुटीपयोदरेखा ॥ ऋBह्र्स्_२,५.६६ ॥

अथ भयरतिः
भयं चित्तातिचाञ्चल्यं मन्तुघोरेक्षणादिभिः ।
आत्मगोपनहृच्छोषविद्रवभ्रमणादिकृत् ॥ ऋBह्र्स्_२,५.६७ ॥
निष्पन्नं पूर्ववदिदं बुधा भयरतिं विदुः ।
एषापि क्रोधरतिवद्द्विविधा कथिता बुधैः ॥ ऋBह्र्स्_२,५.६८ ॥

तत्र कृष्णविभावाः
याचितः पटिमभिः स्यमन्तकं
शौरिणा सदसि गान्दिनीसुतः ।
वस्त्रगूढमणिरेष मूढधीस्
तत्र शुष्यद्अधरः क्लमं ययौ ॥ ऋBह्र्स्_२,५.६९ ॥

दुष्टविभावजाः, यथा
भैरवं ब्रुवति हन्त हन्त गोकुल
द्वारि वारिदनिभे वृषासुरे ।
पुत्रगुप्तिधृतयत्नवैभवा
कम्प्रमूर्तिरभवद्व्रजेश्वरी ॥ ऋBह्र्स्_२,५.७० ॥

अथ जुगुप्सारतिः
जुगुप्सा स्यादहृद्यानुभवाच्चित्तनिमीलनम् ।
तत्र निष्ठीवनं वक्त्रकूणनं कुत्सनादयः ।
रतेरनुग्रहाज्जाता सा जुगुप्सारतिर्मता ॥ ऋBह्र्स्_२,५.७१ ॥

यथा
यदवधि मम चेतः कृष्णपादारविन्दे
नवनवरसधामन्युद्यतं रन्तुमासीत् ।
तदवधि बत नारीसङ्गमे स्मर्यमाने
भवति मुखविकारः सुष्ठुनिष्ठीवनं च ॥ ऋBह्र्स्_२,५.७२ ॥

रतित्वात्प्रथमैकैव सप्त हासादयस्तथा ।
इत्यष्टौ स्थायिनो यावद्रसावस्थां न संश्रिताः ॥ ऋBह्र्स्_२,५.७३ ॥
चेत्स्वतन्त्रास्त्रयस्त्रिंशद्भवेयुर्व्यभिचारिणः ।
इहाष्टौ सात्त्विकाश्चैते भावाख्यास्तानसङ्ख्यकाः ॥ ऋBह्र्स्_२,५.७४ ॥
कृष्णान्वयाद्गुणातीतप्रौढानन्दमया अपि ।
भान्त्यमी त्रिगुणोत्पन्नसुखदुःखमया इव ॥ ऋBह्र्स्_२,५.७५ ॥
तत्र स्फुरन्ति ह्रीबोधोत्साहाद्याः सात्त्विका इव ।
तथा राजसवद्गर्वहर्षसुप्तिहसादयः ।
विषाददीनतामोहशोकाद्यास्तामसा इव ॥ ऋBह्र्स्_२,५.७६ ॥
प्रायः सुखमयाः शीता उष्णा दुःखमया इह ।
चित्रेयं परमानन्दसान्द्राप्युष्णा रतिर्मता ॥ ऋBह्र्स्_२,५.७७ ॥
शीतैर्भावैर्बलिष्ठैस्तु पुष्टा शीतायते ह्यसौ ।
उष्णैस्तु रतिरत्युष्णा तापयन्तीव भासते ॥ ऋBह्र्स्_२,५.७८ ॥
रतिर्द्विधापि कृष्णाद्यैः श्रुतैरवगतैः स्मृतैः ।
तैर्विभावादितां यद्भिस्तद्भक्तेषु रसो भवेत् ॥ ऋBह्र्स्_२,५.७९ ॥
यथा दध्य्आदिकं द्रव्यं शर्करामरिचादिभिः ।
संयोजनविशेषेण रसालाख्यो रसो भवेत् ॥ ऋBह्र्स्_२,५.८० ॥
तदत्र सर्वथा साक्षात्कृष्णाद्य्अनुभवाद्भुतः ।
प्रौढानन्दचमत्कारो भक्तैः कोऽप्यनुरस्यते ॥ ऋBह्र्स्_२,५.८१ ॥
स रत्य्आदिविभावाद्यैरेकीभावमयोऽपि सन् ।
ज्ञप्ततत्तद्विशेषश्च तत्तद्उद्भेदतो भवेत् ॥ ऋBह्र्स्_२,५.८२ ॥

यथा चोक्तम्
प्रतीयमानाः प्रथमं विभावाद्यास्तु भागशः ।
गच्छन्तो रसरूपत्वं मिलिता यान्त्यखण्डताम् ॥ ऋBह्र्स्_२,५.८३ ॥
यथा मरिचखण्डादेरेकीभावे प्रपानके ।
उद्भासः कस्यचित्क्वापि विभावादेस्तथा रसे ॥ ऋBह्र्स्_२,५.८४ ॥

रते कारणभूता ये कृष्णकृष्णप्रियादयः ।
स्तम्भाद्याः कारभूताश्च निर्वेदाद्याः सहायकाः ॥ ऋBह्र्स्_२,५.८५ ॥
हित्वा कारणकार्यादिशब्दवाच्यत्वमत्र ते ।
रसोद्बोधे विभावादिव्यपदेशत्वमाप्नुयुः ॥ ऋBह्र्स्_२,५.८६ ॥
रतेस्तु तत्तद्आस्वादविशेषायातियोग्यताम् ।
विभावयन्ति कुर्वन्तीत्युक्ता धीरैर्विभावकाः ॥ ऋBह्र्स्_२,५.८७ ॥
तां चानुभावयन्त्यन्तस्तद्वन्त्यास्वादनिर्भराम् ।
इत्युक्ता अनुभावास्ते कटाक्षाद्याः ससात्त्विकाः ॥ ऋBह्र्स्_२,५.८८ ॥
सञ्चारयन्ति वैचित्रीं नयन्ते तां तथाविधाम् ।
ये निर्वेदादयो भावास्ते तु सञ्चारिणो मताः ॥ ऋBह्र्स्_२,५.८९ ॥
एतेषां तु तथाभावे भगवत्काव्यनाट्ययोः ।
सेवामाहुः परं हेतुं केचित्तत्पक्षरागिणः ॥ ऋBह्र्स्_२,५.९० ॥
किन्तु तत्र सुदुस्तर्कमाधुर्याद्भुतसम्पदः ।
रतेरस्याः प्रभावोऽयं भवेत्कारणमुत्तमम् ॥ ऋBह्र्स्_२,५.९१ ॥
महाशक्तिविलासात्मा भावोऽचिन्त्यस्वरूपभाक् ।
रत्य्आख्या इत्ययं युक्तो न हि तर्केण बाधितुम् ।
भारताद्य्उक्तिरेषा हि प्राक्तनैरप्युदाहृता ॥ ऋBह्र्स्_२,५.९२ ॥

यथोक्तमुद्यमपर्वणि [म.भा. ६.६.११]
अचिन्त्याः खलु ये भावा न तांस्तर्केण योजयेत्
प्रकृतिभ्यः परं यच्च तदचिन्त्यस्य लक्षणम् ॥ ऋBह्र्स्_२,५.९३ ॥

विभावतादीनानीय कृष्णादीन्मञ्जुला रतिः ।
एतैरेव तथाभूतैः स्वं संवर्धयति स्फुटम् ॥ ऋBह्र्स्_२,५.९४ ॥
यथा स्वैरेव सलिलैः परिपूर्य बलाहकान् ।
रत्नालयो भवत्येभिर्वृष्टैस्तैरेव वारिधिः ॥ ऋBह्र्स्_२,५.९५ ॥
नवे रत्य्अङ्कुरे जाते हरिभक्तस्य कस्यचित् ।
विभावत्वादिहेतुत्वं किञ्चित्तत्काव्यनाट्ययोः ॥ ऋBह्र्स्_२,५.९६ ॥
हरेरीषच्छ्रुतिविधौ रसास्वादः सतां भवेत् ।
रतेरेव प्रभावोऽयं हेतुस्तेषां तथाकृतौ ॥ ऋBह्र्स्_२,५.९७ ॥
माधुर्याद्य्आश्रयत्वेन कृष्णादींस्तनुते रतिः ।
तथानुभूयमानास्ते विस्तीर्णां कुर्वते रतिम् ॥ ऋBह्र्स्_२,५.९८ ॥
अतस्तस्य विभावादिचतुष्कस्य रतेरपि ।
अत्र साहायिकं व्यक्तं मिथोऽजस्रमवेक्ष्यते ॥ ऋBह्र्स्_२,५.९९ ॥
किन्त्वेतस्याः प्रभावोऽपि वैरूप्ये सति कुञ्चति ।
वैरूप्यस्तु विभावादेरनौचित्यमुदीर्यते ॥ ऋBह्र्स्_२,५.१०० ॥
अलौकिक्या प्रकृत्येयं सुदुरूहा रसस्थितिः ।
यत्र साधारणतया भावाः साधु स्फुरन्त्यमी ॥ ऋBह्र्स्_२,५.१०१ ॥
एषां स्वपरसम्बन्धनियमानिर्णयो हि यः ।
साधारण्यं तदेवोक्तं भावानां पूर्वसूरिभिः ॥ ऋBह्र्स्_२,५.१०२ ॥

तदुक्तं श्रीभरतेन
शक्तिरस्ति विभावादेः कापि साधारणीकृतौ ।
प्रमाता तद्अभेदेन स्वं यया प्रतिपद्यते ॥ ऋBह्र्स्_२,५.१०३ ॥ इति ।

दुःखादयः स्फुरन्तोऽपि जातु भान्तः स्वीयतया हृदि ।
प्रौढानन्दचमत्कारचर्वणामेव तन्वते ॥ ऋBह्र्स्_२,५.१०४ ॥
पराश्रयतयाप्येते जातु भान्तः सुखादयः ।
हृदये परमानन्दसन्दोहमुपचिन्वते ॥ ऋBह्र्स्_२,५.१०५ ॥
सद्भावश्चेद्विभावादेः किञ्चिन्मात्रस्य जायते ।
सद्यश्चतुष्टयाक्षेपात्पूर्णतैवोपपद्यते ॥ ऋBह्र्स्_२,५.१०६ ॥

किं च
रतिः स्थितानुकार्येषु लौकिकत्वादिहेतुभिः ।
रसः स्यान्नेति नाट्यज्ञा यदाहुर्युक्तमेव तत् ॥ ऋBह्र्स्_२,५.१०७ ॥
अलौकिकी त्वियं कृष्णरतिः सर्वाद्भुताद्भुता ।
योगे रसविशेषत्वं गच्छन्त्येव हरिप्रिये ॥ ऋBह्र्स्_२,५.१०८ ॥
वियोगे त्वद्भुतानन्दविवर्तत्वं दधत्यपि ।
तनोत्येषा प्रगाढार्तिभराभासत्वमूर्जिता ॥ ऋBह्र्स्_२,५.१०९ ॥
तत्रापि वल्लवाधीशनन्दनालम्बना रतिः ।
सान्द्रानन्दचमत्कारपरमावधिरिष्यते ॥ ऋBह्र्स्_२,५.११० ॥
यत्सुखौघलवागस्त्यः पिबत्येव स्वतेजसा ।
रेमशमाधुरीसाक्षात्कारानन्दाब्धिमप्यलम् ॥ ऋBह्र्स्_२,५.१११ ॥

किं च
परमानन्दतादात्म्याद्रत्यादेरस्य वस्तुतः ।
रसस्य स्वप्रकाशत्वमखण्डत्वं च सिध्यति ॥ ऋBह्र्स्_२,५.११२ ॥
पूर्वमुक्ताद्द्विधा भ्देदान्मुख्यगौणतया रतेः ।
भवेद्भक्तिरसोऽप्येष मुख्यगौणतया द्विधा ॥ ऋBह्र्स्_२,५.११३ ॥
पञ्चधापि रतेरैक्यान्मुख्यस्त्वेक इहोदितः ।
सप्तधात्र तथा गौण इति भक्तिरसोऽष्टधा ॥ ऋBह्र्स्_२,५.११४ ॥

तत्र मुख्यः
मुख्यस्तु पञ्चधा शान्तः प्रीतः प्रेयांश्च वत्सलः ।
मधुरश्चेत्यमी ज्ञेया यथापूर्वमनुत्तमाः ॥ ऋBह्र्स्_२,५.११५ ॥

अथ गौणः
हास्योऽद्भुतस्तथा वीरः करुणो रौद्र इत्यपि ।
भयानकः स बीभत्स इति गौणश्च सप्तधा ॥ ऋBह्र्स्_२,५.११६ ॥
एवं भक्तिरसो भेदाद्द्वयोर्द्वादशधोच्यते ।
वस्तुतस्तु पुराणादौ पञ्चधैव विलोक्यते ॥ ऋBह्र्स्_२,५.११७ ॥
श्वेतश्चित्रोऽरुणः शोणः श्यामः पाण्डुरपिङ्गलौ ।
गौरो धूम्रस्तथा रक्तः कालो नीतः क्रमादमी ॥ ऋBह्र्स्_२,५.११८ ॥
कपिलो माधवोपेन्द्रौ नृसिंहो नन्दनन्दनः ।
बलः कूर्मस्तथा कल्की राघवो भार्गवः किरिः ।
मीन इत्येषु कथिताः क्रमाद्द्वादश देवताः ॥ ऋBह्र्स्_२,५.११९ ॥
पूर्तेर्विकारविस्तारविक्षेपक्षोभतस्तथा ।
सर्वभक्तिरसास्वादः पञ्चधा परिकीर्तितः ॥ ऋBह्र्स्_२,५.१२० ॥
पूर्तिः शान्ते विकाशस्तु प्रीतादिष्वपि पञ्चसु ।
वीरेऽद्भुते च विस्तारो विक्षेपः करुणोग्रयोः ।
भयानकेऽथ बीभत्से क्षोभो धीरैरुदाहृतः ॥ ऋBह्र्स्_२,५.१२१ ॥
अखण्डसुखरूपत्वेऽप्येषामस्ति क्वचित्क्वचित् ।
रसेषु गहनास्वादविशेषः कोऽप्यनुत्तमः ॥ ऋBह्र्स्_२,५.१२२ ॥
प्रतीयमाना अप्यज्ञैर्ग्राम्यैः सपदि दुःखवत् ।
करुणाद्या रसाः प्राज्ञैः प्रौढानन्दमया मताः ॥ ऋBह्र्स्_२,५.१२३ ॥
अलौकिकविभावत्वं नीतेभ्यो रतिलीलया ।
सद्उक्त्या च सुखं तेभ्यः स्यात्सुव्यक्तमिति स्थितिः ॥ ऋBह्र्स्_२,५.१२४ ॥

तथा च नाट्यादौ
करुणादावपि रसे जायते यत्परं सुखम् ।
सुचेतसामनुभवः प्रमाणं तत्र केवलम् ॥ ऋBह्र्स्_२,५.१२५ ॥

सर्वत्र करुणाख्यस्य रसस्यैवोपपादनात् ।
भवेद्रामायणादीनामन्यथा दुःखहेतुता ॥ ऋBह्र्स्_२,५.१२६ ॥
तथात्वे रामपादाब्जप्रेमकल्लोलवारिधिः ।
प्रीत्या रामायणं नित्यं हनुमान् शृणुयात्कथम् ॥ ऋBह्र्स्_२,५.१२७ ॥

अपि च
सञ्चारी स्यात्समानो वा कृष्णरत्याः सुहृद्रतिः ।
अधिका पुष्यमाणा चेद्भावोल्लासा रतिः ॥ ऋBह्र्स्_२,५.१२८ ॥
फल्गुवैराग्यनिर्दग्धाः शुष्कज्ञानाश्च हैतुकाः ।
मीमांसका विशेषेण भक्त्यास्वादबहिर्मुखाः ॥ ऋBह्र्स्_२,५.१२९ ॥
इत्येष भक्तिरसिकश्चौरादिव महानिधिः ।
जरन्मीमांसकाद्रक्ष्यः कृष्णभक्तिरसः सदा ॥ ऋBह्र्स्_२,५.१३० ॥
सर्वथैव दुरूहोऽयमभक्तैर्भगवद्रसः ।
तत्पादाम्बुजसर्वस्वैर्भक्तैरेवानुरस्यते ॥ ऋBह्र्स्_२,५.१३१ ॥
व्यतीत्य भावनावर्त्म यश्चमत्कारकारभूः ।
हृदि सत्त्वोज्ज्वले बाढं स्वदते स रसो मतः ॥ ऋBह्र्स्_२,५.१३२ ॥
भावनायाः पदे यस्तु बुधेनानन्यबुद्धिना ।
भाव्यते गाढसंस्कारैश्चित्ते भावः स कथ्यते ॥ ऋBह्र्स्_२,५.१३३ ॥

गोपालरूपशोभां दधदपि रघुनाथभावविस्तारी ।
तुष्यतु सनातनात्मा दैक्षिणविभागे सुधाम्बुनिधेः ॥ ऋBह्र्स्_२,५.१३४ ॥

इति श्रीश्रीभक्तिरसामृतसिन्धौ दक्षिणविभागे
भक्तिरससामान्यनिरूपणे स्थायिभावलहरी पञ्चमी ।

इति श्रीश्रीभक्तिरसामृतसिन्धौ
सामान्यभगवद्भक्तिरसनिरूपको नाम
दक्षिणविभागः समाप्तः ॥

___________________________________________________

(३)
मुख्यभक्तिरसनिरूपकः
पश्चिमविभागः

(३.१)
शान्तिभक्तिरसाख्या
प्रथमलहरी

धृतमुग्धरूपभारो भागवतार्पितपृथुप्रेमा ।
स मयि सनातनमूर्तिस्तनोतु पुरुषोत्तमस्तुष्टिम् ॥ ऋBह्र्स्_३,१.१ ॥
रसामृताब्धेर्भागेऽत्र तृतीये पश्चिमाभिधे ।
मुख्यो भक्तिरसः पञ्चविधः शान्तादीरीर्यते ॥ ऋBह्र्स्_३,१.२ ॥
अतोऽत्र पाञ्चविध्येन लहर्यः पञ्च कीर्तिताः ।
अथामी पञ्च लक्ष्यन्ते रसाः शान्तादयः क्रमात् ॥ ऋBह्र्स्_३,१.३ ॥

तत्र शान्तभक्तिरसः
वक्ष्यमाणैर्विभावाद्यैः शमिनां स्वाद्यतां गतः
स्थायी शान्तिरतिर्धीरैः शान्तभक्तिरसः स्मृतः ॥ ऋBह्र्स्_३,१.४ ॥
प्रायः स्वसुखजातीयं सुखं स्यादत्र योगिनाम् ।
किन्त्वात्मसौख्यमघनं घनं त्वीशमयं सुखम् ॥ ऋBह्र्स्_३,१.५ ॥
तत्रापीशस्वरूपानुभवस्यैवोरुहेतुता ।
दासादिवन्मनोज्ञत्वलीलादेर्न तथा मता ॥ ऋBह्र्स्_३,१.६ ॥

तत्र आलम्बनाः
चतुर्भुजश्च शान्ताश्च अस्मिन्नालम्बना मताः ॥ ऋBह्र्स्_३,१.७ ॥

तत्र चतुर्भुजः
श्यामाकृतिः स्फुरति चारुचतुर्भुजोऽयम्
आनन्दराशिरखिलात्मसिन्धुतरङ्गः ।
यस्मिन् गते नयनयोः पथि निर्जिहीते
प्रत्यक्पदात्परमहंसमुनेर्मनोऽपि ॥ ऋBह्र्स्_३,१.८ ॥

सच्चिदानन्दसान्द्राङ्ग आत्मारामशिरोमणिः ।
परमात्मा परं ब्रह्म शमो दान्तः शुचिर्वशी ॥ ऋBह्र्स्_३,१.९ ॥
सदा स्वरूपसम्प्राप्तो हतारिगतिदायकः ।
विभुरित्यादि गुणवानस्मिन्नालम्बनो हरिः ॥ ऋBह्र्स्_३,१.१० ॥

अथ शान्ताः
शान्ताः स्युः कृष्णतत्प्रेष्ण्हकारुण्येन रतिं गताः ।
आत्मारामास्तदीयाध्वबद्धश्रद्धाश्च तापसाः ॥ ऋBह्र्स्_३,१.११ ॥

अथ आत्मारामाः
आत्मारामास्तु सनकसनन्दमुखा मताः ।
प्राधान्यात्सनकादीनां रूपं भक्तिश्च कथ्यते ॥ ऋBह्र्स्_३,१.१२ ॥

तत्र रूपम्
ते पञ्चषाब्दबालाभाश्चत्वारस्तेजसोज्ज्वलाः ।
गौराङ्गा वातवसनाः प्रायेण सहचारिणः ॥ ऋBह्र्स्_३,१.१३ ॥

तत्र च भक्तिः
समस्तगुणवर्जिते करणतः प्रतीचीनतां
गते किमपि वस्तुनि स्वयमदीपि तावत्सुखम् ।
न यावदियमद्भुता नवतमालनीलद्युतेर्
मुकुन्द सुखचिद्घना तव बभूव साक्षात्कृतिः ॥ ऋBह्र्स्_३,१.१४ ॥

अथ तापसाः
भक्तिर्मुक्त्यैव निर्विघ्नेत्यात्तयुक्तविरक्तताः ।
अनुज्झितमुमुक्षा ये भजन्ते ते तु तापसाः ॥ ऋBह्र्स्_३,१.१५ ॥

यथा
कदा शैलद्रोण्यां पृथुलविटपिक्रोडवसतिर्
वसानः कौपीनं रचितफलकन्दाशनरुचिः ।
हृदि ध्यायं ध्यायं मुहुरिह मुकुन्दाभिधमहं
चिदानन्दं ज्योतिः क्षणमिव विनेष्यामि रजनीः ॥ ऋBह्र्स्_३,१.१६ ॥

भक्तात्मारामकरुणा प्रपञ्चेनैव तापसाः ।
शान्ताख्यभावचन्द्रस्य हृद्आकाशे कलां श्रिताः ॥ ऋBह्र्स्_३,१.१७ ॥

अथ उद्दीपनाः
श्रुतिर्महोपनिषदां विविक्तस्थानसेवनम् ।
अन्तर्वृत्तिविशेषोऽस्य स्फूर्तिस्तत्त्वविवेचनम् ॥ ऋBह्र्स्_३,१.१८ ॥
विद्याशक्तिप्रधानत्वं विश्वरूपप्रदर्शनम् ।
ज्ञानिभक्तेन संसर्गो ब्रह्मसत्रादयस्तथा ।
एष्वसाधारणाः प्रोक्ता बुधैरुद्दीपना अमी ॥ ऋBह्र्स्_३,१.१९ ॥

अत्र महोपनिषच्छ्रुतिः, यथा
अक्लेशाः कमलभुवः प्रविश्य गोष्ठीं
कुर्वन्तः श्रुतिशिरसां श्रुतिं श्रुतज्ञाः ।
उत्तुङ्गं यद्उपरसङ्गमाय रङ्गं
योगीन्द्राः पुलकभृतो नवाप्यवापुः ॥ ऋBह्र्स्_३,१.२० ॥

पादाब्जतुलसीगन्धः शङ्खनादो मुरद्विषः ।
पुण्यशैलः शुभारण्यं सिद्धक्षेत्रं स्वरापगा ॥ ऋBह्र्स्_३,१.२१ ॥
विषयादिक्षयिष्णुत्वं कालस्याखिलहारिता ।
इत्याद्युद्दीपना साधारणास्तेषां किलाश्रितैः ॥ ऋBह्र्स्_३,१.२२ ॥

अथ पादाब्जतुलसीगन्धो, यथा तृतीये (३.१५.४३)
तस्यारविन्दनयनस्य पदारविन्द
किञ्जल्कमिश्रतुलसीमकरन्दवायुः ।
अन्तर्गतः स्वविवरेण चकार तेषां
सङ्क्षोभमक्षरजुषामपि चित्ततन्वोः ॥ ऋBह्र्स्_३,१.२३ ॥

अथ अनुभावाः
नासाग्रन्यस्तनेत्रत्वमवधूतविचेष्टितम् ।
युगमात्रेक्षितगतिर्ज्ञानमुद्राप्रदर्शनम् ॥ ऋBह्र्स्_३,१.२४ ॥
हरेर्द्विष्यपि न द्वेषो नातिभक्तिः प्रियेष्वपि ।
सिद्धतायास्तथा जीवन्मुक्तेश्च बहुमानिता ॥ ऋBह्र्स्_३,१.२५ ॥
नैरपेक्ष्यं निर्ममता निरहङ्कारिता कथा ।
मौनमित्यादयः शीताः स्युरसाधारणाः क्रियाः ॥ ऋBह्र्स्_३,१.२६ ॥

तत्र नासाग्रनयनत्वं, यथा
नासिकाग्रदृगयं पुरो मुनिः
स्पन्दबन्धुरशिरा विराजते ।
चित्तकन्दरतटीमनाकुलाम्
अस्य नूनमवगाहते हरिः ॥ ऋBह्र्स्_३,१.२७ ॥

जृम्भाङ्गमोटनं भक्तेरुपदेशो हरेर्नतिः ।
स्तवादयश्च दासाद्यैः शीताः साधारणाः क्रियाः ॥ ऋBह्र्स्_३,१.२८ ॥

तत्र जृम्भा, यथा
हृदयाम्बरे ध्रुवं ते
भावाम्बरमणिरुदेति योगीन्द्र ।
यदिदं वदनाम्भोजं
जृम्भामवलम्बते भवतः ॥ ऋBह्र्स्_३,१.२९ ॥

अथ सात्त्विकाः
रोमाञ्चस्वेदकम्पाद्याः सात्त्विकाः प्रलयं विना ॥ ऋBह्र्स्_३,१.३० ॥

अथ रोमाञ्चो, यथा
पाञ्चजन्यजनितो ध्वनिरन्तः
क्षोभयन् सपदि बिद्धसमाधिः ।
योगिनां गिरिगुहानिलयानां
पुद्गले पुलकपालिमनैषीत् ॥ ऋBह्र्स्_३,१.३१ ॥

एषां निरभिमानानां शरीरादिषु योगिनाम् ।
सात्त्विकास्तु ज्वलन्त्येव न तु दीप्ता भवन्त्यमी ॥ ऋBह्र्स्_३,१.३२ ॥

अथ सञ्चारिणः
सञ्चारिनोऽत्र निर्वेदो धृतिर्हर्षो मतिः स्मृतिः ।
विषादोत्सुकतावेगवितर्काद्याः प्रकीर्तिताः ॥ ऋBह्र्स्_३,१.३३ ॥

तत्र निर्वेदो, यथा
अस्मिन् सुखघनमूर्तौ
परमात्मनि वृष्णिपत्तने स्फुरति
आत्मारामतया मे
वृथा गतो बत चिरं कालः ॥ ऋBह्र्स्_३,१.३४ ॥

अथ स्थायी
अत्र शान्तिरतिः स्थायी समा सान्द्रा च सा द्विधा ॥ ऋBह्र्स्_३,१.३५ ॥

तत्र आद्या, यथा
समाधौ योगिनस्तस्मिन्नसम्प्रज्ञातनामनि ।
लीलया मयि लब्धेऽस्य बभूवोत्कम्पिनी तनुः ॥ ऋBह्र्स्_३,१.३६ ॥

सान्द्रा, यथा
सर्वाविद्याध्वंसतो यः समस्ताद्
आविर्भूतो निर्विकल्पे समाधौ ।
जाते साक्षाद्यादवेन्द्रे स विन्दन्
मय्यानन्दः सान्द्रतां कोटिधासीत् ॥ ऋBह्र्स्_३,१.३७ ॥

शान्तो द्विधैष पारोक्ष्यसाक्षात्कारविभेदतः ॥ ऋBह्र्स्_३,१.३८ ॥

अथ परोक्ष्यं, यथा
प्रयास्यति महत्तपः सफलतां किमष्टाङ्गिका
मुनीश्वर पुरातनी परमयोगचर्याप्यसौ ।
नराकृतिनवाम्बुदद्युतिधरं परं ब्रह्म मे
विलोचनचमत्कृतिं कथय किं नु निर्मास्यति ॥ ऋBह्र्स्_३,१.३९ ॥

यथा वा
क्षेत्रे कुरोः किमपि चण्डकरोपरागे
सान्द्रं महः पथि विलोचनयोर्यदासीत् ।
तन्नीरदद्युतिजयि स्मरदुत्सुकं मे
न प्रत्यग्आत्मनि मनो रमते पुरेव ॥ ऋBह्र्स्_३,१.४० ॥

साक्षात्कारो, यथा
परमात्मतयातिमेदुराद्
बत साक्षात्करणप्रमोदतः ।
भगवन्नधिकं प्रयोजनं
कतरद्ब्रह्मविदोऽपि विद्यते ॥ ऋBह्र्स्_३,१.४१ ॥

यथा वा
हृष्टः कम्बुपतिस्वनैर्भुवि लुठच्चीराञ्चलः सञ्चलन्
मूर्ध्ना रुद्धदृग्अश्रुभिः पुलकितो द्रागेष लीनव्रतः ।
अक्ष्णोरङ्गनमञ्जनत्विषि परब्रह्मण्यवाप्ते मुदा
मुद्राभिः प्रकटीकरोत्यवमतिं योगी स्वरूपस्थितौ ॥ ऋBह्र्स्_३,१.४२ ॥

भवेत्कदाचित्कुत्रापि नन्दसूनोः कृपाभरः ।
प्रथमं ज्ञाननिष्ठोऽपि सोऽत्रैव रतिमुद्वहेत् ॥ ऋBह्र्स्_३,१.४३ ॥

यथा बिल्वमङ्गलोक्तिः
अद्वैतवीथीपथिकैरुपास्याः
स्वानन्दसिंहासनलब्धदीक्षाः ।
शठेन केनापि वयं हठेन
दासीकृता गोपवधूविटेन ॥ ऋBह्र्स्_३,१.४४ ॥

तत्कारुण्यश्लथीभूतज्ञानसंस्कारसन्ततिः ।
एष भक्तिरसानन्दनिपुणः स्याद्यथा शुकः ॥ ऋBह्र्स्_३,१.४५ ॥
शमस्य निर्विकारत्वान्नाट्यज्ञैर्नैष मन्यते ।
शान्त्य्आख्याया रतेरत्र स्वीकारान्न विरुध्यते ॥ ऋBह्र्स्_३,१.४६ ॥
शमो मन्निष्ठता बुद्धेरिति श्रीभगवद्वचः* ।
तन्निष्ठा दुर्घटा बुद्धेरेतां शान्तरतिं विना ॥ ऋBह्र्स्_३,१.४७ ॥
{*११.१९.३६}

केवलशान्तोऽपि, श्रीविष्णुधर्मोत्तरे यथा
नास्ति यत्र सुखं दुःखं न द्वेषो न च मत्सरः ।
समः सर्वेषु भूतेषु स शान्तः प्रथितो रसः ॥ ऋBह्र्स्_३,१.४८ ॥

सर्वथैवमहङ्काररहितत्वं व्रजन्ति चेत् ।
अत्रान्तर्भावमर्हन्ति धर्मवीरादयस्तदा ॥ ऋBह्र्स्_३,१.४९ ॥
स्थायिनमेके तु निर्वेदस्थायिनं परे ।
शान्तमेव रसं पूर्वे प्राहुरेकमनेकधा ॥ ऋBह्र्स्_३,१.५० ॥
निर्वेदो विषये स्थायि तत्त्वज्ञानोद्भवः स चेत् ।
इष्टानिष्टवियोगाप्तिकृतस्तु व्यभिचार्यसौ ॥ ऋBह्र्स्_३,१.५१ ॥

इति श्रीश्रीभक्तिरसामृतसिन्धौ
पश्चिमविभागे मुख्यभक्तिरसपञ्चकनिरूपणे
शान्तभक्तिरसलहरी प्रथमा ।

___________________________________________________

(३.२)
प्रीतिभक्तिरसाख्या
द्वितीयलहरी

श्रीधरस्वामिभिः स्पष्टमयमेव रसोत्तमः ।
रङ्गप्रसङ्गे सप्रेमकाख्यः प्रकीर्तितः ॥ ऋBह्र्स्_३,२.१ ॥
रतिस्थायितया नामकौमुदीकृद्भिरप्यसौ ।
शान्तत्वेनायमेवाद्धा सुदेवाद्यैश्च वर्णितः ॥ ऋBह्र्स्_३,२.२ ॥
आत्मोचितैर्विभावाद्यैः प्रीतिरास्वादनीयताम् ।
नीता चेतसि भक्तानां प्रीतिभक्तिरसो मतः ॥ ऋBह्र्स्_३,२.३ ॥
अनुग्राह्यस्य दासत्वाल्लाल्यत्वादप्ययं द्विधा ।
भिद्यते सम्भ्रमप्रीतो गौरवप्रीत इत्यपि ॥ ऋBह्र्स्_३,२.४ ॥
दासाभिमानिनां कृष्णे स्यात्प्रीतिः सम्भ्रमोत्तरा ।
पूर्ववत्पुष्यमाणोऽयं सम्भ्रमप्रीत उच्यते ॥ ऋBह्र्स्_३,२.५ ॥

तत्र आलम्बनाः
हरिश्च तस्य दासाश्च ज्ञेया आलम्बना इह ॥ ऋBह्र्स्_३,२.६ ॥
तत्र हरिः
आलम्बनोऽस्मिन् द्विभुजः कृष्णो गोकुलवासिषु ।
अन्यत्र द्विभुजः क्वापि कुत्राप्येषु चतुर्भुजः ॥ ऋBह्र्स्_३,२.७ ॥

तत्र व्रजे
नवाम्बुधरबन्धुरः करयुगेन वक्त्राम्बुजे
निधाय मुरलीं स्फुरत्पुरटनिन्दि पट्टाम्बरः ।
शिखण्डकृतशेखरः शिखरिणस्तटे पर्यटन
प्रभुर्दिवि दिवौकसो भुवि धिनोति नः किङ्करान् ॥ ऋBह्र्स्_३,२.८ ॥

अन्यत्र द्विभुजो, यथा
प्रभुरयमनिशं पिशङ्गवासाः
करयुगभागरिकम्बुरम्बुदाभः ।
नवघन इव चञ्चलापिनद्धो
रविशशिमण्डलमण्डितश्चकास्ति ॥ ऋBह्र्स्_३,२.९ ॥

तत्र चतुर्भुजो, यथा ललितमाधवे (५.१५)
चञ्चत्कौस्तुभकौमुदीसमुदयः कौमोदकीचक्रयोः
सख्येनोज्ज्वलितैस्तथा जलजयोराढ्यश्चतुर्भिर्भुजैः ।
दिव्यालङ्करणेन सङ्कटतनुः सङ्गी विहङ्गेशितुर्
मां व्यस्मारयदेष कंसविजयी वैकुण्ठगोष्ठीश्रियम् ॥ ऋBह्र्स्_३,२.१० ॥

ब्रह्माण्डकोटिधामैकरोमकूपः कृपाम्बुधिः ।
अविचिन्त्यमहाशक्तिः सर्वसिद्धिनिषेवितः ॥ ऋBह्र्स्_३,२.११ ॥
अवतारावलीबीजं सदात्मारामहृद्गुणः ।
ईश्वरः परमाराध्यः सर्वज्ञः सुदृढव्रतः ॥ ऋBह्र्स्_३,२.१२ ॥
समृद्धिमान् क्षमाशीलः शरणागतपालकः ।
दक्षिणः सत्यवचनो दक्षः सर्वशुभङ्करः ॥ ऋBह्र्स्_३,२.१३ ॥
प्रतापी धार्मिकः शास्त्रचक्षुर्भक्तसुहृत्तमः ।
वदान्यस्तेजसा युक्तः कृतज्ञः कीर्तिसंश्रयः ॥ ऋBह्र्स्_३,२.१४ ॥
वरीयान् बलवान् प्रेमवश्य इत्यादिभिर्गुणैः ।
युतश्चतुर्विधेष्वेष दासेष्वालम्बनो हरिः ॥ ऋBह्र्स्_३,२.१५ ॥

अथ दासाः
दासास्तु प्रश्रितास्तस्य निदेशवशवर्तिणः ।
विश्वस्ताः प्रभुताज्ञानविनम्रितधियश्च ते ॥ ऋBह्र्स्_३,२.१६ ॥

यथा
प्रभुरयमखिलैर्गुणैर्गरीयान्
इह तुलनामपरः प्रयाति नास्य ।
इति परिणतनिर्णयेन नम्रान्
हितचरितान् हरिसेवकान् भजध्वम् ॥ ऋBह्र्स्_३,२.१७ ॥

चतुर्धामी अधिकृताश्रितपारिषदानुरागाः ॥ ऋBह्र्स्_३,२.१८ ॥

तत्र अधिकृताः
ब्रह्मशङ्करशक्राद्याः प्रोक्ता अधिकृता बुधैः ।
रूपं प्रसिद्धमेवैषां तेन भक्तिरुदीर्यते ॥ ऋBह्र्स्_३,२.१९ ॥

यथा
का पर्येत्यम्बिकेयं हरिमवकलयन् कम्पते कः शिरोऽसौ
तं कः स्तौत्येष धाता प्रणमति विलुठन् कः क्षितौ वासवोऽयम् ।
कः स्तब्धो हस्यतेऽद्धा दनुजभिद्अनुजैः पूर्वजोऽयं ममेत्थं
कालिन्दी जाम्बवत्यां त्रिदशपरिचयं जालरन्ध्राद्व्यतानीत् ॥ ऋBह्र्स्_३,२.२० ॥

अथ आश्रिताः
ते शरण्या ज्ञानिचराः सेवानिष्ठास्त्रिधाश्रिताः ॥ ऋBह्र्स्_३,२.२१ ॥

यथा
केचिद्भीताः शरणमभितः संश्रयन्ते भवन्तं
विज्ञातार्थास्त्वद्अनुभवतः प्रास्य केचिन्मुमुक्षाम् ।
श्रावं श्रावं तव नवनवां माधुरीं साधुवृन्दाद्
वृन्दारण्योत्सव किल वयं देव सेवेमहि त्वाम् ॥ ऋBह्र्स्_३,२.२२ ॥

तत्र शरण्याः
शरण्याः कालियजरासन्धबद्धनृपादयः ॥ ऋBह्र्स्_३,२.२३ ॥

यथा
अपि गहनागसि नागे
प्रभुवर मय्यद्भुताद्य ते करुणा ।
भक्तैरपि दुर्लभया
यदहं पदमुद्रयोज्ज्वलितः ॥ ऋBह्र्स्_३,२.२४ ॥

यथा वा अपराधभञ्जने
कामादीनां कति न कतिधा पालिता दुर्निदेशास्
तेषां जाता मयि न करुणा न त्रपा नोपशान्तिः ।
उत्सृज्यैतानथ यदुपते साम्प्रतं लब्धबुद्धिस्
त्वामायातः शरणमभयं मां नियुङ्क्ष्वात्मदास्ये ॥ ऋBह्र्स्_३,२.२५ ॥

अथ ज्ञानिचराः
ये मुमुक्षां परित्यज्य हरिमेव समाश्रिताः ।
शौनकप्रमुखास्ते तु प्रोक्ता ज्ञानिचराः बुधैः ॥ ऋBह्र्स्_३,२.२६ ॥

यथा वा हरिहक्तिसुधोदये
अहो महात्मन् बहुदोषदुष्टोऽप्य्
एकेन भात्येष भवो गुणेन ।
सत्सङ्गमाख्येन सुखावहेन
कृताद्य नो येन कृशा मुमुक्षा ॥ ऋBह्र्स्_३,२.२७ ॥

यथा वा पद्यावल्याम् (७७)
ध्यानातीतं किमपि परमं ये तु जानन्ति तत्त्वं
तेषामास्तां हृदयकुहरे शुद्धचिन्मात्र आत्मा ।
अस्माकं तु प्रकृतिमधुरः स्मेरवक्त्रारविन्दो
मेघश्यामः कनकपरिधिः पङ्कजाक्षोऽयमात्मा ॥ ऋBह्र्स्_३,२.२८ ॥

अथ सेवानिष्ठाः
मूलतो भजनासक्ताः सेवानिष्ठा इतीरिताः ।
चन्द्रध्वजो हरिहयो बहुलाश्वस्तथा नृपाः ।
इक्ष्वाकुः श्रुतदेवाश्च पुण्डरीकादयश्च ते ॥ ऋBह्र्स्_३,२.२९ ॥

यथा
आत्मारामानपि गमयति त्वद्गुणो गानगोष्ठीं
शून्योद्याने नयति विहगानप्यलं भिक्षुचर्याम् ।
इत्युत्कर्षं कमपि सचमत्कारमाकर्ण्य चित्रं
सेवायां ते स्फुटमघहर श्रद्धया गर्धितोऽस्मि ॥ ऋBह्र्स्_३,२.३० ॥

अथ पारिषदाः
उद्धवो दारुको जैत्रः श्रुतदेवश्च शत्रुजित् ।
नन्दोपनन्दभद्राद्याः पार्षदा यदुपत्तने ॥ ऋBह्र्स्_३,२.३१ ॥
नियुक्ताः सन्त्यमी मन्त्रसारथ्यादिषु कर्मसु ।
तथापि क्वाप्यवसरे परिचर्यां च कुर्वते ।
कौरवेषु तथा भीष्मपरीक्षिद्विदुरादयः ॥ ऋBह्र्स्_३,२.३२ ॥

तेषां रूपं, यथा
सरसाः सरसीरुहाक्षवेषास्
त्रिदिवेशावलिजैत्रकान्तिलेशाः ।
यदुवीरसभासदः सदामी
प्रचुरालङ्करणोज्ज्वला जयन्ति ॥ ऋBह्र्स्_३,२.३३ ॥

भक्तिः, यथा
शंसन् धुर्जटिनिर्जयादिविरुदं बाष्पावरुद्धाक्षरं
शङ्कापञ्चलवं मदादगणयन् कालाग्निरुद्रादपि ।
त्वय्येवार्पितबुद्धिरुद्धवमुखस्त्वत्पार्षदानां गणो
द्वारि द्वारवतीपुरस्य पुरतः सेवोत्सुकस्तिष्ठति ॥ ऋBह्र्स्_३,२.३४ ॥

एतेषां प्रवरः श्रीमानुद्धवः प्रेमविक्लवः ॥ ऋBह्र्स्_३,२.३५ ॥

तस्य रूपं
कालिन्दीमधुरत्विषं मधुपतेर्माल्येन निर्माल्यतां
लब्धेनाञ्चितमम्बरेण च लसद्गोरोचनारोचिषा ।
द्वन्द्वेनार्गलसुन्दरेण भुजयोर्जिष्णुमब्जेक्षणं
मुख्यं पारिषदेषु भक्तिलहरीरुद्धं भजाम्युद्धवम् ॥ ऋBह्र्स्_३,२.३६ ॥

भक्तिः, यथा
मूर्धन्याहुकशासनं प्रणयते ब्रह्मेशयोः शासिता
सिन्धुं प्रार्थयते भुवं तनुतरां ब्रह्माण्डकोटीश्वरः ।
मन्त्रं पृच्छति मामपेशलधियं विज्ञानवारां निधिर्
विक्रीडत्यसकृद्विचित्रचरितः सोऽयं प्रभुर्मादृशाम् ॥ ऋBह्र्स्_३,२.३७ ॥

अथ अनुगाः
सर्वदा परिचर्यासु प्रभोरासक्तचेतसः ।
पुरस्थाश्च व्रजस्थाश्चेत्युच्यते अनुगा द्विधा ॥ ऋBह्र्स्_३,२.३८ ॥

तत्र पुरस्थाः
सुचन्द्रो मण्डनः स्तम्बः सुतम्बाद्याः पुरानुगाः ।
एषां पार्षदवत्प्रायो रूपालङ्कारणादयः ॥ ऋBह्र्स्_३,२.३९ ॥

सेवा यथा
उपरि कनकदण्डं मण्डनो विस्तृणीते
धुवति किल सुचन्द्रश्चामरं चन्द्रचारुम् ।
उपहरति सुतम्बः सुष्ठु ताम्बूलवीटीं
विदधति परिचर्याः साधवो माधवस्य ॥ ऋBह्र्स्_३,२.४० ॥

अथ व्रजस्थाः
रक्तकः पत्रकः पत्री मधुकण्ठो मधुव्रतः ।
रसालसुविलासाश्च प्रेमकन्दो मरन्दकः ॥ ऋBह्र्स्_३,२.४१ ॥
आनन्दश्चन्द्रहासश्च पयोदो वकुलस्तथा ।
रसदः शारदाद्याश्च व्रजस्था अनुगा मताः ॥ ऋBह्र्स्_३,२.४२ ॥

एषां रूपं, यथा
मणिमयवरमण्डनोज्ज्वलाङ्गान्
पुरटजवामधुलिट्पटीरभासः ।
निजवपुर्अनुरूपदिव्यवस्त्रान्
व्रजपतिनन्दनकिङ्करान्नमामि ॥ ऋBह्र्स्_३,२.४३ ॥

सेवा, यथा
द्रुतं कुरु परिष्कृतं बकुल पीतपट्टांशुकं
वरैरगुरुभिर्जलं रचय वासितं वारिद ।
रसाल परिकल्पयोरगलतादलैर्वीटिकाः
परागपटली गवां दिशमरुन्ध पौरन्दरीम् ॥ ऋBह्र्स्_३,२.४४ ॥

व्रजानुगेषु सर्वेषु वरीयान् रक्तको मतः ॥ ऋBह्र्स्_३,२.४५ ॥

अस्य रूपं, यथा
रम्यपिङ्गपटमङ्गरोचिषा
खर्वितोरुशतपर्विकारुचम् ।
सुष्ठु गोष्ठयुवराजसेविनं
रक्तकण्ठमनुयामि रक्तकम् ॥ ऋBह्र्स्_३,२.४६ ॥

भक्तिः, यथा
गिरिवरभृति भर्तृदारकेऽस्मिन्
व्रजयुवराजतया गते प्रसिद्धिम् ।
शृणु रसद सदा पदाभिसेवा
पट्टिमरता रतिरुत्तमा ममास्तु ॥ ऋBह्र्स्_३,२.४७ ॥

धूर्यो धीरश्च वीरश्च त्रिधा पारिषद्आदिकः ॥ ऋBह्र्स्_३,२.४८ ॥

तत्र धूर्यः
कृष्णेऽस्य प्रेयसीवर्गे दासादौ च यथायथम् ।
यः प्रीतिं तनुते भक्तः स धूर्य इह कीर्त्यते ॥ ऋBह्र्स्_३,२.४९ ॥

यथा
देवः सेव्यतया यथा स्फुरति मे देव्यस्तथास्य प्रियाः
सर्वः प्राणसमानतां प्रचिनुते तद्भक्तिभाजां गणः ।
स्मृत्वा साहसिकं बिभेमि तमहं भक्ताभिमानोन्नतं
प्रीतिं तत्प्रणते खरेऽप्यविदधद्यः स्वास्थ्यमालम्बते ॥ ऋBह्र्स्_३,२.५० ॥

अथ धीरः
आश्रित्य प्रेयसीमस्य नातिसेवापरोऽपि यः ।
तस्य प्रसादपात्रं स्यान्मुख्यं धीरः स उच्यते ॥ ऋBह्र्स्_३,२.५१ ॥

यथा
कमपि पृथग्अनुच्चैर्नाचरामि प्रयत्नं
यदुकुलकमलार्क त्वत्प्रसादश्रियेऽपि ।
समजनि ननु देव्याः पारिजातार्चितायाः
परिजननिखिलान्तःपातिनी मे यद्आख्या ॥ ऋBह्र्स्_३,२.५२ ॥

अथ वीरः
कृपां तस्य समाश्रित्य प्रौढां नान्यमपेक्षते ।
अतुलां यो वहन् कृष्णे प्रीतिं वीरः स उच्यते ॥ ऋBह्र्स्_३,२.५३ ॥

यथा
प्रलम्बरिपुरीश्वरो भवतु का कृतिस्तेन मे
कुमारमकरध्वजादपि न किञ्चिदास्ते फलम् ।
किमन्यदहमुद्धतः प्रभुकृपाकटाक्षश्रिया
प्रिया परिषद्अग्रिमां न गणयामि भामामपि ॥ ऋBह्र्स्_३,२.५४ ॥

चतुर्थे च (४.२०.२८)
जगज्जनन्यां जगद्ईश वैशसं
स्यादेव यत्कर्मणि नः समीहितम्
करोषि फल्ग्वप्युरु दीनवत्सलः
स्व एव धिष्ण्येऽभिरतस्य किं तया ॥ ऋBह्र्स्_३,२.५५ ॥

एतेषु तस्य दासेषु त्रिविधेष्वाश्रितादिषु ।
नित्यसिद्धाश्च सिद्धाश्च साधकाः परिकीर्तितः ॥ ऋBह्र्स्_३,२.५६ ॥

अथ उद्दीपनाः
अनुग्रहस्य सम्प्राप्तिस्तस्याङ्घ्रिरजसां तथा ।
भुक्तावशिष्टभक्तादेरपि तद्भक्तसङ्गतिः ।
इत्यादयो विभावाः स्युरेष्वसाधारणा मताः ॥ ऋBह्र्स्_३,२.५७ ॥

तत्र अनुग्रहसम्प्राप्तिः, यथा
कृष्णस्य पश्यत कृपां कृपाद्याः कृपणे मयि ।
ध्येयोऽसौ निधने हन्त दृशोरध्वानमभ्यगात् ॥ ऋBह्र्स्_३,२.५८ ॥

मुरलीशृङ्गयोः स्वानः स्मितपूर्वावलोकनम् ।
गुणोत्कर्षश्रुतिः पद्मपदाङ्कनवनीरदाः ।
तद्अङ्गसौरभाद्यास्तु सर्वैः साधारणा मताः ॥ ऋBह्र्स्_३,२.५९ ॥

अत्र मुरलीस्वनो, यथा विदग्धमाधवे (१.३०)
सोत्कण्ठं मुरलीकलापरिमलानाकर्ण्य घूर्णत्तनोर्
एतस्याक्षिसहस्रतः सुरपतेरश्रूणि सस्रुर्भुवि ।
चित्रं वारिधरान् विनापि तरसा यैरद्य धारामयैर्
दूरात्पश्यत देवमातृकमभूद्वृन्दाटवीमण्डलम् ॥ ऋBह्र्स्_३,२.६० ॥

अथ अनुभावाः
सर्वतः स्वनियोगानामाधिक्येन परिग्रहः ।
ईर्ष्यालवेन चास्पृष्टा मैत्री तत्प्रणते जने ।
तन्निष्ठाद्याः शीताः स्युरेष्वसाधारणाः क्रियाः ॥ ऋBह्र्स्_३,२.६१ ॥

तत्र स्वनियोगस्य सर्वत आधिक्यं, यथा
अङ्गस्तम्भारम्भमुत्तुङ्गयन्तं
प्रेमानन्दं दारुको नाभ्यनन्दत्
कंसारातेर्वीजने येन साक्षाद्
अक्षोदीयानन्तरायो व्यधायि ॥ ऋBह्र्स्_३,२.६२ ॥

उद्भास्वराः पुरोक्ता ये तथास्य सुहृद्आदयः ।
विरागाद्याश्च ये शीताः प्रोक्ताः साधारणास्तु ते ॥ ऋBह्र्स्_३,२.६३ ॥

तत्र नृत्यम्, यथा श्रीदशमे (१०.८६.३८)
श्रुतदेवोऽच्युतं प्राप्तं स्वगृहान् जनको यथा ।
नत्वा मुनींश्च संहृष्टो धुन्वन् वासो ननर्त ह ॥ ऋBह्र्स्_३,२.६४ ॥

यथा वा
त्वं कलासु विमुखोऽपि नर्तनं
प्रेमनाट्यगुरुणासि पाठितः ।
यद्विचित्रगतिचर्ययाञ्चितश्
चित्रयस्यहह चारणानपि ॥ ऋBह्र्स्_३,२.६५ ॥

अथ सात्त्विकाः
स्तम्भाद्याः सात्त्विकाः सर्वे प्रीतादित्रितये मताः ॥ ऋBह्र्स्_३,२.६६ ॥

यथा,
गोकुलेन्द्रगुणगानरसेन
स्तम्भमद्भुतमसौ भजमानः ।
पश्य भक्तिरसमण्डपमूल
स्तम्भतां वहति वैष्णववर्यः ॥ ऋBह्र्स्_३,२.६७ ॥

श्रीदशमे (१०.८५.३८)
स इन्द्रसेनो भगवत्पदानुजं
बिभ्रन्मुहुः प्रेमविभिन्नया धिया ।
उवाच हानन्दजलाकुलेक्षणः
प्रहृष्टरोमा नृप गद्गदाक्षरम् ॥ ऋBह्र्स्_३,२.६८ ॥

अथ व्यभिचारिणः
हर्षो धृतिश्चात्र निर्वेदोऽथ विषण्णता ।
दैन्यं चिन्ता स्मृतिः शङ्का मतिरौत्सुक्यचापले ॥ ऋBह्र्स्_३,२.६९ ॥
वितर्कावेगह्रीजाड्यमोहोन्मादावहित्थिकाः ।
बोधः स्वप्नः क्लमो व्याधिर्मृतिश्च व्यभिचारिणः ॥ ऋBह्र्स्_३,२.७० ॥
इतरेषां मदादीनां नातिपोषकता भवेत् ।
योगे त्रयः स्युर्धृत्य्अन्ता अयोगे तु क्लमादयः ।
उभयत्र परे शेषा निर्वेदाद्याः सतां मताः ॥ ऋBह्र्स्_३,२.७१ ॥

तत्र हर्षो, यथा प्रथमे (१.११.५)
प्रीत्य्उत्फुल्लमुखाः प्रोचुर्हर्षगद्गदया गिरा ।
पितरं सर्वसुहृदमवितारमिवार्भकाः ॥ ऋBह्र्स्_३,२.७२ ॥

यथा वा
हरिमवलोक्य पुरो भुवि
पतितो दण्डप्रणामशतकामः ।
प्रमदविमुग्धो नृपतिः
पुनरुत्थानं विसस्मार ॥ ऋBह्र्स्_३,२.७३ ॥
क्लमो, यथा स्कान्दे
अशोषयन्मनस्तस्य म्लापयन्मुखपङ्कजम् ।
आधिस्तद्विरहे देव ग्रीष्मे सर इवांशुमान् ॥ ऋBह्र्स्_३,२.७४ ॥

निर्वेदो, यथा
धन्याः स्फुरति तव सूर्य कराः सहस्रं
ये सर्वदा यदुपतेः पदयोः पतन्ति ।
बन्ध्यो दृशां दर्शशती ध्रियते ममासौ
दूरे मुहूर्तमपि या न विलोकते तम् ॥ ऋBह्र्स्_३,२.७५ ॥

अथ स्थायी
सम्भ्रमः प्रभुताज्ञानात्कम्पश्चेतसि सादरः ।
अनेनैक्यं गता प्रीतिः सम्भ्रमप्रीतिरुच्यते ।
एषा रसेऽत्र कथिता स्थायिभावतया बुधैः ॥ ऋBह्र्स्_३,२.७६ ॥
आश्रितादेः पुरैवोक्तः प्रकारो रतिजन्मनि ।
तत्र पारिषदादेस्तु हेतुः संस्कार एव हि ।
संस्कारोद्बोधकास्तस्य दर्शनश्रवणादयः ॥ ऋBह्र्स्_३,२.७७ ॥
एषा तु सम्भ्रमप्रीतिः प्राप्नुवत्युत्तरोत्तरम् ।
वृद्धिं प्रेमा ततः स्नेहस्ततो राग इति त्रिधा ॥ ऋBह्र्स्_३,२.७८ ॥

तत्र सम्भ्रमप्रीतिः, यथा श्रीदशमे (१०.३८.६)
ममाद्यामङ्गलं नष्टं फलवांश्चैव मे भवः ।
यन्नमस्ये भगवतो योगिध्येयाङ्घ्रिपङ्कजम् ॥ ऋBह्र्स्_३,२.७९ ॥

यथा वा
कलिन्दनन्दिनीकुलकदम्बवनवल्लभम् ।
कदा नमस्करिषामि गोपरूपं तमीश्वरम् ॥ ऋBह्र्स्_३,२.८० ॥

अथ प्रेमा
ह्रासशङ्काच्युता बद्धमूला प्रेमेयमुच्यते ।
अस्यानुभावाः कथितास्तत्र व्यसनितादयः ॥ ऋBह्र्स्_३,२.८१ ॥

यथा
अणिमादिसौख्यवीचीमवीचिदुःखप्रवाहं वा ।
नय मां विकृतिर्न हि मे त्वत्पदकमलावलम्बस्य ॥ ऋBह्र्स्_३,२.८२ ॥

यथा वा
रुषाज्वलितबुद्धिना भृगुसुतेन शप्तोऽप्यलं
मया हृतजगत्त्रयोऽप्यतनुकैतवं तन्वता ।
विनिन्द्य कृतबन्धनोऽप्युरगराजपाशैर्बलाद्
अरज्यत स मय्यहो द्विगुणमेव वैरोचनिः ॥ ऋBह्र्स्_३,२.८३ ॥

अथ स्नेहः
सान्द्रश्चित्तद्रवं कुर्वन् प्रेमा स्नेह इतीर्यते ।
क्षणिकस्यापि नेह स्याद्विस्लेषस्य सहिष्णुता ॥ ऋBह्र्स्_३,२.८४ ॥

यथा
दम्भेन बाष्पाम्बुझरस्य केशवं
वीक्ष्य द्रवच्चित्तमसुस्रुवत्तव ।
इत्युच्चकैर्धारयतो विचित्ततां
चित्रा न ते दारुक दारुकल्पता ॥ ऋBह्र्स्_३,२.८५ ॥

यथा वा
पत्नीं रत्ननिधेः परामुपहरन् पूरेण बाष्पाम्भसां
रज्यन्मञ्जुलकण्ठगर्भलुठितस्तोत्राक्षरोपक्रमः ।
चुम्बन् फुल्लकदम्बडम्बरतुलाङ्गैः समीक्ष्याच्युतं
स्तब्धोऽप्यभ्यधिकां श्रियं प्रणमतां वृन्दाद्दधारोद्धवः ॥ ऋBह्र्स्_३,२.८६ ॥

अथ रागः
स्नेहः स रागो येन स्यात्सुखं दुःखमपि स्फुटम् ।
तत्सम्बन्धलवेऽप्यत्र प्रीतिः प्राणव्ययैरपि ॥ ऋBह्र्स्_३,२.८७ ॥

यथा
गुरुरपि भुजगाद्भीस्तक्षकात्प्राज्यराज्य
च्युतिरतिशयिनी च प्रायचर्या च गुर्वी ।
अतनुत मुदमुच्चैः कृष्णलीलासुधान्तर्
विहरणसचिवत्वादौत्तरेयस्य राज्ञः ॥ ऋBह्र्स्_३,२.८८ ॥

यथा वा
केशवस्य करुणालवेऽपि चेद्
बाडवोऽपि किल षाडवो मम ।
अस्य यद्यदयताकुशस्थली
पूर्णसिद्धिरपि मे कुशस्थली ॥ ऋBह्र्स्_३,२.८९ ॥

प्राय आद्यद्वये प्रेमा स्नेहः पारिषदेष्वसौ ।
परीक्षिति भवेद्रागो दारुके च तथोद्धवे ॥ ऋBह्र्स्_३,२.९० ॥
व्रजानुगेष्वनेकेषु रक्तकप्रमुखेषु च ।
अस्मिन्नभ्युदिते भावः प्रायः स्यात्सख्यलेशभाक् ॥ ऋBह्र्स्_३,२.९१ ॥

यथा
शुद्धान्तान्मिलितं बाष्परुद्धवागुद्धवो हरिम् ।
किञ्चित्कुञ्चितनेत्रान्तः स्वान्तेन परिषस्वजे ॥ ऋBह्र्स्_३,२.९२ ॥

अयोगयोगावेतस्य प्रभेदौ कथितावुभौ ॥ ऋBह्र्स्_३,२.९३ ॥

अथ अयोगः
सङ्गाभावो हरेर्धीरैरयोग इति कथ्यते ।
अयोगे तन्मनस्कत्वं तद्गुणाद्य्अनुसन्धयः ॥ ऋBह्र्स्_३,२.९४ ॥
तत्प्राप्त्य्अपायचिन्ताद्याः सर्वेषां कथिताः क्रियाः ।
उत्कण्ठितं वियोगश्चेत्ययोगेऽपि द्विधोच्यते ॥ ऋBह्र्स्_३,२.९५ ॥

तत्र उत्कण्ठितम्
अदृष्टपूर्वस्य हरेर्दिदृक्षोत्कण्ठितं मतम् ॥ ऋBह्र्स्_३,२.९६ ॥

यथा नारसिंहे
चकार मेघे तद्वर्णे बहुमानरतिं नृपः ।
पक्षपातेन तन्नाम्नि मृगे पद्मे च तद्दृशि ॥ ऋBह्र्स्_३,२.९७ ॥

यथा व, श्रीदशमे (१०.३८.१०)
अप्यद्य विष्णोर्मनुजत्वमीयुषोर्
भारावताराय भुवो निजेच्छया
लावण्यधाम्नो भवितोपलम्भनं
मह्यं न न स्यात्फलमञ्जसा दृशः ॥ ऋBह्र्स्_३,२.९८ ॥

अत्रायोगप्रसक्तानां सर्वेषामपि सम्भवे ।
औत्सुक्यदैन्यनिर्वेदचिन्तानां चापलस्य च ।
जडतोन्मादमोहानामपि स्यादतिरिक्तता ॥ ऋBह्र्स्_३,२.९९ ॥

तत्र औत्सुक्यं, यथा श्रीकृष्णकर्णामृते (४१)
अमून्यधन्यानि दिनान्तराणि
हरे त्वद्आलोकनमन्तरेण ।
अनाथबन्धो करुणैकसिन्धो
हा हन्त हा हन्त कथं नयामि ॥ ऋBह्र्स्_३,२.१०० ॥

यथा वा,
विलोचनसुधाम्बुधेस्तव पदारविन्दद्वयी
विलोचनरसच्छटामनुपलभ्य विक्षुभ्यतः ।
मनो मम मनागपि क्वचिदनाप्नुवन्निर्वृतिं
क्षणार्धमपि मन्यते व्रजमहेन्द्र वर्षव्रजम् ॥ ऋBह्र्स्_३,२.१०१ ॥

दैन्यं, यथा तत्रैव {*Kअर्णामृत? णोत्fओउन्दिनन्योf थे थ्रेए चेन्तुरिएस्.}
निबद्धमूर्धाञ्जलिरेष याचे
नीरन्ध्रदैन्योन्नतिमुक्तकण्ठम् ।
दयाम्बुधे देव भवत्कटाक्ष
दाक्षिण्यलेशेन सकृन्निषिञ्च ॥ ऋBह्र्स्_३,२.१०२ ॥

यथा वा
असि शशिमुकुटाद्यैरप्यलभ्येक्षणस्त्वं
लघुरघहर कीटादप्यहं कूटकर्मा ।
इति विसदृशतापि प्रार्थने प्रार्थयामि
स्नपय कृपणबन्धो मामपाङ्गच्छटाभिः ॥ ऋBह्र्स्_३,२.१०३ ॥

निर्वेदो, यथा
स्फुटं श्रितवतोरपि श्रुतिनिषेवया श्लाघ्यतां
ममाभवनिरतयोर्भवतु नेत्रयोर्मन्दयोः ।
भवेन्न हि ययोः पदं मधुरिमश्रियामास्पदं
पदाम्बुजनखाङ्कुरादपि विसारि रोचिस्तव ॥ ऋBह्र्स्_३,२.१०४ ॥

चिन्ताम्, यथा
हरिपदकमलावलोकतृष्णा
तरलमतेरपि योग्यतामवीक्ष्य ।
अवनतवदनस्य चिन्तया मे
हरि हरि निःश्वसतो निशाः प्रयाति ॥ ऋBह्र्स्_३,२.१०५ ॥

चापलं, यथा श्रीकृष्णकर्णामृते (३२)
त्वच्छैशवं त्रिभुवनाद्भुतमित्यवेहि
मच्चापलं च तव वा मम वाधिगम्यम् ।
तत्किं करोमि विरलं मुरलीविलासि
मुग्धं मुखाम्बुजमुदीक्षितुमीक्षणाभ्याम् ॥ ऋBह्र्स्_३,२.१०६ ॥

यथा वा
ह्रियमघहर मुक्त्वा दृक्पतङ्गी ममासौ
भयमपि दमयित्वा भक्तवृन्दात्तृषार्ता ।
निरवधिमविचार्य स्वस्य च क्षोदिमानं
तव चरणसरोजं लेढुमनिव्च्छतीश ॥ ऋBह्र्स्_३,२.१०७ ॥

जडता, यथा सप्तमे (७.४.३७)
न्यस्तक्रीडनको बालो जडवत्तन्मनस्तया ।
कृष्णग्रहगृहीतात्मा न वेद जगदीदृशम् ॥ ऋBह्र्स्_३,२.१०८ ॥

यथा वा
निमेषोन्मुक्ताक्षः कथमिह परिस्पन्दविधुरां
तनुं बिभ्रद्भव्यः प्रतिकृतिरिवास्ते द्विजपतिः ।
अये ज्ञातं वंशीरसिकनवरागव्यसनिना
पुरः श्यामाम्भोदे बत विनिहिता दृष्टिरमुना ॥ ऋBह्र्स्_३,२.१०९ ॥

उन्मादो, यथा सप्तमे (७.४.४०)
नदति क्वचिदुत्कण्ठो विलज्जो नृत्यति क्वचित् ।
क्वचित्तद्भावनायुक्तस्तन्मयोऽनुचकार ह ॥ ऋBह्र्स्_३,२.११० ॥

यथा वा
क्वचिन्नटति निष्पटं क्वचिदसम्भवं स्तम्भते
क्वचिद्विहसति स्फुटं क्वचिदमन्दमाक्रन्दति ।
लसत्यनलसं क्वचित्क्वचिदपार्थमार्तायते
हरेरभिनवोद्धुरप्रणयसीधुमत्तो मुनिः ॥ ऋBह्र्स्_३,२.१११ ॥

मोहो, यथा हरिभक्तिसुधोदये
अयोग्यमात्मानमितीशदर्शने
स मन्यमानस्तद्अनाप्तिकातरः ।
उद्बेलदुःखार्णवमग्नमानसः
श्रुताश्रुधारो द्विज मूर्च्छितापतत् ॥ ऋBह्र्स्_३,२.११२ ॥

यथा वा
हरिचरणविलोकाब्धितापावलीभिर्
बत विधूतचिद्अम्भस्यत्र नस्तीर्थवर्ये ।
श्रुतिपुटपरिवाहेनेशनामामृतानि
क्षिपत ननु सतीर्थाश्चेष्टतां प्राणहंसः ॥ ऋBह्र्स्_३,२.११३ ॥

अथ वियोगः
वियोगो लब्धसङ्गेन विच्छेदो दनुजद्विषा ॥ ऋBह्र्स्_३,२.११४ ॥
यथा
बलिसुतभुजषण्डखण्डनाय
क्षतजपुरं पुरुषोत्तमे प्रयाते ।
विधूतविधुरबुद्धिरुद्धवोऽयं
विरहनिरुद्धमना निरुद्धवोऽभूत् ॥ ऋBह्र्स्_३,२.११५ ॥

अङ्गेषु तापः कृशता जागर्यालम्बशून्यता ।
अधृतिर्जडता व्याधिरुन्मादो मूर्च्छितं बुधैः ।
वियोगे सम्भ्रमप्रीतेर्दशावस्थाः प्रकीर्तिताः ॥ ऋBह्र्स्_३,२.११६ ॥
अनवस्थितिराख्याता चित्तस्यालम्बशून्यता ।
अरागिता तु सर्वस्मिन्नधृतिः कथिता बुधैः ।
अन्येऽष्टौ प्रकटार्थत्वात्तापाद्या न हि लक्षिताः ॥ ऋBह्र्स्_३,२.११७ ॥

तत्र तापो, यथा
अस्मान् दुनोति कमलं तपनस्य मित्रं
रत्नाकरश्च बडवानलगूढमूर्तिः ।
इन्दीवरं विधुसुहृत्कथमीश्वरं वा
तं स्मारयन्मुनिपते दहतीह सभ्यान् ॥ ऋBह्र्स्_३,२.११८ ॥

कृशता, यथा
दधति तव तथाद्य सेवकानां
भुजपरिघाः कृशतां च पाण्डुतां च ।
पतति बत यथा मृणालबुद्ध्या
स्फुटमिह पाण्डवमित्र पाण्डुपक्षः ॥ ऋBह्र्स्_३,२.११९ ॥

जागर्या, यथा
विरहान्मुरद्विषश्चिरं विधुराङ्गे परिखिन्नचेतसि ।
क्षणदाः क्षणदायितोज्झिता बहुलाश्वे बहुलास्तदाभवन् ॥ ऋBह्र्स्_३,२.१२० ॥

आलम्बनशून्यता, यथा
विजयरथकुटुम्बिना विनान्यन्
न किल कुटुम्बमिहास्ति नस्त्रिलोक्याम् ।
भ्रमदिदमनवेक्ष्य यत्पदाब्जं
क्वचिदपि न व्यवतिष्ठतेऽद्य चेतः ॥ ऋBह्र्स्_३,२.१२१ ॥

अधृतिः, यथा
प्रेक्ष्य पिञ्छकुलमक्षि पिधत्ते
नैचिकीनिचयमुज्झति दूरे ।
वष्टि यष्टिमपि नाद्य मुरारे
रक्तकस्तव पदाम्बुजरक्तः ॥ ऋBह्र्स्_३,२.१२२ ॥

जडता, यथा
यौधिष्ठिरं पुरमुपेयुषि पद्मनाभे
खेदानलव्यतिकरैरतिविक्लवस्य ।
स्वेदाश्रुभिर्न हि परं जलतामवापुर्
अङ्गानि निष्क्रियतया च किलोद्धवस्य ॥ ऋBह्र्स्_३,२.१२३ ॥

व्याधिर्, यथा
चिरयति मणिमन्वेष्टुं
चलिते मुरभिदि कुशस्थलीपुरतः ।
समजनि धृतनवव्याधिः
पवनव्याधिर्यथार्थाख्यः ॥ ऋBह्र्स्_३,२.१२४ ॥

उन्मादो, यथा
प्रोषिते बत निजाधिदैवते
रैवते नवमवेक्ष्य नीरदम् ।
भ्रान्तधीरयमधीरमुद्धवः
पश्य रौति* रमते नमस्यति ॥ ऋBह्र्स्_३,२.१२५ ॥
{*नौतीति विश्वनाथः}

मूर्च्छितं, यथा
समजनि दशा विश्लेषात्ते पदाम्बुजसेविनां
व्रजभुवि तथा नासीन्निद्रालवोऽपि यथा पुरा ।
यदुवर दरश्वासेनामी वितर्कितजीविताः
सततमधुना निश्चेष्टाङ्गास्तटान्यधिशेरते ॥ ऋBह्र्स्_३,२.१२६ ॥

मृतिः, यथा
दनुजदमन याते जीवने त्वय्यकस्मात्
प्रचुरविरहतापैर्ध्वन्तहृत्पङ्कजायाम् ।
व्रजमभि परितस्ते दासकासारपङ्क्तौ
न किल वसतिमार्ताः कर्तुमिच्छन्ति हंसाः ॥ ऋBह्र्स्_३,२.१२७ ॥

अशिवत्वान्न घटते भक्ते कुत्राप्यसौ मृतिः ।
क्षोभकत्वाद्वियोगस्य जातप्रायेति कथ्यते ॥ ऋBह्र्स्_३,२.१२८ ॥

अथ योगः
कृष्णेन सङ्गमो यस्तु स योग इति कीर्त्यते ।
योगेऽपि कथितः सिद्धिस्तुष्टिः स्थितिरिति त्रिधा ॥ ऋBह्र्स्_३,२.१२९ ॥

तत्र सिद्धिः
उत्कण्ठिते हरेः प्राप्तिः सिद्धिरित्यभिधीयते ॥ ऋBह्र्स्_३,२.१३० ॥

यथा श्रीकृष्णकर्णामृते (५७)
मौलिश्चन्द्रकभूषणो मरकतस्तम्भाभिरामं वपुर्
वक्त्रं चित्रविमुग्धहासमधुरं बाले विलोले दृशौ ।
वाचः शैशवशीतया मदगजश्लाघ्या विलासस्थितिर्
मन्दं मन्दमये क एष मथुरावीथीं मिथो गाहते ॥ ऋBह्र्स्_३,२.१३१ ॥

यथा वा श्रीदशमे (१०.३८.३४)
रथात्तूर्णमवप्लुत्य सोऽक्रूरः प्रेमविह्वलः ।
पपात चरणोपान्ते दण्डवद्रामकृष्णयोः ॥ ऋBह्र्स्_३,२.१३२ ॥

तुष्टिः
जाते वियोगे कंसारेः सम्प्राप्तिस्तुष्टिरुच्यते ॥ ऋBह्र्स्_३,२.१३३ ॥

यथा प्रथमे (१.११.१०)
कथं वयं नाथ चिरोषिते त्वयि
प्रसन्नदृष्ट्याखिलतापशोषणम् ।
जीवेम ते सुन्दरहासशोभितम्
अपश्यमाना वदनं मनोहरम् ॥ ऋBह्र्स्_३,२.१३४ ॥

यथा वा
समक्षमक्षमः प्रेक्ष्य हरिमञ्जलिबन्धने ।
दारुको द्वारकाद्वारि तत्र चित्रदशां ययौ ॥ ऋBह्र्स्_३,२.१३५ ॥

स्थितिः
सहवासो मुकुन्देन स्थितिर्निगदिता बुधैः ॥ ऋBह्र्स्_३,२.१३६ ॥

यथा हंसदूते (५०) {*ठिसच्तुअल्ल्यप्पेअर्स्तो बे अ मिx ओf वेर्सेस्५०५१. Cहेच्क्म्य्चोम्मेन्तिन् ंय्स्तिच्ড়ोएत्र्य्.}
पुरस्तादाभीरीगणभयदनामा स कठिनो
मणिस्तम्भालम्बी कुरुकुलकथां सङ्कलयिता ।
स जानुभ्यामष्टापदभुवनमवष्टभ्य भविता
गुरोः शिष्यो नूनं पदकमलसंवाहनरतः ॥ ऋBह्र्स्_३,२.१३७ ॥

निजावसरशुश्रूषाविधाने सावधानता ।
पुरस्तस्य निवेशाद्या योगेऽमीषां क्रिया मताः ॥ ऋBह्र्स्_३,२.१३८ ॥
केचिदस्या रतेः कृष्णभक्त्य्आस्वादबहिर्मुखाः ।
भवत्वमेव निश्चित्य न रसावस्थतां जगुः ॥ ऋBह्र्स्_३,२.१३९ ॥
इति तावदसाधीयो यत्पुराणेषु केषुचित् ।
श्रीमद्भागवते चैष प्रकटो दृश्यते रसः ॥ ऋBह्र्स्_३,२.१४० ॥

तथा हि एकादशे (११.३.३२)
क्वचित्रुदन्त्यच्युतचिन्तया क्वचिद्
धसन्ति नन्दन्ति वदन्त्यलौकिकाः ।
नृत्यन्ति गायन्त्यनुशीलयन्त्यजं
भवन्ति तूष्णीं परमेत्य निर्वृताः ॥ ऋBह्र्स्_३,२.१४१ ॥

सप्तमे च (७.७.३४)
निशम्य कर्माणि गुणानतुल्यान्
वीर्याणि लीलातनुभिः कृतानि ।
यदातिहर्षोत्पुलकाश्रुगद्गदं
प्रोत्कण्ठ उद्गायति रौति नृत्यति ॥ ऋBह्र्स्_३,२.१४२ ॥

एषात्र भक्तभावानां प्रायिकी प्रक्रियोदिता ।
किन्तु कालादिवैशिष्ट्यात्क्वचित्स्यात्सीमलङ्घनम् ॥ ऋBह्र्स्_३,२.१४३ ॥

अथ गौरवप्रीतिः
लाल्याभिमानिनां कृष्णे स्यात्प्रीतिर्गौरवोत्तरा ।
सा विभावादिभिः पुष्टा गौरवप्रीतिरुच्यते ॥ ऋBह्र्स्_३,२.१४४ ॥

तत्र आलम्बनाः
हरिश्च तस्य लाल्याश्च भवन्त्यालम्बना इह ॥ ऋBह्र्स्_३,२.१४५ ॥

तत्र हरिः, यथा
अयमुपहितकर्णः प्रस्तुते वृष्णिवृद्धैर्
यदुपतिरितिहासे मन्दहासोज्ज्वलास्यः ।
उपदिशति सुधर्मामध्यमध्यास्य दीव्यन्
हितमिह निजयाग्रे चेष्टयैवात्मजान्नः ॥ ऋBह्र्स्_३,२.१४६ ॥

महागुरुर्महाकीर्तिर्महाबुद्धिर्महाबलः ।
रक्षी लालक इत्याद्यैर्गुणैरालम्बनो हरिः ॥ ऋBह्र्स्_३,२.१४७ ॥

अथ लाल्याः
लाल्याः किल कनिष्ठत्वपुत्रत्वाद्य्अभिमानिनः ।
कनिष्ठाः सारणगदसुभद्रप्रमुखाः स्मृताः ।
प्रद्युम्नचारुदेष्णाद्याः साम्बाद्याश्च कुमारकाः ॥ ऋBह्र्स्_३,२.१४८ ॥

एषां रूपं, यथा
अपि मुरान्तकपार्षदमण्डलाद्
अधिकमण्डनवेशगुणश्रियः ।
आसतपीतसितद्युतिभिर्युता
यदुकुमारगणाः पुरि रेमिरे ॥ ऋBह्र्स्_३,२.१४९ ॥

एषां भक्तिः, यथा
सग्धिं भजन्ति हरिणा मुखमुन्नमय्य
ताम्बूलचर्वितमदन्ति च दीयमानम् ।
घ्राताश्च मूर्ध्नि परिरभ्य भवन्त्यदस्राः
साम्बादयः कति पुरा विदधुस्तपांसि ॥ ऋBह्र्स्_३,२.१५० ॥

रुक्मिणीनन्दनस्तेषु लाल्येषु प्रवरो मतः ॥ ऋBह्र्स्_३,२.१५१ ॥

तस्य रूपम्
स जयति शम्बरदमनः सुकुमारो यदुकुमारकुलमौलिः ।
जनयति जनेषु जनकभ्रान्तिं यः सुष्ठु रूपेण ॥ ऋBह्र्स्_३,२.१५२ ॥

अस्य भक्तिः
प्रभावति समीक्ष्यतां दिवि कृपाम्बुधिर्मादृशां
स एष परमो गुरुर्गरुडगो यदूनां पतिः ।
यतः किमपि लालनं वयमवाप्य दरोद्धुराः
पुरारिमपि सङ्गरे गुरुरुषं तिरस्कुर्महे ॥ ऋBह्र्स्_३,२.१५३ ॥

उभयेषां सदाराध्यधियैव भजतामपि ।
सेवकानामिहैश्वर्यज्ञानस्यैव प्रधानता ॥
लाल्यानां तु स्वसम्बन्धस्फूर्तेरेव समन्ततः ॥ ऋBह्र्स्_३,२.१५४ ॥
व्रजस्थानां परैश्वर्यज्ञानशून्यधियामपि ।
अस्त्येव वल्लवाधीशपुत्रत्वैश्वर्यवेदनम् ॥ ऋBह्र्स्_३,२.१५५ ॥

अथ उद्दीपनाः
उद्दीपनास्तु वात्सल्यस्मितप्रेक्षादयो हरेः ॥ ऋBह्र्स्_३,२.१५६ ॥

यथा
अग्रे सानुग्रहं पश्यन्नग्रजं व्यग्रमानसः ।
गदः पदारविन्देऽस्य विदधे दण्डवन्नतिम् ॥ ऋBह्र्स्_३,२.१५७ ॥

अथ अनुभावाः
अनुभावास्तु तस्याग्रे नीचासननिवेशनम् ।
गुरोर्वर्त्मानुसारित्वं धुरस्तस्य परिग्रहः ।
स्वैराचारविमोक्षाद्याः शीता लाल्येषु कीर्तिताः ॥ ऋBह्र्स्_३,२.१५८ ॥

तत्र नीचासननिवेशनम्, यथा
यदुसदसि सुरेन्द्रैर्द्रागुपव्रज्यमानाः
सुखदकरकवार्भिर्ब्रह्मणाभ्युक्षिताङ्गः ।
मधुरिपुमभिवन्द्य स्वर्णपीठानि मुञ्चन्
भुवमभि मकराङ्को राङ्कवं स्वीचकार ॥ ऋBह्र्स्_३,२.१५९ ॥

दासैः साधाराणाश्चान्ये प्रोच्यन्तेऽमीषु केचन ।
प्रणामो मौनबाहुल्यं सङ्कोचं प्रश्रयाढ्यता ।
निजप्राणव्ययेनापि तद्आज्ञापरिपालनम् ॥ ऋBह्र्स्_३,२.१६० ॥
अधोवदनता स्थैर्यं कासहासादिवर्जनम् ।
तदीयातिरहःकेलिवार्ताद्य्उपरमादयः ॥ ऋBह्र्स्_३,२.१६१ ॥

अथ सात्त्विकाः
कन्दर्प विन्दति मुकुन्दपदारविन्द
द्वन्द्वे दृशोः पदमसौ किल निष्प्रकम्पा ।
प्रालेयबिन्दुनिचितं धृतकण्टका ते
स्विन्नाद्य कण्टकिफलं तनुरन्वकार्षीत् ॥ ऋBह्र्स्_३,२.१६२ ॥

अथ व्यभिचारिणः
अनन्तरोक्ताः सर्वेऽत्र भवन्ति व्यभिचारिणः ॥ ऋBह्र्स्_३,२.१६३ ॥

तत्र हर्षो, यथा
दूरे दरेन्द्रस्य नभस्युदीर्णे
ध्वनौ स्थितानां यदुराजधन्याम् ।
तनूरुहैस्तत्र कुमारकाणां
नटैश्च हृष्यद्भिरकारि नृत्यम् ॥ ऋBह्र्स्_३,२.१६४ ॥

निर्वेदो, यथा
धन्यः साम्ब भवान् सरिङ्गणमयन् पार्श्वे रजःकर्बूरो
यस्तातेन विकृष्य वत्सलतया स्वोत्सङ्गमारोपितः ।
धिङ्मां दुर्भगमत्र शङ्करमयैर्दुर्दैवविस्फूर्जितैः
प्राप्ता न क्षणिकापि लालनरतिः सा येन बाल्ये पितुः ॥ ऋBह्र्स्_३,२.१६५ ॥

अथ स्थायी
देहसम्बन्धितामानाद्गुरुधीरत्र गौरवम् ।
तन्मयी लालके प्रीतिर्गौरवप्रीतिरुच्यते ॥ ऋBह्र्स्_३,२.१६६ ॥
स्थायिभावोऽत्र सा चैषामामूलात्स्वयमुच्छ्रिता ।
कञ्चिद्विशेषमापन्ना प्रेमेति स्नेह इत्यपि ।
राग इत्युच्यते चात्र गौरवप्रीतिरेव सा ॥ ऋBह्र्स्_३,२.१६७ ॥

तत्र गौरवप्रीतिः, यथा
मुद्रां भिनत्ति न रदच्छदयोरमन्दां
वक्त्रं च नोन्नमयति स्रवद्अस्रकीर्णम् ।
धीरः परं किमपि सङ्कुचतीं झषाङ्को
दृष्टिं क्षिपत्यघभिदश्चरणारविन्दे ॥ ऋBह्र्स्_३,२.१६८ ॥

प्रेमा, यथा
द्विषद्भिः क्षोदिष्ठैर्जगद्अविहितेच्छस्य भवतः
करादाकृष्यैव प्रसभमभिमन्यावपि हते ।
सुभद्रायाः प्रीतिर्दनुजदमन त्वद्विषयिका
प्रपेदे कल्याणी न हि मलिनिमानं लवमपि ॥ ऋBह्र्स्_३,२.१६९ ॥

स्नेहो, यथा
विमुञ्च पृथुवेपथुं विसृज कण्ठाकुःठायितं
विमृज्य मयि निक्षिप प्रसरद्अश्रुधारे दृशौ ।
करं च मकरध्वज प्रकटकण्टकालङ्कृतं
निधेहि सविधे पितुः कथय वत्स कः सम्भ्रमः ॥ ऋBह्र्स्_३,२.१७० ॥

रागो, यथा
विषमपि सहसा सुधामिवायं
निपिबति चेत्पितुरिङ्गितं झषाङ्कः ।
विसृजति तद्असम्मतिर्यदि स्याद्
विषमिव तां तु सुधां स एव सद्यः ॥ ऋBह्र्स्_३,२.१७१ ॥

त्रिष्वेवायोगयोगाद्या भेदाः पूर्ववदीरिताः ॥ ऋBह्र्स्_३,२.१७२ ॥

तत्र उत्कण्ठितम्, यथा
शम्बरः सुमुखि लब्धदुर्विपड्
डम्बरः स रिपुरम्बरायितः ।
अम्बुराजमहसं कदा गुरुः
कम्बुराजकरमीक्षितास्महे ॥ ऋBह्र्स्_३,२.१७३ ॥

अथ वियोगः
मनो ममेष्टामपि गेण्डुलीलां
न वष्टि योग्यां च तथास्त्रयोग्याम् ।
गुरौ पुरं कौरवमभ्युपेते
कारामिव द्वारवतीमवैति ॥ ऋBह्र्स्_३,२.१७४ ॥

सिद्धिः
मिलितः शम्बरपुरतो मदनः पुरतो विलोकयन् पितरम् ।
कोऽहमिति स्वं प्रमदान्न धीरधीरप्यसौ वेद ॥ ऋBह्र्स्_३,२.१७५ ॥

तुष्टिः
मिलितमधिष्ठितगरुडं प्रेक्ष्य युधिष्ठिरपुरान्मुरारातिम् ।
अजनि मुदा यदुनगरे सम्भ्रमभूमा कुमाराणाम् ॥ ऋBह्र्स्_३,२.१७६ ॥

स्थितिः
कुञ्चयन्नक्षिणी किञ्चिद्बाष्पनिष्पन्दिपक्षिणी ।
वन्दते पादयोर्द्वन्द्वं पितुः प्रतिदिनं स्मरः ॥ ऋBह्र्स्_३,२.१७७ ॥

उत्कण्ठितवियोगाद्ये यद्यद्विस्तारितं न हि ।
सम्भ्रमप्रीतिवज्ज्ञेयं तत्तदेवाखिलं बुधैः ॥ ऋBह्र्स्_३,२.१७८ ॥

इति श्रीश्रीभक्तिरसामृतसिन्धौ
पश्चिमविभागे मुख्यभक्तिरसपञ्चकनिरूपणे
प्रीतिभक्तिरसलहरी द्वितीया ।

___________________________________________________

(३.३)
प्रेयोभक्तिरसाख्या तृतीयलहरी

स्थायिभावो विभावाद्यैः सख्यमात्मोचितैरिह ।
नीतश्चित्ते सतां पुष्टिं रसः प्रेयानुदीर्यते ॥ ऋBह्र्स्_३,३.१ ॥

तत्र आलम्बनाः
हरिश्च तद्वयस्याश्च तस्मिन्नालम्बना मताः ॥ ऋBह्र्स्_३,३.२ ॥

तत्र हरिः
द्विभुजत्वादिभागत्र प्राग्वदालम्बनो हरिः ॥ ऋBह्र्स्_३,३.३ ॥

तत्र व्रजे, यथा
महेन्द्रमणिमञ्जुलद्युतिरमन्दकुन्दस्मितः
स्फुरत्पुरटकेतकीकुसुमरम्यपट्टाम्बरः ।
स्रग्उल्लसद्उरःस्थलः क्वणितवेणुरत्राव्रजन्
व्रजादघहरो हरत्यहह नः सखीनां मनः ॥ ऋBह्र्स्_३,३.४ ॥

अन्यत्र, यथा
चञ्चत्कौस्तुभकौमुदीसमुदयं कौमोदकीचक्रयोः
सख्येनोज्ज्वलितैस्तथा जलजयोराढ्यं चतुर्भिर्भुजैः ।
दृष्ट्वा हारिहरिन्मणिद्युतिहरं शौरिं हिरण्याम्बरं
जग्मुः पाण्डुसुताः प्रमोदसुधया नैवात्मसम्भावनाम् ॥ ऋBह्र्स्_३,३.५ ॥

सुवेषः सर्वसल्लक्ष्मलक्षितो बलिनां वरः ।
विविधाद्भुतभाषाविद्वावदूकः सुपण्डितः ॥ ऋBह्र्स्_३,३.६ ॥
विपुलप्रतिभो दक्षः करुणो वीरशेखरः ।
विदग्धो बुद्धिमान् क्षन्ता रक्तलोकः समृद्धिमान् ।
सुखी वरीयानित्याद्या गुणास्तस्येह कीर्तिता ॥ ऋBह्र्स्_३,३.७ ॥

अथ तद्वयस्याः
रूपवेषगुणाद्यैस्तु समाः सम्यग्अयन्त्रिताः ।
विश्रम्भसम्भृतात्मानो वयस्यास्तस्य कीर्तिताः ॥ ऋBह्र्स्_३,३.८ ॥

यथा
साम्येन भीतिविधुरेण विधीयमान
भक्तिप्रपञ्चमनुदञ्चद्अनुग्रहेण ।
विश्रम्भसारनिकुरम्बकरम्बितेन
वन्देतरामघहरस्य वयस्यवृन्दम् ॥ ऋBह्र्स्_३,३.९ ॥

ते पुरव्रजसम्बन्धाद्द्विविधाः प्राय ईरिताः ॥ ऋBह्र्स्_३,३.१० ॥

तत्र पुरसम्बन्धिनः
अर्जुनो भीमसेनश्च दुहिता द्रुपदस्य च ।
श्रीदामभूसुराद्याश्च सखायः पुरसंश्रयाः ॥ ऋBह्र्स्_३,३.११ ॥

एषां सख्यम्, यथा
शिरसि नृपतिर्द्रगघ्रासीदघारिमधीरधीर्
भुजपरिघयोः श्लिष्टौ भीमार्जुनौ पुलकोज्ज्वलौ ।
पदकमलयोः सास्रौ दस्रात्मजौ च निपेततुस्
तमवशाधियः प्रौढानन्दादरुन्धत पाण्डवाः ॥ ऋBह्र्स्_३,३.१२ ॥

श्रेष्ठः पुरवयस्येषु भगवान् वानरध्वजः ॥ ऋBह्र्स्_३,३.१३ ॥

अस्य रूपं, यथा
गाण्डीवपाणिः करिराजशुण्डा
रम्योरुरिन्दीवरसुन्दराभः ।
रथाङ्गिना रत्नरथाधिरोही
स रोहिताक्षः सुतरामराजीत् ॥ ऋBह्र्स्_३,३.१४ ॥

सख्यं, यथा
पर्यङ्के महति सुरारिहन्तुरङ्के
निःशङ्कप्रणयनिसृष्टपूर्वकायः ।
उन्मीलन्नवनर्मकर्मठोऽयं
गाण्डीवी स्मितवदनाम्बुजो व्यराजीत् ॥ ऋBह्र्स्_३,३.१५ ॥

अथ व्रजसम्बन्धिनः
क्षणादर्शनतो दीनाः सदा सहविहारिणः ।
तद्एकजीविताः प्रोक्ता वयस्या व्रजवासिनः ।
अतः सर्ववयस्येषु प्रधानत्वं भजन्त्यमी ॥ ऋBह्र्स्_३,३.१६ ॥

एषां रूपं, यथा
बलानुजसदृग्वयोगुणविलासवेषश्रियः
प्रियङ्करणवल्लकीदलविषाणवेण्व्अङ्किताः ।
महेन्द्रमणिहाटकस्फटिकपद्मरागत्विषः
सदा प्रणयशालिनः सहचरा हरेः पान्तु वः ॥ ऋBह्र्स्_३,३.१७ ॥

सख्यं, यथा
उन्निद्रस्य ययुस्तवात्र विरतिं सप्तक्षपास्तिष्ठतो
हन्त श्रान्त इवासि निक्षिप सखे श्रीदामपाणौ गिरिम् ।
आधिर्विध्यति नस्त्वमर्पय करे किं वा क्षणं दक्षिणे
दोष्णस्ते करवाम काममधुना सव्यस्य संवाहनम् ॥ ऋBह्र्स्_३,३.१८ ॥

यथा वा श्रीदशमे (१०.१२.११)
इत्थं सतां ब्रह्मसुखानुभूत्या
दास्यं गतानां परदैवतेन ।
मायाश्रितानां नरदारकेण
साकं विजह्रुः कृतपुण्यपुञ्जाः ॥ ऋBह्र्स्_३,३.१९ ॥

एषु कृष्णस्य सख्यं, यथा
सहचरनिकुरम्बं भ्रातरार्य प्रविष्टं
द्रुतमघजठरान्तःकोटरे प्रेक्षमाणः ।
स्खलद्अशिशिरबाष्पक्षालितक्षामगण्डः
क्षणमहमवसीदन् शून्यचित्तस्तदासम् ॥ ऋBह्र्स्_३,३.२० ॥

सुहृदश्च सखायश्च तथा प्रियसखाः परे ।
प्रियनर्मवयस्याश्चेत्युक्ता गोष्ठे चतुर्विधाः ॥ ऋBह्र्स्_३,३.२१ ॥

तत्र सुहृदः
वात्सल्यगन्धिसख्यां तु किञ्चित्ते वयसाधिकाः ।
सायुधास्तस्य दुष्टेभ्यः सदा रक्षापरायणाः ॥ ऋBह्र्स्_३,३.२२ ॥
सुभद्रमण्डलीभद्रभद्रवर्धनगोभटाः ।
यक्षेन्द्रभटभद्राङ्गवीरभद्रा महागुणाः ।
विजयो बलभद्राद्याः सुहृदस्तस्य कीर्तिताः ॥ ऋBह्र्स्_३,३.२३ ॥

एषां सख्यं, यथा
धुन्वन् धावसि मण्डलाग्रममलं त्वं मण्डलीभद्र किं
गुर्वीं नार्य गदां गृहाण विजय क्षोभं वृथा मा कृथाः ।
शक्तिं न क्षिप भद्रवर्धन पुरो गोवर्धनं गाहते
गर्जन्नेष घनो बली न तु बलीवर्दाकृतिर्दानवः ॥ ऋBह्र्स्_३,३.२४ ॥

सुहृत्सु मण्डलीभद्रबलभद्रौ किलोत्तमौ ॥ ऋBह्र्स्_३,३.२५ ॥

अत्र मण्डलीभद्रस्य रूपम्, यथा
पाटलपटलसद्अङ्गो लकुटकरः शेखरी शिखण्डेन ।
द्युतिमण्डलीमलिनिभां भाति दधन्मण्डलीभद्रः ॥ ऋBह्र्स्_३,३.२६ ॥

अस्य सख्यं, यथा
वनभ्रमणकेलिभिर्गुरुभिरह्नि खिन्नीकृतः
सुखं स्वपितु नः सुहृद्व्रजनिशान्तमध्ये निशि ।
अहं शिरसि मर्दनं मृदु करोमि कर्णे कथां
त्वमस्य विसृजन्नलं सुबल सक्थिनी लालय ॥ ऋBह्र्स्_३,३.२७ ॥

बलदेवस्य रूपं, यथा
गण्डान्तःस्फुरद्एककुण्डलमलिच्छन्नावतंसोत्पलं
कस्तूरीकृतचित्रकं पृथुहृदि भ्राजिष्णु गुञ्जास्रजम् ।
तं वीरं शरद्अम्बुदद्युतिभरं संवीतकालाम्बरं
गम्भीरस्वनितं प्रलम्बभुजमालम्बे प्रलम्बद्विषम् ॥ ऋBह्र्स्_३,३.२८ ॥

अस्य सख्यं, यथा
जनितिथिरिति पुत्रप्रेमसंवीतयाहं
स्नपयितुमिह सद्मन्यम्बया स्तम्भितोऽस्मि ।
इति सुबल गिरा मे सन्दिश त्वं मुकुन्दं
फणिपतिह्रदकच्छे नाद्य गच्छेः कदापि ॥ ऋBह्र्स्_३,३.२९ ॥

अत्र सखायः
कनिष्ठकल्पाः सख्येन सम्बन्धाः प्रीतिगन्धिना ।
विशालवृषभौर्जस्विदेवप्रस्थवरूथपाः ॥ ऋBह्र्स्_३,३.३० ॥
मरन्दकुसुमापीडमणिबन्धकरन्धमाः ।
इत्य्आदयः सखायोऽस्य सेवासख्यैकरागिणः ॥ ऋBह्र्स्_३,३.३१ ॥

एषां सख्यं, यथा
विशाल विसिनीदलैः कलय वीजनप्रक्रियां
वरूथप विलम्बितालकवरूथमुत्सारय ।
मृषा वृषभ जल्पितं त्यज भजाङ्गसंवाहनं
यदुग्रभुजसङ्गरे गुरुमगात्क्लमं नः सखा ॥ ऋBह्र्स्_३,३.३२ ॥

सर्वेषु सखिषु श्रेष्ठो देवप्रस्थोऽयमीरितः ॥ ऋBह्र्स्_३,३.३३ ॥

तस्य रूपं, यथा
बिभ्रद्गेण्डुं पाण्डुरोद्भासवासाः
पाशाबद्धोत्तुङ्गमौलिर्बलीयान् ।
बन्धूकाभः सिन्धुरस्पर्धिलीलो
देवप्रस्थः कृष्णपार्श्वं प्रतस्थे ॥ ऋBह्र्स्_३,३.३४ ॥

अस्य सख्यं, यथा
श्रीदाम्नः पृथुलां भुजामभि शिरो विन्यस्य विश्रामिणं
दाम्नः सव्यकरेण रुद्धहृदयं शय्याविराजत्तनुम् ।
मध्ये सुन्दरि कन्दरस्य पदयोः संवाहनेन प्रियं
देवप्रस्थ इतः कृती सुखयति प्रेम्णा व्रजेन्द्रात्मजम् ॥ ऋBह्र्स्_३,३.३५ ॥

अथ प्रियसखाः
वयस्तुल्याः प्रियसखा सख्यं केवलमाश्रिताः ।
श्रीदामा च सुदामा च दामा च वसुदामकः ॥ ऋBह्र्स्_३,३.३६ ॥
किङ्किणिस्तोककृष्णांशुभद्रसेनविलासिनः ।
पुण्डरीकविटङ्काक्षकलविङ्कादयोऽप्यमी ॥ ऋBह्र्स्_३,३.३७ ॥
रमयन्ति प्रियसखाः केलिभिर्विविधैः सदा ।
नियुद्धदण्डयुद्धादिकौतुकैरपि केशवम् ॥ ऋBह्र्स्_३,३.३८ ॥

एषां सख्यं, यथा
सगद्गदपदैर्हरिं हसति कोऽपि वक्रोदितैः
प्रसार्य भुजयोर्युगं पुलकि कश्चिदाश्लिष्यति ।
करेण चलता दृशौ निभृतमेत्य रुन्धे परः
कृशाङ्गि सुखयन्त्यमी प्रियसखाः सखायं तव ॥ ऋBह्र्स्_३,३.३९ ॥

एषु प्रियवयस्येषु श्रीदामा प्रवरो मतः ॥ ऋBह्र्स्_३,३.४० ॥

तस्य रूपम्, यथा
वासः पिङ्गं बिभ्रतं शृङ्गपाणिं
बद्धस्पर्धं सौहृदान्माधवेन ।
ताम्रोष्णीषं श्यामधामाभिरामं
श्रीदामानं दामभाजं भजामि ॥ ऋBह्र्स्_३,३.४१ ॥

सख्यं, यथा
त्वं नः प्रोज्झ्य कठोर यामुनतटे कस्मादकस्माद्गतो
दिष्ट्या दृष्टिमितोऽसि हन्त निविडाश्लेषैः सखीन् प्रीणय ।
ब्रूमः सत्यमदर्शने तव मनाक्का धेनवः के वयं
किं गोष्ठं किमभीष्टमित्यचिरतः सर्वं विपर्यस्यति ॥ ऋBह्र्स्_३,३.४२ ॥

अथ प्रियनर्मवयस्याः
प्रियनर्मवयस्यास्तु पूर्वतोऽप्यभितो वराः ।
आत्यन्तिकरहस्येषु युक्ता भावविशेषिणः ।
सुबलार्जुनगन्धर्वास्ते वसन्तोज्ज्वलादयः ॥ ऋBह्र्स्_३,३.४३ ॥

एषां सख्यं, यथा
राधासन्देशवृन्दं कथयति सुबलः पश्य कृष्णस्य कर्णे
श्यामाकन्दर्पलेखं निभृतमुपहरत्युज्ज्वलः पाणिपद्मे ।
पालीताम्बूलमास्ये वितरति चतुरः कोकिलो मूर्ध्नि धत्ते
तारादामेति नर्मप्रणयिसहचरास्तन्वि तन्वन्ति सेवाम् ॥ ऋBह्र्स्_३,३.४४ ॥

प्रियनर्मवयस्येषु प्रबलौ सुबलार्जुनौ ॥ ऋBह्र्स्_३,३.४५ ॥

तत्र सुबलस्य रूपं, यथा
तनुरुचिविजितहिरण्यं
हरिदयितं हारिणं हरिद्वसनम् ।
सुबलं कुवलयनयनं
नयनन्दितबान्धवं वन्दे ॥ ऋBह्र्स्_३,३.४६ ॥

अस्य सख्यं, यथा
वयस्यगोष्ठ्यामखिलेङ्गितेषु
विशारदायामपि माधवस्य ।
अन्यैर्दुरूहा सुबलेन सार्धं
संज्ञामयी कापि बभूव वार्ता ॥ ऋBह्र्स्_३,३.४७ ॥

उज्ज्वलस्य रूपं, यथा
अरुणाम्बरमुच्चलेक्षणं
मधुपुष्पबलिभिः प्रसाधितम् ।
हरिनीलरुचिं हरिप्रियं
मणिहारोज्ज्वलमुज्ज्वलं भजे ॥ ऋBह्र्स्_३,३.४८ ॥

अस्य सख्यं, यथा
शक्तास्मि मानमवितुं कथमुज्ज्वलोऽयं
दूतः समेति सखि यत्र मिलत्यदूरे ।
सापत्रपापि कुलजापि पतिव्रतापि
का वा वृषस्यति न गोपवृषं किशोरी ॥ ऋBह्र्स्_३,३.४९ ॥

उज्ज्वलोऽयं विशेषेण सदा नर्मोक्तिलालसः ॥ ऋBह्र्स्_३,३.५० ॥

यथा
स्फुरद्अतनुतरङ्गावर्धितानल्पवेलः
सुमधुररसरूपो दुर्गमावारपारः ।
जगति युवतिजातिर्निम्नगा त्वं समुद्रस्
तदियमघहर त्वामेति सर्वाध्वनैव ॥ ऋBह्र्स्_३,३.५१ ॥

एतेषु केऽपि शास्त्रेषु केऽपि लोकेषु विश्रुताः ॥ ऋBह्र्स्_३,३.५२ ॥
नित्यप्रियाः सुरचराः साधकाश्चेति ते त्रिधा ।
केचिदेषु स्थिरा जात्या मन्त्रिवत्तमुपासते ॥ ऋBह्र्स्_३,३.५३ ॥
तं हासयन्ति चापलाः केचिद्वैहासिकोपमाः ।
केचिदार्जवसारेण सरलाः शीलयन्ति तम् ॥ ऋBह्र्स्_३,३.५४ ॥
वामा वक्रिमचक्रेण केचिद्विस्माययन्त्यमुम् ।
केचित्प्रगल्भाः कुर्वन्ति वितण्डाममुना ।
सौम्याः सूनृतया वाचा धन्या धिन्वन्ति तं परे ॥ ऋBह्र्स्_३,३.५५ ॥
एवं विविधया सर्वे प्रकृत्या मधुरा अमी ।
पवित्रमैत्रीवैचित्रीचारुतामुपचिन्वते ॥ ऋBह्र्स्_३,३.५६ ॥

अथ उद्दीपनाः
उद्दीपना वयोरूपशृङ्गवेणुदरा हरेः ।
विनोदनर्मविक्रान्तिगुणाः प्रेष्ठजनास्तथा ।
राजदेवावतारादिचेष्टानुकरणादयः ॥ ऋBह्र्स्_३,३.५७ ॥

अथ वयः
वयः कौमारपौगण्डकैशोरं चेह सम्मतम् ।
गोष्ठे कौमारपौगण्डे कैशोरं पुरगोष्ठयोः ॥ ऋBह्र्स्_३,३.५८ ॥

तत्र कौमारं, यथा
कौमारं वत्सले वाच्यं ततः सङ्क्षिप्य लिख्यते ॥ ऋBह्र्स्_३,३.५९ ॥

यथा श्रीदशमे (१०.१३.११)
बिभ्रद्वेणुं जठरपटयोः शृङ्गवेत्रे च कक्षे
वामे पाणौ मसृणकवलं तत्फलान्यङ्गुलीषु ।
तिष्ठन्मध्ये स्वपरिसुहृदो हासयन्नर्मभिः स्वैः
स्वर्गे लोके मिषति बुभुजे यज्ञभुग्बालकेलिः ॥ ऋBह्र्स्_३,३.६० ॥

अथ पौगण्डम्
आद्यं मध्यं तथा शेषं पौगण्डं च त्रिधा भवेत् ॥ ऋBह्र्स्_३,३.६१ ॥

तत्र आद्यं पौगण्डं
अधरादेः सुलौहित्यं जठरस्य च तानवम् ।
कम्बुग्रीवोद्गमाद्यं च पौगण्डे प्रथमे सति ॥ ऋBह्र्स्_३,३.६२ ॥

यथा
तुन्दं विन्दति ते मुकुन्द शनकैरश्वत्थपत्रश्रियं
कण्ठं कम्बुवदम्बुजाक्ष भजते रेखात्रयीमुज्ज्वलाम् ।
आरुन्धे कुरुविन्दकन्दलरुचिं भूचन्द्र दन्तच्छदो
लक्ष्मीराधुनिकी धिनोति सुहृदामक्षीणि सा काप्यसौ ॥ ऋBह्र्स्_३,३.६३ ॥

पुष्पमण्डनवैचित्री चित्राणि गिरिधातुभिः ।
पीतपट्टदुकूलाद्यमिह प्रोक्तं प्रसाधनम् ॥ ऋBह्र्स्_३,३.६४ ॥
सर्वाटवीप्रचारेण नैचिकीचयचारणम् ।
नियुद्धकेलिनृत्यादिशिक्षारम्भोऽत्र चेष्टितम् ॥ ऋBह्र्स्_३,३.६५ ॥

यथा
वृन्दारण्ये समस्तात्सुरभिणि सुरभीवृन्दरक्षाविहारी
गुञ्जाहारी शिखण्डप्रकटितमुकुटः पीतपट्टाम्बरश्रीः ।
कर्णाभ्यां कर्णिकारे दधदलमुरसा फुल्लमल्लीकमाल्यं
नृत्यन् दोर्युद्धरङ्गे नटवदिह सखीन्नन्दयत्येष कृष्णः ॥ ऋBह्र्स्_३,३.६६ ॥

अथ मध्यपौगण्डम्
नासा सुशिखरा तुङ्गा कपोलौ मण्डलाकृती ।
पार्श्वाद्य्अङ्गं सुवलितं पौगण्डे सति मध्यमे ॥ ऋBह्र्स्_३,३.६७ ॥

यथा
तिलकुसुमविहासिनासिकाश्रीर्
नवमणिदर्पणदर्पनाशिगण्डः ।
हरिरिह परिमृष्टपार्श्वसीमा
सुखयति सुष्ठु सखीन् स्वशोभयैव ॥ ऋBह्र्स्_३,३.६८ ॥

उष्णीषं पट्टसूत्रोत्थपाशेनात्र तडित्त्विषा ।
यष्टिः श्यामा त्रिहस्तोच्चा स्वर्णाग्रेत्यादिमण्डनम् ।
भाण्डीरे क्रीडनं शैलोद्धारणाद्यं च चेष्टितम् ॥ ऋBह्र्स्_३,३.६९ ॥

यथा
यष्टिं हस्तत्रयपरिमितां प्रान्तयोः स्वर्णबद्धां
बिभ्रल्लीलां चटुलचमरीचारुचूडोज्ज्वलश्रीः ।
बद्धोष्णीषः पुरटरुचिना पट्टिपाशेन पार्श्वे
पश्य क्रीडन् सुखयति सखे मित्रवृन्दं मुकुन्दः ॥ ऋBह्र्स्_३,३.७० ॥

पौगण्डमध्य एवायं हरिर्दीव्यन् विराजते ।
माधुर्याद्भुतरूपत्वात्कैशोराग्रांशभागिव ॥ ऋBह्र्स्_३,३.७१ ॥

अथ शेषपौगण्डम्
वेणी नितम्बलम्बाग्रा लीलालकलताद्युति ।
अंसयोस्तुङ्गतेत्यादि पौगण्डे चरमे सति ॥ ऋBह्र्स्_३,३.७२ ॥

यथा
अग्रे लीलालकलतिकयालङ्कृतं बिभ्रदास्यं
चञ्चद्वेणीशिखरशिखया चुम्बितश्रेणिबिम्बः ।
उत्तुङ्गांसच्छविरघहरो रङ्गमङ्गश्रियैव
न्यस्यन्नेव प्रियसवयसां गोकुलान्निर्जिहीते ॥ ऋBह्र्स्_३,३.७३ ॥

उष्णीषे वक्रिमा लीलासरसीरुहपाणिता ।
काश्मीरेणोर्ध्वपुण्ड्राद्यमिह मण्डनमीरितम् ॥ ऋBह्र्स्_३,३.७४ ॥

यथा
उष्णीषे दरवक्रिमा करतले व्याजृम्भिलीलाम्बुजं
गौरश्रीरलिके किलोर्ध्वतिलकः कस्तूरिकाबिन्दुमान् ।
वेषः केशव पेशलः सुबलमप्याघूर्णयत्यद्य ते
विक्रान्तं किमुत स्वभावमृदुलां गोष्ठाबलानां ततिम् ॥ ऋBह्र्स्_३,३.७५ ॥

अत्र भङ्गी गिरां नर्मसखैः कर्णकथारसः ।
एषु गोकुलबालानां श्रीश्लाघेत्य्आदिचेष्टितम् ॥ ऋBह्र्स्_३,३.७६ ॥

यथा
धूर्तस्त्वं यदवैषि हृद्गतमतः कर्णे तव व्याहरे
केयं मोहनतासमृद्धिरधुना गोधुक्कुमारीगणे ।
अत्रापि द्युतिरत्नरोहणभुवो बालाः सखे पञ्चषाः
पञ्चेषुर्जगतां जये निजधुरां यत्रार्पयन्माद्यति ॥ ऋBह्र्स्_३,३.७७ ॥

अथ कैशोरम्
कैशोरं पूर्वमेवोक्तं सङ्क्षेपेणोच्यते ततः ॥ ऋBह्र्स्_३,३.७८ ॥

यथा
पश्योत्सिक्तबलीत्रयीवरलते वासस्तडिन्मञ्जुले
प्रोन्मीलद्वनमालिकापरिमलस्तोमे तमालत्विषि ।
उक्षत्यम्बकचातकान् स्मितरसैर्दामोदराम्भोधरे
श्रीदामा रमणीयरोमकलिकाकीर्णाङ्गशाखी बभौ ॥ ऋBह्र्स्_३,३.७९ ॥
प्रायः किशोर एवायं सर्वभक्तेषु भासते ।
तेन यौवनशोभास्य नेह काचित्प्रपञ्चिता ॥ ऋBह्र्स्_३,३.८० ॥

अथ रूपं, यथा
अलङ्कारमलङ्कृत्वा तवाङ्गं पङ्कजेक्षण ।
सखीन् केवलमेवेदं धाम्ना धीमन् धिनोति नः ॥ ऋBह्र्स्_३,३.८१ ॥

अथ शृङ्गं, यथा
व्रजनिजवडभीवितर्दिकायाम्
उषसि विषाणवरे रुवत्युदग्रम् ।
अहह सवयसां तदीयरोम्णाम्
अपि निवहाः सममेव जाग्रति स्म ॥ ऋBह्र्स्_३,३.८२ ॥

वेणुर्, यथा
सुहृदो न हि यात कातरा
हरिमन्वेष्टुमितः सुतां रवेः ।
कथयन्नमुमत्र वैणव
ध्वनिदूतः शिखरे धिनोति नः ॥ ऋBह्र्स्_३,३.८३ ॥

शङ्खो, यथा
पाञ्चालीपतयः श्रुत्वा पाञ्चजन्यस्य निस्वनम् ।
पञ्चास्य पश्य मुदिताः पञ्चास्यप्रतिमां ययुः ॥ ऋBह्र्स्_३,३.८४ ॥

विनोदो, यथा
स्फुरद्अरुणदुकूलं जागुडैर्गौरगात्रं
कृतवरकवरीकं रत्नताटङ्ककर्णम् ।
मधुरिपुमिह राधावेषमुद्वीक्ष्य साक्षात्
प्रियसखि सुबलोऽभूद्विस्मितः सस्मितश्च ॥ ऋBह्र्स्_३,३.८५ ॥

अथानुभावाः
नियुद्धकन्दुकद्यूतवाह्यवाहादिकेलिभिः ।
लगुडालगुडिक्रीडासङ्गरैश्चास्य तोषणम् ॥ ऋBह्र्स्_३,३.८६ ॥
पल्यङ्कासनदोलासु सहस्वापोपवेशनम् ।
चारुचित्रपरीहासो विहारः सलिलाशये ॥ ऋBह्र्स्_३,३.८७ ॥
युग्मत्वे लास्यगानाद्याः सर्वसाधारणाः क्रियाः ॥ ऋBह्र्स्_३,३.८८ ॥

तत्र नियुद्धेन तोषणं, यथा
अघहर जितकाशी युद्धकण्डूलबाहुस्
त्वमटसि सखिगोष्ठ्यामात्मवीर्यं स्तुवानः ।
कथय किमु ममोच्चैश्चण्डदोर्दण्डचेष्टा
विरमितरणरङ्गो निःसहाङ्गः स्थितोऽसि ॥ ऋBह्र्स्_३,३.८९ ॥

युक्तायुक्तादिकथनं हितकृत्ये प्रवर्तनम् ।
प्रायः पुरःसरत्वाद्याः सुहृदामीरिताः क्रियाः ॥ ऋBह्र्स्_३,३.९० ॥
ताम्बुलाद्य्अर्पणं वक्त्रे तिलकस्थासकक्रिया ।
पत्राङ्कुरविलेखादि सखीनां कर्म कीर्तितम् ॥ ऋBह्र्स्_३,३.९१ ॥
निर्जितीकरणं युद्धे वस्त्रे धृत्वास्य कर्षणम् ।
पुष्पाद्य्आच्छेदनं हस्तात्कृष्णेन स्वप्रसाधनम् ।
हस्ताहस्तिप्रसङ्गाद्याः प्रोक्ताः प्रियसखक्रियाः ॥ ऋBह्र्स्_३,३.९२ ॥
दूत्यं व्रजकिशोरीषु तासां प्रणयगामिता ।
ताभिः केलिकलौ साक्षात्सख्युः पक्षपरिग्रहः ॥ ऋBह्र्स्_३,३.९३ ॥
असाक्षात्स्वस्वयूथेशापक्षस्थापनचातुरी ।
कर्णाकर्णिकथाद्याश्च प्रियनर्मसखक्रियाः ॥ ऋBह्र्स्_३,३.९४ ॥
वन्यरत्नालङ्कारैर्माधवस्य प्रसाधनम् ।
पुरस्तौर्यत्रिकं तस्य गवां सम्भालनक्रियाः ॥ ऋBह्र्स्_३,३.९५ ॥
अङ्गसंवाहनं माल्यगुम्फनं बीजनादयः ।
एताः साधारणा दासैर्वयस्यानां क्रिया मताः ।
पूर्वोक्तेष्वपराश्चात्र ज्ञेया धीरैर्यथोचितम् ॥ ऋBह्र्स्_३,३.९६ ॥

अथ सात्त्विकाः, तत्र स्तम्भो, यथा
निष्क्रामन्तं नागमुन्मथ्य कृष्णं
श्रीदामायं द्राक्परिष्वक्तुकामः ।
लब्धस्तम्भौ सम्भ्रमारम्भशाली
बाहुस्तम्भौ पश्य नोत्क्षेप्तुमीष्टे ॥ ऋBह्र्स्_३,३.९७ ॥

स्वेदो, यथा
क्रीडोत्सवानन्दरसं मुकुन्दे
स्वात्य्अम्बुदे वर्षति रम्यघोषे ।
श्रीदाममूर्तिर्वरशुक्तिरेषा
स्वेदाम्बुमुक्तापटलीं प्रसूते ॥ ऋBह्र्स्_३,३.९८ ॥

रोमाञ्चो, यथा दानकेलिकौमुद्याम् (३७)
अपि गुरुपुरस्त्वामुत्सङ्गे निधाय विसङ्कटे
विपुलपुलकोल्लासं स्वरा परिष्वजते हरिः ।
प्रणयति तव स्कन्धे चासौ भुजं भुजगोपमं
क्व सुबल पुरा सिद्धक्षेत्रे चकथ कियत्तपः ॥ ऋBह्र्स्_३,३.९९ ॥
स्वरभेदादि चतुष्कं, यथा
प्रविष्टवति माधवे भुजगराजभाजं ह्रदं
तदीयसुहृदस्तदा पृथुलवेपथुव्याकुलाः ।
विवर्णवपुषः क्षणाद्विकटघर्घरध्मायिनो
निपत्य निकटस्थलीभुवि सुषुप्तिमारेभिरे ॥ ऋBह्र्स्_३,३.१०० ॥

अश्रु, यथा
दावं समीक्ष्य विचरन्तमिषीकतुलैस्
तस्य क्षयार्थमिव बाष्पझरं किरन्ती ।
स्वामप्युपेक्ष्य तनुमम्बुजमालभारिण्य्
आभीरवीथिरभितो हरिमावरिष्ट ॥ ऋBह्र्स्_३,३.१०१ ॥

अथ व्यभिचारिणः
औग्र्यं त्रासं तथालस्यं वर्जयित्वाखिलाः परे ।
रसे प्रेयसि भावज्ञैः कथिता व्यभिचारिणः ॥ ऋBह्र्स्_३,३.१०२ ॥
तत्रायोगे मदं हर्षं गर्वं निद्रां धृतिं विना ।
योगे मृतिं क्लमं व्याधिं विनापस्मृतिदीनते ॥ ऋBह्र्स्_३,३.१०३ ॥

तत्र हर्षो, यथा
निष्क्रमय्य किल कालियोरगं
वल्लवेश्वरसुते समीयुषि ।
सम्मदेन सुहृदः स्खलत्पदास्
तद्गिरश्च विवशाङ्गतां दधुः ॥ ऋBह्र्स्_३,३.१०४ ॥

अथ स्थायी
विमुक्तसम्भ्रमा या स्याद्विश्रम्भात्मा रतिर्द्वयोः ।
प्रायः समानयोरत्र सा सख्यस्थायिशब्दभाक् ॥ ऋBह्र्स्_३,३.१०५ ॥
विश्रम्भो गाढविश्वासविशेषः यन्त्रणोज्झितः ।
एषा सख्यरतिर्वृद्धिं गच्छन्ती प्रणयः क्रमात् ।
प्रेमा स्नेहस्तथा राग इति पञ्चभिदोदिता ॥ ऋBह्र्स्_३,३.१०६ ॥

तत्र सख्यरतिः, यथा
मुकुन्दो गान्दिनीपुत्र त्वया सन्दिश्यतामिति ।
गरुडाङ्क गुडाकेशस्त्वां कदा परिरप्स्यते ॥ ऋBह्र्स्_३,३.१०७ ॥

प्रणयः
प्राप्तायां सम्भ्रमादीनां योग्यतायामपि स्फुटम् ।
तद्गन्धेनाप्यसंस्पृष्टा रतिः प्रणय उच्यते ॥ ऋBह्र्स्_३,३.१०८ ॥
यथा
सुरैस्त्रिपुरजिन्मुखैरपि विधीयमानस्तुतेर्
अपि प्रथयतः परामधिकपारमेष्ठ्यश्रियम् ।
दधत्पुलकिनं हरेरधिशिरोधि सव्यं भुजं
समस्कुरुत पांशुमान् शिरसि चन्द्रकानर्जुनः ॥ ऋBह्र्स्_३,३.१०९ ॥

प्रेम, यथा
भवत्युदयतीश्वरे सुहृदि हन्त राज्यच्युतिर्
मुकुन्द वसतिर्वने परगृहे च दास्यक्रिया ।
इयं स्फुटममङ्गला भवतु पाण्डवानां गतिः
परन्तु ववृधे त्वयि द्विगुणमेव सख्यामृतम् ॥ ऋBह्र्स्_३,३.११० ॥

स्नेहो, यथा श्रीदशमे (१०.१५.१८)
अन्ये तद्अनुरूपाणि मनोज्ञानि महात्मनः ।
गायन्ति स्म महाराज स्नेहक्लिन्नधियः शनैः ॥ ऋBह्र्स्_३,३.१११ ॥

यथा वा
आर्द्राङ्गस्खलद्अच्छधातुषु सुहृद्गोत्रेषु लीलारसं
वर्षत्युच्छ्वसितेषु कृष्णमुदिरे व्यक्तं बभूवाद्भुतम् ।
या प्रागास्त सरस्वती द्रुतमसौ लीनोपकण्ठस्थले
या नासीदुदगाद्दृशोः पथि सदा नीरोरुधावात्र सा ॥ ऋBह्र्स्_३,३.११२ ॥

रागो, यथा
अस्त्रेण दुष्परिहरा हरये व्यकारि
या पत्रिपङ्क्तिरकृपेण कृपीसुतेन ।
उत्प्लुत्य गाण्डिवभृता हृदि गृह्यमाणा
जातास्य सा कुसुमवृष्टिरिवोत्सवाय ॥ ऋBह्र्स्_३,३.११३ ॥

यथा वा
कुसुमान्यवचिन्वतः समन्ताद्
वनमालारचनोचितान्यरण्ये ।
वृषभस्य वृषार्कजा मरीचिर्
दिवसार्धेऽपि बभूव कौमुदीव ॥ ऋBह्र्स्_३,३.११४ ॥

अथ अयोगे उत्कण्ठितं, यथा
धनुर्वेदमधीयानो मध्यमस्त्वयि पाण्डवः ।
बाष्पसङ्कीर्णया कृष्णः गिराश्लेषं व्यजिज्ञपत् ॥ ऋBह्र्स्_३,३.११५ ॥

अथ वियोगे, यथा
अघस्य जठरानलात्फणिह्रदस्य च क्ष्वेडतो
दवस्य कवलादपि त्वमवितात्र येषामभूः ।
इतस्त्रितयतोऽप्यतिप्रकटघोरधाटीधरात्
कथं न विरहज्वरादवसितान् सखीनद्य नः ॥ ऋBह्र्स्_३,३.११६ ॥

अत्रापि पूर्ववत्प्रोक्तास्तापाद्यास्ता दशा दश ॥ ऋBह्र्स्_३,३.११७ ॥

तत्र तापः
प्रपन्नाः भाण्डीरेऽप्यधिकशिशिरे चण्डिमभरं
तुषारेऽपि प्रौढिं दिनकरसुतास्रोतसि गतः ।
अपूर्वः कंसारे सुबलमुखमित्रावलिमसौ
बलीयानुत्तापस्तव विरहजन्मा ज्वलयति ॥ ऋBह्र्स्_३,३.११८ ॥

कृशता
त्वयि प्राप्ते कंसक्षितिपतिविमोक्षाय नगरीं
गभीरादाभीरावलितनुषु खेदादनुदिनम् ।
चतूर्णां भूतानामजनि तनिमा दानवरिपो
समीरस्य घ्रानाध्वनि पृथुलता केवलमभूत् ॥ ऋBह्र्स्_३,३.११९ ॥

जागर्या, यथा
नेत्राम्बुजद्वन्द्वमवेक्ष्य पूर्णं
बाष्पाम्बुपूरेण वरूथपस्य ।
तत्रानुवृत्तिं किल यादवेन्द्र
निर्विद्य निद्रामधुपी मुमोच ॥ ऋBह्र्स्_३,३.१२० ॥

आलम्बनशून्यता
गते वृन्दारण्यात्प्रियसुहृदि गोष्ठेश्वरसुते
लघुभृतं सद्यः पतद्अतितरामुत्पतदपि ।
न हि भ्रामं भ्रामं भजति चटुलं तुलमिव मे
निरालम्बं चेतः क्वचिदपि विलम्बं लवमपि ॥ ऋBह्र्स्_३,३.१२१ ॥

अधृतिः
रचयति निजवृत्तौ पाशुपाल्ये निवृत्तिं
कलयति च कलानां विस्मृतौ यत्नकोटिम् ।
किमपरमिह वाच्यं जीवितेऽप्यद्य धत्ते
यदुवर विरहात्ते नार्थितां बन्धुवर्गः ॥ ऋBह्र्स्_३,३.१२२ ॥

जडता
अनाश्रितपरिच्छदाः कृशविशीर्णरुक्षाङ्गकाः
सदा विफलवृत्तयो विरहिताः किल च्छायया ।
विरावपरिवर्जितास्तव मुकुन्द गोष्ठान्तरे
स्फुरति सुहृदां गणाः शिखरजातवृक्षा इव ॥ ऋBह्र्स्_३,३.१२३ ॥

व्याधिः
विरहज्वरसंज्वरेण ते ज्वलिता विश्लथगात्रबन्धना ।
यदुवीर तटे विचेष्टते चिरमाभीरकुमारमण्डली ॥ ऋBह्र्स्_३,३.१२४ ॥

उन्मादः
विना भवद्अनुस्मृतिं विरहविभ्रमेणाधुना
जगद्व्यवहृतिक्रमं निखिलमेव विस्मारिताः ।
लुण्ठन्ति भुवि शेरते बत हसन्ति धावन्त्यमी
रुदन्ति मथुरापते किमपि वल्लवानां गणाः ॥ ऋBह्र्स्_३,३.१२५ ॥

मूर्च्छितम्
दीव्यतीह मधुरे मथुरायां
प्राप्य राज्यमधुना मधुनाथे ।
विश्वमेव मुदितं रुदितान्धे
गोकुले तु मुहुराकुलताभूत् ॥ ऋBह्र्स्_३,३.१२६ ॥

मृतिः
कंसारेर्विरहज्वरोर्मिजनितज्वालावलीजर्जरा
गोपाः शैलतटे तथा शिथिलितश्वासाङ्कुराः शेरते ।
वारं वारमखर्वलोचनजलैराप्लाव्य तान्निश्चलान्
शोचन्त्यद्य यथा चिरं परिचयस्निग्धाः कुरङ्गा अपि ॥ ऋBह्र्स्_३,३.१२७ ॥

प्रोक्तेयं विरहावस्था स्पष्टलीलानुसारतः ।
कृष्णेन विप्रयोगः स्यान्न जातु व्रजवासिनाम् ॥ ऋBह्र्स्_३,३.१२८ ॥

तथा च स्कान्दे मथुराखण्डे
वत्सैर्वत्सतरीभिश्च सदा क्रीडति माधवः ।
वृन्दावनान्तरगतः सरामो बालकैर्वृतः ॥ ऋBह्र्स्_३,३.१२९ ॥

अथ योगे सिद्धिर्, यथा
पाण्डवः पुण्डरीकाक्षं प्रेक्ष्य चक्रिनिकेतने ।
चित्राकारं भजन्नेव मित्राकारमदर्शयत् ॥ ऋBह्र्स्_३,३.१३० ॥
तुष्टिर्, यथ श्रीदशमे (१०.७१.२७)
तं मातुलेयं परिरभ्य निर्वृतो
भीमः स्मयन् प्रेमजवाकुलेन्द्रियः ।
यमौ किरीटी च सुहृत्तमं मुदा
प्रबृद्धबाष्पः परिरेभिरेऽच्युतम् ॥ ऋBह्र्स्_३,३.१३१ ॥

यथा वा
कुरुजाङ्गले हरिमवेक्ष्य पुरः
प्रियसङ्गमं व्रजसुहृन्निकराः ।
भुजमण्डलेन मणिकुण्डलिनः
पुलकाञ्चितेन परिषष्वजिरे ॥ ऋBह्र्स्_३,३.१३२ ॥

स्थितिर्, यथा श्रीदशमे (१०.१२.१२)
यत्पादपांसुर्बहुजन्मकृच्छ्रतो
धृतात्मभिर्योगिभिरप्यलभ्यः ।
स एव यद्दृग्विषयः स्वयं स्थितः
किं वर्ण्यते दिष्टमतो व्रजौकसाम् ॥ ऋBह्र्स्_३,३.१३३ ॥

द्वयोरप्येकजातीयभावमाधुर्यभागसौ ।
प्रेयान् कामपि पुष्णाति रसश्चित्तचमत्कृतिम् ॥ ऋBह्र्स्_३,३.१३४ ॥
प्रीते च वत्सले चापि कृष्णतद्भक्तयोः पुनः ।
द्वयोरन्योन्यभावस्य भिन्नजातीयता भवेत् ॥ ऋBह्र्स्_३,३.१३५ ॥
प्रेयानेव भवेत्प्रेयानतः सर्वरसेष्वयम् ।
सख्यसम्पृक्तहृदयैः सद्भिरेवानुबुध्यते ॥ ऋBह्र्स्_३,३.१३६ ॥

इति श्रीश्रीभक्तिरसामृतसिन्धौ
पश्चिमविभागे मुख्यभक्तिरसपञ्चकनिरूपणे
प्रेयोभक्तिरसलहरी तृतीया ।

___________________________________________________

(३.४)
वत्सलभक्तिरसाख्या चतुर्थलहरी

विभावाद्यैस्तु वात्सल्यं स्थायी पुष्टिमुपागतः ।
एष वत्सलनामात्र प्रोक्तो भक्तिरसो बुधैः ॥ ऋBह्र्स्_३,४.१ ॥
तत्र आलम्बनाः
कृष्णं तस्य गुरूंश्चात्र प्राहुरालम्बनान् बुधाः ॥ ऋBह्र्स्_३,४.२ ॥

तत्र कृष्णो, यथा
नवकुवलयदामश्यामलं कोमलाङ्गं
विचलद्अलकभृङ्गक्रान्तनेत्राम्बुजान्तम् ।
व्रजभुवि विहरन्तं पुत्रमालोकयन्ती
व्रजपतिदयितासीत्प्रस्नवोत्पीडदिग्धा ॥ ऋBह्र्स्_३,४.३ ॥

श्यामाङ्गो रुचिरः सर्वसल्लक्षणयुतो मृदुः ।
प्रियवाक्सरलो ह्रीमान् विनयी मान्यमानकृत् ।
दातेत्य्आदिगुणो कृष्णो विभाव इति कथ्यते ॥ ऋBह्र्स्_३,४.४ ॥
एवं गुणस्य चास्यानुग्राह्यत्वादेव कीर्तिता ।
प्रभावानास्पदतया वेद्यस्यात्र विभावता ॥ ऋBह्र्स्_३,४.५ ॥

तथा श्रीदशमे (१०.८.४५)
त्रय्या चोपनिषद्भिश्च साङ्ख्ययोगैश्च सात्वतैः ।
उपगीयमानमाहात्म्यं हरिं सामन्यतात्मजम् ॥ ऋBह्र्स्_३,४.६ ॥

यथा वा
विष्णुर्नित्यमुपास्यते सखि मया तेनात्र नीताः क्षयं
शङ्के पूतनिकादयः क्षितिरुहौ तौ वात्ययोन्मूलितौ ।
प्रत्यक्षं गिरिरेष गोष्टपतिना रामेण सार्धं धृतस्
तत्तत्कर्म दुरन्वयं मम शिशोः केनास्य सम्भाव्यते ॥ ऋBह्र्स्_३,४.७ ॥

अथ गुरवः
अधिकंमन्यभावेन शिक्षाकारितयापि च ।
लालकत्वादिनाप्यत्र विभावा गुरवो मताः ॥ ऋBह्र्स्_३,४.८ ॥

यथा
भूर्य्अनुग्रहचितेन चेतसा
लालनोत्कमभितः कृपाकुलम् ।
गौरवेण गुरुणा जगद्गुरोर्
गौरवं गणमगण्यमाश्रये ॥ ऋBह्र्स्_३,४.९ ॥

ते तु तस्यात्र कथिता व्रजराज्ञी व्रजेश्वरः ।
रोहिणी ताश्च वल्लव्यो याः पद्मजहृतात्मजाः ॥ ऋBह्र्स्_३,४.१० ॥
देवकी तत्सपत्न्यश्च कुन्ती चानकदुन्दुभिः ।
सान्दीपनिमुखाश्चान्ये यथापूर्वममी वराः ।
व्रजेश्वरीव्रजाधीशौ श्रेष्ठौ गुरुजनेष्विमौ ॥ ऋBह्र्स्_३,४.११ ॥

तत्र व्रजेश्वर्या रूपं, यथा श्रीदशमे (१०.९.३)
क्षौमं वासः पृथुकटितटे बिभ्रती सूत्रनद्धं
पुत्रस्नेहस्नुतकुचयुगं जातकम्पं च सुभ्रूः ।
रज्ज्व्आकर्षश्रमभुजचलत्कङ्कणौ कुण्डले च
स्विन्नं वक्त्रं कबरविगलन्मालती निर्ममन्थ ॥ ऋBह्र्स्_३,४.१२ ॥

यथा वा
डोरीजुटितवक्रकेशपटला सिन्दूरबिन्दूल्लसत्
सीमान्तद्युतिरङ्गभूषणविधिं नातिप्रभूतं श्रिता ।
गोविन्दास्यनिसृष्टसाश्रुनयनद्वन्द्वा नवेन्दीवर
श्यामश्यामरुचिर्विचित्रसिचया गोष्ठेश्वरी पातु वः ॥ ऋBह्र्स्_३,४.१३ ॥

वात्सल्यम्, यथा
तनौ मन्त्रन्यासं प्रणयति हरेर्गद्गदमयी
सबाष्पाक्षी रक्षातिलकमलिके कल्पयति च ।
स्नुवाना प्रत्यूषे दिशति च भुजे कार्मणमसौ
यशोदा मूर्तेव स्फुरति सुतवात्सल्यपटली ॥ ऋBह्र्स्_३,४.१४ ॥

व्रजाधीशस्य रूपं, यथा
तिलतण्डुलितैः कचैः स्फुरन्तं
नवभाण्डीरपलाशचारुचेलम् ।
अतितुन्दिलमिन्दुकान्तिभाजं
व्रजराजं वरकूर्चमर्चयामि ॥ ऋBह्र्स्_३,४.१५ ॥

वात्सल्यम्, यथा
अवलम्ब्य कराङ्गुलिं निजां
स्खलद्अङ्घ्रि प्रसरन्तमङ्गने ।
उरसि स्रवद्अश्रुनिर्झरो
मुमुदे प्रेक्ष्य सुतं व्रजाधिपः ॥ ऋBह्र्स्_३,४.१६ ॥

अथ उद्दीपनाः
कौमारादिवयोरूपवेशाः शैशवचापलम् ।
जल्पितस्मितलीलाद्याः बुधैरुद्दीपनाः स्मृताः ॥ ऋBह्र्स्_३,४.१७ ॥

तत्र कौमारम्
आद्यं मध्यं तथा शेषं कौमारं त्रिविधं मतम् ॥ ऋBह्र्स्_३,४.१८ ॥

तत्र आद्यम्
स्थूलमध्योरुतापाङ्गश्वेतिमा स्वल्पदन्तता ।
प्रव्यक्तमार्दवत्वं च कौमारे प्रथमे सति ॥ ऋBह्र्स्_३,४.१९ ॥

यथा
त्रिचतुरदशनस्फुरन्मुखेन्दुं
पृथुतरमध्यकटिरकोरुसीमा ।
नवकुवलयकोमलः कुमारो
मुदमधिकां व्रजनाथयोर्व्यतानीत् ॥ ऋBह्र्स्_३,४.२० ॥

अस्मिन्मुहुः पदक्षेपक्षणिके रुदितस्मिते ।
स्वाङ्गुष्ठपानमुत्तानशयनाद्यं च चेष्टितम् ॥ ऋBह्र्स्_३,४.२१ ॥

यथा
मुखपुटकृतपादाम्भोरुहाङ्गुष्ठमूर्ध
प्रचलचरणयुग्मं पुत्रमुत्तानसुप्तम् ।
क्षणमिह विरुदन्तं स्मेरवक्त्रं क्षणं सा
तिलमपि विरतासीन्नेक्षितुं गोष्ठराज्ञी ॥ ऋBह्र्स्_३,४.२२ ॥

अत्र व्याघ्रनखं कण्ठे रक्षातिलकमङ्गलम् ।
पट्टडोरी कटौ हस्ते सूत्रमित्यादि मण्डनम् ॥ ऋBह्र्स्_३,४.२३ ॥

यथा
तरक्षुनखमण्डलं नवतमालपत्रद्युतिं
शिशुं रुचिररोचनाकृततमालपत्रश्रियम् ।
धृतप्रतिसरं कटिस्फुरितपट्टसूत्रस्रजं
व्रजेशगृहिणी सुतं न किल वीक्ष्य तृप्तिं ययौ ॥ ऋBह्र्स्_३,४.२४ ॥

अथ मध्यमम्
दृक्तटीभाग्अलकतानग्नता च्छिद्रिकर्णता ।
कलोक्तिरिङ्गनाद्यं च कौमारे सति मध्यमे ॥ ऋBह्र्स्_३,४.२५ ॥

यथा
विचलद्अलकरुद्धभ्रूकुटी चञ्चलाक्षं
कलवचनमुदञ्चन्नूतनश्रोत्ररन्ध्रम् ।
अलघुरचितरिङ्गं गोकुले दिग्दुकूलं
तनयममृतसिन्धौ प्रेक्ष्य माता न्यमाङ्क्षीत् ॥ ऋBह्र्स्_३,४.२६ ॥

घ्राणस्य शिखरे मुक्ता नवनीतं कराम्बुजे ।
किङ्किण्य्आदि च कट्यादौ प्रसाधनमिहोदितम् ॥ ऋBह्र्स्_३,४.२७ ॥

यथा
क्वणितकनककिङ्किणीकलापं
स्मितमुखमुज्ज्वलनासिकाग्रमुक्तम् ।
करधृतनवनीतपिण्डमग्रे
तनयमवेक्ष्य ननन्द नन्दपत्नी ॥ ऋBह्र्स्_३,४.२८ ॥

अथ शेषम्
अत्र किञ्चित्कृशं मध्यमीषत्प्रथिमभागुरः ।
शिरश्च काकपक्षाढ्यं कौमारे चरमे सति ॥ ऋBह्र्स्_३,४.२९ ॥

यथा
स मनागपचीयमानमध्यः
प्रथिमोपक्रमशिक्षणार्थिवक्षाः ।
दधद्आकुलकाकपक्षलक्ष्मीं
जननीं स्तम्भयति स्म दिव्यडिम्भः ॥ ऋBह्र्स्_३,४.३० ॥

धटी फणपडी चात्र किञ्चिद्वन्यविभूषणम् ।
लघुवेत्रकरत्नादि मण्डनं परिकीर्तितम् ॥ ऋBह्र्स्_३,४.३१ ॥
वत्सरक्षा व्रजाभ्यर्णे वयस्यैः सह खेलनम् ।
पावशृङ्गदलादीनां वादनाद्यत्र चेष्टितम् ॥ ऋBह्र्स्_३,४.३२ ॥

यथा
शिखण्डकृतशेखरः फणपटीं दधत्
करे च लगुडीं लघुं सवयसां कुलैरावृतः ।
अवन्निह शकृत्करीन् परिसरे व्रजस्य प्रिये
सुतस्तव कृतार्थयत्यहह पश्य नेत्राणि नः ॥ ऋBह्र्स्_३,४.३३ ॥

अथ पौगण्डम्
पौगण्डादि पुरैवोक्तं तेन सङ्क्षिप्य लिख्यते ॥ ऋBह्र्स्_३,४.३४ ॥

यथा
पथि पथि सुरभीणानंशुकोत्तंसिमूर्धा
धवलिमयुग्अपाङ्गो मण्डितः कञ्चुकेन ।
लघु लघु परिगुञ्जन्मञ्जुमञ्जीरयुग्मं
व्रजभुवि मम वत्सः कच्चदेशादुपैति ॥ ऋBह्र्स्_३,४.३५ ॥

अथ कैशोरम्
अरुणिमयुग्अपाङ्गस्तुङ्गवक्षःकपाटी
विलुठद्अमलहारो रम्यरोमावलिश्रीः ।
पुरुषमणिरयं मे देवकि श्यामलाङ्गस्
त्वद्उदरखनिजन्मा नेत्रमुच्चैर्धिनोति ॥ ऋBह्र्स्_३,४.३६ ॥

नव्येन यौवनेनापि दीव्यन् गोष्ठेन्द्रनन्दनः ।
भाति केवलवात्सल्यभाजां पौगण्डभागिव ॥ ऋBह्र्स्_३,४.३७ ॥
सुकुमारेण पौगण्डवयसा सङ्गतोऽप्यसौ ।
किशोराभः सदा दासविशेषाणां प्रभासते ॥ ऋBह्र्स्_३,४.३८ ॥

अथ शैशवचापलम्
पारीर्भिनत्ति विकिरत्यजिरे दधीनि
सन्तानिकां हरति कृन्तति मन्थदण्डम् ।
वह्नौ क्षिपत्यविरतं नवनीतमित्थं
मातुः प्रमोदभरमेव हरिस्तनोति ॥ ऋBह्र्स्_३,४.३९ ॥

यथा वा
प्रेक्ष्य प्रेक्ष्य दिशः सशङ्कमसकृन्मन्दं पदं निक्षिपन्
नायात्येष लतान्तरे स्फुटमितो गव्यं हरिष्यन् हरिः ।
तिष्ठ स्वैरमजानतीव मुखरे चौर्यभ्रमद्भ्रूलतं
त्रस्यल्लोचनमस्य शुष्यद्अधरं रम्यं दिदृक्षे मुखम् ॥ ऋBह्र्स्_३,४.४० ॥

अथ अनुभावाः
अनुभावाः शिरोघ्राणं करेणाङ्गाभिमार्जनम् ।
आशीर्वादो निदेशश्च लालनं प्रतिपालनम् ।
हितोपदेशदानाद्या वत्सले परिकीर्तिताः ॥ ऋBह्र्स्_३,४.४१ ॥

अत्र शिरोघ्राणम्, यथा श्रीदशमे (१०.१३.३३)

तद्ईक्षणोत्प्रेमरसाप्लुताशया
जातानुरागा गतमन्यवोऽर्भकान् ।
उदुह्य दोर्भिः परिरभ्य मूर्धनि
घ्राणैरवापुः परमां मुदं ते ॥ ऋBह्र्स्_३,४.४२ ॥

यथा वा
दुग्धेन दिग्धा कुचविच्युतेन
समग्रमाघ्राय शिरः सपिच्छम् ।
करेण गोष्ठेशितुरङ्गनेयम्
अङ्गानि पुत्रस्य मुहुर्ममार्ज ॥ ऋBह्र्स्_३,४.४३ ॥

चुम्बाश्लेषौ तथाह्वानं नामग्रहणपूर्वकम् ।
उपालम्भादयश्चात्र मित्रैः साधारणाः क्रियाः ॥ ऋBह्र्स्_३,४.४४ ॥

अथ सात्त्विकाः
नवात्र सात्त्विकाः स्तन्यस्रावः स्तम्भादयश्च ते ॥ ऋBह्र्स्_३,४.४५ ॥

तत्र स्तन्यस्रावो, यथा श्रीदशमे (१०.१३.२२)

तन्मातरो वेणुरवत्वरोत्थिता
उत्थाप्य दोर्भिः परिरभ्य निर्भरम् ।
स्नेहस्नुतस्तन्यपयःसुधासवं
मत्वा परं ब्रह्म सुतानपाययन् ॥ ऋBह्र्स्_३,४.४६ ॥

यथा वा ललितमाधवे (१.४६)

निचुलितगिरिधातुस्फीतपत्रावलीकान्
अखिलसुरभिरेणून् क्षालयद्भिर्यशोदा ।
कुचकलसविमुक्तैः स्नेहमाध्वीकमध्यैस्
तव नवमभिषेकं दुग्धपूरैः करोति ॥ ऋBह्र्स्_३,४.४७ ॥

स्तम्भादयो, यथा
कथमपि परिरब्धुं न क्षमा स्तब्धगात्री
कलयितुमपि नालं बाष्पपुरप्लुताक्षी ।
न च सुतमुपदेष्टुं रुद्धकण्ठी समर्था
दधतमचलमासीद्व्याकुला गोकुलेशा ॥ ऋBह्र्स्_३,४.४८ ॥

अथ व्यभिचारिणः
तत्रापस्मारसहिताः प्रीतोक्ताः व्यभिचारिणः ॥ ऋBह्र्स्_३,४.४९ ॥

तत्र हर्षो, यथा श्रीदशमे (१०.१७.१९)

यशोदापि महाभागा नष्टलब्धप्रजा सती ।
परिष्वजाङ्कमारोप्य मुमोचाश्रुकलां मुहुः ॥ ऋBह्र्स्_३,४.५० ॥

यथा वा विदग्धमाधवे (१.२०)

जितचन्द्रपरागचन्द्रिका
नलदेन्दीवरचन्दनश्रियम् ।
परितो मयि शैत्यमाधुरीं
वहति स्पर्शमहोत्सवस्तव ॥ ऋBह्र्स्_३,४.५१ ॥

अथ स्थायी
सम्भ्रमादिच्युता या स्यादनुकम्पेऽनुकम्पितुः ।
रतिः सैवात्र वात्सल्यं स्थायी भावो निगद्यते ॥ ऋBह्र्स्_३,४.५२ ॥
यशोदादेस्तु वात्सल्यरतिः प्रौढा निसर्गतः ।
प्रेमवत्स्नेहवद्भाति कदाचित्किल रागवत् ॥ ऋBह्र्स्_३,४.५३ ॥

तत्र वात्सल्यरतिर्, यथा श्रीदशमे (१०.६.४३)

नन्दः स्वपुत्रमादाय प्रेत्यागतमुदारधीः ।
मूर्ध्न्युपाघ्राय परमां मुदं लेभे कुरूद्वह ॥ ऋBह्र्स्_३,४.५४ ॥

यथा वा
विन्यस्तश्रुतिपालिरद्य मुरलीनिस्वानशुश्रूषा
भूयः प्रस्रववर्षिणी द्विगुणितोत्कण्ठा प्रदोषोदये ।
गेहादङ्गनमङ्गनात्पुनरसौ गेहं विशन्त्याकुला
गोविन्दस्य मुहुर्व्रजेन्द्रगृहिणी पन्थानमालोकते ॥ ऋBह्र्स्_३,४.५५ ॥

प्रेमवद्, यथा
प्रेक्ष्य तत्र मुनिराजमण्डलैः
स्तूयमानमसि मुक्तसम्भ्रमा ।
कृष्णमङ्कमभि गोकुलेश्वरी
प्रस्नुता कुरुभुवि न्यवीविशत् ॥ ऋBह्र्स्_३,४.५६ ॥

यथा वा
देवक्या विवृतप्रसूचरितयाप्युन्मृज्यमानानने
भूयोभिर्वसुदेवनन्दनतयाप्युद्घूष्यमाणे जनैः ।
गोविन्दे मिहिरग्रहोत्सुकतया क्षेत्रं कुरोरागते
प्रेमा वल्लवनाथयोरतितरामुल्लासमेवाययौ ॥ ऋBह्र्स्_३,४.५७ ॥

स्नेहवत्, यथा
पीयूषद्युतिभिः स्तनाद्रिपतितैः क्षीरोत्करैर्जाह्नवी
कालिन्दी च विलोचनाब्जजनितैर्जाताञ्जनश्यामलैः ।
आरान्मध्यमवेदिमापतितयोः क्लिन्ना तयोः सङ्गमे
वृत्तासि व्रजराज्ञि तत्सुतमुखप्रेक्षां स्फुटं वाञ्छसि ॥ ऋBह्र्स्_३,४.५८ ॥

रागवत्, यथा
तुषावति तुषानलोऽप्युपरि तस्य बद्धस्थितिर्
भवन्तमवलोकते यदि मुकुन्द गोष्ठेश्वरी ।
सुधाम्बुधिरपि स्फुटं विकटकालकूटत्यलं
स्थिता यदि न तत्र ते वदनपद्ममुद्वीक्ष्यते ॥ ऋBह्र्स्_३,४.५९ ॥

अथ अयोगे उत्कण्ठितम्, यथा
वत्सस्य हन्त शरद्इन्दुविनिन्दिवक्त्रं
सम्पादयिष्यति कदा नयनोत्सवं नः ।
इत्यच्युते विहरति व्रजबाटिकायाम्
ऊर्वी त्वरा जयति देवकनन्दिनीनाम् ॥ ऋBह्र्स्_३,४.६० ॥

यथा वा
भ्रातस्तनयं भ्रातुर्
मम सन्दिश गान्दिनीपुत्र ।
भ्रातृव्येषु वसन्ती
दिदृक्षते त्वां हरे कुन्ती ॥ ऋBह्र्स्_३,४.६१ ॥

वियोगो, यथा श्रीदशमे (१०.४६.२८)
यशोदा वर्ण्यमानानि पुत्रस्य चरिताणि च ।
शृण्वत्यश्रूण्यस्राक्षीत्स्नेहस्नुतपयोधरा ॥ ऋBह्र्स्_३,४.६२ ॥

यथा वा
याते राजपुरं हरौ मुखतटी व्याकीर्णधूम्रालका
पश्य स्रस्ततनुः कठोरलुठनैर्देहे व्रणं कुर्वती ।
क्षीणा गोष्ठमहीमहेन्द्रमहिषी हा पुत्र पुत्रेत्यसौ
क्रोशन्ती करयोर्युगेन कुरुते कष्टादुरस्ताडनम् ॥ ऋBह्र्स्_३,४.६३ ॥

बहूनामपि सद्भावे वियोगेऽत्र तु केचन ।
चिन्ता विषादनिर्वेदजाड्यदैन्यानि चापलम् ।
उन्मादमोहावित्याद्या अत्युद्रेकं व्रजन्त्यमी ॥ ऋBह्र्स्_३,४.६४ ॥

अत्र चिन्ता
मन्दस्पन्दमभूत्क्लमैरलघुभिः सन्दानितं मानसं
द्वन्द्वं लोचनयोश्चिरादविचलव्याभुग्नतारं स्थितम् ।
निश्वासैः स्रवदेव पाकमयते स्तन्यं च तप्तैरिदं
नूनं वल्लवराज्ञि पुत्रविरहोद्घूर्णाभिराक्रम्यसे ॥ ऋBह्र्स्_३,४.६५ ॥

विषादः
वदनकमलं पुत्रस्याहं निमीलति शैशवे
नवतरुणिमारम्भोन्मृष्टं न रम्यमलोकयम् ।
अभिनववधूयुक्तं चामुं न हर्म्यमवेशयं
शिरसि कुलिशं हन्त क्षिप्तं श्वफल्कसुतेन मे ॥ ऋBह्र्स्_३,४.६६ ॥

निर्वेदः
धिगस्तु हतजीवितं निरवधिश्रियोऽप्यद्य मे
यया न हि हरेः शिरः स्नुतकुचाग्रमाघ्रायते ।
सदा नवसुधादुहामपि गवां परार्धं च धिक्
स लुञ्चति न चञ्चलः सुरभिगन्धि यासां दधि ॥ ऋBह्र्स्_३,४.६७ ॥

जाड्यम्
यः पुण्डरीकेक्षण तिष्ठतस्ते
गोष्ठे कराम्भोरुहमण्डनोऽभूत् ।
तं प्रेक्ष्य दण्डस्तिमितेन्द्रियाद्यद्
दण्डाकृतिस्ते जननी बभूव ॥ ऋBह्र्स्_३,४.६८ ॥

दैन्यम्
याचते बत विधातरुदस्रा
त्वां रदैस्तृणमुदस्य यशोदा ।
गोचरे सकृदपि क्षणमद्य
मत्सरं त्यज ममानय वत्सम् ॥ ऋBह्र्स्_३,४.६९ ॥

चापलम्
किमिव कुरुते हर्म्ये तिष्ठन्नयं निरपत्रपो
व्रजपतिरिति ब्रूते मुग्धोऽयमत्र मुदा जनः ।
अहह तनयं प्राणेभ्योऽपि प्रियं परिहृत्य तं
कठिनहृदयो गोष्ठे स्वैरी प्रविश्य सुखीयति ॥ ऋBह्र्स्_३,४.७० ॥

उन्मादः
क्व मे पुत्रो नीपाः कथयत कुरङ्गाः किमिह वः
स बभ्रामाभ्यर्णे भणत तमुदन्तं मधुकराः ।
इति भ्रामं भ्रामं भ्रमभरविदूना यदुपते
भवन्तं पृच्छन्ती दिशि दिशि यशोदा विचरति ॥ ऋBह्र्स्_३,४.७१ ॥

मोहः
कुटुम्बिनि मनस्तटे विधुरतां विधत्से कथं
प्रसारय दृशं मनाक्तव सुतः पुरो वर्तते ।
इदं गृहिणि गृहं न कुरु शून्यमित्याकुलं
स शोचति तव प्रसूं यदुकुलेन्द्र नन्दः पिता ॥ ऋBह्र्स्_३,४.७२ ॥

अथ योगे सिद्धिः
विलोक्य रङ्गस्थललब्धसङ्गमं
विलोचनाभीष्टविलोकनं हरिम् ।
स्तन्यैरसिञ्चन्नवकञ्चुकाञ्चलं
देव्यः क्षणादानकदुन्दुभिप्रियाः ॥ ऋBह्र्स्_३,४.७३ ॥

तुष्टिर्, यथा प्रथमे (१.११.३०)

ताः पुत्रमङ्कमारोप्य स्नेहस्नुतपयोधराः ।
हर्षविह्वलितात्मानः सिषिचुर्नेत्रजैर्जलैः ॥ ऋBह्र्स्_३,४.७४ ॥

यथा वा ललितमाधवे (१०.१४)

नयनयोः स्तनयोरपि युग्मतः
परिपतद्भिरसौ पयसां झरैः ।
अहह वल्लवराजगृहेश्वरी
स्वतनयं प्रणयादभिषिञ्चति ॥ ऋBह्र्स्_३,४.७५ ॥

स्थितिर्, यथा विदग्धमाधवे (१.१९)

अहह कमलगन्धेरत्र सौन्दर्यवृन्दे
विनिहितनयनेयं त्वन्मुखेन्दोर्मुकुन्द ।
कुचकलसमुखाभ्यामम्बरक्नोपमम्बा
तव मुहुरतिहर्षाद्वर्षति क्षीरधाराम् ॥ ऋBह्र्स्_३,४.७६ ॥

स्वीकुर्वते रसमिमं नाट्यज्ञा अपि केचन ॥ ऋBह्र्स्_३,४.७७ ॥

तथाहुः [सा.द. ३.२०१]
स्फुटं चमत्कारितया वत्सलं च रसं विदुः ।
स्थायी वत्सलतास्येह पुत्राद्य्आलम्बनं मतम् ॥ ऋBह्र्स्_३,४.७८ ॥

किं च
अप्रतीतौ हरिरतेः प्रीतस्य स्यादपुष्टता ।
प्रेयसस्तु तिरोभावो वत्सलय्सास्य न क्षतिः ॥ ऋBह्र्स्_३,४.७९ ॥
एषा रसत्रयी प्रोक्ता प्रीतादिः परमाद्भुता ।
तत्र केषुचिदप्यस्याः सङ्कुलत्वमुदीर्यते ॥ ऋBह्र्स्_३,४.८० ॥
सङ्कर्षणस्य सख्यस्तु प्रीतिवात्सल्यसङ्गतम् ।
युधिष्ठिरस्य वात्सल्यं प्रीत्या सख्येन चान्वितम् ॥ ऋBह्र्स्_३,४.८१ ॥
आहुकप्रभृतीनां तु प्रीतिर्वात्सल्यमिश्रिता ।
जरद्आभीरिकादीनां वात्सल्यं सख्यमिश्रितम् ॥ ऋBह्र्स्_३,४.८२ ॥
माद्रेयनारदादीनां सख्यं प्रीत्या करम्बितम् ।
रुद्रतार्क्ष्योद्धवादीनां प्रीतिः सख्येन मिश्रिता ॥ ऋBह्र्स्_३,४.८३ ॥
अनिरुद्धापिनप्तॄणामेवं केचिद्बभाषिरे ।
एवं केषुचिदन्येषु विज्ञेयं भावमिश्रणम् ॥ ऋBह्र्स्_३,४.८४ ॥

इति श्रीश्रीभक्तिरसामृतसिन्धौ
पश्चिमविभागे मुख्यभक्तिरसपञ्चकनिरूपणे
वत्सलभक्तिरसलहरी चतुर्थी ।

___________________________________________________

(३.५)
मधुरभक्तिरसाख्या पञ्चमलहरी

आत्मोचितैर्विभावाद्यैः पुष्टिं नीता सतां हृदि ।
मधुराख्यो भवेद्भक्तिरसोऽसौ मधुरा रतिः ॥ ऋBह्र्स्_३,५.१ ॥
निवृत्तानुपयोगित्वाद्दुरूहत्वादयं रसः ।
रहस्यत्वाच्च संक्षिप्य वितताण्गो विलिख्यते ॥ ऋBह्र्स्_३,५.२ ॥

तत्र आलम्बनाः
अस्मिनालम्बनः कृष्णः प्रियास्तस्य तु सुभ्रुवः ॥ ऋBह्र्स्_३,५.३ ॥

तत्र कृष्णः
तत्र कृष्णः असमानोर्ध्वसौन्दर्यलीलावैदिग्धीसम्पदाम् ।
आश्रयत्वेन मधुरे हरिरालम्बनो मतः ॥ ऋBह्र्स्_३,५.४ ॥

यथा श्रीगीतगोविन्दे (१.११)
विश्वेषामनुरञ्जनेन जनयन्नानन्दमिन्दीवर
श्रेणीश्यामलकोमलैरुपनयन्नङ्गैरनङ्गोत्सवम् ।
स्वच्छन्दं व्रजसुन्दरीभिरभितः प्रत्य्अङ्गमालिङ्गितः
शृङ्गारः सखि मूर्तिमानिव मधौ मुग्धो हरिः क्रीडति ॥ ऋBह्र्स्_३,५.५ ॥

अथ तस्य प्रेयस्यः
नवनववरमाधुरीधुरीणाः
प्रणयतरङ्गकरम्बितास्तरङ्गाः ।
निजरमणतया हरिं भजन्तिः
प्रणमत ताः परमाद्भुताः किशोरीः ॥ ऋBह्र्स्_३,५.६ ॥

प्रेयसीषु हरेरासु प्रवरा वार्षभानवी ॥ ऋBह्र्स्_३,५.७ ॥

अस्या रूपं
मदचकितचकोरीचारुताचोरदृष्टिर्
वदनदमितराकारोहिणीकान्तकीर्तिः ।
अविकलकलधौतोद्धूतिधौरेयकश्रीर्
मधुरिममधुपात्री राजते पश्य राधा ॥ ऋBह्र्स्_३,५.८ ॥

अस्या रतिः
नर्मोक्तौ मम निर्मितोरुपरमानन्दोत्सवायामपि
श्रोत्रस्यान्ततटीमपि स्फुटमनाधाय स्थितोद्यन्मुखी ।
राधा लाघवमप्यनादरगिरां भङ्गीभिरातन्वती
मैत्रीगौरवतोऽप्यसौ शतगुणां मत्प्रीतिमेवादधे ॥ ऋBह्र्स्_३,५.९ ॥

तत्र कृष्णरतिर्, यथा श्रीगीतगोविन्दे (३.१)
कंसारिरपि संसारवासनाबद्धशृङ्खलाम् ।
राधामाधाय हृदये तत्याज व्रजसुन्दरीः ॥ ऋBह्र्स्_३,५.१० ॥

अथ उद्दीपनाः ।
उद्दीपना इह प्रोक्ता मुरलीनिस्वनादयः ॥ ऋBह्र्स्_३,५.११ ॥

यथा पद्यावल्याम् (१७२) {*च्रेदितेद्तो षर्वविद्याविनोद}
गुरुजनगञ्जनमयशो
गृहपतिचरितं च दारुणं किमपि ।
विस्मारयति समस्तं
शिव शिव मुरली मुरारातेः ॥ ऋBह्र्स्_३,५.१२ ॥

अथ अनुभावाः
अनुभावास्तु कथिता दृग्नतेक्षास्मितादयः ॥ ऋBह्र्स्_३,५.१३ ॥

यथा ललितमाधवे (१.१४)
कृष्णापङ्गतरङ्गितद्युमणिजासम्भेदवेणीकृते
राधायाः स्मितचन्द्रिकासुरधुनीपुरे निपीयामृतम् ।
अन्तस्तोषतुषारसम्प्लवलवव्यालीढतापोद्गमाः
क्रान्त्वा सप्त जगन्ति सम्प्रति वयं सर्वोर्ध्वमध्यास्महे ॥ ऋBह्र्स्_३,५.१४ ॥

अथ सात्त्विकाः, यथा पद्यावल्याम् (१८१)
कामं वपुः पुलकितं नयने धृतास्रे
वाचः सगद्गदपदाः सखि कम्पि वक्षः ।
ज्ञातं मुकुन्दमुरलीरवमाधुरी ते
चेतः सुधांशुवदने तरलीकरोति ॥ ऋBह्र्स्_३,५.१५ ॥

अथ व्यभिचारिणः
आलस्यौग्र्ये विना सर्वे विज्ञेया व्यभिचारिणः ॥ ऋBह्र्स्_३,५.१६ ॥

तत्र निर्वेदो, यथा पद्यावल्याम् (२२१)
मा मुञ्च पञ्चशर पञ्चशरीं शरीरे
मा सिञ्च सान्द्रमकरन्दरसेन वायो ।
अङ्गानि तत्प्रणयभङ्गविगर्हितानि
नालम्बितुं कथमपि क्षमतेऽद्य जीवः ॥ ऋBह्र्स्_३,५.१७ ॥

हर्षो, यथा दानकेलिकौमुद्याम् (३४)
कुवलययुवतीनां लेहयन्नक्षिभृङ्गैः
कुवलयदललक्ष्मीलङ्गिमाः स्वाङ्गभासः ।
मदकलकलभेन्द्रोल्लङ्घिलीलातरङ्गः
कवलयति धृतिं मे क्ष्माधरारण्यधूर्तः ॥ ऋBह्र्स्_३,५.१८ ॥

अथ स्थायी
स्थायी भावो भवत्यत्र पूर्वोक्ता मधुरा रतिः ॥ ऋBह्र्स्_३,५.१९ ॥

यथा पद्यावल्याम् (१५८)
भ्रूवल्लिताण्डवकलामधुराननश्रीः
कङ्केल्लिकोरककरम्बितकर्णपूरः ।
कोऽयं नवीननिकषोपलतुल्यवेषो
वंशीरवेण सखि मामवशीकरोति ॥ ऋBह्र्स्_३,५.२० ॥

राधामाधवयोरेव क्वापि भावैः कदाप्यसौ ।
सजातीयविजातीयैर्नैव विच्छिद्यते रतिः ॥ ऋBह्र्स्_३,५.२१ ॥

यथा
इतो दूरे राज्ञी स्फुरति परितो मित्रपटली
दृशोरग्रे चन्द्रावलिरुपरि शैलस्य दनुजः ।
असव्ये राधायाः कुसुमितलता संवृततनौ दृग्
अन्तश्रीर्लोला तडिदिव मुकुन्दस्य वलते ॥ ऋBह्र्स्_३,५.२२ ॥

घोरा खण्डितशङ्खचूडमजिरं रुन्धे शिवा तामसी
ब्रह्मिष्ठश्वसनः शमस्तुतिकथा प्रालेयमासिञ्चति ।
अग्रे रामः सुधारुचिर्विजयते कृष्णप्रमोदोचितं
राधायास्तदपि प्रफुल्लमभजन्म्लानिं न भावाम्बुजम् ॥ ऋBह्र्स्_३,५.२३ ॥

स विप्रलम्भसम्भोगभेदेन द्विविधो मतः ॥ ऋBह्र्स्_३,५.२४ ॥

तत्र विप्रलम्भः
स पूर्वरागो मानश्च प्रवासादिमयस्तथा ।
विप्रलम्भो बहुविधो विद्वद्भिरिह कथ्यते ॥ ऋBह्र्स्_३,५.२५ ॥

तत्र पूर्वरागः
प्राग्असङ्गतयोर्भावः पूर्वरागो भवेद्द्वयोः ॥ ऋBह्र्स्_३,५.२६ ॥

यथा पद्यावल्याम् (१८१)
अकस्मादेकस्मिन् पथि सखि मया यामुनतटं
व्रजन्त्या दृष्टो यो नवजलधरश्यामलतनुः ।
स दृग्भङ्ग्या किं वाकुरुत न हि जाने तत इदं
मनो मे व्यालोलं क्वचन गृहकृत्यो न लगते ॥ ऋBह्र्स्_३,५.२७ ॥

यथा श्रीदशमे (१०.५३.२)
यथा विनिद्रा यच्चित्ता रुक्मिणी कमलेक्षणा ।
तथाहमपि तच्चित्तो निद्रां च न लभे निशि ।
वेदाहं रुक्मिण्या द्वेषान्ममोद्वाहो निवारितः ॥ ऋBह्र्स्_३,५.२८ ॥

अथ मानः ।
मानः प्रसिद्ध एवात्र ॥ ऋBह्र्स्_३,५.२९ ॥

यथा श्रीगीतगोविन्दे (२.१)
विहरति वने राधा साधारणप्रणये हरौ
विगलितनिजोत्कर्षादीऋस्यावशेन गतान्यतः ।
क्वचिदपि लताकुञ्जे गुञ्जन्मधुव्रतमण्डली
मुखरनिखरे लीना दीनाप्युवाच रहः सखीम् ॥ ऋBह्र्स्_३,५.३० ॥

अथ प्रवासः
प्रवासः सङ्गविच्युतिः ॥ ऋBह्र्स्_३,५.३१ ॥

यथा पद्यावल्याम् (३५०)
हस्तोदरे विनिहितैककपोलपालेर्
अश्रान्तलोचनजलस्नपिताननायाः ।
प्रस्थानमङ्गलदिनावधि माधवस्य
निद्रालवोऽपि कुत एव सरोरुहाक्ष्याः ॥ ऋBह्र्स्_३,५.३२ ॥

यथा प्रह्लादसंहितायामुद्धववाक्यम्
भगवानपि गोविन्दः कन्दर्पशरपीडितः ।
न भुङ्क्ते न स्वपिति च चिन्तयन् वो ह्यहर्निशम् ॥ ऋBह्र्स्_३,५.३३ ॥

अथ सम्भोगः
द्वयोर्मिलितयोर्भोगः सम्भोग इति कीर्त्यते ॥ ऋBह्र्स्_३,५.३४ ॥

यथा पद्यावल्याम् (१९९)
परमानुरागपरयाथ राधया
परिरम्भकौशलविकाशिभावया ।
स तया सह स्मरसभाजनोत्सवं
निरवाहयच्छिखिशिखण्डशेखरः ॥ ऋBह्र्स्_३,५.३५ ॥

श्रीमद्भागवताद्य्अर्हशास्त्रदर्शितया दृशा ।
इयमाविष्कृता मुख्यपञ्चभक्तिरसा मया ॥ ऋBह्र्स्_३,५.३६ ॥
गोपालरूपशोभां दधदपि रघुनाथभावविस्तारी ।
तुष्यतु सनातनात्मा पश्चिमभागे रसाम्बुनिधेः ॥ ऋBह्र्स्_३,५.३७ ॥

इति श्रीश्रीभक्तिरसामृतसिन्धौ
पश्चिमविभागे मधुराख्यभक्तिरसलहरी चतुर्थी ।

इति श्रीश्रीभक्तिरसामृतसिन्धौ
मुख्यभक्तिरसनिरूपकः पश्चिमविभागः समाप्तः ।

___________________________________________________

उत्तरविभागः।

(४.१)
हास्यभक्तिरसाख्या
प्रथमलहरी

भक्तिभरेण प्रीतिं कलयन्नुररीकृतव्रजासङ्गः ।
तनुतां सनातनात्मा भगवान्मयि सर्वदा तुष्टिम् ॥ ऋBह्र्स्_४,१.१ ॥
रसामृताब्धेर्भागेऽत्र तुरीये तूत्ताराभिधे ।
रसः सप्तविधो गौणो मैत्रीवैरस्थितिर्मिथः ॥ ऋBह्र्स्_४,१.२ ॥
रसाभासाश्च तेनात्र लहर्यो नव कीर्तिताः ।
प्रागत्रानियताधाराः कदाचित्क्वाप्युदित्वराः ॥ ऋBह्र्स्_४,१.३ ॥
गौणा भक्तिरसाः सप्त लेख्या हास्यादयः क्रमात् ॥ ऋBह्र्स्_४,१.४ ॥
भक्तानां पञ्चधोक्तानामेषां मध्यत एव हि ।
क्वाप्येकः क्वाप्यनेकश्च गौणेष्वालम्बनो मतः ॥ ऋBह्र्स्_४,१.५ ॥

तत्र हास्यभक्तिरसः
वक्ष्यमाणैर्विभावाद्यैः पुष्टिं हासरतिर्गता ।
हास्यभक्तिरसो नाम बुधैरेष निगद्यते ॥ ऋBह्र्स्_४,१.६ ॥
अस्मिन्नालम्बनः कृष्णस्तथान्योऽपि तद्अन्वयी ।
वृद्धाः शिशुमुखाः प्रायः प्रोक्ता धीरैस्तद्आश्रयाः ।
विभावनादिवैशिष्ट्यात्प्रवराश्च क्वचिन्मताः ॥ ऋBह्र्स्_४,१.७ ॥

तत्र कृष्णो, यथा
यास्याम्यस्य न भीषणस्य सविधं जीर्णस्य शीर्णाकृतेर्
मातर्नेष्यति मां पिधाय कपटादाधारिकायामसौ ।
इत्युक्त्वा चकिताक्षमद्भुतशिशावुद्वीक्ष्यमाणे हरौ
हास्यं तस्य निरुद्धतोऽप्यतितरां व्यक्तं तदासीन्मुनेः ॥ ऋBह्र्स्_४,१.८ ॥

अथ तद्अन्वयी
यच्चेष्टा कृष्णविषया प्रोक्तः सोऽत्र तद्अन्वयी ॥ ऋBह्र्स्_४,१.९ ॥

यथा
ददामि दधिफाणितं विवृणु वक्त्रमित्यग्रतो
निशम्य जरतीगिरं विवृतकोमलौष्ठे स्थिते ।
तया कुसुममर्पितं नवमवेत्य भुग्नानने
हरौ जहसुरुद्धुरं किमपि सुष्ठु गोष्ठार्भकाः ॥ ऋBह्र्स्_४,१.१० ॥

यथा वा
अस्य प्रेक्ष्य करं शिशोर्मुनिपते श्यामस्य मे कथ्यतां
तथ्यं हन्त चिरायुरेष भविता किं धेनुकोटीश्वरः ।
इत्युक्ते भगवन्मयाद्य परितश् चीरेण किं चारुणा
द्रागाविर्भवद्उद्धुरस्मितमिदं वक्त्रं त्वया रुध्यते ॥ ऋBह्र्स्_४,१.११ ॥

उद्दीपना हरेस्तादृग्वाग्वेषचरितादयः ।
अनुभावास्तु नासौष्ठगण्डनिष्पन्दनादयः ॥ ऋBह्र्स्_४,१.१२ ॥
हर्षालस्यावहित्थाद्या विज्ञेया व्यभिचारिणः ।
सा हासरतिरेवात्र स्थायिभावतयोदिता ॥ ऋBह्र्स्_४,१.१३ ॥
षोढा हासरतिः स्यात्स्मितहसिते विहसितावहसिते च ।
अपहसितातिहसितके ज्येष्ठादीनां क्रमाद्द्वे द्वे ॥ ऋBह्र्स्_४,१.१४ ॥
विभावनादिवैचित्र्यादुत्तमस्यापि कुत्रचित् ।
भवेद्विहसिताद्यं च भावज्ञैरिति भण्यते ॥ ऋBह्र्स्_४,१.१५ ॥

तत्र स्मितम्
स्मितं त्वलक्ष्यदशनं नेत्रगण्डविकाशकृत् ॥ ऋBह्र्स्_४,१.१६ ॥

यथा
क्व यामि जरती खला दधिहरं दिधीर्षन्त्यसौ
प्रधावति जवेन मां सुबल मङ्क्षु रक्षां कुरु ।
इति स्खलद्उदीरिते द्रवति कान्दिशीके हरौ
विकस्वरमुखाम्बुजं कुलमभून्मुनीनां दिवि ॥ ऋBह्र्स्_४,१.१७ ॥

हसितम्
तदेव दरसंलक्ष्यदन्ताग्रं हसितं भवेत् ॥ ऋBह्र्स्_४,१.१८ ॥

यथा
मद्वशेन पुरःस्थितो हरिरसौ पुत्रोऽहमेवास्मि ते
पश्येत्यच्युतजल्पविश्वसितया संरम्भरज्यद्दृशा ।
मामेति स्खलद्अक्षरे जटिलया व्याक्रुश्य निष्कासिते
पुत्रे प्राङ्गतः सखीकुलमभूद्दन्तांशुधौताधरम् ॥ ऋBह्र्स्_४,१.१९ ॥

विहसितम्
सस्वनं दृष्टदशनं भवेद्विहसितं तु तत् ॥ ऋBह्र्स्_४,१.२० ॥

यथा
मुषाण दधि मेदुरं विफलमन्तरा शङ्कसे
सनिःश्वसितडम्बरं जटिलयात्र निद्रायते ।
इति ब्रुवति केशवे प्रकटशीर्णदन्तस्थलं
कृतं हसितमुत्स्वनं कपटसुप्तया वृद्धया ॥ ऋBह्र्स्_४,१.२१ ॥

अवहसितम्
तच्चावहसितं फुल्लनासं कुञ्चितलोचनम् ॥ ऋBह्र्स्_४,१.२२ ॥

यथा
लग्नस्ते नितरां दृशोरपि युगे किं धातुरागो घनः
प्रातः पुत्र बलस्य वा किमसितं वासस्त्वयाङ्गे धृतम् ।
इत्याकर्ण्य पुरो व्रजेशगृहिणीवाचं स्फुरन्नासिका
दूती सङ्कुचद्ईक्षणावहसितं जाता न रोद्धुं क्षमा ॥ ऋBह्र्स्_४,१.२३ ॥

अपहसितम्
तच्चापहसितं साश्रुलोचनं कम्पितांसकम् ॥ ऋBह्र्स्_४,१.२४ ॥

यथा
उदस्रं देवर्षिर्दिवि दरतरङ्गद्भुजशिरा
यदभ्राण्युद्दण्डो दशनरुचिभिः पाण्डरयति ।
स्फुटं ब्रह्मादीनां नटयितरि दिव्ये व्रजशिशौ
जरत्याः प्रस्तोभान्नटति तदनैषीद्दृशमसौ ॥ ऋBह्र्स्_४,१.२५ ॥

अतिहसितम्
सहस्रतालं क्षिप्ताङ्गं तच्चातिहसितं विदुः ॥ ऋBह्र्स्_४,१.२६ ॥

यथा
वृद्धे त्वं वलिताननासि वलिभिः प्रेक्ष्य सुयोग्यामतस्
त्वामुद्वोढुमसौ बलीमुखवरो मां साधयत्युत्सुकः ।
आभिर्विप्लुतधीर्वृणे न हि परं त्वत्तो बलिध्वंसनाद्
इत्युच्चैर्मुखरागिरा विजहसुः सोत्तालिका बालिकाः ॥ ऋBह्र्स्_४,१.२७ ॥

यस्य हासः स चेत्क्वापि साक्षान्नैव निबध्यते ।
तथाप्येष विभावादिसामर्थ्यादुपलभ्यते ॥ ऋBह्र्स्_४,१.२८ ॥

यथा
शिम्बीलम्बिकुचासि दर्दुरवधूविस्पर्धि नासाकृतिस्
त्वं जीर्यद्दुलिदृष्टिरोष्ठतुलिताङ्गारा मृदङ्गोदरी ।
का त्वत्तः कुटिले परास्ति जटिलापुत्रि क्षितौ सुन्दरी
पुण्येन व्रजसुभ्रुवां तव धृतिं हर्तुं न वंशी क्षमा ॥ ऋBह्र्स्_४,१.२९ ॥

एष हास्यरसस्तत्र कैशिकीवृत्तिविस्तृतौ ।
शृङ्गारादिरसोद्भेदो बहुधैव प्रपञ्चितः ॥ ऋBह्र्स्_४,१.३० ॥

इति श्रीश्रीभक्तिरसामृतसिन्धावुत्तरविभागे
हास्यभक्तिरसनिरूपणे अद्भुतभक्तिरसलहरी प्रथमा ॥

___________________________________________________

(४.२)
अद्भुतभक्तिरसाख्या
द्वितीयलहरी

आत्मोचितैर्विभावाद्यैः स्वाद्यत्वं भक्तचेतसि ।
सा विस्मयरतिर्नीताद् भुतोभक्तिरसो भवेत् ॥ ऋBह्र्स्_४,२.१ ॥
भक्तः सर्वविधोऽप्यत्र घटते विस्मयाश्रयः ।
लोकोत्तरक्रियाहेतुर्विषयस्तत्र केशवः ॥ ऋBह्र्स्_४,२.२ ॥
तस्य चेष्टाविशेषाद्यास्तस्मिन्नुद्दीपना मताः ।
क्रियास्तु नेत्रविस्तारस्तम्भाश्रुपुलकादयः ॥ ऋBह्र्स्_४,२.३ ॥
आवेगहर्षजाड्याद्यास्तत्र स्युर्व्यभिचारिणः ।
स्थायी स्याद्विस्मयरतिः सा लोकोत्तरकर्मतः ।
साक्षादनुमितं चेति तच्च द्विविधमुच्यते ॥ ऋBह्र्स्_४,२.४ ॥

तत्र साक्षात्, यथा
साक्षादैन्द्रियकं दृष्टश्रुतसङ्कीर्तितादिकम् ॥ ऋBह्र्स्_४,२.५ ॥

तत्र दृष्टं, यथा
एकमेव विविधोद्यमभाजं
मन्दिरेषु युगपन्निखिलेषु ।
द्वारकामभि समीक्स्य मुकुन्दं
स्पन्दनोज्झिततनुर्मुनिरासीत् ॥ ऋBह्र्स्_४,२.६ ॥

यथोक्तं श्रीदशमे (१०.६९.२)
चित्रं बतैतदेकेन वपुषा युगपत्पृथक् ।
गृहेषु द्व्य्अष्टसाहस्रं स्त्रिय एक उदावहत् ॥ ऋBह्र्स्_४,२.७ ॥

यथा वा
क्व स्तन्यगन्धिवदनेन्दुरसौ शिशुस्ते
गोवर्धनः शिखररुद्धघनः क्व चायम् ।
भोः पश्य सव्यकरकन्दूकिताचलेन्द्रः
खेलन्निव स्फुरति हन्त किमिन्द्रजालम् ॥ ऋBह्र्स्_४,२.८ ॥

श्रुतं, यथा
यान्यक्षिपन् प्रहरणानि भटाः स देवः
प्रत्येकमच्छिनदमुनि शरत्रयेण ।
इत्याकलय्य युधि कंसरिपोः प्रभावं
स्फारेक्षणः क्षितिपतिः पुलकी तदासीत् ॥ ऋBह्र्स्_४,२.९ ॥

सङ्कीर्तितं, यथा
डिम्बाः स्वर्णनिभाम्बरा घनरुचो जाताश्चतुर्बाहवो
वत्साश्चेति वदन् कृतोऽस्मि विवशः स्तम्भश्रिया पश्यत ।
आश्चर्यं कथयामि वः शृणुत भोः प्रत्येकमेकैकशः
स्तूयन्ते जगद्अण्डवद्भिरभितस्ते हन्त पद्मासनैः ॥ ऋBह्र्स्_४,२.१० ॥

अनुमितं, यथा
उन्मील्य व्रजशिशवो दृशं पुरस्ताद्
भाण्डीरं पुनरतुल्य विलोकयन्तः ।
सात्मानं पशुपटलीं च तत्र दावाद्
उन्मुक्तां मनसि चमत्क्रियामवापुः ॥ ऋBह्र्स्_४,२.११ ॥
अप्रियादेः क्रिया कुर्यान्नालौकिक्यपि विस्मयम् ।
असाधारण्यपि मनाक्करोत्येव प्रियस्य सा ॥ ऋBह्र्स्_४,२.१२ ॥

प्रियात्प्रियस्य किमुत सर्वलोकोत्तरोत्तरा ।
इत्यत्र विस्मये प्रोक्ता रत्य्अनुग्रहमाधुरी ॥ ऋBह्र्स्_४,२.१३ ॥

इति श्रीश्रीभक्तिरसामृतसिन्धावुत्तरविभागे
गौणभक्तिरसनिरूपणे अद्भुतभक्तिरसलहरी द्वितीया ॥

___________________________________________________

(४.३)
वीरभक्तिरसाख्या
तृतीयलहरी

सैवोत्साहरतिः स्थायी विभावाद्यैर्निजोचितः ।
आनीयमाना स्वाद्यत्वं वीरभक्तिरसो भवेत् ॥ ऋBह्र्स्_४,३.१ ॥
युद्धदानदयाधर्मैश्चतुर्धावीर उच्यते ।
आलम्बन इह प्रोक्त एष एव चतुर्विधः ॥ ऋBह्र्स्_४,३.२ ॥
उत्साहस्त्वेष भक्तानां सर्वेषामेव सम्भवेत् ॥ ऋBह्र्स्_४,३.३ ॥

तत्र युद्धवीरः
परितोषाय कृष्णस्य दधदुत्साहमाहवे ।
सखा बन्धुविशेषो वा युद्धवीर इहोच्यते ॥ ऋBह्र्स्_४,३.४ ॥
प्रतियोद्धा मुकुन्दो वा तस्मिन् वा प्रेक्षके स्थिते ।
तदीयेच्छावेशेनात्र भवेदन्यः सुहृद्वरः ॥ ऋBह्र्स्_४,३.५ ॥

तत्र कृष्णो, यथा
अपराजितमानिनं हठाच्
चटुलं त्वामभिभूय माधव ।
धिनुयामधुना सुहृद्गणं
यदि न त्वं समरात्पराञ्चसि ॥ ऋBह्र्स्_४,३.६ ॥

यथा वा
संरम्भप्रकटीकृतप्रतिभटारम्भश्रियोः साद्भुतं
कालिन्दीपुलिने वयस्यनिकरैरालोक्यमानस्तदा ।
अव्युत्थापितसख्ययोरपि वराहङ्कारविस्फूर्जितः
श्रीदाम्नश्च बकीद्विषश्च समराटोपः पटीयानभूत् ॥ ऋBह्र्स्_४,३.७ ॥

सुहृद्वरो, यथा
सखिप्रकरमार्गणानगणितान् क्षिपन् सर्वतस्
तथाद्य लगुडं क्रमाद्भ्रमयति स्म दामा कृती ।
अमंस्त रचितस्तुतिर्व्रजपतेस्तनुजोऽप्यमुं
समृद्धपुलको यथा लगुडपञ्जरान्तःस्थितम् ॥ ऋBह्र्स्_४,३.८ ॥

प्रायः प्रकृतशूराणां स्वपक्षैरपि कर्हिचित् ।
युद्धकेलिसमुत्साहो जायते परमाद्भुतः ॥ ऋBह्र्स्_४,३.९ ॥

तथा च हरिवंशे
तथा गाण्डीवधन्वानं विक्रीडन्मधुसूदनः ।
जिगाय भरतश्रेष्ठं कुन्त्याः प्रमुखतो विभुः ॥ ऋBह्र्स्_४,३.१० ॥ इति ।

कत्थितास्फोटविस्पर्धाविक्रमास्त्रग्रहादयः ।
प्रतियोधस्थिताः सन्तो भवन्त्युद्दीपना इह ॥ ऋBह्र्स्_४,३.११ ॥

तत्र कत्थितम्
पिण्डीशूरस्त्वमिह सुबलं कैतवेनाबलाङ्गं
जित्वा दामोदर युधि वृथा मा कृथाः कत्थितानि ।
माद्यन्नेष त्वद्अलघुभुजासर्पदर्पापहारी
मन्द्रध्वानो नटति निकटे स्तोककृष्णः कलापी ॥ ऋBह्र्स्_४,३.१२ ॥

कत्थिताद्याः स्वसंस्थाश्चेदनुभावाः प्रकीर्तिताः ।
तथैवाहोपुरुषिका क्ष्वेडिताक्रोशवल्गनम् ॥ ऋBह्र्स्_४,३.१३ ॥
असहायेऽपि युद्धेच्छा समरादपलायनम् ।
भीताभयप्रदानाद्या विज्ञेयाश्चापरे बुधैः ॥ ऋBह्र्स्_४,३.१४ ॥

तत्र कत्थितम्, यथा
प्रोत्साहयस्यतितरां किमिवाग्रहेण
मां केशिसूदन विदन्नपि भद्रसेनम् ।
योद्धुं बलेन सममत्र सुदुर्बलेन
दिव्यार्गला प्रतिभटस्त्रपते भुजो मे ॥ ऋBह्र्स्_४,३.१५ ॥
आहोपुरुषिका, यथा
धृताटोपे गोपेश्वरजलधिचन्द्रे परिकरं
निबध्नत्युल्लासाद्भुजसमरचर्यासमुचितम् ।
सरोमाञ्चं क्ष्वेडानिविडमुखबिम्बस्य नटतः
सुदाम्नः सोत्कण्ठं जयति मुहुराहोपुरुषिका ॥ ऋBह्र्स्_४,३.१६ ॥

चतुष्टयेऽपि वीराणां निखिला एव सात्त्विकाः ।
गर्वावेगधृतिव्रीडामतिहर्षावहित्थिकाः ।
अमर्षोत्सुकतासूयास्मृत्य्आद्या व्यभिचारिणः ॥ ऋBह्र्स्_४,३.१७ ॥
युद्धोत्साहरतिस्तस्मिन् स्थायिभावतयोदिता ।
या स्वशक्तिसहायाद्यैराहार्या सहजापि वा ।
जिगीषा स्थेयसी युद्धे सा युद्धोत्साह ईर्यते ॥ ऋBह्र्स्_४,३.१८ ॥

तत्र स्वशक्त्या आहार्योत्साहरतिर्, यथा
स्वतातशिष्ट्या स्फुटमप्यनिच्छन्न्
आहूयमानः पुरुषोत्तमेन ।
स स्तोककृष्णो धृतयुद्धतृष्णः
प्रोद्यम्य दण्डं भ्रमयाञ्चकार ॥ ऋBह्र्स्_४,३.१९ ॥

स्वशक्त्या सहजोत्साहरतिर्, यथा
शुण्डाकारं प्रेक्ष्य मे बाहुदण्डं
मा त्वं भैषीः क्षुद्र रे भद्रसेन ।
हेलारम्भेणाद्य निर्जित्य रामं
श्रीदामाहं कृष्णमेवाह्वयेय ॥ ऋBह्र्स्_४,३.२० ॥

यथा व
बलस्य बलिनो बलात्सुहृद्अनीकमालोडयन्
पयोधिमिव मन्दरः कृतमुकुन्दपक्षग्रहः ।
जनं विकटगर्जितैर्वधिरयन् स धीरस्वरो
हरेः प्रमदमेककः समिति भद्रसेनो व्यधात् ॥ ऋBह्र्स्_४,३.२१ ॥

सहायेनाहार्योत्साहरतिर्, यथा
मयि वल्गति भीमविक्रमे
भज भङ्गं न हि सङ्गरादितः ।
इति मित्रगिरा वरूथपः
सविरूपं विब्रुवन् हरिं ययौ ॥ ऋBह्र्स्_४,३.२२ ॥

सहायेन सहजोत्साहरतिर्, यथा
सङ्ग्रामकामुकभुजः स्वयमेव कामं
दामोदरस्य विजयाय कृती सुदामा ।
साहाय्यमत्र सुबलः कुरुते बली चेज्
जातो मणिः सुजटितो वरहाटकेन ॥ ऋBह्र्स्_४,३.२३ ॥

सुहृदेव प्रतिभटो वीरे कृष्णस्य न त्वरिः ।
स भक्तक्षोभकारित्वाद्रौद्रे त्वालम्बनो रसे ।
रागाभावो दृग्आदीनां रौद्रादस्य विभेदकः ॥ ऋBह्र्स्_४,३.२४ ॥

अथ दानवीरः
द्विविधो दानवीरः स्यादेकस्तत्र बहुप्रदः ।
उपस्थितदुरापार्थत्यागी चापर उच्यते ॥ ऋBह्र्स्_४,३.२५ ॥

तत्र बहुप्रदः
सहसा दीयते येन स्वयं सर्वस्वमप्युत ।
दामोदरस्य सौख्याय प्रोच्यते स बहुप्रदः ॥ ऋBह्र्स्_४,३.२६ ॥
सम्प्रदानस्य वीक्षाद्या अस्मिन्नुद्दीपना मताः ।
वाञ्छिताधिकदातृत्वं स्मितपूर्वाभिभाषणम् ॥ ऋBह्र्स्_४,३.२७ ॥
स्थैर्यदाक्षिण्यधैर्याद्या अनुभावा इहोदिताः ।
वितर्कौत्सुक्यहर्षाद्या विज्ञेया व्यभिचारिणः ॥ ऋBह्र्स्_४,३.२८ ॥
दानोत्साहरतिस्त्वत्र स्थायिभावतयोदिता ।
प्रगाढा स्थेयसी दित्सा दानोत्साह इतीर्यते ॥ ऋBह्र्स्_४,३.२९ ॥
द्विधा बहुप्रदोऽप्येष विद्वद्भिरिह कथ्यते ।
स्यादाभ्युदयिकस्त्वेकः परस्तत्सम्प्रदानकः ॥ ऋBह्र्स्_४,३.३० ॥

तत्र आभ्युदायिकः
कृष्णस्याभ्युदयार्थं तु येन सर्वस्वमर्प्यते ।
अर्थिभ्यो ब्राह्मणादिभ्यः स आभ्युदायिको भवेत् ॥ ऋBह्र्स्_४,३.३१ ॥

यथा
व्रजपतिरिह सूनोर्जातकार्थं तथासौ
व्यतरदमलचेताः सञ्चयं नैचिकीनाम् ।
पृथुरपि नृगकीर्तिः साम्प्रतं संवृतासीद्
इति निजगदुरुच्चैर्भूसुरा येन तृप्ताः ॥ ऋBह्र्स्_४,३.३२ ॥

अथ तत्सम्प्रदानकः
ज्ञातये हरये स्वीयमहंताममतास्पदम् ।
सर्वस्वं दीयते येन स स्यात्तत्सम्प्रदानकः ॥ ऋBह्र्स्_४,३.३३ ॥
तद्दानं प्रीतिपूजाभ्यां भवेदित्युदितं द्विधा ॥ ऋBह्र्स्_४,३.३४ ॥

तत्र प्रीतिदानम्
प्रीतिदानं तु तस्मै यद्दद्याद्बन्ध्व्आदिरूपिणे ॥ ऋBह्र्स्_४,३.३५ ॥

यथा
चार्चिक्यं वैजयन्तीं पटमुरुपुरटोद्भासुरं भूषणानां
श्रेणिं माणिक्यभाजं गजरथतुरगान् कर्बुरान् कर्बुरेण ।
दत्त्वा राज्यं कुटुम्बं स्वमपि भगवते दित्सुरप्यन्यदुच्चैर्
देयं कुत्राप्यदृष्ट्वा मखसदसि तदा व्याकुलः पाण्डवोऽभूत् ॥ ऋBह्र्स्_४,३.३६ ॥

पुजादानं
पुजादानं तु तस्मै यद्विप्ररूपाय दीयते ॥ ऋBह्र्स्_४,३.३७ ॥

यथा अष्टमे (८.२०.११)
यजन्ति यज्ञं क्रतुभिर्यमादृता
भवन्त आम्नायविधानकोविदाः ।
स एव विष्णुर्वरदोऽस्तु वा परो
दास्याम्यमुष्मै क्षितिमीप्सितां मुने ॥ ऋBह्र्स्_४,३.३८ ॥

यथा वा दशरूपके {*ढनिक तो ४.७२}
लक्ष्मीपयोधरोत्सङ्गकुङ्कुमारुणितो हरेः ।
बलिनैव स येनास्य भिक्षापात्रीकृतः करः ॥ ऋBह्र्स्_४,३.३९ ॥

अथ उपस्थितदुरापार्थत्यागी
उपस्थितदुरापार्थत्यग्यसौ येन नेष्यते ।
हरिणा दीयमानोऽपि सार्ष्ट्य्आदिस्तुष्यता वरः ॥ ऋBह्र्स्_४,३.४० ॥
पूर्वतोऽत्र विपर्यस्तकारकत्वं द्वयोर्भवेत् ।
अस्मिन्नुद्दीपनाः कृष्णकृपालापस्मितादयः ॥ ऋBह्र्स्_४,३.४१ ॥
अनुभावास्तद्उत्कर्षवर्णनद्रढिमादयः ।
अत्र सञ्चारिता भूम्ना धृतेरेव समीक्ष्यते ॥ ऋBह्र्स्_४,३.४२ ॥
त्यागोत्साहरतिर्धीरैः स्थायी भाव इहोदितः ।
त्यागेच्छा तादृशी प्रौढा त्यागोत्साह इतीर्यते ॥ ऋBह्र्स्_४,३.४३ ॥

यथा हरिभक्तिसुधोदये (७.२८)
स्थानाभिलाषी तपसि स्थितोऽहं
त्वां प्राप्तवान् देवमुनीन्द्रगुह्यम् ।
काचं विचिन्वन्नपि दिव्यरत्नं
स्वामिन् कृतार्थोऽस्मि वरं न याचे ॥ ऋBह्र्स्_४,३.४४ ॥

यथा वा तृतीये (३.१५.४८)
नात्यन्तिकं विगणयन्त्यपि ते प्रसादं
किं वान्यदर्पितभयं भ्रुव उन्नयैस्ते ।
येऽङ्ग त्वद्अङ्घ्रिशरणा भवतः कथायाः
कीर्तन्यतीर्थयशसः कुशला रसज्ञाः ॥ ऋBह्र्स्_४,३.४५ ॥

अयमेव भवन्नुच्चैः प्रौढभावविशेषभाक् ।
धुर्यादीनां तृतीयस्य वीरस्य पदवीं व्रजेत् ॥ ऋBह्र्स्_४,३.४६ ॥

अथ दयावीरः
कृपार्द्रहृदयत्वेन खण्डशो देहमर्पयन् ।
कृष्णायाच्छन्नकृपाय दयावीर इहोच्यते ॥ ऋBह्र्स्_४,३.४७ ॥
उद्दीपना इह प्रोक्तास्तद्आर्तिव्यञ्जनादयः ।
निजप्राणव्ययेनापि विपन्नत्राणशीलता ॥ ऋBह्र्स्_४,३.४८ ॥
आश्वासनोक्तयः स्थैर्यमित्याद्यास्तत्र विक्रियाः ।
औत्सुक्यमतिहर्षाद्या ज्ञेयाः सञ्चारिणो बुधैः ॥ ऋBह्र्स्_४,३.४९ ॥
दयोत्साहरतिस्त्वत्र स्थायिभाव उदीर्यते ।
दयोद्रेकभृदुत्साहो दयोत्साह इहोदितः ॥ ऋBह्र्स्_४,३.५० ॥

यथा
वन्दे कुट्मलिताञ्जलिर्मुहुरहं वीरं मयूरध्वजं
येनार्धं कपटद्विजाय वपुषः कंसद्विषे दित्सता ।
कष्टं गद्गदिकाकुलोऽस्मि कथनारम्भादहो धीमता
सोल्लासं क्रकचेन दारितमभूत्पत्नीसुताभ्यां शिवः ॥ ऋBह्र्स्_४,३.५१ ॥

हरेश्चेत्तत्त्वविज्ञानं नैवास्य घटते दया ।
तद्अभावे त्वसौ दानवीरेऽन्तर्भवति स्फुटम् ॥ ऋBह्र्स्_४,३.५२ ॥
वैष्णवत्वाद्रतिः कृष्णे क्रियतेऽनेन सर्वदा ।
कृतात्र द्विजरूपे च भक्तिस्तेनास्य भक्तता ॥ ऋBह्र्स्_४,३.५३ ॥
अन्तर्भावं वदन्तोऽस्य दानवीरे दयात्मनः ।
वोपदेवादयो धीरा वीरमाचक्षते त्रिधा ॥ ऋBह्र्स्_४,३.५४ ॥

अथ धर्मवीरः
कृष्णैकतोषणे धर्मे यः सदा परिनिष्ठितः ।
प्रायेण धीरशान्तस्तु धर्मवीरः स उच्यते ॥ ऋBह्र्स्_४,३.५५ ॥
उद्दीपना इह प्रोक्ताः सच्छास्त्रश्रवणादयः ।
अनुभावा नयास्तिक्यसहिष्णुत्वयमादयः ॥ ऋBह्र्स्_४,३.५६ ॥
धर्मोत्साहरतिर्धीरैः स्थायी भाव इहोच्यते ।
धर्मैकाभिनिवेशस्तु धर्मोत्साहो मतः सताम् ॥ ऋBह्र्स्_४,३.५७ ॥

यथा
भवदभि रतिहेतून् कुर्वता सप्ततन्तून्
पुरमभि पुरुहूते नित्यमेवोपहूते ।
दनुजदमन तस्याः पाण्डुपुत्रेण गण्डः
सुचिरमरचि शच्याः सव्यहस्ताङ्कशायी ॥ ऋBह्र्स्_४,३.५८ ॥

यज्ञः पूजाविशेषोऽस्य भुजाद्य्अङ्गानि वैष्णवः ।
ध्यात्वेन्द्राद्य्आश्रयत्वेन यदेष्वाहुतिरर्प्यते ॥ ऋBह्र्स्_४,३.५९ ॥
अयं तु साक्षात्तस्यैव निदेशात्कुरुते मखान् ।
युधिष्ठिरोऽम्बुधिः प्रेम्णां महाभागवतोत्तमः ॥ ऋBह्र्स्_४,३.६० ॥
दानादित्रिविधं वीरं वर्णयन्तः परिस्फुटम् ।
धर्मवीरं न मन्यन्ते कतिचिद्धनिकादयः* ॥ ऋBह्र्स्_४,३.६१ ॥
{*Cओम्मेन्ततोरोन् डशरूपक}

इति श्रीश्रीभक्तिरसामृतसिन्धावुत्तरविभागे
वीरभक्तिरसनिरूपणे अद्भुतभक्तिरसलहरी तृतीया ॥

___________________________________________________

[४.४]
करुणभक्तिरसाख्या चतुर्थलहरी

आत्मोचितैर्विभावाद्यैर्नीता पुष्टिं सतां हृदि ।
भवेच्छोकरतिर्भक्तिरसो हि करुणाभिधः ॥ ऋBह्र्स्_४,४.१ ॥
अव्युच्छिन्नमहानन्दोऽप्येष प्रेमविशेषतः ।
अनिष्टाप्तेः पदतया वेद्यः कृष्णोऽस्य च प्रियः ॥ ऋBह्र्स्_४,४.२ ॥
तथानवाप्ततद्भक्तिसौख्यश्च स्वप्रियो जनः ।
इत्यस्य विषयत्वेन ज्ञेया आलम्बनास्त्रिधा ॥ ऋBह्र्स्_४,४.३ ॥
तत्तद्वेदी च तद्भक्त आश्रयत्वेन च त्रिधा ।
सोऽप्यौचित्येन विज्ञेयः प्रायः शान्तादिवर्जितः ।
तत्कर्मगुणरूपाद्या भवत्युद्दीपना इह ॥ ऋBह्र्स्_४,४.४ ॥
अनुभावा मुखे शोषो विलापः स्रस्तगात्रता ।
श्वासक्रोशनभूपातघातोरस्ताडनादयः ॥ ऋBह्र्स्_४,४.५ ॥
अत्राष्टौ सात्त्विका जाड्यनिर्वेदग्लानिदीनताः ।
चिन्ताविषादाउत्सुक्यचापलोन्मादमृत्यवः ।
आलस्यापस्मृतिव्याधिमोहाद्या व्यभिचारिणः ॥ ऋBह्र्स्_४,४.६ ॥
हृदि शोकतयांशेन गता परिणतिं रतिः ।
उक्ता शोकरतिः सैव स्थायी भाव इहोच्यते ॥ ऋBह्र्स्_४,४.७ ॥

तत्र कृष्णो, यथा श्रीदशमे (१०.१६.१०)
तं नागभोगपरिवीतमदृष्टचेष्टम्
आलोक्य तत्प्रियसखाः पशुपा भृशार्ताः ।
कृष्णेऽर्पितात्मसुहृद्अर्थकलत्रकामा
दुःखानुशोकभयमूढधियो निपेतुः ॥ ऋBह्र्स्_४,४.८ ॥

यथा वा
फणिह्रदमवगाढे दारुणं पिञ्छचूडे
स्खलद्अशिशिरबाष्पस्तोमधौतोत्तरीया ।
निखिलकरणवृत्तिस्तम्भिनीमाललम्बे
विषमगतिमवस्थां गोष्ठराजस्य राज्ञी ॥ ऋBह्र्स्_४,४.९ ॥

तस्य प्रियजनो, यथा
कृष्णप्रियाणामाकर्षे शङ्खचूडेन निर्मिते ।
नीलाम्बरस्य वक्त्रेन्दुर्नीलिमानं मुहुर्दधे ॥ ऋBह्र्स्_४,४.१० ॥

स्वप्रियो, यथा हंसदूते (५४)
विराजन्ते यस्य व्रजशिशुकुलस्तेयविकल
स्वयम्भूचूडाग्रैर्लुलितशिखराः पादनखराः ।
क्षणं यानालोक्य प्रकटपरमानन्दविवशः
स देवर्षिर्मुक्तानपि तनुभृतः शोचति भृशम् ॥ ऋBह्र्स्_४,४.११ ॥

यथा वा
मातर्माद्रि गता कुतस्त्वमधुना हा क्वासि पाण्डो पितः
सान्द्रानन्दसुधाब्धिरेष युवयोर्नाभूद्दृशां गोचरः ।
इत्युच्चैर्नकुलानुजो विलपति प्रेक्ष्य प्रमोदाकुलो
गोविन्दस्य पदारविन्दयुगलप्रोद्दामकान्तिच्छटाम् ॥ ऋBह्र्स्_४,४.१२ ॥

रतिं विनापि घटते हास्यादेरुद्गमः क्वचित् ।
कदाचिदपि शोकस्य नास्य सम्भावना भवेत् ॥ ऋBह्र्स्_४,४.१३ ॥
रतेर्भूम्ना क्रशिम्ना च शोको भूयान् कृशश्च सः ।
रत्या सहाविनाभावात्काप्येतस्य विशिष्टता ॥ ऋBह्र्स्_४,४.१४ ॥

अपि च
कृष्णैश्वर्याद्य्अविज्ञानं कृतं नैषामविद्यया ।
किन्तु प्रेमोत्तररसविशेषेणैव तत्कृतम् ॥ ऋBह्र्स्_४,४.१५ ॥
अतः प्रादुर्भवन् शोको लब्धाप्युद्भटतां मुहुः ।
दुरूहामेव तनुते गतिं सौख्यस्य कामपि ॥ ऋBह्र्स्_४,४.१६ ॥

इति श्रीश्रीभक्तिरसामृतसिन्धावुत्तरविभागे
गौणभक्तिरसनिरूपणे करुणभक्तिरसलहरी चतुर्थी ॥

___________________________________________________

४.५
रौद्रभक्तिरसाख्या पञ्चमलहरी

नीता क्रोधरतिः पुष्टिं विभावाद्यैर्निजोचितैः ।
हृदि भक्तजनस्यासौ रौद्रभक्तिरसो भवेत् ॥ ऋBह्र्स्_४,५.१ ॥
कृष्णो हितोऽहितश्चेति क्रोधस्य विषयस्त्रिधा ।
कृष्णे सखीजरत्य्आद्याः क्रोधस्याश्रयतां गताः ।
भक्ताः सर्वविधा एव हिते चैवाहिते तथा ॥ ऋBह्र्स्_४,५.२ ॥

तत्र कृष्णे सख्याः क्रोधः
सखीक्रोधे भवेत्सख्याः कृष्णादत्याहिते सति ॥ ऋBह्र्स्_४,५.३ ॥

यथा विदग्धमाधवे (२.३७)
अन्तःक्लेशकलङ्किताः किल वयं यामोऽद्य याम्यां पुरीं
नायं वञ्चनसञ्चयप्रणयिनं हासं तथाप्युज्झति ।
अस्मिन् सम्पुटिते गभीरकपटैराभीरपल्लीविटे
हा मेधाविनि राधिके तव कथं प्रेमा गरीयानभूत् ॥ ऋBह्र्स्_४,५.४ ॥

तत्र जरत्याः क्रोधः
क्रोधो जरत्या वध्व्आदिसम्बन्धे प्रेक्षिते हरौ ॥ ऋBह्र्स्_४,५.५ ॥
यथा
अरे युवतितस्कर प्रकटमेव वध्वाः पटस्
तवोरसि निरीक्ष्यते बत न नेति किं जल्पसि ।
अहो व्रजनिवासिनः शृणुत किं न विक्रोशनं
व्रजेश्वरसुतेन मे सुतगृहेऽग्निरुत्थापितः ॥ ऋBह्र्स्_४,५.६ ॥

गोवर्धनं महामल्लं विनान्येषां व्रजौकसाम् ।
सर्वेषामेव गोविन्दे रतिः प्रौढा विराजते ॥ ऋBह्र्स्_४,५.७ ॥

अथ हितः
हितस्त्रिधानवहितः साहसी चेर्ष्युरित्यपि ॥ ऋBह्र्स्_४,५.८ ॥

तत्र अनवहितः
कृष्णपालनकर्तापि तत्कर्माभिनिवेशतः ।
क्वचित्तत्र प्रमत्तो यः प्रोक्तोऽनवहितोऽत्र सः ॥ ऋBह्र्स्_४,५.९ ॥

यथा
उत्तिष्ठ मूढ कुरु मा विलम्बं
वृथैव धिक्पण्डितमानिनी त्वम् ।
क्रट्यत्पलाशिद्वयमन्तरा ते
बद्धः सुतोऽसौ सखि बम्भ्रमीति ॥ ऋBह्र्स्_४,५.१० ॥

अथ साहसी
यः प्रेरको भयस्थाने साहसी स निगद्यते ॥ ऋBह्र्स्_४,५.११ ॥

यथा
गोविन्दः प्रियसुहृदां गिरैव यातस्
तालानां विपिनमिति स्फुटं निशम्य ।
भ्रूभेदस्थपुटितदृष्टिराद्यमेषां
डिम्भानां व्रजपतिगेहिनी ददर्श ॥ ऋBह्र्स्_४,५.१२ ॥

अथ ईर्ष्युः
ईर्ष्युर्मानधना प्रोक्ता प्रौढेर्ष्याक्रान्तमानसा ॥ ऋBह्र्स्_४,५.१३ ॥

यथा
दुर्मानमन्थमथिते कथयामि किं ते
दूरं प्रयाहि सविधे तव जाज्ज्वलीमि ।
हा धिक्प्रियेण चिकुराञ्चितपिञ्छकोट्या
निर्मञ्छिताग्रचरणाप्यरुणाननासि ॥ ऋBह्र्स्_४,५.१४ ॥

अथ अहितः
अहितः स्याद्द्विधा स्वस्य हरेश्चेति प्रभेदतः ॥ ऋBह्र्स्_४,५.१५ ॥

तत्र स्वस्याहितः
अहितः स्वस्य स स्याद्यः कृष्णसम्बन्धबाधकः ॥ ऋBह्र्स्_४,५.१६ ॥

यथा उद्धवसन्देशे (७४)
कृष्णं मुष्णनकरुणबलाद्गोपनारीवधार्थी
मा मर्यादां यदुकुलभुवां भिन्धिरे गान्दिनेयः ।
इति उत्तुङ्गा मम मधुपुरे यात्रया तत्र तासां
वित्रस्तानां परिववलिरे वल्लवीनां विलापाः ॥ ऋBह्र्स्_४,५.१७ ॥

अथ हरेरहितः
अहितस्तु हरेस्तस्य वैरिपक्षो निगद्यते ॥ ऋBह्र्स्_४,५.१८ ॥

यथा
हरौ श्रुतिशिरःशिखा मणिमरीचिनीराजित
स्फुरच्चरणपङ्कजेऽप्यवमतिं व्यनक्त्यत्र यः ।
अयं क्षिपति पाण्डवः शमनदण्डघोरं हठात्
त्रिरस्य मुकुटोपरि स्फुटमुदीर्य सव्यं पदम् ॥ ऋBह्र्स्_४,५.१९ ॥

सोल्लुण्ठहासवक्रोक्तिकटाक्षानादरादयः ।
कृष्णाहितहितस्थाः स्युरमी उद्दीपना इह ॥ ऋBह्र्स्_४,५.२० ॥
हस्तनिस्पेषणं दन्तघट्टनं रक्तनेत्रता ।
दष्टौष्ठतातिभ्रूकुटी भुजास्फालनताडनाः ॥ ऋBह्र्स्_४,५.२१ ॥
तुष्णीकता नतास्यत्वं निश्वासो भुग्नदृष्टिता ।
भर्त्सनं मूर्धविधूतिर्दृग्अन्ते पाटलच्छविः ॥ ऋBह्र्स्_४,५.२२ ॥
भ्रूभेदाधरकम्पाद्या अनुभावा इहोदिताः ।
अत्र स्तम्भादयः सर्वे प्राकट्यं यान्ति सात्त्विकाः ॥ ऋBह्र्स्_४,५.२३ ॥
आवेगो जडता गर्वो निर्वेदो मोहचापले ।
असूयौग्र्यं तथामर्षश्रमाद्या व्यभिचारिणः ॥ ऋBह्र्स्_४,५.२४ ॥
अत्र क्रोधरतिः स्थायी स तु क्रोधस्त्रिधा मतः ।
कोपो मन्युस्तथा रोषस्तत्र कोपस्तु शत्रुगः ॥ ऋBह्र्स्_४,५.२५ ॥
मन्युर्बन्धुषु ते पूज्यसमन्यूनास्त्रिधोदिताः ।
रोषस्तु दयिते स्त्रीणामतो व्यभिचरत्यसौ ॥ ऋBह्र्स्_४,५.२६ ॥
हस्तपेषादयः कोपे मन्यौ तुष्णीकतादयः ।
दृग्अन्तपाटलत्वाद्या रोषे तु कथिताः क्रियाः ॥ ऋBह्र्स्_४,५.२७ ॥

तत्र वैरिणि, यथा
निरुध्य पुरमुन्मदे हरिमगाधसत्त्वाश्रयं
मृधे मगधभूपतौ किमपि वक्त्रमाक्रोशति ।
दृशं कवलितद्विषद्विसरजाङ्गले नुनोद
दहद्इङ्गलप्रवलपिङ्गलां लाङ्गली* ॥ ऋBह्र्स्_४,५.२८ ॥
{*ठ्रेए स्य्ल्लब्लेस्मिस्सिन्गिन् थे लस्त्लिने. Cओप्यिस्तेर्रोरोर्त्य्पो?}

पूज्यो, यथा विदग्धमाधवे (२.२२)
क्रोशन्त्यां करपल्लवेन बलवान् सद्यः पिधत्ते मुखं
धावन्त्यां भयभाजि विस्तृतभुजो रुन्धे पुरः पद्धतिम् ।
पादान्ते विलुठत्यसौ मयि मुहुर्दष्टाधरायां रुषा
मातश्चण्डि मया शिखण्डमुकुटादात्माभिरक्ष्यः कथम् ॥ ऋBह्र्स्_४,५.२९ ॥

समे, यथा
ज्वलति दुर्मुखि मर्मणि मुर्मुरस्
तव गिरा जटिले निटिले च मे ।
गिरिधरः स्पृशति स्म कदा मदाद्
दुहितरं दुहितुर्मम पामरि ॥ ऋBह्र्स्_४,५.३० ॥

न्यूने, यथा
हन्त स्वकीयकुचमूर्ध्नि मनोहरोऽयं
हारश्चकास्ति हरिकण्ठतटीचरिष्णुः ।
भोः पश्यत स्वकुलकज्जलमञ्जरीयं
कुटेन मां तदपि वञ्चयते वधूटी ॥ ऋBह्र्स्_४,५.३१ ॥

अस्मिन्न तादृशो मन्यौ वर्तते रत्य्अनुग्रहः ।
उदाहरणमात्राय तथाप्येष निदर्शितः ॥ ऋBह्र्स्_४,५.३२ ॥
क्रोधाश्रयाणां शत्रूणां चैद्यादीनां स्वभावतः ।
क्रोधो रतिविनाभावान्न भक्तिरसतां व्रजेत् ॥ ऋBह्र्स्_४,५.३३ ॥

इति श्रीश्रीभक्तिरसामृतसिन्धावुत्तरविभागे
गौणभक्तिरसनिरूपणे रौद्रभक्तिरसलहरी पञ्चमी ॥

___________________________________________________

[४.६]
भयानकभक्तिरसाख्या
षष्ठलहरी

वक्ष्यमाणैर्विभावाद्यैः पुष्टिं भयरतिर्गता ।
भयानकाभिधो भक्तिरसो धीरैरुदीर्यते ॥ ऋBह्र्स्_४,६.१ ॥
कृष्णश्च दारुणाश्चेति तस्मिन्नालम्बना द्विधा ।
अनुकम्प्येषु सागस्सु कृष्णस्तस्य च बन्धुषु ॥ ऋBह्र्स्_४,६.२ ॥
दारुणाः स्नेहतः शश्वत्तद्अनिष्ठाप्तिदर्शिषु ।
दर्शनाच्छ्रवणाच्चेति स्मरणाच्च प्रकीर्तिताः ॥ ऋBह्र्स्_४,६.३ ॥

तत्र अनुकम्प्येषु कृष्णो, यथा
किं शुष्यद्वदनोऽपि मुञ्च खचितं चित्ते पृथुं वेपथुं
विश्वस्य प्रकृतिं भजस्व न मनागप्यस्ति मन्तुं तव ।
उष्मम्रक्षितमृक्षराज रभसाद्विस्तीर्य वीर्यं त्वया
पृथ्वी प्रत्युत युद्धकौतुकमयी सेवैव मे निर्मिता ॥ ऋBह्र्स्_४,६.४ ॥

यथा वा
मुरमथन पुरस्ते को भुजङ्गस्तपस्वी
लघुहरमिति कार्षीर्मा स्म दीनाय मन्युम् ।
गुरुरयमपराधस्तथ्यमज्ञानतोऽभूद्
अशरणमतिमूढं रक्ष रक्ष प्रसीद ॥ ऋBह्र्स्_४,६.५ ॥

बन्धुषु दारुणा दर्शनाद्, यथा
हा किं करोमि तरलं भवनान्तराले
गोपेन्द्र गोपय बलादुपरुध्य बालम् ।
क्ष्मामण्डलेन सह चञ्चलयन्मनो मे
शृङ्गाणि लङ्घयति पश्य तुरङ्गदैत्यः ॥ ऋBह्र्स्_४,६.६ ॥

श्रवणाद्, यथा
शृण्वन्ती तुरगदानवं रुषा
गोकुलं किल विशन्तमुद्धुरम् ।
द्रागभूत्तनयरक्षणाकुला
शुष्यद्आस्यजलजा व्रजेश्वरी ॥ ऋBह्र्स्_४,६.७ ॥

स्मरणाद्, यथा
विरम विरम मातः पूतनायाः प्रसङ्गात्
तनुमियमधुनापि स्मर्यमाणा धुनोति ।
कवलयितुमिवान्धीकृत्य बालं घुरन्ती
वपुरतिपुरुषं या घोरमाविश्चकार ॥ ऋBह्र्स्_४,६.८ ॥

विभावस्य भ्रूकुट्य्आद्यास्तस्मिन्नुद्दीपना मताः ।
मुखशोषणमुच्छ्वासः परावृत्य विलोकनम् ॥ ऋBह्र्स्_४,६.९ ॥
स्वसङ्गोपनमुद्घूर्णा शरणान्वेषणं तथा ।
क्रोशनाद्याः क्रियाश्चात्र सात्त्विकाश्चाश्रुवर्जिताः ॥ ऋBह्र्स्_४,६.१० ॥
इह सन्त्रासमरणचापलावेगदीनताः ।
विषादमोहापस्मारशङ्काद्या व्यभिचारिणः ॥ ऋBह्र्स्_४,६.११ ॥
अस्मिन् भग्नरतिः स्थायी भावः स्यादपराधतः ।
भीषणेभ्यश्च तत्र स्याद्बहुधैवापराधिता ॥ ऋBह्र्स्_४,६.१२ ॥
तज्जा भीर्नापरत्र स्यादनुग्राह्यजनान् विना ।
आकृत्या ये प्रकृत्या ये ये प्रभावेण भीषणाः ॥ ऋBह्र्स्_४,६.१३ ॥
एतद्आलम्बना भीतिः केवलप्रेमशालिषु ।
नारीबालादिषु तथा प्रायेणात्रोपजायते ॥ ऋBह्र्स्_४,६.१४ ॥
आकृत्या पूतनाद्याः स्युः प्रकृत्या दुष्टभूभुजः ।
भीषणास्तु प्रभावेण सुरेन्द्रगिरिशादयः ॥ ऋBह्र्स्_४,६.१५ ॥
सदा भगवतो भीतिं गता आत्यन्तिकीमपि ।
कंसाद्या रतिशून्यत्वादत्र नालम्बना मताः ॥ ऋBह्र्स्_४,६.१६ ॥

इति श्रीश्रीभक्तिरसामृतसिन्धावुत्तरविभागे
गौणभक्तिरसनिरूपणे भयानकभक्तिरसलहरी षष्ठी ॥

___________________________________________________

[४.७]
बीभत्सभक्तिरसाख्या
सप्तमलहरी

पुष्टिं निजविभावाद्यैर्जुगुप्सारतिरागता ।
असौ भक्तिरसो धीरैर्बीभत्साख्य इतीर्यते ॥ ऋBह्र्स्_४,७.१ ॥
अस्मिन्नाश्रितशान्ताद्या धीरैरालम्बना मताः ॥ ऋBह्र्स्_४,७.२ ॥

यथा
पाण्डित्यं रतहिण्डकाध्वनि गतो यः कामदीक्षाव्रती
कुर्वन् पूर्वमशेषषिड्गनगरी साम्राज्यचर्यामभूत् ।
चित्रं सोऽयमुदीरयन् हरिगुणानुद्बाष्पदृष्टिर्जनो
दृष्टे स्त्रीवदने विकूणितमुखो विष्टभ्य निष्ठीवति ॥ ऋBह्र्स्_४,७.३ ॥

अत्र निष्ठीवनं वक्त्रकूणनं घ्राणसंवृतिः ।
धावनं कम्पपुलकप्रस्वेदाद्याश्च विक्रियाः ॥ ऋBह्र्स्_४,७.४ ॥
इह ग्लानिश्रमोन्मादमोहनिर्वेददीनताः ।
विषादचापलावेगजाड्याद्यो व्यभिचारिणः ॥ ऋBह्र्स्_४,७.५ ॥
जुगुप्सारतिरत्र स्यात्स्थायी सा च विवेकजा ।
प्रायिकी चेति कथिता जुगुप्सा द्विविधा बुधैः ॥ ऋBह्र्स्_४,७.६ ॥

तत्र विवेकजा
जातकृष्णरतेर्भक्तविशेषस्य तु कस्यचित् ।
विवेकोत्था तु देहादौ जुगुप्सा स्याद्विवेकजा ॥ ऋBह्र्स्_४,७.७ ॥

यथा
घनरुधिरमये त्वचा पिनद्धे
पिशितविमिश्रितविस्रगन्धभाजि ।
कथमिह रमतां बुधः शरीरे
भगवति हन्त रतेर्लवेऽप्युदीर्णे ॥ ऋBह्र्स्_४,७.८ ॥

अथ प्रायिकी
अमेध्यपूत्य्अनुभवात्सर्वेषामेव सर्वतः ।
या प्रायो जायते सेयं जुगुप्सा प्रायिकी मता ॥ ऋBह्र्स्_४,७.९ ॥

यथा
असृङ्मूत्राकीर्णे घनशमलपङ्कव्यतिकरे
वसन्नेष क्लिन्नो जडतनुरहं मातुरुदरे ।
लभे चेतःक्षोभं तव भजनकर्माक्षमतया
तदस्मिन् कंसारे कुरु मयि कृपासागर कृपाम् ॥ ऋBह्र्स्_४,७.१० ॥

यथा वा
घ्राणोद्घूर्णकपूतगन्धिविकटे कीटाकुले देहली
स्रस्तव्याधितयूथगूथघटनानिर्धूतनेत्रायुषि ।
कारानामनि हन्त मागधयमेनामी वयं नारके
क्षिप्तास्ते स्मृतिमाकलय्य नरकध्वंसिन्निह प्राणिमः ॥ ऋBह्र्स्_४,७.११ ॥

लब्धकृष्णरतेरेव सुष्ठु पूतं मनः सदा ।
क्षुभ्यत्यहृद्यलेशेऽपि ततोऽस्यां रत्य्अनुग्रहः ॥ ऋBह्र्स्_४,७.१२ ॥
हास्यादीनां रसत्वं यद्गौणत्वेनापि कीर्तितम् ।
प्राचां मतानुसारेण तद्विज्ञेयं मनीषिभिः ॥ ऋBह्र्स्_४,७.१३ ॥
अमी पञ्चैव शान्ताद्या हरेर्भक्तिरसा मताः ।
एषु हास्यादयः प्रायो बिभ्रति व्यभिचारिताम् ॥ ऋBह्र्स्_४,७.१४ ॥

इति श्रीश्रीभक्तिरसामृतसिन्धावुत्तरविभागे
गौणभक्तिरसनिरूपणे बीभत्सभक्तिरसलहरी सप्तमी ॥

___________________________________________________

[४.८]
रसानां मैत्रीवैरस्थितिनाम्नी
अष्टमलहरी

अथामीषां क्रमेणैव शान्तादीनां परस्परम् ।
मित्रत्वं शात्रवत्वं च रसानामभिधीयते ॥ ऋBह्र्स्_४,८.१ ॥
शान्तस्य प्रीतबीभत्सधर्मवीराः सुहृद्वराः ।
अद्भुतश्चैष प्रीतादिषु चतुःष्वपि ॥ ऋBह्र्स्_४,८.२ ॥
द्विषन्नस्य शुचिर्युद्धवीरो रौद्रो भयानकः ॥ ऋBह्र्स्_४,८.३ ॥
सुहृत्प्रीतस्य बीभत्सः शान्तो वीरद्वयं तथा ।
वैरी शुचिर्युद्धवीरो रौद्रश्चैकविभावकः ॥ ऋBह्र्स्_४,८.४ ॥
प्रेयसस्तु शुचिर्हास्यो युद्धवीरः सुहृद्वराः ।
द्विषो वत्सलबीभत्सरौद्रा भीष्मश्च पूर्ववत् ॥ ऋBह्र्स्_४,८.५ ॥
वत्सलस्य सुहृद्धास्यः करुणो भीष्मभित्तथा ।
शत्रुः शुचिर्युद्धवीरः प्रीतो रौद्रश्च पूर्ववत् ॥ ऋBह्र्स्_४,८.६ ॥
शुचेर्हास्यस्तथा प्रेयान् सुहृदस्य प्रकीर्तितः ।
द्विषो वत्सलबीभत्सशान्तरौद्रभयानकाः ।
प्राहुरेकेऽस्य सुहृदं वीरयुग्मं परे रिपुम् ॥ ऋBह्र्स्_४,८.७ ॥
मित्रं हास्यस्य बीभत्सः शुचिः प्रेयान् सवत्सलः ।
प्रतिपक्षस्तु करुणस्तथा प्रोक्तो भयानकः ॥ ऋBह्र्स्_४,८.८ ॥
अद्भुतस्य सुहृद्वीरः पञ्च शान्तादयस्तथा ।
प्रतिपक्षो भवेदस्य रौद्रो बीभत्स एव च ॥ ऋBह्र्स्_४,८.९ ॥
वीरस्य त्वद्भुतो हास्यः प्रेयान् प्रीतिस्तथा सुहृत् ।
भयानको विपक्षोऽस्य कस्यचिच्छान्त एव च ॥ ऋBह्र्स्_४,८.१० ॥
करुणस्य सुहृद्रौद्रो वत्सलश्च विलोक्यते ।
वैरी हास्योऽस्य सम्भोगशृङ्गारश्चाद्भुतस्तथा ॥ ऋBह्र्स्_४,८.११ ॥
रौद्रस्य करुणः प्रोक्तो वीरश्चापि सुहृद्वरः ।
प्रतिपक्षस्तु हास्येऽस्य शृङ्गारो भीषणोऽपि च ॥ ऋBह्र्स्_४,८.१२ ॥
भयानकस्य बीभत्सः करुणश्च सुहृद्वरः ।
द्विषन्तु वीरशृङ्गारहास्यरौद्राः प्रकीर्तिताः ॥ ऋBह्र्स्_४,८.१३ ॥
बीभत्सस्य भवेच्छान्तो हास्यः प्रीतिस्तथा सुहृत् ।
शत्रुः शुचिस्तथा प्रेयान् ज्ञेया युक्त्या परे च ते ॥ ऋBह्र्स्_४,८.१४ ॥

तत्र सुहृत्कृत्यम्
कथितेभ्यः परे ये स्युस्ते तटस्थाः सतां मताः ॥ ऋBह्र्स्_४,८.१५ ॥
सुहृदा मिश्रणां सम्यगास्वादं कुरुते रसम् ॥ ऋBह्र्स्_४,८.१६ ॥
द्वयोस्तु मिश्रणे साम्यं दुःशकं स्यात्तुलाधृतम् ।
तस्मादङ्गाङ्गिभावेन मेलनं विदुषां मतम् ॥ ऋBह्र्स्_४,८.१७ ॥
भवेन्मुख्योऽथ वा गौणो रसोऽङ्गी किल यत्र यः ।
कर्तव्यं तत्र तस्याङ्गं सुहृदेव रसो बुधैः ॥ ऋBह्र्स्_४,८.१८ ॥
अथाङ्गित्वं प्रथमतो मुख्यानामिह लिख्यते ।
अङ्गतां यत्र सुहृदो मुख्या गौणाश्च बिभ्रति ॥ ऋBह्र्स्_४,८.१९ ॥

तत्र शान्तेऽङ्गिनि प्रीतस्याङ्गता, यथा
जीवस्फुलिङ्गवह्नेर्महसो घनचित्स्वरूपस्य ।
तस्य पदाम्बुजयुगलं किं वा संवाहयिष्यामि ॥ ऋBह्र्स्_४,८.२० ॥
अत्र मुख्येऽङ्गिनि मुख्यस्याङ्गता ।

तत्रैव बीभत्सस्य, यथा
अहमिह कफशुक्रशोणितानां
पृथुकुतुपे कुतुकी रतः शरीरे ।
शिव शिव परमात्मनो दुरात्मा
सुखवपुषः स्मरणेऽपि मन्थरोऽस्मि ॥ ऋBह्र्स्_४,८.२१ ॥
अत्र मुख्य एव गौणस्य ।

तत्रैव प्रीतस्याद्भुतबीभत्सयोश्च, यथा
हित्वास्मिन् पिशितोपनद्धरुधिरक्लिन्ने मुदं विग्रहे
प्रीत्य्उत्सिक्तमनाः कदाहमसकृद्दुस्तर्कचर्यास्पदम् ।
आसीनं पुरटासनोपरि परं ब्रह्माम्बुदश्यामलं
सेविष्ये चलचारुचामरमरुत्सञ्चार चातुर्यतः ॥ ऋBह्र्स्_४,८.२२ ॥
अत्र मुख्य एव मुख्यस्य गौणयोश्च ।

अथ प्रीते शान्तस्य, यथा
निरविद्यतया सपद्यहं
निरवद्यः प्रतिपद्यमाधुरीम् ।
अरविन्दविलोचनं कदा
प्रभुमिन्दीवरसुन्दरं भजे ॥ ऋBह्र्स्_४,८.२३ ॥
अत्र मुख्ये मुख्यस्य ।

तत्रैव बीभत्सस्य, यथा
स्मरन् प्रभुपादाम्भोजं नटन्नटति वैष्णवः ।
यस्तु दृष्ट्या पद्मिनीनामपि सुष्ठु हृणीयते ॥ ऋBह्र्स्_४,८.२४ ॥
अत्र मुख्ये गौणस्य ।

तत्रैव बीभत्सशान्तवीराणां, यथा
तनोति मुखविक्रियां युवतिसङ्गरङ्गोदये
न तृप्यति न सर्वतः सुखमये समाधावपि ।
न सिद्धिषु च लालसां वहति लभ्यमानास्वपि
प्रभो तव पदार्चने परमुपैति तृष्णां मनः ॥ ऋBह्र्स्_४,८.२५ ॥
अत्र मुख्ये मुख्यस्य गौणयोश्च ।

अथ प्रेयसि शुचेर्, यथा
धन्यानां किल मूर्धन्याः सुबलामुर्व्रजाबलाः ।
अधरं पिञ्छचूडस्य चलाश्चुलूकयन्ति याः ॥ ऋBह्र्स्_४,८.२६ ॥
अत्र मुख्ये मुख्यस्य ।

तत्रैव हासस्य, यथा
दृशोस्तरलितैरलं व्रज निवृत्य मुग्धे व्रजं
वितर्कयसि मां यथा न हि तथास्मि किं भूरिणा ।
इतीरयति माधवे नवविलासिनीं छद्मना
ददर्श सुबलो बलद्विकचदृष्टिरस्याननम् ॥ ऋBह्र्स्_४,८.२७ ॥
अत्र मुख्ये गौणस्य ।

तत्रैव शुचिहास्ययोर्, यथा
मिहिरदुहितुरुद्यद्वञ्जुलं मञ्जुतीरं
प्रविशति सुबलोऽयं राधिकावेषगूढः ।
सरभसमभिपश्यन् कृष्णमभ्युत्थितं यः
स्मितविकशितगण्डं स्वीयमास्यं वृणोति ॥ ऋBह्र्स्_४,८.२८ ॥
अत्र मुख्ये मुख्यगौणयोः ।

अथ वत्सले करुणस्य
निरातपत्रः कान्तारे सन्ततं मुक्तपादुकः ।
वत्सानवति वत्सो मे हन्त सन्तप्यते मनः ॥ ऋBह्र्स्_४,८.२९ ॥
अत्र मुख्ये गौणस्य ।

तत्रैव हास्यस्य, यथा
पुत्रस्ते नवनीतपिण्डमतनुं मुष्णन्ममान्तर्गृहाद्
विन्यस्यापससार तस्य कणिकां निद्राणडिम्भानने ।
इत्युक्ता कुलवृद्धया सुतमुखे दृष्टिं विभुग्नभ्रुणि
स्मेरां निक्षिपती सदा भवतु वः क्षेमाय गोष्ठेश्वरी ॥ ऋBह्र्स्_४,८.३० ॥
अत्रापि मुख्ये गौणस्य ।

तत्रैव भयानकाद्भुतहास्यकरुणानां, यथा
कम्प्रा स्वेदिनि चूर्णकुन्तलतटे स्फारेक्षणा तुङ्गिते
सव्ये दोष्णि विकाशिगण्डफलका लीलास्यभङ्गीशते ।
बिभ्राणस्य हरेर्गिरीन्द्रमुदयद्बाष्पा चिरोर्ध्वस्थितौ
पातु प्रस्नवसिच्यमानसिचया विश्वं व्रजाधीश्वरी ॥ ऋBह्र्स्_४,८.३१ ॥
अत्रापि मुख्ये चतूर्णां गौणानाम् ।

केवले वत्सले नास्ति मुख्यस्य खलु सौहृदम् ।
अतोऽत्र वत्सले तस्य नतरां लिखिताङ्गता ॥ ऋBह्र्स्_४,८.३२ ॥

अथ उज्ज्वले प्रेयसो, यथा
मद्वेषशीलिततनोः सुबलस्य पश्य
विन्यस्य मञ्जुभुजमूर्ध्नि भुजं मुकुन्दः ।
रोमाञ्चकञ्चुकजुषः स्फुटमस्य कर्णे
सन्देशमर्पयति तन्वि मद्अर्थमेव ॥ ऋBह्र्स्_४,८.३३ ॥
अत्र मुख्ये मुख्यस्य ।

तत्रैव हास्यस्य, यथा
स्वसास्मि तव निर्दये परिचिनोषि न त्वं कुतः
कुरु प्रणयनिर्भरं मम कृशाङ्गि कण्ठग्रहम् ।
इति ब्रुवति पेशलं युवतिवेषगूढे हरौ
कृतं स्मितमभिज्ञया गुरुपुरस्तदा राधया ॥ ऋBह्र्स्_४,८.३४ ॥
अत्र मुख्ये गौणस्य ।

तत्रैव प्रेयोवीरयोर्यथा
मुकुन्दोऽयं चन्द्रावलिवदनचन्द्रे चटुलभे
स्मरस्मेरामाराद्दृशमसकलामर्पयति च ।
भुजामंसे सख्युः पुलकिनि दधानः फनिनिभाम्
इभारिक्ष्वेडाभिर्वृषदनुजमुद्योजयति च ॥ ऋBह्र्स्_४,८.३५ ॥
अत्र मुख्ये मुख्यगौणयोः ।

अथ गौणानामङ्गिता
हास्यादीनां तु गौणानां यद्उदाहरणं कृतम् ।
तेनैषामङ्गिता व्यक्ता मुख्यानां च तथाङ्गता ।
तथाप्यल्पविशेषाय किञ्चिदेव विलिख्यते ॥ ऋBह्र्स्_४,८.३६ ॥

अथ हास्येऽङ्गिनि शुचेरङ्गता, यथा
मदनान्धतया त्रिवक्रया
प्रसभं पीतपटाञ्चले धृते ।
अदधाद्विनतं जनाग्रतो
हरिरुत्फुल्लकपोलमाननम् ॥ ऋBह्र्स्_४,८.३७ ॥
अत्र गौणेऽङ्गिनि मुख्यस्याङ्गता ।

वीरे प्रेयसो, यथा
सेनान्यं विजितमवेक्ष्य भद्रसेनं
मां योद्धुं मिलसि पुरः कथं विशाल ।
रामाणां शतमपि नोद्भटोरुधामा
श्रीदामा गणयति रे त्वमत्र कोऽसि ॥ ऋBह्र्स्_४,८.३८ ॥
अत्रापि गौणेऽङ्गिनि मुख्यस्य ।

रौद्रे प्रेयोवीरयोर्, यथा
यदुनन्दन निन्दनोद्धतं
शिशुपालं समरे जिघांसुभिः ।
अतिलोहितलोचनोत्पलैर्
जगृहे पाण्डुसुतैर्वरायुधम् ॥ ऋBह्र्स्_४,८.३९ ॥
अत्र गौणे मुख्यगौणयोः ।

अद्भुते प्रेयोवीरहास्यानां, यथा
मित्राणीकवृतं गदायुधि गुरुंमन्यं प्रलम्बद्विषं
यष्ट्या दुर्बलया विजित्य पुरतः सोल्लुण्ठमुद्गायतः ।
श्रीदाम्नः किल वीक्ष्य केलिसमराटोपोत्सवे पाटवं
कृष्णः फुल्लकपोलकः पुलकवान् विस्फारदृष्टिर्बभौ ॥ ऋBह्र्स्_४,८.४० ॥
अत्र गौणे मुख्यस्य गौणयोश्च ।

एवमन्यस्य गौणस्य ज्ञेया कविभिरङ्गिता ।
तथा च मुख्यगौणानां रसानामङ्गतापि च ॥ ऋBह्र्स्_४,८.४१ ॥
सोऽङ्गी सर्वातिगो यः स्यान्मुख्यो गौणोऽथवा रसः ।
स एवाङ्गं भवेदङ्गिपोषी सञ्चारितां व्रजन् ॥ ऋBह्र्स्_४,८.४२ ॥

तथा च नाट्याचार्याः पठन्ति
एक एव भवेत्स्थायी रसो मुख्यतमो हि यः ।
रसास्तद्अनुयायित्वादन्ये स्युर्व्यभिचारिणः ॥ ऋBह्र्स्_४,८.४३ ॥

श्रीविष्णुधर्मोत्तरे च
रसानां समवेतानां यस्य रूपं भवेद्बहु ।
स मन्तव्यो रसः स्थायी शेषाः सङ्चारिणो मताः ॥ ऋBह्र्स्_४,८.४४ ॥

स्तोकाद्विभावनाज्जातः सम्प्राप्य व्यभिचारिताम् ।
पुष्णन्निजप्रभुं मुख्यं गौणस्तत्रैव लीयते ॥ ऋBह्र्स्_४,८.४५ ॥
प्रोद्यन् विभावनोत्कर्षात्पुष्टिं मुख्येन लम्भितः ।
कुञ्चता निजनाथेन गौणोऽप्यङ्गित्वमश्नुते ॥ ऋBह्र्स्_४,८.४६ ॥
मुख्यस्त्वङ्गत्वमासाद्य पुष्णन्निन्द्रमुपेन्द्रवत् ।
गौणमेवाङ्गिनं कृत्वा निगूढनिजवैभवः ॥ ऋBह्र्स्_४,८.४७ ॥
अनादिवासनोद्भासवासिते भक्तचेतसि ।
भात्येव न तु लीनः स्यादेष सञ्चारिगौणवत् ॥ ऋBह्र्स्_४,८.४८ ॥
अङ्गी मुख्यः स्वमत्राङ्गैर्भावैस्तैरभिवर्धयन् ।
सजातीयैर्विजातीयैः स्वतन्त्रः सन् विराजते ॥ ऋBह्र्स्_४,८.४९ ॥
यस्य मुख्यस्य यो भक्तो भवेन्नित्यनिजाश्रयः ।
अङ्गी स एव तत्र स्यान्मुख्योऽप्यन्योऽङ्गतां व्रजेत् ॥ ऋBह्र्स्_४,८.५० ॥

किं च
आस्वादोद्रेकहेतुत्वमङ्गस्याङ्गत्वमङ्गिनि ।
तद्विना तस्य सम्पातो वैफल्यायैव कल्पते ॥ ऋBह्र्स्_४,८.५१ ॥
यथा मृष्टरसालायां यवसादेः कथञ्चन ।
तच्चर्वणे भवेदेव सतृणाभ्यवहारिता ॥ ऋBह्र्स्_४,८.५२ ॥

अथ वैरिकृत्यम्
जनयत्येव वैरस्यं रसानां वैरिणा युतिः ।
सुमृष्टपानकादीनां क्षारतिक्तादिना यथा ॥ ऋBह्र्स्_४,८.५३ ॥

यथा हि
ब्रह्मिष्ठाया निष्फलो मे व्यतीतः
कालो भूयान् हा समाधिव्रतेन ।
सान्द्रानन्दं तन्मया ब्रह्म मूर्तं
कोणेनाक्ष्णः साचिसव्यस्य नैक्षि ॥ ऋBह्र्स्_४,८.५४ ॥
तत्र शान्तस्योज्ज्वलेन वैरस्यम् ।

क्षणमपि पितृकोटिवत्सलं तं
सुरमुनिवन्दितपादमिन्दिरेशम् ।
अभिलषति वराङ्गनानखाङ्कैः
प्रभुमीक्षितं मनो मे ॥ ऋBह्र्स्_४,८.५५ ॥
तत्र प्रीतस्योज्ज्वलेनैव ।

दोर्भ्यामर्गलदीर्घाभ्यां सखे परिरभस्व माम् ।
शिरः कृष्ण तवाघ्राय विहरिष्ये ततस्त्वया ॥ ऋBह्र्स्_४,८.५६ ॥
अत्र प्रेयसो वत्सलेन ।

यं समस्तनिगमाः परमेशं
सात्वतास्तु भगवन्तमुशन्ति ।
तत्सुतेति बत साहसिकीं त्वां
व्याजिहीर्षतु कथं मम जिह्वा ॥ ऋBह्र्स्_४,८.५७ ॥
अत्र वत्सलस्य प्रीतेन ।

तडिद्विलासतरला नवयौवनसम्पदः ।
अद्यैव दूति तेन त्वं मया रमय माधवम् ॥ ऋBह्र्स्_४,८.५८ ॥
अत्रोज्ज्वलस्य शान्तेन ।

चिरं जीवेति संयुज्य काचिदाशीर्भिरच्युतम् ।
कैलासस्था विलासेन कामुकी परिषष्वजे ॥ ऋBह्र्स्_४,८.५९ ॥
अत्र शुचेर्वत्सलेन ।

शुचेः सम्बन्धगन्धोऽपि कथञ्चिद्यदि वत्सले ।
क्वचिद्भवेत्ततः सुष्ठु वैरस्यायैव कल्पते ॥ ऋBह्र्स्_४,८.६० ॥

पिशितासृङ्मयी नाहं सत्यमस्मि तवोचिता ।
स्वापाङ्गबिद्धां श्यामाङ्ग कृपयाङ्गीकुरुष्व माम् ॥ ऋBह्र्स्_४,८.६१ ॥
अत्र शुचेर्बीभत्सेन ।

एवमन्यापि विज्ञेया प्राज्ञै रसविरोधिता ।
प्रायेणेयं रसाभासकक्षायां पर्यवस्यति ॥ ऋBह्र्स्_४,८.६२ ॥

किं च
द्वायोरेकतरस्येह बाध्यत्वेनोपवर्णने ।
स्मर्यमाणतयाप्युक्तौ साम्येन वचनेऽपि च ॥ ऋBह्र्स्_४,८.६३ ॥
रसान्तरेण व्यवधौ तटस्थेन प्रियेण वा ।
विषयाश्रयभेदे च गौणेन द्विषता सह ।
इत्यादिषु न वैरस्यं वैरिणो जनयेद्युतिः ॥ ऋBह्र्स्_४,८.६४ ॥

तत्र एकतरस्य बाध्यत्वेन वर्णने, यथा विदग्धमाधवे (२.१८)
प्रत्याहृत्य मुनिः क्षणं विषयतो यस्मिन्मनो धित्सते
बालासौ विषयेषु धित्सति ततः प्रत्याहरन्ती मनः ।
यस्य स्फूर्तिलवाय हन्त हृदये योगी सुमुत्कण्ठते
मुग्धेयं किल तस्य पश्य हृदयान्निष्क्रान्तिमाकाङ्क्षति ॥ ऋBह्र्स्_४,८.६५ ॥

बाध्यत्वमत्र शान्तस्य शुचेरुत्कर्षवर्णनात् ॥ ऋBह्र्स्_४,८.६६ ॥

स्मर्यमाणत्वे, यथा
स एष वैहासिकताविनोदैर्
व्रजस्य हासोद्गमसंविधाता ।
फणीश्वरेणाद्य विकृष्यमाणः
करोति हा नः परिदेवनानि ॥ ऋBह्र्स्_४,८.६७ ॥

साम्येन वचने, यथा
विश्रान्तषोडशकला निर्विकल्पा निरावृतिः ।
सुखात्मा भवती राधे ब्रह्मविद्येव राजते ॥ ऋBह्र्स्_४,८.६८ ॥

यथा वा
राधा शान्तिरिवोन्निद्रं निर्निमेषेक्षणं च माम् ।
कुर्वती ध्यानलग्नं च वासयत्यद्रिकन्दरे ॥ ऋBह्र्स्_४,८.६९ ॥

वसान्तरेण व्यवधौ, यथा
त्वं कासि शान्ता किमिहान्तरीक्षे
द्रष्टुं परं ब्रह्म कुतस्तताक्षी ।
अस्यातिरूपात्किमिवाकुलात्मा
रम्भे समाविश्य भिदा स्मरेण ॥ ऋBह्र्स्_४,८.७० ॥
अत्राद्भुतेन व्यवधिः ।

विषयभिन्नत्वे, यथा श्रीदशमे (१०.६०.४५)
त्वक्श्मश्रुरोमनखकेशपिनद्धमन्तर्
मांसास्थिरक्तकृमिविट्कफपित्तवातम् ।
जीवच्छवं भजति कान्तमतिविमूढा
या ते पदाब्जमकरन्दमजिघ्रती स्त्री ॥ ऋBह्र्स्_४,८.७१ ॥

यथा वा विदग्धमाधवे (२.३१)
तस्याः कान्तद्युतिनि वदने मञ्जुले चाक्षियुग्मे
तत्रास्माकं यद्अवधि सखे दृष्टिरेषा निविष्टा ।
सत्यं ब्रूमस्तद्अवधि भवेदिन्दुमिन्दीवरं च
स्मारं स्मारं मुखकुटिलताकारिणीयं हृणीया ॥ ऋBह्र्स्_४,८.७२ ॥
उभयत्र शुचिबीभत्सयोः ।

आश्रयभिन्नत्वे, यथा
विजयिनमजितः विलोक्य रङ्ग
स्थलभुवि सम्भृतसांयुगीनलीलम् ।
पशुपसवयसां वपूंषि भेजुः
पुलककुलं द्विषतां तु कालिमानम् ॥ ऋBह्र्स्_४,८.७३ ॥
अत्र वीरभयानकयोः ।

विषयाश्रयभेदेऽपि मुख्येन द्विषता सह ।
सङ्गतिः किल मुख्यस्य वैरस्यायैव जायते ॥ ऋBह्र्स्_४,८.७४ ॥

तत्र विषयभेदे, यथा
विमोचयार्गलाबन्धं विलम्बं तात नाचर ।
यामि काश्यगृहं यूना मनः श्यामेन मे हृतम् ॥ ऋBह्र्स्_४,८.७५ ॥
अत्र शुचेः प्रीतेन ।

आश्रयभेदे, यथा
रुक्मिणीकुचकाश्मीरपङ्किलोरःस्थलं कदा ।
सदानन्दं परं ब्रह्म दृष्ट्या सेविष्यते मया ॥ ऋBह्र्स्_४,८.७६ ॥
अत्र शान्तस्य शुचिना ।

अनुरक्तधियो भक्ताः केचन ज्ञानवर्त्मनि ।
शान्तस्याश्रयभिन्नत्वे वैरस्यं नानुमन्वते ॥ ऋBह्र्स्_४,८.७७ ॥

किं च
भृत्ययोर्नायकस्येव निसर्गद्वेषिणोरपि ।
अङ्गयोरङ्गिनः पुष्ट्यै भवेदेकत्र सङ्गतिः ॥ ऋBह्र्स्_४,८.७८ ॥

यथा
कुमारस्ते मल्लीकुसुमसुकुमारः प्रियतमे
गरिष्ठोऽयं केशी गिरिवदिति मे वेल्लति मनः ।
शिवं भूयात्पश्योन्नमितभुजमेधिर्मुहुरमुं
खलं क्षुन्दन् कुर्यां व्रजमतितरां शालिनमहम् ॥ ऋBह्र्स्_४,८.७९ ॥
अत्र विद्विषौ वीरभयानकौ वत्सलं पुष्णीतः ।

यथा
कम्प्रा स्वेदिनि चूर्णकुन्तलतटे इत्यादि (Bऋष्४.८.३१) ॥ ऋBह्र्स्_४,८.८० ॥
तत्र हास्यकरुणौ वत्सलमेव पुष्णीतः ।

अपि च
मिथो वैरावपि द्वौ यौ भावौ धर्मसुतादिषु ।
कालादिभेदत्प्राकट्यं तौ विन्दन्तौ न दुष्यतः ॥ ऋBह्र्स्_४,८.८१ ॥
अधिरूढे महाभावे विरुद्धैर्विरसाः युतिः ।
न स्यादित्युज्ज्वले राधाकृष्णयोर्दर्शितं पुरा ॥ ऋBह्र्स्_४,८.८२ ॥
क्वाप्यचिन्त्यमहाशक्तौ महापुरुषशेखरे ।
रसावलिसमावेशः स्वादायैवोपजायते ॥ ऋBह्र्स्_४,८.८३ ॥

तत्र रसानां विषयत्वे, यथा ललितमाधवे (३.४)
दैत्याचार्यास्तद्आस्ये विकृतिमरुणतां मल्लवर्याः सखायो
गण्डौन्नत्यं खलेशाः प्रलयमृषिगणा ध्यानमुष्णास्रमम्बाः ।
रोमाञ्चं सांयुगीनाः कमपि नवचमत्कारमन्तः सुरेशा
लास्यं दासाः कटाक्षं ययुरसितदृशः प्रेक्ष्य रङ्गे मुकुन्दम् ॥ ऋBह्र्स्_४,८.८४ ॥

आश्रयत्वे, यथा
स्वस्मिन् धूर्येऽप्यमानी शिशुषु गरिधृतावुद्यतेषु स्मितास्यस्
थूत्कारी दध्नि विस्रे प्रणयिषु विवृतप्रौढिरिन्द्रेऽरुणाक्षः ।
गोष्ठे साश्रुर्विदूने गुरुषु हरिमखं प्रास्य कम्पः स पायाद्
आसारे स्फारदृष्टिर्युवतिषु पुलकी बिभ्रदद्रिं विभुर्वः ॥ ऋBह्र्स्_४,८.८५ ॥

इति श्रीश्रीभक्तिरसामृतसिन्धावुत्तरविभागे
रसानां मैत्रीवैरस्थितिनाम्नी लहरी अष्टमी ॥

___________________________________________________

४.९
रसाभासाख्या नवमलहरी

पूर्वमेवानुशिष्टेन विकला रसलक्षणा ।
रसा एव रसाभासा रसज्ञैरनुकीर्तिताः ॥ ऋBह्र्स्_४,९.१ ॥
स्युस्त्रिधोपरसाश्चानुरसाश्चापरसाश्च ते ।
उत्तमा मध्यमाः प्रोक्ताः कनिष्ठाश्चेत्यमी क्रमात् ॥ ऋBह्र्स्_४,९.२ ॥

अत्र उपरसाः
प्राप्तैः स्थायिविभावानुभावाद्यैस्तु विरूपताम् ।
शान्तादयो रसा एव द्वादशोपरसा मताः ॥ ऋBह्र्स्_४,९.३ ॥

तत्र शान्तोपरसाः
ब्रह्मभावात्परब्रह्मण्यद्वैताधिक्ययोगतः ।
तथा बीभत्सभूमादेः शान्तो ह्युपरसो भवेत् ॥ ऋBह्र्स्_४,९.४ ॥

तत्र आद्यं, यथा
विज्ञानसुषमाधौते समाधौ यदुदञ्चति ।
सुखं दृष्टे तदेवाद्य पुराणपुरुषे त्वयि ॥ ऋBह्र्स्_४,९.५ ॥

द्वितीयं, यथा
यत्र यत्र विषये मम दृष्टिस्
तं तमेव कलयामि भवन्तम् ।
यन्निरञ्जन परावरबीजं
त्वां विना किमपि नापरमस्ति ॥ ऋBह्र्स्_४,९.६ ॥

अथ प्रीतोपरसः
कृष्णस्याग्रेऽतिधार्ष्ट्येन तद्भक्तेष्ववहेलया ।
स्वाभीष्टदेवतान्यत्र परमोत्कर्षवीक्षया ।
मर्यादातिक्रमाद्यैश्च प्रीतोपरसता मता ॥ ऋBह्र्स्_४,९.७ ॥

तत्र आद्यं, यथा
प्रणयन् वपुर्विवशतां सतां कुलैर्
अवधीर्यमाणनटनोऽप्यनर्गलः ।
विकिर प्रभो दृशमिहेत्यकुण्ठवाक्
चटुलो बटुव्यवृणुतात्मनो रतिम् ॥ ऋBह्र्स्_४,९.८ ॥

अथ प्रेयोपरसः
एकस्मिन्नेव सख्येन हरिमित्राद्य्अवज्ञया ।
युद्धभूमादिना चापि प्रेयानुपरसो भवेत् ॥ ऋBह्र्स्_४,९.९ ॥

तत्र आद्यं, यथा
सुहृदित्युदितो भिया चकम्पे
छलितो नर्मगिरा स्तुतिं चकार ।
स नृपः परिरिप्सतो भुजाभ्यां
हरिणा दण्डवदग्रतः पपात ॥ ऋBह्र्स्_४,९.१० ॥

अथ वत्सलोपरसः
सामर्थ्याधिक्याभिज्ञानाल्लालनाद्य्अप्रयत्नतः ।
करुणस्यातिरेकादेस्तुर्याश्चोपरसो भवेत् ॥ ऋBह्र्स्_४,९.११ ॥

तत्र आद्यं, यथा
मल्लानां यद्अवधि पर्वतोद्भटानाम्
उन्माथं सपदि तवात्मजादपश्यम् ।
नोद्वेगं तद्अवधि यामि जामि तस्मिन्
द्राघिष्ठामपि समितिं प्रपद्यमाने ॥ ऋBह्र्स्_४,९.१२ ॥

अथ शृङ्गारोपरसः । तत्र स्थायिवैरूप्यम्
द्वयोरेकतरस्यैव रतिर्या खलु दृश्यते ।
यानेकत्र तथैकस्य स्थायिनः सा विरूपता ।
विभावस्यैव वैरूप्यं स्थायिन्यत्रोपचर्यते ॥ ऋBह्र्स्_४,९.१३ ॥

तत्र एकत्र रतिर्, यथा ललितमाधवे
मन्दस्मितं प्रकृतिसिद्धमपि व्युदन्तं
सङ्गोपितश्च सहजोऽपि दृशोस्तरङ्गः ।
धूमायिते द्विजवधूमदनार्तिवह्नाव्
अह्नाय कापि गैत्रि अङ्कुरितामयासीत् ॥ ऋBह्र्स्_४,९.१४ ॥

अत्यन्ताभाव एवात्र रतेः खलु विवक्षितः ।
एतस्याः प्राग्अभावे तु शुचिर्नोपरसो भवेत् ॥ ऋBह्र्स्_४,९.१५ ॥

अनेकत्र रतिर्, यथा
गान्धर्वि कुर्वाणमवेक्ष्य लीलाम्
अग्रे धरण्यां सखि कामपालम् ।
आकर्णयन्ती च मुकुन्दरेणुं
भिन्नाद्य साध्वि स्मरतो द्विधासि ॥ ऋBह्र्स्_४,९.१६ ॥
केचित्तु नायकस्यापि सर्वथा तुल्यरागतः ।
नायिकास्वप्यनेकासु वदन्त्युपरसं शुचिम् ॥ ऋBह्र्स्_४,९.१७ ॥

विभाववैरूप्यम्
वैदग्ध्यौज्ज्वल्यविरहो विभावस्य विरूपता ।
लतापशुपुलिन्दीषु वृद्धास्वपि स वर्तते ॥ ऋBह्र्स्_४,९.१८ ॥

तत्र लता, यथा
सखि मधु किरती निशम्य वंशीं
मधुमथनेन कटाक्षिताथ मृद्वी ।
मुकुलपुलकिता लतावलीयं
रतिमिह पल्लवितां हृदि व्यनक्ति ॥ ऋBह्र्स्_४,९.१९ ॥

पशुर्, यथा
पश्याद्भुतास्तुङ्गमदः कुरङ्गीः
पतङ्गकन्यापुलिनेऽद्य धन्याः ।
याः केशवाङ्गे तद्अपाङ्गपूताः
सानङ्गरङ्गां दृशमर्पयन्ति ॥ ऋBह्र्स्_४,९.२० ॥

पुलिन्दी, यथा
कालिन्दीपुलिने पश्य पुलिन्दी पुलकाचिता ।
हरेर्दृक्चापलं वीक्ष्य सहजं या विघूर्णते ॥ ऋBह्र्स्_४,९.२१ ॥

वृद्धा, यथा
कज्जलेन कृतकेशकालिमा
बिल्वयुग्मरचितोन्नतस्तनी ।
पश्य गौरि किरती दृग्अञ्चलं
स्मेरयत्यघहरं जरत्यसौ ॥ ऋBह्र्स्_४,९.२२ ॥

स्थायिनोऽत्र विरूपत्वमेकरागतयापि चेत् ।
घटेतासौ विभावस्य विरूपत्वेऽप्युदाहृतिः ॥ ऋBह्र्स्_४,९.२३ ॥
शुचित्वौज्ज्वल्यवैदिग्ध्यात्सुवेशत्वाच्च कथ्यते ।
शृङ्गारस्य विभावत्वमन्यत्राभासता ततः ॥ ऋBह्र्स्_४,९.२४ ॥

अथ अनुभाववैरूप्यम्
समयानां व्यतिक्रान्तिर्ग्राम्यत्वं धृष्टापि च ।
वैरूप्यमनुभावादेर्मनीषिभिरुदीरितम् ॥ ऋBह्र्स्_४,९.२५ ॥

तत्र समयव्यतिक्रान्तिः
समयाः खण्डितादीनां प्रिये रोषोदितादयः ।
पुंसः स्मितादयश्चात्र प्रियया ताडनादिषु ।
एतेषामन्यथाभावः समयानां व्यतिक्रमः ॥ ऋBह्र्स्_४,९.२६ ॥

तत्र आद्यं, यथा
कान्तानखान्धितोऽप्यद्य परिहृत्य हरे ह्रियम् ।
कैलासवासिनीं दासीं कृपादृष्ट्या भजस्व माम् ॥ ऋBह्र्स्_४,९.२७ ॥

अथ ग्राम्यत्वम्
बालशब्दाद्य्उपन्यासो विरसोक्तिप्रपञ्चनम् ।
कटीकण्डूतिरित्याद्यं ग्राम्यत्वं कथितं बुधैः ॥ ऋBह्र्स्_४,९.२८ ॥

तत्र आद्यं, यथा
किं नः फणिकिशोरीणां त्वं पुष्करसदां सदा ।
मुरलीध्वनिना नीवीं गोपबाल विलुम्पसि ॥ ऋBह्र्स्_४,९.२९ ॥

अथ धृष्टता
प्रकटप्रार्थनादिः स्यात्सम्भोगादेस्तु धृष्टता ॥ ऋBह्र्स्_४,९.३० ॥

यथा
कान्त कैलासकुञ्जोऽयं रम्याहं नवयौवना ।
त्वं विदग्धोऽसि गोविन्द किं वा वाच्यमतः परम् ॥ ऋBह्र्स्_४,९.३१ ॥

एवमेव तु गौणानां हासादीनामपि स्वयम् ।
विज्ञेयोपरसत्वस्य मनीषिभिरुदाहृतिः ॥ ऋBह्र्स्_४,९.३२ ॥

अथ अनुरसाः
भक्तादिभिर्विभावाद्यैः कृष्णसम्बन्धवर्जितैः ।
रसा हास्यादयः सप्त शान्तश्चानुरसा मताः ॥ ऋBह्र्स्_४,९.३३ ॥

तत्र हास्यानुरसः
ताण्डवं व्यधित हन्त कक्खटी
मर्कटी भ्रूकुटीभिस्तथोद्धुरम् ।
येन वल्लवकदम्बकं बभौ
हासडम्बरकरम्बिताननम् ॥ ऋBह्र्स्_४,९.३४ ॥

अथ अद्भुतानुरसः
भाण्डीरकक्षे बहुधा वितण्डां
वेदान्ततन्त्रे शुकमण्डलस्य ।
आकर्णयन्निर्निमिषाक्षिपक्ष्मा
रोमाञ्चिताङ्गश्च सुरर्षिरासीत् ॥ ऋBह्र्स्_४,९.३५ ॥

एवमेवात्र विज्ञेया वीरादेरप्युदाहृतिः ॥ ऋBह्र्स्_४,९.३६ ॥
अष्टावमी तटस्थेषु प्राकट्यं यदि बिभ्रति ।
कृष्णादिभिर्विभावाद्यैर्गतैरनुभवाध्वनि ॥ ऋBह्र्स्_४,९.३७ ॥

अथ अपरसाः
कृष्णतत्प्रतिपक्षश्चेद्विषयाश्रयतां गताः ।
हासादीनां तदा तेऽत्र प्राज्ञैरपरसा मताः ॥ ऋBह्र्स्_४,९.३८ ॥

तत्र हास्यापरसः
पलायमानमुद्वीक्ष्य चपलायतलोचनम् ।
कृष्णमाराज्जरासन्धः सोल्लुण्ठमहसीन्मुहुः ॥ ऋBह्र्स्_४,९.३९ ॥

एवमन्येऽपि विज्ञेयास्तेऽद्भुतापरसादयः ।
उत्तमास्तु रसाभासाः कैश्चिद्रसतयोदिताः ॥ ऋBह्र्स्_४,९.४० ॥

तथा हि
भावाः सर्वे तद्आभासा रसाभासाश्च केचन ।
अमी प्रोक्तरसाभिज्ञैः सर्वेऽपि रसनाद्रसाः ॥ ऋBह्र्स्_४,९.४१ ॥

भारताद्याश्चतस्रस्तु रसावस्थानसूचिकाः ।
वृत्तयो नाट्यमातृत्वादुक्ता नाटकलक्षणे ॥ ऋBह्र्स्_४,९.४२ ॥

ग्रन्थस्य गौरवभयादस्या भक्तिरसश्रियः ।
समाहृतिः समासेन मया सेयं विनिर्मिता ॥
गोपालरूपशोभां दधदपि रघुनाथभावविसारी ।
तुष्यतु सनातनोऽस्मिन्नुत्तरभागे रसामृताम्भोधेः ॥

इति श्रीश्रीभक्तिरसामृतसिन्धावुत्तरविभागे
रसाभासलहरी नवमी ॥

इति श्रीश्रीभक्तिरसामृतसिन्धौ गौणभक्तिरसनिरूपणो नाम चतुर्थो विभागः समाप्तः ।

रामाङ्गशत्रुगणिते शाके गोकुलमधिष्ठितेनायम् ।
भक्तिरसामृतसिन्धुर्विटङ्कितः क्षुद्ररूपेण ॥

समाप्तोऽयं श्रीश्रीभक्तिरसामृतसिन्धुः ॥

————————————–

\Z

]