[[ललितासहस्रनाम Source: EB]]
[
[TABLE]
[TABLE]
अथ किंचित्प्रास्ताविकम् —
<MISSING_FIG href="../books_images/U-IMG-1724740416Screenshot2024-08-27120237.png"/>
इह खलु वसुंधरामण्डलवर्त्यखिलजनाभिलषणीयः सुखविशेष एव पुरुषार्थोनाम। स च पुरुषार्थः पुनः कृत्रिमाकृत्रिमेत्युभयप्रकारो यथाक्रमं काममोक्षपदाभ्यां व्याह्रियते। तदुभयसाधनत्वाद्धर्मः सकलाभिलषितो धर्मसाधनत्वादर्थोऽपि सर्वाभ्यर्थनीय एवेत्यन्योन्यं तरतमभावापन्ना अपि विशेषतः पुरुषैरर्थ्यमानत्वाविशेषाचत्वारोऽपि पुरुषार्थशब्दवाच्या एवेति निर्विचिकित्सः सिद्धान्तः। अथ ते पुरुषार्था अपि तादृशज्ञानविज्ञानसाध्याः। ज्ञानविज्ञाने अपि तादृशतादृशचित्तैकसाध्ये। ततश्च विविधकर्मपरिपाकायत्तविविधचित्तवृत्तिशालिनो जनाननुजिघृक्षुः परमकारुणिको भगवान् परस्परविलक्षणा अपि साक्षात्परम्परया वा परमपुरुषार्थैकप्रयोजनिका विविधा विद्याः — वेद-शास्त्र-स्मृति-पुराणे-तिहासाद्याः—प्रवर्तयामास। ततश्चाखिलानामपि विद्यानां भगवत्प्रणीतत्वाविशेषेणाधिकारिभेदेन प्रामाण्यं सिद्धम्।
तत्र तावत्कर्ममार्ग-ब्रह्मविज्ञानेति पूर्वोत्तरभेदेन संविभक्तं भूमिकाद्वयं सिद्ध्यति। यैस्तावदपरिमितजनुर्भिरुपार्जितपुण्यपुञ्जभरेणोत्तरभूम्यालम्बेनेन ब्रह्मणोनिरतिशयानन्दज्ञानरूपामृतास्वादो लब्धस्ते चतुर्थपुरुषार्थभाक्त्वेन कृतकृत्या एवेति तत्रात्मादृशामल्पप्रज्ञानां वाग्व्यापारो न प्रसरति। अथ येऽर्वाञ्चः पूर्वभूम्यालम्बनास्तेष्वपि कतिचन सुकृतिन एवानल्पपुण्यसंचयेन वैदिककर्ममार्गानुसारिणो भवन्ति। केचित्तु वैदिकेऽनतिलालसास्तान्त्रिकावलम्बिनः श्रीमद्गुरुचरणपरिचरणसमासादितश्रीमत्त्रिपुरसुन्दरीसमाराधनप्रवणाः संपद्यन्ते। उभयेऽपि ह्यैहिकामुष्मिकनिरवधिसुखभाजः सन्तो निःसीमनिजनिजपथावलम्बनेन कालेनोत्तरभूमिकारूढा भवेयुः। तत्रच त्रिपुरसुन्दर्या अपि सेतिकर्तव्यताकां भक्तिमैदंपर्येण निरूपयितुं सुन्दरीतापिनीपञ्चकं भावनोपनिषत्कौलोपनिषद्गुह्योपनिषन्महोपनिषच्चेत्यादयो वेदशिरोभागाः प्रवृत्ताः। तत्रापि पूर्वकाण्डस्य शेषभूततयाऽऽश्वलायनादिकल्पसूत्राणां मन्वादिस्मृतीनां च प्रवृत्तिवदुपनिषत्काण्डशेषत्वेन परशुरामादिकल्पसूत्राणां यामलादितन्त्राणां च प्रवृत्तिः। अष्टादशपुराणानां तु काण्डद्वयं प्रत्यपि शेषत्वेनैव प्रवृत्तिः। ततश्च सर्वेषां स्मृतितन्त्रपुराणानां वेदमूलकत्वेनैव प्रामाण्यं सेत्स्यति।
तदेतत्सर्वमाकलय्य निखिलपुरुषार्थसाधनभूते श्रीमद्भगवत्याराधनेऽभ्यर्हिततमस्य मन्त्रशास्त्रसर्वस्वस्य श्रीललितासहस्रनाम्नो रहस्यतरसद्गुरुसंप्रदायैकवेद्यस्वरूपत्वेन तांस्तान्संप्रदायान्भक्तानुजिघृक्षया स्फुटं दिदर्शयिषुः पदवाक्यप्रमाणपारावारपारीणधुरीणः सर्वतन्त्रस्वतन्त्रः श्रीमन्नृसिंहयज्वगुरुचरणाराधको भारत्युपनामकः श्रीमद्गम्भीररायदीक्षितसूरिसूनुः सुगृहीतनामधेयो भास्कररायः भासुरानन्दनाथेतिदीक्षानामशाली सौभाग्यभास्कराख्यं द्वादशकलाप्रविभागभिन्नं भाष्यं प्रसन्नगम्भीरमरीरचत्।
पुरा किल श्रीविद्योपासकाग्रेसरो महामुनिरगस्त्यः श्रीमद्भगवतो देशिकेन्द्रस्य हयग्रीवाख्यस्य मुखाद्ब्रह्माण्डपुराणीयैर्मन्त्र-जप-न्यास-पूजा-पुरश्चरण-होम-रहस्य
स्तोत्राख्यैः सप्तभिः खण्डैः श्रीमातुः प्रादुर्भावादिरहस्यजातमाकर्ण्य एतावन्तं कालं श्रुतादपि परं परमरहस्यं ललिताम्बानामसहस्रमस्तीति तपोबलादेव निश्चित्य तद्रहस्यमेकान्तभक्तायापि मे किमिति गुरवस्तिरश्चक्रुरित्यनुपदेशनिमित्तांशे संदिहानो यथावद्रहस्यबुभुत्सुर्भगवन्तं ह्वयग्रीवं परमादरेण सविनयं पप्रच्छ। ततश्चास्य रहस्यश्रवणपात्रतामाकलय्य ब्रह्माण्डपुराणोत्तरभागं प्रक्रम्येदं ललितासहस्रनामागस्त्यायात्यन्तरहस्यतममप्युपदिदेश हयग्रीवो भगवानिति ब्रह्माण्डपुराणादेव ज्ञायते। यस्यान्तिमभागे—
“इत्येवं नामसाहस्रं कथितं ते घटोद्भव।
रहस्यानां रहस्यं च ललिताप्रीतिदायकम्॥
अनेन सदृशं स्तोत्रं न भूतं न भविष्यति।
सर्वरोगप्रशमनं सर्वसंपत्प्रवर्धनम्॥”
इत्याद्युपसंहारफलश्रुतिः।
यद्यप्यन्यानि नैकशः सन्ति सहस्रनामानि, समाद्रियन्ते च तत्तदुपासकैस्तत्तत्सपर्याङ्गपत्रपुष्पार्पणनित्यस्तोत्रपाठादिषु, परं तानि नैतस्य तुलामर्हन्ति शब्दार्थगाम्भीर्यालंकारादिपुष्ट्यदोषताऽगौरवादिभिः। विष्णुसहस्रनामस्तोत्रस्यातिप्रौढतायामपि तत्र “पूतात्मा परमात्मा च" “क्षेत्रज्ञोऽक्षर एव च” इत्यादौ सन्ति निरर्थकाव्यप्रयोगास्तथा कियतां नाम्नां द्विरुक्तिस्त्रिरुक्तिरपि। न तादृश्यत्र ललिताम्बासहस्रनामस्तोत्रे प्रायः स्तोभप्रयोगपुनरुक्तिरव्ययाद्यैः पूर्तिर्वा क्वचन विद्यते। यद्यपि श्रीभगवत्पादैर्विष्णुसहस्रनामभाष्ये नाम्नां द्विरुक्तिस्थले तत्रतत्रार्थभेदो वर्णितस्तथार्थभेदेऽपि नाम्नां भेदाङ्गीकारो नानार्थोच्छेदापत्त्याऽनन्यगतिकः अर्थाभेदेऽप्युच्चारणभेदाद्भेदापत्तिश्चेति न तथात्रोण्वपि वैगुण्यं दृश्यते। अत्र पुनर्विशेषश्चक्ररहस्यमन्त्रोद्धारादिरूपरहस्यार्थान्तराणामपि भूरिचमत्कृतानि गुम्फितानि विलसन्ति। तथाचात्र प्रसङ्गमनुसृत्य तान्त्रिकहृद्यमार्गावलम्बिनां विविधाः परापरादिपूजाभेदाः कौलाद्या न्यासानुष्ठानप्रकाराः पुरश्चरणादिविधयः सहस्रभोजनाद्यङ्गकलापविवरणानि नैकग्रन्थालोडनवेद्यानि च सन्ति संदर्भितानि। तानि यद्यपि गुरुमुखादेव वेद्यानि तथापि विद्वच्चित्तचमत्काराय क्वचित्क्वचिद्दिङ्मात्रेणात्र भाष्ये प्रतिपादितान्येव भास्कररायेण, परंच गूढमन्त्रगोपनहानभियाखिलविवरणान्ते तत्रतत्र ‘इदं गुरुमुखैकवेद्यं’, ‘इदं गुरुकुलाज्ज्ञेयम्’, ‘अत्र रहस्यं देशिकवरादवगन्तव्यं’ इत्यादिसंकेतगोपनेन मन्त्रमञ्जूषा नैवोद्घाटितेत्यहोऽस्य मान्त्रिकधुरीणतासरणिः।
<MISSING_FIG href="../books_images/U-IMG-1724746417Screenshot2024-08-27134319.png"/>
श्रीः
इतः पूर्वं द्वित्रिवारं मुद्रिते ललितासहस्रनामभाष्यग्रन्थे केवलं यथाश्रुतं श्रीमद्भास्कररायचरितमस्माभिरुपन्यस्तम्। परं तदानीं ग्रन्थकर्तुः कालस्यानिर्धारणात् भाष्यान्ते ग्रन्थप्रशस्तौ “मोदच्छाया (संवत १७८५) मितायां” इति पद्ये सुस्पष्टतया कालनिर्धारणाच्च तन्न रुचिरमिति तदविच्छिन्नगुरुपरंपराप्राप्तविद्येभ्यः सांप्रदायिकेभ्यो वास्तविकं सप्रमाणं च यच्चरितमुपलब्धं तदत्र सहृदयहृदयाल्हादाय सप्रमोदं संगृह्यते॥
<MISSING_FIG href="../books_images/U-IMG-1724749015Screenshot2024-08-27142647.png"/>
श्रीमद्भास्कररायभारतीदीक्षितचरणानां
संक्षिप्तमैतिह्यम्।
स्वोपासनासिद्धिरहस्यसारसत्सम्प्रदायप्रथनायनूनम्।
आविर्भवन्ती गुरुभास्कराख्या पायादपायात्परदेवता माम्॥१॥
श्रीमद्भास्कररायभारतीदीक्षितचरणास्तावत् दक्षिणप्रान्तीय “बीजापुर”- निकटवर्तिकर्णाटकदेशाभिजना आसन्। एतेषां पितृपादाः श्रीगम्भीररायभारतीदीक्षिता महाविद्वांसः सोमयाजिनः नानाशास्त्रग्रन्थनिर्माणकुशलाः प्रसिद्धा राजनीतिधुरीणा बीजापुरीययवनराजसचिवा आसन्। यवनाधीशादेशेन कृत्स्नं महाभारतं पारसीक (फारशी) भाषायां परिवर्त्य “भारती” इत्यन्वर्थं बिरुदं लेभिरे! वर्णितं चैतच्छंदःकौस्तुभे भास्कररायैः—
“प्रख्यातो विजयापुरीनरपतेर्यः सेवया फारशी-
भाषाष्टादशपर्वभारतकृतिं सर्वां विपर्यासयत्।
आचान्ताखिलशास्त्रवारिधिमिमं दृष्ट्वैव वाचंयमाः
पाराशर्यकणादजैमिनिमुखा अद्यापि चान्तर्हिताः॥१॥
यः शास्त्राम्बुनिधीन् प्रमथ्य कृतवान् ग्रन्थाननन्योपमा-
नग्निष्टोममुखैर्मखैः सुरपतिं तुष्टं गृहेऽवासयत्।
यः काश्यां चरमायुरौज्झदमलः साम्बादभेदेन तं
तातं भारतिदीक्षितोत्तरपदं गम्भीरराजं नुमः॥२॥
भारत्युपाख्यबुधमण्डनसोमपीथी गम्भीररायसुतभास्कररायशैवः।
छन्दांसि वक्ति सगणानि सलक्षणानि सप्रत्ययानि समतानि सयुक्तिकानि॥३॥
इति श्रीशारदोपास्तिलब्बधीर्दिक्षितोऽग्निचित्।
बभाषे शिवतोपाय भाष्यं भास्करभारती” इति॥४॥
गम्भीररायैः स्वकृतस्य श्लोकात्मकविष्णुसहस्रनामपद्यप्रसूनांजलिनिबन्धस्योपोद्घाते स्ववंशक्रमश्चेत्थं प्रदर्शितः—
“मन्मातुःप्रपितामहो हि भिषजां वर्यो बुधो मुद्गलः
श्रीवत्सान्वयसंभवो गुणनिधिर्नारायणस्तत्सुतः।
तस्याण्णाजिबुधः सुतः किल पुनर्नारायणस्तत्सुत-
स्तं वन्दे गुरुमागमांश्च सकलान् योऽध्यापयन्मातुलः॥१॥
विश्वामित्र इति प्रसिद्धमहिमा मूर्ध्ना तपोऽग्निं त्यजन्
त्रैलोक्यं सचराचरं स सहसा संतापयन् तापसः।
यो ब्रह्मेन्द्रमहेशमुख्यविबुधैः संप्रार्थितः पूजितो
ब्रह्मर्षित्वमवाप कोऽपि मुनिराट् पायात्पुनः सृष्टिकृत्॥२॥
तद्गोत्रोद्भव एकनाथ इति च श्रीमानुदारः शुचिः
स्तत्पुत्रस्तुकदेवपण्डित इति प्रौढः प्रतापोच्छ्रितः।
तत्सूनुश्च यमाजिपण्डित इति ख्यातः सतां संमतो
जाया तस्य सती सतीजननुता स्याच्चन्द्रमानामतः॥३॥
दमवांश्चन्द्रमाख्यायां यमाजिर्यमजीजनत्।
स सूरिशिक्षादीक्षावान् कविर्गम्भीरभारती" इति॥४॥
विश्वामित्रगोत्रे मूलपुरुष एकनाथः, तस्मात्तुकदेवः, ततो यमाजिपण्डितः, अस्मादेव विदुषश्चन्द्रम्माम्बायां गम्भीररायः समभूत्। श्रीगम्भीररायो भागवतसम्प्रदायवंश्योऽपि श्रीवत्सगोत्रसंभूताद्विजापुरराजवैद्यमुद्गलभट्टवंश्यादागमाचार्यान्नारायणनामकात्स्वमातुलात्कृत्स्नमागमशास्त्रं जग्राह। श्रीमान् गम्भीररायः प्रायः राजकार्यानुरोधेन विजापुरमध्यवसत्। कदाचित्कार्यवशात् भागानगरा-पराभिधेय (दक्षिणहैद्राबाद) इति प्रसिद्धं नगरं सपत्नीको जगाम। तदानीमेव तत्सहधर्मचारिणी पतिव्रता सुशीला कोनमाम्बाख्या प्राचीदिग्बालभास्करमिव बालभास्करं प्रासूत। बाल्ये पितुरेव वाग्देवतामनुमवाप्य तत्साधनादवाप्तसारस्वतानुभावो भास्करस्तेजसा शास्त्रेषु कृतश्रमानपि विदुषोऽतिशेते स्म। तीर्थयात्राप्रसङ्गतः काशीक्षेत्रं गतैर्गम्भीररायैस्तत्रैव स्ववैभवानुरूपसम्भारैर्भास्कर उपनीयते स्म। ततः परं नारायणपेठ इति प्रसिद्धनगरसमीपे लोकापल्लीग्रामे निवसतामशेषविद्याकूपारपारदृश्वनां साक्षात्कृतपरदेवतानां श्रीनृसिंहयज्वनां सकाशादल्पावकाशेनैव गृहीताष्टादशविद्यो भास्करो गगनमध्यगताम्बरमणिरिव विवुबुधमण्डले दिदीपे। तदनु गुर्जरमण्डलमण्डनायमानात् सूरतनगरवास्तव्यात् “प्रकाशानन्दनाथदीक्षानाम्नः शिवदत्तशुक्लख्या” दुपासनामार्गप्रवर्तकपरमाचार्यशिरोमणेः पूर्णाभिषेकदीक्षामवाप्य तदनुज्ञया साक्षात्कृतपरदेवतात्मा भास्करो जगदुद्धारार्थमखिलं भारतमण्डलं पर्यटितुमारभत।
“यत्तु वैदिककोश इत्याख्यं श्रीभास्कररायप्रणीतं ग्रन्थं संमुद्र्य तदुपोद्घाते प्रसिद्धैः संप्रति स्वकर्मानुरूपलोकान्तरवासिभिः “आर्.जी. भाण्डारकर” इत्या-
ख्यैरांग्लशिक्षामण्डितपण्डितप्रकाण्डैर्भास्कररायविषये समुपन्यस्तम् — “अयं बीड निवासी सांगलीनिवासी वा कश्चित्कुष्ठमहारोगाक्रान्तो माधुकरीवृत्तिलब्धान्नभुक् भिक्षुक आसीत्। कुष्ठमहारोगनिवृत्तयेऽनेन सूर्याराधनं कृतम्। तृचभास्करनामकं ग्रन्थं च प्रणीतवान्” इति। तत् भास्कररायैतिह्यानाकलनमूलकम्, अद्याऽपि विदुषां समाजेतिलकायमानानां श्रीमद्भास्कररायशिष्यप्रशिष्यसम्प्रदायानुगानामरुन्तुदमप्रमाणं चेत्यनादयमेव।
तृचभास्करग्रन्थप्रणयनस्य वास्तविक इतिहासस्त्वित्थम् — महाराष्ट्रसम्राजः श्रीशिवराजपौत्रस्य शाहूराजस्य सेनापतिर्धनाजीजाधवः तत्पुत्रश्चन्द्रसेनजाधवो भास्कररायाणां प्रियशिष्य आसीत्। अपुत्रतया खिद्यमानमानसः स एकदा स्वभार्यया सह गुरोर्दर्शनाय समागतः सन् “भगवन् सभार्यस्य पुत्रकामस्य भवत्प्रसादेन मगेप्सितसिद्धिर्भवतु” इति श्रीभास्कररायगुरुं प्रार्थयामास। कृपानिधिर्गुरुर्भास्करोऽपि तदभिप्रायमवगम्य “ममाशीर्वचनात् पुत्रस्ते भविष्यति” इत्युक्त्वा प्रसादं च प्रदत्तवान्। अथ गुरुवचनं शिरसाऽऽदाय सभार्यश्चन्द्रसेनः स्वराज्यं जगाम। भास्कररायोऽपि निजसङ्कल्पानुसारयोग्येषु धर्मप्रचारार्थं संचचार। श्रीभास्कररायाशिषाममोघतया चन्द्रसेनभार्या त्वरितं गर्भं दधार। अत्रान्तरे श्रीभास्कररायकृपाप्राप्तमन्त्रः नारायणदेवनामा भ्रमराम्बिकामाराध्य लब्धवाक्सिद्धिर्भालकीसंज्ञकां^(१) चन्द्रसेनराजधानीमाजगाम। श्रुततत्प्रभावश्चन्द्रसेनस्तमुपेत्य निजभार्यायां किंसंतानं भवेदिति इत्यपृच्छत्। स तु यदृच्छयापुत्रीभविष्यतीत्यवोचत्। अथ चन्द्रसेनः पुनस्तमब्रूत “कथमुच्यते भवता पुत्रीति, अस्मद्गुरुभिः श्रीभास्कररायैस्तु पुत्रो भविष्यतीत्युक्तम्” श्रीभास्कररायाणां नाम श्रुत्वैव गुरुं संस्मृत्य साष्टाङ्गं प्रणमन् स सिद्धश्चन्द्रसेनं निर्भर्त्स्य सक्रोधमवादीत् — ‘मूर्ख! किं कृतं भवता? अहमप्यस्मि श्रीभास्कररायाणामेव शिष्यस्तैरेव सानुग्रहमुपदिष्टोऽहं तत्प्रसादादेव वाक्सिद्धिमवाप्नवम्। सा मे वाक्सिद्धिर्गुरुवचसो व्यर्थीकरणाय भवता प्रवर्तिता अथैतस्य पाप्मनः फलमपि भुज्यताम्। गुरुभिरुक्तं पुत्र इति, मयोक्तं पुत्रीति, तदुभयमपि विफलं भवेत्, नपुंसकं ते सन्तानं भविष्यति, इत्युक्त्वा स सिद्धस्त्वरितं ततो निरगात्। अथ तत्कथनानुसारं चन्द्रसेनस्य रामचन्द्रनामकं नपुंसकं सन्तानं बभूव। कतिपयैरब्दैः पुनरपि भालकीसंज्ञकां चन्द्रसेनराजधानीं समागते गुरौ भास्करराये सापत्यकलत्रश्चन्द्रसेनस्तद्दर्शनायाऽऽगमत्। प्रणमन्तं चन्द्रसेनतनयं नपुंसकलक्षणोपेतं दृष्ट्वा विस्मितो गुरुः किमेतदित्यपृच्छत्। लज्जितश्चन्द्रसेन आत्मनश्चापलमूलकमपराधं निवेद्य नारायणदेवशापवृत्तं चाख्याय भूयोऽपि गुरुचरणौ शरणीचकार। कृपानिधिर्गुरुराजो भास्करस्तं तस्यापराधं विदन्नपि स्ववचोऽमोघत्व-
___________________________________________________________________________
१. पेशवेकुलालंकारेण बालाजीविश्वनाथसूनुना बाजीरावनाम्ना तदानींतनशाहूसम्राजः प्रधानेन सह जाधवकुलोत्पन्नस्य चंद्रसेनस्य केनापि कारणेन विरोधः समजनि। अतश्चंद्रसेनः दिल्लीपतिं यवनराजं शिश्राय। तेन च निजमाण्डलिकात् निजामराजसकाशात् करभारं ग्रहीतुं नियुक्तः सन् कर्णाटकप्रदेशे भालक्याख्यां स्वराजधानीं स्थापयामास।
रक्षणाय तं रामचन्द्रजाधवं स्वेन सहादाय तस्य पौरुषप्राप्तये मूलहृद इत्याख्ये सम्प्रति कर्णाटकभाषायां “मुलीमडु” इति प्रसिद्धे कृष्णातीरवर्तिनि पुण्यक्षेत्रे निवासं कृतवान्। तत्र कृष्णायां तृचार्घ्यदानाऽनुष्ठानमारब्धवांश्च। निवाससदनाद्दूरवर्ति कृष्णाप्रवाहं पादचारेणैव गतवतो गुरोः पादयोः शोथं दृष्ट्वा पादसंवाहकाः शिष्याः कृष्णातीर एव शिबिरसन्निवेशाय गुरुं प्रार्थयामासुः। तेषां तादृशीं प्रार्थनामाकर्ण्य विनोदरसिको गुरुः — “निवाससदननिकट एव कृष्णाप्रवाहोत्रैव आनीयतामिति कथं न प्रार्थ्यत” इत्युक्तवान्। “समर्थानां श्रीपादानां न तदपि दुष्करम्” इति शिष्याः प्रत्यूचुः। तत्तेषां प्रतिवचनं श्रुत्वा यदृच्छया निवाससदननिकट एव कृष्णापाथः-प्रवाहानयनाय कृतपणो गुरुराट् भास्करः परेद्युः प्रातस्तत्रैवासनं बद्धा सूर्यमाजुहाव। सद्यः पुरः आविर्भवन्तं गगनदीपनं भास्करं भूचरो भास्करो बभाषे — “भगवन्! भुवनपालक! रामचन्द्रजाधवस्य पौरुषप्राप्तये मया कृष्णाप्रवाहे तृचार्घ्यदानानुष्ठानमारब्धम्, इतो मम निवाससदनात् दूरे कृष्णा प्रवाहः तद्भवता ममानुष्ठानसम्पत्तयेऽत्र मन्निवाससदनस्याविदूर एव कृष्णाप्रवाह आनेतव्यः। इदं किल भवत्प्रीतयेऽनुष्ठानमारब्धम् तत्सौकर्यसम्पादनं च भवत एव कर्तव्यकोटीमाटीकत इति भवानेवात्र मयाऽऽयास्यते” इति। तच्छ्रुत्वा सूर्योऽब्रूत — “पण्डितेन्द्र! उपासकशिरोमणे! किंभवान् न जानाति भगवतो हिरण्यगर्भस्य सङ्कल्पम्? सृष्टेरादौ यासां यासामापगानां यो योऽध्वा निश्चितः, ताभिस्ताभिस्तेनतेनैवाध्वना प्रयातव्यम्। तत्परिवर्तनं दुष्करमेव। किंच रामचन्द्रजाधवस्य पौरुषप्राप्तिरेव भवदभीष्टा चेत् सा मया दृक्पातेनैव साधयिष्यते, तदर्थं तृचार्घ्यदानानुष्ठानं कृष्णापाथःप्रवाहपरिवर्तनं च नावश्यकम्,” इति। सूर्यस्येत्थं निगदितमाकर्ण्य गुरुर्भास्करः सकोपमाह “सूर्य! किं मां भिक्षुकं मन्यसे। रामचन्द्रजाधवस्य पौरुषप्राप्तिः किं मया स्वबलेनैवसम्पादयितुं न शक्यते? आगन्तुको दोष आगन्तुकेनैवोपायेनापनेय इति मे मनीषा। तद्यदि भवान् जगति स्वोपासनामार्गमक्षुण्णं रक्षितुमिच्छति, तर्हि मदनुष्ठानसौकर्याय कृष्णाप्रवाह इहानीयतां भवता। नोचेत् नानाविधोपायैः यथा भवदुपासनामार्गः सर्वथा जगतीतलान्निर्मूलयिष्यते तथा प्रयतनमेव मदीयं मुख्यतमं कर्तव्यं भवेत्। कर्तुमकर्तुमन्यथाकर्तुमसमर्थस्योपासनाखण्डनमेव युक्तम्” इति।
भास्कररायोक्तिं श्रुत्वा व्याकुलोंऽशुमाली श्रीभास्कररायजीवितावधि कृष्णापाथः प्रवाहपरिवर्तनमन्वमन्यत। भास्करोऽपि तत्तथेत्यङ्गीकृतवान्। अथ तृचार्घ्यदानानुष्ठानेन रामचन्द्रस्य पौरुषमुदभूत्। भास्कररायजीवितावधि च मध्येवनं कृष्णापाथःप्रवाहः प्रादुरासीत्। अद्यापि तत्र मध्येवनं सैकतपङ्क्तिमसम्बद्धां लोकाः साश्चर्यं पश्यन्ति। किंच स मूलह्रदाख्यो ग्रामस्तदनु चन्द्रसेनेन श्रीभास्कररायेभ्यः समर्पितः।भास्कररायैश्च स तत्रत्वविप्रेभ्योऽग्रहारीकृतः। तत्र बहवश्चिञ्चावृक्षाः सन्ति येषां चिञ्चाफलानि मूल्यमन्तरैवविप्रैरुपभोग्यानीति भास्कररायाणां मनीषानुमीयते। कालक्रमेण स ग्रामो निजामराज्याधीनो जातः, यदि कोऽपि निजामराजपुरुषस्तानि चिञ्चाफलानि विक्रीय धनमर्जयितुमिच्छति, तदैव तेषु चिञ्चाफलेषु कृमयः सम्पद्यन्ते इयद्यापि जागर्ति तत्र श्रीभास्करायगुरोराख्या। ततः परं श्रीभास्कररायै-
र्जगदुपकाराय तृचभास्करः प्रणीतः। आत्मनः सूर्येण सह योद्धृत्वं च श्रीभास्कररायैः स्वप्रणीते श्रीगुरुस्तवारार्तिके इत्थमुल्लिखितम् —
“जय नाथ जय नाथ जय सद्गुरुमूर्ते।
हर मम मतिमिह वार्ते परिहृतभवजूर्ते॥ ध्रु०॥जय०॥
उन्मन्या अपि परतो निवसस्यतिकूटे। दशशतदलसरसीरुहशशिमयकरहाटे।
अकथादिकरेखात्रिककलिते शृंगाटे। अन्तःकोणत्रयगतलक्षहमयपीठे॥१॥
नाथ वराभयवितरणमुद्राकलितकरा। न भवति देवान्तरवन्मम देवी त्रिपुरा।
तन्मुद्रे तदभिन्ने त्वयि सति किमिति पर॥तस्माद्देशिकवर मयि कथमिव जन्मजरा॥
तव पादाम्बुजमध्वास्वादनतो बुद्ध्वा। योनेर्मुद्रां बद्ध्वापवनावपि वा।
अहमभवं शिवबद्ध्वावेशोत्थषडध्वाऽऽमर्शत्यक्तक्रदध्वा भास्करसह युद्ध्वा॥
इदमित्थं तृचभास्करग्रन्थनिर्माणे वृत्तम्। आर्. जी. भाण्डारकरमहोदयैस्त्विमं वास्तविकमितिहासमविदद्भिर्ग्रन्थान्ते श्रीभास्कररायैः फलश्रुतिमुखेनोल्लिखितानां श्लोकार्थानां विपर्यासः कृतः। ते च श्लोका इत्थम् —
“सञ्चाराद्बहुदेशानां रोगैर्बहुभिरर्दितः।
रसायनानि भूयांसि सिषेवे वत्सरत्रयम्॥१॥
अमोघैरपि तैस्तेषां न च लोमाऽप्यमीयतं।
तदा भास्कररायोऽस्तौद् भास्करं लोकभास्करम्॥२॥
बाह्यान्तरतमोजाड्यरोगपातकघातकम्।
स्मृतमात्रः कर्मसाक्षी धियमेतामचोदयत्॥३॥
तृचार्घ्यदानतो रोगाः प्रणश्यन्त्यचिरादिति॥”
इत्थं सूर्यप्रेरणया तृचार्घ्यदानमनुतिष्ठतो भास्कररायस्य—
“दशमे दिवसे तस्य रोगाः सर्वे लयं गताः।
इत्थमत्यद्भुतं दृष्ट्वा ये प्रत्याख्यातभास्कराः।
भिषजस्ते भेषजानि व्यर्थान्येवेति मेनिरे॥” इति (तृचभास्करान्ते)
इत्युल्लिखता भास्कररायेण स्वोदाहरणोपन्यासेन सूर्यसेवासमर्थनमेव कृतम्। एतादृशानां महापुरुषाणां कुष्ठमहारोगाक्रान्तिः स्वप्नेऽपि न सम्भाव्यते अतो महापुरुषान्निन्दन् भाण्डारकरमहोदय अश्रद्धेय एव। इत्थमेव बहून्यन्यान्यपि परमाश्चर्यकराण्यावेदनानि श्रीभास्कररायाणां प्रसिद्धानि सन्ति तानि यथासम्भवं सप्रमाणानि साहित्याचार्यखिस्ते इत्युपाह्वश्रीनारायणशास्त्रिप्रणीते “श्रीभास्करचरितचम्पूग्रन्थे” सविस्तरं प्रपञ्चयिष्यन्ते। श्रीभास्कररायैः प्रायः कृत्स्नं भारतवर्षं भूयः सञ्चारेण पवित्रीकृतम्। तत्समसामयिकाः सर्वेऽपि राजानस्तेषां शिष्यभूता एवाऽऽसन्। तथाचोक्तं श्रीभास्कररायशिष्येण जगन्नाथेन स्वकीये कल्पसूत्रनिबन्धे, भास्करविलासे च —
“यस्याऽदृष्टो नास्ति भूमण्डलांशो यस्याऽदासो विद्यते न क्षितीशः”॥ इति॥
तथाच —
“श्रेयोमार्गनिरूपणायशरणापन्नेषु बद्धादरा
दुर्वारप्रतिवादिचक्रविमदीकारप्रकारोत्तराः।
साष्टाङ्गं प्रणमन्नरेन्द्रमुकुटीरत्नप्रभामेदुरा
श्रीमद्भास्करभारतीपदनखज्योत्स्नाङ्कुराः पान्तु नः॥” इति च।
यत्त्वस्माभिर्निर्णयसागरमुद्रणालये १८३६ परिमितात् शालिवाहनशकाब्दाद्वित्रिवारं मुद्रिते ललितासहस्रनामभाष्यपुस्तके अष्टमपत्रे “अथकदाचिद्भास्कररायः” इत्यारभ्य दशमपत्रे “सहागतैरखिलैः पण्डितैः सह जगाम गृहान्” इत्युपन्यस्तं तत्सर्वं विपर्यस्तकिंवदन्तीमूलकमेव। तथा च श्रीमद्भास्कररायचरणाः न वामाचारिणः किंतु श्रुत्यविरुद्धमतानुसारिण एव यतस्तैरेव प्रकृतग्रन्थे १८३ पृष्ठे सव्यापसव्यमार्गस्थेति नामनिर्वचनाऽवसरे वाममार्गमुद्दिश्य ईदृशमार्गे देवर्षिपितृणामृणशोधनाऽभावजन्यं पातकमिति। दक्षिणमार्गमुद्दिश्य तत्तद्देवताविषयकतन्त्रेषु यानि कर्माणि विहितानि तानि तदङ्गत्वेनैवेति सर्वकर्मणामुपरोधाऽभावादस्मिन्मार्गे तादृशं पातकं नास्तीति झटिति मोक्षः। वाममार्गे तु विलम्बितः। अस्मिन्नेव प्रकरणे स्थलान्तरे “यथा तथा प्रकारेण दाक्षिण्येनैव पूजयेत्। यो दाक्षिण्यं विनाभावं महामायामिहार्चति। स पापः सर्वलोकेभ्यश्च्युतो भवति रोगधृक्।” इति कालिकापुराणश्लोकमुपन्यस्य श्रौतमार्गानुयायिनां वाममार्गाश्रयणं बहु निन्दितम्। भास्कररायास्तु स्वोपज्ञग्रन्थेषु स्थले स्थले, सोमपीथी, महाग्निचिदित्याद्युपपदपूर्वकं स्वनामोल्लेखनं चक्रुः। कथमेतादृशाः सत्यनिष्ठाःशिष्टाः स्वनिन्दितं मार्गमनुतिष्ठेरन्? स्वीये सौभाग्यभास्करे यैर्यैः साधनैर्भिन्नभिन्नाधिकारिभिर्विविधपथेषु परदेवता यथायथोपास्यते तथा तथा तत्तदधिकार्यभिमतसंभवदखिलार्थान्संकलय्य भाष्यकारैर्दर्शिताः। अतो ये ये नामार्था भाष्ये लिखितास्तेते सर्वेऽपि भाष्यकारैरनुष्ठिता इति न भ्रमितव्यम्। मुद्रितायां किंवदन्त्यां यदुक्तं कमलाकरभट्टपितामहनारायणभट्टाः श्रीभास्कररायाणां समकालीना इति तदपि भाष्यसमाप्तिकालः मोदच्छायामितायांशरदीतिविक्रमसंवत् १७८५ परिमितः श्रीभास्कररायैः स्पष्टं निर्दिष्टः नारायणभट्टस्य पौत्रः कमलाकरभट्टः वसुऋतुऋतुभू (१६६८) मिते गतेऽब्दे “नरपतिविक्रमतोऽथ याति रौद्रे तपसि शिवतिथौ समापितोऽयमिति” निर्णयसिन्धुनिर्माणकालं स्पष्टं लिलेख, निर्णयसिन्धुललितासहस्रनामभाष्यकालयोरन्तरं सप्तदशोत्तरशतवर्षीयं स्पष्टमेव। किं पुनः निर्णयसिन्धुप्रणेतुः पितामहस्य नारायणभट्टस्य भास्कररायाणां समागमवर्णनजल्पेन। अतस्सर्वापि सा किंवदन्ती सुधीभिरश्रद्धेया एव, सप्तशतीटीकायां गुप्तवत्यामपि “ब्राह्मणो मदिरादानाद्ब्राह्मण्यादेव हीयते” तथाच भाट्टचन्द्रोदये प्रथम मयूखे “धर्मस्य शब्दमूलत्वादशब्दमनपेक्षं स्यात्” इति सूत्रे दीपिकाव्याख्याने ताराभक्तिसुधार्णवकारस्य वचनमुपन्यस्य “क्षीरेण ब्राह्मणैस्तर्प्याघृतेन नृपवंशजैः। माक्षिकैर्वैश्यवर्णैश्च आसवैः शूद्रजातिभिः। वर्गानुक्रमयोगेण द्रव्यभेदा भवन्ति हि।” इति तन्त्रवचनैरेव श्रुतिस्मृतिसंमताचारः सिद्धान्तितः।
मुद्रिते भास्करविलासे —
“वादे मस्करिणं माध्वं विधूयामुष्य बन्धुजाम्।
पार्वतीं व्यवहत् कीर्त्या समं सत्यप्रतिश्रवाः॥” इति॥
तथा च
“दान्तेषु वर्यैर्वेदान्ते नितांन्तेडितनैपुणः।
अंतनोदान्तरध्वान्तखण्डकं चण्डभास्करम्॥” इति च॥
भास्कररायाणां साक्षाच्छिष्यस्य जगन्नाथस्योक्त्या स्पष्टमेव श्रीभास्कररायैः माध्वमतखण्डनपूर्वकं श्रीशाङ्करमतमेव प्रवर्तितम्। मध्वमठाधिष्ठितसत्यबोधयतिं वादे निर्जित्य तद्भ्रातृकन्यकां तप्तमुद्राङ्कितां प्रायश्चित्तैर्विशोद्ध्य स्मार्ताचार्यद्वारा कन्यादानं स्वीकृत्य तां व्यवहृत्। अतस्तैर्मध्वानुयायिभिर्द्वेषबुद्ध्या श्रीभास्कररायाणां निन्दाव्यञ्जकानि वस्तुस्थितिविपर्यासमूलकान्यसत्यचरितानि कल्पितानि तानि सुधीभिरश्रद्धेयान्येव।
द्वैतवादिनां ध्वान्तानां श्रुतिस्मृतिपुराणादिष्वपि वास्तविकसत्यवचनोत्पाटनपूर्वकं स्वकपोलकल्पितासत्यवचनप्रक्षेपणचातुर्यसाहसं पुराणप्रसिद्धमेव (बेलगांवसमाचारमुद्रणालये १८०७ शालिवाहनशकाब्दे पार्थिवनामसंवत्सरे) मुद्रितसटीक-ईशानस्तुती—
“कुर्वन्नन्धान्समस्तान्विकलमतियुतानन्धको मूकदैत्यः
सर्वेशानस्य शूलाहतिहतवदनो द्वेषयुक्तः कलौ सः।
उत्पन्नो मध्वनामा शिवगुरुवचनक्रोधकस्तन्त्रकर्ता
ह्यसीत्तस्य प्रकृष्टप्रलपनकुमतध्वंसकृद्दीक्षितोऽभूत्”॥(श्लो० ३५)
इत्यस्य पद्यस्य व्याख्यानावसरे स्कान्दान्तर्गतकेदारखण्डस्थैकषष्टितमाध्यायान्तर्गतयुगधर्मप्रस्तावे कलियुगधर्मनिरूपणावसरे गरुडं प्रति भगवतोक्तं सङ्गृहीत चैतट्टीकाकृता विस्तरेण
तद्यथा—
“क्रोधः कर्णाटदेशीयः कामशास्त्रं समीक्ष्य च।
स्वयं व्याख्यास्यते पुत्र तद्विरुद्धमते स्थितः॥१॥
तत्त्ववादसमाख्यां च कृत्वा तस्मिन्निजागमे।
श्रुतिस्मृतिपुराणानि भञ्जयिष्यति सर्वशः॥२॥
स्वयं करिष्यते पुत्र पुराणानि श्रुतिस्मृतीः।
अष्टादशपुराणेषु स्मृतिष्वष्टादशस्वपि॥३॥
अद्वैतनिरतं सर्वं वाक्यमुत्पाटयिष्यति।
कारयिष्यति पुंड्राणि वेणुपत्राकृतीनि च॥४॥
स्वकल्पितपुराणानि ख्यापयिष्यति भूतले।
तत्त्ववादमते स्थित्वा केचिद्ब्राह्मणबान्धवाः॥५॥
दाहयिष्यन्ति गात्राणि ताप्तलोहैर्द्विजाधमा” इति॥
कैमुतिकन्यायेन माध्वादिप्रतिवादिमतध्वंसबद्धपरिकराणां श्रीमद्भास्कररायाणां चरिते निन्दाव्यञ्जकानि वचनान्येवंविधाः साहसिकाः कथं न कल्पयेयुः?
एतादृशान्येव ध्वान्तजल्पितानि वचनानि विश्वस्य धर्मसिन्धुकारोऽपि बभ्राम, इत्यनुमीयते। यत्तेन नवरात्रप्रकरणे “नवीनतराः भास्कररायप्रभृतयोऽपि” इत्यादिनोपक्रम्य “तन्न वयं तत्त्वं जानीमः” इत्यन्तेन श्रीभास्कररायचरितं कलुषीकर्तुं प्रयतितं तदन्तिमवाक्यादेव तेनाऽपि यथाश्रुतमेव जल्पितमिति प्रतिभाति।
वस्तुतस्तु काशीक्षेत्रनुपागतैः श्रीभास्कररायैस्तत्रैव श्रीपरदेवताज्ञया ललितासहस्रनामस्तोत्रे सौभाग्यभास्करंनाम भाष्यमुपनिबद्धम्। अनेकग्रन्थप्रणयनप्रसिद्धैः श्रीमच्छंकराचार्यनवावतारैः
श्रीविद्यारण्यस्वामिचरणैर्ललितासहस्रनामभाष्ये चिकीर्षिते सति श्रीललिताम्बया स्वयं प्रादुर्भूय तथाविधभाष्यकरणात् ते प्रत्याख्याताः। अथाऽपि तैराग्रहाद्भाष्ये कर्तुमारब्धे सति तेषां बुद्धिः कुण्ठिताऽभूत् नेत्रज्योतिश्च मन्दमभूत्। तद्दृष्ट्वा भाष्यकरणान्निवृत्य श्रीललिताम्बां शरणं गत्वा पूर्ववदासन्निति तदानींतनविद्वन्मण्डले प्रसिद्धाऽऽसीदियमाख्यायिका। श्रीभास्कररायैः परदेवताज्ञया ललितासहस्रनामभाष्यं विरचितमिति तस्य प्रामाणिकत्वे सन्दिहानाः काशिकास्तदानींतना विद्वांसः श्रीभास्कररायाणां परीक्षां कर्तुमैच्छन्। काशिकतात्कालिकद्वत्प्रमुखप्रसिद्धश्रीकुङ्कुमानन्दस्वामिनामादेशमनुसरन्तः काशिका विद्वांसः श्रीभास्कररायानपृच्छन्**—**“यदि भवद्भिः परदेवताज्ञयैव भाष्यमिदं प्रणीतं, तर्हि “महाचतुःषष्टिकोटियोगिनीगणसेविता” इति नाम्नि निर्दिष्टानां चतुःषष्टिकोटियोगिनीनां नामानि चरितानि च वर्णयन्तु भवन्तः” इति। श्रीभास्कररायास्तु तेषां वचनान्युररीकृत्य तान् सायन्तनहोमानन्तरं गङ्गातीरे संघशः समेतुं समादिशन्। अथ सायन्तनमाह्निकं समाप्य गङ्गातीरेऽसंख्यैः पण्डितैः सह भास्कररायेषु समुपविष्टेषु एकः पण्डितश्चतुःषष्टिकोटियोगिनीगणचरितनामादिकथनाय तान्प्रार्थयामास। श्रीभास्कररायास्तु तान् “सावधानीभूय शृण्वन्तु भवन्तः” इत्युक्त्वा क्रमशो योगिनीचरितानि कथयितुमारेभिरे। तदानीमसंख्येभ्यः कण्ठेभ्यो युगपदेवासंख्ययोगिनीचरितानि साश्चर्यं शृण्वन्तः पण्डिताः “कथमसावेक एव युगपदनेकयोगिनीचरितानि वर्णयती” ति चमत्कारकारणजिज्ञासया श्रीकुङ्कुमानन्दस्वामिपादान् पप्रच्छुः। स्वामिनश्च विहस्य स्वकमण्डलूदकैस्तेषां चक्षूंषि प्रक्षालयामासुः। अथ ते सर्वे पण्डिता गङ्गायां गगनमण्डले च स्वस्ववाहनेष्ववस्थिताश्चतुःषष्टिकोटियोगिनीः स्वचरितानि स्वमुखेनैव वर्णयन्तीरपश्यन्। श्रीभास्कररायाणां दक्षिणस्कन्धे श्रीललिताम्बां, वामस्कन्धे च श्यामलाम्बामवस्थितां प्रत्यक्षीचक्रुः। इत्थमत्यद्भुतं दृष्ट्वा विगलिताभिमानाः सर्वे पण्डिताः श्रीभास्कररायाणां परदेवतात्मत्वं, तत्प्रणीतललितासहस्रनामभाष्यस्य प्रामाणिकत्वं च गाढं प्रतिपेदिरे। ललितासहस्रनामभाष्यवसाने “श्रीविश्वामित्रवंश्य” इति पद्ये श्रीभास्कररायैस्तत्प्रणयनसमयो विक्रमशकः १७८५ उपन्यस्तः। नर्मदोत्तरतीरे विक्रमसंवदाख्यस्यैव प्रचलितत्वात् काश्यां सौभाग्यभास्करप्रणयनात्तदन्ते विक्रमकालोल्लेखः समुचित एव। “गोमान्तकप्रान्तीयसप्तकोटीश्वरक्षेत्रे” (संप्रति नारवें इति प्रथितग्रामे) प्रणीते सेतुबन्धे तु तद्देशरीत्यनुसारेण शालिवाहनशक १६५५ (शर्मचाप इति) एव समुदलेखि।
काश्यामेव भास्कररायैः सोमयागः कृत इत्यपि प्रसिद्धमस्ति। काश्यां अन्नपूर्णामन्दिरमुख्यद्वारकोणे चक्रेश्वरनामकं श्रीचक्राङ्कं शिवलिङ्गं तैरेव स्थापितमस्तीत्यपि तच्छिष्यप्रशिष्यपरंपरासु प्रसिद्धमस्ति।
इत्थमखिलं भारतवर्षं सञ्चारैः पावयन्तो भास्कररायाश्चरमे वयसि मध्यार्जुनक्षेत्रे योगपथेन देहं व्यसृजन्। ई० सन १७५० समयात्परं तेषां निर्याणसमय इति प्रतीयते।
असंख्याः पुनः श्रीभास्कररायाणां शिष्याः, तेषां परम्परा अपि संख्यातिगा एव, तथापि कौण्डिन्यगोत्रजावान्तरसर्वज्ञब्रह्माख्यस्वपुरोहितवंशीयश्रीकालदीक्षितपुत्रो गणेशदीक्षितो भास्कररायाणां प्रियतमः शिष्य आसीत्। यस्य दीक्षानाम उमापत्यानन्दनाथ इति। अस्यैव विद्यावंशोऽद्यापि विद्यया तपसा परदेवतानुग्रहेण च विशिष्टतया विराजते। यैरेवाद्याऽपि श्रीभास्कररायाणां सम्प्रदायः सुरक्षितः समभिवर्धते। इति शिवम्।
अखिलविद्वदेकान्तवशंवदः
पणशीकरोपाह्वोवासुदेवशर्मा.
<MISSING_FIG href=”../books_images/U-IMG-1724769410Screenshot2024-08-27200645.png”/>
चतुर्थावृत्तावीषत्प्रास्ताविकम्।
अस्मिन् पुनर्मुद्रणावसरे (चतुर्थावृत्तौ) साहित्याचार्यसाहित्यवारिध्यादिविविधबिरुदावल्यलङ्कृतपण्डितप्रकाण्डैः काशीस्थसरस्वतीभुवनसंस्कृतग्रन्थालयाधिकारिभिः खिस्ते इत्युपाह्वानारायणशास्त्रिमहोदयैः तथा सूर्यपुर (सूरत) निवासिभिर्ज्योतिर्विद्भीरैक्वोपनामकैः केशवरामतनूजैः कृष्णशंकरशर्मभिः तथा प्रतिपदसमुद्भूतशङ्काऽऽकरनिरसनदृढबद्धपरिकरैः श्रीमद्भास्कररायादृतोपासनामार्गेऽतीव बद्धादरैश्च यत्तत्र तत्र प्रस्तावनालेखनादावतीव साहाय्यं कृतं तदुपकृतिभरं नैव विस्मरिष्यामः।
एवमनल्पपरिश्रमेण यथामति संस्कृतेऽप्यस्मिन् ग्रन्थे गच्छतः स्खलनन्यायेन दृग्दोषाल्पप्रेक्षानवधानाक्षरयोजकनिबन्धनं मानुषशेमुषीसुलभं स्खलितं दृष्टिसरणिमापतितं निसर्गकरुणावरुणालया निबन्धसंशोधनपरिश्रमविदुषो विदुषो मार्जयेयुरहमपि पुनर्मुद्रणावसरे मार्जयेयेति सप्रश्रयं विज्ञापयति.
ग्रन्थसंस्कर्ता.
श्रीभास्करविलासकाव्यम् (भुवनाभोगाख्यम्)।
भास्कररायान्तेवासिविश्वामित्रगोत्रश्रीजगन्नाथप्रणीतम्।
<MISSING_FIG href=”../books_images/U-IMG-1724769923Screenshot2024-08-27201510.png”/>
श्रीः। श्रेयोमार्गनिरूपणाय शरणापन्नेंषु बद्धादरा
दुर्वारप्रतिवादिचक्रविमलीकारप्रकारोत्तराः।
साष्टाङ्गप्रणमन्नरेन्द्रमुकुटीरत्नप्रभामेदुराः
श्रीमद्भास्करभारतीपदनखज्योत्स्नाङ्कुराः पान्तु नः॥१॥
पश्यतु पदेन वेदान्व्यस्यतु वल्मीकतोऽप्युदेत्वथवा।
अस्य भुवि भास्करेन्दोः कस्य न जिहेतु धीर्गुणान्गातुम्॥२॥
क्वाहं मन्दतमप्रज्ञः क्व गुरोर्गुणगौरवम्।
तथाप्युपश्लोकयामि तन्वानः सफलां गिरम्॥३॥
गम्भीरसत्त्वः कुशिकान्ववाये गम्भीररायोऽजनि गेयकीर्तिः।
श्रुतेन शीलेन धिया नयेन श्रिया च यः स्वंगुरुमन्वकार्षीत्॥४॥
विजयपुरसार्वभौमो विवृतमहाभारतस्तदुक्त्या यः।
विद्यासु भारती सन्नुपनाम्नाप्यत्र भारती ववृते॥५॥
तेनाभिपन्ने तनुजेऽग्र्यहारे कोनाम्बिकायां किल मध्यरत्नम्।
प्रकाशको भास्करवज्जगत्याः प्रधीरभूद्भास्कररायनाम्ना॥६॥
प्रादुर्भूतः सैष भागानगर्यां पुर्यां काश्यां तातपादोपनीतः।
अन्तेवासी सन्नृसिंहाध्वरीन्दोरस्माद्विद्याः प्रापदष्टादशापि॥७॥
स बालभावे जनकोपदिष्टसारस्वतोपासनया नयाढ्यः।
विद्याः समस्ताः सकलाः कलाश्च विनापि यत्नेन वशे चकार॥८॥
सप्तवर्षोऽपि युक्त्या यः सभेश्वरपतेर्मनः।
सभेशभक्तो भूपालसभे कस्मिन् जयी न सः॥९॥
शृण्वन्नेत्रस्य वीप्सा खलु पदविषयेऽपश्यदङ्घ्रेर्विभाषा
न्याये नव्येऽप्यनव्येऽप्यथ च परिणतिर्जैमिनेर्वाक्यजाते।
छन्दोंऽशे पिङ्गलोऽन्यः श्रुतिशिखरमते सत्यवत्यास्तनूज-
स्तन्त्रेष्वेष स्वतन्त्रा गिरिशगुणनिका कीर्त्यते कीर्तनीयैः॥१०॥
त्यक्तन्यग्रोधमूलः किमु शशिमुकुटः किंस्विदेकास्यशेषो
नागः शेषोऽयमाहो गुरुरमृतभुजामादृतक्ष्माविहारः।
किं विद्यानां समष्टिर्जगति विविधतां भेजुषीणामुदञ्चत्
पुंभावा भारती वेत्यखिलबुधजनैर्भावितो भारतीन्दुः॥११॥
महः कापिलं सांख्यतन्त्रे फणिभ्यामनन्यं च योगे विधौ छन्दसां च।
कृतं संख्यया सर्वविद्यानिषद्यां यमाहुर्महीमण्डले पण्डितेन्द्राः॥१२॥
चावाक्योक्तिरर्वागजनि समकुचद्बौद्धराद्धान्तभङ्गी
भाट्टो हट्टो विनष्टो व्यरमदथ कथा पश्य पश्यत्पदस्य।
योगोऽभूदस्तयोगस्त्रिजगति फणितिः कापिली सापि लीना
ध्वान्तश्च ध्वंसिताध्वा श्रुतिशिखरमतस्थापके भास्कराये॥१३॥
प्रतिद्वन्द्विसूरिच्छ्टावादकण्डूविलोपैकलीलाभृदन्तेवसन्तम्।
उपन्याराधाटीविधूतामरेड्यं विजेतुं तमीष्टां विपश्चिद्रजे कः॥१४॥
संक्षुद्य खण्डमसकृत्सिक्त्वा मधुना विधिः कवेरस्य।
किं निरमिगीत रसनामिति माधुर्या यदुल्लसन्ति गिरः॥१५॥
माध्वी साध्वी न जज्ञे जगति परिणता गोस्तनी चास्तनीचा
न्यक्कारं शर्कराऽगान्मधुरिमणि भृशं भिक्षुतां प्रापदिक्षुः।
प्रक्षीणा क्षीरकाङ्क्षा समजनि मधुनो माधुरी चाधुरीणा
मोचाप्याचान्तदर्पा भणितिषु मखिनो भारतीख्यातिभाजः॥१६॥
यस्याऽदृष्टो नास्ति भूमण्डलांशो यस्याऽदासो विद्यते न क्षितीशः।
यस्याऽसाध्या नास्ति विद्या किमन्यैर्यस्याऽऽकारः सा परा शक्तिरेव॥१७॥
आ प्राचः कामरूपाद्द्रुहिणसुतनदप्लावितादा प्रतीचो
गान्धारात्सिन्धुसार्द्राद्रघुवरचरितादा च सेतोरपाचः।
आ केदारादुदीचस्तुहिनगहनतः पुण्यदेशानशेषां-
स्तीर्थान्यग्र्याणि पीठान्यपि च दिविषदां सैषसाक्षादकार्षीत्॥१८॥
कामरूपात्परं नामरूपाभिधं दृष्टवान्नीवृतं दूरतः केवलम्।
पापभीरुर्यदा भूपतेरासते तत्र नार्यः पुमांसोऽपि दिग्वाससः॥१९॥
स एष गङ्गाधरवाजपेयिसकाशतः साधितगौडतर्कः।
गङ्गावगाहाद्विरजाः पितॄणां गतोऽनृणत्वं सुकृती गयायाम्॥२०॥
शिवभक्त्यामुपमन्युः शिवापदाब्जार्हणे हयग्रीवः।
यः पुण्डरीकनयनोपास्ताविह जगति पुण्डलीकोऽभूत्॥२१॥
साचालोऽखिलतीर्थेष्वाचारो वृद्धिमान्प्रचारणया।
आत्मविचारः संततमव्यभिचारः शिवेऽस्य भावोऽभूत्॥२२॥
आनन्दी परिणिन्येऽसावानन्दीनामिकां प्रियाम्।
सानन्दयन्मनो भर्तुर्मानं दत्त्वा तु पृष्ठतः॥२३॥
सावरणापत्रपया सालंकारा शुभेन शीलेन।
सापत्या शिष्यैरपि साध्वीनां स्तूयते हि धुर्येषा॥२४॥
अन्तरंगमतयाऽथ तयासावन्तरङ्गविहृतिं विदधानः
पाण्डुरङ्गमभजत्सुतमाशाः पाण्डुरं गमयति स्म यशो यः॥२५॥
त्रयीमधीत्याधिगतार्थगेप त्रेता यथाकालमथादधानः।
आम्नायमाथर्वणमप्रचारमध्यैष्ट चाध्यापिपदग्रजातीन्॥२६॥
देवीभागवतं नाम पुराणं प्रोक्तलक्षणम्।
आनीय प्रकटीचक्रे दानी पात्रेष्वदाम्भिकः॥२७॥
सारल्यशालिचेताः सारं श्रीरामभद्रचरितस्य।
अष्टममद्भुतकाण्डं स्पष्टदशां प्रापयत्खिलीभूतम्॥२८॥
भासुरानन्दनाथाख्याद्भासुरो दीक्षया स्वयम्।
पद्मावत्यम्बिकेत्याख्यां चकार सुदृशः सुधीः॥२९॥
शिवदत्तशुक्लचरणासादितपूर्णाभिषेकसाम्राज्यः।
गुर्जरदेशे विदधे जर्जरधैर्यं स वल्लभाचार्यम्॥३०॥
वादे मस्करिणं माध्वं विधूयामुष्य बन्धुजाम्।
पार्वतीं व्यवहत् कीर्त्या समं सत्यप्रतिश्रवाः॥३१॥
आसृष्टेरनुवर्तमानमभितः श्वश्रूस्नुषाभावजं
वैमुख्यं परिहृत्य तादृशमिह स्वस्मिन्स्वकीयेषु च।
अन्योन्यं कमलाविरिञ्चिसुदृशोरातन्वतः संगतं
श्रीमद्भास्करयज्वनश्चतुरता वाचा कथं वर्ण्यते॥३२॥
काश्यां जज्ञे सोमपीथी यथावत्कालं कंचित्तत्र कृत्वा विहारम्1।
शिष्यस्यासौ चन्द्रसेनस्य राज्ञः सेवातुष्ट्योवास कृष्णोपकण्ठम्॥३३॥
यादववंशौकमणिर्योभोसलभूभृतश्चमूनाथः।
श्रीगुरुचरणोपास्तौ स्वयमेव प्रापदुपमितिं स्वस्य॥३४॥
अनेकाग्रहारप्रतिष्ठागरिष्ठःशिवश्रीधराद्यालयोल्लासनिष्ठः।
अजस्रप्रवृत्तान्नसत्रो वसिष्ठःस पूर्तानि चक्रे बहून्यार्तबन्धुः॥३५॥
चक्रेशमस्थापयदेष काश्यां गम्भीरनाथं किल कोङ्कणेषु।
मूलह्रदे श्रीमति पाण्डुरङ्गं वज्रेश्वरं नाम च सेतुबन्धे॥३६॥
संनतिमान्नाथपदोः संनतिनाम्नेह विश्रुते क्षेत्रे।
चक्रे स मन्दिरं श्रीचक्राकारेण चन्द्रलाम्बायाः॥३७॥
बहोः कालात्किलाशेषमदश्चोलेषु नीवृति।
कहोलेशमसौ चक्रे महोत्सवनिरन्तरम्॥३८॥
साध्वी तदग्रसुदती सह्यसुतातीरभूपरिष्कारे।
भास्करपुरेऽग्रहारे बद्धावृति भास्करेश्वरं न्यधित॥३९॥
यदि श्रीर्नो विद्या भवति यदि सा नैव विनयः
स चेन्नो दातृत्वं तदपि यदि न स्यान्मृदु वचः।
इति स्मायं लोके नियतमसमानाधिकरणो
गुणग्रामः पूर्णो जगति ववृधे भास्करबुधे॥४०॥
नवस्यन्दिमाध्वीकधारानुकारप्रकारोल्लसत्साहितीसौहितीकः।
विनिःश्वासकल्पं भुवः कल्पशाखी बबन्ध प्रबन्धान्प्रबन्धा स नैकान्॥४१॥
दान्तेषु वर्यैर्वेदान्ते नितान्तेडितनैपुणः।
अतनोदान्तरध्वान्तखण्डकं चण्डभास्करम्॥४२॥
लीलामात्रेरितया नीलाचलपूर्वया चपेटिकया।
विमतादृतं प्रहस्तं व्यतनिष्ट विहस्तमब्जनिभहस्तः॥४३॥
पूर्वमीमांसकाग्रेसरैः श्लाघितः पूर्वमीमांसयोद्दामकक्ष्याकुलम्।
वादकौतूहलेनाम चक्रे कृती वादकौतूहली सूनुनाऽसौ गुरोः॥४४॥
चन्द्रोदयं च भाट्टोपपदं भट्टारकः प्रवीणानाम्।
मध्यायाः कौमुद्या अपि टीकां रसिकरञ्जनीं विदधे॥४५॥
प्रतिवादिशिरो घट्टकुट्टाकप्रतिभाभरः।
तार्किकाणां मण्डनं स ततान न्यायमण्डनम्॥४६॥
छन्दसि सौत्रं भाष्यं छोटीवृत्तिं प्रवृत्तिमान्धर्मे।
वार्तिकराजं वृत्तोपपदं चन्द्रोदयं च चक्रेऽसौ॥४७॥
वस्तुमर्हो धुरि सतां वस्तुतः पिङ्गलापरः।
स स्तुतं प्राणयच्छन्दःकौस्तुभं विबुधोत्तनैः॥४८॥
विद्वन्मनोनन्दनचन्द्रशालां तद्वत्प्रणिन्ये खलु चन्द्रशालाम्।
प्रधीः कटोरीमपि लोभनीयपदार्थपूर्णामिह लब्धवर्णः॥४९॥
मधुराम्लं व्यधात्काव्यं मधुराम्लरसप्रियः।
सुभाषितं भास्कराङ्कं बभाषे मृदुभाषितः॥५०॥
प्रचण्डं दुरितव्रातखण्डने शिवदण्डकं।
मुक्तकानि च पद्यानि मुक्तावद्यान्ययं जगौ॥५१॥
तत्त्वज्ञः स्मृतितत्त्वाख्यां कृतिं सत्त्वगुणाश्रयः।
मर्मविद्धर्मशास्त्रस्य कर्मठः सैष निर्ममे॥५२॥
सहस्रब्राह्मणभुजिविधिखण्डस्य विश्रुतः।
बौधायनप्रणीतस्य बुधो व्याख्यामरीरचत्॥५३॥
शङ्खचक्राद्यङ्कनस्य स शङ्खलिखितोपमः।
प्रायश्चित्तं जगादेकादश्या अपि विनिर्णयम्॥५४॥
प्रदोषभास्करं चक्रे तृचभास्करमप्यसौ।
कुण्डभास्करसंज्ञां च कृतिं भास्करपण्डितः॥५५॥
नानाविधैरसौ वृत्तैर्नाम्नामष्टोत्तरं शतम्।
अष्टमूर्तेरतिस्पष्टं व्याचष्टेस्म विशिष्टधीः॥५६॥
गणेशनामसाहस्रव्याख्यां विख्यातिमान्गुणैः।
खद्योतनाम्नीं निष्पाद्य व्यद्योतिष्ट स भास्करः॥५७॥
स्कान्दीयं चन्द्रलाम्बायाश्चन्द्रोपममुखद्युतिः।
माहात्म्यं ख्यातमाहात्म्यो व्याचख्यावतिविस्तृतम्॥५८॥
मत्तप्रतिवदवदनप्रत्तजनानुत्तरत्वमुद्राकः।
नाथनवरत्नमालामञ्जूषां मञ्जुलां जुगुम्फासौ॥५९॥
भावनोपनिषद्भाष्यं सप्रयोगं स भाविकः।
चक्रे श्रीसूक्तभाष्यं च चिरं परिचितः श्रिया॥६०॥
कौलोपनिषद्भाष्यं कुलजैः सेव्यो जनैश्चकारासौ।
त्रैपुरमहोपनिषदं त्रैपुरसिद्धान्तविद्विवव्रे सः॥६१॥
ललितानामसाहस्रभाष्यं भाष्यकृतां समः।
सौभाग्यभास्कराख्यं स भाग्यलब्धं व्यधात्सुधीः॥६२॥
सौभाग्यरत्नाकरभाग्यहेतुं सौभाग्यचन्द्रोदयमागमज्ञः।
श्रीरामवन्निर्धुतपापबन्धं चकार चात्यद्भुतसेतुबन्धम्॥६३॥
भास्करकुलजेन पुरा बद्धः सेतुः स्वयं तरितुमब्धिम्।
भास्कररायेण जगत्तारयितुं भवपयोधिरयमरचि॥६४॥
वरिवस्यारहस्यं च वरिवस्याप्रकाशकम्।
वरिवस्यापरैरेव वरिवस्यमचीकरत्॥६५॥
जामदग्न्योपज्ञकौलकल्पसूत्रस्य सूत्रवित्।
रत्नालोकाभिधां वृत्तिं यत्नादेष विना व्यधात्॥६६॥
मालामन्त्रोद्धारं गुणमणिमालापरिष्कृतोऽव्याख्यत्।
गुप्तवतीं सप्तशतीटीकामपि लुप्तसंशयां विदधे॥६७॥
सर्वज्ञो विशदां सप्तशतीमन्त्रविभाजिकाम्।
प्रणिनाय शतश्लोकीं पुण्यश्लोकपदोचितः॥६८॥
असंख्याता हि कृतयः संख्याता अपि विष्टपे।
संख्यातुं केन शक्यन्ते संख्यावच्चक्रवर्तिनः॥६९॥
इत्येवं श्रीमद्भास्कररायप्रणीतानां केषांचिद्ग्रन्थानां निर्देशः।
——————
श्रीमद्भास्कररायकृतपद्यसंग्रहः
तत्सार्वज्ञ्योपज्ञकानि प्राज्ञहृद्यानि कानिचित्।
अद्याहमनवद्यानि पद्यानि प्रतिपादये॥७०॥
“श्रीरामं प्रतिपुष्कराभिधमहायक्षेण वेदत्रय-
व्याख्यानावसरे विशिष्य कथितं श्रीविष्णुधर्मोत्तरे।
एतां धेनुमुपह्वयामि सुदुघामित्यृग्गतं शंकरा-
चार्यं शिष्यचतुष्टयेन सहितं वन्दे गुरूणां गुरुम्॥७१॥
वर्षेष्वतीतेषु शकेषु षट्सु तिष्येऽवतीर्णं भुवि शंकरार्यम्।
शिष्यैश्चतुर्भिः सहितं शिवादिपारम्परीकावधिमानमामः॥७२॥
हन्ताहन्ताहन्तान्तर्वाणिगणस्य तत्त्वभुवि रन्ता।
ध्वन्यध्वन्यध्वन्यः श्रीनरसिंहाध्वरी गुरुर्धन्यः॥७३॥
साक्षाद्द्राक्षासमक्षापतदमृतझरीमाधुरी साधुरीति-
र्मल्लीवल्लीमतल्लीकुसुमपरिमलाखर्वगर्वापहन्त्री।
भाषा येषामशेषाविनटजजटाजूटसंभ्रान्तगङ्गा-
तुङ्गत्वङ्गत्तरङ्गध्वनिमधरयते तान्नुमः श्रीनृसिंहान्॥७४॥
विधिविष्णुमुखामरोदयस्थितिनाशेषु शिवोऽप्यनीश्वरः।
जगदम्ब तव त्वयं क्रमः क्षणमुद्दालकपुष्पभञ्जिका॥७५॥
शिरःस्थशशलक्षणं त्रिपुरदैत्यसंतक्षणं
दुरन्तविषभक्षणं सुरनिकायसंरक्षणम्।
नरीनरविलक्षणं रविकृशानुचन्द्रेक्षणं
स्मरार्दनविचक्षणं परशिवं भजेऽनुक्षणम्॥७६॥
चायं चायं दुरितनिचयं सीदतां वत्त्युपायं
पायं पायं शमितकलुषं कार्ष्णमम्भोऽनपायम्।
ध्यायं ध्यायं विषयकटुतां भोश्चिरायोरुगायं
गायं गायं विहरत विभुं वेणुगोपालनाट्यम्॥७७॥
इदमहमोरुभयोरपि यदस्ति नियतावभासकं भानम्।
तस्यापि साक्षिणी चित्तदुपाधिविनाकृताप्यस्ति॥७८॥
तद्दत्तैश्वर्यभाजः परमशिव कथंकारमन्यानमर्त्यान्
याचे देहीति विष्णुद्रुहिणहरिमुखान्भिक्षुकान्भिक्षुकोऽहम्।
यत्तावद्द्वादशाहक्रतुविकृतिशतोक्थ्याङ्गभूतोऽपि चोक्थ्यो
ज्योतिष्टोमोक्तधर्मानभिलषति नतु द्वादशाहोक्थ्यधर्मान्॥७९॥
आलोलोच्यकि सूरिसंप्रतिपनीपन्नांश्चनीकारयन्
शब्दान्संसदि बम्भणीतकितरां यश्चर्करीतानपि।
कीर्तिस्तस्य वरीवधीतकि जनाः सर्वेऽपि चाकत्थति
स्वर्गं चाभिपनीपदीतकि न चैतेभ्यः सनीस्रस्यते॥८०॥
भ्रश्यत्कूलकुकूहनाथ हरिणा जाल्मत्वमध्यापितात्
धिग्दण्डाजिनिकान्धकीद्धकिदिहायश्शूलिकान्पार्श्वकान्।
ब्रह्मात्मैक्यपुरो नु योऽनुरहसं यायावरः सस्यको
मर्त्यत्रा समयाकरोति विधिवत्तेनास्त्वजर्यं मम॥८१॥
द्रव्याश्रयी गुणोऽथच दुःखध्वंसो विमुक्तिरिति च मुनिः।
ऋतमाह गौतमोऽसौ त्रिभुवनमपि साक्षि यदिह सानुभवम्॥८२॥
द्वित्रप्रस्तरखण्डगर्भकुतुपध्वानभ्रमाधायिवाक्
चेद्वैयाकरणो मनागपि रसं काव्यस्थितं विन्दति।
तन्वाने रसितार्भटीं गतरसां मध्येनभः शारदे
निर्घातैर्बधिरीकृतश्रुतिपुटे को वापराधोऽम्बुदे॥८३॥
शुष्कोदर्ककुतर्ककर्कशगिरा चोद्यानि ये कुर्वते
साहित्येऽनुभवैकगोचररसे स्युस्तेऽपि चेत्पण्डिताः।
को मन्तुर्महिलां निहत्य कुचयोरन्त्राणि संप्राश्नतां
वृक्षाणां कुसुमानि मर्षितवतां शाखामृगाणामपि॥८४॥
वित्ते तत्पुरुषे तु तत्पुरुषति त्वन्नाम्नि शैवाग्रणी-
रल्पः कोऽपि समाश्रयन्निह बहुव्रीहिं बहुव्रीहिभाक्।
श्रीरामेश्वरकर्मधारयमुनीकुर्वन्कविर्भास्करः
कस्मादण्वपि कर्म धारयति न द्वन्द्वेऽपि निर्द्वन्द्वति॥८५॥
कावेरि त्वं सरस्वत्यनवरतसमाविष्टचित्ता तथाहं
न क्रोधस्ते ममापि त्वमहमपि कवेरात्मजत्वं प्रपन्नौ।
भूमि न्यञ्चत्कबन्धा त्वमहमपि यदा जीवनं पातुमीहे
त्वं मे पातुं यदिच्छस्यनितरगुणयोरावयोः को विशेषः॥८६॥
‘गयाप्रयाग’ द्वितयं वैपरीत्येऽपि तादृशम्।
‘काशिका’ पि तथैवातस्त्रिस्थली स्तूयते बुधैः॥८७॥
त्वद्भालेऽग्निशिखालेपात्तद्भालेऽग्निशिखा भवेत्।
गङ्गे शिवोऽपि न त्वत्तः कृतप्रतिकृते कृती॥८८॥
तवाङ्घ्रौ यः प्रणिपतेत्तस्याङ्घ्रौनिपतस्यहो।
गङ्गे शिवोऽपि न त्वत्तः कृतप्रतिकृते कृती॥८९॥” इति।
जायात्मजाभ्यां च विधीश्वराभ्यां विष्णोः समाहारयुगं निबद्धम्।
अस्तीह ते विन्दति शाब्दिकस्तदिति प्रतिज्ञा कविभास्करस्य॥९०॥
न स्याच्चेदिति वाक्यस्य कोऽर्थः कस्मिन्पिकभ्रमः।
आन्ध्रीगीर्वाणभाषाभ्यामेकमेवोत्तरं वद॥९१॥ काकपोते।
कमले कमलोत्पत्तिः श्रूयते न च दृश्यते।
दृष्टं शंभोःपदाम्भोजे विष्णुलोचनपङ्कजम्॥९२॥
मर्त्य मर्त्यां गिरिं शुल्वं शब्दशास्त्रं च वर्णय।
कविभास्कर एवात्र ब्रूते धातुगुणास्पदम्॥९३॥
वीर श्रीकामरूपक्षितिरमणयशोनाशिना नायकेन
त्रैलोक्ये श्वेतिमानं कलयति यमुनाप्यत्यजन्नैजरूपम्।
संदिग्धस्तीर्थराजोऽप्यभवदथ पुनः सा नदी त्वत्प्रतापा-
दामूलाग्रं यथावत्समजनि यवनीसंघदृङ्नीरपूरैः॥९४॥
प्रस्तौमि प्रतिहार्येव जनैरुद्गीयतेऽखिलैः।
निधनोपद्रवैर्हीनं साम तेऽन्यादृशं नृप॥९५॥
रुद्रभूप भद्रमस्तु यद्रिपूनुपद्रवैरिह द्रुतं प्रविद्रवय्य काद्रवेयपूर्दरीम्।
तद्रमाविनिद्रणेन मुद्रिता दरिद्रता दरिद्रतान्तदद्रिभिद्वनद्रुमान्नचाद्रिये॥९६॥
श्रीभास्करेणैव भुवि स्थितानि छत्राणि सर्वाण्यधरीकृतानि।
छायां त्वदीयामभिवाञ्छतिस्म श्रीभास्करछत्रपतिस्ततस्त्वम्॥९७॥
भोः पद्मपत्र भवतां यदपां कणोऽपि न स्पृश्यते समुचितैव परस्वभीः सा।
एवं धिया त्वयि धृते निहते सति त्वमाषाढभूतिनिपतद्गिलसीति युक्तम्॥९८॥
कूपाकूपारकुल्यास्वथ च नदनदीखेयकासारवापी-
ष्वापातालं प्रविष्टैर्दशशतगुणितैरंशुभिर्वारि भूरि।
ग्राहं ग्राहं निषिञ्चन्नवसि दिनपते विश्वमेतत्समस्तं
तत्ते किं वर्णयामो निरुपधिकरुणां दानशौण्ड्यं च भूयः॥९९॥
भूषावानखिलैर्गुणैः स्वकृतिभिः संतानवान्भूयसा
विद्याभिर्धनवान्सुधाधवलया कीर्त्या चिरं देहवान्।
पित्रा दैवतवानभूत्सुकृतवाल्ँलोकोपकारेण यः
साधर्म्यं लभतामनेन भुवि कः श्रीभारतीयज्वना॥१००॥
श्रीमद्भास्करराय नैकजनिषु त्वद्दानतोयैर्भृता-
दासर्गं जलधेरवाप्तजनुषः स्वःशाखिनो गौश्व सा।
औदार्यं भजते हि कारणगुणाः कार्येषु न स्युः किमि-
त्येनं पूर्णमनोरथाः प्रतिदिशं सर्वेऽर्थिनोऽप्यस्तुवत्॥१०१॥
नाद्रुह्यत्कस्मा अपि नास्मार्षीच्चेतसाऽपि परदारान्।
नास्पृहयत्परराये भास्कररायो मखी धन्यः॥१०२॥
अदीधरच्चेतसि चन्द्रचूडमबीभरद्बन्धुजनं स दीनम्।
अचीकरत्किंच मखानशेषानतीतरत्संसृतिमात्मभक्तान्॥१०३॥
पद्मोल्लासेकहेतुर्निखिलकुवलयस्यापि मोदप्रदायी
लोकालोकोदरैकोदयमथ परतोऽप्यस्य देदीप्यमानः।
अह्न्येव प्रोज्जिहानं दिनमनु च निशां द्योतमानः प्रकाशं
तिग्मांशोर्नातिशेतां कथमिव सुमहान्भारतीयः प्रकाशः॥१०४॥
श्रीमद्भास्करराययज्वतिलकस्योच्चैर्यशः स्रोतसः
पात्रं दिग्वलयान्तरालमभवद्वैरोधसी रोदसी।
अश्मानन्ति कुलाचला जलधयः सप्तहृदन्त्यैन्दवं
बिम्बं कंववतीह नूनमुडवः शबूकगुम्भन्ति च॥१०५॥
निर्यातीव पदाम्बुजान्मधुरिपोः सौतीव पद्मालयां
वेवेक्तीय पयोऽम्बुनी विहरति स्रष्टुर्मुखाब्जेष्विव।
किंच स्मेरयतीव कैरववनीं द्विष्टे करीन्द्रानिव
क्ष्मां मूर्ध्नेव बिभर्ति कीर्तिरमला श्रीभारतीयज्वनः॥१०६॥
हीरति काञ्च्यां हारति चोलतटेऽङ्गेषु चन्दनाम्बवति।
कुन्दति कुन्तलदेशे कीर्तिर्गम्भीररायतनयस्य॥१०७॥
कीर्त्या यस्य जगत्त्रये धवलिते सर्वे गजाः स्वर्गजाः
किंचोच्चैःश्रवसो हया नृपतयः सर्वेऽपि सीरायुधाः।
नद्यः स्वःसरितोऽखिलाः फणभृतो दर्वीकराधीश्वराः
शैला हन्त हिमालया ववृतिरे सर्वे सुराः शंकराः॥१०८॥
कुमुदं वर्धयन्पद्मोल्लासी कोऽप्येव भास्करः।
दुन्दुभिं ध्वनयन्नुर्व्यां प्रमोदी दिनमानशे॥१०९॥
वयसि चरमे लब्ध्वा सह्याद्विजातटगेहितां
विदितनिखिलत्रय्यन्तार्थं चिदैक्यविभावनात्।
महिममहति क्षेत्रे मध्यार्जुने शिवतां गतो-
ऽप्यमलवपुषा कीर्त्या जागर्ति शाश्वतिकेन सः॥११०॥
अन्येन्द्रं जगदस्थितेन्द्रमपि वा कर्तुं प्रगल्भेऽन्वये
संभूतो ननु बालकृष्णसचिवोत्तंसस्य रूपान्तरम्।
लक्ष्म्यम्बाहृदयाम्बुधेर्हिमरुचिः प्राज्ञः प्रशस्यामिमां
प्राणैषीत्सुमतिर्यथामति जगन्नाथाभिधानः कृतिम्॥१११॥
अब्दे प्रमोदसचिवे शब्दार्थपरिष्कृता कृता कृतिना।
भास्करविलाससंज्ञा भायाद्भुवने कृतिश्चिरायैषा॥११२॥
अनेन वागध्वरेण समाराद्धा कथंचन।
दयतां देशिकात्मा मे देवी श्रीललिताम्बिका॥११३॥
इति श्रीविश्वामित्रमहर्षिगोत्रपयोधिकैरवमित्रस्य श्रीमद्भास्करराय-
भारतीदीक्षिताग्निचिदन्तेवासिना सनाथस्य जगन्नाथस्य
कृतिर्भास्करविलासकाव्यमिदं भुवनाभोगाख्यातं
संपूर्णतामयासीत्।
<MISSING_FIG href=”../books_images/U-IMG-1724777217Screenshot2024-08-27221646.png"/>
ललितासहस्रनामभाष्योदाहृतग्रन्थानां ग्रन्थप्रणेतॄणांच
मातृकाक्रमेण निर्देशः।
[TABLE]
[TABLE]
[TABLE]
[TABLE]
[TABLE]
[TABLE]
[TABLE]
[TABLE]
इति ललितासहस्रनामभाष्योदाहृतग्रन्थानां
ग्रन्थप्रणेतॄणां च निर्देशः।
<MISSING_FIG href="../books_images/U-IMG-1724866169Screenshot2024-08-28225918.png"/>
श्रीः।
ललितासहस्रनाम।
<MISSING_FIG href="../books_images/U-IMG-1724902219Screenshot2024-08-29085942.png"/>
भास्कररायप्रणीतसौभाग्यभास्करभाष्योपेतम्।
उपोद्घाताख्या प्रथमा कला।
<MISSING_FIG href="../books_images/U-IMG-1724902261Screenshot2024-08-29085951.png"/>
श्रीललिताम्बायै नमः।
श्रीगम्भीरविपश्चितः पितुरभूद्यः कोनमाम्बोदरे
विद्याष्टादशकस्य मर्मभिदभूद्यः श्रीनृसिंहाद्गुरोः।
यश्च श्रीशिवदत्तशुक्लचरणैः पूर्णाभिषिक्तोऽभव-
त्स त्रेता त्रिपुरा त्रयीति मनुते तामेव नाथत्रयीम्॥१॥
गुरुचरणसनाथो भासुरानन्दनाथो विवृतिमतिरहस्यां वीरवृन्दैर्नमस्याम्।
रचयति ललिताया नामसाहस्रिकाया गुरुकृतपरिभाषाः संविवृण्वन्नशेषाः॥२॥
अष्टाभिर्वाङ्मयानामधिपतिभिरमोघोक्तिभिर्देवताभि-
र्मात्राज्ञप्ताभिरग्र्यं यदरचि ललिता दिव्यनाम्नां सहस्रम्।
यद्ब्रह्माणीरमेशप्रभृतिदिविषदां विस्मयाधानदक्षं
तत्रैकस्यापि नाम्नः कथमिव विवृतिं मादृशः कर्तुमीष्टे॥३॥
तथापि श्रीमात्रा दहरकुहरे सूत्रधरया
समादिष्ट वाचामधिपतिषु काप्यन्यतमिका।
मदीड्यश्रीनाथत्रयचरणनिर्णेजनजलैः
पवित्रे जिह्वाग्रे नटति ममता सा मम मता॥४॥
आ प्राचः कामरूपाद्द्रुहिणसुतनदप्लावितादा प्रतीचो
गान्धारात्सिन्धुसार्द्राद्रघुवररचितादा च सेतोरवाचः।
आ केदारादुदीचस्तुहिनगहनतः सन्ति विद्वत्समाजा
ये ये तानेष यत्नः सुखयतु समजान्कश्चमत्कर्तुमीष्टे॥५॥
इह खलु निखिलपुरुषार्थसाधने भगवत्याराधनेऽभ्यर्हिततमस्य रहस्यनामसहस्रकीर्तनस्य रहस्यतरसद्गुरुसंप्रदायैकवेद्यस्वरूपत्वेन तान्संप्रदायान् शिष्यानुजिघृक्षय
त्रिपुरां कुलनिधिमीडेऽरुणश्रियं कामराजविद्धाङ्गीम्।
त्रिगुणैर्देवैर्निनुतामेकान्तां विन्दुगां महारम्भाम्॥१॥
———————
दिदर्शयिषवः श्रीमन्नृसिंहानन्दनाथनामानोऽस्मद्गुरुचरणाः निरन्तरनिरन्तराया अपि शिष्यशिक्षायै मङ्गलमाचरन्ति — त्रिपुरेति। त्र्यात्मकं पुरं भूपुरं मण्डलकोणरेखामन्त्रादिसमूहो वा यस्याः सा त्रिपुरा। तदुक्तं कालिकापुराणे — ‘त्रिकोणं मण्डलं चात्या भूपुरं च त्रिरेखकम्। मन्त्रोऽपि त्र्यक्षरः प्रोकस्तथा रूपत्रयं पुनः॥ त्रिविधा कुण्डलीशक्तिस्त्रिदेवानां च सृष्टये। सर्वं त्रयं त्रयं यस्मात्तस्मात्तु त्रिपुरा मते’ति। कुलस्य सजातीयसमूहस्य निधिं मातृमानमेयरूपत्रिपुट्या एकज्ञानविषयत्वेन साजात्यात्, घटमहं जानामीत्येव ज्ञानाकारात् ‘जानामीति तमेव भान्तमनु भात्येतत्समस्तं जग’दिति श्रीमदाचार्यभगवत्पादोक्तेः, तदेव हि कुलम्। ‘सजातीयैः कुलं यूथ’मिति कोशात्। परमशिवादिस्वगुरुपर्यन्तो वंशो वा कुलम्। ‘संख्या वंश्येने’ति पाणिनिसूत्रे ‘वंशो द्विधा विद्यया जन्मना चे’ति महाभाष्यात्! आचारो वा कुलम्। ‘न कुलं कुलमित्याहुराचारः कुलमुच्यते। आचाररहितो राजन्नेह नामुत्र नन्दती’ति भविष्योत्तरपुराणात्। सुषुम्नामार्गोवा कुलम्। कुः पृथिवीतत्त्वं लीयते यस्मिंस्तदाधारचक्रं तस्य शक्यस्य संबन्धात्। अरुणा रक्ता श्रीः कान्तिर्यस्यास्ताम्। कामराजेन कामेश्वराख्यपरमशिवेन विद्धं सामरस्यापन्नं अङ्गंयस्याः। त्रिगुणैः सत्वरजस्तमोमयैर्देवैर्विष्णुब्रह्मरुद्रैः नितरां नुतां स्तुताम्। एकान्तां रहोदेवतां, एकां मुख्यां तां प्रसिद्धां वा। अश्चासाविश्चेति कर्मधारये शिवकाम इत्यर्थात्तसुन्दरीं वा। ‘अकारो ब्रह्मविष्ण्वीशकमठेष्वि’ति विश्वः। ‘इकारो मन्मथः प्रोक्त’ इत्यनेकार्थध्वनिमञ्जरी च। बिन्दुं सर्वानन्दमयं चक्रं गच्छतीति तथा। महान्ब्रह्माण्डादिरूप आरम्भो यस्यास्तामीडे स्तौमीत्यर्थः। अथात्रैवं नामोद्धारः प्रदर्श्यते — त्रिपुरेत्यत्र पकार एकसंख्याया वाचको रेफस्तु द्वित्वसंख्यायाः। यदाह वररुचिः — ‘कटपयवर्गभवैरिह पिण्डान्त्यैरक्षरैरङ्काः॥ नेञे शून्यं ज्ञेयं तथा स्वरे केवले कथिते’ति। पिण्डान्त्यैरित्यस्य व्यञ्जनसमूहे चरम एव सांकेतिक इत्यर्थः। ‘अङ्कानां वामतो गति’रिति न्यायात्पुरेत्यनेनैकविंशतिसंख्या कथिता भवति। एवमुत्तरत्रापि। तेन त्रि इत्याकारकपदारब्धानि नामानि त्रिनयनेत्यारभ्य त्रिकोणगेत्यन्तान्येकविंशतिरेवेत्यर्थः। निधयो नव ‘नव ग्रहद्वारनिधिप्रजेशा’ इति छान्दसीयवचनात्। कुलपदारब्धानि नामानि नव कुलामृतैकरसिकेत्यारभ्य कुलरूपिणीत्वन्तानि। अरुणाः सूर्या द्वादश श्रीपदारब्धानि श्रीमातेत्यारभ्य श्रीशिवेत्यन्तानि। कामपदारब्धानि राजसंख्याकानि षोडश कामेशबद्धमाङ्गल्येत्यारभ्य कामकेलितरङ्गितेत्यन्तानि। विद्धाङ्गी विइत्यक्षरारब्धान्येकोनचत्वारिंशत् विशुक्रप्राणां हरणेत्यारभ्य विरागिणीत्यन्तानि। त्रिगुणैर्गुणनिधिर्गुणप्रिया गुणातीतेति त्रीणि। निनुतां निकारारब्धानि षष्टिः निजारुणेत्यारभ्य निरालम्बान्तानि। एकान्तताम्बूलपूरितमुखीत्येकं नाम। बिन्दुगां बिन्दुमण्डलवासिनी बैन्दवासना बिन्दुतर्पण-
ललितानामसहस्रे छलार्णसूत्रानुयायिन्यः।
परिभाषा भाष्यन्ते संक्षेपात्कौलिकप्रमोदाय॥२॥
पञ्चाशदेक आदौ नामसु सार्धद्व्यशीतिशतम्।
षडशीतिः सार्धान्ते सर्वे विंशतिशतत्रयं श्लोकाः॥३॥
दशभूः सार्धनृपाला अध्युष्टं सार्धनवषडध्युष्टम्।
मुनिसूतहयाम्बाश्वाम्बाश्वोक्तिर्ध्यानमेकेन॥४॥
अगस्त्य उवाच।
अश्वानन महाबुद्धे सर्वशास्त्रविशारद।
कथितं ललितादेव्याश्चरितं परमाद्भुतम्॥१॥
——————
संतुष्टेति त्रीणि। महारम्भां महापदारब्धानि द्विचत्वारिंशत् महालावण्येत्यारभ्य महेश्यन्तानि॥१॥ छलाक्षरनामसूत्रेभ्यो नामविभागादेर्विलम्बेन क्लिष्टतया ज्ञायमानत्वात्तत्रत्या एव परिभाषाः सुलभोपायेन सुबोधा इति विद्योपासकानां तोषाय कथ्यन्त इत्यर्थः। छलाक्षरसूत्राणां विलम्बितार्थबोधजनकत्वं तत्रतत्र प्रकटीकरिष्यामः॥२॥ आदौ प्रथमभागे पञ्चाशदेकश्च। एकपञ्चाशच्छ्लोका इत्यर्थः। वक्ष्यमाणस्य सहस्रभोजनप्रयोगस्य बहुदिनक्रियमाणत्वपक्षे प्रथमदिन एकपञ्चाशच्छ्लोकपाठः। ध्यानश्लोकस्तु प्रत्यहं पठनीय इति वैषम्यध्वननाय विभज्य कथनम्। नामसु विषये द्व्यशीत्युत्तरं शतमर्धश्लोकश्च अन्ते फलश्रुत्यादिप्रकरणे। संहत्य तु त्रीणि शतानि विंशतिश्च श्लोका इत्यर्थः॥३॥ अथ प्रथमभागं विभज्य दर्शयति — भूः एकः। नृपालाः षोडश। अध्युष्टं सार्धत्रयम्। मुनिरगस्त्यः। हयाश्वपदानि हयग्रीवपराणि। दशश्लोका अगस्त्योक्तिरूपा इत्यादिरीत्या यथाक्रममन्वयः। अगस्त्याख्यो हि महामुनिः श्रीविद्योपासकाग्रेसरस्तत्रभगवतो हयग्रीवस्य देशिकेन्द्रस्य मुखाद्ब्रह्माण्डपुराणीयैर्मन्त्रन्यासपूजापुरश्चरणहोमरहस्यस्तोत्राख्यैः सप्तभिः खण्डैः श्रीमातुः प्रादुर्भावादिरहस्यजातमाकर्ण्य इतोऽपि परमरहस्यं नामसहस्रमस्तीति तपोबलादेव निश्चित्य तद्भक्तायापि मह्यं किमिति गुरुभिर्न दत्तमित्यनुपदेशनिमित्तांशे सन्दिहानः पृच्छतीत्याह भगवान् सूतः॥४॥ न गच्छतीत्यगः पर्वतस्तं विन्ध्यनामानं स्त्यायतीत्यगस्त्यः। स्त्यानं स्तम्भनम्। साच कथा काशीखण्डे द्रष्टव्या। असङ्गतत्वापनोदाय पूर्वकथाप्रसङ्गं सामान्येन स्मारयति — अश्वेति। देवीभागवते प्रथमस्कन्धे तावदिय कथा स्मर्यते। पुरा किल भगवान् विष्णुर्यज्ञसंरक्षणादिघनतरकार्यार्थं कृतबहुजागरः श्रान्तः शार्ङ्गधनुषः कोटिं ग्रीवयावलम्ब्य निद्राणोऽभूत्। तदा ब्रह्मरुद्रादयः कार्यविशेषसिषाधयिषया तज्जागरणाय वन्निनामककृमिभ्यो यज्ञभागमिच्छद्भ्यो दत्त्वा तन्मुखात्प्रत्यञ्चामत्रोटयन्। तेन कोटेरुच्चलनाच्छिरोऽत्युड्डीनं क्वापि गतमभूत्। ततः शोकाविष्टाः सुरास्तच्छीपेमलभमानास्त्रिपुरसुन्दरीं तुष्टुवुः। सा तुष्टा सती हयशिरोयोजनेनैनं जीवयतेत्याज्ञाप्य भगवत्यन्तरधत्त। ततस्तथा
पूर्वं प्रादुर्भवो मातुस्ततः पट्टाभिषेचनम्।
भण्डासुरवधश्चैव विस्तरेण त्वयोदितः॥२॥
वर्णितं श्रीपुरं चापि महाविभवविस्तरम्।
श्रीमत्पञ्चदशाक्षर्या महिमा वर्णितस्तथा॥३॥
——————
जीवितो विष्णुर्हयग्रीवो भूत्वा हयग्रीवाख्यं दैत्यं हतवान्। रहस्यजातमखिलं देवीमुखादेव लब्धवानित्यादि। सोऽयमश्वाननो विष्णुरेव। तदिदं विशेष्यमुक्तवृत्तान्तत्मारणेन देव्यनुगृहीतत्वाभिप्रायगर्भम्। अतएव महाबुद्धे इत्यादिविशेषणद्वयं न स्तुतिमात्रम्। ललितेति। पद्मपुराणे हि ‘लोकानतीत्य ललते ललिता तेन चोच्यत’ इति निर्वचनश्लोके चकारादन्यदपि संभवन्निर्वचनमनुमतम्। पराशक्तिसदाशिवादिरूपाणि शक्तिशिवयोरुत्तरोत्तरापकर्षवन्ति बहूनि सन्ति। तेषां च लोका अपि बहुविधाः। परशिवाभिन्नमहाशक्तिस्तु सर्वलोकातीता महाकैलासापराजितादिपदवाच्ये सर्वलोकोत्तमे लोके तिष्ठति। तस्याश्च शरीरं घनीभूतघृतवद्रजस्तमःसंपर्कशून्यशुद्धसत्त्वघनीभावरूपम्। अन्यासां शिवशक्तीनां कतिपयानां सात्त्विकशरीराण्यपि सत्त्वाधिक्यगुणान्तराल्पत्वयुक्तानि न पुनः शुद्धसत्त्वानि। अतः सर्वोत्तमैवैषा परब्रह्ममूर्तिः। अस्या अपि सन्ति रहस्यभूता बहवो भेदास्तेषु कामेश्वर्यात्मकमूर्तिरेवेह ग्रन्थे प्रतिपाद्येति ललितापदेन सूचितम्। ललितं शृङ्गारहावजन्यः क्रियाविशेषः तद्वती ललिता। तेन शृङ्गाररसप्रधानेयं मूर्तिरिति सूचितम्। सैव देवी क्रीडाविजिगीषादिशीलत्वात्। तस्याश्चरितं प्रादुर्भावादिस्तोत्रसमुदायान्तं कथितं भवतेति शेषः। परमाद्भुतं अत्युत्तमत्वात्पूर्वमश्रुतचरत्वादनुपमत्वाच्चेत्यर्थः॥१॥ अथैतदेव विशिनष्टि सप्तभिः पूर्वमित्यादिभिः। प्रादुर्भावः। ‘असद्वा इदमग्र आसीत्’, ‘सदेव सोम्येदमग्र आसीत्’, ‘नाऽसदासीन्नो सदासीदि’त्यादिश्रुत्येकवाक्यतया निर्णीतस्य सृष्टिप्राक्कालिकस्य निर्विशेषचिन्मात्रस्य प्राथमिकः कामकलारूपपरिणामो गुरुमुखैकवेद्यः। सच पूर्वं इतः प्राक्, पट्टाभिषेकादिभ्यः प्रथमं वा। त्वयोदित इति सर्वत्रान्वेति। अग्निकुण्डात्समुद्भवरूपो वाऽवतारविशेषात्मा प्रादुर्भावः। पट्टं सकलभुवनसाम्राज्याधिकारस्तस्य विषयेऽभिषेचनं स्वायत्तीकरणेतिकर्तव्यतारूपोऽङ्गविशेषः। उदितमिति तु नपुंसकत्वेन परिणमनीयम्। भण्डाख्योऽसुरो ललितोपाख्याने यो विस्तरेण वर्णितस्तस्य वधो युद्धे हननं विस्तरेण बहुना शब्दराशिना। ‘प्रथनेवावशब्दे’ इति पर्युदासाच्छब्दभिन्न एव विस्तार इति रूपम्॥२॥ निरुपपदस्य पुरपदस्य प्रवृत्तिनिमित्तभूतधर्माणां पौष्कल्याद्देव्याः पुरमेव मुख्यं पुरपदवाच्यम् ‘अभियुक्तानां नाम श्रीपदपूर्वं प्रयुञ्जीते’ति वचनाच्छ्रीकारपूर्वकमिह प्रयुक्तम्। तच्च रुद्रयामले ‘अनन्तकोटिब्रह्माण्डकोटीनां बहिरूर्ध्वतः’ इत्यादिना पञ्चविंशतिप्राकारैरनन्तयोजनविस्तृतैः परिवेष्टितत्वेन वर्णितमेकम्। मेरोरुपरि तत्समानयोगक्षेमं संक्षिप्तं ललितास्तवरत्ने भगवता दुर्वाससा देशिकेन्द्रेण वर्णितमपरम्। क्षीरसमुद्रमध्ये तृतीयमिति तु विद्यारत्नभाष्यकाराः। महाविभवविषयकः श-
षोढान्यासादयो न्यासा न्यासखण्डे समीरिताः॥४॥
अन्तर्यागक्रमश्चैव बहिर्यागक्रमस्तथा।
महायागक्रमश्चैव पूजाखण्डे प्रकीर्तितः॥५॥
पुरश्चरणखण्डे तु जपलक्षणमीरितम्।
होमखण्डे त्वया प्रोक्तो होमद्रव्यविधिक्रमः॥६॥
चक्रराजस्य विद्यायाः श्रीदेव्या देशिकात्मनोः।
रहस्यखण्डे तादात्म्यं परस्परमुदीरितम्॥
स्तोत्रखण्डे बहुविधाः स्तुतयः परिकीर्तिताः॥७॥
मन्त्रिणीदण्डिनीदेव्योः प्रोक्ते नामसहस्रके।
——————
ब्दराशिर्यत्रेति तु वर्णनक्रियाया विशेषणम्। श्रीबीजयुक्ता या पञ्चदशाक्षरी पञ्चदशानां स्वराणां समाहारः कादिविद्या हादिविद्या वा तस्याः। तस्यां श्रीबीजयोगस्तु ‘चत्वारईं बिभ्रति क्षेमयन्तः’ इति श्रुतिसिद्धो रहस्यतरः सांप्रदायिकैकवेद्योऽस्तीति कश्चित्। तत्तन्त्रेषु क्वाप्यदर्शनात्प्रामाणिका न मन्यन्ते। उक्तश्रुतिस्तु ‘कामराजाख्यमन्त्रान्ते श्रीबीजेन समन्विता। षोडशाक्षरविद्येयं श्रीविद्येति प्रकीर्तिते’ति हयग्रीवोद्धृतमन्त्रान्तरपरेत्यप्याहुः। तेन श्रीशब्दः शोभादिपरः। वक्ष्यमाणव्याडिकोशेन बह्वर्थत्वावगमात्॥३॥ षोढेति। गणेशग्रहनक्षत्रयोगिनीराशिपीठाख्यन्यासषट्कजन्यावान्तरापूर्वषट्कैकपरमापूर्वसाधनीभूतो न्यासः षोढा न्यास उच्यते। सचभूषणमालिन्यादिभेदादनेकविधः। आदिना चक्रन्यासादिपरिग्रहः। न्यासखण्डे समस्तन्यासैकप्रतिपादके ग्रन्थशकले। न्यासो नाम तत्तद्देवतानां तत्तदवयवेष्ववस्थापनम्। अवस्थितत्वेन भावनेति यावत्॥४॥ अन्तरिति। अन्तर्यागो नामाधाराद्राजदन्तान्तं तेजस्तन्तोर्विभावनम्, मानसी देवपूजा वा तस्य क्रम इतिकर्तव्यता। बहिर्यागः पात्रासादनादिशान्तिस्तवान्तः कर्मसमूहः। सएवाष्टाष्टकादिघटितो महायागः। एते चास्माभिर्वरिवस्याप्रकाशे पूजाप्रकरणएव निरूपिताः॥५॥ पुरश्चरणेति। पुरः मन्त्रोपास्तेरादौ दीक्षोत्तरकालं चरणं परिचर्या। जपस्य लक्षणमवस्थापञ्चकशून्यषट्कविषुवत्सप्तकचक्रनवकविभावनादिरूपं चिह्नम्। तच्चास्माभिर्वरिवस्यारहस्ये प्रथमेंश एवोक्तम्। होमेति। होमानां तद्द्रव्याणां च तद्विधीनां द्रव्यपरिमाणादिरूपाणां च क्रमः शब्दमध्ये पादविक्षेपः। निबन्धनमिति यावत्॥६॥ चक्रराजस्येति टच्प्रत्ययान्तम्। बिन्द्वादिनवचक्रात्मकस्येति तदर्थः। विद्यायाः पञ्चदश्याः षोडश्या वा। श्रीदेव्याः त्रिपुरसुन्दर्याः। देशिकात्मनोः गुरुशिष्ययोः तादात्म्यं तत् ब्रह्मैव आत्मा स्वरूपं यस्य तत्तदात्म ‘ॐ तत्सदिति निर्देशो ब्रह्मणस्त्रिविधः स्मृतः’ इति वचनात्। तस्य भाव इत्यर्थे ब्राह्मणादित्वात्ष्यञ्। सर्वेषामेकब्रह्मरूपता। अभेद इति यावत्। मन्त्रस्य निगमार्थवर्णनावसरे वरिवस्यारहस्येऽस्माभिरुक्तोऽस्य प्रकारः। स्तोत्रेति। बहु-
नतु श्रीललितादेव्याः प्रोक्तं नामसहस्रकम्॥८॥
तत्र मे संशयो जातो हयग्रीव दयानिधे।
किंवा त्वया विस्मृतं तज्ज्ञात्वा वा समुपेक्षितम्॥९॥
मम वा योग्यता नास्ति श्रोतुं नामसहस्रकम्।
किमर्थं भवता नोक्तं तत्र मे कारणं वद॥१०॥
——————
विधाः पञ्चमीस्तवराजादिरूपाः॥७॥ मन्त्रिणी मन्त्रो राजाधिकारोपयोगिनी मननक्रिया सास्यास्तीत्यर्थे इनिः। नान्तत्वान्ङीप्। अमात्येत्यर्थः। सा तन्त्रेषु राजश्यामलेत्युच्यते। सा च तन्त्रेषु वाराहीति प्रसिद्धा, ते च ते देव्यौ च तयोः॥८॥ तत्रेति। तत्र अनुक्तौ धर्मीभूतायाम्। ललितासहस्रनानोक्त्यभावविशेष्यकः संशय इत्यर्थः। स च चतुष्कोटिक इत्याह — किंवेत्यादिना सार्धेन। विस्मृतिप्रयुक्तत्वमेकः प्रकारः। सर्वज्ञस्य विस्मरणासंभवात्प्रकारान्तरमाह — ज्ञात्वा वेति। उपेक्षा इष्टानिष्टोमयविषयकप्रवृत्तिनिवृत्त्यौदासीन्येनावस्थानम्॥९॥ मित्रशत्रुमृत्योदासीनभेदेन चतुर्विधेषु जीवेषु भृत्यकोटिप्रविष्टस्य शिष्यस्योदासीनत्वायोगो भक्तिजिज्ञासितार्थोपेक्षायां देशिकेन्द्रस्य कृपालुत्वहानिचेत्यतस्तृतीयं प्रकारमाह — मम वेति। नास्तीत्यनेन सामयिकाभाव उक्तो नात्यन्ताभावः। तथात्वे चतुर्थकोटेरुत्थानायोगात्। अनधिकारिणं प्रत्यनुक्तेर्मृत्यत्वविघटकतायाः कृपालुत्वविघटेकत्वस्य च योगादिति भावः। तदुक्तं बोधसारे — ‘तत्तद्विवेकवैराग्ययुक्तवेदान्तयुक्तिभिः। श्रीगुरुः प्रापयत्येव नपद्ममपि पद्मताम्। प्रापय्य पद्मतामेनं प्रबोधयति तत्क्षणात्। तस्मात्सर्वप्रयत्नेन सेव्यः श्रीगुरुभास्करः’ इत्युक्तम्। तत्र नपद्ममित्येकं पदं। नकारेणायं समासः। अयोग्येपि योग्यतामापाद्य श्रीगुरुसूर्यो बोधयतीति समुदायार्थः। अतो योग्यतामपि गुरुर्दद्यादेवेत्याशयेन कोटित्रयं स्वयमेव निरस्य का पुनश्चतुर्थी कोटिरित्यनवधार्य पृच्छति — किमर्थमिति। भवत्कर्तृकोक्त्यभावः किंप्रयुक्त इत्यर्थः। कारणं चतुर्थी कोटिं। इतरकोटीनां स्वेनैव निरन्तत्वादिति भावः॥१०॥ अथैकश्लोकः सूतोक्तिरूपः। भारते ‘नापृष्टः कस्यचिद्द्रूयादिति वेदानुशासनमि’ति निषेधात्पृच्छकाय किमपि न वक्तव्यम्। यत्तु ‘अपृष्टस्तस्य तद्ब्रूयाद्यस्य नेच्छेत्पराभव’मिति तदुत्तरार्धं तदपि श्रद्धालुप्रश्नासमर्थशिष्यपरम्। श्रद्धाभावे हानिस्मरणात्। यदाह बोधायनः — ‘अश्रद्धा परमः पाप्माश्रद्धा हि परमं तपः। तस्मादश्रद्धया दत्तं हविर्नाश्नन्ति देवताः। इष्ट्वा दत्त्वापि वा मूर्खः स्वर्गं नहि स गच्छति। शङ्काविहितचारित्रो यः स्वाभिप्रायमाश्रितः। शास्त्रातिगः स्मृतो मूर्खो धर्मतन्त्रोपरोधनादि’ति। श्रुतिरपि ‘श्रद्धयाग्निः समिध्यते श्रद्धया हूयते हवि’रित्यादि। ततश्च श्रद्धाभावे पृच्छकायापि न वक्तव्यं किमुतापृच्छकाय। तत्सत्त्वे तु यदि शिष्यः प्रश्ने न समर्थः तदा प्रश्नमप्रतीक्ष्यैव गुरुर्वदेदिति स्थितिः। प्रकृते त्वगस्त्यः श्रद्धालुः प्रश्न समर्थश्च अथापि किमिति न पृच्छतीति चिन्तयानो नापृष्ट इति निषेधाद्भीतो देशिकसार्वभौमो भगवान् हय-
सूत उवाच।
इति पृष्टो हयग्रीवो मुनिना कुम्भजन्मना।
प्रहृष्टो वचनं प्राह तापसं कुम्भसंभवम्॥११॥
लोपामुद्रापतेऽगस्त्य सावधानमनाः शृणु।
नाम्नां सहस्रं यन्नोक्तं कारणं तद्वदामि ते॥१२॥
——————
ग्रीवः शिष्यकृतशुश्रूषया वशीकृतो विवक्षुरपि भक्तिपूर्वकप्रश्नाभावकृतविलम्बादियन्तं कालं दुःखित इवाभूत्। अधुना तु न तथेत्याह सूतः — इति पृष्ट इति। चतुर्थकोटिविषयकप्रश्नकर्मीभूत इत्यर्थः। प्रच्छधातोर्द्विकर्मकतया कोटिवद्गुरोरपि कर्मत्वात्। प्रहृष्टः विलम्बापगमादिति शेषः। तपोभिर्यज्ञादिति पापक्षये सत्यङ्कुरितविविदिषाकत्वादस्ति श्रद्धेति योग्यतां प्रदर्शयति — तापसमिति। चित्तवृत्तिनिरोधकारणीभूतवायुवृत्तिनिरोधशीलत्वादपि योग्यतामाह — कुम्भसंभवमिति। कुम्भस्य कुम्भकस्य सम्यक् चिरकालं भवः स्थितिर्यस्मिंस्तमित्यर्थः। रेचकपूरकयोः सार्वजनीनतया सुलभत्वान्निरोधपदवाच्यत्वाभावाच्च तत्परित्यागेन कुम्भकस्यैव ग्रहणम्॥११॥ अथ सार्धैः षोडशभिः श्लोकैर्हयग्रीवोक्तिः। पूर्वश्लोक एव हयग्रीवः प्राहेत्युक्तत्वान्नैतदारम्भे हयग्रीव उवाचेत्युक्तिः। एवमम्बावचनेऽप्युत्तरत्र ज्ञेयम्। भर्त्रभिमतदेव्याराधनं गृहिण्या क्रियमाणमप्यनुकूलदांपत्यघटकं सत्पत्न्या उपास्तियोग्यतापादकमिति व्यञ्जयन् विवक्षितमर्थं प्रतिजानीते— लोपामुद्रापत इति। अतएव भगवत्यैव त्रिशत्यां वक्ष्यते ‘पत्न्यस्य लोपामुद्राख्या मामुपास्तेऽतिभक्तितः। अयं च नितरां भक्तस्तस्मादस्यवदत्व त’दिति। अत्र भर्तृनिष्ठभक्तेः पत्न्यानुकूल्यस्य समुच्चयार्थकश्चाकार इति तत्रैव वक्ष्यामः। अथवा न केवलं भक्तिप्रश्नावेव योग्यतावच्छेदकौ। विद्योपास्तिविरहे तयोः सत्त्वेऽप्युपदेष्टुर्योगिनीशापाम्नानात्। अतस्तत्साहित्यद्योतनायेदं विशेषणम्। अथवा लोपामुद्राशब्दस्तद्विद्यापरस्त्रिपुरसुन्दरीपरो वा। सैव पतिरुपास्या यस्येत्यर्थः। नचागस्त्यविद्योपासकस्य कथं तथात्वव्यपदेशः। शाखान्तराधिकरणन्यायेन विद्ययोरभेदाभिप्रायेणोपपत्तेः। नच विद्यापदवाच्ययोरुपास्त्योरभेदेऽप्यगस्त्यलोपामुद्रासंज्ञयोर्मन्त्रयोर्भेद एवेति वाच्यम्। अगस्त्योपासितेत्यादियौगिकशब्दैकदेशानां तेषां संज्ञात्वाभावेन भेदकत्वायोगात्। नचाक्षरन्यूनाधिकभावाभ्यां सुपिसुषिरयोरिव भेदः। तयोः पदभेदकत्वेऽपि मन्त्रभेदकत्वाभावात्। अतएव ‘अप्स्वन्तरमृत’मिति मन्त्रस्य याजुषाथर्वणबह्वृचैर्भिन्नच्छन्दस्कत्वेन पाठेऽपि भेदानङ्गीकारस्तान्त्रिकाणां संगच्छते। अतएव च भूतशुद्ध्यन्तर्गतजलमण्डलशोधने विकल्पेन विनियोगो न्यायसिद्धः। तदुक्तम्**—**‘अप्स्वन्तरिति मन्त्रेण शोधयेदम्बुमण्डलम्। आर्ष्योष्णिहा पुरस्ताच्च बृहत्या पुरउष्णिहे’ति। एवं ‘युञ्जन्ति हरी इषिरस्ये’ति मन्त्रो बह्वृच च्छन्दोगाभ्यां छन्दोभेदेन पठ्यमानोऽपि न भिद्यते। अनेनैवाशयेन नामैधाख्यसामाधिकारे ‘अथ पुरउष्णिगनुष्टुभेनानुष्टुभो नयन्ती’ति श्रुतौ द्वयोरपि छन्दसोरुल्लेखः। अथवा
रहस्यमिति मत्वाहं नोक्तवांस्ते न चान्यथा।
पुनश्च पृच्छसे भक्त्या तस्मात्तत्ते वदाम्यहम्॥१३॥
ब्रूयाच्छिष्याय भक्ताय रहस्यमपि देशिकः।
भवता न प्रदेयं स्यादभक्ताय कदाचन॥१४॥
न शठाय न दुष्टाय नाविश्वासाय कर्हिचित्।
श्रीमातृभक्तियुक्ताय श्रीविद्याराजवेदिने॥१५॥
——————
तेन तन्त्रराजे हादिविद्याधिकारे पठितानां कालनित्यामन्त्राणां पारायणानां च कादिविद्याङ्गत्वेनापि लेखः पद्धतिकाराणां संगच्छत इति दिक्। अवधानं विषयान्तरसंचाराभावस्तत्सहितं मनो यस्य तादृशः सन्। इतरकोटीनां तेष्वरसानां च तवैव स्फुरितत्वेऽपि तद्विलक्षणायाः कोटेर्विवक्षितायां झटिति त्वद्बुद्धौ स्फुरणायोग्यत्वादिति भावः। यत् येन कारणेन ‘निमित्तपर्यायप्रयोगे सर्वासां प्रायदर्शन’मिति वार्तिके सर्वविभक्तीनां साधुत्वाभिधानात्॥१२॥ प्रकटार्थस्योक्तौप्रश्नभक्तिसदसद्भावापेक्षा नावश्यकी, किंतु रहस्यविषय एवोक्तरूपा वस्तुस्थितिरित्युपसंहारं द्योतयन् भक्तिपूर्वकप्रश्नस्योपदेशस्य चान्वयव्यतिरेकावुपदिशति — रहस्यमितीति। ते तुभ्यम्। अपृष्टवते इति शेषः। अन्यथा न त्वदुत्प्रेक्षितनिमित्तानि न भवन्ति। अस्वरसानां तवैव स्फुरितत्वादिति भावः। भक्त्या भक्तिपूर्वकम्। तस्मात् भक्तियुक्तप्रश्नाभावकृतप्रतिबन्धस्यापगमात्। तत् ललितानामसहस्रम्॥१३॥ उक्तार्थे संमतिमाह — ब्रूयादिति। वक्त्रापृच्छकेन श्रोतृभिश्च तत्त्वबुभुत्सूनां सभा भवति तत्र वक्तृभिन्नाः सर्वेऽपि यद्यपि शिष्यास्तथापि रहस्यपदार्थस्य रहसि जनबाहुल्याभावे सत्येव वक्तव्यत्वादत्र शिष्यशब्देन पृच्छक एवावशिष्यत इत्याशयेन शिष्यायेत्युक्तं। त्वयाप्येवं वर्तितव्यमित्याशयेनाह। शिष्यायेत्यनुवर्तते। अभक्ताय पृच्छकायापि न देयमित्यर्थः। तेनापृच्छकायापि प्रश्नासमर्थाय भक्ताय देयमिति सिध्यति॥१४॥ अभक्तताविवरणार्थं श्रुतिमर्थतोऽनुवदति — न शठायेति। ‘विद्या ह वै ब्राह्मणमाजगाम गोपाय मा शेवधिष्टेऽहमस्मि। असूयकायानृजवेऽयताय न मां ब्रूया वीर्यवती तथा स्या’मिति हि श्रुतिः। तत्र गुरूक्तिसमनन्तरमेव जातनिश्चयोऽपि यः पूर्वमेवैतदज्ञातचरमिति वा इदानीमपि न ज्ञातमिति वा प्रदर्शयितुं यतते स शठोऽयतश्च जातं निश्चयं गुरवे प्रदर्श्यतद्दूषणार्थमेवैदंपर्येण यतमानो हेत्वाभासोपन्यासशीलो दुष्टोऽसूयकश्च। गुरुभक्तिः सर्वापि यथार्थैवेति ज्ञानं विश्वासः स नास्ति यस्य सोऽविश्वासोऽनृजुश्च। यद्वा अयतोऽन्तःशुद्धिहीनः स चेह दुष्टपदेन संगृहीतः। एवंसति संप्रदायो माविच्छेदीत्यत आह — श्रीमात्रिति। भक्तितन्त्रे ‘सा परानुरक्तिरीश्वरे’ इत्यधिकरणादिषु निर्णीतलक्षणश्चित्तवृत्तिविशेषो भक्तिः तया युक्ताय। अनेनाभक्तनिरासः। न केवलं भक्तिमात्रमधिकारितावच्छेदकमिति द्योतनाय विशेषणद्वयम्। विद्याराजः पञ्चदशीतद्वेदनं गुरुमुखादुपदेशः॥१५॥ नित्यनैमित्तिककर्माचरणपूर्वकं सर्वत्र देव्यमेद-
उपासकाय शुद्धाय देयं नामसहस्रकम्।
यानि नामसहस्राणि सद्यःसिद्धिप्रदानि वै॥१६॥
तन्त्रेषु ललितादेव्यास्तेषु मुख्यमिदं मुने।
श्रीविद्यैव तु मन्त्राणां तत्र कादिर्यथा परा॥१७॥
——————
भावनाख्या मानसी क्रियोपास्तिः तद्वानुपासकः। शुद्ध इति शाठ्यादिदोषरहिताय। अथैतदुपदेशे ईदृशो निर्बन्धोऽस्य रहस्यत्वात्तच्च मुख्यत्वात्तच्च देवताप्रीतिकरत्वेनावश्यकत्वादिति प्रदर्शयितुमुत्तरो ग्रन्थसंदर्भो नामारम्भावधिकः — यानीति। यानि कोटिसंख्याकानि तेषु यानि सद्यःसिद्धिप्रदानि दशसंख्याकानि ‘एते दश स्तवा गङ्गाश्यालकावालरासभे’ति संगृहीतानि॥१६॥ ललितादेव्या नामसहस्राणि तन्त्रेषु चतुःषष्टिसंख्याकेषु पुराणेषु च कथितानि तेष्वपीदं ललितानामसहस्रं मुख्यतममिति योजनयार्थः। ‘देवीनामसहस्राणि कोटिशः सन्ति कुम्भजे’त्युत्तरग्रन्थानुसा॒रात्। पुंदेवत्या मन्त्राः स्त्रीदेवत्या विद्या इति मन्त्रविद्ययोर्लक्षणभेदेऽप्यस्याः शिवशक्तिसामरस्यरूपत्वादुभयात्मतेति द्योतनाय मन्त्राणां मध्ये विद्येत्युक्तम्। अतएव देवताध्याने ऐच्छिको विकल्पः स्मर्यते। ‘पुंरूपं वा स्मरेद्देवि स्त्रीरूपं वा विचिन्तयेत्। अथवा निष्कलं ध्यायेत्सच्चिदानन्दलक्षण’मिति मालामन्त्रेऽपि स्त्रीपुंसभेदेन भेदः। एतदभिप्रायेणैव गुणनिधिः श्रीमाता परंज्योतिरित्यादीनि नामानि त्रिलिङ्गकानि संभन्स्यन्ते। अथवा कूटत्रयात्मकत्वेऽपि पञ्चदशस्वरघटितत्वात्पञ्चदशाक्षरशालित्वसूचनाय मन्त्राणामित्युक्तम्। पिण्डकर्तरीबीजमन्त्रमालाभेदेन पञ्चविधेषु मन्त्रेषु पञ्चदशाक्षराणां मन्त्ररूपत्वात्। तदुक्तं नित्यातन्त्रे — ‘मन्त्रा एकाक्षराः पिण्डाः कर्तर्यो द्व्यक्षरा मताः। वर्णत्रयं समारभ्यनवार्णा विधिबीजकाः। ततो दशार्णमारभ्य यावद्विंशतिमन्त्रकाः। तत ऊर्ध्वं गता मालास्तासु भेदो न विद्यते’ इत्यादि। कादिः ककार आदिर्यस्यां सा कादिः कालीशक्तिः त इति तन्त्रराजप्रसिद्धकादिनामकशक्त्यभिन्ना वा। अतएव ‘कादिसंज्ञा भवद्रूपा सा शक्तिः सर्वसिद्धये’ इत्यादि तत्रैव देवीं प्रति शिववाक्यम्। साच ‘कामो योनिः कमला वज्रपाणिर्गुहा हसा नातरिश्वाभ्रमिन्द्रः। पुनर्गुहा सकला मायया च पुरूच्येषा विश्वमातादिविद्या’ इत्याथर्वणैः पठ्यमानत्रैपुरसूक्तस्थायामृच्युद्धृता। तन्त्रभेदेनोद्धृतानां विद्यानां सर्ववेदान्तप्रत्ययन्यायेनैक्येऽप्युपासकरुच्यनुसारेण कल्पितं तारतम्यमप्यस्तीत्याह — परेति। भावार्थप्रभृत्यर्थानां सर्वेषां तत्रैव सामञ्जस्यात्। सप्तत्रिंशदक्षरैः षट्त्रिंशत्तत्त्वातीतरूपायाः कादिविद्यातिरिक्तास्वसंभवाच्चेति भावः। तदिदमस्माभिर्वरिवस्यारहस्य एवविद्यान्तरेषु तदसामञ्जस्यप्रदर्शनपूर्वं निरूपितम्। ‘अज्व्यञ्जनबिन्दुत्रयनादत्रितयैर्विभाविताकारा। षट्त्रिंशत्तत्त्वात्मा तत्त्वातीता च केवला विद्या’ इति। किंच ‘यदक्षरैकमात्रेऽपि संसिद्धे स्पर्धते नरः। रवितार्क्ष्यन्दुकंदर्पशंकरानलविष्णुभिः। यदेकादशमाधारं बीजं कोणत्रयात्कम्। ब्रह्माण्डादिकटाहान्तं जगदद्यापि दृश्यते’ इत्यादेर्गुरुमुखैकवेद्यो रहस्यार्थो न हादिविद्यासु समञ्जसः। ‘चत्वार ईं विभ्रति क्षेमयन्त’ इत्यत्रापि कादि-
पुराणां श्रीपुरमिव शक्तीनां ललिता यथा।
श्रीविद्योपासकानां च यथा देवो वरः शिवः॥१८॥
तथा नामसहस्रेषु वरमेतत्प्रकीर्तितम्॥१९॥
यथास्य पठनाद्देवी प्रीयते ललिताम्बिका।
अन्यनाम सहस्रस्य पाठान्न प्रीयते तथा।
श्रीमातुः प्रीतये तस्मादनिशं कीर्तयेदिदम्॥२०॥
विल्वपत्रैश्चक्रराजे योऽर्चयेल्ललिताम्बिकाम्।
पद्मैर्वा तुलसीपत्रैरेभिर्नामसहस्रकैः॥२१॥
——————
पक्ष एव स्वरस इत्येके। हादिपक्षेऽपि तुल्येति तु रहस्यम्। किंच त्रिपुरोपनिषद्यपि ‘अथैतस्य परं गह्वरं व्याख्यास्यामः’ इत्यादिना गायत्री पञ्चदश्योरेकरूपत्वं वक्तुं तत्पदककारयोरेवैकार्थत्वमुक्तम्। तन्मूलकत्वेनैवान्या उद्धृताः। त्रिशत्यां कामेश्वराभ्यामप्यस्या एवादरः क्रियमाणो दृश्यते। तन्त्रराजे तु तृतीयकूटस्यैव प्रथममुद्धारेण तत्रैवैकाक्षरनिवेशेनान्ययोः कूटयोर्लाघवेनोद्धाराय हादिविद्यैवादृतेति ज्ञेयम्। अतएव त्रैपुरसूक्ते ‘षष्ठंसप्तममथ वह्निसारथिम्’ इत्यृचा कादेः पश्चादेव हादेरुद्धारः कृतः। ‘शिवः शक्तिः कामः’ इति सौन्दर्यलहरीस्थश्लोकद्वयं द्वेधापि व्याख्यायत इति दिक्॥१७॥ उपासकानामित्यन्ताश्चतस्रो निर्धारणे षठ्यः। उपास्तेः परमं फलमुपास्यानेदः। सच परशिवे सार्वकालिक एवास्तीत्युपासकत्वं तस्याप्यविशिष्टम्। कथमन्यथा तस्यादिनाथत्वं तदभेदानुसंधानमस्मदादीनां च संगच्छते। देव्यभेदानुसंधानदार्ढ्यबललब्धाभेदेन गुरुणा सह शिष्यस्याप्यभेदानुसंधानाद्देव्यभेदलाभस्य नाथैकद्वारकतायाः सिद्धान्तरहस्यत्वादित्याशयेनाह — वरः शिव इति। परमशिव इत्यर्थः। तेन गणरुद्रादिनिरासः॥१८॥ तथेति स्पष्टम्। अर्धश्लोकोऽयम्॥१९॥ मुख्यत्वे हेतुमाह —यथास्येति। यथा निरवधिकमित्यर्थः। अन्येषां शिवविष्ण्वादीनां नामसहस्रमन्यच्च तन्नामसहस्रं च तस्येति वा। अथैतत्पाठं विधत्ते। प्रीतय इति तादर्थ्यचतुर्थ्या सर्वेभ्यः कामेभ्य इत्यादाविव कीर्तनकरणकभावनाभाव्यत्वप्रतीतिः। इदमिति तु धात्वर्थः कर्म सक्तूनितिवत्। अतएव तेन न्यायेनैव विनियोगभङ्गेन मत्वर्थलक्षणया नामसहस्रकीर्तनेन श्रीमातृप्रीतिं भावयेदिति विधेः पर्यवसितोऽर्थः। अथवा सोमादिद्रव्याणां यागसाधनत्वेन तृतीयाश्रुतेः प्रत्यक्षत्वाच्च तत्र तथा वाक्यार्थवर्णनेऽपि प्रकृते नाम्नां वर्णानित्यत्ववादे ताल्वोष्टपुटव्यापाररूपकीर्तनजन्यत्वात्तन्नित्यत्ववादेऽपि ध्वनेरनित्यत्वेन कीर्तनजन्यध्वन्यभिव्यङ्ग्यताया वर्णात्मकद्रव्येषु स्वीकारादनुत्पन्नस्यानभिव्यक्तस्य वा कीर्तनजनकत्वायोगान्नामाभिव्यञ्जककीर्तनेनेष्टं भावयेदित्येवार्थः। कीर्तनं चेह वाचिकमानसोभयसाधारणम्। नामपठनवन्नामस्मरणस्यापि वचनान्तरेषु फलश्रवणात्। तस्मादिति हेत्वधिकरणन्यायेनार्थवादः। अनिशं यावज्जीवम्। तेनाग्निहोत्रवन्नित्यकाम्योभयरूपमिदं कर्मेति सिध्यति॥२०॥ अथ कीर्तनस्यान्याश्रयेणापि फलसंबन्धमाह —बिल्वपत्रैरिति सार्धेन। वचनान्तरेण प्राप्तमन्तर्यागबहिर्यागभेदेन
सद्यः प्रसादं कुरुते तत्र2 सिंहासनेश्वरी।
चक्राधिराजमभ्यर्च्य जप्त्वा पञ्चदशाक्षरीम्॥२२॥
जपान्ते कीर्तयेन्नित्यमिदं नामसहस्रकम्।
जपपूजाद्यशक्तोऽपि पठेन्नामसहस्रकम्॥२३॥
साङ्गार्चने साङ्गजपे यत्फलं तदवाप्नुयात्।
उपासने स्तुतीरन्याः पठेदभ्युदयो हि सः॥२४॥
——————
द्विविधमपि पूजनं बिल्वपत्राद्यन्यतमकरणकं चक्रराजाधिकरणकमर्चयेदित्येकेन पदेन यच्छब्दयोगादनूद्यते। तत्र तात्पर्यग्राहकाणि पदान्तराणीति य इष्ट्येत्यादिवाक्य इव नोद्देश्यानेकत्वप्रयुक्तो वाक्यभेदः। नामसहस्रकैरिति तु कीर्त्यमानाभिप्रायं कीर्तनपर्यवसायि। तेनार्चनविशेषाश्रितेन नामकीर्तनेन (यद्यपि3 रुद्रयामले ‘तुलसीबिल्वपत्राणि धात्रीपत्राणि पार्वति। अर्चने चक्रराजस्य नोचितान्येव सर्वथे’ति निषेधः प्रतीयते तथापि सहस्रनामकरणकार्चने विशिष्य बिल्वपत्राणां विधानान्निषेधस्तदितरकरणकार्चनपरो व्यवतिष्ठते)॥२१॥ सद्यः प्रसादं भावयेदित्यर्थः। अथ यावज्जीववाक्येन प्राप्तं जीवनावच्छिन्नं कालसामान्यं विशेषेणोपसंहरति —चक्राधिराजमिति। अर्चनोत्तरं यः क्रियमाणो नित्यजपस्तदुत्तरकाले नित्यं सकृत्कीर्तयेदित्यर्थः। ‘दर्शपूर्णमासाभ्यामिष्ट्वा सोमेन यजेते’तिवदयं कालार्थः संयोगः। अर्चनजपकीर्तनानां प्रत्येकं विधिभिः फले विनियोगेन कृतार्थत्वात्। अतएव जपपूजादेः कालोपलक्षणार्थत्वात् ‘अनपायो हि कालस्य लक्षणं हि पुरोडाशा’विति न्यायेन तदभावेऽपि कर्तव्यतां प्राप्तामनुवदति — जपेति। आदिना न्यासादिपरिग्रहः॥२२॥ उपास्तिं प्रति जपादीनां सर्वेषामङ्गत्वान्नित्यकर्माङ्गेषु यथाशक्त्युपबन्धस्य सिद्धान्तसिद्धत्वादशक्त्या जपाद्यकरणे तदुत्तरकालत्वाभावेऽपि तदुपलक्षितकालस्यानपायादेकपुरोडाशायामिष्टा– वुपांशुयाजवन्नामसहस्रकीर्तनं कर्तव्यमेवेत्यर्थः॥२३॥ ननु किमिदं कीर्तनं शक्तस्योच्यते तदशक्तस्य वा। नाद्यः। नित्यकर्मत्वादेव शक्तंप्रति तत्प्राप्तेः पुनरनुवादवैयर्थ्यात्। नान्त्यः। अशक्तंप्रति विधेरप्ययोगात् किमुतानुवादस्य। ‘आख्यातानामर्थं ब्रुवतां शक्तिःसहकारिणी’ति न्यायादित्यत आह—साङ्गेति। अङ्गैः सहितं साङ्गं। आवरणपूजनसहितप्रधानदेवतापूजनस्य कुल्लुकासेतुमहासेतुजपसहितविद्याजपस्य च न्यासादेश्च यत्फलं तदुद्देशेनापि पठेदित्यर्थः। अयं भावः — यदि न्यासार्चनजपकीर्तनेष्वन्यतमस्यैकस्यैव करणे शक्तिस्तदा न्यायतो विकल्पे प्राप्ते तदपवादेन कीर्तनमेव विधीयते। तेन ‘यदि सत्राय दीक्षितानां साम्युत्तिष्ठासेत्सोममपभज्य विश्वजिता यजेते’त्यत्र सत्राभावे विहितविश्वजिद्यागवदस्य प्रतिनिधित्वं, परंतु वचनबलात्पूजादिफलमपि। विश्वजितस्तु न सत्रफलं मानाभावादिति। इदानीमुपासनांप्रत्यवैकल्पिकमङ्गत्वं कीर्तनस्येत्याह —उपासने इति। सप्तम्या ‘तत्र जयान् जुहुया’दित्यत्रेवाङ्गित्व-
इदं नामसहस्रं तु कीर्तयेन्नित्यकर्मवत्।
चक्रराजार्चनं देव्या जपो नाम्नां च कीर्तनम्॥२५॥
भक्तस्य कृत्यमेतावदन्यदभ्युदयं विदुः।
भक्तस्यावश्यकमिदं नामसाहस्रकीर्तनम्॥२६॥
तत्र हेतुं प्रवक्ष्यामि शृणु त्वं कुम्भसंभव।
पुरा श्रीललितादेवी भक्तानां हितकाम्यया॥२७॥
वाग्देवीर्वशिनीमुख्याः समाहूयेदमब्रवीत्।
वाग्देवता वशिन्याद्याः शृणुध्वं वचनं मम॥२८॥
——————
बोधः। तदङ्गत्वेनेतरेषां त्रैलोक्यमोहनकवचादिरूपाणां स्तोत्राणां पाठेऽभ्युदयः फले विशेषः। अपाठे तु नाङ्गन्यूनत्वकृतो दोषः। तेन तेषां क्रत्वङ्गत्वबोधकानां तत्तप्रकरणस्थवचनानां विकल्पे पर्यवसायकमिदं वाक्यम्। तेन षोडशिग्रहवदितरेषामङ्गत्वं ‘नवलक्षप्रजप्तापि तस्य विद्या न सिध्यती’त्यादितत्तत्प्रकरणस्थवाक्येषुसिद्धिपदं तत्तत्पाठजन्याभ्युदयविशिष्टविद्याफलपरमित्यदोषः॥२४॥ इदं तु न तादृशमङ्गं अपितु नित्यकर्मवत् संध्यावन्दनवत्। स्वाभाविकप्रतियोगिकविकल्पासहृत्वमात्रार्थकोऽयं वतिः। ततश्च संयोगपृथक्त्वन्यायेन कीर्तनं क्रत्वर्थपुरुषार्थोभयरूपमिति मन्तव्यम्। अर्चनादिप्रायपाठेनाप्युपासनाङ्गत्वमेव द्रढयति। देव्या विद्यायाः। काकाक्षिन्यायेनोभयत्रान्वेति॥२५॥ भक्तस्य उपासकस्य। अभ्युदयं अभ्युदयकरं। मत्वर्थीयोऽच्। श्रेयस्करमित्यर्थः। अर्चनादिप्रायपाठादर्चनादितुल्यत्वं माप्रसाङ्क्षीदत आह — भक्तस्येति। जपपूजापेक्षयापीति शेषः। तत्फलजनकस्योक्तत्वादिति भावः॥२६॥ तत्फलजनकत्वमस्य कथमित्याशङ्क्य तत्र निमित्तं वक्तुं स्तोत्रप्रतिपाद्याया देवताया निखिलशिवशक्तिगणोपास्यत्वमुखेन सर्वोत्तमत्वद्योतिकां कथामुपक्रमते — तत्रेत्यादिना। नह्यत्र ‘अनूयाजान्यक्ष्यन्भवती’ति हेतुवादवत्स्वार्थतात्पर्यकत्वद्योतनाय प्रकर्षेण वक्ष्यामीति प्रतिज्ञा। अतएवार्थवादधिया नोपेक्षस्वेति द्योतयितुं शृणु त्वमिति स्वाभिमुखीकरणात्। अवाप्तसकलकामत्वेन देव्याः स्वार्थकामनाभावादाह — भक्तानामिति॥२७॥ मुखे आदौ गणनीया मुख्या। वशिन्येवाद्या मुख्या यासां ता वशिन्याद्याः। आदिना कामेश्वर्यादिकौलिन्यन्तसप्तकपरिग्रहः। तासामेवाह्वाने परिकरालंकारेण हेतुगर्भं विशेषणं वाग्देवीरिति। क्रीडाविजिगीषाद्युतिस्तुतिव्यवहारमोदमदकान्तिगतयोऽत्र सर्वे दीव्यतेरर्थाः नतु स्वप्नः। देवतानामस्वप्नत्वात्। वाचा क्रीडन्ति विजिगीषन्ति द्योतन्ते स्तुवन्तीत्यादिरीत्या वा वाग्देव्यः। वाङ्मयमात्रे स्वातन्त्र्यं तासामेव चिकारयिषिसितस्तोत्रार्थमाह्वानमिति भावः। इदं वक्ष्यमाणवृत्तान्तरूपम्। अथाध्युष्टश्लोकैरम्बावचनम्। हे वशिन्याद्याः, यतो यूयं वाग्देवतास्ततो मम वचनं शृणुध्वमिति योजना। युष्माकं वागीश्वरीत्वान्मद्वचनश्रवणेऽपि भवतीनामेवाधिकार इति प्रोत्साहनं व्यङ्ग्यम्॥२८॥ ननु वशिन्याद्युपासका देवता
भवत्यो मत्प्रसादेन प्रोल्लसद्वाग्विभूतयः।
मद्भक्तानां वाग्विभूतिप्रदाने विनियोजिताः॥२९॥
मच्चक्रस्य रहस्यज्ञा मम नामपरायणाः।
मम स्तोत्रविधानाय तस्मादाज्ञापयामि वः॥३०॥
कुरुध्वमङ्कितं स्तोत्रं मम नामसहस्रकैः।
येन भक्तैः स्तुताया मे सद्यः प्रीतिः परा भवेत्॥३१॥
——————
अपि वागीश्वर्यःसंपतिताः किं त्वदाज्ञावाक्यश्रवणे नाधिकारिण्य इत्याशङ्क्याह —भवत्य इति। ततश्चेति शेषः सर्वत्राध्याहृत्य योज्यः। प्रकर्षेणोत्कर्षेण उल्लसन्त्यो वाचो विभूतय ऐश्वर्यं यासां ताः। इतरवैलक्षण्यं प्रकर्षः। सर्वोत्तमत्वमुत्कर्षः। तेन सर्वोत्तमदेवताप्रसादलब्धायाविद्याया एव सर्वविद्योत्तमत्वात्तद्वत्य एव सर्वोत्तमस्तोत्रकरणेऽधिकारिण्य इति ध्वनिः। ननु नकुलीदेव्यादयोऽपि भगवतीप्रसादलब्धवागैश्वर्यशीला एवेति ता एव स्तोत्रकरणाय विनियुज्यतामत आह —मद्भक्तानामिति। नकुलीवागीश्वर्यादयस्तु ललिताभक्तैः सह विवदमानानां परेषां वाचस्स्तम्भनादिषु विनियुक्ताः। ततश्च सहस्रनामस्तोत्रस्यापि वाग्विभूतिरूपत्वेन तस्य ललिताम्बाभक्तेभ्य एव दित्सितत्वेन नकुल्यादेस्तत्करणे विनियोजने वशिन्याद्यधिकारभङ्गापत्तिरिति ध्वन्यम्॥२९॥ ननु वशिन्यादिभिरपि स्तोत्राणि कृतानि सन्त्येव किमनेन नूतनेनेत्यत आह —मच्चक्रस्य रहस्यज्ञा इति। चक्रस्य बिन्द्वादिभूपुरान्तस्य रहस्यं वासनामयं शरीरं जानन्तीति तथा। अथवा! अस्ति विमर्शरूपा स्वसंविद्विषयान्तरानवभासिनी। तस्या झटित्युच्चलनाकारप्रतिभोन्मज्जनात्मकोऽन्तःपरिस्पन्दः पूर्णाहंभावनामकस्तुर्यावस्थानामकश्च। तस्य च शक्तयोऽनन्तविधास्तासां समूहश्चक्रं तस्यानुसंधानं गुरुमुखैकलभ्यं रहस्यं, तस्मिन् सति स्वभिन्नस्य सर्वस्यापि स्वस्मिन्नेवोपसंहारो भवति। तथाच शिवसूत्रं ‘शक्तिचक्रानुसंधाने विश्वसंहारः’ इति। ‘गुरुरूपाय’ इति च। तदिदं जानन्तीति तथा। ततश्चेतरेषु स्तोत्रेषु चक्ररहस्यं न प्रकाशितमस्ति। चिकारयिषिते तु तदपि प्रकाश्यमस्तीति व्यङ्ग्यम्। नन्वरुणोपनिषद्गुह्योपनिषत्त्रिपुरोपनिषदादिषु चक्ररहस्यमपि प्रकाशितमेवास्तीति किमनेनेत्यत आह —मम नामपरायणा इति। नामशब्दो देवतावाचकप्रातिपदिकपरो मन्त्रपरश्च। सौन्दर्यलहर्यां ‘शिवः शक्तिः कामः’ इति मन्त्रोद्धारश्लोके मन्त्राक्षराण्युद्धृत्य अन्ते ‘भजन्ते वर्णास्ते तव जननि नामावयवता’मिति प्रयोगात् द्विविधयोः शब्दयोरेकशेषः। तेन नामोपदेशेन चक्ररहस्यकथनं मन्त्राणामुद्धारश्चोपनिषत्सु न लभ्यते। तादृशापूर्वस्तोत्रकरणे तु भवतीनामेव नामज्ञत्वादधिकार इति व्यज्यते। तस्मादुक्तहेतुपञ्चकात् वो युष्मानेवाहमाज्ञापयामि नान्याः इति योजना॥३०॥ आज्ञप्तव्यार्थमेवाह — कुरुध्वमिति। नामसहस्रकैरितीत्थंभूतलक्षणे तृतीया। सहस्रनामोपलक्षितं मम स्तोत्रं कुरुध्वमित्यन्वयः। स्तोत्रं विशिनष्टि —ममाङ्कितमिति। मम नाम्नाचिह्नितमित्यर्थः। अङ्कनं नाम
हयग्रीव उवाच।
इत्याज्ञप्ता वचोदेव्यः श्रीदेव्या ललिताम्बया।
रहस्यैर्नामभिर्दिव्यैश्चक्रुः स्तोत्रमनुत्तमम्॥३२॥
रहस्यनामसाहस्रमिति तद्विश्रुतं परम्।
ततः कदाचित्सदसि स्थित्वा सिंहासनेऽम्बिका॥३३॥
स्वसेवावसरं प्रादात्सर्वेषां कुम्भसंभव।
सेवार्थमागतास्तत्र ब्रह्माणीब्रह्मकोटयः॥३४॥
लक्ष्मीनारायणानां च कोटयः समुपागताः।
गौरीकोटिसमेतानां रुद्राणामपि कोटयः॥३५॥
——————
चरमश्लोके नामप्रक्षेपः — यथा कामदेवाङ्के राघवपाण्डवीये काव्यलक्ष्म्यङ्के किरातार्जुनीये च। प्रकृते च यद्यप्यम्बाया अनन्तानि नामानि तथापि ललितेत्यसाधारणं नाम। गुणिरुद्रेश्वरादिपत्नीष्वपि भवान्यादिनामप्रयोगेण तेषां साधारण्यात्। त्रिपुरसुन्दरीति नाम्नोऽपि तन्त्रान्तरे प्रतिपत्तिथिनित्यायाः सत्त्वात्। अतः सहस्रनामसमाप्तिश्लोके फलश्रुतिचरमश्लोके च ललिताम्बिकेति नाम्न उल्लेखः॥३१॥ अथ सार्धनवभिः श्लोकैः पुनरपि हयग्रीववाक्यम्। अत्र पूर्वश्लोकार्थेन पौनरुक्त्याभावादेवमुक्तम्। रहस्यैश्चक्रराजस्य मन्त्रोद्धाररहस्याभ्यां सहितैः। मत्वर्थीयोऽच्प्रत्ययः॥३२॥ स्तोत्रनाम्नोऽन्वर्थकताप्रदर्शनाय तन्निर्वक्ति —रहस्यनामसाहस्रमिति। तद्विश्रुतं परं इति पदस्य वारद्वयमन्वयः। रहस्यगर्भितत्वाद्धेतोः रहस्यनामसाहस्रमिति परं अतिशयेन विश्रुतं प्रसिद्धमित्यर्थः। सिंहासनेऽवस्थानं सर्वेषां दर्शनार्थम्॥३३॥ सेवावसरः सेवार्थमवकाशः। ब्रह्माणीति नायं ब्रह्मशब्दान्ङीष् ‘इन्द्रवरुणे’त्यादिसूत्रे ब्रह्मशब्दपाठाभावेनानुगागमायोगात्। अपितु ब्रह्म वेदानणति शब्दायते व्याहरतीति यावत्। स ब्रह्माणः। चतुर्भिर्वदनैश्चतुर्वेदवक्ता ब्रह्मेत्यर्थः। तस्य स्त्रीत्यर्थे पुंयोगलक्षणो ङीप्। तथाच स्वच्छन्दशास्त्रयोगः ‘ब्रह्माणीत्यपरा शक्तिर्ब्रह्मणोत्सङ्गगामिनी’ति। ब्रह्माणमानयति जीवयतीति वा ब्रह्माणी। अतो न ‘पुमान्स्त्रिये’त्येकशेषप्रसक्तिः। अथवा ब्रह्माणीशब्दो भारतीकोटिपरः तत्समेता ब्रह्मकोटय इति शाकपार्थिवादेराकृतिगणत्वान्मध्यमपदलोपी समासः। बहुवचनं कोटिसंख्यापरम्। तेन प्रकृतिप्रत्ययाभ्यां मिलित्वा कोटिगुणिता कोटिरिति सिद्ध्यति। जलधिसंख्याका ब्रह्माण्यस्तावन्त एव ब्रह्माणश्चेत्यर्थः। अतएव रुद्रयामले सर्वमङ्गलाध्यानप्रकरणे ‘आवृतां ब्रह्मसहितब्रह्माणीकोटिकोटिभि’रित्यादि स्मर्यते॥३४॥ लक्ष्मीकोटिसमेता नारायणकोटीनां कोटय इत्यर्थः। रुद्राणामित्यपि रुद्रकोटीनामित्यर्थकम्। यथाश्रुते तावदेकैकस्य रुद्रस्य कोटिकोटिगौरीसमेतत्वावगतिः स्यात्, पूर्वाभ्यां शक्तिभ्यां सह संख्यायां वैषम्यं च। यदि पुनर्बहुकोटिसंख्याकरुद्रसमुदायस्यैव विशेष्यत्वाभिप्रायेण गौरीकोटिसमेतत्वरूपं विशेषणं नत्वेकैकरुद्रस्य विशेष्यत्वाभि-
मन्त्रिणीदण्डिनीमुख्याः सेवार्थंयाः समागताः।
शक्तयो विविधाकारास्तासां संख्या न विद्यते॥३६॥
दिव्यौघा मानवौघाश्च सिद्धौघाश्च समागताः।
तत्र श्रीललितादेवी सर्वेषां दर्शनं ददौ॥३७॥
——————
प्रायेणेति पर्यालोच्यते तदा यथाश्रुतमेव साधु। सर्वाणि बहुवचनानि पुनरनन्तसंख्यापराणि ब्रह्माण्डानामानन्त्यंप्रति ब्रह्माण्डसृष्ट्यधिकारिषु त्रयस्यावश्यकत्वेन तेषामानन्त्ये विवादाभावात्। तेषां युगपदाह्वानं तु सर्वब्रह्माण्डेष्वस्य प्रसिद्धिसंपादनायेत्याकूतम्॥३५॥ विविधाकारा इति। ‘परा शक्तिश्चादिशक्तिरिच्छाज्ञानक्रिया बला। बालान्नपूर्णा बगला तारा वाग्वादिनी परा॥ गायत्री चैव सावित्री सिद्धलक्ष्मीः स्वयंवरा। नकुली तुरगारूढा कुरुकुल्लाच रेणुका॥ संपत्करी च साम्राज्यलक्ष्मीः पद्मावती शिवा॥ दुर्गा भद्राकृतिः काली कालरात्रिः सुभद्रिका। छिन्नमस्ता भद्रकाली कालकण्ठी सरस्वती॥’ इत्याद्या रुद्रयामलादौ प्रसिद्धाः। यद्यपि पूर्वत्रापि कोटय इति बहुवचनेनासंख्यातत्वमेवोक्तं तथापि तत्तत्समानसंख्याका प्रत्येकं बालादयः सजातीया एव। परस्परविजातीया अप्यनन्ता इत्याशयेन तासां नाम्नां विशिष्य निर्देष्टुमशक्यत्वात्संख्या न विद्यत इत्युक्तम्। अथवा असंख्या असंख्यनामधेयमित्यर्थः।न विद्यते। न शक्यते वक्तुमिति शेषः। ‘सम्यक् ख्यातीति संख्या नामनिर्देष्टेत्यर्थो वा॥३६॥ दिवि भवा दिव्या दिक्पलाद्या देवाः। मानवाः पुण्या ब्रह्मर्षयो विश्वमित्राद्याः। सिद्धाः सनकनारदाद्यायोगिनः। तेषामोघाः संख्याविशेषाः। तथाच रुद्रयामले ‘अनेककोटिदिक्पालैश्चन्द्रार्कवसुकोटिभिः। सनकाद्यैश्च योगीन्द्रैः सप्तर्षीणां च कोटिभिः॥ नारदादिमहो घानां कोटिभिः परिवारिता’मिति। तेनौघा इति बहुवचनमनेककोटिपरम्। यद्यप्योघो नाम संख्याविशेषो न ज्योतिःशास्त्रे प्रदृश्यते। यदुक्तं ‘एकदशशतसहस्रायुतलक्षप्रयुतकोटयः क्रमशः। अर्बुदमब्जं खर्वं निखर्वमहापद्मशङ्कवस्तस्मात्॥ जलधिश्चान्त्यं मध्यं परार्धमिति दशगुणोत्तराः संज्ञाः॥’ इति। नापि वायुपुराणे। तत्रहि “शृणु संख्यां परार्धस्य परस्याप्यपरस्य च’ इत्यादि ‘कोटिकोटिसहस्राणि परार्धमिति कीर्त्यते’ इत्यन्तं यथापूर्वमुक्त्वोक्तं ‘परार्धद्विगुणं चापि परमाहुर्मनीषिणः। शतमाहुः परिवृत्तं सहस्रपरिपद्मकम्॥ ततोऽयुतं च नियुतं प्रयुतं चार्बुदं ततः। न्यर्बुदं खर्बुदं खर्वं निखर्वं शङ्कुपद्मकौ॥ समुद्रं मध्यमं चैव परार्धमपरं ततः। एवमष्टादशैतानि स्थानानि गणनाविधौ॥ शतानीति विजातीयान्यद्दिष्टानि मनीषिभि’रिति, तथापि रामायणे युद्धकाण्डे ‘शतं शतसहस्राणां कोटिमाहुर्विपश्चितः’ इत्यारभ्य ‘शतं समुद्रसाहस्रं महौघ इति विश्रुत’मित्यन्ते शङ्कुमहाशङ्कुवृन्दमहावृन्दपद्ममहापद्मखर्वमहाखर्वसमुद्रमहौघाख्या उत्तरोत्तरं लक्षलक्षगुणिता दशसंख्या उक्तास्तत्र ‘नामैकदेशे नामग्रहण’मितिन्यायेनौघपदमात्रं प्रयुक्तम्। अथवा परप्रकाशानन्दनाथाद्याः सप्त परमगुरवो गगनानन्दनाथाद्या अष्टौपरापरगुरवो भोगानन्दनाथाद्याश्चत्वारोऽपरगुरव इत्योघत्रयं दिव्यादिपदवाच्यम्। इदंच कामराजसंतानाभिप्रा-
तेषु दृष्ट्वोपविष्टेषु स्वे स्वे स्थाने यथाक्रमम्।
तत्र श्रीललितादेवीकटाक्षाक्षेपनोदिताः॥३८॥
उत्थाय वशिनीमुख्या बद्धाञ्जलिपुटास्तदा।
अस्तुवन्नामसाहस्रैःस्वकृतैर्ललिताम्बिकाम्॥३९॥
श्रुत्वा स्तवं प्रसन्नाभूल्ललिता परमेश्वरी।
सर्वे ते विस्मयं जग्मुर्ये तत्र सदसि स्थिताः॥४०॥
ततः प्रोवाच ललिता सदस्यान्देवतागणान्।
ममाज्ञयैव वाग्देव्यश्चक्रुः स्तोत्रमनुत्तमम्॥४१॥
——————
येणोक्तम्। लोपामुद्रासंतानभेदेन विद्याभेदेन च मित्रेशानन्दनाथादीनि बहून्योघत्र्याणि ज्ञानार्णवादिषु द्रष्टव्यानि। दिव्यादिगुरुक्रमस्तु गुरूपदेशादवगन्तव्यः। तत्र सर्वेषामिति संख्याविशेषो महौघपर्यायः। बहुवचनमप्यनन्तानन्तपरम्। यजुर्वेदसंख्याप्रायपाठे परार्धायस्वाहेत्यस्योत्तरमुषसेस्वाहेत्यारभ्य सर्वस्मैस्वाहेत्यन्ता अष्टौ मन्त्राः श्रूयन्ते। तत्रत्याश्चोषआदयः शब्दाः संख्याः प्रायपाठाल्लक्षलक्षगुणोत्तरसंख्यावाचका वक्तव्याः। तदयं संग्रहः — ‘उषोव्युष्टिस्तथोदेष्यन्नुद्यन्नुदित एव च। स्वर्गोलोकश्च सर्वश्चेत्येवमाम्नायते श्रुतौ। एताः परार्धात्परतः संख्या लक्षगुणोत्तराः॥’ इति। एवंसति रामायणैकवाक्यतापि लभ्यते। रामायणीयमहाशङ्कोर्ज्योतिःशास्त्रीयपरार्धपर्यायत्वात्। सतिसंभवे स्मृतेर्मूलान्तरं गवेषणाया अयोगात्। नचैवं सर्वपदस्य संज्ञारूपत्वेन सर्वनामतानापत्तिः। सर्वनामपदस्यान्वर्थकतया चरमसंख्यावाचकस्यापि सर्वपदस्य समस्तवाचकतया तदुपपत्तेः। अतएव श्रुतावपि स्मायादेशचतुर्थ्या उपपद्यते। तस्य छान्दसत्वे तु प्रकृते सुडागमोऽपि तथैवेति ज्ञेयम्॥३७॥ विश्वकर्मशास्त्रे ‘नृपस्य दक्षपुत्रस्य वामभागेऽष्टमन्त्रिणः’ इत्यादिरीत्योक्तंक्रममनतिक्रम्य यथाक्रमम्। अत्र स्वशब्दं आत्मनि वाच्ये पुंलिङ्ग एवेति प्रकृते वाग्देवतात्मपरोऽपि स्वकृतैरित्यत्र पुंलिङ्ग एव भवति, सर्वनाम्नो वृत्तिमात्रे पुंवद्भावो वा॥३८॥३९॥ ते सर्वे ब्रह्माणीप्रभृतयोऽपि। प्रसादविस्मययोर्मूलं तु शब्दार्थयोरलंकारादिपुष्टिरदोषता। यथा विष्णुसहस्रनामादिषु ‘क्षेत्रज्ञोऽक्षर एवचे’त्यादौ निरर्थकाव्ययप्रयोगः शतावधिनाम्नां द्विरुक्तिः केषांचित्त्रिरुक्तिश्चतुरुक्तिश्च न तथेह स्तोभप्रयोगः पुनरुक्तिर्वा। यद्यपि भगवत्पादैर्भाष्ये तत्रार्थभेदो वर्णितस्तथाप्यर्थभेदेन नाम्नां भेदाङ्गीकारो नानार्थोच्छेदाद्यापत्त्याऽनन्यगतिकः। अर्थभेदेऽप्युच्चारणाभेदादपि भेदापत्तिश्च। तथा चक्ररहस्यमन्त्रोद्धारादिरूपरहस्यार्थान्तराणामपि चमत्कृतानीति। तानिच यद्यपि गुरुमुखादेव वेद्यानि तथापि विद्वच्चित्तचमत्कारार्थं क्वचित्क्वचिदर्थान्तराणि तत्रतत्र दिङ्मात्रेण प्रदर्शयिष्यामः॥४०॥ सदसि स्थितान्सदस्यान्प्रति प्रोवाच। विस्मयनिरासार्थमिति शेषः॥४१॥ अथ षड्भिःश्लोकैरम्बावाक्यम्। ममाज्ञयैव नतु स्वप्रतिभामात्रेण। अतो नात्र विस्मयः कर्तव्य इति
अङ्कितं नामभिर्दिव्यैर्मम प्रीतिविधायकैः॥४२॥
तत्पठध्वं सदा यूयं स्तोत्रं मत्प्रीतिवृद्धये।
प्रवर्तयध्वं भक्तेषु मम नामसहस्रकम्॥४३॥
इदं नामसहस्रं मे यो भक्तः पठते सकृत्।
मम प्रियतमो ज्ञेयस्तस्मै कामान्ददाम्यहम्॥४४॥
श्रीचक्रे मां समभ्यर्च्य जप्त्वा पञ्चदशाक्षरीम्।
पश्चान्नामसहस्रं मे कीर्तयेन्मम तुष्टये॥४५॥
मामर्चयतु वा मा वा विद्यां जपतु वा न वा।
कीर्तयेन्नामसाहस्रमिदं मत्प्रीतये सदा॥४६॥
मत्प्रीत्या सकलान्कामाल्ँलभते नात्र संशयः।
तस्मान्नामसहस्रं मे कीर्तयध्वं सदादरात्॥४७॥
हयग्रीव उवाच।
इति श्रीललितेशानी शास्ति देवान्सहानुगान्॥४८॥
तदाज्ञया तदारभ्य ब्रह्मविष्णुमहेश्वराः।
शक्तयो मन्त्रिणीमुख्या इदं नामसहस्रकम्॥४९॥
पठन्ति भक्त्या सततं ललितापरितुष्टये।
तस्मादवश्यं भक्तेन कीर्तनीयमिदं मुने॥५०॥
——————
भावः॥४२॥ अयं प्राथमिको विधिः। पूर्वोक्तस्त्वेतदनुवादरूपोऽपि वक्तृश्रोतृभेदाद्विधिरेव। अतएव पुनःश्रवणस्यानन्यपरत्वाभावेन शाखाभेदेन पुनःश्रुताग्निहोत्रविधीनामिव न कर्मभेदकत्वम्। संप्रदायः प्रवर्तनीय इति विधत्ते। भक्तेषु श्रीविद्यादीक्षितेषु॥४३॥ वक्ष्यमाणेषु काम्यप्रयोगेषु सतिसंभवे स्तोत्रावृत्तिः कर्तव्येति विधत्ते—इदमिति। यः सकृदेकवारमपि पठति तस्मै कामान्ददामि किमुत बहुवारमित्यनया भङ्ग्या काम्यप्रयोगेष्वावृत्तिविधानाभावेऽप्यस्यैवावृत्तिविधाने तात्पर्यं दाक्षायणयज्ञविधिवत्। अन्यथा होमविधेरबिन्दुनिपातमात्रेण शास्त्रार्थसिद्धिवत्सकृत्पाठेनैव तत्सिद्धिरावृत्तौ मानाभावात्परिसंख्याद्यर्थं सकृत्त्वविधानस्य वैयर्थ्यापातात्॥४४॥ प्रथमविधावुक्तस्य सदातनत्वस्योपसंहारार्थमाह—श्रीचक्र इति। ‘उपलक्षणापायेऽप्युपलक्ष्यानपायः’ इति न्यायबललभ्यमर्थमाह॥४५॥ अशक्तस्य जपार्चनादेः फलमितएव लभ्यमित्याह॥४६॥ स्पष्टम्॥४७॥ अथ अध्युष्टश्लोकैर्हयग्रीववाक्यम्। यद्यप्युपान्त्यश्लोकान्तमेतद्वाक्यमेव, तथापि मध्ये ध्यानश्लोकः प्रक्षिप्त इति वदन्तीत्येवमुक्तम्। अम्बाया वचनमुपसंहरति। भगवतीच्छारूपायाः शासनाज्ञापरपर्यायप्रवर्तनाय नित्यत्वाच्छास्तीति प्रवर्तमाननिर्देशोऽप्युपपद्यते। ‘आक्रुश्य पुत्रमघवान्यदजामिलोऽपि नारायणेति म्रियमाण इयाय मुक्ति’मितिवत्॥४८॥ निगमयति—तदाज्ञयेति॥४९॥ तत्र हेतुं प्रवक्ष्यामीत्युपक्रान्तमर्थमुपसंहरन्नेव संगतिदर्शनपूर्वकशिष्यावधानाय प्रतिजानीते॥५०॥
आवश्यकत्वे हेतुत्वे मया प्रोक्तो मुनीश्वर।
इदानीं नामसाहस्रं वक्ष्यामि श्रद्धया शृणु॥५१॥
अथ ध्यानश्लोकः।
सिन्दूरारुणविग्रहां त्रिनयनां माणिक्यमौलिस्फुर-
त्तारानायकशेखरां स्मितमुखीमापीनवक्षोरुहाम्।
पाणिभ्यामलिपूर्णरत्नचषकं रक्तोत्पलं विभ्रतीं
सौम्यां रत्नघटस्थरक्तचरणां ध्यायेत्परामम्बिकाम्॥५२॥
––––––
आवश्यकत्व इति॥५१॥ अस्य श्रीललितासहस्रनामस्तोत्रमालामन्त्रस्य। वशिन्यादिभ्यो वाग्देवताभ्य ऋषिभ्यो नमः शिरसि १। अनुष्टुप्छन्दसे नमः मुखे २। श्रीमहात्रिपुरसुन्दर्यै देवतायै हृदये ३। क बीजाय नाभौ ४। स शक्तये गुह्ये ५। ह कीलकाय पादयोः ६। चतुर्विधपुरुषार्थसिद्ध्यर्थे जपे विनियोगाय सर्वाङ्गे ७। कूटत्रयं द्विरावृत्य बालावा षडङ्गद्वयम्। अथ ‘ऋषिर्गुरुत्वाच्छिरसि ध्येयत्वाद्देवता हृदि। छन्दोऽक्षरत्वाज्जिह्वायां न्यस्तव्यं मन्त्रवित्तमै’रित्यादिरीत्या ऋषिन्यासस्थानानि प्रपञ्चसारोक्तानि। शैवशाक्तादिभेदेन न्यासे मुद्राविशेषाः पदार्थादर्शोक्तास्तत्तद्वासनाश्च जपप्रकरण एवास्माभिर्विवृता इति नेह लिख्यन्ते। माणिक्यशब्दात्तस्येदमित्यणि अर्शआद्यच्। ततश्च माणिक्यकिरीटवति मौलौ स्फुरन् शोभमानस्तारानायकश्चन्द्र एव शेखरः शिरोभूषणं यस्यास्ताम्। उत्तमपरो वा मौलिशब्दः। माणिक्यश्रेष्ठवत्स्फुरन्नित्यादि पूर्ववत्। आसमन्तात्पीनौ पुष्टौ वा ‘ऊधस्तु क्लीबमापीन’मिति कोशादूधोवद्वा’वक्षोरुहौ यस्यास्ताम्। अलिभिर्भ्रमरैः पूर्णं रत्नमयं चषकं वाटीम्। ‘चषकं च कटोरी च वाटिका खारिका तथा। कचोली गाथिका चेति नामान्येकार्धकानि वै॥’ इति रत्नसमुच्चयेऽभिधानात् तदन्तर्गतस्य मधुनः सुगन्धित्वान्मधुरपूर्णता। यद्वा ‘अलिः सुरापुष्पलिहो’रिति हैमकोशान्मद्यमलिपदवाच्यं रत्नं घटे तिष्ठति एतादृशो रक्तचरणः पञ्चमो द्रवो यस्यास्तामिति एवं परिभाषायां चतुर्भिः लोकैः सहस्रनाम्नः प्रथमो भागो विवृत इति शिवम्॥५२॥
इति श्रीभासुरानन्दकृते सौभाग्यभास्करे। उपोद्घातपरैः श्लोकैः प्रथमा तपिनीकला॥१॥
इति श्रीमत्पदवाक्यप्रमाणपारावारपारीणधुरीणसर्वतन्त्रस्वतन्त्रश्रीमन्नृसिंह-
यज्वचरणाराधकेन भारत्युपनामकश्रीमद्गंभीररायदीक्षितसूरिसूनुना
भास्कररायेण भासुरानन्दनाथेतिदीक्षानामशालिना प्रणीते
सौभाग्यभास्करे ललितानामपरिभाषामण्डलभाष्ये
उपोद्घातप्रकरणं नाम प्रथमा कला।
_____________
अथ प्रथमशतकं नाम द्वितीया तापिनीकला
अथ परिभाषामण्डले नामारम्भकवर्णानेव विभाजकोपाधीकृत्य द्वात्रिंशद्विधानि वक्ष्यमाणानि नामानि विवेचयितुमेकपञ्चाशन्मातृकासु ग्राह्यवर्णान्विचिनोति—अक्षु शराच्छरवर्णांस्ततः समानन्तिमौ कचयोः। अथ मध्यान्यांस्तपयोर्द्वितीयमन्त्ये त्यजेन्नवमम्॥५॥ अक्षु षोडशत्वराणां मध्ये शरात् प्राथमिकपञ्चाक्षराणि गृहीत्वा। ल्यब्लोपे पञ्चमी। शरवर्णान् षष्ठादिदशमान्तान् पञ्चवर्णांस्त्यजेत्। ततः अवशिष्टानामेकादशादिषोडशान्तानां मध्ये समान् द्वादशचतुर्दशषोडशान्। कचयोः कवर्गचवर्गयोः अन्तिमौ घकारङकारौझकारञकारौ च। अथानन्तरे टवर्गे मध्यान्यान् डकारभिन्नांश्चतुरो वर्णान्। तपयोः तवर्गयोः द्वितीयं थकारं फकारं च। अन्त्ये यवर्गीयदशाक्षरेषु नवमं लकारं त्यजेत्। तत्तदक्षरादिनामधेयानामभावादिति भावः॥५॥ अतएव ‘द्वात्रिंशद्भेदभिन्ना या तां वन्देऽहं परात्परा’मिति सूतसंहितोक्तिरेतत्परेत्याशयेनाह—**इत्थं शिष्टानुष्टुवर्णारब्धेषु नामसु तु संख्याः। अर्वनटत्रिद्विष्वेकद्वीचतुःकंजपानवरधीराः॥६॥**इत्थं एकोनविंशतिवर्णानां त्यागेनावशिष्टाअनुष्टुब्वर्णाः द्वात्रिंशत्संख्यान्यक्षराणि तैरारब्धेषु नामसु संख्यां वच्म इत्यर्थः। तदेवाह सार्धेन। अत्रैकैकं पदमेकैकाक्षरादिनाम्नां संख्येति क्रमः। तथाहि। अर्व, अकारादीनि नामानि चत्वारिंशत्॥४०॥ नट, आकारादीनि दश १०॥ त्रि, इकारादीनि त्रीणि ३॥ द्वि, ईकारादीनि द्वे २॥ इषु उकारादीनि पञ्च ५॥ इषुशब्दस्य बाणपरत्वेन तदर्थकत्वात्॥ एक, एकारादि नामैकम् १॥ द्वि, ओकारादीनि द्वे॥ चतुः, अंकारादीनि चत्वारि ४॥ कंज ककारादीन्येकाशीतिः ८१॥ पान, खकाराद्येकम् १॥ पकारात्पूर्वं नकारीयबिन्दुलेखस्तु छन्दोनुसारादनिष्टाभावाच्चोक्तः॥ वर, गकारादीनि चतुर्विंशतिः २४॥ धीरः, चकारादीन्येकोनत्रिंशत् २९॥—किंधूपद्विस्तम्भछलभयमांसे पदे वरः सङ्गः॥ **प्रकटगयाजलवाटीधुसिधर्मे माखखोल्कटीकाधीः॥७॥**किं, छकाराद्यमेकं नाम १॥ धूप, जकारादीन्येकोनविंशतिः १९॥ द्वि, डकारादीनि द्वे २॥ स्तम्भ, तकारादीनि षट्चत्वारिंशत् ४६॥ छल, दकारादीनि सप्तत्रिंशत् ३७॥ भय, धकारादीनि चतुर्दश १४॥ मांसे, नकारादीनि पञ्चसप्ततिः ७५॥ पदे, पकारादीन्येकाशीतिः ८१॥ वरः, बकारादीनि चतुर्विंशतिः २४॥ सङ्गः, भकारादीनि सप्तत्रिंशत्, ३७॥प्रकट, मकारादीनि द्वादशोत्तरशतम् ११२॥ गया, यकारादीनि त्रयोदश १३॥ जल, रेफादीनि नामान्यष्टत्रिंशत् ३८॥ वाटी, लकारादीनि चतुर्दश १४॥ धुसि, वकारादीन्येकोनाशीतिः ७९॥ धर्मे, शकारादीन्येकोनषष्टिः ५९॥ मा, षकारादीनि पञ्च ५॥ खखोल्क, सकारादीनि द्वाविंशत्युत्तरशतम् १२२॥टीका, हकारादीन्येकादश ११॥ धीः, क्षकारादीनि नव ९॥ नामानीत्यर्थः॥७॥—**इत्थं नामसहस्रं साधकलोकोपकारकं विहितम्। गुणगणसदसद्भावाभावावाश्रित्य ब्रह्मणोऽम्बायाः॥८॥**इत्थं पूर्वोक्तप्रकारेण। साधकानां तत्तन्मातृकाभिमान्यमृताकर्षिणी-
न्द्राण्यादिक्षमावत्यन्तदेवताः सिषाधयिषूणां लोकानामुपकारकमस्माभिर्विहितमुक्तमित्यर्थः। तत्तदक्षरारब्धनामसंख्याज्ञानेन सद्यः पापाद्विमुच्यत इति। अत्र श्रीमातृशब्देन ललिताम्बाया इव मातृकासरस्वत्यास्तदभिन्नानाममृतादीनामपि संग्रह इति सुवचम्। अथवा देव्या अनन्तेषु नामसु शीघ्रं साधकोपकारकत्वेन क्लृप्तान्येव नामानि वाग्देवताभिरिह संगृहीतानीत्यर्थः। ननु निर्गुणे ब्रह्मणि धर्मलेशराहित्याद्गुणक्रियाजातिरूढीनां शब्दप्रवृत्तिनिमित्तानामसंभवाच्चतुष्टय्यपि शब्दानां प्रवृत्तिर्न तत्र युज्यत इत्यत आह—गुणगणेति। ब्रह्मणोऽम्बाया इति समानाधिकरणे षष्ठ्यौ॥८॥ अयं भावः—ब्रह्म द्विविधं। सकलं निष्कलं चेति। ‘द्वे ब्रह्मणी वेदितव्ये परं चापरं चे’ति श्रुतेःस्मृतेश्च। तत्र सकलमपरम्। तद्द्विविधं। जगन्नियामकं जगदात्मकं चेति। तदुक्तम् ‘जगन्नियन्ता जगदात्मकश्चे’ति। अन्यत्रापि—‘शिवः कर्ता शिवो भोक्ता शिवः सर्वमिदं जगत्’ इति। ‘देवी दात्री च भोक्त्री च देवी सर्वमिदं जगदिति च। ‘स्थितिसंयमकर्ता च जगतोऽस्य जगच्च स’ इति च। ‘सोऽकामयत बहु स्यां प्रजायेये’ति श्रुतिश्च। अकामयतेति निमित्तताया बहु स्यामिति परिणाम्युपादानतायाश्च प्रतीतेः। ‘प्रकृतिश्च प्रतिज्ञादृष्टान्तानुपरोधा’दित्यधिकरणे ‘आत्मकृतेः परिणामादि’ति ब्रह्मसूत्रं च। तत्र जगदात्मकं ब्रह्म चराचरभेदाद्विविधम्। द्विविधमपि हिरण्यगर्भादिभेदाद्वियदादिभेदाच्चानेकविधम्। जगन्नियन्त्रपि नियमनस्य सृष्टिस्थितिलयतिरोधानानुग्रहभेदेनानेकविधत्वाद्ब्रह्मविष्णुरुद्रादिभेदेनानेकविधमेव। तेष्वप्येकैकस्य भक्तानुजिघृक्षया तत्तद्वासनानुसारेण कार्यभेदेन च गृहीतानां रूपाणामनन्तत्वात्तत्तद्विशिष्टवेषेणानन्त्यमेव। तदुक्तं सुप्रभेदे—‘यतीनां मन्त्रिणां चैव ज्ञानिनां योगिनां तथा। ध्यानपूजानिमित्तं हि तनूर्गृह्णाति पायया’ इति। कालिकापुराणे ‘मायैका भिन्नरूपेण कमलाख्या सरस्वती। सावित्री सा च संख्या च भूता कार्यस्य भेदतः’ इति। बृहन्नारदीयेऽपि जगत्कर्त्रीं शक्तिं प्रकृत्य ‘उमेति केचिदाहुस्तां शक्तिं लक्ष्मीं तथा परे। भारतीत्यपरे चैनां गिरिजेत्यम्बिकेति च॥ दुर्गेति भद्रकालीति चण्डी माहेश्वरीति च। कौमारी वैष्णवी चेति वाराहीति तथा परे॥ ब्राह्मीति विद्याविद्येति मायेति च तथा परे। प्रकृतिश्च परा चेति वदन्ति परमर्षयः’ इति। श्रुतिश्च—‘एकधा बहुधा चैव दृश्यते जलचन्द्रव’दिति। देवीपुराणे ‘देव्या वा एष सिद्धान्तः परमार्थो महामते। एषा वेदाश्च यज्ञाश्च स्वर्गश्च सकलं जगत्॥ देव्या व्याप्तमिदं विश्वं जगत्स्थावरजंगमम्। इज्यते पूज्यते देवैरन्नपानात्मिका च सा॥ सर्वत्र शांकरी देवी तनुभिर्नामभिश्च सा। वृक्षेषूर्व्यां तथा वायौव्योम्यस्वग्नौ च सर्वशः’ इति। निष्कलं त्वेकविधमेव। तदेतत्सर्वं कूर्मपुराणे हिमवन्तंप्रति देवीवाक्येन स्पष्टीकृतम्—‘अशक्तौ यदि मां ध्यातुमैश्वरं रूपमव्ययम्। तदा मे सकले रूपे कालाद्येऽनन्तभेदिनि॥ यदेव रूपं मे तात मनसो गोचरस्तव। तन्निष्ठस्तत्परो भूत्वा तदर्चनपरो भव॥ यत्तु मे निष्कलं रूपं चिन्मात्रं केवलं शिवम्। सर्वोपाधिविनिर्मुक्तमेकमेवामृतं परम्॥ ज्ञानेनैकेन तल्लभ्यं क्लेशेन परमं पद’मिति। एवं स्थिते सगुणे ब्रह्मणि शक्त्या शब्दानां प्रवृत्तिर्निराबाधैव। प्रवृत्तिनिमित्तभूतानां धर्माणां सत्त्वात्। निर्धर्मके तु शब्दा लक्षणया
प्रवर्तन्ते। विशिष्टकेवलयोस्तादात्म्यरूपस्य शक्यसंबन्धस्य संभवात्। निर्गुणे मिथ्यारूपस्य संबन्धस्य स्वीकारेऽपि स्वसमानसत्ताकधर्मशून्यत्वरूपनिर्धर्मकताया ब्रह्मणोऽनपायात्। अतीतानागतघटादिविषयकज्ञानीयविषयता– संबन्धस्येवान्यतरस्मिन्संसृष्टत्वमात्रेणैव तादात्म्यस्यापि संबन्धत्वाङ्गीकारसंभवाद्वा। अतएव त्रिशत्यां वक्ष्यति च ‘लक्ष्यार्थलक्षणागम्ये’ति। अनया च रीत्या भगवत्या नामान्यनन्तान्येव। वक्ष्यतिच हयास्यः ‘देवीनामसहस्राणि कोटिशः सन्ति कुम्भजे’ति। सौरसंहितायां याज्ञवल्क्यं प्रति मायां प्रकृत्य सूर्यवचनम् ‘अस्या नामान्यनन्तानि तानि वर्णयितुं मया। न शक्यानि मुनिश्रेष्ठकल्पकोटिशतैरपी’ति। देवीभागवतेऽपि ‘असंख्यातानि नामानि तस्या ब्रह्मादिभिः सुरैः। गुणकर्मविधानाद्यैः कल्पितानि च किं ब्रुवे’इति। किंबहुना शब्दमात्रं ब्रह्मपरम्। अतएव प्रकृतेऽपि कानिचिन्नामानि जीवावस्थाभेदपराणि दृश्यन्ते विश्वरूपा तैजसात्मिकेत्यादीनि। कानिचित्तु जीवविशेषणपराणि मालिन्यादीनि। स्थावरविशेषणपराणि मह्यादीनि। सगुणब्रह्मविशेषणपराणि मुकुन्देत्यादीनि। तत्तच्छक्तिपराणि रमेत्यादीनि। तत्तदवतारविशेषकृतगुणक्रियादिघटितानि भण्डासुरेन्द्रनिर्मुक्तशस्त्रप्रत्यस्त्रवर्षिणीत्यादीनि। निर्गुणब्रह्मपराणि परंज्योतिरित्यादीनि दृश्यन्ते। एवमन्येऽपि बहवो भेदा ऊह्याः। एवं सति यद्यपि शब्दजातं सर्वमपि देवीनामैवेति सहस्रनामगणनप्रयासो व्यर्थ एव, तथापि तेषु यैर्यैर्नामभिस्तावत्पुरातना महामहिमानो देवीभक्ता देवीं स्तुत्वा प्रसादितवन्तः स्वान्मनोरथान् साधितवन्तो देवीमुखान्नाम्नोऽस्य माहात्म्यं भवत्विति वरान्दापितवन्तः स्वयनेव वा वरान् दत्तवन्तस्तान्येव नामानि संग्रहीतुं गणनाप्रयासः सार्थकः। सचान्येष्वपि सहस्रनामसु तुल्य एव। अस्य तु तेभ्योऽपि महत्त्वमधिकजनपरिग्रहदाच्छीघ्रफलकत्वेतरासाध्यफलकत्वादिभिर्बहुभिर्हेतुभिरिति तु पूर्वमेव व्यक्तीकृतमुत्तरत्रापि करिष्यते। तदेतत्सर्वमभिप्रेत्योक्तं विष्णुधर्मोत्तरे ‘एकस्यैव समस्तस्य ब्रह्मणो द्विजसत्तम। नाम्नां बहुत्वं लोकानामुपकारकरं शृणु॥ निमित्तशक्तयो नाम्नां भेदिन्यस्तदुदीरणात्। विभिन्नान्येव साध्यन्ते फलानि द्विजसत्तम॥ यच्छक्तिमन्नाम यस्य तत्तस्मिन्नेव वस्तुनि। साधकं पुरुषव्याघ्र सौम्यक्रूरेषु वस्तुष्विति। तेनेदमपि सिद्ध्यति। अन्नकामोऽन्नदायै नम इति, वसुकामो वसुदायै नम इति भीतो भयापहायै नम इति, वद्धो बन्धमोचिन्यै नम इति जपेदित्यादि। यद्यपि वायुपुराणे ‘अरण्ये प्रान्तरे वापि जले वापि स्थलेऽपि वा। व्याघ्रकुम्भीरचोरेभ्यो भयस्थाने विशेषतः॥ स्वपंस्तिष्ठन्व्रजन्मार्गे प्रजपन्भोजने रतः। कीर्तयेत्सततं देवीं स वै मुच्येत बन्धनादि’ति देवीनामकीर्तनसामान्यस्यैव बन्धनिवर्तकत्वमुक्तम्। वामकेश्वरतन्त्रेऽपि ‘मनसा संस्मरत्यस्या यदि नामापि साधकः। तदैव मातृचक्रस्य विदितो भवति प्रिये’ इति नामस्मरणसामान्यस्य मातृचक्रान्तं प्रसिद्धिः फलमुक्तम्। तथापि चतुर्धाकरणन्यायेन विष्णुधर्मोत्तरवचनेनैतेषामुपसंहारादत्रत्यो नामशब्दो भयापहेत्यादिनामविशेषपरत्वेन व्यवतिष्ठते। अतएव नामविशेषाश्रयेण फलविशेषः काशीखण्डे स्मर्यते ‘उमानामामृतं पीतं येनेह जगतीतले। न जातु जननीस्तन्यं स
पिबेत्कुम्भसंभव॥ उमेति द्व्यक्षरं मन्त्रं योऽहर्निशमनुस्मरेत्। न स्मरेच्चित्रगुप्तस्तं कृतपापमपि द्विजे’त्यादि। नन्वेवंसति फलश्रुतौ सर्वफलकत्वोक्तेरप्यनेनैव न्यायेनोपसंहारः प्रसज्जते। ततश्च सर्वरोगप्रशमनीमित्यादिना वक्ष्यमाणस्य सर्वफलप्रदत्ववचनस्य नातीव सार्थक्यम्। नचार्थवादत्वेन सार्थक्यम्। वेदे तथा सुवचत्वेऽपि पुराणेष्वसंभवात्। तदुक्तं बृहन्नारदीये ‘पुराणेष्वर्थवादत्वं ये वदन्ति द्विजाधमाः। तैरर्जितानि पुण्यानि तद्वदेव भवन्ति वै॥ समस्तकर्मनैर्मूल्यसाधनानि नराधमः। पुराणान्यर्थवादानि ब्रुवन्नरकमश्नुते’ इत्यादीति चेत्। मैवम्। तत्तन्नाम्नां शक्तिभेदेन फलभेदे सिद्धे तत्समष्ट्यनुवादकत्वेन तत्सार्थक्यसंभवात्। नचानुवादस्याप्यर्थानुवादान्तःपातित्वेनोक्तनिषेधवाक्यविरोधः। तत्रत्यार्थवादपदस्यात्मवपोत्खेदनादिवाक्यसमानयोग– क्षेमगुणवादपरत्वात्। ‘प्रतिमासु शिलाबुद्धिं कुर्वाणो नरकं व्रजे’दित्यादौशिलात्वे सत्येव शिलाबुद्धिनिषेधस्य शिलान्तरसाधारणदेवतानाविर्भावबुद्धिनिषेधपरत्ववत्। वस्तुतस्तु ‘सर्वेभ्यः कामेभ्यो दर्शपूर्णमासा’विति वाक्यस्य ‘दर्शपूर्णमासाभ्यां स्वर्गकामो यजेते’त्यनेन फलांशे नोपसंहारः। ‘न हिंस्यात्सर्वा भूतानी’ति निषेधस्य ‘न ब्राह्मणं हन्या’दित्यनेनापि नोपसंहार इति सिद्धान्तः। विशेषाकाङ्क्षायां सत्यामेवोपसंहारावतारात्। अनयोर्विधिनिषेधयोः सर्वपदघटितत्वेन विशिष्यविशिष्यैव सर्वेषां फलानां प्राणिनां चोपस्थित्या भावनान्वये कीदृशं फलं किंजातीयः प्राणीति विशेषाकाङ्क्षाया अनुदयात्। तदुक्तं तन्त्रवार्तिके ‘सामान्यविधिरस्पष्टः संह्रियेत विशेषतः। स्पष्टस्य तु विधेर्नान्यैरुपसंहारसंभवः’ इति। तथाच प्रकृतेऽपि सर्वेभ्यः कामेभ्य एकैकं नामेति विधिपर्यवसानस्यावश्यकत्वात् ‘यच्छक्तिमन्नाम यस्ये’ति विष्णुधर्मोत्तरवचनस्य पाद्मवायवीयदेवीनामसामान्याश्रितविध्युपसंहारकताया नामांशे स्वीकारेऽपि फलांशे तदस्वीकारः। सर्वपदघटितस्यैव विधिपर्यवसानस्य बहुभिर्वचनैः सिद्धत्वात्। तथाच देवीवचनम् ‘कीर्तयेन्नामसाहस्रमिदं मत्प्रीतये सदा। मत्प्रीत्या सकलान्कामाल्ँलभते नात्र संशयः’ इति। कालिकापुराणेऽपि ‘ये स्तुवन्ति जगन्मातर्भवतीमम्बिकेति च। जगन्मयीति मायेति सर्वं तेषां प्रसिद्ध्यति’ इति। विष्णुपुराणे देवीं प्रति विष्णुवचनम्। ‘ये त्वां मायेति दुर्गेति वेदगर्भाम्बिकेति च। भद्रेति भद्रकालीति क्षेम्या क्षेमंकरीति च। प्रातश्चैवापराह्णे च स्तोष्यन्त्यानम्रमूर्तयः। तेषां हि प्रार्थितं सर्वं मत्प्रसादाद्भविष्यती’ति। याज्ञवल्क्यस्मृतौ ‘विनायकस्य जननीमुपतिष्ठेत्ततोऽम्बिकाम्। दूर्वासर्षपपुष्पाणां दत्त्वार्घ्यं विनिवेदयेदि’ति विधायोपस्थानमन्त्रं लिङ्गं च स्मर्यते ‘रूपं देहि यशो देहि भगं भगवति देहि मे। पुत्रान्देहि धनं देहि सर्वान्कामांश्च देहि मे’ इति। देवीभागवतेऽपि ‘न तदस्ति पृथिव्यां वा दिवि प्राप्यं सुदुर्लभम्। प्रसन्नायां शिवायां यदप्राप्यं नृपसत्तम॥ ते मन्दास्तेऽतिदुर्भाग्या रोगैस्ते समुपद्रुताः। येषां चित्ते न विश्वासो भवेदम्बार्चनादिष्वि’ति। हरिवंशेऽपि ‘ब्रह्मा विष्णुश्च रुद्रश्च चन्द्रसूर्याग्निमारुताः। अश्विनौ वसवश्चैव विश्वे साध्यास्तथैव च। महेन्द्रः सहपर्जन्यो धाता भूमिर्दिशो दश। गावो नक्षत्रवंशाश्च ग्रहा नद्यो हृदास्तथा। सरितः सागराश्चैव नानाविद्याधरोरगाः। तथा
नागाः सुपर्णाश्च गन्धर्वाप्सरसां गणाः। कृत्स्नं जगदिदं प्रीतं देवीनामानुकीर्तनादि’ति। नचैवं पर्यवसन्नस्य विधेरन्नदा-वसुदादिनामभेदेन बहुरूपत्वात्सर्वेभ्यः कानेभ्योऽन्नदेति नाम कीर्तयेदिति विधिनैव सिद्धे विष्णुधर्मोत्तरीयस्य ‘अन्नकामोऽन्नदेति नाम कीर्तये’दिति विशेषविधेर्वैयर्थ्यापत्तिरिति वाच्यम्। अस्य पर्यनुयोगस्य स्वर्गकामविधावपि तुल्यत्वात्। अनेन विधिनैव स्वर्गफलकत्वं ज्ञात्वानुष्ठाने स्वर्गोनान्यथेत्यभ्युदयशिरस्कत्वादिरूपसमाधानस्यापि तुल्यत्वात्। परमार्थतस्तु तन्त्राणां स्मृतित्वाविशेषेऽपि मन्वादिस्मृतीनां कर्मकाण्डशेषत्वं तन्त्राणां तु ब्रह्मकाण्डशेषत्वमिति सिद्धान्तादुत्तरमीमांसीयदेवताधिकरणन्यायेन देवताविग्रहादेस्तान्त्रिकैरङ्गीकारात्तत्तत्कामना– पूरकत्वादिगुणकं ब्रह्म ध्यातव्यमिति द्योतनमेव विशेषविधेः प्रयोजनम्। तथाच श्रुतिः ‘अन्नादो वसुदानो विन्दते वसु य एवं वेदे’ति। अन्नमासमन्तादत्त इत्यन्नादः। वसुनो धनस्य दानं यस्मात्स वसुदानश्च परमेश्वरन्तमेवंप्रकारेण यो वेदोपास्ते स वसु अन्नं च विन्दत इति तदर्थात्। किंच। अन्नदायै नम इति मन्त्रेण सार्वकाम्यवचनेन भयहरणकामप्रयोगे क्रियमाणे गौणमुख्याधिकरणन्यायेन तस्य मन्त्रस्य जघन्यवृत्त्या भयापहत्वप्रकारकस्मृतिजनकतायाः सिद्धत्वेऽप्यन्नकामप्रयोगे मुख्यवृत्त्यैवान्नप्रदत्वप्रकारकस्मृतिजनकतया देवताया अपि झडित्यर्थोपस्थितिस्तत्प्रसादोऽपि झडित्येव स्यादिति विशेषद्योतनमपि प्रयोजनम्। अतएव स्कान्दे सूतगीतायां नामसु गौणमुख्यभेदेन फलभेदः स्मर्यते ‘नामानि सर्वाणि तु कल्पितानि स्वमायया नित्यसुखात्मरूपे। तथापि मुख्यास्तु शिवादिशब्दा भवन्ति संकल्पनया शिवस्य॥ मुख्यशब्दजपतो मुनीश्वराः सत्यमेव परमेश्वरो भवेत्। तस्य वक्रकमले सदाशिवो नृत्यतिस्म परमेशया सहे’त्यलं विस्तरेण॥ इदानीं छलाक्षरसूत्रोक्तरीत्यैव प्रतिनामधेयमक्षराणि संचिख्यासुः श्लेषेण गुरुं प्रणमयति—मन्त्राद्यो जयति गुणी नवचरणस्त्रिंशदर्धाभः। एकार्धत्रयदेहो भूमदहारीतसप्तपाल्लेशः॥९॥ मन्त्राणामाद्यो मूलकारणं श्रीगुरुसार्वभौमो जयति सर्वोत्कर्षेण वर्तते। ‘मोक्षस्य मूलं यज्ज्ञानं तस्य मूलं महेश्वरः। तस्य पञ्चाक्षरो मन्त्रो मन्त्रमूलं गुरोर्वचः’ इति वचनात्। तमेव विशेषणैर्विशिनष्टि। गुणी परमार्थतो निर्गुणोऽपि विद्यावतारसिद्ध्यर्थं स्वीकृतानेकविग्रहः। नवे नित्यनूत्ने चरणे रक्तशुक्लाख्ये यस्य सः। तदुक्तं ‘वन्दे गुरुपदद्वन्द्वमवाङ्मनसगोचरम्। रक्तशुक्लप्रभामिश्रमतर्क्यं त्रैपुरं महः’ इति। अथवा ‘पवित्रं चरणं चक्रं लोकद्वारं सुदर्शनमि’ति कोशान्नवचक्रात्मकः। त्रैलोक्यमोहनादिसर्वानन्दमयान्तचक्रराजाभिन्न इति यावत्। त्रिंशतामधं पञ्चदशाक्षराणि श्रीविद्यान्तर्गतानि तदाभस्तत्तुल्यः। तद्रूप इत्यर्थः। ‘निरञ्जनः परमं साम्यमुपैती’दि श्रुतावभेदेऽपि तुल्यतोक्तिदर्शनात्। एको मुख्यश्चासावर्धत्रयदेहश्च अर्धं च त्रयं च। अध्युष्टमिति यावत्। तादृशी सार्धत्रिवलयाकारा कुण्डलिन्येव सर्वदेवतारूपा देह आत्मा यस्य सः। भूतुल्यो मदो महामद इत्यर्थस्तंहरति। यद्वा भूमा ब्रह्मानन्दस्तं दत्तेऽतएव हारी मनोहरः। ‘यो वैभूमा तत्मुख’मिति श्रुतेः। प्ता जटाः ताभिः सहितः सप्तः परमशिवस्तत्पादौ लाति
आदत्ते विषयीकरोतीति सप्तपाल्ला शिवपदभक्तिः इता प्राप्ता सप्तपाल्लां येन सः अतएवेशः परमशिवः शिवभक्तिवललभ्यतदभेद इति समुदितार्थः। प्ता इत्येकाक्षरस्य जटावाचकत्वं ‘स प्ताः सप्ताश्वनुन्नारुणकिरणनिभाः पातु विभ्रत्त्रिनेत्रः’ इति प्रयोगे प्रसिद्धम्। आदित्यपुराणप्रसिद्धपश्चिमोदधितीरस्थसप्तकोटीश्वरनामनिर्वचनश्लोकेऽपि। ‘अद्याप्यस्ति विपश्चितामपि महत्संदेहकोटिद्वयं यः श्रुत्या जगदीश्वरो निगदितः सप्तः किमप्तोऽथ राः। तत्रेशः प्रथमैव कोटिरिति किं निश्चायनाय स्फुटं नाम्नैव प्रथितोऽभवत्परशिवः श्रीसप्तकोटीश्वरः’ इति। अत्र सप्ताप्तशब्दौसजटनिर्जटवाचिनौ सन्तौ शिवविष्णुपरौ। ईदृश्या च रीत्योत्तरश्लोकानामपि प्रकृतोऽप्रकृतो वार्थो वर्णयितुं शक्योऽपि ग्रन्थविस्तरभयात्पण्डितैरूहितुं शक्यत्वान्निष्प्रयोजनत्वाच्च तमुपेक्ष्य नामविभागपरत्वेनैव व्याख्यान्तरं प्रस्तूयते। मन्त्राद्यो जयति मन्त्राणामादावुच्चारणीयः प्रणवो जयति। ‘ॐकारो वर्तुलस्तारो मन्त्राद्यः प्रणवो ध्रुवः’ इति मातृकाकोशात्। कालिकापुराणे ‘स्रवत्यनोंकृतं पूर्वं परस्ताच्च विशीर्यते’ इत्यनेनादावन्ते चोच्चार्यत्वेन प्रणवस्य विधानात्। अतएव शाट्यायनः ‘दानयज्ञतपःस्वाध्यायजपध्यानसंध्योपासनप्राणायामहोमदैवपित्र्य– मन्त्रोच्चारणब्रह्मारम्भादीनि प्रणवमुच्चार्य प्रवर्तये’दिति। कात्यायनोऽपि प्रणवं प्रकृत्य ‘ब्रह्मारम्भे विरामे च यागहोमादिषु शान्तिपुष्टिकर्मसु चान्येष्वपि काम्यनैमित्तिकादिषु सर्वेषु विनियोगोऽस्ये’ति। दाल्भ्यपरिशिष्टेपि ‘ब्रह्मयज्ञो जपो होमो देवर्षिपितृकर्म च। अनोंकृत्य कृतं सर्वं न भवेत्सिद्धिकारक’मिति। अतएव ‘ॐकारेण सर्वा वाक् संतृण्णे’ति श्रुतिः। सर्वो मन्त्रः संपुटित इति तदर्थः। ‘उतृदिर् हिंसानादरयो’रिति धातोः समुपसृष्टत्वे उभयमेलनार्थकतया दीर्घसोमे संतृष्णावितिविधौ ‘न संतृणत्त्यसंतृष्णेहि हनु’ इति निषेधेऽपि प्रयोगदर्शनात्। ननु सहस्रनामस्तोत्रस्य मन्त्रत्वे प्रणवपुटितत्वं युज्येत तदेव तु न संभवति मानाभावात्। अतएव त्रिशत्यां मन्त्रत्वस्याहत्य विधिः। ‘केवलानामबुद्धिस्ते न कुम्भज। मन्त्रात्मकत्वमेतेषां नाम्नां नामात्मतापि चे’तिचेत् न। ‘तच्चोदकेषु मन्त्राख्ये’त्यधिकरणे मन्त्रप्रसिद्धिविषयत्वस्यैव मन्त्रलक्षणत्वोक्तेः। अत्र च तान्त्रिकाणां मालामन्त्रत्वव्यवहारदर्शनात् ‘शिवशंकररुद्रेशमहेश्वरमृडाव्यये’तिसंदर्भे तु मन्त्रप्रसिद्धभावेन नामत्वमात्रं। ‘केवलं नामबुद्धिस्ते’ इति त्वीदृशसंदर्भस्य परिसंख्यापकं न पुनः सहस्रनामसमाख्यातस्य। अतएव ‘सहस्रनाममन्त्रोऽयं जपितव्यः शुभाप्तये’ इत्यादिवचनानि गणेशसहस्रनामादिषु दृश्यन्ते इत्याद्यन्तयोः प्रणव आवश्यकः। तस्य वर्णभेदेन स्वरभेदेन स्वरभेदादयः कालिकापुराणे स्मर्यन्ते ‘स उदात्तो द्विजातीनां राज्ञां स्यादनुदात्तकः। प्रचितश्चोरुजातानां मनसापि तथा स्मरेत्॥ चतुर्दशस्वरे योऽसौ शेष औकारसंज्ञकः। स चानुस्वारचन्द्राभ्यां शूद्राणां सेतुरुच्यते॥ शूद्राणामादिसेतुर्वा द्विसेतुर्वा यदृच्छया। द्विसेतवः समाख्याताः सर्वथैव द्विजातयः’ इति। द्विजातीनां ब्राह्मणानां राज्ञां क्षत्रियाणां। ऊरुजातानां वैश्यानां। मनसापीति वैश्यमात्रान्वयि। चन्द्रो नादः। सेतुः प्रणवः। द्विसेतव आद्यन्तप्रणवोच्चारणशीलाः। द्विजातयस्त्रैवर्णिका इति तदर्थः। यत्त्वाथर्वणब्राह्मणे
वेदभेदेन स्वरव्यवस्था श्रूयते ‘स्वरितोदात्त एकाक्षर ओंकार ऋग्वेदे, त्रैस्वर्योदात्त एकाक्षर ओंकारो यजुर्वेदे, दीर्घप्लुतोदात्त एकाक्षर ओंकारः सामवेदे, ह्रस्वोदात्त एकाक्षर ओंकारोऽथर्ववेदे स सामवेदविषयिष्वेवेति नात्रोपयुज्यते॥ एवं प्रणवं प्रदर्श्य श्रीमातेत्यादीनि त्रिषष्टिनामानि विभज्यन्ते—गुणीत्यादिना। यद्यप्यत्र मूलकारैः स्वशास्त्रोपयुक्तपरिभाषा न्यायमूलत्वेन विदुषां सुलभा इत्याशयेनैकीकृत्य न दर्शितास्तथापि शिष्यानुजिघृक्षयास्माभिरत्र कथ्यन्ते। ‘कटपयवर्गभवैरि’ति (पृ. २ पं. २३) पूर्वोक्तश्लोकं ङकारञकारयोः शून्यसंकेतः कृतः, इहतु दशत्वसंख्यायां क्रियते, तस्या एवोपेक्षणात् शून्यस्यानपेक्षणाच्च। ककारादिभिर्द्योतितसंख्याया आश्रयास्त्वेकैकनामान्तर्गताक्षराणि स्वररूपाणि। ‘चतुरश्छयतावाद्यक्षरलोपश्चे’ति पाणिनिसूत्रे ‘एष वै सप्तदशः प्रजापति’रित्यादिश्रुतिषु च संख्यायाः स्वरमात्राश्रयत्वदर्शनात्। एकद्वित्र्यादिसंख्यावाचकपदानि तु यत्र पादोऽर्धो वा विशेष्यत्वेन निर्दिश्यते तत्र तानि पादार्धात्मकनामसंख्यापराणि। यत्र च विशेष्यनिर्देशमन्तरेण प्रयुज्यन्ते तत्र समसंख्याकाक्षरनामसंख्यापराणि। तत्राप्यर्धस्यार्धयोरर्धानां वा समाप्तिपर्यन्तं यानि नामानि तत्पराण्येव न पुनस्त्रिपादपञ्चपादान्तर्गतनामपराणि। एकद्वित्रिचतुः पादाद्यन्तर्गतवर्णानां न सांकेतिकार्थं प्रयोग इति। एतदुदाहरणानि न्यायाश्चावसर एव व्यक्तीभविष्यन्ति। गुणी गकारणकारौ त्रित्वपञ्चत्वसंख्यापरौ तस्याश्च नामविशेष्यकत्वे त्रीणि पञ्च च नामानीति पर्यवसानात्तावता कतिभिरक्षरैरेकैकं नामेत्याकाङ्क्षाया अनिरासेनाकाङ्क्षितविधानं ज्याय इति सोमचयनेष्ट्यधिकरणन्यायेनाक्षराण्येव विशेष्याणि स्वीक्रियन्ते। तेषां च नामान्तरसांकर्येण विशेष्यत्वस्वीकारेऽप्युक्तदोषतादवस्थ्यादेकस्य नाम्नस्त्रीण्येवाक्षराणीत्यादिरेवार्थः सिद्ध्यति। चतुरक्षरान्तर्गताक्षरत्रयस्यावयुत्यानुवादे वैयर्थ्यात्। एतेन अज्राट् इति छलाक्षरसूत्रेऽचां षोडशसु संकेतः। इयं च संख्याऽक्षरनिष्ठा, हल्भिरुक्ता संख्या तु नामनिष्ठा। ततश्च इत्युक्ते एकं नाम त्र्यक्षरमित्यर्थ इति भ्रमो निरस्तः। प्रकृते वर्णैकत्वादेवैकं नामेत्यर्थस्य लाभात्। प्रथमं नामेति तु वर्णप्राथम्यादेव सेत्स्यतीत्यंशस्तु सूत्रेष्वत्रापि समानः। नव चरणा यस्मिन्वाक्समूहे स नवचरणः। तस्य नवधा विभज्य निर्देशबलादेकैकस्य चरणस्यैकैकनामात्मकत्वं ध्वन्यते। तथाच नवशब्दोदिता संख्या नामस्वेवान्वेति नाक्षरेषु। अत्र नवशब्दान्नवत्वसंख्याया इव नकारवकारोदितदशचतुःसंख्ययोर्झडिति न प्रतीतिः। अतः प्रतीतिशैघ्र्यमान्थर्याभ्यां संख्यावाचकपदाक्षराणामिह संभूयैकार्थप्रत्यायकत्वमेव। एकत्र चरणादिशब्दसमवधानमहिम्ना संख्यावाचकशब्दानां नामधेयान्वितस्वार्थकत्वमेव नाक्षरान्वितस्वार्थकत्वमिति सिद्धे चरणादिविशेष्यसमर्पकपदाभावेऽपि नामान्वितस्वार्धकत्वं क्लृप्तं न दण्डेन पराणुद्यते। ‘एकत्र निर्णीतः शास्त्रार्थोऽसति बाधकेऽन्यत्रापी’ति न्यायात्। ‘आदित्यः प्रायणीयः पयसि चरु’रिति विधेरस्थालीवचनस्यापि चरुशब्दस्यादितिमोदनेनेति वाक्यशेषवशादोदनार्थकत्वे निर्णीते सौर्यं चरुमित्यादौवाक्यशेषाभावेऽप्योदनार्थकत्वानपायात्। ईदृशासांकार्यसिद्ध्यर्थमेव चाक्षरसंख्यायां वाच्यायां गुणादिशब्दा-
न्तराणामेव प्रयोगो न पुनर्नवदशादिसंख्यापदाक्षराणामिति व्यवस्थापि सिद्ध्यति। त्रिंशदर्धाः। समांशस्याप्यंशत्वमात्रविवक्षायामनियतलिङ्गोऽर्धशब्दः। ‘अर्धं नपुंसक’मिति सूत्रे कः पुनः पुंलिङ्ग इति भाष्यस्यानियतलिङ्गपरत्वेनैव कैयटेन व्याख्यानात् वा, ‘पुंस्यर्धः’ इति कोशाच्च। तेन षोडशषोडशाक्षराणि त्रिंशन्नामानीत्यर्थः। भकारस्य चतुरक्षरात्मकमेकं नामेति एकपदस्य तदुत्तरमेकनामेत्यर्थे सिद्धन्यायात् द्वादशाक्षरमिति सिद्ध्यति। एकस्मिन्नर्धेतावत एव परिशेषात्। अर्थात्परतोऽर्धान्तरग्रहणे तन्मध्ये नामसमाप्त्ययोगात्। ‘यतिर्विच्छेदः’ इति पिङ्गलसूत्रेणार्धान्तेऽवसानविधानात्। अवसानस्य च पदसमाप्तिव्याप्यत्वात्। नचार्धान्न्यूनमेव नाम समाप्यतामिति वाच्यम्। तथात्वे एकपदवैयर्थ्यात्। रूपपदेन द्वादशसंख्याया। उक्तपरिभाषानुसारेण वक्तुं शक्यत्वेऽपि द्व्यक्षरैकाक्षरे नामनी इति भ्रमो माप्रसञ्जीति तथा नोक्तम्। अतएव दशाधिका संख्या पारिभाषिकानेकाक्षरसाध्यत्वान्नेह परिभाषया निर्दिश्यत इत्यपि नियमो द्रष्टव्यः। ततोऽर्धत्रयं त्रीणि नामानि। ततोऽष्टाभिरष्टाभिरक्षरैर्द्वे। ततश्चतुर्भिः पञ्चभिरष्टाभिर्द्वाभ्यां षड्भिश्चाक्षरैः षण्णामानि। ततः सप्तभिश्चरणैः सप्त। ततस्त्रिभिः पञ्चभिर्द्वे नामनी इत्येवं श्लोकार्थः॥७॥ अथ नाम्नामर्थः प्रस्तूयते—तेषु स्त्रीपुंनपुंसकलिङ्गानां नाम्नां विशेषणरूपत्वेन तेषां क्रमेण चिदात्मा ब्रह्मेत्यादीनि विशेष्यसमर्पकपदानि निर्दिष्टानि। पदानुसारीण्येव हि लिङ्गानि नतु वास्तविकं ब्रह्मण्येकमपि लिङ्गं ‘न स्त्री न षण्ढोन पुमानजेशितु’रिति विष्णुभागवतात्। ‘न त्वमम्बपुरुषो न चाङ्गना चित्स्वरूपिणि न षण्ढतापि ते। नापि भर्तुरपि ते त्रिलिङ्गता त्वां विना न तदपि स्फुरेदय’मिति कालिदासोक्तेश्च। अतएव देवताया ध्यानेऽप्यैच्छिक एव विकल्पः स्मर्यते। ‘पुंरूपं वा स्मरेद्देवि स्त्रीरूपं वा विचिन्तयेत्। अथवा निष्कलं ध्यायेत्सच्चिदानन्दलक्षण’मिति विशेष्यनिर्देशायैव वा लिङ्गत्रयसाधारणस्य प्रणवस्यादौ प्रयोगः। तस्य च समस्तस्य ब्रह्मैवार्थः। ‘ओंतत्सदिति निर्देशो ब्रह्मणस्त्रिविधः स्मृतः’ इति भगवद्वचनात्। अकारोकारमकारनादबिन्दुभिर्व्यस्तैर्ब्रह्मविष्णुरुद्रेश्वरसदाशिवानां कथनात्तत्पञ्चकरूपमिति वा। तदुक्तं बृहन्नारदीये ‘अकारं ब्रह्मणो रूपमुकारं विष्णुरूपवत्। मकारं रुद्ररूपं स्यादर्धमात्रं परात्मकम्॥ वाच्यं तत्परमं ब्रह्म वाचकः प्रणवः स्मृतः। वाच्यवाचकसंबन्धस्तयोः स्यादौपचारिकः॥’ इत्यत्र। रूपपदं वाच्यवाचकयोरभेदाभिप्रायेणाभिन्नपरम्। अतएव भेदघटितो वाच्यवाचकभावसंबन्ध औपचारिकोऽमुख्यः। व्यावहारिक इत्यर्थः। अनेनैवाशयेन पुष्पदन्तोऽप्याह ‘समस्तं व्यस्तं त्वां शरणद गृणात्योमिति पद’मिति। यज्ञवैभवखण्डे तु नानाविधा अर्था वर्णिताः ‘ज्ञातार्थं ज्ञातमित्येवं वक्तव्ये सति तद्विना। ओमिति प्राह लोकोऽयं तेन ज्ञातस्य वाचकः॥ अज्ञातार्थे तथाऽज्ञातमिति प्राप्ते तु वाचके। ओमिति प्राह लोकोऽयं तेन ज्ञातस्य वाचकः॥ संदिग्धार्थं तु संदिग्धमिति प्राप्ते तु वाचके। ओमिति प्राह लोकोऽयं तेन संदिग्धवाचकः॥ आकाशादिपदार्थानां ये शब्दा वाचका भुवि। विना तानखिलाञ्शब्दान् लोक ओमिति भाषते॥ अतः प्रयोगबाहुल्यात् घटकुड्यादिशब्दवत्। आकाशादिपदा-
श्रीमाता श्रीमहाराज्ञी श्रीमत्सिंहासनेश्वरी।
——————
र्थानां वाचकः प्रणवः स्मृतः। सर्वावभासकत्वेन ब्रह्मणा सदृशः स्मृतः॥ सर्वावभासकं मन्त्रमिमं जपति यो द्विजः। सर्वमन्त्रजपस्योक्तफलं स लभतेऽचिरात्॥’ इति। बृहत्पाराशरस्मृतिरपि ‘प्रणवो हि परं तत्त्वं त्रिवेदं त्रिगुणात्मकम्। त्रिदेवतं त्रिधामं चं त्रिप्रज्ञं त्रिवस्थितम्॥ त्रिमात्रं च त्रिकालं च त्रिलिङ्गं कवयो विदुः। सर्वमेतत्त्रिरूपेण व्याप्तं हि प्रणवेन तु॥ अग्निः सोमश्च सूर्यस्य त्रिधामेति प्रकीर्तितम्। अन्तःप्रज्ञं बहिःप्रज्ञं घनप्रज्ञमुदाहृतम्॥ हृत्कण्ठे तालुके चेति त्रिस्थानमिति कीर्त्यते। अकारोकारमकारैस्त्रिमात्र उच्यते स तु॥ कर्मारम्भेषु सर्वेषु त्रिमात्रं तं प्रकीर्तयेत्। स्थित्वा सर्वेषु शब्देषु सर्वं व्याप्तमनेन हि॥ न तेन हि विना किंचिद्वक्तुं याति गिरा यतः’ इति। गोपथब्राह्मणेऽपि ‘ओंकारं पृच्छामः को धातुः किं प्रातिपदिकं किं नामाख्यातं किं लिङ्गं का विभक्तिः कः स्वरः’ इत्यादिना महता खण्डेन तत्स्वरूपनिर्णयः पञ्चसारे प्रणवपटले व्याख्यातृभिः पद्मपादाचार्यैरपि प्रणवार्थदीपिकादिग्रन्थान्तरे च कृतो भूयानस्य विस्तरो द्रष्टव्यः॥९॥
लोके हि दुःखदशायां मातुः स्मरणं प्रसिद्धम्। अनुभूतास्तु मातरो न तापत्रयहरणसमर्थाः। तदुक्तमभियुक्तैः नानायोनिसहस्रसंभववशाज्जाता जनन्यः कति प्रख्याता जनकाः कियन्त इति मे सेत्स्यन्ति चाग्रे कति। एतेषां गणनैव नास्ति महतः संसारसिन्धोर्विधेर्भीतं मां नितरामनन्यशरणं रक्षानुकम्पानिधे॥’ इति। अतो दुरन्तदुःखहरणक्षमासु सर्वोत्तमा जगन्मातैव स्वस्मिन्दयावत्त्वापादनाय मातृत्वेनैव स्तोतव्या स्तोत्रसंदर्भप्रयोजनमोक्षादिरूपफलत्वेनापि स्तोतव्येत्याशयेनाह — श्रीति। श्रियो लक्ष्म्या माता। श्रीरिति गीरुपलक्षणं तद्वाचकमेव वा। तथाच व्याडिकोशः ‘लक्ष्मीसरस्वतीधीत्रिवर्गसंपद्विभूतिशोभासु। उपकरणवेषरचनाविद्यासु श्रीविद्ये प्रथिते’ति। तथाच श्रीगीर्जनकत्वान्नेयं तत्समानकोटिभूता रुद्राणी किंतु तत्त्रितयजनयित्री पर
मशिवमहिषी परा भट्टारिकेत्युक्तं भवति। यद्वा श्रियं लक्ष्मीं माति परिच्छिनत्ति। परिच्छेद्यापेक्षया परिच्छेदस्याधिक्यावश्यंभावादनवधिकश्रीरूपो मोक्ष इत्यर्थः। ‘सा हि श्रीरमृता सता’मिति श्रुतिप्रसिद्धम्। त्रयीं माति ब्रह्मणे बोधयति परिच्छेदेन व्यवसृजति वा। ‘यो ब्रह्माणं विदधाति पूर्वं यो वै वेदांश्च प्रहिणोति तस्मै’ ? इति श्रुतेः। प्राथमिकाभिव्यक्तिरूपा व्यासरूपा वेत्यर्थः। श्रियं विषं माति कण्ठे स्थापीतयतीति वा। अनयोः पक्षयोर्नाम पुंलिङ्गं भवति। शिवशक्त्योरमेदात्प्रकाशो विमर्शो वा विशेष्यः। श्रीमात्रेनम इति मन्त्रे विशेषाभावेऽप्यर्थानुसंधाने विशेषः। अथवा ‘अभियुक्तानां नाम श्रीपदपूर्वं प्रयुञ्जीत। श्रीचक्रश्रीशैलश्रीविद्याश्रीफलादिकव’
दिदत्याभियुक्तप्रसिद्धेर्मातेति पदमात्रस्योत्पादिकेत्यर्थः। विनिगमनाविरहात्सर्वेषामिति लाभात्। ‘यतो वा इमानि भूतानि जायन्ते’ इत्यविशेषश्रुतेश्च। अतएव निरूपदा एवेश्वरेशानादिशब्दाः परशिववाचकाः। अतश्च ‘ईशानो भूत-
भव्यस्ये’त्यादाविव जगन्मातेति क्वचित्प्रतिसंबन्धिनिर्देशेऽपि मातृपदमात्रस्य त्रिपुरसुन्दरीवाचकत्वं न विहन्यते। यद्वा हसकलरडेति व्यञ्जनषट्कस्य बालायाः स्वरत्रयेणान्ते योजने कूटत्रयात्मको जायमानो मन्त्रो मातेत्युच्यते। ‘माया कुण्डलिनी क्रिया मधुमती’ति मन्त्रपारायणोद्धारश्लोके मातृपदस्य तथा वृद्धैर्व्याख्यानादिति मन्त्रोद्धारपरा व्याख्यावगन्तव्या। राजशब्दान्नान्तत्वान्ङीपि कृते पश्चान्महच्छब्देन समासे ‘आन्महतः’ इत्यात्वे श्रीयुक्ता महाराज्ञीति मध्यमपदलोपसमासे रूपं नतु महाराजशब्दाट्टित्वान्ङीप्। तथात्वे महाराजीत्यापत्तेः। सकलप्रपञ्चजातपालनेऽधिकृतेत्यर्थः। राजशब्दशक्यतावच्छेदकनृपत्वकोटौ पालनस्य निविष्टत्वात्। तथाच श्रुतिः ‘येन जातानि जीवन्ती’ति। अत्र श्रीविद्यायां निगूढस्याक्षरत्रयस्योद्धारः। तत्रैकं तावत्षोडशीकलेत्युच्यते। ‘सच्छिष्यायोपदेष्टव्या गुरुभक्ताय सा कले’ति वचनात्प्रायेणाधुनिकैर्बहुभिर्गुरुमुखाज्ज्ञातम्। तच्च ‘शिवः शक्तिः कामः’ इति विद्योद्धारश्लोके सौन्दर्यलहरीव्याख्यानोल्लेखने प्रकटीकृतं चतुर्लक्ष्मीमनुषु प्राथमिको मन्त्र इति। इतरद्वयं प्रकाशविमर्शरूपम्। तदुक्तं संकेतपद्धतौ’अकारः सर्ववर्णाग्र्यः प्रकाशः परमः शिवः। हकारोंत्यः कलारूपो विमर्शाख्यः प्रकीर्तितः॥’ इति। अनयोरपि रहस्यत्वादेव ‘मध्यबिन्दुविसर्गान्तः समास्थानमये परे। कुटिलारूपके तस्याः प्रतिरूपं वियत्कले’त्यादिभिर्गुढार्थैरेव श्लोकैर्योगिनीहृदये स्वरूपनिष्कर्षः कृतः। तत्प्रकाशनं चास्माभिर्वरिवस्यारहस्यसेतुबन्ध एव कृतमिति नेह प्रतन्यते। राज्ञीत्यंशेन मायाराज्ञीमन्त्रोद्धारः। अतएव न टच्प्रत्ययान्तत्वेन प्रयोगः। नृपाधिष्ठितमासनं सिंहासनमुच्यते। आसनेषु सिंहः श्रेष्ठइत्यर्थे राजदन्तादित्वात्पूर्वनिपातः। श्रीमत्प्रपञ्चसाम्राज्यलक्ष्मीवच्च तत्सिंहारानं च तस्येश्वरी ईशित्री।सिंहाभिन्नमासनमिति वा। देव्याः सिंहासनारूढत्वात्। तदुक्तं देवीपुराणे नामनिर्वचनाध्याये ‘सिंहमारुह्य कन्यात्वे निहतो महिषोऽनया। महिषघ्नी ततो देवी तथा सिंहासनेश्वरी’ति। यद्वा सिंहशब्दो हिंसार्थकः। तदुक्तं। वैयाकरणैः ‘हिसिधातोः सिंहशब्दो वशकान्तौ शिवः स्मृतः। वर्णव्यत्ययतः सिद्धौ पश्यकः कश्यपो यथे’ति। तेन सिंहेन हिंसया असनं क्षेपणं निरास इति यावत्। ‘असु क्षेपणे’ इति धातोर्ल्युट्। संहार इति समुदायार्थः। तत्रेश्वरी समर्था। तथा च श्रुतिः ‘यत्प्रयन्त्यभिसंविशन्ती’ति। यद्वा मकारः पञ्चसंख्यापरः। सन्ति सिंहासनसमाख्याताश्चैतन्यभैरव्यादिसंपत्प्रदा भैरव्यन्ता अष्टौ मन्त्राः। तेषु त्रयं युग्मरूपं द्वयमेकैकरूपमित्येवं पञ्चैव दिङ्मध्यभेदेन सिंहासनानि ज्ञानार्णवे कथितानेि ‘पञ्चसिंहासनगता कथं सा त्रिपुरा परा। कथयस्व महेशान कथं सिंहासनं भवे’दिति पृष्टे ‘प्रथमं शृणु देवेशि ब्रह्मा सृष्टिकरो यदा। निश्चेतनोऽथ देवेशीं तदात्रिपुरसुन्दरीम्। समाराध्याभवत्कर्ता सृष्टेस्तु परमेश्वरि। ब्रह्माणं तं समाराध्य तपसा महता प्रिये। शक्रोऽभूद्देवराजोऽयं पूर्वस्यां दिशि पालकः। तदा प्रसन्ना त्रिपुरा पूर्वसिंहासने स्थिते’त्यादिना। तेषां पञ्चसिंहासनानामीश्वरीमित्यनेन मन्त्रोद्धारः। एवं त्रिभिर्नामभिः सृष्टिस्थितिलयकर्तृत्वेन ब्रह्म लक्षयित्वा प्रकृतपुराणोक्तमातृप्रादुर्भावादिकथाक्रमं प्रा-
चिदग्निकुण्डसंभूता देवकार्यसमुद्यता॥५२॥
उद्यद्भानुसहस्राभा चतुर्बाहुसमन्विता।
——————
येणाश्रयन्नेव तिरोधानानुग्रहापरपर्यायबन्धमोक्षप्रदत्वेनापि सप्रपञ्चं लक्षयितुमुपक्रमते — चिदग्नीत्यादिना शिवशक्त्यैक्यरूपिणीत्यन्तेन। चित् केवलं ब्रह्म तदेवाग्निकुण्डं अविद्यालक्षणतमोविरोधित्वात्। ‘अन्तर्निरन्तरनिरिन्धनमेधमाने मोहान्धकारपरिपन्थिनि संविदग्ना’वित्यादौ चिद्वह्निरूपकप्रयोगदर्शनात्। शक्तिसूत्रमपि ‘चिद्वह्निरवरोधपदे छन्नोऽपि चिन्मात्रयामेयेन्धनं पुष्यती’ति। तद्भाष्यं च चितिरेव विश्वग्रसनशीलत्वाद्वह्निरिति। तत्र सम्यक् अभेदेन भूता स्थिता चैतन्याख्यधर्मरूपेणावस्थिता नतु जाता। ‘तत्र जातः’ ‘तत्र भवः’ इति पाणिनिना भूजनिधात्वोर्भेदेन कीर्तनात् शक्तिशक्तिमतोरभेदाच्च। तदुक्तं संक्षेपशारीरकाचार्यैः ‘चिच्छक्तिः परमेश्वरस्य विमला चैतन्यमेवोच्यते’ इति। यद्वा प्रसिद्धमग्निकुण्डमेव चित्। चिदग्निपदयोरेव वोपमितसमासः। ‘ज्ञानाग्निः सर्वकर्माणि भस्मसात्कुरुतेऽर्जुने’त्यादौ रूपकदर्शनात्। तस्य कुण्डात्संभूता प्रादुर्भूता उत्पन्नेत्यर्थः। ‘धुंधुमारस्ततोऽभवदि’त्यादौ भवतेरुत्पत्तावपि प्रयोगात्। तदुक्तं रेणुकापुराणे ‘रेणुनामाभवत्पुत्र इक्ष्वाकुकुलवर्धनः’ इत्यारभ्य तस्य तपो देवीवरं च वर्णयित्वा ‘एतस्मिन्नन्तरे यज्ञे वह्निकुण्डाच्छनैर्द्विज। दिव्यरूपान्विता नारी दिव्याभरणभूषिते’त्यारभ्य ‘वह्नेः शीतांशुबिम्बाभा सहसा निर्गता बहिः। एकैव तु जगद्धात्री द्वितीया नास्ति काचने’त्यन्तेन। ब्रह्माण्डपुराणेऽपि भण्डासुरपीडितं शक्रं निर्वर्ण्य ‘कुण्डं योजनविस्तारं सम्यक्कृत्वातिशोभन’मित्यादिना चिदग्निकुण्डे देवैः कृतं स्वस्वमांसहोममुक्त्वोक्तम् ‘होतुमिच्छत्सु देवेषु कलेवरमनुत्तमम्। प्रादुर्बभूव परमं तेजःपुञ्जमयं महत्। कोटिसूर्यप्रतीकाशं चन्द्रकोटिसुशीतलम्। तन्मध्यतः समुदभूच्चक्राकारमनौपमम्। तन्मध्यतो महादेवीमुदयार्कसमप्रभा’मित्यारभ्य ‘तां विलोक्य महादेवीं देवाः सर्वे सवासवाः। प्रणेमुर्मुदितात्मानो भूयोभूयोऽखिलात्मिका’मित्यन्तम्। नित्याया उत्पत्त्यसंभवमाशङ्क्य समाधत्ते — देवकार्येति। देवानां कार्याणि भण्डासुरमहिषासुरवधादीनि तदर्थमुद्यता आविर्भूता। प्रकृतिविकृतिभावाभावेन तादर्थ्यचतुर्थ्यन्तेन सह समासायोगेऽपि शेषषष्ठ्यासमासः। तदुक्तं मार्कण्डेयपुराणे ‘देवानां कार्यसिद्ध्यर्थमाविर्भवति सा यदा। उत्पन्नेति तदा लोके सा नित्याप्यभिधीयते॥’ इति। कूर्मपुराणेऽपि हिमवन्तं प्रति भगवत्योक्तं ‘अहं वै याचिता देवैः संस्मृता कार्यगौरवात्। विनिन्द्य दक्षं पितरं ममेश्वरविनिन्दकम्। धर्मसंस्थापनार्थाय तवाराधनकारणात्। मेनादेहात्समुत्पन्ना त्वामेव पितरं श्रिते’त्यादि॥५२॥ एवं चिद्रूपत्वेन प्रकाशात्मकतामुक्त्वा विमर्शात्मकं रूपमाह —उद्यदिति। भानूनां किरणानां सहस्रं यस्य स भानुसहस्रः सूर्यः। तस्योद्यत्त्वं विशेषणं। वर्तमानकालिकोदयवत्त्वं तदर्थः। वर्तमाने लटः शतृशानचोर्विधानात्। तेन लौहित्यं ध्वन्यते। उद्यतां भानूनां रक्तसूर्याणां यत्सहस्रमानन्त्यं तेन तुल्येति वा। अतिलोहितेति फलितोऽर्थः। उक्तं हि स्वतन्त्रतन्त्रे ‘स्वात्मैव
रागस्वरूपपाशाढ्या क्रोधाकाराङ्कुशोज्वला॥५३॥
मनोरूपेक्षुकोदण्डा पञ्चतन्मात्रसायका।
निजारुणप्रभापूरमज्जद्ब्रह्माण्डमण्डलां॥५४॥
——————
देवता प्रोक्ता ललिता विश्वविग्रहा। लौहिलं तद्विमर्शः स्यादुपास्तिरिति भावने’ति। वामकेश्वरतन्त्रेऽपि ‘स्वयं हि त्रिपुरा देवी लौहित्यं तद्विमर्शन’मिति। ईदृशप्रकाशविमर्शसामरस्यापन्नाया देव्यास्त्रीणि रूपाणि स्थूलं, सूक्ष्मं, परं चेति। करचरणादिविशिष्टं स्थूलं, मन्त्रमयं सूक्ष्मं, वासनामयं परम्। तदुक्तं योगवासिष्ठे भगवता ‘सामान्यं परमं चेति द्वे रूपे विद्धि मेऽनघ। पाण्यादियुक्तं सामान्यं यत्तु मूढा उपासते॥ परं रूपमनाद्यन्तं यन्ममैकमनामयम्। ब्रह्मात्मपरमात्मादिशब्देनैतदुदीर्यते॥’ इत्यादि। ‘सामान्यं द्विविधं प्रोक्तं स्थूलसूक्ष्मविभेदत’ इत्यन्यत्रापि। यत्तु गङ्गादीनां जलादिमयं रूपं तत्स्थूलतरं चतुर्थम्। सूक्ष्मस्यापि पुनस्त्रैविध्यं वक्ष्यते। तेषु स्थूलं निर्दिशति—चतुरिति। ध्यानोक्तावयवमन्त्रोपलक्षणमेतत्। बाहुमात्रपरमेव वा। बाहुप्रसङ्गादायुधानां त्रिविधं रूपमाह —रागेतिचतुर्भिः। रागोऽनुरक्तिश्चित्तवृत्तिविशेषः इच्छैव वा। राग एव स्वं वासनामयं रूपं यस्य स्थूलस्य पाशस्य तेनाढ्या वामाधःकरेत्युक्ता। क्रोधो द्वेषाख्या चित्तवृत्तिः। आकारशब्दादर्शआद्यचि आकारं सविषयकं ज्ञानमित्यर्थः। घटोऽयमित्याकारकं ज्ञानमित्यादौ विषयपरत्वेनाकारपदप्रयोगात्। क्रोधपदमेव ज्ञानपरमिति तु कश्चित्। तत् ‘क्रोधोऽङ्कशङ्कुः’ इति श्रुतिविरोधाद्वक्ष्यमाणस्मृतावेव ज्ञानपदस्य क्रोधपरत्वसंभवादयुक्तम्। तस्मात् द्वेषज्ञानोभयात्मकेनाङ्कुशेनोज्वला शोभमानदक्षाधःकरा। तथाचोक्तं पूर्वचतुःशतीशास्त्रे ‘पाशाङ्कुशौ तदीयौ तु रागद्वेषात्मकौ स्मृता’विति। तन्त्रराजेऽपि वासनापटले ‘मनो भवेदिक्षुधनुः पाशो राग उदीरितः। द्वेषः स्यादङ्कुशः पञ्चतन्माःत्रापुष्पसायकाः॥’ इति। उत्तरचतुःशतीशास्त्रे तु ‘इच्छाशक्तिमयं पाशमङ्कुशं ज्ञानरूपिणम्। क्रियाशक्तिमये बाणधनुषी दधदुज्वल’मित्युक्तम्॥५३॥ संकल्पविकल्पात्मकक्रियारूपं मन एव रूपं यस्य तादृशमिक्षुरूपं पुण्ड्रेक्षुमयं कोदण्डं धनुर्यस्या वामोर्ध्वकरे सा तथोक्ता। पञ्चसंख्यानि तन्मात्राणि शब्दादीनि विषयाः तदेव तन्मात्रम्। पञ्चभूतानामेतदेव रूपमित्यर्थः। तदुक्तं महास्वच्छन्दसंग्रहे ‘भूतमात्रस्वरूपोऽर्थविशेषाणां निरूपकः। शब्दस्तु शब्दतन्मात्रं मृदूष्णकविनिश्चयः॥ विशिष्टस्पर्शरूपश्च स्पर्शतन्मात्रसंज्ञकः। नीलपीतत्वशुक्लत्वविशिष्टं रूपमेव च॥ रूपतन्मात्रमित्युक्तं मधुरत्वाम्लतायुतम्। रसतन्मात्रसंज्ञं तु सौरभ्यादि विशेषतः॥ गन्धः स्याद्गन्धतन्मात्रं तेभ्यो भूतपञ्चक’मिति। एतानि तन्मात्राण्येव सायका बाणा यस्या दक्षोर्ध्वकरे सा तथोक्ता। तदुक्तं वामकेश्वरतन्त्रे ‘शब्दस्पर्शादयो बाणा मनस्तस्याभवद्धनु’रिति। कादिमतेऽपि ‘बाणास्तु त्रिविधाः प्रोक्ताः स्थूलसूक्ष्मपरत्वतः॥ स्थूलाः पुष्पमयाः सूक्ष्मा मन्त्रात्मानः समीरिताः। पराश्च वासनायां तु प्रोक्ताः स्थूलान् शृणु प्रिये॥ कमलं कैरवं रक्तं कह्लारेन्दीवरे तथा। सहकारक-
चम्पकाशोकपुन्नागसौगन्धिकलसत्कचा।
कुरुविन्दमणिश्रेणीकनत्कोटीरमण्डिता॥५५॥
——————
मित्युक्तं पुष्पपञ्चकमीश्वरी’ति। तेषां नामानि तु कालिकापुराणे ‘हर्षणं रोचनाख्यं च मोहनं शोषणं तथा। मारण चेत्यमी बाणा मुनीनामपि मोहदाः॥’ इति। ज्ञानार्णवे तु ‘क्षोभणं द्रावणं देवी तथाकर्षणसंज्ञकम्। वश्योन्मादौ क्रमेणैव नामानि परमेश्वरी’ति। तन्त्रराजे तु ‘मदनोन्मादनौपश्चात्तथा मोहनदीपनौ। शोषणश्चेति कथिता बाणाः पञ्च पुरोदिताः॥’ इति॥ अथायुधमन्त्रोद्धारः। रश्च अगश्च स्वं च तेषां समाहारो रगस्वम्। अगशब्देन स्थाणुर्हकारः। ‘हः शिवो गगनं स्थाणु’रिति कोशात्। स्वं सबिन्दुक ईकारः। तेन रेफहकारेकारबिन्दुसमाहारो रूपं सूक्ष्माख्यं यस्य पाशस्येत्यादि। हकारोत्तरमिह रेफोऽवगन्तव्यः संप्रदायात्। क्रोच धश्चआ च क्रोधाः। तदुपरि श्रूयमाणः कारप्रत्ययो द्वन्द्वान्तत्वात्प्रत्येकं संबध्यते। क्रोकारधकाराकारा इत्यर्थः। तेऽङ्कुशेनोज्वलाः अनुस्वारेण शोभमानाः। कौ शेत इति कुशः अंकाराभिन्नः कुशोऽङ्कुशः। मन इति थकारस्य संज्ञा। थकाराधिकारे ‘दक्षनासाधिपो मन’ इति कोशात्। कोदण्डोऽनुस्वारः ‘अकारश्चंचुकोदण्ड’ इति कोशात्। मनोरूपः कोदण्डः थकाराभिन्नोंकारः क्रोधाकारेत्यादिनामसु दकाररेफककारलकारयकारसकारवकारा आ ई ऊ स्वगः सबिन्दुका विवक्षिताः। इतरदविवक्षितम्। तेषां यथासंप्रदायं योगे बाणबीजानि सिद्ध्यन्तीति। आयुधबीजविभागस्तु गुरुमुखादवगन्तव्यः। निजः स्वकीयो योऽरुणप्रभाया रक्तिमकान्तेः पूरः प्रवाहस्तस्मिन्मज्जन्ति तदभेदेन भासमानानि ब्रह्माण्डानां मण्डलानि यस्याः सा। प्रातःकाले सौभााग्यादिन्यासविशेषेषु यादृशं ध्यानं विहितमस्ति तादृशरूपवतीत्यर्थः॥५४॥ इदानीं अग्निकुण्डापादानकस्थूलरूपप्रादुर्भावे शीर्षस्य प्रथमत्वाद्देवीमुखाभिन्नवाग्भवकूटस्य पञ्चदश्यां प्रथमत्वाच्च शीर्षमारभ्यैव पादपद्मान्तं वर्णयितुमारभते। चम्पकादिशब्दा वृक्षे शक्ता अपि तत्तत्पुष्पेष्वपि निरूढलाक्षणिकाः। ‘द्विहीनं प्रसवे सर्व’मित्यग्निपुराणकोशात्। चम्पकानि चेत्यादि द्वन्द्वः। सौगन्धिकानि कह्लाराणि तैः पुष्पैः लसन्तः शोभमानाः कचाः शिरोरुहा यस्याः सा। लसच्छब्दोऽन्तर्भावितण्यर्थो वा। तेन पुष्पेषु स्वीयपरिमलापादकाः कचा इति फलति। तदुक्तम् ‘जानासि पुष्पगन्धान्भ्रमर त्वं ब्रूहि तत्त्वं मे। देव्याः केशकलापे गन्धः केनोपमीयेते’ति। कुरुविन्दमणयः पद्मरागाख्याः। शोणाः कामानुरागादिबहुगुणशीला रत्नविशेषाः। तदुक्तं गरुडपुराणे रत्नाध्याये ‘तस्यास्तटेषूज्ज्वलचारुरागा भवन्ति तोयेषु च पद्मरागाः। सौगन्धिकोत्थाः कुरुविन्दजाश्च महागुणाः स्फाटिकसंप्रसूताः॥’ सौगन्धिककुरुविन्दस्फटिकाद्यन्तर्गतपाषाणादिप्रभेदास्तद्गर्भे पद्मरागमणीनामुत्पत्तिः। तेषु कुरुविन्दोद्भवेष्वेव ‘बन्धूकगुञ्जाशकलेन्द्रगोपजपाशशासृक्समवर्णशोभाः। भ्राजिष्णवो दाडिमयीजवर्णास्तथापरे किंशुकवर्णभासः॥’ इति। अत्र तरया इत्यस्य रावणगङ्गाया इत्यर्थः। ‘ये तु रावण गङ्गायां जायन्ते कुरुविन्द-
अष्टमीचन्द्रविभ्राजदलिकस्थलशोभिता।
मुखचन्द्रकलङ्काभमृगनाभिविशेषका॥५६॥
वदनस्मरमाङ्गल्यगृहतोरणचिल्लिका।
चक्रलक्ष्मीपरीवाहचलन्मीनाभलोचना॥५७॥
नवचम्पकपुष्पाभनासादण्डविराजिता।
ताराकान्तितिरस्कारिनासाभरणभासुरा॥५८॥
कदम्बमञ्जरीक्लृप्तकर्णापूरमनोहरा।
ताटङ्कयुगली भूततपनोडुपमण्डला॥५९॥
——————
काः। पद्मरागा घनाकारं विभ्राणाः सुस्फुटार्चिषः॥’ इत्युपक्रमात्। गुणातिशयोऽपि तत्रैव कथितः ‘कामानुरागः कुरुविन्दजेषु शनैर्न तादृक् स्फटिकोद्भवेषु। माङ्गल्ययुक्ता हरिभक्तिदाश्च वृद्धिप्रदास्ते स्मरणाद्भवन्ती’ति। ईदृशानां श्रेण्या पङ्क्त्या कनता दीप्यमानेन कोटीरेण मुकुटेन मण्डिता। ईदृशविशेषणविशिष्टां देवीं ध्यायतां भक्त्याद्यभिवृद्धिर्भवतीति ध्वनिः॥ कुरुविन्दाश्च मणयश्चेति द्वन्द्व इति तु कश्चित्। तद्रत्नोत्पत्त्यज्ञानात्॥५५॥ चन्द्रस्याष्टमी कला यस्यां तिथौ वर्धते ह्रसति वा सा तिथिरष्टमीत्युच्यते। तत्संबन्धी यश्चन्द्रोऽष्टकलायुक्तः समचन्द्रार्धमितियावत्। तद्वद्विभ्राजता विराजमानेन अलिकस्थलेन ललाटदेशेन शोभिता। ‘ललाटमलिकं गोधि’रित्यग्निपुराणीयकोशात्। मुखमेव चन्द्र इति रूपकं तत्कलङ्कत्वेन तुल्यो मृगनाभेः कस्तूर्या विशेषकः तिलको यस्यास्तथोक्ता। कलङ्कतिलकयोरुपमानोपमेयभावः॥५६॥ वदनमेव स्मरस्य कामराजस्य माङ्गल्यगृहं तस्य तोरणो बहिर्द्वारमेव चिल्लिका भ्रूलता यस्याः। ‘चिल्लिका भ्रूलतायां स्यादिति नामकल्पद्रुमः। ‘आभुग्नमसृणचिल्ली’ति ललितास्तवरत्नं च। परम्परितरूपकम्। प्राचीनपाठप्रयोगाच्चिल्लीशब्द एव भ्रूपरो ज्ञेयः। वक्रलक्ष्म्या मुखकान्तेः परीवाहे जलपूरे चलद्भ्यां चञ्चलाभ्यां मीनाभ्यां तुल्ये लोचने यस्याः। मीनस्येवेक्षणं यस्या इति वा। मीनानां वीक्षणमात्रे शिशूनामभिवृद्धिर्नतु स्तन्यदानादिनेति प्रसिद्धेः। तेन कटाक्षमात्रेण भक्तपोषकेत्यर्थः॥५७॥ नवं नूतनं चम्पकस्य पुष्पं नतु केवलकलिका। ईषद्विकसिता गन्धफलीति यावत्। तेन तुल्यो यो नासादण्डस्तेन विराजिता। तारा मङ्गलाख्या शुक्लाख्या च तारकादेवीविशेषो वा तयोः कान्तिं तिरस्करोति जयतीति तथा तादृशेन नासाभरणेन माणिक्यमौक्तिकादिभ्यां घटितेन भासुरा शोभमाना॥५८॥ कदम्बमञ्जर्या नीपवल्लर्या क्लृप्तः कल्पितः कर्णपूरः कर्णोपरिभागे अवस्थाप्यमानः शेखरस्तेन मनोहरा रमणीया। ताटङ्कयुगलं कर्णाभरणद्वयं तस्य स्वर्णादिभवस्य प्रकृतेऽभावात् अभूततद्भावे च्विः। तथा संपद्यमाने तपनस्य सूर्यस्योडुपस्य चन्द्रस्य च मण्डले यस्याः। तदुक्तम् ‘सूर्यचन्द्रौस्तनौदेव्यास्तावेव नयने स्मृतौ। उभौ ताटङ्कयुगलमित्येषा वैदिकी श्रुति’रिति॥५९॥ पद्मरागशिलै-
पद्मरागशिलादर्शपरिभाविकपोलभूः।
नवविद्रुमबिम्बश्रीन्यक्कारिरदनच्छदा॥६०॥
शुद्धविद्याङ्कुराकारद्विजपङ्क्तिद्वयोज्ज्वला।
कर्पूरवीटिकामोदसमाकर्षिदिगन्तरा॥६१॥
——————
वातिनिर्मलत्वात्प्रतिबिम्बग्राहित्वाच्चादर्शो दर्पणं तं परिभवत्यवजानाति। ततोऽप्यतिशयेन “कामेश्वरप्रतिबिम्बग्राहित्वाच्छोणत्वाच्च। ईदृशी कपोलभूर्गण्डभित्तिर्यस्याः। नवां नूतनां विद्रुमबिम्बयोः पक्वप्रवालतुण्डीफलयोः श्रियं कान्ति न्यक्कुरुतोऽधः कुरुतस्ततोऽप्यधिक्येनौन्नत्यात्। तादृशौ रदनच्छदावोष्ठौ यस्याः॥६०॥ ‘सा भवति शुद्धविद्या येदन्ताहन्तयोरभेदमति’रित्युक्तेर्दत्तात्रेयसंहितादिषु श्रीविद्यायास्तादृशाभेदपरत्वेन व्याख्यानात्सैव शुद्धविद्योच्यते। शुद्धाया अविद्यामलप्रतिस्पर्धिन्या विद्यायाः षोडशीरूपाया अङ्कुराणामिवाकारः स्वरूपं यस्य तेन द्विजपङ्क्तिद्वयेन दन्तपङ्क्तियुगलेनोज्ज्वलाशोभमाना। श्रीमातुर्हि मूलाधारादिभ्यः परापश्यन्त्यादिक्रमेण वैखर्यात्मना मुखान्निःसृतासती षोडशीविद्या पश्चात्कर्णाकर्णोपदेशेन विस्तृताभूत्। तत्र शब्दब्रह्मरूपस्य बीजस्योच्छूनतावस्था परा, स्फुटितावस्था पश्यन्ती, मुकुलिताव्यक्तं दलद्वयं मध्यमा, सम्यग्विकासेन प्रसृतं मिथः संसृष्टमूलं दलद्वयं वैखरी। तदेव चाङ्कुरपदवाच्यम्। तद्दशायां दन्तसाम्यमप्यस्त्येव। षोडशाक्षराङ्कुराणां प्रत्यङ्कुरं दलद्वयाद्द्वात्रिंशद्दन्तसंख्यासंपत्तिरपि। अतस्तान्यङ्कुराण्येव मूर्तिमन्ति दन्तरूपाणीति तात्पर्यम्। द्विजशब्दश्लेषेण समासोक्त्यलंकारेणार्थान्तरमपि। वेदादयो विद्या हि ब्राह्मणमेवाश्रित्य तिष्ठन्ति ‘विद्या ह वै ब्राह्मणमाजगामे’ति श्रुतेः। तेनाऽप्रतिष्ठाःसत्योऽन्यत्र विस्तरं प्राप्नुवन्ति। अतो हेतोर्ब्राह्मणा एव विद्याङ्कुररूपाः। ततश्च शुद्धा निर्मला विद्याङ्कुराकारा च सती या द्विजानां ब्राह्मणानां पङ्क्तिस्तद्द्वयेनोज्ज्वला। ब्राह्मणानामप्यम्बामुखान्निःसृतत्वेन त एव मूर्तिमन्तो दन्ता इति तात्पर्यम्। यद्वा ‘शुद्धविद्या च बाला च द्वादशार्धा मतङ्गिनी’त्यादिक्रमेणानुत्तरपर्यन्ता द्वात्रिंशद्दीक्षास्तन्त्रेषु प्रसिद्धास्ता द्विजपङ्क्तिपदेनोच्यन्ते। दीक्षाया अपि जन्मरूपत्वात्। उपनयनापेक्षया द्वितीयत्वाच्च। ‘दीक्षा जन्म तृतीयं स्या’दिति वचनस्य मातुरुदराजन्ममेलनाभिप्रायकत्वेनाविरोधात्। शुद्धविद्या त्र्यक्षरी सैवाङ्कुरमारम्भो यस्याः सा शुद्धविद्याङ्कुरा। अकारेत्यत्राङः परतोऽकारप्रश्लेषेणाङ्कुरयोरभिविध्यनुत्तरवाचकत्वेनानुत्तरपर्यन्तेत्यर्थः। शुद्धविद्याङ्कुरा च सा आकारा च सा द्विजपङ्किश्चेति कर्मधारयोत्तरं तस्या द्वयेनोज्ज्वला भासमानेति विग्रहः। संप्रदायक्रमायातद्वात्रिंशद्दीक्षितान्तःकरणैः पुरुषधौरेयैरेव लभ्या नान्यैरिति भावः। ‘एलालवङ्गकर्पूरकस्तूरीकेसरादिभिः। जातीफलदलैः पूगैर्लाङ्गल्यूषणनागरैः। चूर्णैः खदिरसारैश्च युक्ता कर्पूरवीटिके’ति लक्षणलक्षितस्य ताम्बूलस्यामोदं परिमलं समाकर्षन्ति स्वस्वाभिमुख्येन प्रसारयन्ति या दिशः प्राच्याद्या दश देवतास्ता एवान्तरं परिधानं यस्याः सा। ताभिदैवताभिरम्बामुखकमलविगलत्ताम्बूलकवलनापेक्षिणीभिरपि तदलभात्प्रथमनिःसृ-
निजसंलापमाधुर्यविनिर्भर्त्सितकच्छपी।
मन्दस्मितप्रभापूरमज्जत्कामेशमानसा॥६२॥
अनाकलितसादृश्यचिबुकश्रीविराजिता।
कामेशबद्धमाङ्गल्यसूत्रशोभितकन्धरा॥६३॥
कनकाङ्गदकेयूरकमनीयभुजान्विता।
तपरिमल एवाहंपूर्विकया यौगपद्येन समाकृष्य सर्वाभिर्गृह्यते। तल्लिप्सयैव हि ता आवृत्त्या परितोऽदृश्यवेषेण स्थिता इति तात्पर्यगत्योत्प्रेक्षाध्वननादिह वस्तुनालंकारध्वनिः। अथवा यस्या वीटिकामोदेन परिमलातिशयेन समाकर्षीणि सुरभिलानि दिगन्तराणि सेति। ‘आमोदः सोऽतिनिर्हारी वाच्यलिङ्गत्वमागुणात्। समाकर्षी तु निर्हारी सुरभिर्घ्राणतर्पणः’ इत्यमरः॥६१॥ निजस्य स्वीयस्य स्वतःशोभनस्य ब्रह्मविषयकस्य वालापस्य वर्णात्मकशब्दस्य माधुर्येण मञ्जुलतया विशिष्य निःशेषेण भर्त्सिता तिरस्कृता कच्छपी वीणा यया सा। समासान्तविधेरनित्यत्वात् ‘नद्यृतश्चे’ति न कप्। कच्छपस्य स्त्री कच्छपीति तु कश्चित्। तत् ‘कच्छपी महती वीणे’त्यादिकोशदर्शनात्। अमरकोशशेषोऽपि वीणामधिकृत्याह ‘विश्वावसोः सा बृहती तुम्बुरोस्तु कलावती। सा नारदस्य महती सरस्वत्यास्तु कच्छपी’ति। लोके हि वर्णाभिव्यक्तेरभावेऽपि षड्जादिस्वराभिव्यक्तिमात्रेण ज्ञातचरानेव वर्णानुन्नीय माञ्जुल्यमात्रलिप्सयैव हि वीणानादे रुचिरित्यनुभवः। कच्छप्यास्तु सारस्वतत्वादेव शुकसारिकादिवदीषत्स्पष्टवर्णाभिव्यक्तिरप्यस्ति। स्पष्टतरवर्णाभिव्यक्तितदधिकमाधुर्यशालिनः संलापस्य तु सर्वातिशयत्वे नास्ति विवाद इति। अतएव सौन्दर्यलहर्यां ‘विपञ्च्या गायन्ती विविधमपदानं पशुपतेस्त्वयारब्धे वक्तुं चलितशिरसा साधुवचने। तदीयैमाधुर्यैरपलपिततन्त्रीकलरवां निजां वीणां वाणीं निचुलयति चोलेन निभृत’मिति स्मितमीषद्धासः सोऽपि मन्दः तस्य प्रभापूरे लावण्यप्रवाहे मज्जतीति मज्जत् नतु नग्नम्। एकत्र मग्नस्यावयवान्तरसंचारविलोपापत्तेः। इदं त्ववयवान्तरसंचारार्थं यतते तस्मान्निःसर्तुं नाभिवाञ्छति चेति वर्तमाननिर्देशेन ध्वनितम्। कामः कलाशरीरघटको बिन्दुरग्नीषोमाख्यो रविः। तदुक्तं कामकलाविलासे ‘बिन्दुरहंकारात्मा रविरेतन्मिथुनसमरसाकारः। कामः कमनीयतया कला च दहनेन्दुविग्रहौ बिन्दु’रिति। स एवेश्वरो राजराजेश्वरस्तस्य मानसं यस्याः सा तथोक्ता। मीमांसकमते विभुनोऽपि मनसो मज्जनकथनेन प्रभापूरस्य निरवधिकाधिकाधिक्यं ध्वन्यते॥६२॥ वाग्देवतामारभ्याद्य यावद्वर्णयितुं प्रवृत्तैःकविभिरनाकलितं आसमन्तादभिव्याप्य न कल्पितं सम्यक् न लब्धं सरसोपमानस्यालाभात्। अपितु मुखमुकुरवृन्तरूपयत्किंचिदुपमानेन लब्धप्रायं यत्सादृश्यमौपम्यं यस्यास्तादृश्या चिबुकश्रिया विराजिता। कामेशेन परमशिवेन बद्धं यन्माङ्गल्यसूत्रं कामोज्जीवनहेतुभूतं सौभाग्याभरणं तेन शोभिता कन्धरा शिरोधिर्यस्याः॥६३॥ अङ्गं ददातीत्यङ्गदं शरीरघटकमित्यर्थः। कनकमेवाङ्गदं येषां तैः सुवर्णैकशरीरकैः। केयूरैर्दो-
रत्नग्रैवेयचिन्तकिलोलमुक्ताफलान्विता॥६४॥
कामेश्वरप्रेमरत्नमणिप्रतिपणस्तनी।
नाभ्यालवालरोमालिलतोफलकुचद्वयी॥६५॥
लक्ष्यरोमलताधारतासमुन्नेयमध्यमा।
स्तनभारदलन्मध्यपट्टबन्धवलित्रया॥६६॥
——————
र्भूषणैश्चतुर्भिः कमनीया रमणीया ये भुजास्तैरन्विता युक्ता। अङ्गदकेयूरयोराकृतिवैलक्षण्यमाश्रित्याभरणद्वयपरं वा व्याख्येयम्। अतएव ब्रह्मोत्तरखण्डे सप्तमेऽध्याये शिवध्यानप्रकरणे प्रयोगः ‘दधानं नागवलयकेयूरानङ्गदमुद्रिकाः’ इति। अन्यत्रापि ‘केयूराङ्गदहारकङ्कणमुखालंकारविभ्राजिता’मिति। ‘केयूरमङ्गदं दोर्भूषे’त्यग्निपुराणं तु भुजभूषणत्वेनानुगमय्य कथनपरम्। तदनुसारित्वादमरसिंहोऽपि तत्पर एवेत्यदोषः। रत्नखचितग्रैवेयेण ग्रीवाभरणचिन्ताकेन चार्थात्सौवर्णेन लोलैश्चञ्चलैर्हारभावमापन्नैर्मुक्ताफलैश्चान्विता। रत्नमयं ग्रीवासंबन्धि यच्चिन्ताकं तदधस्तिर्यक्पङ्क्तिरूपेण लम्बमानैर्मुक्ताफलैरित्येकाभरणपरं वा। चिन्ताकमान्ध्रदेशेषु प्रसिद्धम्। ललाटिकापर्याय इति तु कश्चित्। तत्तादृशकोशालेखनाच्चिन्त्यम्। ग्रीवायामेव चिन्ता ध्यानं येषां ते ग्रैवेयचिन्ताकाः। उपर्युपर्यापातत एव ध्यानं ये कुर्वन्ति न पुनर्दहरान्तर्देवानां द्रढयितुं क्षमास्ते मध्यमाधिकारिण इत्यर्थः। लोलाः सतृष्णा अधमाधिकारिणः। ‘लोलश्चलसतृष्णयो’रित्यग्निपुराणानुयाय्यमरः। मुक्ता उत्तमाधिकारिण इत्यर्थः। एषां त्रयाणामपि यानि रत्नभूतान्याफलानि अल्पफलान्यधिकफलानि च। ‘आङीषदर्थेऽभिव्याप्ता’विति कोशात्। तैरन्विता तद्दाने तत्परा इति प्रकृताप्रकृतोभयविषयकश्लेषः॥६४॥ कामेश्वरस्य प्रेमैव रत्नमणिः रत्नोत्तमः तत्पणनविषये प्रतिपणभूतौ स्तनौ यस्याः। मणिशब्दो रत्नपरः सन् स्तनयोरेव विशेषणं वा। स्तनरत्ने विक्रीय प्रेमरत्नं क्रीतवतीति भावः। तेन द्विगुणमूल्यदानेन क्रयविक्रयाभ्यां च सुतरां परस्परस्वतापायेन प्रेमपरावृत्त्यभावः पातित्रव्रत्यातिशयश्चेति विनिमयालंकारेण वस्तुध्वनिः नाभिरेवालवालो लतावापश्वभ्रो यस्या रोमावल्यभिन्नलतायास्तस्याः फलभूता कुचद्वयी यस्याः सेति परम्परितरूपकमुत्प्रेक्षासंबन्धातिशयोक्तिश्चेति संकरः॥६॥ लक्षयितुं योग्या लक्ष्या ज्ञाप्यमानेति यावत्। ज्ञायमानस्यैव लिङ्गस्यानुमितिं प्रति कारणत्वात्। लिङ्गज्ञानमात्रस्य कारणतावादेऽपि लिङ्गज्ञानयोर्विशेष्यविशेषणभावे विनिगमनाविरहेणोभयतोऽपि कारणताया दुष्परिहरत्वात्। अनागतादेरपि बौधाकारस्य सत्त्वात्। तथाच गौतमसूत्रं ‘बुद्धि’ सिद्धिं तदस’दिति। लक्ष्या या रोमलताधारता रोमावलिरूपवल्यावापस्थानत्वम्। आधारतासंबन्धेन रोमलतैव लिङ्गमिति यावत्। तया सम्यगुन्नेयं प्रमानुमितिविषयो मध्यमं वलग्नं यस्याः। नाभ्यधः प्रदेशो मध्यमाख्यघनावयववान् रोमलतात्वादिति प्रयोगः। मध्यमस्य रोमलतया समर्थनात्काव्यलिङ्गालंकारः। यद्यपि ‘निराधारो हा रोदिमि कथय कस्याद्य पुरत’ इत्यादाविव स्वान्यतरभागानेकवर्णायाः पदमध्ययतेः साधुतायाः समुद्राद्यन्तस्थापरत्वेनैव व्यवस्थितत्वात्पादान्तयतेः ‘प्रण-
अरुणारुणकौसुम्भवस्त्रभास्वत्कटीतटी।
रत्नकिङ्किणिकारम्यरशनादामभूषिता॥६७॥
कामेशज्ञानसौभाग्यमार्दवोरुद्वयान्विता।
माणिक्यमुकुटाकारजानुद्वयविराजिता॥६८॥
इन्द्रगोपपरिक्षिप्तस्मरतूणाभजङ्घिका।
गूढगुल्फा कूर्मपृष्टजयिष्णुप्रपदान्विता॥६९॥
नखदीधितिसंछन्ननमज्जनतमोगुणा।
पदद्वयप्रभाजालपराकृतसरोरुहा॥७०॥
——————
मत भवबन्धक्लेशनाशाय नारायणचरणसरोजद्वन्द्वमानन्ददायी’त्यादाविवाधारतेत्यस्य मध्ये न साधुत्वं तथापि रातमाण्डव्यादिमुनीनां छन्दःशास्त्रप्रवर्तकानां प्राचामाचार्याणां च मते यतेरनङ्गीकारात्तद्रीत्या साधुत्वमुपपद्यते। पैङ्गलं तु कलियुगीयग्रन्थमात्रपरमिति प्रदर्शितं छन्दोभास्करेऽस्माभिः। स्तनयोर्भारेण गौरवेण दलत इव मध्यस्य दार्ढ्यार्थं कृतः पट्टबन्धः कनकपट्टिकाभिर्बन्ध एव वलित्रयं यस्याः सेत्युत्प्रेक्षातिशयोक्ती॥६६॥ अतिशयेनारुणमरुणारुणं ‘कान्तायाः करतलरागरक्तरक्त’ इतिवदतिशयस्य वीप्सया द्योतनात्। अरुणवदनूरुवदरुणं वा। कुसुम्मेन रक्तं कौसुम्भं च यद्वस्त्रं तेन भास्वती भासुरा कट्यास्तटी यस्याः। रत्नमयीभिः किङ्किणिकाभिः क्षुद्रघण्टिकाभी रम्येण रशनाभिन्नेन दाम्ना सौवर्णमेखलासूत्रेण भूषिता॥६७॥ कामेशेनैव ज्ञाते तदेकसाक्षिके सौभाग्यमार्दवे लावण्यकोमलत्वे ययोस्तयोरूर्वोर्द्वयेनान्विता। माणिक्यमुकुटं अखण्डमाणिक्येन निर्मितं मुकुटं टोपिकानामकं न्युब्जं शिरःप्रावरणं यत्तस्येवाकारो ययोस्तयोर्जानुनोरूरुपर्वणोर्द्वयेन विराजिता॥६८॥ इन्द्रगोपाः प्रावृषेण्या आरक्ततमाः कृमिविशेषास्तैः परितः क्षिप्तौ खचितौ यौ स्मरस्य कामराजस्य तूणौ निषङ्गौ ताभ्यां तुल्ये जङ्घे एव जङ्घिके यस्याः। यदि तैः खचितौ स्यातां तदोपमा संभाव्येतेत्युपमायामभूतत्वांशध्वनिः। गूढौ मांसलौ गुल्फौ पार्ष्णीयस्याः। कूर्मयोः पृष्ठे जयत इति जयिष्णुनी ये प्रपदे पादाग्रे ताभ्यामन्विता। जयिष्णुपदमिष्णुच्प्रत्ययान्तम् नतु ‘ग्लाजिस्थश्च ग्स्नु’रिति ग्स्नुप्रत्ययान्तं जिष्णुरित्यापत्तेः। इष्णुचो विधानं तु ‘भुवश्चे’ति सूत्रे चकारस्यानुक्तसमुच्चयार्थकत्वेन वृत्तिकृता व्याख्यानात्। तत्सूत्रे छन्दसीत्यनुवृत्तिस्तु न कार्या। ‘भूष्णुर्भविष्णुर्भविते’त्यमरकोशे प्रयोगात्। प्रयोगशरणा वैयाकरणा इति न्यायात्। तस्माद्विष्णुभ्राजिष्णुवज्जयिष्णुरपि साधुरेव॥६९॥ नखानां पादनखचन्द्राणां दीधितिभिः किरणैःसम्यक् छन्नो लोपितो नमतां ब्रह्मविष्ण्वादिजनानां तमोगुणोऽज्ञानं यस्याः। पादध्यानेनाज्ञाननाश इति भावः। यद्वा अस्याश्चरणयुगस्य नखचन्द्रस्य नमज्जनकिरीटमणिगणच्छायाप्रतिबिम्बबाहुल्येन दीधितीनां विशिष्यभानाभावे तासां तमोनाशाय नमज्जनहृदयान्तःप्रवेश उत्प्रेक्षते कविरिति भावः। तथाच मत्स्यपुराणपद्मपुराणयोः पार्वत्याः सामुद्रिकलक्षणानि दृष्टवतो नारदस्य वाक्यम् ‘न जातोऽस्याः
सिञ्जानमणिमञ्जीरमण्डितश्रीपदाम्बुजा।
मरालीमन्दगमना महालावण्यशेवधिः॥७१॥
सर्वारुणाऽनवद्याङ्गी सर्वाभरणभूषिता।
शिवकामेश्वराङ्कस्था शिवा स्वाधीनवल्लभा॥७२॥
——————
पतिर्भद्रे लक्षणेश्चविवर्जिता॥ उत्तानहस्ता सततं चरणैर्व्यभिचारिभिः। स्वच्छायया भविष्येयं किमन्यद्बहु भाष्यते॥’ इति मेनांप्रत्युक्तेर्दुर्लक्षणान्येवेमानि कथितानीति भ्राम्यता हिमवता सदुःखं पृष्टो नारद उवाच — ‘हर्षस्थानेऽपि महति त्वया दुःखं निवेद्यते। अपरिच्छिन्नवाक्यार्थो मोहं यासि महागिरे॥’ इत्यादिना ‘न जातोऽस्याः पति’रित्यादिवाक्यानामर्थं निर्वर्ण्यान्ते कथितं ‘यत्तु प्रोक्तं मया पादौ स्वच्छायाव्यभिचारिणौ। अस्याः शृणु ममात्रापि वाचोऽर्थं शैलसत्तम॥ चरणौपद्मसंकाशावस्याः स्वच्छनखोज्वलौ। सुरासुराणां नमतां किरीटमणिकान्तिभिः॥ विचित्रवर्णैर्हास्यन्ति स्वच्छायां प्रतिबिम्बितैः। प्रविश्य नाशयिष्यन्ति तेषां हार्दं तमोगुण’मिति। पदद्वयस्य चरणयुगलस्य प्रभाजालेन सौष्ठवादिगुणसमूहेन पराकृते निरस्ते सरोरुहे कमले यस्याः सा॥७०॥ सिञ्जानाः भूषणजन्यशब्दविशेषं कुर्वाणा मणयो ययोस्ताभ्यां मञ्जीराभ्यां पादकटकाभ्यां मण्डिता श्रीर्ययोस्तादृशे पदाम्बुजे यस्याः। ‘नद्यृतश्चे’त्यविकल्पितोऽपि कप्रत्ययः श्रीशब्दस्य नदीसंज्ञानिषेधादेव न भवति। ‘ह्रस्वो नपुंसक’ इति ह्रस्वस्तु संज्ञापूर्वकविधेरनित्यत्वान्नेह भवति। मण्डिते श्रीयुक्ते पदाम्बुजे यस्या इति त्रिपदबहुव्रीहिर्वा। मरालो हंसः स्वभावादेव मन्दगतिः। तत्रापि स्त्रीजातीया विशेषत इति मराल्येवोपात्ता। तस्या इव मन्दगमनं यस्याः। महतो लावण्यस्यातिशयितसौन्दर्यस्य शेवधिर्निधिः। ‘निधिर्ना शेवधि’रित्यग्निपुराणकोशात्। अतएव ‘परवल्लिङ्गं द्वन्द्वतत्पुरुषयो’रिति पाणिनीयसूत्रात्पुंलिङ्गमिदं नाम। तेन शेवधयेनम इत्येव प्रयोगो न पाक्षिकः शेवध्यैनम इति॥७१॥ वसनाभरणकुसुमकान्त्यादिकं सर्वमेवारुणं यस्याः। अवद्यानि निन्द्यानि न भवन्तीत्यनवद्यानि सुलक्षणान्यङ्गानि अवयवा यस्याः। सर्वैश्चूडामणिप्रभृतिपादाङ्गुलीयकान्तैः कालिकापुराणोक्तैश्चत्वारिंशता कल्पसूत्रोक्तैरन्यैरपि वाभरणैर्भूषिता। एवं स्थूलं रूपमुक्त्वा तदवस्थितिस्थानान्याह — शिवकामेत्यादिना। कमनीयत्वात्कामः ‘कामः कमनीयतये’त्युक्तेः। कामं यथेच्छं रूपमस्येति वा कामः। ईदृशव्युत्पत्त्यैव मन्मथे कामपदप्रवृत्तेः कालिकापुराणे प्रदर्शनात्। ‘जगत्सु कामरूपत्वे त्वत्समो नैव विद्यते। अतस्त्वं कामनाम्नापि ख्यातो भव मनोभवे’ति। प्रज्ञानमेव वा कामः। तथाच श्रुतिः ‘यदेतद्धृदयं मनश्चैतत्संज्ञानमज्ञानं विज्ञानं प्रज्ञानं मेधा दृष्टिर्धृतिर्मतिर्मनीषा जूतिः स्मृतिः संकल्पः क्रतुरसुः कामो वश इति सर्वाण्येवैतानि प्रज्ञानस्य नामधेयानि भवन्ती’ति। अत्र प्रज्ञानशब्देन शिव एवोच्यते। स्कान्दे ब्रह्मगीतायां तथैवोपबृंहणदर्शनात् शं
कर —विज्ञानं बहुधा शब्द्यते बुधैः। केचिद्हृदयमित्याहु’रित्यारभ्य ‘वश
पूर्वकषट्कामुक्तिसर्वाण्येतानि संततम्। प्रज्ञानस्य
शिवस्यास्य नामधेयान्यसंशय’मित्यन्तम्। जगत्सिसृक्षावानीश्वरः कामपदवाच्यः। तथाच बृहदारण्यके श्रूयते ‘आत्मैवेदमग्र आसीदेक एव सोऽकामयत’ इत्यादि ‘एतावान्वैकाम’ इत्यन्तम्। शिवश्चासौकामश्चासावीश्वरश्चेति कर्मधारयः। गुणिरुद्रमदनयोर्निरासाय पदत्रयी। तस्याङ्के वामोत्सङ्गे तिष्ठति निषण्णा। अतएवाह शिवा। ‘वश कान्तौ शिवः स्मृतः’ इति। कान्तिरिच्छा। परशिवेच्छारूपेत्यर्थः। इच्छारूपायाः शक्तेः शिवाधारकत्वादिति भावः। शिवाभेदाद्वा शिवा। तत्र शिवपदनिरुक्तिस्तु शैवागमे ‘वृत्तेः साक्षितया वृत्तिप्रागभावस्य च स्थितः। बुभुत्सायास्तथा ज्ञोऽस्मीत्यापातज्ञानवस्तुनः॥ असत्यालम्बनत्वेन सत्यः सर्वजडस्य तु। साधकत्वेन चिद्रूपः सदा प्रेमास्पदत्वतः॥ आनन्दरूपः सर्वार्थसाधकत्वेन हेतुना। सर्वसंबन्धवत्त्वेन संपूर्णः शिवसंज्ञितः॥ जीवेशत्वादिरहितः केवलः शिव एव सः॥’ इति। शिवं करोतीति वा। शिवशब्दात् ‘तत्करोती’ति ण्यन्तात्पचाद्यचि टाप्। शेतेऽस्मिन्सर्वमिति वा। ‘सर्वनिघृष्वरिष्वे’त्यादिना कर्तृभिन्नेऽर्थे औणादिकनिपातनात्। शिवाः शोभना गुणा अस्यां सन्तीति वा। अर्शआदित्वादच्। जैनेन्द्रव्याकरणे तु ‘शिवादयश्चे’ति सूत्रं तत्सुभूतिचन्द्रेण व्याख्यातम्। शाम्यतीति शिवः ‘क्वन इत्वमङ्गलोपश्च निपात्यत’इति। ‘समेधयति यं नित्यं सर्वार्थानामुपक्रमम्। शिवेति यन्मनुष्याणां तस्मादेव शिवः स्मृतः॥’ इति। भारते ‘समा भवन्ति मे सर्वे दानवाश्चामराश्च ये। शिवंकरोऽस्मि भूतानां शिवत्वं तेन मे सुराः॥’ इति च। ‘यो योनिं योनिमधितिष्ठित्येको यस्मिन्निदं संच विचैति विश्व’मिति श्रुतिः। ‘त्रिलोचनं नीलकण्ठं प्रशान्त’मिति च। तदेतत्सर्वं शिवाष्टोत्तरशतव्याख्याने संगृहीतमस्माभिः। ‘प्रकृत्या नैर्मल्यादमलगुणयोगादपि शमाज्जगत्याधारत्वाद्भजदमृतदानाच्च भवतः। बलादिच्छाशक्तेः परमशिव वेदान्तनिकरैरसाधारण्येन व्यवहृतिमयासीः शिव इति’। शिवाभेदा वा शिवा। तदभेदस्य प्रवृत्तिनिमित्तता च लिङ्गपुराणे दर्शिता ‘यथा शिवस्तथा देवी यथा देवी तथा शिवः। तस्मादभेदबुद्ध्यैव शिवेति कथयन्त्युमा’मिति। तत्रैव स्थलान्तरे ‘उमाशंकरयोर्भेदो नास्त्येव परमार्थतः। द्विधासौरूपमास्थाय स्थित एको न संशयः॥’ इति। ‘परमात्मा शिवः प्रोक्तः शिवा सैव प्रकीर्तिते’ति च। यज्ञवैभवखण्डेऽपि ‘चिन्मात्राश्रयमायायाः शक्त्याकारे द्विजोत्तमाः। अनुप्रविष्टा या संविन्निर्विकल्पा स्वयंप्रभा॥ सदाकारा परानन्दा संसारोच्छेदकारिणी। सा शिवा परमा देवी शिवाभिन्ना शिवंकरी॥’ इत्यारभ्य ‘करुणासागरामेनां यः पूजयति शांकरीम्। किं न सिध्यति तस्येष्टं तस्याएव प्रसादतः॥’ इत्यन्तम्। अथवा। वायोर्भार्या शिवानाम्नी। उक्तंच लैङ्गे ‘समस्तभुवनव्यापी भर्ता सर्वशरीरिणाम्। पवनात्मा बुधैर्देव ईशान इति कीर्त्यते॥ ईशानस्य जगत्कर्तुर्देवस्य परमात्मनः। शिवा भार्या बुधैरुक्ता पुत्रश्चास्य मनोजवः॥’ इति। ‘बालेन्दुशेखरो वायुः शिवः शिवमनोरमे’ति च। वायुपुराणेऽपि ‘ईशानस्य चतुर्थी या तनुर्वायुरिति स्मृता। तस्य पत्नी शिवानाम पुत्रश्चास्य मनोजवः॥’ इति। यद्वा। शिवं मोक्षं ददातीति शिवा। तदुक्तं देवीपुराणे ‘शिवा मुक्तिः समाख्याता योगिनां मोक्ष-
सुमेरुश्रृङ्गमध्यस्था श्रीमन्नगरनायिका।
——————
दायिनी। शिवाय जयते देवी ततो लोके शिवा स्मृते’ ति। आगमे तु ‘पावकस्योष्णतेवेयं भास्करस्येव दीधितिः। चन्द्रस्य चन्द्रिकेवेयं शिवस्य सहजा शिवे’ति। एवमिच्छादिधर्मरूपापि न धर्मिणं प्रति गुणभूतेत्याह — स्वाधीनेति। स्वस्यात्मनोऽधीन आयत्तो वल्लभो भर्ता कामेश्वरो यस्याः। शिवस्य शक्त्यधीनात्मलाभकत्वाद्धर्म्येव धर्माधीन इत्यर्थः। तदुक्तं कालिकापुराणे ‘नित्यं वसति तथापि पार्वत्या सह नर्मकृत्। मध्ये देवीगृहं तत्र तदधीनस्तु शंकरः’ इति। आगमेऽपि ‘शक्तो यया स शंभुर्भुक्तौ मुक्तौ च पशुगणस्यास्य। तामेनां चिद्रूपामाद्यां सर्वात्मनास्मि नतः’ इति। स्कान्देऽपि ‘जगत्कारणमापन्नः शिवो यो मुनिसत्तमाः। तस्यापि साभवच्छक्तिस्तया हीनो निरर्थकः’ इति। श्रीमदाचार्यभगवत्पादैरप्युक्तम् ‘शिवः शक्त्या युक्तो यदि भवति शक्तः प्रभवितुं न चेदेवं देवो न खलु कुशलः स्पन्दितुमपी’ति। स्वाधीनीकृतो वल्लभो ययेति वा। शर्यातिकन्यायाः सुकन्यायाः पतिरश्विभ्यां स्वसमानरूपः कृत इति तं विशिष्याजानत्या तया भगवतीमाराध्यैव स्वाधीनीकृत इति देवीभागवते सप्तमस्कन्धे कथा स्मर्यते ‘शरणं ते जगन्मातः प्राप्तास्मि भृशदुःखिता। रक्ष मेऽद्य सतीधर्मं नमामि चरणौ तवे’त्यादिप्रार्थनोत्तरम् ‘एवं स्तुता तदा देवी तया त्रिपुरसुन्दरी। हृदि तस्या ददौज्ञानं येनाधीनः पतिर्भवे’दित्याद्युक्तेः। एवं शच्या इन्द्रप्राप्तिरपि षष्ठस्कन्धोक्तेहोदाहर्तव्या॥७२॥ यद्यपि भक्तिमीमांसायां ‘तत्प्रतिष्ठा गृहपीठव’दिति सूत्रे गृहे तिष्ठति पीठे तिष्ठतीति प्रयोगाविशेषादुभयोरप्यधिकरणत्वं मुख्यमेव नतु साक्षात्परंपरासंबन्धादिरूपतारतम्यपीठभूभागस्यापि गृहान्तर्गतत्वादित्युक्तं, तथापि गृहे क्वतिष्ठतीतिवत्पीठे क्व तिष्ठतीत्याकाङ्क्षानुदयात्पीठमपेक्ष्येतरेषामधिकरणानां तारतम्यमनुभवसिद्धमस्त्येव। तेन न्यायेन मुख्यत्वात्कामेश्वरवामोत्सङ्गं प्रथममुक्त्वा स्थलान्तराण्याह–सुमेरुश्रृङ्गमध्यस्थेत्यादिना। सुमेरोर्हेमाद्रेर्मध्यशृङ्गे तिष्ठतीति तत्स्था। शोभने मेरुमध्यशृङ्गे इति वा। मेरुपर्वते हि शिवत्रिकोणवत्त्रीणि शृङ्गाणि सन्ति तेषां मध्ये चतुर्थं शृङ्गमस्ति। तदुक्तं ललितास्तवरत्ने दुर्वासमहामुनिभिः ‘स जयति सुवर्णशैलः सकलजगच्चक्रसंघटितमूर्तिः। काञ्चननिकुञ्जवाटीकन्दलदमरीप्रपञ्चसंगीतः॥ हरिहयनैर्ऋतमारुतहरितामन्तेष्ववस्थितं तस्य। विनुमः सानुत्रितयं विधिहरिगौरीशविष्टपाधारम्॥ मध्ये पुनर्मनोहररत्नरुचिस्तबकरञ्जितदिगन्तम्। उपरि चतुःशतयोजनमुत्तुङ्गं शृङ्गपुंगवमुपासे’ इति। श्रीमल्लक्ष्मीवद्यन्नगरं निरुपपदमेव नगरपदं विद्यानगरवाचकं तस्य नायिका अधिपतिः। तच्च नगरं द्विविधं। एकं तावन्मध्यमेरुशृङ्गस्थम्। तदुक्तं ललितास्तवरत्ने ‘तत्र चतुःशतयोजनपरिणाहं देवशिल्पिना रचितम्। नानासालमनोज्ञं नमाम्यहं नगरमादिविद्यायाः’ इति। तत्र मध्यशृङ्गे। चत्वारि शतानीति विग्रहः नतु ‘चतुःशतमुत्कृति’रिति पिङ्गलसूत्र इव चतुरधिकं शतमिति। उत्तरश्लोके प्रथमप्राकारस्य प्रथमं सहस्रपूर्वकषट्शतसंख्याकयोजनपरिमित इति परिमाणोक्ति-
चिन्तामणिगृहान्तस्था पञ्चब्रह्मासनस्थिता॥७३॥
महापद्माटवीसंस्था कदम्बवनवासिनी।
सुधासागरमध्यस्था कामाक्षी कामदायिनी॥७४॥
——————
विरोधात्। नानासालैः पञ्चविंशतिभिः प्राकारैरिति तदर्थः। अपरं सकलं ब्रह्माण्डबहिरूर्ध्वभागे सुधासागरमध्यगतरत्नद्वीपस्थम्। तदुक्तं रुद्रयामले ‘अनेककोटिब्रह्माण्डकोटीनां बहिरूर्ध्वतः। सहस्रकोटिविस्तीर्णं सुधासिन्धोस्तु मध्यमे॥ रत्नद्वीपे जगद्द्वीपे शतकोटिप्रविस्तरे। पञ्चविंशतितत्त्वात्मपञ्चविंशतिवप्रकैः॥ त्रिलक्षयोजनत्तुङ्गैः श्रीविद्यायाः पुरं शुभ’मित्यादि। विद्यारत्नभाष्ये तु क्षीरसमुद्रमध्येऽप्येकं पुरमस्तीत्युक्तं परंतु तस्य चतुर्विंशतिप्राकारा इत्यसकृदुक्तं तत्रैकस्य प्राकारस्य न्यूनत्वं गवेषणीयम्। श्रीमन्नगरशब्दः श्रीचक्रपरो वा। ‘चक्रं पुरं च सदनमगारं नगरं गुहे’ति विश्वाख्योक्तेः। ‘कगजदशारे’त्यादिगौडपादीयसूत्रे श्रीपुरस्य चक्रपरत्वेन तद्भाष्ये व्याख्यानाच्च। ‘नैतमृषिमविदित्वा नगरं प्रविशेत्’। ‘देवानां पूरयोध्या’। ‘अमृतेनावृतां पुरी’मित्यादिश्रुतिषु नगरादिपदानां चक्रे प्रयोगदर्शनाच्च ‘नगरचक्र-इत्यादिरुद्रयामलात्। मेरौ तु स्वल्पपरिमाणं ‘शृङ्गारवर्णवर्यस्योत्तरतः सकलविबुधसंसेव्यम्। चिन्तामणिगणरचितं चिन्तां दूरीकरोतु मे सदन’मिति ललितास्तवरत्नात्। गौडपादीयसूत्रभाष्ये तु ‘सर्वेषां चिन्तितार्थप्रदमन्त्राणां निर्माणस्थानं तदेवेति तस्य चिन्तामणिगृहत्व’मित्युक्त्वा तन्निर्माणप्रकारो विस्तरेण वर्णितः। पञ्चभिर्ब्रह्मभिर्निर्मितमासनं मञ्चकरूपं तत्र स्थिता। तदुक्तं बहुरूपाष्टकतन्त्रे भैरवयामलतन्त्रे च ‘तत्र चिन्तामणिमयं देव्या मन्दिरमुत्तमम्। शिवात्मके महामञ्चे महेशानोपबर्हणे॥ अतिरम्यतले तत्र कशिपुश्च सदाशिवः। भृतकाश्च चतुष्पादा महेन्द्रश्च पतद्ग्रहः। तत्रास्ते परमेशानी महात्रिपुरसुन्दरी’ति। भृतकाः भृत्याः द्रुहिणहरिरुद्रेश्वरा इत्यर्थः। अग्नेयादीशानान्तविदिक्षु ब्रह्मादय उपर्यधःस्तम्भरूपाः मध्ये पुरुषरूपा अपि श्रीध्यानाच्छक्तिभावं प्राप्ता मीलिताक्षा निश्चला इत्यादिकं पुराणादवगन्तव्यम्॥७३॥ महान्ति पद्मानि यस्यामीदृश्यामटव्यां वने सम्यक्तिष्टति। पद्माटवीस्वरूपमूर्ध्वं ‘त्रिलक्षयोजनायाममहापद्मवनावृतम्’ इति रुद्रयामलोक्तमेकम्। ललितास्तवरत्नोक्तमन्यत् ‘मणिसदनसालयोरधिमध्यं दशतालभूमिरुहदीर्घंः। पर्णैः पयोदवर्णैर्युक्तां काण्डैश्च योजनोत्तुङ्गैः॥ मिलितैस्तालीपञ्चकमानैर्मिलितां च केसरकदम्बैः। संततगलितमरन्दस्रोतोनिर्यन्मिलिन्दसंदोहाम्॥ पाटीरपवनबालकधाटीनिर्यत्परागपिञ्जरिताम्। पद्माटवीं भजामः परिमलकल्लोलपक्ष्मलोपान्ता’मिति। ब्रह्मरन्ध्रस्थितसहस्रदलपद्ममपि पद्माटवीत्युच्यते। उक्तं च स्वच्छन्दतन्त्रे ‘तस्मादूर्ध्वं कुलं पद्मं सहस्रारमधोमुख’ मिति प्रक्रम्य ‘महापद्मवनं चेदं समानं तस्य चोपरी’ति ब्रह्माण्डपिण्डयोरैकरूप्याच्च। इदं चारुणोपनिषद्भाष्ये ‘आण्डीभवजमामुहु’रितिवाक्यव्याख्यानावरे स्पष्टीकृतम्। कदम्बानां नीपानां वने वसतीति तथा। चिन्तामणिगृहं परितो मणिमण्डपं तत्परितः कदम्बवनम्।
तदुक्तं भैरवयामले ‘बिन्दुस्थानं सुधासिन्धुः पञ्चयोन्यः सुरद्रुमाः। तत्रैव नीपश्रेणी च तन्मध्ये मणिमण्टपम्॥ तत्र चिन्तामणिमय’मित्यादि। कनकरजतप्राकारमध्यभूः सप्तयोजना। तस्माद्द्वियोजनोन्नताः कदम्बवृक्षाः सन्तीत्यपि पुराणे स्थितम्। सुधासागरः पीयूषवर्णः स चोर्ध्वस्थ एकः ‘अमृतेनावृतां पुरी’मिति श्रुतिप्रसिद्धः। पिण्डाण्डे बिन्दुस्थाने सहस्रारकर्णिकाचन्द्रमध्येऽन्यः। अपराजिताख्ये सगुणब्रह्मोपासनाप्राप्ये नगरे अरनामक—ण्यनामकौ द्वौ सुधाह्रदौ सागरप्रतिमौ। शारीरकभाष्ये ‘अनावृत्तिः शब्दा’दितिसूत्रे कथितावन्यौ। अविशेषात्सर्वेऽपीह गृह्यन्ते। तेषां मध्ये तिष्ठतीति तथा। कामे कमनीये अक्षिणी यस्याः। समासान्तष्टच्। कामेश्वर एव नेत्रं यस्या इति वा। नेत्रविषयत्वान्नेत्रत्वमुपचर्यते। काञ्चीपीठाधिष्ठात्र्या इदमसाधारणं नाम। तदुक्तं ब्रह्माण्डपुराणे ‘सर्वज्ञा साक्षिभावेन तत्तत्कामानपूरयत्। तद्दृष्ट्वा चरितं देव्या ब्रह्मा लोकपितामहः। कामाक्षीति तदा नाम ददौ कामेश्वरीति चे’ति। कामान्मनोरथान्ददातीति कामदायिनी। कामेश्वरमेव वा भक्तेभ्यो वितरति, शिवाभेददानाभिप्रायेण वा कामदायिनी। कानं मन्मथं द्यति खण्डयतीति वा कामदः शिवस्तेन अयिनी शुभावहविधिमती। ‘अयः शुभावहो विधि रित्यमरः। अथवा दायो नाम पित्रादिपरंपरार्जितं स्वम्। ततः कामेश्वरेण दायवती। तदभिन्नानादिसिद्धस्वभाववतीत्यर्थः॥७४॥
अथ परिभाषायां चतुःषष्टि नामानि विभजते — **अर्धचतुर्विंशतितनुभेदोद्भवगुणगणो दशपात्। दम्भावहगोमेदाभावेहचतुर्गुणा गुणैर्गङ्गा॥१०॥**अर्धानां चतुर्विंशतिः ततस्तकारात्षडक्षरमेकं नाम। ततो नकाराद्दशाक्षरम्। नकारस्य शून्ये संकेतितत्वेऽपि तावन्मात्रस्य नामाक्षरसंख्यत्वायोगादकारान्तरसाहित्यापेक्षायां प्रथमोपस्थितिन्यायेनैकाङ्कसमावेशे दशसंख्यावाचकत्वसिद्धेः। टवर्गे दश’मत्वादपि तत्सिद्धेः दशपादिति। तत्रैकादशानां पादात्मकनाम्नां सत्वेऽपि छन्दोनुरोधादवयुत्यानूद्यैकादशः पादः पृथग् उत्तरार्धे दकारेण निर्दिष्टः। चतुरिति चत्वारि नामानीत्यर्थः। नतु चतुरक्षरमेकं नामेति। तथात्वे एकेनैव घकारढकाराद्यक्षरेण सिद्धेऽधिकोक्तेर्वैयर्थ्यात्। एकाद्यादिसंख्यावाचकपदसंबन्धिभिन्नैरेव वर्णैरक्षरसंख्याव्यवहारस्यासांकर्यार्थमङ्गीकार– स्योक्तत्वाच्च। ततश्चत्वारि नामानि कतिकत्यक्षराणीत्याकाङ्क्षायां परस्पराक्षरसंख्यावैषम्ये मानाभावात् ‘समं स्यादश्रुतत्वा’दिति न्यायेन समसंख्याक्षराणीति सिद्धेऽर्धस्यार्धयोरर्धानां वा मध्य एवेत्यपि नियमाच्चत्वारिचत्वार्यष्टावष्टौ वाक्षराणीति सिध्यति नतु नवनवेत्यादि। अर्थात्परतो द्वितीयनामसमाप्त्यापत्तेश्छन्दःसूत्रविरोधेन तस्यानिष्टत्वात्। चतुरष्टसंख्ययोरन्यतरनियमस्तु ‘भक्तिप्रिया भक्तिगम्या भक्तिवश्या भयापहे’त्यर्धपर्यालोचनवतां व्युत्पत्तिमतां च सुज्ञान एव। नह्ययं ग्रन्थः सहस्रनामाक्षराणामुद्धाराय गुरुचरणैः कृतः किंतु ज्ञाताक्षरान्प्रति विभागप्रदर्शनाय। अतश्चाक्षरज्ञानसापेक्षत्वाद्व्युत्पन्नैश्चतुश्चतुरक्षराणीति ज्ञातुं शक्यमेव। नच तैरन्यत्राप्येवमेव ज्ञातुं शक्यत्वाद्ग्रन्थवैयर्थ्यम्। व्युत्पन्नानामपि संदेहस्य प्रचुरं प्रदर्शयिष्यमाणत्वात्। अन्यथा छलाक्षरसूत्राणामपि वैयर्थ्यापत्तेः। अथापि यद्यष्टाक्षरे द्वे नामनी विभज्येते तदा गुणैरिति गकारेण शरच्चन्द्रनिभानने-
देवर्षिगणसंघातस्तूयमानात्मवैभवा।
भण्डासुरवधोद्युक्तशक्तिसेनासमन्विता॥७५॥
——————
त्यत्र शरच्चमिति त्र्यक्षरस्य भिन्ननामत्वापत्तिः। तत्रापि भ्रमादिष्टापत्तिं वदन्तस्तु नात्राधिकारिणः। तदुक्तं योगवासिष्ठे ‘नात्यन्तमज्ञो नो तज्ज्ञः सोऽस्मिञ्शास्त्रेऽधिकारवानि’ति। तुल्याविमौ पर्यनुयोगसमाधी सर्वशास्त्रेष्वपीति॥१०॥
अथ देव्याः स्थूलरूपस्य कार्याणि स्पष्टतया वदन्नेव रहस्यभूतं परं रूपं रहस्योक्तिभिरेव वर्णयितुमारभते — देवर्षीत्यादिना। देवगणो ऋषिगणश्च यस्तयोः संघातस्तेन महासमुदायेन स्तूयमान आत्मा स्वरूपं यस्य तादृशं वैभवं यस्याः, स्तूयमानात्मवैभवमात्मनो व्यापकत्वं यस्या वा सा। अथवा देवर्षिगणैः संघातशः स्तूयमानं बहुप्रकारेण स्तूयमानमित्यर्थः। यद्वा संघातो नरकविशेषस्तन्निरासार्थं स्तूयमानमित्यादि। पापस्य प्रायश्चित्तमित्यादौ षष्ठ्या नाश्यनाशकभावसंबन्धार्थकत्वदर्शनादिहापि षष्ठीसमासः। यद्वा सम्यक् घातो भण्डासुरवधस्तदुद्देशेन स्तूयमानमित्यादि। अतएवोत्तरनामनि तदुत्तरभावितद्वधोद्योगकथनम्। अतएव ब्रह्माण्डपुराणे भण्डासुरपीडितैर्देवैः कृतं ‘जयदेवि जगन्मात’रित्यादिना देवीस्तवं निर्वर्ण्य अम्बया वरं वृणुध्वमित्युक्ते देवानां वाक्यं ‘यदि तुष्टासि कल्याणि वयं दैत्येन्द्रपीडिताः। दुर्लभं जीवितं चापि त्वां गताः शरणार्थिनः’ इत्यादि। अन्यत्रापि ‘ततः कदाचिदागत्य नारदो भगवानृषिः। प्रणम्य परमां शक्तिमुवाच विनयान्वितः’ इत्यारभ्य ‘अयं भण्डासुरो देवि बाधते जगतां त्रयम्। त्वयैकयैव जेतव्यो न शक्यस्त्वपरैः सुरै’रित्यन्तम्। वस्तुतस्तु। देवा ब्रह्मादयः। ऋषयो वसिष्ठादयः। देवर्षयो नारदादयः। देवर्षयश्च देवर्षयश्चेति विग्रहः। गणा आदित्यादयः। ‘आदित्यविश्ववसवस्तुषिताभास्वरानिलाः। महाराजिकसाध्याश्च रुद्राश्च गणदेवताः’ इत्यग्निपुराणात्। तेषां संघातः समुदायः ‘अनेककोटिदिक्पालैश्चन्द्रार्कवसुकोटिभि’रित्यादिरुद्रयाम– लोक्तस्तेनस्तूयमानमित्यर्थः। तेन न गणसंघातपदाभ्यां पौनरुक्त्यं शङ्कनीयम्। अथ पररूपपरत्वपक्षे देवादिस्तूयमानत्वविशेषणादखिलानुगतमखिलपरिचितमखिलप्रेमास्पदं चैतन्यमेवात्मेति शैवशास्त्रोक्तं स्वरूपं ध्वनितम्। अग्निपुराणेऽपि ‘तस्य चैतन्यमात्मेति प्रथमं सूत्रमीरितम्। ज्ञानबन्ध इतीदं तु द्वितीयं सूत्रमीशितु’रिति। ततश्च देवादिभिः स्तूयमानं परिचीयमानमात्मनः ‘स्वात्मैव देवता प्रोक्ता ललिता विश्वविग्रहे’ति तन्त्रराजोक्ताया आत्माभिन्नदेवताया वैभवं विभुत्वमनन्तशक्तिसंवृतत्वरूपं प्राभवं यस्याः सेति वर्णनीयम्। अथ देवकार्यसमुद्यतेति यत्स्थूलरूपस्य कार्यमुक्तं तत्प्रपञ्चयति। भण्डनामकोऽसुरस्तद्युद्धादिकं च ललितोपाख्याने विस्तरेण प्रसिद्धतरम्। तदुक्तं तत्रैव ब्रह्माण्डपुराणे मन्मथदाहं प्रक्रम्य ‘अथ तद्भस्म संवीक्ष्य चित्रकर्मा गणेश्वरः। तद्भस्मना तु पुरुषं चित्राकारं चकार सः’ इत्यारभ्य ‘एतद्दृष्ट्वा तु चरितं धाता भण्डिति भण्डिति। यदुवाच ततो नाम्ना भण्डो लोकेषु
संपत्करी समारूढसिंधुरव्रजसेविता।
अश्वारूढाधिष्ठिताश्वकोटिकोटिभिरावृता॥७६॥
——————
कथ्यते’ इत्यन्तम्। तस्यासुरत्वमपि तत्रैवोक्तम् ‘रुद्रकोपानलाज्जातो यतो भण्डो महाबलः। तस्माद्रौद्रस्वभावश्च दानवश्चाभवत्ततः’ इति। तस्य दैत्यस्य वधे हनने उद्युक्तानां शक्तीनां स्त्रीदेवतानां सेनाभिः सैन्ये सम्यक् व्यूहनिर्माणेनान्विता युक्ता। सम्यगभेदेनान्विता वा। तथाच गौडपादीयं सूत्रम् ‘भण्डासुरहननार्थमेकैवानेका’ इति। यद्वा भण्डो निर्लज्जः स च प्रकृते जीवभावमापन्नो देही। तदाहुः ‘सच्चित्सुखात्मापि जडास्थिरत्वदुःखादिभिः क्लिश्यसि भण्डिमाय’मिति। तस्यासून् प्राणान् रात्यादत्ते तत्सर्वं स्वं तद्गतो धर्मो भण्डिमेति यावत्। ‘ज्ञानबन्ध’ इति सूत्रोक्तो बन्ध इति भावः। अस्यात्मा ज्ञानमिति सूत्रद्वयं संधावकारश्लेषाश्लेषाभ्यामात्मन्यात्मत्वज्ञानाभावोऽनात्मन्यात्मत्वज्ञानं च आणवमलपदवाच्यत्वेन प्रसिद्धो बन्ध इत्यर्थस्तद्भाष्यवार्तिकयोरुक्तः। तस्य वधो यस्मात्तदुद्युक्तमुद्योग उद्यम इति यावत् तस्य याः शक्तयः सामर्थ्यानि तासां सेनया समूहेन समन्वितेति रहस्यार्थः। तथाच शिवसूत्राणि ‘उद्यमो भैरवः शक्तिचक्रानुसंधाने विश्वसंहारः’, ‘शक्तिसंधाने शरीरोत्पत्तिः’, ‘भूतसंधाने भूतपृथक्त्वविश्वसंघट्टा’ इत्यादीनि। तद्वार्तिकानि यथा ‘योऽयं विमर्शरूपायाः प्रसरन्त्याः स्वसंविदः। झडित्युच्चलनाकारप्रतिभो मज्जनात्मकः॥ उद्यमोऽन्तःपरिस्पन्दः पूर्णाहंभावनात्मकः। स एव सर्वशक्तीनां सामरस्यादशेषतः॥ विश्वतोभरितत्वेन विकल्पानां विभेदिनाम्। अलं कवलनेनापीत्यन्वर्थादेव भैरवः॥ योऽयमुक्तः स्वसंवित्तरुद्योगो भैरवात्मकः। अस्यास्ति महती शक्तिरतिक्रान्तक्रमाक्रमा॥ निःशेषनिजचिच्छक्तिसेनाक्रमणलम्पटः। रिक्तारितो भयाकाराप्यन्यैतद्दूषिणी परा॥ तथैव स्वात्मचिद्भित्तौ प्रमेयोल्लासनादितः। परप्रमातृविश्रान्तिपर्यन्तस्पन्दरूपया॥ सृष्टिस्थितिलयान्ताख्या भासा शक्तिप्रसारणात्। प्रपञ्चविषयं चञ्चत्पञ्चकृत्यं प्रपञ्चितम्॥ तया प्रसारितस्यास्य शक्तिचक्रस्य यत्पुनः। संधानमान्तरा मायास्वोक्तक्रमविमर्शनम्॥ तस्मिन्सत्यस्य विश्वस्य कालाम्यादिकलावधेः। संहारः स्यात्स्वसंवित्तिवह्निसद्भावलक्षणः॥ इच्छाशक्तिरुमेत्यादिसूत्रोक्ता शक्तिरस्य या। संधाने योगिनस्तस्यास्तन्मये भावने सति॥ तद्वशात्तत्तदिच्छार्हशरीरोत्पत्तिरिष्यते। भूतानां देहधीप्राणशून्यांनां ग्राहकात्मनाम्॥ग्राह्याणां स्थावराणां च संधानं परिपोषणम्। पृथक्त्वमथ विश्लेषो व्याध्यादिक्लेशबन्धनात्॥ विश्वस्य देशकालादिविप्रकृष्टस्य यत्पुनः। संघट्टश्चक्षुराद्यक्षप्रत्यक्षीकरणादिकम्॥ एतत्सर्वं भवेच्छक्तिसंधाने सति योगिन’ इत्यादि। पुंस्त्वशक्तिर्बाल्ये तिरोहितापि यौवने यथा समुल्लसति तथा विचित्राः शक्तिसमूहा जीवे विद्यमाना अप्यज्ञानवशात्तिरोहिताः, उद्योगे सति तु सर्वा अपि ताः समुल्लसन्तीति तु समुदायार्थः॥७५॥ अस्ति संपत्करीनाम काचिद्देवता तावत्स्वतन्त्रतन्त्रे ‘संपत्करीति काप्यस्ति विद्या साऽचिन्त्यवैभवे’त्यारभ्य एवं
त्रिवर्णा सा विद्या विधानं चाथ कथ्यत’ इत्यन्तेन वर्णिता। सा हि त्रिपुरसुन्दर्या गजेष्वधिकृतेति ललितोपाख्याने प्रसिद्धम्। ‘ललितापरमेशान्या अङ्कुशास्त्रात्समुद्गता। संपत्करी नामदेवी’त्यारभ्य ‘रणकोलाहलं नाम सारुरोह मतंगज’मित्यादिकमुक्त्वा ‘तामन्वगा ययुः कोटिसंख्याकाः कुञ्जरोत्तमा’ इत्यन्तम्। तया सम्यग्गजशास्त्रकथितोपायैरारूढानामारोहणादिना नियमितानां सिन्धुराणां भद्रमन्दमृगादिभेदभिन्नगजानां व्रजेन हास्तिकेन सेविता। अथवा सुखसंपन्मयी चित्तवृत्तिः संपत्करीत्युच्यते तस्यां समारूढैर्विपयीभूतैः सिन्धुरव्रजैःशब्दादिविषयसमूहैः सेविता। तथाचकादिमते ‘इन्द्रियार्थान्गजान्पूर्वे तन्नाम्नैव समर्चये’दिति। एकस्मिन् ज्ञाने विषयीभूतायास्त्रिपुट्या विविच्य संबन्धज्ञानरूपा चित्तवृत्तिः सुखसंपत्करी। तदुक्तं प्रत्यभिज्ञायाम् ‘ग्राह्यग्राहकसंवित्तिसामान्ये सर्वदेहिनाम्। योगिनां तु विशेषोऽयं संबन्धे सावधानते’ति। तदिदं ‘लोकानन्दः समाधिसुख’मिति शिवसूत्रव्याख्यायां स्पष्टम्। ‘मात्रा स्वप्रत्ययानुसंधाने नष्टस्य पुनरुत्थान’मिति सूत्रे वरदराजेनोक्तं ‘मात्राः पदार्थरूपाद्यास्तेष्वेभिश्चक्षुरादिभिः। अक्षैः स्वप्रत्ययो नाम ततस्त्वग्राह्यवेदनम्॥ संधानं तु समस्तं तदहमित्यनुसंहतिः। अमुष्मिन्सति नष्टस्य हरितस्योक्तवर्गतः॥ तुर्यस्य पुनरुत्थानं भूय उन्मज्जनं भवेत्। ऐक्यसंपत्करं तस्य योगीन्द्रस्येतिशिष्यत’ इति। अश्वारूढाख्या काचिद्देवता तन्त्रे प्रसिद्धा। यस्यास्त्रयोदशाक्षरो मन्त्रः सा तावदश्वेष्वधिकृता। तदुक्तंब्रह्माण्डपुराणे ‘अथ श्रीललितेशान्याः पाशायुधसमुद्भवा। अतित्वरितविक्रान्तिरश्वारूढाऽचलत्पुर’ इत्यारभ्य ‘अपराजितनामानं समारुह्य हयं ययौ। बहवो वातजवना वाजिनस्तांसमन्वयु’रित्यन्तम्। अतएव त्रिपुरासिद्धान्ते नामनिरुक्तिः ‘तुरङ्गेषु स्थिरत्वाच्च साश्वारूढेति गीयत’ इति। तयाधिष्ठितानां स्वायत्तीकृतानां अश्वानां कोटिगुणितकोटिभिर्जलधिसंख्याभिर्बह्वीभिरावृता। यद्वा ‘इन्द्रियाण्यश्वरूपाणि तत्र पश्चिमतो यजे’दिति कादिमते वचनादश्वपदेनेन्द्रियाणि कथ्यन्ते। तदारूढं मनः। मनस इन्द्रियद्वारैव वृत्तिनिर्गमात्। ततश्चैकेन मनसा असंख्यातानीन्द्रियाण्यधिष्ठाय तत्तत्सुखानि भुनक्तीत्यर्थः। अश्वारूढैरिति बहुवचनान्तेन विग्रहे बहुभिर्मनोभिर्युगपदनन्तेन्द्रियाधिष्ठात्रीत्यर्थः। आत्माख्यदेवतारूपो योगी पूर्वोक्तोद्यमाभ्यासवांश्चेदिच्छामात्रेण सर्वशरीराभिमानी भवतीति भावः। तथाच शिवसूत्राणि ‘विस्मयो योगभूमिकाः। इच्छाशक्तिरुमा कुमारी। दृश्यं शरीर’मिति। तद्वार्तिकानि च ‘यथा सातिशयानन्दे तस्य चिद्विस्मयो भवेत्। तथास्य योगिनो नित्यं तत्तद्वेद्यावलोकने॥ निःसामान्यपरानन्दानुभूतिस्तिमितेन्द्रिये। परे स्वात्मन्यतृप्त्यैव यदाश्चर्यं स विस्मयः॥ सएव खलु योगस्य परतत्त्वैकरूपिणः। भूमिकास्तत्क्रमारोहपरविश्रान्तिसूचिकाः॥ ईदृग्विस्मयविद्योगभूमिकारूढचेतसः। परभैरवतां युक्त्याभ्यसमानस्य शाश्वती॥ तस्यैव योगिनो येच्छाशक्तिः सैव भवत्युमा। परा भट्टारिका सैव कुमारीति प्रकीर्तिता॥ सदाशिवादिक्षित्यन्तविश्वसर्गादिलीलया। कुमारी कुं महामाया भूमिं मारयतीत्यपि॥ कुमारी चोपभोग्यस्य योगिनो भैरवात्मनः। कुमारी नान्यभोग्यस्य
चक्रराजरथारूढसर्वायुधपरिष्कृता।
गेयचक्ररथारूढमन्त्रिणीपरिसेविता॥७७॥
——————
भोकैकात्म्येन तिष्ठति॥ उमा कुमारी संत्यक्तसर्वसङ्गा महेशितुः। आराधनपरा तद्वदिच्छाशक्तिस्तु योगिनः॥ अयमेव स्फुटोपायो दृष्टोऽनुत्तरदेशिकैः। एवमीदृक्प्रभावेच्छाशक्तियुक्तस्य योगिनः॥ यद्यद्दृश्यमशेषं तच्छरीरं तस्य योगिनः अहमित्यपृथक्त्वेन प्रतिवत्प्रतिभासनात्॥ एवं देहे च बाह्ये च सर्वत्रैपास्य योगिनः। दृश्यं शरीरतामेति शरीरं चापि दृश्यता’मिति। सूत्रान्तरं च ‘यथा तत्र तथान्यत्रे’ति। ‘यत्र स्वाभाविका देहे स्फुटीभूता स्वतन्त्रता। यथा तत्र तथान्यत्र देहे भवति योगिनः। स्फुटीभवति युक्तस्य पूर्णाहन्तास्वरूपिणी’ति॥ ॥ चक्रराजकिरिचक्रगेयचक्रादयो रथप्रभेदा रथशास्त्रे ललितोपाख्याने च वर्णिताः। ‘आनन्दध्वजसंयुक्तो नवभिः पर्वभिर्युतः। दशयोजनमुन्नम्रश्चतुर्योजनविस्तृतः॥ महाराज्ञाश्चक्रराजरथेन्द्रः प्रचलन्बभौ। मन्त्रिताभामहाचक्रे गीतिचक्रे रथोत्तमे॥ सप्तपर्वाणि चोक्तानि तत्र देव्यश्च ताः शृणु। किरिचक्ररथेन्द्रस्य पञ्चपर्वसमाश्रयाः। देवताश्व शृणु प्राज्ञ नामानि शृण्वतां जयः॥ चक्रराजरथो यत्र तत्र गेयरथोत्तमः। यत्र गेयरथस्तत्र किरिचक्ररथोत्तमः॥ एतद्रथत्रयं तत्र त्रैलोक्यमिव जंगम’मित्यादि। तेषु चक्रराजाख्यं रथमारूढैः सर्वैरायुधैः परिष्कृतालंकृता युद्धकाले देवी। रथसमीपे देव्याः सर्वाण्यायुधानि चक्रराजरथे परिपूर्य स्थापितानि सन्तीत्यर्थः। यद्वा चक्रराजं श्रीचक्रमेव रथस्तमारूढानि यानि सर्वायुधानि सर्वाण्यात्मज्ञानसाधनानि तैरित्यादि। यज्ञायुधानि संभरतीत्यादौ साधने प्रायुधशब्दप्रयोगदर्शनात्। आणवोपायशाक्तोपायशांभवोपायादयः शैवशास्त्रोक्तसाधनविशेषा योगशास्त्रोक्ताश्च ते श्रीचक्रान्न भिद्यन्त इत्यर्थः। तथाच सूत्रम्। ‘नासिकान्तमध्यसंयनात्किमत्र सव्यापसव्यसौषुम्येष्वि’ति। चक्रसिद्धौ सत्यां योगमार्गे किमपि नावशिष्यत इत्यर्थः। अथवा चक्रराजमेव रथ आधारो यस्य तच्चक्रेशत्वाख्या सिद्धिरितियावत्। तामारूढं तद्दानेऽधिकृतं यत्सर्वायुधं सर्वाणि कर्मादिरूपाण्यायुधानि साधनानि यस्मिंस्तत् ‘सर्वं कर्माखिलं पार्थ ज्ञाने परिसमाप्यत’ इति वचनाज्ज्ञानं शुद्धविद्येत्यर्थः। तया परिष्कृता। तथाच शिवसूत्रम् ‘शुद्धविद्योदयाच्चक्रेशत्वसिद्धि’रिति। वार्तिकान्यापि ‘यदाऽपरिमितां सिद्धिमनिच्छन्पुनरिच्छति। विश्वात्मवत्प्रथारूपां परां सिद्धिं तदास्य तुं॥ शुद्धविद्योदयाच्चक्रराजत्वं सिद्धिमृच्छति। वैश्वात्म्यप्रथनाकाङ्क्षी संधत्ते शक्तिमात्मनः॥ यदा योगी तदा तस्य सदाशिवपदस्पृशः। ईश्वरो बहिरुन्मेषो निमेषोऽन्तः सदाशिवः। सामानाधिकरण्यं च सद्विद्याहमिदंधियोः। इति नीत्या जगत्सर्वमहमेवेति या मतिः॥ सा शुद्धा निर्मला विद्या तदीयादुदयात्स्फुटात्। उन्मज्जनात्स चिच्छक्तिमात्मनो नित्यमामृशेत्॥ यदा योगी तदा तस्य चक्रेशत्वमनुत्तरम्। माहेश्वर्याः समावेशोत्कर्षात्सिध्यति योगिनः’ इति। गेयचक्राख्यं
किरिचक्ररथारूढदण्डनाथपुरस्कृता।
ज्वालामालिनिकाक्षिप्तवह्निप्राकारमध्यगा॥७८॥
——————
रथमारूढया मन्त्रिण्या श्यामलादेव्या परितः सेविता। यद्वा गेयं प्रसिद्धं चक्रं यस्य तादृशो रथो यस्य सूर्यमण्डलस्य तत्रारूढाभिर्मन्त्रिणीभिर्विद्योपासकाभिर्योगिनीभिः परिसेविता। अथवा गेयो मुख्यश्चक्राख्यो रथो यस्याः सा त्रिपुरसुन्दरी तस्या आरूढमारोहणं बुद्धौविषयीकरणमनुसंधानमितियावत्। तेन या मन्त्रिणी। मन्त्रोऽस्यास्तीति मन्त्रि मन्त्रवीर्यं तन्नयति विषयीकरोतीति तदनुभवस्तेन परिसेविता। आत्मानं त्रिपुरसुन्दर्याश्चाभेदेनानुसंधाने क्रियमाणे यत्तावत्तन्त्रराजे कथितं गुरुमुखैकवेद्यं मन्त्रवीर्ययोजनं तस्यानुभवो भवतीत्यर्थः। तथाच सूत्रं ‘महाह्रदानुसंधानान्मन्त्रवीर्यानुभव’ इति। ‘महाह्रद इति प्रोक्ता शक्तिर्भगवती परा। अनुसंधानमित्युक्तं तत्तादात्म्यविमर्शनम्॥ मन्त्रवीर्यमिति प्रोक्तं पूर्णाहन्ताविमर्शनम्। तदीयोऽनुभवस्तस्य स्फुरणं स्वात्मनः स्फुट’मिति। एतच्च ‘विद्याशरीरस्फुरत्ता मन्त्ररहस्य’मिति सूत्रे भगवता श्रीक्षेमराजेन विस्तरेण स्फुटीकृतम्॥७७॥ किरिर्वराहः ‘कोलः पोत्री किरिः क्रिटि’रित्यमरात्। तदाकृतीनि तदाकृष्टानि वा चक्राणि यस्य तं रथमारूढया दण्डनाथया वाराह्याख्यया देव्या पुरस्कृता सेविता। ‘सर्वदा दण्डपाणित्वाद्दण्डनाथेति गीयत’ इति त्रिपुरासिद्धान्ते दण्डनाथनामनिर्वचनात्। अथवा किरय इति किरणाः सृष्टय इति यावत्। इदमुपलक्षणं स्थितिलययोः। तेषां चक्रं समूह एव रथः तस्यारोहेऽपि दण्डनाथेन कृतान्तेन पुरस्कृता न स्वाधीनीकृता। सृष्टिस्थितिलयान्तःपतितोऽपि योगी न यमयातनाविषयः। अलुप्तानुसंधान इतियावत्। तथाच सूत्रम्। ‘तत्प्रवृत्तावप्यनिरासः स्वसंवेत्तृभावा’दिति। व्याख्यातं च भगवता कृष्णदासेन ‘तेषां सृष्ट्यादिभावानां प्रवृत्तावप्यनारतम्। उन्मज्जनेऽपि निष्कम्पयोगावष्टम्भशालिनः॥ अनिरासः स्वसंवेत्तृभावादप्रच्युतिर्निजात्। उद्यत्तुर्यचमत्कारादुपलब्धिस्वभावत’ इति। ज्वालामालिनीनामिका चतुर्दशीतिथिनित्या। तया हि श्रीमातरमभितो वह्निमयः प्राकारो निर्मितः तदाक्षिप्तस्य निर्मितस्य वह्निमयस्य प्राकारस्य वरणस्य मध्यगा मध्यभागे स्थिता। तथाच ब्रह्माण्डे ज्वालामालिनींप्रति देवीवचनम् ‘वत्से त्वं वह्निरूपासि ज्वालामालामयाकृतिः। त्वया विधीयतां रक्षा बालस्यास्य महीयसः॥ शतयोजनविस्तारं परिवृत्य महीतलम्। त्रिंशद्योजनमुन्नम्रज्वालाप्राकारतां व्रजे’दित्यादि। यद्वा ननु परस्परविलक्षणसृष्ट्यादिसंवृतस्य ज्ञानिनः कथमद्वैतानुसंधानलोपाभाव इत्यत आह—ज्वालेति। ज्वालानां मालिनिका मालास्ताश्च आक्षिप्तास्तत्क्षणे उत्पन्नाश्च वह्नेः प्राकाराः प्रकाराः स्फुलिङ्गादयस्तेषां मध्यगा तद्द्रष्टृत्वेन तत्स्रष्टृत्वेन च मध्यवर्तिनी विवदमानयोर्द्वयोर्मध्यस्थवन्निर्विकारा। सृष्ट्यादिकर्तृत्वेन तद्विकारेऽप्यविकारिणीतियावत्। तदुक्तं स्पन्दशास्त्रे ‘अवस्थायुगलं चात्र कार्यकर्तृत्वशब्दितम्। कार्यता क्षयिणी तत्र कर्तृत्वं पुनरक्षयम्॥ कार्योन्मुखप्रयत्नो यः
भण्डसैन्यवधोद्युक्तशक्तिविक्रमहर्षिता।
नित्यापराक्रमाटोपनिरीक्षणसमुत्सुका॥७९॥
भण्डपुत्रवधोद्युक्तबालाविक्रमनन्दिता।
——————
केवलं सोऽत्र लुप्यते। तस्मिनुप्तेऽपि लुप्तोऽस्मीत्यबुधः प्रतिपद्यते॥ नतु योऽन्तर्मुखो भावः सर्वज्ञत्वगुणास्पदः। तस्य लोपः कदाचित्स्यादन्यस्यानुपलम्भना’दिति। चिद्व
हिरूपस्य ज्ञानिनो. विस्फुलिङ्गज्वालादितुल्यजगतः कार्यस्य नाशेऽपि वह्नित्वरूपप्रकाशकत्वस्य प्रकाशात्मकत्वस्य वा न क्षतिरिति फलितार्थः। नच शिवकार्यस्य क्षयिष्णुत्वेन शिवनिष्ठकर्तृत्वस्य नाशाभावे साधकस्य योगिनः किमायातमिति वाच्यम्। अस्यापि शिवतुल्यत्वेन ‘तथापर्यनुयोगानर्हत्वाच्छिवतुल्यो जायत’ इति सूत्रात्। उक्तंच ‘स्वशक्तिप्रचयो विश्व’मिति सूत्रे वार्तिककारैः। ‘शक्तयोऽस्य जगत्कृत्स्नं शक्तिमांस्तु महेश्वरः। इत्यागमदिशा विश्वं स्वशक्तिप्रचयो यथा॥ शिवस्य तत्समस्यापि तथास्य परयोगिन’ इति। अथवा। ज्वालामालिनिकासु शक्तित्रिकोणेषु पञ्चसु क्षिप्तानां समरसभावमापन्नानां वह्निप्राकारणां शिवत्रिकोणानां चतुर्णां मध्ये बिन्दुरूपेण तिष्ठतीति। तदुक्तमुत्तरचतुःशतीशास्त्रे ‘तच्छक्तिपञ्चकं सृष्ट्या लयेनाग्निचतुष्टयम्। पञ्चशक्तिचतुर्वह्निसंयोगाच्चक्रसंभव’ इति॥७८॥ भण्डासुरस्य सैन्यस्य चतुरङ्गबलस्य वधे उद्युक्तानां संयतानां शक्तीनां नकुल्यादीनां विक्रमेण पराक्रमेण हर्षिता। यद्वा। भण्डो जीवभावस्तस्य सैन्यं तदनुगुणाद्वैतविषयिण्यो वृत्तयस्तस्य वधेउद्युक्तानामद्वैतवृत्तिरूपशक्तीनां विशेषेण क्रमः पादविक्षेपस्तेन हर्षिता। स्वानन्दांशे आवरणनाशात्। तदिदमुक्तं शक्तिसूत्रे ‘तदपरिज्ञाने स्वशक्तिव्यामोहिता संसारित्व’मिति। तस्य स्वकर्तृकपञ्चविधकृत्यस्यापरिज्ञाने स्वाभिः शक्तिभिः खेचरीगोचरीदिक्चरीभूचरीसंज्ञाभिर्व्यामोहितैव संसारित्वमिति तदर्थः। तासां च शक्तीनां पशुभूमिकापतिभूमिकेति भूमिकाद्वैविध्येन प्रमात्रन्तःकरणबहिःकरणविषयभावाद्यापत्तिस्तद्भाष्ये द्रष्टव्या। एतद्युक्तशक्तयश्चैतदुत्तरसूत्रे कथिताः तत्परिज्ञाने चित्तमेवान्तर्मुखीभावेन चेतनपदाध्यारोहाच्चितिरिति। अन्तर्मुखीभावशब्देन वृत्तिविशेषरूपाः शक्तयउच्यन्त इति। कामेश्वर्यादिचित्रान्ताः पञ्चदशतिथिनित्याख्या देवताः। यासां मन्त्रा ज्ञानार्णवे मन्त्रराजे च मेदेनोद्धृताः। तासां पराक्रमस्याटोपो विस्तारो दमनकादिचन्द्रगुप्तान्तपञ्चदशसेनानीवधपर्यन्तः तस्य निरीक्षणे सम्यगुत्सुका। पक्षे नित्या अनादिसिद्धाः स्वात्मशक्तयस्तत्पराक्रमेक्षणे उत्तरोत्तरमुत्सुका। सकृज्जातापि ज्ञानकलान्तर्मुखतायामेवोत्साहं जनयन्ती सती वर्धते। उक्तंच योगवासिष्ठे ‘सर्वा एव कला जन्तोरनभ्यासेन नश्यति। इयं ज्ञानकला त्वन्तः सकृज्जातापि वर्धत’ इति॥७९॥ भण्डासुरस्य पुत्राणां चतुर्बाह्वाद्युपमाया(ख्या)न्तानां त्रिंशत्संख्याकानां वधे उद्युक्ताया बालाख्यदेव्या नववर्षायाः
मन्त्रिण्यम्बाविरचितविषङ्गवधतोषिता॥८०॥
विशुक्रप्राणहरणवाराहीवीर्यनन्दिता।
कामेश्वरमुखालोककल्पितश्रीगणेश्वरा॥८१॥
——————
स्वपुत्र्या विक्रमेण नन्दिता हृष्टा। उक्तंच ब्रह्माण्डे ‘ताभिर्निवेद्यमानानि सा देवी ललिताम्बिका। पुत्र्या भुजापदानानि श्रुत्वा प्रीतिं समायया’विति। मन्त्रिण्यम्बया श्यामलाम्बया विरचितेन विषङ्गाख्यस्य दैत्यस्य वधेन तोषिता। विषङ्गविशुक्रौभण्डासुरभ्रातरौ। तदुक्तं ब्रह्माण्डे। ‘पुरा भण्डासुरो नाम सर्वदैत्यशिखामणिः। पूर्वदेवान्बहुविधान्यः स्रष्टुं स्वेच्छया पटुः॥ विशुक्रं नाम दैतेयवर्गसंरक्षणक्षमम्। शुक्रतुल्यविचारज्ञं दक्षांसेन ससर्ज सः॥ वामांसेन विषङ्गं च सृष्टवान्भ्रातरावुभा’वित्यादि॥८०॥ विशुक्राख्यस्य दैत्यस्य प्राणान् हरतीति हरणं तादृशेन वाराहीनामिकाया दण्डिनीदेव्या वीर्येण शौर्येण नन्दिता। त्रिपुरासिद्धान्ते वाराहीप्रदनिरुक्तिर्यथा ‘वराहानन्दनाथस्य प्रसन्नत्वान्महेश्वरी। वाराहीति प्रसिद्धेयं वराहवदनेन चे’ति। पक्षे भण्डपुत्रा आणवादयो मलाः, विरुद्धः सङ्गो विषङ्गो विषयाभिलाषः, विषं गच्छतीति वा विषात्मक इतियावत्। अतएव ‘यो विषस्थो ज्ञानशक्तिहेतुश्चे’ति सूत्रे विषविरुद्धत्वादविषशब्दो माहेश्वर्यादिशक्तिमण्डलपरत्वेन क्षेमराजवृत्तौ व्याख्यातः। विरुद्धं शुक्रं तेजो यस्य स जीवभावः। विशेषेण शुचं शोकं राति क्रामतीति वा। अयस्मयादित्वात्पृषोदरादित्वाद्वा पक्षद्वये शब्दसिद्धिः। बालामन्त्रिणीवाराह्य अन्तरवृत्तिविशेषास्ताभिस्तेषां क्षयेण स्वात्मदेवता तुष्यतीति। तदिदमुक्तं ‘बललाभे विश्वमात्मसात्करोती’ति शक्तिसूत्रे। चितिरेव बलं तल्लाभे उन्मग्नस्वरूपाश्रयेण विश्वं स्वाभेदेन भासयतीति तद्भाष्यम्। तथा ‘तदारूढप्रमिते तत्क्षयाज्जीवसंक्षय’ इति शिवपुत्रे वार्तिककारैः ‘तदीत्युक्तचरे धाम्नि संवेत्तृत्वस्वरूपिणी। आरूढा प्रमितिः सच्चिन्मद्विमर्शनतत्परा॥ यस्य तस्यास्य तदिति प्रोक्ताणवमलात्मनः। अभिलाषस्य रूढस्य क्षयाज्जीवस्य संक्षय’ इति। असुरनिर्मितैर्नानाविधैर्विघ्नैर्यन्त्रितान्देवान्वीक्ष्य श्रीमात्रा तदात्व एव स्वभर्तुर्मुखालोकनमात्रेणाष्टाविंशत्यर्णोमहागणपतिरुत्पादितस्तेन तदीयं विघ्नयन्त्रं निर्भिद्य देवा मोचिताः। उक्तंच ब्रह्माण्डपुराणे ‘ततः सा ललितादेवी कामेश्वरमुखं प्रति। दत्तापाङ्गा, समहसन्नातिव्यक्तरदावलिः॥ तस्या मन्दस्मितरुचः कुञ्जराकृतिमान्मुखे। कटक्रोडगलद्दानः कश्चिद्देवो व्यजृम्भते’त्यादि। तदिदं नामद्वयेनाह। कामेश्वरमुखस्य परशिववदनचन्द्रस्यालोकाभ्यां साकूतवीक्षणचन्द्रिकाभ्यां कल्पित उत्पादितः श्रीमान्महान्गणेश्वरो यस्याः सा। यद्वा सूत्रोक्तो जीवक्षयो नित्यत्वान्नयुज्यत इत्याशङ्क्य जीवभावस्य क्षयपरत्वेन समाधत्ते — कामेश्वर इति। कामेश्वरः केवलनिर्गुणः शिवस्तन्मुखालोकेन तदनुभवेन कल्पितं श्रीगणेश्वरत्वं पुर्यष्टकाधीश्वरत्वं यया सा पुर्यष्टकप्रमातृत्वाहन्ताभिमानिविशिष्टस्य जीवपदवाच्यत्वेन तत्तादात्म्याभिमानस्य स्वात्मस्वरूपनिष्कर्ष-
महागणेशनिर्भिन्नविघ्नयन्त्रप्रहर्षिता।
भण्डासुरेन्द्रनिर्मुक्तशस्त्रप्रत्यस्त्रवर्षिणी॥८२॥
कराङ्गुलिनखोत्पन्ननारायणदशाकृतिः।
महापाशुपतास्त्राग्निनिर्दग्धासुरसैनिका॥८३॥
——————
ज्ञानजन्येन पुर्यष्टकेश्वरत्वज्ञानेन नाशे विशेषणाभावप्रयुक्तो विशिष्टाभाव इति भावः। तदुक्तं ‘भूतकञ्चुकी तदा विमुक्तो भूयः पतिसमः परः’ इति शिवसूत्रे वार्तिककारैः ‘तदेत्युक्ताभिलाषस्य प्रशमाज्जीवसंक्षये। पुर्यष्टकप्रमातृत्वाभिमानगलनादसौ॥ देहारम्भकरैर्भूतैरस्पृशद्भिरहंप्रदम्। कञ्चुकीव विशेषेण मुक्तो निर्वाणभाग्यतः॥ भूयो बाहुल्यतः पत्या समोऽयं परमेशिना। तत्त्वरूपं समाविष्टश्चिदानन्दघनात्मकम्॥ ततएव परः पूर्णः सम्यक्तन्मयतां गत’ इति। अयमेवार्थः शक्तिसूत्रेऽप्युक्तः ‘चिदानन्दलाभे देहप्राणादिष्ववभासमानेष्वपि चिदैकात्म्यप्रतिपत्तिदार्ढ्यं जीवन्मुक्ति’रिति। ‘मध्यविकासाच्चिदानन्दलाभ’ इत्युत्तरसूत्रे तु मध्यविकासो यश्चिदानन्दलाभो हेतुत्वेनोक्तः स इह वक्ष्यमाणमहागणेशपदेन ग्राह्यः। यश्च मध्यविकासेऽप्युपायस्ततोऽप्युत्तरसूत्रे विकल्पक्षयादिरूपो वर्ण्यते स इह कामेश्वरमुखालोकपदेनोक्तः। प्रहर्षितेत्यनेन तु चिदानन्दलाभ उक्तः। एतेषां स्वरूपनिष्कर्षस्तु प्रत्यभिज्ञाहृदयेऽनुसंधेयो विस्तरभयान्नेहोच्यते॥८१॥ महागणेशेन निःशेषेण भिन्नैर्नाशितैर्विघ्नयन्त्रैः प्रत्यूहसमूहयन्त्रणैः प्रकर्षेण हर्षिता। गव्यूतिमात्रायामे शिलापट्टे अलसादिदेवताष्टकपुटितशूलाष्टकोपेतदिगष्टकं जयविघ्ननाम यन्त्रं विलिख्य देवीसैन्ये विशुक्रेण निक्षिप्तं तन्महागणपतिना चूर्णीकृतमिति ललितोपाख्याने प्रसिद्धम्॥ भण्डेनासुरेन्द्रेण दैत्यराजेन निर्मुक्तानां शस्त्राणां प्रत्यस्त्राणां च प्रतिकूलान्यस्त्राणि वर्षतीति तथा। शस्त्रास्त्रयोर्भेदो धनुर्वेदे ‘धृत्वा प्रहरणं शस्त्रं मुक्त्वा त्वस्त्रमितीरित’मिति। पक्षे महागणानामीश्वरत्वेनात्मन्यात्मताज्ञानाभावादाविद्यकवृत्तिरूपाणां विघ्नानामस्त्राणां च पराहन्तानुसंधानधारारूपप्रत्यस्त्रैर्नाशेन नामद्वयमध्यात्मरीत्यापि व्याख्येयम्॥८२॥ कराङ्गुल्यो दक्षवामकरद्वयस्याङ्गुल्यो दश तासां नखसंधिषूत्पन्नस्य नारायणस्य दशाकृतयो मत्स्यादिदशावतारा यस्याः सा। भण्डासुरेण सर्वासुरास्त्रं नाम सकलदैत्योत्पादनमस्त्रं प्रयुक्तं तेन सोमकरावणबलिहिरण्याक्षादय उत्पन्नाः सन्तोऽयुध्यन्त। ततो देव्या दक्षहस्ताङ्गुष्ठादिवामहस्तकनिष्ठिकान्ताङ्गुलिनखेभ्यः क्रमेण मत्स्यकूर्मवराहनारसिंहवामनभार्गवदाशरथिहलधरकृष्णकल्किरूपदशावतारानुत्पाद्य ते निषूदिताः। उक्तं च ब्रह्माण्डे ‘दक्षहस्ताङ्गुष्ठनखान्महाराज्ञ्याः समुत्थितः। महामत्स्याकृतिः श्रीमानादिनारायणो विभु’रित्यारभ्य’दशावतारनाथास्ते कृत्वेत्थं कर्म दुष्करम्। ललिताम्बां नमस्कृत्य बद्धाञ्जलिपुटाः स्थिता’ इत्यन्तेन। पक्षे जीवसंबन्धिन्यो जाग्रदादयोऽवस्थाः पञ्चेश्वरसंबन्धीनि सृष्ठ्यादीनि कृत्यानि पञ्चेत्येवं दशाकृतयोऽपि नखमात्रेणोत्पन्ना भवन्तीति अनायासेनोत्पद्यन्त इत्यत्र तात्पर्यम्। नारायणशब्दो जीवेश्वरयोरुपलक्षकः। दशाशब्दोऽवस्थापरः। कृति
कामेश्वरास्त्रनिर्दग्धसभण्डासुरशून्यका।
ब्रह्मोपेन्द्रमहेन्द्रादिदेदेवसंस्तुतवैभवा4॥८४॥
हरनेत्राग्निसंदग्धकामसंजीवनौषधिः।
——————
शब्दः कृत्यपरो वा। षडक्षरात्पाशुपतास्त्रमन्त्रादयं भिन्नो महापाशुपतास्त्रमन्त्रः। पूर्व ईश्वरदेवत्योऽन्त्यः सदाशिवदेवत्यः। ‘रुद्रादयः पिशाचान्ताः पशवः परिकीर्तिताः। तेषां पतित्वात्सर्वेशो भवः पशुपतिर्मत’ इति लैङ्गात्। पशुपतेरीश्वरस्य सदाशिवस्येदं पाशुपतम्। अश्वपत्यादित्वान्न पत्युत्तरपदलक्षणो ण्यप्रत्ययः। महञ्चतत्पाशुपतं च महापाशुपतं सदाशिवास्त्रं तस्याग्निना निर्दग्धा असुरस्य भण्डस्य सैनिका यया सा। पक्षेऽभ्यासतारतम्येनोत्तरोत्तरोत्पन्ना उत्कृष्टा अद्वैतवृत्तय एव महापाशुपतास्त्राग्नयोऽसुरसैनिका आविद्यकवृत्तयः॥८३॥ कामेश्वरस्य यदस्त्रं तन्महापाशुपतादस्त्रादप्यधिकं तस्याग्निना निर्दग्धं भण्डासुरेण5 सहितं शून्यकाख्यं तदीयनगरं यया सा। तथाच ब्रह्माण्डे ‘अथैकशेषितं दुष्टं निहताशेषबान्धवम्। क्रोधेन प्रज्वलन्तं च जगद्विप्लवकारिणम्॥ महासुरं महासत्त्वं भण्डं चण्डपराक्रमम्। महाकामेश्वरास्त्रेण सहस्रादित्यवर्चसा॥ गतासुमकरोन्माता ललिता परमेश्वरी। तदस्त्रप्रहितैर्ज्वालैः शून्यकं तस्य पत्तनम्॥ सस्त्रीकं च सबालं च सगोष्ठधनधान्यकम्। निर्दग्धमासीत्सहसा स्थलमात्रमशिष्यत॥ शून्यकं तत्पुरं नाम शून्यमासीद्यथार्थतः’ इति। यद्वा। आत्माख्यदेवताया जीवदशायामेव सायुज्यमुक्तिं प्राप्तस्य शिवतुल्यस्थितिमियता प्रबन्धेन कथयित्वा सांप्रतं प्रारब्धवशात्स्थितस्य दग्धपटाभासस्य द्वैतभानस्य तत्तुल्येन लिङ्गशरीरादिना सह नाशमात्मज्ञानेन वदन् शिवमात्रावशेषमाह। कामेश्वरास्त्रं चिदग्निः। चिदात्मन एव सर्वकाम्यमानत्वेन कामेश्वरत्वात्। ‘आत्मनः कामाय सर्वं प्रियं भवती’ति श्रुतेः। भण्डासुरो द्वैतभानकरो जीवभावः। शून्यकेतिपदस्य दग्धपटाभासद्वैतभानमर्थः। शून्यवादिसंमतं शून्यमेव वा। जीवभावसहितस्य शून्यभावस्य चिदग्निनापगमे चिन्मात्रमवशिष्यत इति सिध्यति। शून्यशब्दाद्रिक्तेर्थे यवादिगणपाठात्कन्॥ एवं भण्डासुरपीडितैर्देवैः स्तुता सती भण्डहननान्तं देवकार्यं कृत्वा तदन्ते संतुष्टैर्देवैः पुनः स्तुते इत्याह—ब्रह्मेति। ब्रह्मविष्णुशक्राद्यैर्देवैः सम्यक् स्तुतं वैभवं पराक्रमो यस्याः। ‘अस्मिन्नवसरे देवा भण्डसंहारतोषिताः। सर्वेऽपि सेवितुं प्राप्ता ब्रह्मविष्णुपुरोगमाः’ इत्यादिब्रह्माण्डपुराणात्। पक्षे ब्रह्माद्यैः संस्तुतं परिचितं विभुत्वमपरिच्छिन्नत्वं सर्वात्मत्वं यस्या आत्मरूपदेवतायाः सा॥८४॥ हरस्य तृतीयनेत्रस्थेन अग्निना सम्यक् दग्धस्य भस्मीकृतस्य कामस्य मन्मथस्य संजीवनौषधिर्जीवातुः। विरक्ततरस्यापि कामेश्वरस्य स्वाभिमुखीकरणात्। भण्डासुरहननोत्तरं ब्रह्मादिभिः प्रार्थितया ललिताम्बया पुनर्मन्मथो जीवित इति कथाया ब्रह्माण्डपुराणे स्मरणाच्च। एतेन ‘पित्रा निर्भत्सितो बालो
मात्रैवाश्वास्यते किल’ इति न्यायोऽप्यनुगृहीतः। अनेनैवाशयेनोक्तं ब्रह्मवैवर्ते ‘हरौ रुष्टे गुरुस्त्राता गुरौ रुष्टे न कश्चने’ति। नच तत्र हरिपदस्योपास्यदेवतोपलक्षणत्वेन त्रिपुरसुन्दरीकोपात्त्राणकर्तृत्वं परमशिवस्यैव गुरुपरंपरावधित्वाद्वक्तव्यं न पुनर्वैपरीत्यमिति श
ङ्क्यम्। परमशिवस्यापि श्रीविद्योपासकत्वेनोपासनायाश्च गुरुमन्तरेणायोगात्तदपेक्षायां त्रिपुरसुन्दर्या एव तद्गुरुत्वस्वीकारात्। अतएव योगिनीहृदये शिवेनैव पार्वतीं प्रत्युक्तम् ‘अन्यायेन न दातव्यं नास्तिकानां महेश्वरि। एवं त्वयाहमाज्ञप्तो मदिच्छारूपया प्रभो’ इति प्रवृत्तिं प्रति इच्छायाः कारणत्वाच्छिवस्य प्रवर्तिका भगवत्येवेति सिद्धं तस्या गुरुत्वम्। अतएव गुरुमूर्तिरिति नाम वक्ष्यते। “शक्त्या विना शिवे सूक्ष्मे नाम धाम न विद्यत’ इति चतुःशतीशास्त्रादिच्छाशक्तिविशिष्टस्यैव परशिवस्यादिनाथत्वेन तन्त्रेषु गणनान्न त्रिपुरसुन्दर्या गुरुमण्डलान्तरादिनाथात्पूर्वगणनपूजनाद्यापत्तिचोद्यावकाशः। तथाच महास्वच्छन्दतन्त्रे ‘गुरुशिष्यपदे स्थित्वा स्वयमेव सदाशिवः। प्रश्नोत्तरपदैर्वाक्यैस्तन्त्रं समवतारय’दिति। स्वयमेवेत्यनेन प्रकाशविमर्शांशयोर्विभजनेन परस्परं गुरुशिष्यभावः सूचितः। प्रवर्तकत्वप्रष्टृत्वे देवीनिष्ठयोर्वक्तृत्वप्रवर्त्यत्वे शिवनिष्ठयोर्गुरुत्वशिष्यत्वयोरवच्छेदके इति तद्भेदादविरोधः। एतदेव द्योतयितुं मदिच्छारूपयेति विशेषणं प्रभुपदेन संबोधनं च। वस्तुतस्तु आदिनाथादर्वागादिशक्त्याम्बानाम्ना द्वितीयस्थाने गण्यत एवेति न ततः पूर्वं पुनर्गणनापत्तिः। सदाशिवनामकतृतीयगुरुं प्रत्यादिनाथावच्छिन्नाया आदिशक्तेरेव गुरुत्वाद्वितीयस्थान एव गणनीयतया न तयोः पौर्वापर्ये विनिगमनाविरहोऽपीति दिक्। यद्वा हरणं हर आत्मस्वरूपापहारः, हरन्तीति वा हाराः आत्मापहर्तारस्तेषां नेता नायकः स एव आसमन्ताद्व्याप्तोऽग्निः स्वस्वरूपान्यथाकरणात्। मूलाज्ञानमिति यावत्। तस्य मूलाज्ञानाधिकत्वात्। तेन सम्यग्दग्धो यः कामो जीवभावमापन्नः कामेश्वरस्वरूप आत्मा तस्य सम्यगावरणपरावृत्त्यभावपूर्वकं जीवने स्वस्वरूपावाप्तौ ओषधिर्मूलिका। एतदुपासनया विद्यारूपयाऽविद्यानिवृत्त्या स्वस्वरूपावाप्तिलक्षणो मोक्ष इति भावः। मन्मथस्य दाहात्पूर्वं स्वशरीरस्य जीवत एव पश्चादशरीरजीवनाद्दृष्टान्तादात्मनोऽपि पूर्वं ब्रह्मण एव सतोऽविद्यावशात्सशरीरस्येव स्थितस्य तन्निवृत्तावशरीरतापूर्वकब्रह्मैक्यप्राप्तिर्ध्वन्यते। ध्वनितं चैवमेव शैवशास्त्रान्तिमाधिकरणे ‘भूयः स्यात्प्रोक्तमिलन’मिति। वार्तिकेऽपि ‘पुनश्च प्रोक्तचैतन्यस्वरूपमिलनात्मकम्। परायोगादिरूढस्य भवेत्परमयोगिनः॥ भूयः स्यादिति वाक्यस्य स्फुट एवायमाशयः। यच्छिवत्वममुष्योक्तं नापूर्वं तत्तु योगिनः॥ स्वभाव एव तन्मायाशक्तिप्रोत्थापितान्निजात्। नानाविकल्पदौरात्म्यात्पराभूतमिव स्वतः॥ विमृष्टं गुरुनिर्दिष्टप्रोक्तोपायक्रमेण तत्। शिवत्वं व्यक्तमेतीति शिवेनोदीरितं शिव’मिति। शक्तिशास्त्रान्तिमाघिकरणेऽपि ‘निजसंविद्देवताचक्रेश्वरत्वप्राप्ति’रिति सूत्रावयवे निजपदेन तथैव स्फोरितमिति। इयता प्रबन्धेन देव्याः परं रूपं सूक्ष्मतरत्वात्सूक्ष्मरूपात्परात्परतो वक्तव्यमपि रहस्योक्तिविषयत्वात्स्थूलरूपकार्येण मण्डासुरवधेन सह श्लेषलिप्सया पूर्वमेवोक्त्वा क्रमप्राप्तं सूक्ष्मरूपं स्थूलरूपा
श्रीमद्वाग्भवकूटैकस्वरूपमुखपङ्कजा॥८५॥
कण्ठाधःकटिपर्यन्तमध्यकूटस्वरूपिणी।
शक्तिकूटैकतापन्नकट्यधोभागधारिणी॥८६॥
मूलमन्त्रात्मिका मूलकूटत्रयकलेवरा।
कुलामृतैकरसिका कुलसंकेतपालिनी॥८७॥
——————
भिन्नत्वेन वर्णयति— श्रीमद्वाग्भवेत्यादिना। सूक्ष्मरूपमपि सुक्ष्मसूक्ष्मतरसूक्ष्मतमभेदात्त्रिविधं पञ्चदशीविद्या कामकलाक्षरं कुण्डलिनी चेति भेदात्। तेष्वाद्यं नामत्रयेणोच्यते। श्रीमज्ज्ञानप्रदायकत्वादिमाहात्म्यशीलं वाग्भवत्यस्मादिति व्युत्पत्त्या वाग्भवनामकं कूटं पञ्चाक्षराणां समुदाय एवैकं मुख्यं स्वं निजं रूपं यस्य तादृशं मुखपङ्कजं यस्याः। तदुक्तं ‘नेत्रोष्ठापरगलवर्णशालिवाचां संभूतिर्मुखमिति वाग्भवाख्यकूट’मिति॥८५॥ कण्ठस्याधःकटिपर्यन्तो यस्य स मध्यभागः स एव मध्यस्थकामराजाख्यस्य षडक्षरसमूहस्य स्वं निजं रूपमस्याः। पटुज्योतिष्मती लोचने इति वत्कर्मधारयादपि मत्वर्थीयः। सर्जनशक्तिमत्त्वाच्छक्तिनामकेन कूटेन चतुरक्षरसमूहेनैकतामभेः दमापन्नं कटेरधोभागं धारयतीति तथा। तदुक्तम् ‘कामस्ते हृदि वसतीति कामराजं स्रष्टृत्वात्तदनु तवाम्ब शक्तिकूट’मिति॥८६॥ चतुर्विधपुरुषार्थमूलकारणत्वान्मूलं पञ्चदशाक्षरी सैव मननात्त्रायत इति मन्त्र आत्मा स्वरूपं यस्याः। तदुक्तं ‘पूर्णाहन्तानुसंध्यात्मा स्फूर्जन्मननधर्मतः। संसारक्षयकृत्त्राणधर्मतो मन्त्र उच्यते’ इति। मूलस्य कूटत्रयमेवोक्तरीत्या कलेवरं स्थूलरूपं यस्याः, कूटत्रयमेव कलेवरं सूक्ष्मरूपं यस्या इति वा। वस्तुतस्तु मूलशब्दाभ्यां कामकलाक्षरमुच्यते। कूटत्रयपदेन त्र्यात्मकसमुदायघटकावयवा उच्यन्ते। अवयवे तयपो विधानात्। कामकलायां तूर्ध्वबिन्दुरेकस्तदधस्तिर्यग्बिन्दुद्वयं तदधो सार्धकलेति त्रयोऽवयवा गुरुमुखैकवेद्याः, त एव क्रमाद्विद्याकूटतया स्थूलरूपमुखाद्यवयवात्मना च परिणता इति सूक्ष्मतरं कुण्डलिन्याख्यं सूक्ष्मतमं वररूपपरं नामद्वयं समष्टिव्यष्टिभेदेनेति नाथचरणागमे विस्तरः। एवं ब्रह्माण्डान्तर्गतरूपमुक्त्वा पिण्डाण्डान्तर्गतं कुण्डलिन्याख्यं रूपं वक्तुमुपक्रमते। सा हि मूलाधाराख्ये चक्रे सार्धत्रिवलयाकारेण सुप्ता सती योगिभिरुत्थाप्य षट्चक्राणि ब्रह्मविष्ण्वादिग्रन्थीश्च भेदयन्ती सहस्रारं नीता सती तत्कर्णिकारूपचन्द्रमण्डलाद
मृतं स्रावयति। अयोगिभिरपि भावनामात्रेण सर्वाप्येषा प्रक्रिया संपाद्यते तत्प्रक्रियापराणि नामान्याह—कुलामृतेत्यादिना। कुलं सजातीयसमूहः। सचैकज्ञानविषयत्वरूपसाजात्यापन्नज्ञातृज्ञेयज्ञानरूपत्रयात्मकः। घटमहं जानामीत्येज्ञानाकारात् ज्ञानभासनायानुव्यवसायापेक्षायां दीपभासनाय दीपान्तरापेक्षा इति उक्तं चाचार्यभगवत्पादैः ‘जानामीति तमेव भान्तमनुभायेतत्समस्तं जग’ति
कुलाङ्गना कुलान्तस्था कौलिनी कुलयोगिनी।
——————
ततश्च सा त्रिपुटी कुलमित्युच्यते। तदुक्तं चिद्गगनचन्द्रिकायाम् ‘मेयमातृमितिलक्षणं कुलं प्रान्ततो व्रजति यत्र विश्रम’मिति। ऊर्ध्वाधरभावेन विद्यमानेषु स्वच्छन्दसंग्रहादौ प्रपञ्चितेषु द्वात्रिंशत्पद्येषु सर्वाधस्तनं पद्मं त्रिपुटीसंबन्धाभावादकुलमुच्यते। तदुपरिस्थानि कुलसंबन्धीनि। यद्वा। कुः पृथ्वीतत्वं लीयते यत्र तत्कुलमाधारचक्रं तत्संबन्धाल्लक्षणया सुषुम्णामार्गोऽपि। अतः सहस्रारात्स्रवदमृतं कुलामृतम्। ‘शरीरं कुलमित्युक्त’मिति स्वच्छन्दसंग्रहोक्त्या शरीरसंबन्धित्वाद्वा तत्कुलामृतम्। तत्र मुख्यतया रसिका तद्रसास्वादनपरा। ‘पुष्पितायाः कुलाङ्गारं दृष्ट्वा यो जपते नर’ इति कालीतन्त्रे प्रयोगात्तत्रत्यामृतरहस्य रसिकेति वा। उपास्योपासकवस्तुजातस्य चित्त्वेन साजात्यात्तत्समुदायप्रतिपादकं शास्त्रमपि कुलम्। तथाच कल्पसूत्रे प्रयोगः ‘कुलपुस्तकानि च गोपाये’दिति। ‘दर्शनानि तु सर्वाणि कुलमेव विशन्ति ही’त्यागमे च। ‘न कुलं कुलमित्याहुराचारः कुलमुच्यत’इति भवि
ष्योत्तरपुराणवचनादाचारोऽपि कुलं तयोः संकेतान् तत्रत्यरहस्यानि पालयति पशुषु न प्रकाशयति सांप्रदायिकपरंपरायै प्रकाश्य तन्तुं प्रवर्तयति चेति तथा। ‘चक्रसंकेतको मन्त्रपूजासंकेतकाविति। त्रिविधस्त्रिपुरादेव्याः संकेतः परमेश्वरी’त्यागमे ‘कुलाङ्गनैषाप्यथ राजवीथीः प्रविश्य संकेतगृहान्तरेषु। विश्रम्य विश्रम्य वरेण पुंसा संगम्य संगम्य रसं प्रसूत’ इति चिन्तामणिस्तवे च प्रतिपादितोऽयमर्थः॥८७॥ कुलं नाम पातिव्रत्यादिगुणराशिशीलो वंशस्तत्संबन्धिन्यङ्गना यथा गुप्ता तथेयमप्यविद्याजवनिकया गुप्तत्वात्कुलाङ्गना। तदुक्तं कुलार्णवे ‘अन्या तु सकला विद्याः प्रकटा गणिका इव। इयं तु शांभवी विद्या गुप्ता कुलवधूरिवे’ति। भगवान्परशुरामोऽप्याह ‘अन्या विद्या वेश्या इवातिप्रकटा’ इत्यादि। कुलस्यान्तः मातृमेययोर्मध्ये मितिरूपेण स्थिता। कुलशास्त्रस्य मध्ये ज्ञेयत्वेन वा स्थिता। प्रतिगृहं प्रतिदेशं प्रतिदेहं प्रतिवशं वा पूज्यत्वेन तिष्ठति। ‘कुलं जनपदे गृहे। सजातीयगणे गोत्रे देहेऽपि कथितं कुल’मिति विश्वः। तदुक्तं भविष्योत्तरपुराणे ‘पूजनीया जनैर्देवी स्थानेस्थाने पुरेपुरे। गृहेगृहे शक्तिपरैग्रमेग्रामे वनेवन’ इति। अधःस्थितं रक्तं सहस्रदलकमलमपि कुलम्। तत्कर्णिकायां कुलदेवीदलेषु कुलशक्तयश्च सन्तीति स्वच्छन्दतन्त्रेऽस्य विस्तरः। ईदृगर्थस्य कुलपदस्य परतः संबन्धसामान्यार्थे तद्धिते कौलम्। ‘कुलं शक्तिरिति प्रोक्तमकुलं शिव उच्यते। कुलेऽकुलस्य संबन्धः कौलमित्यभिधीयत’ इति तन्त्रोक्तम्। शिवशक्तिसामरस्यं वा कौलं तद्वती कौलिनी। बाह्याकाशावकाशे चक्रं विलिख्य तत्र पूजादिकं कौलमिति रूढ्योच्यत इति कश्चित्। कुले उक्तार्थके योगः संबन्धोऽस्या इति कुलयोगिनी। छलाक्षरसूत्रकारैः कौलिनी
मलयोगिनीत्यष्टाक्षरस्यैकनामत्वं यदुक्तं तत्रोपपत्तिं दशमे शतके वक्ष्यामः। सुषुरूपं र्ध्वस्थितं सहस्रारपद्ममुकुलमित्युच्यते। तथाच स्वच्छन्दसंग्रहे ‘अधश्चोर्ध्वं र्येण णायाः सहस्रदलसंयुत’मित्यारभ्य ‘पङ्कजद्वयमीशानि कुलाकुलमयं शुभ’मि-
अकुला समयान्तस्था समयाचारतत्परा॥८८॥
मूलाधारैकनिलया ब्रह्मग्रन्थिविभेदिनी।
मणिपूरान्तरुदिता विष्णुग्रन्थिविभेदिनी॥८९॥
——————
त्यन्तं तद्रूपत्वात्तन्निष्ठत्वाद्वाऽकुला। न विद्यते कुलं देहवंशादिकं यस्या इति वा। दहराकाशावकाशे चक्रं विभाव्य तत्र पूजादिकं समय इति रूढ्योच्यते। सच सर्वैर्योगिभिरैकमत्येन निर्णीतोऽर्थ इति संकेतरूपत्वादपि समयः। तत्प्रतिपादकत्वाद्वसिष्ठशुकसनकसनन्दनसनत्कुमाराख्यतन्त्रपञ्चकमपि समयपदेन व्यवह्नियते। तदन्तस्तत्प्रतिपाद्य तया तिष्ठति। यद्वा। समं साम्यं यातीति समयः शिवः। ‘आतोऽनुपसर्गे कः’ समयादेवी च तयोरेकशेषः। साम्यं च परस्परं शिवशक्त्योः, पञ्चविधं अधिष्ठानसाम्यमनुष्ठानसाम्यमवस्थानसाम्यं नामसाम्यं रूपसाम्यं चेति। अधिष्ठानं पूजाधिकरणं चक्रादि। अनुष्ठानं सृष्ट्यादिकृतम्। अवस्थानं नृत्यादिक्रिया। नाम भैरवादि। रूपमारुण्यादि। अस्य च विस्तरो वासनासुभगोदयव्याख्याने लल्लेन कृतः। तयोरन्ते स्वरूपे तिष्ठति। ‘अन्तः प्रान्तेऽन्तिके नाशे स्वरूपेऽतिमनोहर’ इति विश्वः। रुद्रयामले दशभिः पटलैरुपदिष्ट आचारः समयाचार इत्युच्यते। यद्वा। दीक्षितस्य गुरुकटाक्षवशात् षड्विधैक्यचतुर्विधैक्यान्यतरानुसंधानदार्ढ्ये महावेधाख्यसंस्कारे च महानवम्यां जाते सति पश्चान्मूलाधारादुत्थिता देवी मणिपूरे प्रत्यक्षा भवति। तां तत्रैव पाद्यादिभूषणान्तैरुपचारैः संपूज्यानाहतं नीत्वा ताम्बूलान्तमभ्यर्च्य विशुद्धिचक्रं नीत्वा तत्रत्य चन्द्रकलारूपैर्मणिभिः पूरयित्वा आज्ञाचक्रं नीत्वा नीराज्य सहस्रदलकमले सरघामद्ये सदाशिवेन संयोज्य तिरस्करिण प्रासार्य समीपमन्दिरे स्वयं स्थित्वा यावद्भगवती पुनर्निर्गता सती मूलाधारकुण्डंप्रविशति तावत्तत्रैव समयं प्रतीक्षेतेत्याकारो गुरुमुखैकवेद्यः समयाचारः। तयोरुभयविधयोरपि तत्परा आसक्ता८८॥ मूलाधाराख्यं चतुर्दलं पद्मं तत्कर्णिकाया मध्ये बिन्दौ कुलकुण्डनामके मुखमाच्छाद्य कुण्डलिनी तत्र सर्वदैव सुप्ता तिष्ठति। अतएवैतदाधारत्वात्सुषुम्णामूलत्वाच्च मूलाधार इत्युच्यते। स एवैको मुख्यो निलयो वासस्थानं यस्याः। षट्चक्रेषु प्रतिचक्रमाद्यन्तयोर्द्वौद्वौ ग्रन्थी। तत्र ब्रह्मग्रन्थिद्वयं स्वाधिष्ठानीयं विशेषेण भिनत्तीति तथा॥
॥इति श्रीभासुरानन्दकृते सौभाग्यभास्करे। आद्येन शतकेनाभूद्द्वितीया तापिनी कला॥१००॥ इति श्रीमत्पदवाक्येत्यादिभास्कररायकृते ललितासहस्रनामपरिभाषाभाष्ये प्रथमशतकं नाम द्वितीया कला॥२॥
नाभौ दशदले पद्मे सामयिकपूजायां मणिभी रत्नैः पूर्यते भाष्यते देवीति तच्चक्रं मणिपूरपदवाच्यम्। तस्यान्तरधःस्थितं ग्रन्थिं भित्त्वोदिता प्रकटिता। तदुपरिस्थितं विष्णुग्रन्थिं विशिष्य भिनत्तीति तथा। विष्णोर्मणिपूरचक्रस्थितत्वेन तद्ग्रन्थ्योर्विष्णु
आज्ञाचक्रान्तरालस्था रुद्रग्रन्थिविभेदिनी।
सहस्राराम्बुजारूढा सुधासाराभिवर्षिणी॥९०॥
तडिल्लतासमरुचिः षट्चक्रोपरि संस्थिता।
महासक्तिः कुण्डलिनी बिसतन्तुतनीयसी॥९१॥
——————
ग्रन्थिसंज्ञा। एवं ब्रह्मरुद्रग्रन्थिसंज्ञे अपि ज्ञेये॥८९॥ भ्रूमध्ये द्विदलपद्मे आज्ञापकस्य श्रीगुरोरवस्थानादाज्ञाचक्रसंज्ञा। तावत्पर्यन्तं मनोनिग्रहाभ्यासे ईषद् ज्ञानोदयो भवतीति वा। आङीषदर्थकः। तदन्तराले तिष्ठति। रुद्रग्रन्थिद्वयं हृदयगतानाहतचक्रीयं विभिनत्तीति तथा। अनुष्ठाने एतद्वैपरीत्यमुन्नेयम्। पाठक्र
मर्थक्रमस्य बलीयस्त्वात् ‘अर्थाच्चे’ति पाञ्चमिकन्यायात्। यद्वा। श्रीविद्यायां चत्वारः खण्डाः आग्नेयसौरसौम्यचन्द्रकलाख्याः त एव वाग्भवकामराजशक्तितुर्याख्याश्च। तेषां चतुर्णां मध्ये त्रयो हृल्लेखाख्या ग्रन्थयः। ताश्च तिस्रः क्रमेण रुद्रविष्णुब्रह्मसंज्ञकाः। तत्त्रयं भिनत्ति तदन्तः प्रविशति। तदभिधेयेत्यर्थः। वस्तुतस्तु दत्तात्रेयसंहितायां षडर्थप्रकरणोक्तकौलिकार्थपरमिदं नामषट्कम्। तदुक्तं तत्रैव ‘मूलाधारादिकं चक्रषट्कं कुलमिति स्मृतम्। ग्रन्थित्रयं तन्त्रदेवीचक्रत्रितयगर्भितम्॥ पृथ्व्याप्यचक्रद्वितयं ब्रह्मग्रन्थिपदोदितम्। वह्निसूर्यमयं चक्रद्वयं तेजोमयं महत्॥ विष्णुग्रन्थिपदेनोक्तं तैजसं सर्वसिद्धिदम्। वाय्वाकाशद्वयीरूपं चक्रद्वितयमुत्तमम्। रुद्रग्रन्थपदेनोक्तं मङ्गलायतनं महत्’ इत्यादि। सहस्रसंख्याका अरा दलानि यस्य तदम्बुजं कमलं ब्रह्मरन्ध्राधःस्थमारूढा। सुधायास्तत्कर्णिकाचन्द्रसंबन्धिन्या आसारो धारासंपातस्तमभिवर्षितुं शीलमस्याः। ‘अमृतस्य धारा बहुधा दोहमानं, चरणं नो लोके सुधितान्दधात्वि’ति श्रुतेः॥९०॥ तडित्सौदामिन्येव लता वल्ली तया समा रुचिः कान्तिर्यस्याः। ‘विद्युल्लेखेव भास्वरे’ति श्रुतेः। षडवयवकानि चक्राणीति मध्यमपदलोपी समासः। तेन ‘द्विगो’रिति ङीप्रत्ययो न भवति। तानि च मूलाधारस्वाधिष्ठानमणिपूरानाहतविशुद्धाज्ञाचक्रनामकानि। तेषामुपरि सहस्रारे सम्यक् स्थिता। महे उत्सवे तत्रत्यशिवशक्तिसमायोगरूपे आसक्तिस्तत्परता यस्याः। ‘मह उद्धव उत्सव’ इत्यमरः। वह्नितेजस्यासक्तिर्यस्या वा। ‘मह उत्सवतेजसो’रिति विश्वः। महती आ समन्तात्सक्तिः संयोगो यस्या वा। कुण्डले अस्याः स्त इति कुण्डलिनी आकृत्या भुजङ्गी वा। तत्स्वरूपं च तन्त्रराजे ‘मूलाधारस्थवह्न्यात्मतेजोमध्ये व्यवस्थिता। जीवशक्तिः कुण्डलाख्या प्राणाकाराथ तैजसी॥ प्रसुप्तभुजगाकारा त्रिरावर्ता महाद्युतिः। मायाशीर्षा नदन्तीं तामुच्चरत्यनिशं खगे॥ सुषुम्णामध्यदेशे सा यदा कर्णद्वयस्य तु। पिधाय न शृणोत्येनं ध्वनिं तस्य तदा मृति’रेत्यादि। योगवासिष्ठेचूडालोपाख्याने ‘पुर्यष्टकापराख्यस्य मनसो जीवनात्मिकाम्। विद्धि कुण्डलिनीमन्तरामोदस्येव मञ्जरी’मिति। नामनिर्वचनं च देवीपुराणे ‘यतः शृङ्गाटकाकारा कुण्डलिन्युच्यते तत’ इति। यद्वा वाग्भवबीजस्य
कुण्डलिनीति संज्ञा तद्रूपा। विसतन्तुः कमलनालं तदेव तन्तुस्तद्वत्तनीयसी अतिशयेन कृशाकृतिः। ‘नीवारशूकवत्तन्वी पीता भास्वत्यणूपमे’ति श्रुतेः। ‘कुलामृतैकरसिके’त्यारभ्येयत्पर्यन्तमुक्ता प्रक्रिया सर्वापीति स्पष्टीकृता वामकेश्वरतन्त्रे। ‘भुजङ्गाकाररूपेण मूलाधारं समाश्रिता। शक्तिः कुण्डलिनीनाम बिसतन्तुनिभा शुभा॥ मूलकन्दं फणाग्रेण दंष्ट्राकमलकन्दवत्। मुखेन पुच्छं संगृह्य ब्रह्मरन्ध्रं समन्विता॥ पद्मासनगता स्वस्था गुदमाकुञ्च्य साधकः। वायुमूर्ध्वगतं कुर्वन्कुम्भकाविष्टमानसः॥ वाय्वाघातवशादग्निः स्वाधिष्ठानगतो ज्वलन्। ज्वलनाघातपवनाघातैरुन्निद्रितोऽहिरराट्॥ ब्रह्मग्रन्थिं ततो भित्त्वा विष्णुग्रन्थिं भिनत्त्यतः। रुद्रग्रन्थिं विभिद्यैव कमलानि भिनत्ति षट्॥ सहस्रकमले शक्तिः शिवेन सह मोदते। सा चावस्था परा ज्ञेया सैव निर्वृतिकारण’मिति। अरुणोपनिषद्यपि श्रूयते ‘उत्तिष्ठतभा स्वप्त अग्निमिच्छध्वं भारताः। राज्ञः सोमस्य तृप्तासः सूर्येण सयुजोषसः’ इति। इयं चोपनिषत्सर्वापि भगवतीपरैव। उपबृंहणदर्शनात्। ‘अरुणोपनिषद्गीते’ति श्यामलासहस्रनामसु पाठाच्च। पृश्निनामकानामुपासकानां परस्परमुक्तिरियं भारती सरस्वतीविद्येति यावत्। तत्संबन्धिनो भारताः। हे श्रीविद्योपासकाः, उत्तिष्ठत उपास्तिक्रमे प्रवर्तध्वम्। मा स्वप्त प्रमत्ता मा भूत। अन्तर्भावितण्यर्थौवा कुण्डलिनीकर्मकाविमौ धातू योजनीयौ। अग्निं स्वाधिष्ठानगताग्नितेजोमयीकुण्डलिनीमिच्छध्वं इच्छादण्डेनाहत्योत्थापयध्वम्। सूर्येण सयुजा विशुद्ध्यनाहतचक्रयोर्मध्यवर्तिसूर्यसहितेन तेनाग्निना उषसो दग्धस्य। द्रुतस्येति यावत्। सोमस्य उमया राजराजेश्वर्या सहितस्य राज्ञो राजराजेश्वरस्य सहस्रारीयचन्द्रमण्डलान्तर्गतस्य वा। अर्थादमृतेन तृप्तासो भवत तृप्यत। अग्निकुण्डलिनीमुत्थाप्य सूर्यकुण्डलिन्या संयोज्य ताभ्यां चन्द्रमण्डलशिवशक्तिसामरस्येन द्रावयित्वा तदुत्थामृतधाराभिर्द्विसप्ततिसहस्रनाडीमार्गानापूर्य तृप्ता भवतेत्यर्थः। तृप्तास इत्यत्र ‘आज्जसे’रित्यसुगागमः। तथा ‘यत्कुमारी मन्द्रयते यद्योषिद्यत्पतिव्रता। अरिष्टं यत्किंच क्रियते अग्निस्तदनुवेधति’। कुः पृथ्वीतत्वं म्रियते लीयते यस्मिंस्तत्कुलकुण्डं कुमारं तत्संबन्धिनी कुमारी कुलकुण्डलिनी। मन्द्रयते मन्द्रस्वरेण नदति। अतएव रोदनावस्थासाहित्यात्कुलकुण्डादुत्थापनस्योत्पत्तिरूपत्वाच्च सद्य उत्पन्ना। कुमारीत्युच्यते। योषित् तरुणी तारुण्यलक्षणसूर्येणानाहतादुपरिभागे साहित्यात्। पतिव्रता पतिं ब्रह्मरन्ध्रस्थं कामेश्वरं व्रतयति भुङ्क्ते। ‘पयोव्रतं ब्राह्मणस्ये’त्यादिप्रयोगात्। एवं कौमारतारुण्यसंभोगैररिष्टं शुभं पीयूषवर्षणरूपमन्यदपि यत्किंचित्सा क्रियते करोति तत्सर्वमग्निः स्वाधिष्ठानगतोऽनुवेधति साधयति। अग्निज्वलनेनैव चन्द्रमण्डलद्रवादिति भावः। एतदुपबृंहणं सनत्कुमारतन्त्रे ‘पृश्नयो नाम मुनयः श्रीविद्योपासका मिथः। संभूयोपदिशन्त्येतामुत्थापयत मा चिरम्॥ कर्णिकायामधिष्ठाने वह्निमिच्छथ भारताः। सूर्येण सह विद्राव्य राज्ञः सोमस्य तृप्यते’ इत्यादि पतिव्रत्ये भुजंगम्या अग्निरेव सहायवानि’त्यन्तम्। एवं ‘लोकस्य द्वारमर्चिमत्पवित्रम्। ज्योतिष्मद्भ्राजमानं महस्वत्। अमृतस्य धारा बहुधा दोहमानम्। चरणं नो लोके
भवानी भावनागम्या भवारण्यकुठारिका।
भद्रप्रिया भद्रमूर्तिर्भक्तसौभाग्यदायिनी॥९२॥
——————
सुधितान्दधात्वि’ति मन्त्रोऽपि। लोकस्य ब्रह्मलोकस्य द्वारं साधनम्। आर्चिज्योति र्महःशब्दा अग्निसूर्यचन्द्रकलावाचकाः। चरणशब्दश्चरति यातायातं करोतीति व्युत्पत्त्या कुण्डलिनीपरः। सामान्ये नपुंसकम्। सुधितान् तृप्तान्। हकारस्य धकारादेशोऽर्चिःशब्दे सकारलोपश्च छान्दसः। कुण्डलिनी अग्न्यादिस्थानमागतासती सुधावृष्टिं कुर्वती अस्मांस्तृप्तान्करोत्वित्यर्थः। तदिदमुपबृंहितं शुकसंहितायाम् ‘पावकस्यार्चिषां भानोर्ज्योतिषा महसा विधोः। दोहमाना सुधाधारा
प्रतिसहस्रधा। गुप्ताचारा कुण्डलिनी तृप्तानस्मांस्तनोतु से’ति। अत्र गुप्तं यथातथा चरतीति चरणपदस्यार्थः। एवं वसिष्ठादितन्त्रेष्वप्युपबृंहणानि द्रष्टव्यानि॥९१॥ भवं महादेवं संसारं कामं वा आनयति जीवयतीति भवानी। तदुक्तं देवीपुराणे निर्वचनाध्याये ‘रुद्रो भवो भवः कामो भवः संसारसागरः। तत्प्राणनादियं देवी भवानी परिकीर्तिते’ति। यद्वा जलमूर्तेः परमेश्वरस्य भव इति संज्ञा। तस्य पत्नी उषानाम्नी। पुत्रः शुक्राख्यः। तदुक्तं लिङ्गपुराणे ‘भव इत्युच्यते देवैर्भगवान्वेदवादिभिः। संजीवनेन लोकानां भवस्य परमात्मनः। उषा संकीर्तिता भार्या सुतः शुक्रश्च सूरिभि’रिति। वायुपुराणेऽपि ‘भवस्य या द्वितीया तु तनूरापः स्मृतेति वै। तस्योषानामिका पत्नी पुत्रश्चाप्युशना स्मृत’ इति। भवशब्दनिष्पत्तिरपि तत्रैव ‘यस्माद्भवन्ति भूतानि ताभ्यस्ता भावयन्ति च। भवनाद्भावनाच्चैव भूतानां स भवः स्मृत’इति। अत्र ताभ्य इत्यस्याद्भ्य इत्यर्थः। ‘तस्मादापो भवः स्मृता’ इत्युप्रक्रम्य पाठात्। भवं जीवनरूपं जलमप्यानयति जीवयतीति भवानी। यद्वा भवस्य स्त्रीत्यर्थे पुंयोगलक्षणो ङीष्। ‘इन्द्रवरुणे’त्यादिनानुगागमः। इयं च स्थानेश्वराख्यपीठस्याधिष्ठात्री देवता। तदुक्तं पद्मपुराणेऽष्टोत्तरशतदेवीतीर्थमालाध्याये ‘स्थानेश्वंरे भवान्याख्या बिल्वके नामपत्रके’ति। एवं रूपपञ्चकं निर्वर्ण्य तत्प्राप्त्युपायं कतिपयैर्नामभिराह। भावना तावद्द्विविधा। शाब्दी भावना आर्थी भावना चेति। तत्र शाब्दी वैदिकशब्दनिष्ठाचार्येच्छासमानयोगक्षेमा। ईश्वरेच्छैवेति तु मीमांसकवादकौतूहले निरूपितमस्माभिः। आर्थी तु प्रवृत्तिरूपा। कारकाणां परस्परसंबन्धरूपेत्यपि तत्रैव निरूपितम्। ताभ्यामगम्या गम्या वा कर्ममार्गाविषय इति वा तज्जन्यचित्तशुद्धिरूपा वेत्यर्थः। यद्वा भावना त्रिविधा। तदुक्तं कूर्मपुराणे ‘ब्राह्मी माहेश्वरी चैव तथैवाक्षरभावना। तिस्रस्तु भावना रुद्रे वर्तन्ते सततं द्विजा’ इति। अन्यत्रापि ‘त्रिविधां भावनां ब्रह्मन्प्रोच्यमानां निबोध मे। एका मद्विषया तत्र द्वितीयाऽव्यक्तसंश्रया। अन्त्या तु सगुणा ब्राह्मी विज्ञेया त्रिगुणा त्रिधे’ति। इदं चेन्द्रद्युम्नंप्रति कूर्मावतारस्य भगवतो वचनम्। एतल्लक्षणनिष्कर्षश्च रत्नत्रयपरीक्षायां दीक्षितैः कृतस्ततएवावगन्तव्यः। यद्वा ‘आज्ञान्तं सकलं प्रोक्तं ततः सकलनिष्कलम्।
भक्तिप्रिया भक्तिगम्या भक्तिवश्या भयापहा।
शांभवी शारदाराध्या शर्वाणी शर्मदायिनी॥९३॥
——————
उन्मन्यन्ते परे स्थाने निष्कलं च त्रिधा स्थित’मिति योगिनीहृदयोक्तलक्षणास्तिस्रो भावनाः। ताभिर्गम्या ज्ञेया। भवः संसार एवारण्यमतिगहनत्वात् पुनः पुनः प्ररोहाच्च। तस्य कुठारेव कुठारिका। ‘द्वयोः कुठार’ इति कोशात्स्त्रीलिङ्गता। तच्छेश्रीत्यर्थः। भद्रं मङ्गलं प्रियं यस्याः। भद्रो गजविशेषस्तज्जातीया गजाः प्रियाः यस्यां इति वा। भद्रा भव्या मूर्तिः स्वरूपं यस्याः। ‘ब्रह्म तन्मङ्गलं विदु’रिति विष्णुपुराणात्। ‘मङ्गलानां च मङ्गल’मिति भारताच्च। ‘भगः श्रीकाममाहात्म्यवीर्ययत्नार्ककीर्तिष्वि’त्याग्नेयपुराणोक्ता भगपदार्थाः शोभना यस्यां सा सुभगा ललितैव तस्या भावः सौभाग्यं तदभेद इति यावत्। यत्तु पद्मपुराणे ‘इक्षवस्तरुराजश्च निष्पावा जीरधान्यके। विकारवच्च गोक्षीरं कौसुम्भं कुसुमं तथा। लवणं चाष्टमं तद्वत्सोभाग्याष्टकमुच्यते’ इति वचने परिगणितं तदपि मङ्गलकार्योपयुक्तत्वाच्छ्रीकरत्वात्सौभाग्यमेव। सुष्ठु भाग्यं नियतिर्यस्य तस्य भावो वा सौभाग्यम्। भक्तेभ्यस्तानि ददातीति तथा। अत्रेदं बोध्यम्— महाशक्तिरित्यारभ्यैतत्पर्यन्तानि नव नामानि बडण् इति छलाक्षरसूत्रेण निर्दिष्टानि। तथाहि वररुचिसंकेते यवर्गोऽष्टानामिह तु नवानां संज्ञेत्युक्तं ‘काझाद्वाः’ ‘टयौचे’ति सूत्राभ्यां ककारमारभ्य झकारमभिव्याप्य द्वाराणि नव भवन्ति। टवर्गयवर्गावप्येवमिति तदर्थः। पिषुः। पवर्ग इषूणां पञ्चानां संज्ञा। एतान्यक्षराणि नामसंख्याद्योतकानि। अज्राट्। अचो राजः षोडशान्तसंख्यावाचका भवन्ति। युयुत्साः। इकार आदौ तत उकारः। एतद्द्वयं यस्मादक्षरात्परतस्तदक्षरं साः। अकारेण सहितं तयोर्नाम। यथा किकु इत्यनयोः क इति संज्ञा टिटु इत्यनयोः ट इति। फीपात्पुडवः। फीकारात्परतः पृकारश्चेत्तद्युगलस्य डकारः संज्ञा। पकारात्परतश्चेत्तद्युगलस्य बकारः संज्ञा। पुटोण्। संपुटीकरणस्य ण् इति संज्ञा। एवंच बडणिति सूत्रस्य डकारेण पुटितो बकार इत्यर्थः। तेन डबड इति सिध्यति। ततश्च फीपॄपिपुपॄफीपृ इति सप्त वर्णा भवन्ति। द्वे नामनी चतुरक्षरे। तत्रप्रथमनाम्न आद्यमक्षरं पवर्गीयं। तृतीयं नामाष्टाक्षरं। तदाद्यमक्षरं पवर्गीयं। ततो द्वित्रिपञ्चाक्षरे। तदाद्ये पवर्गीये। ततः षष्ठंनामाष्टाक्षरं। तदाद्यमक्षरं च पवर्गीयं। ततो द्वे चतुरक्षरे। तयोराद्यं नाम पवर्गीयादिमाक्षरकं। ततोऽष्टाक्षरमेकं नाम। तदाद्यमक्षरं च पवर्गीयमिति। एवं नव नामानीत्येतावान्सूत्रार्थं इति दिक्॥९२॥ भक्तिर्द्विविधा। मुख्या गौणी चेति। तत्रेश्वरविषयकोऽनुरागाख्यश्चित्तवृत्तिविशेषो मुख्यभक्तिः। तथाच भक्तिमीमांसासूत्रम् ‘सा परानुरक्तिरीश्वरे’ इति। ‘अथातो भक्तिजिज्ञासे’ति सूत्रोपात्ता भक्तिस्तत्पदार्थः। तस्याः परेति विशेषणम्। परां मुख्यां भक्तिविशेषमुद्दिश्यानुरक्तिर्लक्षणत्वेन विधीयत इति तदर्थः। अतएव परेति गोणीं व्यावर्तयतीति भाष्यम्। ‘गौण्या तु समाधिसिद्धि’रिति सूत्रे गौणी भक्तिः सेवारूपा
कथिता। तथा च गरुडपुराणे ‘भज इत्येष वै धातुः सेवायां परिकीर्तितः। तस्मात्सेवा बुधैः प्रोक्ता भक्तिसाधनभूयसी’ति। तद्भेदाः स्मरणकीर्तनादयो बहवः। तेन ‘भक्तिरष्टविधा ह्येषा यस्मिन्म्लेच्छेऽपि वर्तते। स विप्रेन्द्रो यतिः श्रीमान्स मुनिः स च पण्डित’ इत्यादित्यगरुडपुराणयोर्वचनम्। ‘भक्तिर्नवविधा राजन्’ इत्यादिभागवतं वचनं ‘भक्तिर्दशविधा ज्ञेया पापारण्यदवोपमे’ति दशविधत्वप्रतिपादकं बृहन्नारदीयवचनमन्यश्चैतादृशमवयुत्यानुवाद एव। ईदृशो भक्तिपदार्थः प्रियो यस्याः सा। तथाच शिवपुराणे ‘कृतकृत्यस्य तृप्तस्य मम किं क्रियते नरैः। बहिर्वाभ्यन्तरे वापि मया भावो हि गृह्यते’ इति। अत्र भावशब्देन बाह्या सेवारूपा चेष्टाभ्यन्तरोऽभिप्रायश्च गृह्यते। भक्त्या संराधनेन गम्या प्रत्यक्षा। तथाच श्रुतिः ‘पराञ्चि खानि व्यतृणत्स्वयंभूस्तस्मात्पराङ् पश्यति नान्तरात्मन्। कश्चिद्धीरः प्रत्यगात्मानमैक्षदावृत्तचक्षुरमृतत्वमिच्छ’न्निति। स्मृतिरपि ‘योगिनस्तं प्रपश्यन्ति भगवन्तं सनातन’मिति। ‘ईश्वरप्रणिधानाद्वे’ति। योगसूत्रेऽप्येवं प्रणिधानपदस्य भक्तिपरतया राजमार्तण्डे व्याख्यानात्। भक्तौ ब्रह्मसूत्रमपि6 ‘अपि संराधने प्रत्यक्षानुमानाभ्या’मिति। अव्यक्तमपि ब्रह्म भक्त्या प्रत्यक्षं भवतीति श्रुतिस्मृतिभ्यां तथावगमादिति तदर्थः। ‘भक्त्या त्वनन्यया शक्य अहमेवंविधोऽर्जुन। ज्ञातुं द्रष्टुं च तत्त्वेन प्रवेष्टुं च परंतपे’ति भगवद्वचनमपि। अत्र प्रवेष्टुमित्यनेन ब्रह्मभावाख्यो मोक्ष उच्यते सोऽपि भक्त्यैव लभ्यत इत्यर्थः। तेन प्रकृते गम्यपदं प्राप्यपरत्वेनापि व्याख्येयम्। ‘ब्रह्मसंस्थोऽमृतत्वनेती’ति श्रुतो निष्ठापर्यायभक्तिवाचिना संस्थापदेन तथा प्रतिपादनात्। अतएव भक्तिमीमांसायां ‘तत्संस्थस्यामृतत्वोपदेशा’दिति सूत्रम्। ब्रह्ममीमांसायां ‘तन्निष्ठस्य मोक्षोपदेशा’दिति सूत्रं च। नित्यातन्त्रेऽपि भक्तिलक्षणकथनपूर्वकं तस्याखिलपुरुषार्थप्रदत्वमुक्तम्। ‘उक्तलक्षणसंपन्ने गुरौ तत्प्रोक्तयोस्तथा। विद्यानुष्ठानयोः स्थैर्यधियः संशयनाशनी॥ तारकत्त्वाप्रमत्तत्वे भक्तिरुक्ताखिलार्थदा। यया विहीना नियतमिहामुत्र च दुःखिता’ इति। अथवा भक्तिर्लक्षणा तया गम्या बोध्या। विशिष्टशक्तिकानां सत्यज्ञानादिपदानां निर्धर्मकब्रह्मवाचकत्वायोगात्। अतएव त्रिशत्यां वक्ष्यते ‘लक्ष्यार्धा लक्षणागम्ये’ति। ‘सर्वेषां त्वैकमन्त्र्यमैतिशायनस्य भक्तपावनत्वात्सवनाधिकारो ही’ति जैमिनिसूत्रे भक्तिपदस्य लक्षणायां प्रयोगः। आस्माकीने शिवस्तवेऽपि ‘न मे शक्तिः श्रीमन्महिमपरमाणोरपि नुतौ तथापि त्वद्भक्तिं व्यतनवमवष्टभ्य किमपि। न मञ्चाः क्रोशन्ति प्रवचनमथापि प्रववृते यथा लोके भक्त्या परशिव न शक्त्या स्वगतये’ति भक्तेरुक्तलक्षणाया वश्या पराधीना। भक्त्या वश्येति वा। स्वतन्त्रापि “शिवभक्तिपारतन्त्र्यत्वम
श्रुष’ इति वचनात्। भयानि जलस्थलादिप्रयुक्तादीनि सर्वाण्यपहन्तीति भयापहा। ‘आनन्दं ब्रह्मणो विद्वान्न बिभेति कुतश्चने’ति श्रुतेः। तथाच वायुपुराणे ‘अरण्ये प्रान्तरे वापि जले वापि स्थलेऽपि वा। व्याघ्रकुम्भीरचोरेभ्यो भयस्थाने विशेषतः। आधिष्वपि च सर्वेषु देवीनामानि कीर्तये’दिति।
शांकरी श्रीकरी साध्वी शरच्चन्द्रनिभानना।
शान्तोदरी शान्तिमती निराधारा निरञ्जना॥९४॥
——————
शंभोरियं स्त्री, शांभवानामियं माता वा शांभवी। योगशास्त्रे मुद्राविशेषस्येदं नाम। तल्लक्षणं तत्रैव ‘अन्तर्लक्ष्यं वहिर्दृष्टिर्निमेषोन्मेषवर्जिता। एषा सा शांभवी मुद्रा सर्वतन्त्रेषु गोपिते’ति। कल्पसूत्रे तु दीक्षास्तिस्र उक्ताः शक्तिः शांभवी मान्त्री चेति। विभज्य तल्लक्षणान्युक्तानि देवीभागवते ‘अष्टवर्षा च शांभवी’ति कन्याविशेषस्य नामोक्तं तद्रूपा वेत्यर्थः। शारदया सरस्वत्या वाग्देवताभिश्च आराध्या, शारदे शरदृतौ वर्षादौवा आराध्या। ‘अथ शरत्समाः संवत्सर’ इत्यमरात्। ‘शरत्काले नहापूजा क्रियते या च वार्षिकी’ति मार्कण्डेयपुराणे। वर्षस्यादौ भवा वार्षिकीत्यर्थः। ‘वासन्ते नवरात्रे तु पूजयेद्रक्तदन्तिका’मिति रुद्रयामलात्। शारदैविंशारदैः पण्डितैः शालीनाख्याश्रमविशेषशीलैर्वाराध्या। ‘शारदः पीतमुद्रे स्याच्छालीनेप्रतिभाविनी’ति मेदिनी। ‘अकारो वासुदेवः स्यादाकारस्तु पितामह’ इत्यनेकार्थं ध्वनिमञ्जर्यामभिधानात्ताभ्यामाराध्येत्यक्षरद्वयश्लेषेणार्थे सिद्धे शारदा चासावाराध्येति कर्मधारयो वा। तत्र शारदांशनिरुक्तिः कालीपुराणे ‘शरत्काले पुरा यस्मान्नवम्यां बोधिता सुरैः। शारदा सा समाख्याता पीठे लोके च नामत’ इति। क्षितिमूर्तेः परमशिवस्य शर्व इति संज्ञा तस्य स्त्रीत्यर्थे पुंयोगलक्षणे ङीष्यानुगागमः। मङ्गलस्य माता सुकेशीनाम्नीत्यर्थः। तदुक्तं लैङ्गे ‘चराचराणां भूतानां धाता विश्वंभरात्मकः। शर्व इत्युच्यते देवः सर्वशास्त्रार्थपारगैः। विश्वंभरात्मनस्तस्य शर्वस्य परमेष्ठिनः। सुकेशी कथ्यते पत्नी तनुजोऽङ्गारकः स्मृत’ इति। वायवीयेपि ‘शर्वस्य या तृतीया तु नाम भूमितनुः स्मृता। पत्नी तस्य सुकेशीति पुत्रश्चाङ्गारको मत’ इति। शर्म सुखं दातुं शीलमस्याः ‘शर्मशातसुखानि चे’त्यग्निपुराणीयकोशः। ‘सुखं ददाति भक्तेभ्यस्तेनैषा शर्मदायिनी’ति देवीभागवतात्॥९३॥ करोतीति करः। पचाद्यच्। ‘कृञो हेतुताच्छील्ये’त्यादिना टो वा। शं सुखं तस्य करः। शं करे यस्य स वा शंकरः तस्य स्त्री शांकरी। तथाच कालिकापुराणे ‘प्रतिसर्गादिमध्यान्तमहं शंभुं निराकुलम्। स्त्रीरूपेणानुयास्यामि प्राप्य दक्षादहं तनुम्। ततस्तु विष्णुमायां मां योगनिद्रां जगन्मयीम्। शांकरीति स्तुविष्यन्ति रुद्राणीति दिवौकस’ इति। करोतीति करी श्रियः करी श्रीकरी। श्रीकरो विष्णुः। ‘श्रीधरः श्रीकरः श्रीमानि’ति विष्णुसहस्रनामसु पाठात्। तस्येयं श्रीकरीतिं वा॥
अथ परिभाषायां षट्चत्व’रिंशन्नामानि विभजते — राजा चतुर्बलेन्द्रोभूत्वा बलिरागमान् द्विदश। गुणगणगौण्यं गणगोमार्गे मार्गे मृगेण भवेत्॥११॥ चतुरित्येकस्मिन्नर्धेचतुश्चतुरक्षराणि चत्वारि नामानि द्विदश द्विसहिता दश। अर्धत्रयेणैतादृशानि नामानि द्वादश। स्पष्टमन्यत्॥११॥ साध्वी पतिव्रता। ‘सती साध्वी पतिव्रते’त्यमरः। कालत्रयेऽपि पत्यन्तरयोगाभावादनितरसाधारणं पातिव्रत्यम्। तदुक्तं श्रीमदाचार्यभगवत्पादैः ‘कलत्रं वैधात्रं कति कति
निर्लेपा निर्मला नित्या निराकारा निराकुला।
——————
भजन्ते न कवयः श्रियो देव्याः को वा न भवति पतिः कैरपि धनैः। महादेवं हित्वा तव सति सतीनामचरमे कुचाभ्यामासङ्गः कुरबकतरोरप्यसुलभः’ इति। देवीभागवतेऽपि ‘साध्वीत्यनन्यसामान्यपातिव्रत्येन गीयसे’ इति। शरत्कालिकेन चन्द्रेण तुल्यमाननं मुखं यस्याः। ‘शो तनूकरणे’। शातं कृशम्। ‘आदेच उपदेशेऽशिती’त्यात्वम्। उदरं यस्याः सा शातोदरी। शतोदरस्यानन्तगुहस्य हिमवतोऽपत्यं हैमवतीत्यर्थो वा। शान्तिरस्या अस्तीति शान्तिमती। भक्तेष्वौद्धत्याभावात्। आधारान्निष्क्रान्ता मूलाधारादुद्गता। ‘निरादयः क्रान्ताद्यर्थे पञ्चम्ये’ति समासः। यद्वा निर्गत आधारः अधिष्ठानान्तरं यस्याः। सर्वजगदधिष्ठानस्य सत्यत्वेनाधारान्तरायोगात्। अथवा निराधाराख्यपूजास्वरूपा। तथाच सूतसंहितायाम् ‘पूजा शक्तेः परायास्तु द्विविधा संप्रकीर्तिते’त्युपक्रम्य बाह्याभ्यन्तरभेदेन द्वैविध्यमुक्त्वाबाह्याया वैदिकतान्त्रिकभेदेन द्वैविध्यं सलक्षणं वर्णयित्वोक्तम् ‘पूजा याऽभ्यन्तरा सापि द्विविधा परिकीर्तिता। साधारा च निराधारा निराधारा महत्तरा॥ साधारा या तु साधारे निराधारा तु संविदि। आधारे वर्णसंक्लृप्तविग्रहेपरमेश्वरीम्॥ आराधयेदतिप्रीत्या गुरुणोक्तेन वर्त्मना। या पूजा संविदि प्रोक्ता सा तु तस्यां मनोलयः॥ संविदेव परा शक्तिर्नेतरा परमार्थतः। अतः संसारनाशाय साक्षिणीमात्मरूपिणीम्॥ आराधयेत्परां शक्तिं प्रपञ्चोल्लासवर्जिताम्। स्वानुभूत्या स्वयं साक्षात्स्वात्मभूतां महेश्वरीम्॥ पूजयेदादरेणैव पूजा सा पुरुषार्थदा’ इति। अथ निराधारपूजाकर्मीभूतसंवित्स्वरूपस्यैदंपर्येण निषेधमुखेन विधिमुखेन पराभिमतनिरासेन च निर्धारणपूर्वकं तत्प्राप्तिसाधनोपायं तज्जन्यफलस्वरूपं च कतिपयैर्नामभिराह — निरञ्जनादिभिरष्टभिः श्लोकैः। सन्ति हि त्रिविधाः पशवः। तत्रानात्मन्यात्मताज्ञानस्वरूपाणवमलमात्रेण युक्तो विज्ञानकेवलः, देहारम्भकादृष्टात्मककार्मणमलवान्प्रलयाकलभेदवुद्धिजनकमायीयाख्यमलवान्सकल इति भेदात्। एषूत्तरोत्तरो मलः पूर्वपूर्वव्याप्य इत्यादि निरूपितं सेतुबन्धेऽस्माभिः। तत्र सकलपशुनिरासायाह — निरञ्जना अञ्जनं “नाम कालिमा। मायासङ्ग इति यावत्। तमोरूपत्वेनावरणधर्मेण सादृश्यात्। तथाचयोगवासिष्ठे ‘भावाभावे पदार्थानां हर्षामर्षविकारदा। मलिना वासना राम सङ्गशब्देन कथ्यते’ इति। निर्गतमञ्जनं यस्याः सा निरञ्जना। ‘निरवद्यं निरञ्जन’मिति श्रुतेः। अविद्यासंपर्काभाववतीत्यर्थः। मिथ्यारूपाया अविद्यायाः स्वाधिष्ठानेऽभावात्। प्रतिपन्नोपाधौ त्रैकालिकनिषेधप्रतियोगित्वस्यैव मिथ्यात्वात्। यद्वा नितरां रञ्जनं रागो रक्तिमा संतोषणं वा यस्याम्॥९४॥ प्रलयकालेऽतिव्याप्तिं निरस्यति। कर्मसंबन्धेन लेपस्तस्मान्निष्कासिता। ‘न मां कर्माणि लिम्पन्ति’ इति स्मृतेः। यद्वा लेपः कर्मसंबन्धः स ज्ञानेन निर्गतो यस्याः सा निर्लेपा। तदुक्तं यज्ञवैभवखण्डेः ‘कर्मभिः सकलैरपि लिप्यते ब्रह्मवित्प्रवरश्च न सर्वथा। पद्मपत्रमिवाद्भिरहो परब्रह्मवित्प्रवरस्य तु वैभवम्’। गीतास्वपि ‘लिप्यते न स पापेन पद्मपत्र
निर्गुणा निष्कला शान्ता निष्कामा निरुपप्लवा॥९५॥
नित्यमुक्ता निर्विकारा निष्प्रपञ्चा निराश्रया।
——————
मिवाम्भसा’ इति। विज्ञानकेवलेऽतिव्याप्तिं परिहरति। निर्मला आणुवमलाभाववती, मलस्तमात्मा तदभाववती वा। मुक्तजीवस्तु लक्ष्य एव। नित्यमुक्तेत्यनेन वा तन्निरासः। यद्वा नित्यशुचिनो मालिन्यभ्रमाधायकत्वादविद्यैव मलस्तदभावत्वान्निमला। मलस्य मिथ्यात्वात्। तदधिष्ठानं तु न तथेत्याह। नित्या कालत्रयेऽप्यवाध्या। तेन क्षणिकविज्ञानमेवात्मेत्यौत्पातिक7बाह्य निरासः। ‘अविनाशी वा अरेऽयमात्मे’ति श्रुतेः। तिथिनित्या कालनित्यामन्त्ररूपा वा। साकारविज्ञानवादिमाध्यमिकनिरासायाह। आकारस्य सगुणरूपस्य कल्पितत्वान्निराकारा। तदुक्तं विष्णुभागवते ‘स वै न देवासुरमर्त्यतिर्यङ्ग स्त्री न षण्ढो न पुमान्न जन्तुः। नायं गुणः कर्म न सन्न चासन्निषेधशेषो जयतादशेषः’ इति। आकुलेति भावप्रधानो निर्देशः। अविद्यासंपर्केऽप्याकुलत्वाभावान्निराकुला। निर्गता आकुलता यस्या इति वा। तादृशानां दूरेति यावत्। आकुलत्वं सर्वाभावः शून्यं वा तेन शून्यवादिगम्भीराख्यबाह्यनिरासः। तार्किकमतं निरस्यति। गुणशून्यत्वान्निर्गुणा। ‘साक्षी चेता केवलोनिर्गुणश्चे’ति श्रुतेः। गुणानां शरीरधर्मत्वेन चिद्धर्मत्वाभावाच्च। तदुक्तं मत्स्यपद्मः पुराणयोर्हिमवन्तंप्रति नारदेन ‘यदुक्तं च मया देवी लक्षणैर्वजितेति च। शृणु तस्यापि वाक्यस्य सम्यगर्थं विचारणात्॥ लक्षणं दैवकोट्यङ्कः शरीरेकाश्रयो गुणः। इयं तु निर्गुणा देवी नैव लक्षयितुं क्षमे’ति सावयवमेव ब्रह्मेति मतं निरसितुमाह। निर्गताः कला अंशा वास्तविका यस्याः। ‘अंशो नानाव्यपदेशा’दिति सूत्रम्। ‘ममैवांशो जीवलोके’ इति स्मृतिश्च कल्पितांशाभिप्रायत्वादविरुद्धा। निर्गुणचिन्ता वा निष्कलेत्युच्यते। तदुक्तं विज्ञानभैरवभट्टारकैः ‘ध्यानं या निष्कला चिन्ता निराधारा निराश्रया। न तु ध्यानं शरीरस्य मुखहस्तादिकल्पना’ इति। निष्कला कलातीता वा। शान्ता शमवती। ‘निष्कलं निष्क्रियं शान्त’मिति त्रिपुरोपनिषत्। शकारोऽन्तो यस्य तद्रूपा। अमृतबीजात्मिकेति यावत्। आशान्तेति वा छेदाद्दिगन्तव्याप्तत्वोक्त्यात्मनः परिच्छिन्नतावादिदिगम्बरनिरासः। ‘सत्यकामः सत्यसंकल्प’ इत्यादिश्रुत्या तादृशमेव ब्रह्मेति मतं निरस्यति। निर्गतः काम इच्छा यस्याः सा निष्कामा। ‘अवाप्ताखिलकामायास्तृष्णा किंविषया भवेत्’ इति देवीभागवतात्। ‘नेतिनेत्यात्मे’ति श्रुतेः ‘पूर्णमदः पूर्णमिद’मिति श्रुतेश्च औपाधिकगुणपराणि श्रुत्यन्तराणीति भावः। निष्कममतीति वा। ‘अम गत्यादिषु’। उपप्लवो नाशः स निर्गतो यस्याः। निःशेषेणातिशयेन उप समीप एव पिण्डाण्ड एव प्लवोऽमृतस्रवणं यया सा निरुपप्लवा। निर्बन्धादिपदेष्वतिशयाद्यर्थे निरः प्रयोगात्। तः॥ साध्वी निषदि ‘आप्लवस्व प्रप्लवस्वअण्डीभवज मा मुहु’रिति॥९५॥ नित्यं
भावादनि
नित्यशुद्धा नित्यबुधद्धानिरवद्या निरन्तरा॥९६॥
निष्कारणा निष्कलङ्का निरुपाधिर्निरीश्वरा।
नीरागा रागमथनी निर्मदा मदनाशिनी॥९७॥
——————
भक्ताः सा। नित्यं यथा तथा मुक्ता वा। नित्यं मुञ्चति मुच्यते वा नित्यमुक् तस्य भावस्तता वा मोक्षरूपेत्यर्थः। प्रधानस्य मनस
थ निरासायाह। निर्गता विकाराःसांख्ये प्रसिद्धा महदाद्यास्त्रयोविंशतिर्यस्याः। तदुक्तं सांख्यतत्त्वकौमुद्यां ‘मूलप्रकृतिरविकृतिर्महदाद्याः प्रकृतिविकृतयः सप्त। षोडशकस्तु विकारो न प्रकृतिर्न विकृतिः पुरुषः’ इति। निर्गताः प्रपञ्चाः क्षित्यादिसंचयप्रतारणविस्तारा यस्याः सा निष्प्रपञ्च। ‘प्रपञ्चः संचये प्रोक्तो विस्तारे च प्रतारणे’ इति विश्वः। ‘प्रपञ्चोपशमं शिवमद्वैतं चतुर्थं मन्यन्ते’ इति श्रुतेः। शरीराश्रितं ब्रह्मेति चार्वाकमतं निरस्तम्। सर्वाश्रयस्याश्रयान्तरायोगान्निराश्रया। ‘विश्वं प्रतिष्ठितं यस्यां तस्याः कुत्र प्रतिष्ठिति’रिति वचनात्। कालत्रयेऽपि मालिन्याभावान्नित्यशुद्धा। ‘अस्पर्शश्च महाञ्शुचि’रिति श्रुतेः। ‘अत्यन्तमलिनो देहो देही चात्यन्तनिर्मलः’ इति स्मृतेश्च। ‘नहि विज्ञातुर्विज्ञातेर्विपरिलोपो विद्यते’ इति श्रुतिमभिसंधायाह। नित्यबुद्धा चिद्रूपा। शुद्धबुद्धौ जिनविशेषौ तौ यस्याः प्रसादादिति वा। षड्दर्शनपूजायां जैनदर्शनोपास्यत्वेनापि देव्याः पूजादर्शनात्तदुपास्यतारानामकदेवीरूपेति यावत्। निर्गतं अवद्यं गर्ह्यमाविद्यकविकारजातं यस्याः। ‘निरवद्यं निरञ्जन’मिति श्रुतेः। अवद्यान्नरकान्निर्गता यत्प्रसादादिति वा। तथाच कूर्मपुराणे ‘तस्मादहर्निशं देवीं संस्मरेत्पुरुषो यदि। न यात्यवद्यं नरकं संक्षीणाशेषपातकः’ इति। लिङ्गपुराणेऽपि ‘मायान्ताश्चैव घोराद्या अष्टाविंशतिकोटयः। नरकाणामवद्यानां पच्यन्ते तासु पापिनः। अनाश्रिता भवानीशं शंकरं नीललोहित’मित्यादि। अवकाशावधिभेदच्छिद्राण्यन्तरपदार्थाः तैर्विरहिता निरन्तरा। ‘अन्तरमवकाशावघिपरिधानान्तर्धिभेदतादर्थ्ये। छिद्रात्मीयविनाबहिरवसरमध्येऽन्तरात्मनि चे’त्यमरः। ‘य एतस्मिन्नुदरमन्तरं कुरुतेऽथ तस्य भयं भवति’ इति श्रुतेः। तेन सजातीयादिभेदत्रयवदेव ब्रह्मेति मतनिरासः॥९६॥ सर्वकारणस्य कारणान्तराभावान्निष्कारणा ‘स कारणं करणाधिपाधिपो न चास्य कश्चिज्जनिता न चाधिपः’ इति श्रुतेः। निःशेषं कारणं प्रथमं यस्यामिति वा। तज्जन्यानन्दवतीत्यर्थः। ‘महापद्मवनान्तस्थां कारणानन्दविग्रहा’मिति वचनात्। कलङ्कः पापं तदभावान्निष्कलङ्का। ‘शुद्धमपापविद्ध’मिति श्रुतेः। उप समीपे आदधाति स्वीयं धर्ममित्युपाधिः। ‘उपसर्गे घोः किः’। स्वीयं लौहित्यं सामीप्यमात्रेण स्फटिके समर्पयज्जपाकुसुममुपाधिः। तद्वच्चितेर्भेदेन भानेऽविद्यैवोपाधिस्तद्रहिता निरुपाधिः। यद्वा। निष्कलङ्कत्वाद्यसाधारणधर्मेषु साध्येषु देव्यास्ता…रस्याते हेतुत्वे निरुपाधित्वं नाम व्याप्यत्वासिद्ध्यभावः। सद्धेतुरित्यर्थः। सखण्डोस्मृतेः। यडोपाधिश्चेति द्विविधैरपि धर्मैः शून्येति वा। मीमांसाशास्त्रं सांख्यशास्त्रं वैभवखण्डेशंसेश्वरं निरीश्वरं चेति तदुभयरूपत्वान्निरीश्वरा। सर्वेषामीश्वर्या ईश्वरान्तद्भिरहो पर। अथान्तःकरणभेदानामात्मत्वनिरासायारिषड्वर्गत्यागस्य साधनत्वबोध
निश्चिन्ता निरहंकारा निर्मोहा मोहनाशिनी।
निर्ममा ममताहन्त्री निष्पापा पापनाशिनी॥९८॥
निष्क्रोधा क्रोधशमनी निर्लोभा लोभनाशिनी।
निःसंशया संशयघ्नी निर्भवा भवनाशिनी॥९९॥
——————
नाय च राग इच्छा तदभावादवाप्तसकलकामत्वान्नीरागा। अथवा ‘द्वेषप्रतिपक्षभावाद्रसशब्दाच्च राग’ इति शाण्डिल्यसूत्रे भक्तेरपि रागपदवाच्यत्वाभिधानात्तन्निष्कान्तेत्यर्थः। नीरं जलं अगः पर्वतस्तदुभयरूपा वा। भक्तानां वैराग्यंदानेन रागं मध्नातीति रागमथनी। कर्तर्यपि ल्युटो महाभाष्ये ‘नहि कारणयोरेव ल्युडुच्यत’ इत्यादिग्रन्थेन साधितत्वादिह ‘रागद्वेषाभिनिवेशाःक्लेशा’इति योगसूत्रोक्तो रागो गृह्यते। मदराहित्यान्निर्मदा। मदं नाशयति, मदनं धत्तूरमश्नातीति वा मदनाशिनी॥९७॥ चिन्ताशब्दः स्मृतिसामान्यवचनोऽपि दुःखजनकस्मृतिविशेषे निरूढलक्षणिकः। ‘चिन्ता चितासमा ज्ञेया चिन्ता वै बिन्दुनाधिका। चिता दहति निर्जीवं चिन्ता दहति जीवित’मिति प्रयोगात्। ‘चिन्ता छले चुल्लिकाया’मिति विश्वकोशाच्छलमप्यर्थः। तदुभयराहित्यान्निश्चिन्ता। ‘वैकारिकस्तैजसश्च भूतादिश्चेत्यहं त्रिधे’ति वचनात्त्रिविधोऽहंकारस्तद्राहित्यान्निरहंकारा। मोहो वैचित्यं तदभावान्निर्मोहा। मोहमेकत्वज्ञानदानेन नाशयतीति मोहनाशिनी। ‘तत्र को मोहः कः शोक एकत्वमनुपश्यतः’ इति श्रुतेः। ममशब्दो विभक्तिप्रतिरूपकमव्ययं ममेदमित्याकारकबुद्धिपरम्। सा च भेदघटितसंबन्धं स्वरसतो विषयीकरोति। स्वाभिन्नेतरभावान्नि8र्ममा। ममतायास्तादृश्या बुद्ध्या हन्त्री। पापराहित्यान्निष्पापा। पापं नाशयति स्वीयविद्याया जपादिना भक्तानामिति तथा। ‘यथेषीकातूलमग्नौ प्रोतं प्रदूयेतैवमेवास्य पाप्मानः प्रदूयन्ते’ इति श्रुतेः। तथाच वसिष्ठस्मृतिः ‘विद्यातपोभ्यां संयुक्तं ब्राह्मणं जपनैत्यकम्। सदापि पापकर्माणमेनो न प्रतियुज्यते। जापिनां होमिनां चैव ध्यायिनां तीर्थवासिनाम्। न संवसन्ति पापानि ये च स्नाताः शिरोव्रतै’रिति। पाद्मे पुष्करखण्डे ‘मेरुपर्वतमात्रोऽपि राशिः पापस्य कर्मणः। कात्यायनीं समासाद्य नश्यति क्षणमात्रतः। दुर्गार्चनरतो नित्यं महापातकसंभवैः। दोषैर्न लिप्यते वीर पद्मपत्रमिवाम्भसे’त्यादि। देवीभागवतेऽपि ‘छित्त्वा भित्त्वा च भूतानि हत्वा सर्वमिदं जगत्। प्रणम्य शिरसा देवीं न स पापैर्विलिप्यते। सर्वावस्थागतो वापि युक्तो वा सर्वपातकैः। दुर्गां दृष्ट्वा नरः पूतः प्रयाति परमं पद’मित्यादि। ब्रह्माण्डपुराणेऽपि ‘वर्णाश्रमविहीनानां पापिष्ठानां नृणामपि। यद्रूपध्यानमात्रेण दुष्कृतं सुकृतायते’इति॥९८॥ द्वेष्यस्यैवाभावान्निष्क्रोधा। ‘न मे द्वेष्योऽस्ति न प्रियः’ इति भगवद्वचनात्। भक्तानामरिषड्वर्गान्तर्गन्तं क्रोधं शमयति नाशयतीति क्रोधशमनी। क्रोधस्य दुष्टत्वमापस्तम्बेनोक्तम् ‘क्रोधयुक्तो यद्यजति यज्जुहोति यदर्चति। स तस्य हरते सर्वमामकुम्भो यथोदक’मिति। अत्यन्तमौदा
निर्विकल्पा निराबाधा निर्भेदा भेदनाशिनी।
निर्नाशा मृत्युमथनी निष्क्रिया निष्परिग्रहा॥१००॥
——————
र्यान्निर्लोभा। ‘लोभः सर्वगुणान्हन्ती’ति निन्दितं लोभं भक्तानां नाशयतीति तथा। तन्त्रराजे गुरुलक्षणकथनदशायाम् ‘असंशयः संशयच्छिन्निरपेक्षो गुरुमत’ इत्युक्त्वा तयोर्विशेषणयोर्लक्षणमुक्तम् ‘असंशयस्तत्त्वविच्च तच्छित्तत्प्रतिपादनादिति तादृशगुर्वभेदादिदं नामद्वयं निःसंशयासंशयघ्नीति। ‘छिद्यन्ते सर्वसंशयाः’ इति श्रुतेः स्मृतेश्च॥
अथ परिभाषायामेकोनपञ्चाशन्नामानि विभजते॥ गुणभुविगोमृगश्रृङ्गे मूलमघाभोगगौरवाभावे। स्थूणाङ्गमहान्तो द्विर्भवदूपितवाक्चतुर्विभाजोऽष्टौ॥१२॥ द्विरिति पञ्चाक्षरं नामद्वयम्। एकस्मिन्नर्धेदशाक्षराणामेव परिशेषात्। चतुरष्टपदे चतुरक्षरकनामधेयचतुष्टयाष्टकपरे। स्पष्टमन्यत्॥१२॥
उत्पत्तिराहित्यान्निर्भवा। ‘अनादिमत्परं ब्रह्मेति श्रुतेः। भवं संसारं नाशयतीति तथा। तथाच शक्तिरहस्ये ‘नवम्यां शुक्लपक्षे तु विधिवच्चण्डिकां नृप। घृतेन स्नापयेद्यस्तु तस्य पुण्यफलं शृणु। दश पूर्वान्दश परानात्मानं च विशेषतः। भवार्णवात्समुद्धृत्य दुर्गालोके महीयते’ इति। कौर्मेऽपि ‘सैषा धात्री विधात्री च परमानन्दमिच्छताम्। संसारतापान्निखिलान्निहन्तीश्वरसंज्ञये’ति। देवीभागवतेऽपि ‘अहं वै मत्परान्भक्तानैश्वरं योगमाश्रितान्। संसारसागरादस्मादुद्धराम्यचिरेण त्वि’ति भगवतीवाक्यम्। यद्वा ‘भवनाशिनीतटं नृसिंहमगमदि’ति बृहज्जाबालोप’निषत्प्रसिद्धनदीविशेषरूपा॥९९॥ विकल्पः शून्यविषयकं शब्दजन्यं ज्ञानम्। तथाच योगसूत्रं ‘शब्दमात्रानुपाती वस्तुशून्यो विकल्प’इति। खण्डनखण्डखाद्येऽपि ‘अत्यन्तासत्यपि ह्यर्थे ज्ञानं शब्दः करोति ही’ति। फलपरीक्षायां गौतमसूत्रमपि ‘बुद्धिसिद्धं तदस’दिति। तन्निष्क्रान्ता निर्विकल्पा। ‘अत्यादयः क्रान्ताद्यर्थे द्वितीयये’ति समासः। तदतिक्रमश्च शब्दजन्यत्वांशे। तेन निर्विषयकनित्यज्ञानरूपेति फलितम्। अथवा विकल्पः प्रकारो न विद्यते यस्यां चरमवृत्तौ तद्रूपेति। यद्वा विरुद्धः कल्पः पक्षो विकल्पस्तदभाववती। स्वविरुद्धपक्षान्तराभावात्। सर्वस्य चाभिन्नत्वान्निर्विशेषेति पर्यवसितोऽर्थः। ‘अरूपवदेव हि तत्प्रधानत्वा’दिति तार्तोयीके ब्रह्ममीमांसाधिकरणे निर्विकल्पैकलिङ्गताया ब्रह्मणः साधितत्वात् नेदं रजतमिति ज्ञानेन रजतबाधेऽपीदंपदार्थस्येव बाधाभावान्निराबाधा। अन्योन्याभावस्य प्रतियोगित्वसंबन्धेनानुयोगित्वसंबन्धेन चाभावान्निर्भेदा। तदुक्तं कौर्मे ‘त्वं हि सा परमा शक्तिरनन्ता परमेष्ठिनी। सर्वभेदविनिर्मुक्ता सर्वभेदविनाशिनी’ इति। तत्रैव स्थलान्तरे ‘शक्तिशक्तिमतोर्भेदं वदन्त्यपरमार्थतः। अभेदं चानुपश्यन्ति योगिनस्तत्त्वचिन्तका’ इति। भेदज्ञानं भेदमेव वा व्यावहारिकं तत्त्वज्ञानेन नाशयतीति तथा। नाशोऽन्तस्तदभावान्निर्नाशा। ‘सत्यं ज्ञानमनन्त’मिति श्रुतेः। भक्तानां मृत्युं मथ्नातीतितथा। ‘अथ कस्मादुच्यते मामृतादित्यमृतत्वं प्राप्नोतीत्यक्षयत्वं प्राप्नोति स्वयं
निस्तुला नीलचिकुरा निरपाया निरत्यया।
दुर्लभा दुर्गमा दुर्गा दुःखहन्त्री सुखप्रदा॥१०१॥
दुष्टदूरा दुराचारशमनी दोषवर्जिता।
सर्वज्ञा सान्द्रकरुणा समानाधिकवर्जिता॥१०२॥
——————
रुद्रो भवती’ति त्रैपुरोपनिषदुक्तेः। विहितनिषिद्धरूपक्रियाराहित्यानिष्क्रिया। ‘अशरीरं वाव सन्तं न प्रियाप्रिये स्पृशतः’ इति श्रुतेः। यद्वा क्रियान्वयमन्तरेणैव कर्त्रादिकारकभावमापन्ना। तदुक्तं विष्णुपुराणे ‘यथा संनिधिमात्रेण गन्धः क्षोभाय जायते। मनसो नोपकर्तृत्वात्तथासौपरमेश्वर’इति। निर्गतः परिग्रहो यस्याः ‘परिग्रहः परिजने पत्न्यां स्वीकारमूलयो’रिति मेदिनी॥१००॥ उपमाभावान्निस्तुला ‘हेतुदृष्टान्तवर्जित’मिति त्रिपुरोपनिषत्। नीलाश्चिकुराः कुन्तला यस्याः। अपायोऽत्ययो नाशस्तद्रहिता। ‘अत्ययोऽतिक्रमे दण्डे विनाशे दोषकृच्छ्रयो’रिति विश्वकोशानुसारेणातिक्रमादिरहिता निरत्यया। दुर्लभा योगिनामप्यसाध्यत्वात्। अतएव दुर्गमा अधिगन्तुमशक्यत्वात्। अदुर्गमेति वा छेदः। न विद्यते दुर्गमो यस्या इति तदर्थः। दुर्गमाख्यदैत्यवधप्रयोजिकेति यावत्। अतएव दुर्गा। तदुक्तं मार्कण्डेयपुराणे पाञ्चरात्रे लक्ष्मीतन्त्रे च भगवत्यैव ‘तत्रैव च वधिष्यामि दुर्गमाख्यं महासुरम्। दुर्गादेवीति विख्यातं तन्मे नाम भविष्यती’ति। काशीखण्डेऽपि ‘दुर्गोनाम महादैत्य’ इत्यादिरध्यायः सर्वोऽप्येतत्पर एव। इयं च भीमरथीतीरे संनतिक्षेत्रवासिनी। दुर्गापदनिरुक्तिर्देवीपुराणेऽपि ‘सुबलादिभये दुर्गे तारिता रिपुसंकटे। देवाः शक्रादयो येन तेन दुर्गा प्रकीर्तिते’ति। इयं च वाराणस्यां सुबाहुनाम्ने राज्ञे वरदानेन तेन प्रार्थिता सती देव्यनेन दुर्गेति नाम्ना प्रसिद्धा स्थिता। तदुक्तं देवीभागवतेतस्मै वरदानोत्तरं तत्प्रार्थनाप्रकरणे ‘नगरेऽत्र त्वया मातः स्थातव्यं सर्वदा शिवे। दुर्गादेवीति नाम्ना वै त्वं शक्तिरिह संस्थिते’ति। नववर्षा कन्यापि दुर्गेत्युच्यते। तदप्युक्तं तत्रैव ‘नववर्षा भवेद्दुर्गे’ति तेन तद्रूपा वेत्यर्थः। दुःखस्य सांसारिकस्य’ हन्त्री। ‘तदत्यन्तविमोकोऽपवर्ग’ इति गौतमसूत्रात्। ‘दुःखेनात्यन्तविमुक्तश्चरति इति श्रुतेश्च। सुखान्यैहिकामुष्मिककैवल्यरूपाणि प्रकर्षेण दत्ते सुखप्रदा। ‘रसँह्येवायं लब्ध्वानन्दी भवति’ इति श्रुतेः। एतस्य विस्तरः पाद्मे पुष्करखण्डे चरमभागेः षड्भिरध्यायैर्द्रष्टव्यः॥१०१॥ दुष्टानां दोषवतां दूरा अप्राप्या। ‘न भजन्ति कुतर्कज्ञा देवीं विश्वेश्वरीं शिवा’मिति देवीभागवतात्। दुराचारं शास्त्रविरुद्धाचारं शमयतीति तथा। वक्ष्यति च पुरस्तात् ‘नित्यकर्माननुष्ठानान्निषिद्धकरणादपि। यत्पापं जायते पुंसां तत्सर्वं नश्यति द्रुतमिति। दोषैरागद्वेषादिभिर्वर्जिता। सर्वं जानातीति सर्वज्ञा।‘यः सर्वज्ञः सर्ववि’दिति श्रुतेः। ‘सर्वज्ञा सर्ववेत्तृत्वा’दिति देवीपुराणाच्च। सान्द्रा घना करुणा यस्याः। ‘न तत्समश्चाभ्यधिकश्च दृश्यते’इति श्रुतौ दर्शननिषेधेन तद्विषययोरेव निषेधात्समानाधिकाभ्यां वर्जिता॥१०२॥ अथ सगुणरूपमाश्रित्याह।
सर्वशक्तिमयी सर्वमङ्गला सद्गतिप्रदा।
सर्वेश्वरी सर्वमयी सर्वमन्त्रस्वरूपिणी॥१०३॥
——————
बालाबगलादिनिखिलशक्त्यभेदात्सर्वशक्तिमयी। ‘ब्रह्ममयं जगदि’त्यादाविव मयडभेदार्थकोऽपि। सर्वदेवशक्तिरागूहरूपत्वादपि सर्वशक्तिमयी। तदुक्तंपाञ्चरात्रलक्ष्मीतन्त्रयोरिन्द्रं प्रति देव्यैव ‘महालक्ष्मीरहं शक्र पुनः स्वायंभुवेऽन्तरे। हिताय सर्वदेवानां जाता महिषमर्दिनी। मदीयाः शक्तिलेशा ये तत्तद्देवशरीरगाः। संभूय ते ममाभूवन्रूपं परमशोभनम्॥ आयुधानि च देवानां यानि यानि सुरेश्वर। मच्छक्तयस्तदाकारा आयुधानि तदाभवन्नि’ति मार्कण्डेयपुराणे त्वयमर्थो विस्तरेण वर्णितो द्रष्टव्यः। ‘पदार्थशक्तयो यायास्तास्वा गौरीं विदुर्बुधा’ इति लैङ्गादसंकुचितार्थक एव सर्वशब्दो वा। सर्वाणि मङ्गलानि यस्याः। देवीपुराणे तु ‘सर्वाणि हृदयस्थानि मङ्गलानि शुभानि च। ईप्सितानि ददातीति तेन सा सर्वमङ्गला॥ शोभनानि च श्रेष्ठानि या देवी ददते हरे। भक्तानामार्तिहरणी तेनेयं सर्वमङ्गला’ इति॥
॥इति श्रीभासुरानन्दकृते सौभाग्यभास्करे। द्वितीयशतकेनाभूत्तृतीया धूम्रिका कला॥२००॥ इति श्रीमत्पदवाक्येत्यादिभास्कररायकृते ललितासहस्रनामभाष्ये द्वितीयं शतकं नाम तृतीया कला॥३॥
स्वर्गादिमोक्षान्ताः सद्गतीः सतो ब्रह्मणोऽवगतिं ज्ञानं वा सतां गतीर्वा प्रददातीति तथा। ‘गतिस्त्वं मतिस्त्वं त्वमेका भवानी’ त्यभियुक्तोक्तेः। पाद्मे ‘त्रिकालं पूजयेद्यस्तु चतुर्दश्यां नराधिप। स गच्छति परं स्थानं यत्र देवी व्यवस्थिते’ त्यारभ्य ‘दुर्गापूजोपकरणं स्वल्पं वा यदि वा बहु। कृत्वा वित्तानुसारेण रुद्रलोके महीयत’ इत्यन्तैश्चतुर्भिरध्यायैः प्रत्युपचारं गुणकामविधिभिः क्रमेण समस्तलोकगतिप्रतिपादकानि वचनानीहोपष्टम्भकत्वेन योजनीयानि। अतएव सर्वस्वामित्वात्सर्वेश्वरी। असंकुचितस्वामित्वमभेदं विना न निर्वहतीत्याह। सर्वमयी क्षित्यादिशिवान्ततत्त्वाभिन्ना। तदुक्तं कामिके ‘चतुर्विंशत्युत्तरं यद्भुवनानां शतद्वयम्। भुवनाध्वा स संचिन्त्यो “रोमवृन्दात्मनो विभोः॥ पञ्चाशद्वर्णरूपेण स्तुवन्वर्णाध्वकल्पना। असौ त्वगात्मना चिन्त्यो देवदेवस्य शूलिनः॥ सप्तकोटिमहामन्त्रैर्मूलविद्यासमुद्भवैः। मन्त्राध्वा संधिरात्मासौ विचिन्त्यः पार्वतीपतेः॥ अनेकभेदसंभिन्ना मन्त्राणां पदसंहतिः। पदाध्वेत्युच्यते सौम्या शिरामांसतया स्थितः॥ पृथिव्यादीनि षड्विंशत्तत्वान्यागमवेदिभिः॥ तत्त्वाध्वेत्युदितान्येष शुक्लमज्जास्थिरूपधृगि’ति। एतदेवावयुत्यानुवदति त्रिभिः। सर्वे सप्तकोटिसांख्यामन्त्राः स्वरूपमस्याः। श्रूयते च सुन्दरीतापिनीये ‘पूर्वोत्तराभ्यां ‘विद्या या अनेकाःपरिक्लृप्ता’ इति, स्पष्टतरं च गौडपादैः ‘विद्या याः पूर्वोत्तराभ्यामनेका जाता’ इत्यादिभिः सप्तभिः सूत्रैः सर्वमन्त्रात्मकत्वं वर्णितं तद्भाष्ये च प्रपञ्चितम्। तत्रैव ‘तथायन्त्रतन्त्राणी’ति सूत्रे वर्णितं प्रमेयमाह॥१०३॥ सर्वेषां घण्टार्गलानां
सर्वयन्त्रात्मिका सर्वतन्त्ररूपा मनोन्मनी।
माहेश्वरी महादेवी महालक्ष्मीर्मृडप्रिया॥१०४॥
——————
यन्त्राणामात्मस्वरूपमेवात्मिका। ‘प्रत्ययस्था’दितीत्वम्। वामकेश्वरादिसर्वतन्त्राण्येव रूपं शरीरमस्याः। सर्वतन्त्रैर्निरूप्या वा। तदुक्तं ‘बहुधाप्यागमैर्भिन्नाः पन्थानः सिद्धिहेतवः। त्वय्येव निपतन्त्येते स्रोतस्विन्य इवार्णवे’ इति। शरीरपक्षेऽपि कामिकागमे ‘कामिकं पादकमलं योगजं गुल्फयोर्युगम्। पादद्वयाङ्गुलीरूपे कारणप्रसृताह्वये॥ अजिता जानुनोर्युग्मं दीप्तमूरुद्वयं विभोः। पृष्ठभागेंऽशुमानस्य नाभिः श्रीसुप्रभेदकम्॥ विजयं जठरं प्राहुर्निःश्वासं हृदयात्मकम्। स्वायंभुवं स्तनद्वन्द्वमनलं लोचनत्रयम्॥ वीरागमः कण्ठदेशो रुरुतन्त्रं श्रुतिद्वयम्। मुकुटं मुकुटं तन्त्रं बाहवो विमलागमाः॥ चन्द्रज्ञानमुरः प्रोक्तं बिम्बं वदनपङ्कजम्। प्रोद्गीततन्त्रं रसना ललितं गण्डयोर्युगम्॥ सिद्धं ललाटफलकं संतानं कुण्डलद्वयम्। किरणं रत्नभूषा स्याद्वातुलं वसवात्मकम्॥ अङ्गोपाङ्गानि रोमाणि तन्त्राण्यन्यानि कृत्स्नशः। एवं तन्त्रात्मकं रूपं महादेव्या विचिन्तये’दिति। भ्रूमध्यादष्टमं स्थानं ब्रह्मरन्ध्रादधस्तनं मनोन्मनीति कथितं तद्रूपा। तत्स्वरूपं स्वच्छन्दसंग्रहे ‘या शक्तिः कारणत्वेन तदूर्ध्वं चोन्मनी स्मृता। नात्र कालकलामानं न तत्त्वं न च देवता॥ सुनिर्वाणं परं शुद्धं रुद्रवक्रं तदुच्यते। शिवशक्तिरिति ख्याता निर्विकल्पा निरञ्जने’ति॥ अतएव ‘वामदेवाय नमो ज्येष्ठाय नमः’ इति श्रुतौ प्रसिद्धस्य मनोन्मनाख्यशिवस्य शक्तिरिति च। त्रिपुरोपनिषद्यपि ‘निरस्तविषयासङ्गं संनिरुद्धं मनो हृदि। यदायात्युन्मनीभावं तदा तत्परमं पद’मिति। योगशास्त्रे मुद्राविशेषस्य संज्ञा। तल्लक्षणं तत्रैव ‘नेत्रे ययोन्मेषनिमेषमुक्ते वायुर्यया वर्जितरेचपूरः। मनश्च संकल्पविकल्पशून्यं मनोन्मनी सा मयि संनिधत्ता’मिति। बृहन्नारदीयेऽपि ‘ध्यानध्यातृध्येयभावो यदा पश्यति निर्भरम्। तदोन्मनत्वं भवति ज्ञानामृतनिषेवणादि’ति। मनांस्युन्मन्यते उत्कृष्टज्ञानयुक्तानि कुरुत इति वा। संधिरार्षः। ‘यो वेदादौ स्वरः प्रोक्तो वेदान्ते च प्रतिष्ठितः। तस्य प्रकृतिलीनस्य यः परः स महेश्वर’ इति श्रुतिप्रसिद्धस्य महेश्वरपदस्य त्रिगुणातीतत्वं शक्यतावच्छेदकम्। तदुक्तं लैङ्गे ‘तमसा कालरुद्राख्यो रजसा कनकाण्डजः॥ सत्वेन सर्वगो विष्णुर्नैर्गुण्येन महेश्वर’ इति। अविच्छिन्नत्वमत्र तृतीयार्थडे चरमभागेपदस्य तद्वाच्ये लक्षणा। कालरुद्राख्य इत्युपक्रमानुसारात्। तेन तदवचिन्ति कुतर्कज्ञा श्वरः। ‘सत्येन ब्रह्मचर्येण लिङ्गमस्य यथा स्थितम्। समर्चयन्ति ये लोरं शमयतीति उच्यते’ इति। भारते ‘महेश्वरः स भूतानां महतामीश्वरश्च स’ इति च। यत्पापं जायते तिव्यूहो वातुलशुद्धे प्रतिपादितः सोऽपि महेश्वरस्तस्येयं माहेश्वरी। महतीमातीति सर्वज्ञा। महादेवी। महत्त्वं च प्रमाणागम्यशरीरवत्त्वम्। तदुक्तं देवीपुराणे ‘वृा। सान्द्रा घना यदप्रमेयं प्रमाणतः। धातुर्महेति पूजायां महादेवी ततः स्मृते’ति। वधेन तद्विषयमूर्तेः शिवस्य महादेव इति संज्ञा तस्य पत्नी। वुधस्य माता रोहिणीमाश्रित्याह।
महारूपा महापूज्या महापातकनाशिनी।
महामाया महासत्वा महाशक्तिर्महारतिः॥१०५॥
——————
त्यर्थः। तथाच लैङ्गे ‘समस्तसौम्यवस्तूनां प्रकृतित्वेन विश्रुतः। सोमात्मको बुधैर्देवो महादेव इति स्मृतः॥ सोमात्मकस्य देवस्य महादेवस्य सूरिभिः। दयिता रोहिणी प्रोक्ता बुधश्चैव शरीरज’ इति। वायवीयेऽपि ‘नाम्ना देवस्य महतश्चन्द्रमास्तनुरष्टमी। पत्नी तु रोहिणी तस्य पुत्रश्चास्य बुधः स्मृतः’ इति। सेयं गण्डक्यां चक्रतीर्थाधिष्ठात्री देवता। ‘शालग्रामे महादेवी’ति पाद्मे पुष्करखण्डे देवीतीर्थेषु परिगणनात्। तत्रैव ‘करवीरे महालक्ष्मी’रिति परिगणितां देवीमाह। महालक्ष्मीः महती च सा लक्ष्मीश्च। महाविष्णोरियं पत्नी। करवीरं कलौ कोलापुरमिति प्रसिद्धम्। अथवा अम्बिकांशभूतैवेयम्। तदुक्तं मैरालतन्त्रे ‘महालनामकं दैत्यं स्यति क्षपयतीति च। महालसा महालक्ष्मीरिति च ख्यातिमागता। उपत्यकायां सह्याद्रेः पश्चिमोदधिरोधसी’ति। शिवपुराणेऽपि शिवं प्रस्तुत्य ‘तस्याङ्कमण्डलारूढा शक्तिर्माहेश्वरी परा। महालक्ष्मीरिति ख्याता श्यामा सर्वमनोहरे’ति। आयुष्यसूक्ते ‘श्रियं लक्ष्मीमम्बिकामौपलाङ्गा’मित्यत्र लक्ष्मीपदमात्रस्य पार्वत्यां प्रयोगश्च। तेन पदेन पूज्यवाचिमहत्पदस्य ‘सन्महत्परमे’त्यादिसूत्रेण समासः। ‘सर्वस्याद्या महालक्ष्मीस्त्रिगुणा सा व्यवस्थिते’ति मार्कण्डेयपुराणं च। त्रयोदशवर्षात्मककन्यारूपा वा। कन्यां प्रक्रम्य ‘त्रयोदशे महालक्ष्मी’रिति धौम्येन कथनात्। ‘मृड सुखने’ इति धातोर्विश्वस्थितिकर्तुः सत्वगुणवतः शिवस्य मृड इति संज्ञा। ‘जनसुखकृते सत्त्वोद्रिक्तौ मृडाय नमोनमः’ इति महिम्नस्तवात्। तस्य प्रिया॥१०४॥ मह्त् रूपचतुष्टयमपेक्ष्योत्कृष्टं रूपं यस्याः। तदुक्तं विष्णुपुराणे ‘परस्य ब्रह्मणो रूपं पुरुषः प्रथमं द्विज। व्यक्ताव्यक्ते तथैवान्ये रूपे कालस्तथा परम्॥ प्रधानपुरुषव्यक्तकालानां परमं हि यत्। पश्यन्ति सूरयः शुद्धं तद्विष्णोः परमं पदम्॥ प्रधानपुरुषव्यक्तकालास्तु प्रविभागशः। रूपाणि स्थितिसर्गान्तव्यक्तिसद्भावहेतवः’ इति। महती च सा पूज्या च महापूज्या। पूज्यानां शिवादीनामपि पूज्येत्यर्थः। तथाच पाद्मदेवीभागवतयोः ….विष्णुकुबेरविश्वदेववायुवसुवरुणाग्निशक्रसूर्यसोमग्रहराक्षसपिशाचमातृगणादिभेचिन्त्यो देवपूजनीयदेवीमूर्तिभेदो मन्त्रे शैलेन्द्रनीलस्वर्णरौप्यपित्तलकांस्यस्फटिकमाणिक्यरात्मासौ विधिवालवैडूर्यन्त्रपुसीसवज्रलोहविकाररूपो विस्तरेण दर्शितः। अत्राग्निशक्रत्युच्यते सौम्यमयीमेव प्रतिमां पूजयन्ति। इतरद्यथासंख्यं योजनीयम्। महान्ति तत्त्वाध्वेत्युदिता पातकानि नाशयतीति तथा। तथाच ब्रह्माण्डे ‘कृतस्याखिलपापस्य सर्वे सप्तकोटिसोऽपि वा। प्रायश्चित्तं परं प्रोक्तं पराशक्तेः पदस्मृति’रिति। ब्रह्मोत्तरविद्या या अनेन बहुनात्र किमुक्तेन श्लोकार्थेन वदाम्यहम्। ब्रह्महत्याशतं वापि शिवजाता’ इत्याद्यि’दिति। ‘महापातकशब्देन वीरहत्यैव कथ्यते’ इति त्वर्थरत्नावल्यामुक्तम्। `तत्रैव ‘ताः भाग्यरत्नाकरादिषु प्रायश्चित्तप्रकरणे पापतारतम्येन पञ्चदश्या जपसंख्यायां
महाभोगा महैश्वर्या महावीर्या महाबला।
——————
तारतम्यवचनान्युपष्टम्भकत्वेन योजनीयानि। ब्रह्मादीनामपि मोहकत्वान्महामाया। तदुक्तं मार्कण्डेयपुराणे ‘ज्ञानिनामपि चेतांसि देवी भगवती हि सा। बलादाकृष्य मोहाय महामाया प्रयच्छति’। कालिकापुराणेऽपि ‘गर्भान्तज्ञानसंपन्नं प्रेरितं सूतिमारुतैः। उत्पन्नं ज्ञानरहितं कुरुते या निरन्तरम्॥ पूर्वातिपूर्वसंघातसंस्कारेण नियोज्य च। आहारादौ ततो मोहममत्वाज्ञानसंशयम्॥ क्रोधोपरोधलोभेषु क्षिप्त्वा क्षित्वा पुनःपुनः। पश्चात्कामेन योज्याशु चिन्तायुक्तमहर्निशम्॥ आमोदयुक्तं व्यसनासक्तं जन्तुं करोति या। महामायेति संप्रोक्ता तेन सा जगदीश्वरी’ति। यद्वा ‘माया दम्भे कृपायां चे’ति कोशात्कृपाबहुला। सतो भावो बलं गुणः। प्राणिनश्च सत्वपदार्थाः। ‘सत्वं गुणेपिशाचादौ बले द्रव्यस्वभावयो’रिति विश्वः। महान्ति सत्त्वानि यस्याः, महती सर्वजगन्निर्वाहकत्वादिरूपा विस्तृता विविधा च शक्तिः सामर्थ्यं यस्याः सा। ‘शक्तिर्बले च सामर्थ्ये तथा प्रहरणान्तरे’इति यादवः। बलायुधपक्षावपीह योज्यौ। उक्तंच विष्णुपुराणे ‘एकदेशस्थितस्याग्नेर्ज्योत्स्ना विस्तारिणी यथा। परस्य ब्रह्मणः शक्तिस्तथैतदखिलं जग’दिति। ‘तत्राप्यासन्नदूरत्वाद्बहुत्वं स्वल्पता यतः। ज्योत्स्नाभेदोऽस्ति तच्छकेस्तद्वन्मैत्रेय विद्यत’ इति। ‘महाशक्तिः कुण्डलिनी’त्यत्र यदि तृतीयाक्षरस्य तालव्यत्वनिश्चयस्तदात्राकारप्रश्लेषः कर्तव्य इति न पौनरुक्त्यम्। न विद्यते महती शक्तिर्यदपेक्षयेति बहुव्रीहिः। ‘न तत्समश्चाभ्यधिकश्च दृश्यत’ इति श्रुतेः। छलाक्षरसूत्रे परिभाषायां चानयोश्चतुरक्षरत्वोक्तिबलात्कचित्पुस्तकेषूपलम्भाच्च महासनामहाशनापदयोरिव भेदमङ्गीकृत्यास्माभिस्तथा व्याख्यातम्। नह्येतद्विष्णुसहस्रनामादिवत्पुनरुक्तिशताक्रान्तं येनार्थभेदमात्रमङ्गीकृत्य शब्दत ऐक्यं सोढव्यं स्यादिति। महती विषयरतिभ्योऽधिका रतिः प्रीतिर्ज्ञानिनां यस्यां सा। महाकामसुन्दरीत्वाद्वा महारतिरित्युच्यते॥१०५॥ महानाभोगः क्षित्यादिरूपो विस्तारो यस्याः,भोगः सुखं वा धनं वा महद्यस्या इति वा। ऐश्वर्यमीश्वरता विभूतिश्चेत्युभयं महद्यस्याः। महान्ति वीर्याणि शुक्रादीनि यस्याः। ‘वीर्यं शुक्रे प्रभावे च तेजःसामर्थ्ययोरपी’ति विश्वः। महान्ति बलानि गन्धादीनि यस्याः। ‘बलं गन्धे रसे रूपे स्थामनि स्थौल्यसेनयोः। बलो हलायुधे दैत्यभेदे बलिनि वायस’ इति विश्वः। वायसपक्षे भुसुण्डादयो यत्प्रसादान्महान्तो जाता इति योज्यम्। तथाच योगवासिष्ठे वसिष्ठंप्रति भुसुण्डाख्यस्य वायसस्य वाक्यम् ‘भ्रातरश्चण्डतनया वायसा एकविंशतिः। भ्रातृभिः सह हंसीभिर्ब्राह्मी भगवती तथा॥ चिरमाराधितास्माभिः समाधिविरमे सति। प्रसादपरया काले भगवत्या ततः स्वयम्॥ तथैवानुगृहीताः स्मो येन मुक्ता वयं स्थिता’ इत्यादि।
अथ परिभाषायां चत्वारिंशन्नामानि विभजते॥ भुवि हि चतुर्देहार्धं चतुष्पदार्धं भवेदविभौ। पादत्रयगुणदो द्विर्गौणार्होद्विर्विभागशरवीरः॥१३॥ अत्र प्राथमिकं चतुरिति पदं द्विरिति पदद्वयं चैकैकार्धविभाग-
महाबुद्धिर्महासिद्धिर्महायोगेश्वरेश्वरी॥१०६॥
महातन्त्रा महामन्त्रा महायन्त्रा महासना।
महायागक्रमाराध्या महाभैरवपूजिता॥१०७॥
——————
परम्। तेनाद्ये चत्वारि नामानि चतुरक्षराणि अन्त्ययोरष्टाक्षरे द्वेद्वे नामनी इति सिध्यति। चतुष्पदेत्यत्र पदशब्दः पादपरः। स्पष्टमन्यत्॥१३॥
महाबुद्धिरित्यादि। महती च सा बुद्धिश्च महाबुद्धिः। यस्यां बुद्धावुत्पन्नायां ज्ञातव्यं नावशिष्यते सा महती। ‘यस्मिन्विज्ञाते सर्वमिदं विज्ञातं स्या’दिति श्रुतेः। महती बुद्धिर्यस्याः सकाशादिति वा। एवमेव द्वेधा महासिद्धिपदं व्याख्येयम्। सिद्धयश्चाणिमाद्याः प्रसिद्धाः। अन्या अप्युक्ताः स्कन्दपुराणे ‘रसानां स्वत उल्लासः प्रथमा सिद्धिरीरिता। द्वन्द्वैरनभिभूतिश्च द्वितीया सिद्धिरुच्यते॥ अधमोत्तमताभावस्तृतीया सिद्धिरुत्तमा। चतुर्थी तुल्यता तेषामायुषः सुखदुःखयोः॥ कान्तेर्बलस्य बाहुल्यं विशोका नाम पञ्चमी। परमात्मपरत्वेन तपोध्यानादिनिष्ठता॥ षष्ठी निकामचारित्वं सप्तमी सिद्धिरुच्यते अष्टमी च तथा प्रोक्ता यत्र क्वचनशायिते’ति। महतां योगेश्वराणामीश्वरीति तथा॥१०६॥ महान्ति बहुफलप्रदानि तन्त्राणि कुलार्णवज्ञानार्णवादीनि मन्त्रा बालाबगलादयो यन्त्राणि पूजाचक्रपद्मचक्रामृतघटमेरुलिङ्गादीनि यस्याः सातथा। यद्वा स्वतन्त्राख्यं तन्त्रं श्रीविद्याख्यो मन्त्रः सिद्धिवज्राख्यं च यन्त्रं महत्सर्वोत्तमं यस्याः। स्वतन्त्रस्यान्यानपेक्षत्वान्महत्त्वम्। तदुक्तं तत्रैव मयि’भगवन्सर्वतन्त्राणि भवतोक्तानि वै पुरा। तेषामन्योन्यसापेक्षत्वाज्जायते मतिविभ्रमः। तस्मात्तु निरपेक्षं मे तन्त्रं तासां वद प्रभो’ इति प्रश्ने ‘कादिमतं तन्त्रं पूर्णमन्यानपेक्षया। गोप्यं सर्वप्रयत्नेन गोपनं तन्त्रचोदितमिति। सौन्दर्यलहर्यामप्युक्तम्। ‘चतुःषष्ट्या तन्त्रैः सकलमभिसंधाय भुवनं स्थितस्तत्तत्सिद्धिप्रसवपरतन्त्रः पशुपतिः। पुनस्त्वं निर्बन्धादखिलपुरुषार्थैकघटना स्वतन्त्रं ते तन्त्रं क्षितितलमवातीतरदिद’मिति। मन्त्रविषये तु ‘श्रीविद्यैव तु मन्त्राणा’मित्यादिनीकुलार्णवशक्तिरहस्ययोः परःसहस्रं वचनानि द्रष्टव्यानि। सिद्धिवज्राख्यंयन्त्रं प्रकृत्य नित्यातन्त्रे स्मर्यते ‘ललिताविद्यया विद्यामन्यां यन्त्रेण वामुना। यन्त्रमन्यत्समं वेत्ति
योसौस्यान्मूढचेतन’इति। महदासनं क्षित्यादिषट्त्रिंशत्तत्त्वरूपं यस्याः। ‘एषाभगवती सर्वतत्त्वान्याश्रित्य तिष्ठतीति देवीभागवतात्। ब्राह्वयाद्यंशभूताक्षोभ्यादिचतुःषष्टियोगिनीपूजासहितो महायागः स एव क्रमः तदितरस्यसर्वस्यापि विलम्बितफलप्रदत्वेनाक्रमत्वात्तेनाराध्या। ‘शक्तौ च परिपाट्यां च क्रमश्चलनपङ्कयो’रितिशाश्वतः। यद्वा भावनोपनिषदा प्रतिपादितो यागो रहस्यतरःशिवयोग्यैकसाध्योमहायागः। सचास्माभिस्तद्भाष्ये तत्प्रयोगविधौ च विशदीकृत इति नेहोच्यते।भरणरमणवमनकर्ता सृष्टिस्थितिसंहृतिकारी परशिवो भैरवः सएव महांस्तेनमहाभैरवेण पूजिता। तदुक्तं पाद्मे ‘शंभुः पूजयते देवीं मन्त्रशक्तिमयीं शुभाम्। अक्षमालां करे धृत्वा न्यासेनैव भवोद्भव’ इति। महाशंभुनाथ
महेश्वरमहाकल्पमहाताण्डवसाक्षिणी।
महाकामेशमहिषी महात्रिपुरसुन्दरी॥१०८॥
चतुःषष्ट्युपचाराढ्या चतुःषष्टिकलामयी।
महाचतुःषष्टिकोटियोगिनीगणसेविता॥१०९॥
——————
महायागेन चिदग्निकुण्डाल्ललितां प्रादुर्भावयामासेति ललितोपाख्याने प्रसिद्धम्॥१०७॥ महाकल्पे महाप्रलये यन्महेश्वरस्य महाताण्डवं विश्वोपसंहारादात्मैकशेयसमुद्भूतानन्दकृतं तत्कालेऽन्यस्य कस्याप्यभावादियमेव साक्षिणी। तदुक्तं पञ्चदशीस्तवे ‘कल्पोपसंहरणकल्पितताण्डवस्य देवस्य खण्डपरशोः परभैरवस्य। पाशाङ्कुरौक्षवशरासनपुष्पगणैः सा साक्षिणी विजयते तव मूर्तिरेके’ति। ‘एषा संहृत्य सकलं विश्वं क्रीडति संक्षये। लिङ्गानि सर्वजीवानां स्वशरीरे निवेश्य चे’ति देवीभागवते। महावासिष्ठेऽपि निर्वाणप्रकरणोत्तरार्धे एकाशीतितमे सर्गे शताधिकैः श्लोकैरत्यद्भुतमतिभयंकरं नृत्यमुभयोर्निर्वण्योपसंहृतं ‘डिम्बं डिम्बं सुडिम्बं पच पच सहसा झम्यझम्यं प्रझम्यं नृत्यन्त्याः शब्दवाद्यैः स्रजमुरसि शिरःशेखरं तार्क्ष्यपक्षैः। पूर्णं रक्तासवानां यममहिषमहाशृङ्गामादाय पाणौपायाद्वो वन्द्यमानः प्रलयमुदितया भैरवः कालरात्र्ये’ति। महतः कामस्य परमशिवाभिन्नस्येशत्य भूपस्य महिषी कृताभिषेका पत्नी। त्रयाणां मातृमानमेयानां पुरं नगरं तदात्मिका च सा महती च सा सुन्दरी चेति तथा॥१०८॥ चतुरधिका षष्टिचतुःषष्टिस्तावन्त उपचारा भगवता परशुरामेण कल्पसूत्रे गणिताः। अन्येऽप्यष्टौ तन्त्रान्तरे ‘शिवपादप्रसूनानां धारणं चात्मरोपणम्। परिवारविसृष्टिश्च गुरुभक्तार्चनं तथा॥ शैवपुस्तकपूजा च शिवाग्नियजनं ततः। शिवपादोदकादानंसाङ्गं प्राणाग्निहोत्रकम्॥ एते चतुःषष्टियुता उपचारा द्विसप्तति’रिति। चतुरधिका षष्टिश्चतुःषष्टिस्तत्संख्या उपचाराः पूजाप्रकरणेऽस्माभिरुक्ताः तैराढ्या। धनिनीतदभिन्नधनशीला। चतुःषष्टिकलाः शार्ङ्गधरीये कथाकोशे च श्रीधरीये लक्ष्मीपीठिकायां च वैलक्षण्येन गणितास्ता निष्कृष्य लिख्यन्ते ‘अष्टादशलिपिबोधस्तल्लेखनशीघ्रवाचने चित्रम्। बहुविधभाषाज्ञानं तत्कविताश्रुतनिगदिता द्यूतम्॥ वेदा उपवेदाश्चत्वारः शास्त्राङ्गषट्के द्वे। तन्त्रपुराणस्मृतिकं काव्यालंकारनाटकादिद्वे॥ शान्तिर्वश्याकर्षणविद्वेषोच्चाटनमारणानि च षट्। गतिजलवृष्ट्याग्न्यायुधवाग्रेतःस्तम्भसप्तकं शिल्पम्॥ गजहयरथनरशिक्षाः सामुद्रिकमल्लसूदगारुडकाः। तत्तत्सुषिरानद्धघनेन्द्रजालनृत्तानि गीतरसवादौ॥ रत्नपरीक्षा चौर्यं धातुपरीक्षाप्यदृश्यत्वम्। इति भास्करसुधियोक्ता9 निष्कृष्य कलाश्चतुःषष्टि’रिति तत्प्रचुरा। कलाशब्दस्तन्त्रपरो वा। तान्यपि चतुःषष्टिर्वामकेश्वरतन्त्रे गणितानि। तानि तट्टीका10यामस्मार्भिविवेचयिष्यन्ते। तन्मयी तत्प्रधाना। ब्राह्मयादीनामष्टानां मध्ये एकैकस्या अंशभूताअक्षोभ्यादि-
मनुविद्या चन्द्रविद्या चन्द्रमण्डलमध्यगा।
चारुरूपा चारुहासा चारुचन्द्रकलाधरा॥११०॥
चराचरजगन्नाथा चक्रराजनिकेतना।
पार्वती पद्मनयना पद्मरागसमप्रभा॥१११॥
——————
शक्तयोऽष्टावष्टाविति चतुःषष्टिर्योगिन्यः। तासामपि प्रातिस्विकमंशभूताः कोटिसंख्याका गणास्तैर्महद्भिः सेविता। वस्तुतस्तन्त्रराजोक्ता एवेह ग्राह्याः। तथा ललिताचक्रनवके प्रत्येकं शक्तयः प्रिये। चतुःषष्टिमिताः कोट्य’ इति। ताः संहृत्य पञ्चाब्जानि सप्तार्बुदानि षट्कोट्यो भवन्ति। नवसु त्रैलोक्यमोहनादिचक्रादिषु प्रदिचक्रं भिन्नाभिन्नाश्चतुःषष्टिकोटिसंख्याका योगिन्यः सन्तीति ताः संहत्य पञ्चाब्जानि सप्तार्बुदानि षट्कोट्यो भवन्ति। तदिदं द्योतयितुं महत्पदं कोटिरेव विशेषणं वा। महत्त्वं च नवगुणितत्वम्॥१०९॥ ‘मनुश्चन्द्रः कुबेरश्च लोपामुद्रा च मन्मथः। अगस्तिरग्निः सूर्यश्च इन्द्रः स्कन्दः शिवस्तथा। क्रोधभट्टारको देव्या द्वादशामी उपासकाः’ इति वचने संगृहीतो द्वादशप्रकारः श्रीविद्याप्रस्तारः। तदुद्धारश्च ज्ञानार्णवे द्रष्टव्यः। तेषु मनुचन्द्रविद्योभयरूपेत्यवयुत्यानुवादेन नामद्वयम्। चन्द्रमण्डलस्य मध्यं गच्छन्तीति, तथा कुण्डलिन्याः सहस्रारकर्णिकाचन्द्रभेदित्वात् सायंसंध्यावन्दने आयुष्करप्रयोगादौ च चन्द्रमण्डले ध्येयत्वात्। शिवपुराणे देवीं प्रति शिववचनम् ‘अहमग्निशिरोनिष्ठस्त्वं सोमशिरसि स्थिता। अग्नीषोमात्मकं विश्वमावाभ्यां समधिष्ठित’मिति। चन्द्रमण्डलं तु श्रीचक्राभिन्नमिति रहस्यम्। चारु सुन्दरं रूपं लावण्यं यस्याः। चारुः हासो यस्याः। ‘तवैव मन्दस्मितबिन्दुरिन्दु’रित्युक्तेः। परमानन्दप्रदःप्रबोधविशेषो गुरुमुखैकवेद्यो यस्या इति तु लक्षणया कश्चिदूचे। चार्व्या वृद्धिक्षयरहितायाश्चन्द्रकलायाः सादाख्यायाश्चिद्रूपाया धरा धारयित्री। यद्वा चन्द्रकलाख्या राजकन्या देवीभागवते प्रसिद्धा। तस्याः स्वप्ने कामराजबीजोपासकः सुदर्शनाख्यो राजपुत्र एव त्वया वरणीय इत्यम्बया कथितं तेन चारु यथा तथा चन्द्रकलायाः धरा आधारभूतेत्यर्थः। तदुक्तं तत्रैव तृतीयस्कन्धे ‘एतस्मिन्समये पुत्री काशिराजस्य सत्तमा। नाम्ना शशिकला दिव्या सर्वलक्षणसंयुते’त्युपक्रम्य ‘स्वप्ने तस्याः समागत्य जगदम्बा निशान्तरे। उवाच वचनं चेदं समाश्वास्य सुखं स्थिता॥ वरं वरय सुश्रोणि मम भक्तं सुदर्शनम्। सर्वकामप्रदं तेऽस्तु वचनान्मम भामिनि’ इत्यादि॥११०॥ जंगमस्थावरात्मकस्य जगतोऽधीश्वरी। त्रैलोक्यमोहनादिनवचक्रराजमेव निकेतनं वासस्थानं यस्याः। हिमवत्पर्वतस्य स्त्र्यपत्यत्वात्पार्वती। क्वचिदपवादविषयेऽप्युत्सर्गस्य प्रवृत्तेरिञभाव इत्याहुः। ‘प्रदीयतां दाशरथाय मैथिली’ इतिवत्संबन्धसामान्यमेवेह विवक्षितं न विशेष इति युक्तम्। पद्मे इव नयने यस्याः सा पद्मनयना। पद्मरागाख्यरत्नेनारक्तेन समा तुल्या प्रभा कान्तिर्यस्यास्तथा। पद्मविशेषस्य कोकनदस्य रागेण रक्तिम्ना समेत्यादे वा। ‘त्रायस्व कुण्डलिनि
पञ्चप्रेतासनासीना पञ्चब्रह्मस्वरूपिणी।
चिन्मयी परमानन्दा विज्ञानघनरूपिणी॥११२॥
ध्यानध्यातृध्येयरूपा धर्माधर्मविवर्जिता।
——————
कुङ्कुमपङ्कताम्रे’ इति कल्याणाचार्योक्तेरमृतकुण्डलिनीपरं वेदं नाम॥१११॥ ब्रह्माद्याः पञ्चापि वामादिस्वस्वशक्तिविरहे सति कार्याक्षमत्वाद्वामांशेन11 प्रेताः तैः कल्पिते आसने मञ्चके आसीना। तदुक्तं ज्ञानार्णवे ‘पञ्च प्रेतान्महेशान ब्रूहि तेषां तुं कारणम्। निर्जीवा अविनाशास्ते नित्यरूपाः कथं वदे’त्यादिना देव्या पृष्टे, ईश्वर उवाच ‘साधु पृष्टं त्वया भद्रे पञ्चप्रेतासनं कथम्। ब्रह्मा विष्णुश्च रुद्रश्च ईश्वरश्च, सदाशिवः॥ पञ्च प्रेता वरारोहे निश्चला एव ते सदा। ब्रह्मणः परमेशानि कर्तृत्वं सृष्टिरूपकम्॥ वामा शक्तिस्तु सा ज्ञेया ब्रह्मा प्रेतो न संशयः। शिवस्य करणं नास्ति शक्तेस्तु करणं यत’ इत्यारभ्य ‘सदाशिवो महाप्रेतः केवलो निश्चलः प्रिये। शक्त्या विनाकृतो देवि कथंचिदपि न क्षम’ इत्यन्तम्। ब्रह्मादिसदाशिवान्तानां पञ्चानामपि ब्रह्मकोटावन्तर्भावात्पञ्चब्रह्मणां स्वरूपमस्याः। तदुक्तं त्रिपुरासिद्धान्ते ‘निर्विशेषमपि ब्रह्म स्वस्मिन्मायाविलासतः। ब्रह्मा विष्णुश्च रुद्रश्च ईश्वरश्चसदाशिवः॥ इत्याख्यावशतः पञ्च ब्रह्मरूपेण संस्थित’मिति। यद्वा। ईशानतत्पुरुषाघोरवामदेवसद्योजाताख्यानि पञ्च ब्रह्माणि। तथाच लैङ्गे ‘क्षेत्रज्ञप्रकृतिबुद्ध्यहंकारमनांसि श्रोत्रत्वक्चक्षुर्जिह्वोपस्थानि शब्दादिपञ्चतन्मात्राणि च पञ्च ब्रह्मस्वरूपाणीत्युक्त्वा तेषामाकाशादिपञ्चमहाभूतजनकत्वमुक्तम्। तादृशस्वरूपवतीत्यर्थः। यज्ञवैभवखण्डेऽप्युक्तम् ‘एक एव शिवः साक्षात्सत्यज्ञानादिलक्षणः। विकाररहितः शुद्धः स्वशक्त्या पञ्चधा स्थित’ इति। सृष्टिस्थित्यादिपञ्चकृत्यशक्तिभिः सद्योजातादिपञ्चरूपो जात इत्यर्थः। गरुडपुराणेऽपि ‘लोकानुग्रहकृद्विष्णुः सर्वदुष्टविनाशनः। वासुदेवस्य रूपेण तथा संकर्षणेन च॥ प्रद्युम्नाख्यस्वरूपेणाऽनिरुद्धाख्येन च स्थितः। नारायणस्वरूपेण पञ्चधा ह्यद्वयः स्थित’ इति। आचार्यैरप्युक्तम् ‘पुंभावलीला पुरुषास्तु पञ्च यादृच्छिकं संलपितं त्रयी ते। अम्ब त्वदक्ष्णोरणुरंशुमाली तवैव मन्दस्मितबिन्दुरिन्दु’रिति। चिदभेदाच्चिन्मयी। परम उत्कृष्ट आनन्दो यस्याः स्वरूपं सा। ‘यो वै भूमा तत्सुख’मिति श्रुतेः। विज्ञानं चैतन्यमेव घनं सान्द्रं तदेकरसं रूपमस्याः। ‘विज्ञानघन एवैतेभ्यो भूतेभ्यः समुत्थायेति श्रुतौ विज्ञानघनपदस्य चिदेकरसपरत्वेन व्याख्यानदर्शनात्। अथवा विज्ञानशब्दो जीवपरः। ‘यो विज्ञाने तिष्ठन्विज्ञानमन्तरो यमयती’त्याद्यन्तर्यामिब्राह्मणे तथा व्याख्यानात्। तैर्घनं समष्ट्यात्मकं रूपमस्याः। जीवसमष्ट्यभिमानिहिरण्यगर्भात्मिकेत्यर्थः। ‘एतस्माज्जीवघना’दिति श्रुतौ जीवघनपदस्य तथा व्याख्यानात्॥११२॥ ‘ध्यै चिन्तायाम्’। चिन्ता मानसं ज्ञानं ’ प्रत्ययैकतानता ध्यान’मिति योगसूत्रोक्तम्। ज्ञानज्ञातृज्ञेयाख्यत्रिपुटीरूपेत्यर्थः। इष्टानिष्टप्रापके कर्मणी धर्माधर्मौ। तदुक्तं मत्स्यपुराणे ‘धर्मेति धारणे धातुर्महत्त्वे वै प्रपद्यते। धारणेन
विश्वरूपा जागरिणी स्वपन्ती तैजसात्मिका॥११३॥
——————
महत्त्वेन धर्म एव निरुच्यते॥ तेनेष्टप्रापको धर्म आचार्यैरुपदिश्यते। इतरोऽनिष्टफलदस्त्वाचार्यैरुपदिश्यते’ इति। संवर्तस्मृतिरपि ‘देशेदेशे य आचारः पारम्पर्यक्रमागतः। आम्नायैरविरुद्धश्च स धर्मः परिकीर्तित’ इति। याज्ञवल्क्योऽपि ‘एज्याचारदमाहिंसादानस्वाध्यायकर्मणाम्। अयं तु परमो धर्मो यद्योगेनात्मदर्शन’मिति। ‘जैमिनिरपि ‘चोदनालक्षणोऽर्थो धर्म’इति। अत्रैवाधर्म इत्यकारप्रश्लेषेण विहितानि’षिद्धक्रियात्वे तल्लक्षणे ऊह्ये। ताभ्यां विवर्जिता। तिर्यगधिकरणन्यायेन देवतानां ‘कर्मानधिकारित्वात्, शास्त्रस्याविद्यावद्विषयत्वाद्वा। यद्वा धर्माधर्मौ बन्धमोक्षौ। “धर्माधर्मस्य वाच्यस्य विषामृतमयस्य चे’ति नित्याहृदयश्लोके तथा व्याख्यानदर्शनात्तदुभयरहिता। तथाच त्रिपुरोपनिषदि श्रूयते ‘न निरोधो न चोत्पत्तिर्न बन्धो न च साधकः। न मुमुक्षुर्न वै मुक्तिरित्येपा परमार्थते’ति। अथवा धर्मशब्दो मत्व’र्थलक्षणया धर्मिपरः। अधर्मशब्दो बहुव्रीहिणा धर्मपरः। धर्मिधर्मभावेन रहिता। जगता सहात्यन्ताभिन्नेत्यर्थः। धर्माधर्मशब्दौ शक्तिशिवाक्षरवाचकौ ताभ्यां विवर्जिता पञ्चदशी ललितेति तु रहस्यार्थः। धातूनामनेकार्थत्वाद्वर्जनमभिवृद्धिः। तच्चाक्षरद्वयं नित्याहृदये कथितं ‘मध्यप्राणप्रथारूपस्पन्दव्योम्नि स्थिता पुनः। मध्यमे मन्त्रपिण्डे तु तृतीये पिण्डके पुनः॥ राहुकूटद्वयं स्फूर्ज’दिति। एतस्यार्थो गुरुमुखादवगन्तव्यो वरिवस्यारहस्ये वा सेतुबन्धे वा प्रपञ्चितोऽस्माभिरिति ततोऽवगन्तव्यः॥ अथैकोनविंशतिनामभिर्जीवेश्वरयोर्भेदान्विभजंस्तदात्मकत्वेन देवीं स्तोतुमुपक्रमते— विश्वरूपेत्यादिना। सृष्टिक्रमे हि प्राथमिकस्तमःसर्गस्ततो महतः सर्गस्ततोऽहंकारस्य त्र्यात्मकस्य। ततः पञ्चतन्मात्रापरपर्यायाणि सूक्ष्मभूतानि शब्दादीनि भवन्ति। तेषु च पञ्च ज्ञानशक्तयः पञ्च क्रियाशक्तयश्च सन्ति। तास्वद्या व्यष्टिवेषेण श्रोत्रादिज्ञानेन्द्रियपञ्चकं जनयन्ति। समष्टिवेषेण त्वन्तःकरणम्। अन्त्या अपि व्यष्टिवेषेण वागादिकर्मेन्द्रियपञ्चकं समष्टिवेषेण प्राणं जनयन्ति। धर्मिभूताः शब्दादयस्तु गगनादिस्थूलभूतपञ्चकं जनयन्तीति वस्तुस्थितिः। तत्र व्यष्टिभूतैः स्थूलभूतोपाधिभिः सूक्ष्मभूतोपाधिभिः कारणोपाधिभिश्चोपहितं चैतन्यं क्रमेण विश्वतैजसप्राज्ञपदवाच्यं भवति। समष्टिभूतैस्तैरुपहितं तु तत्त्वं क्रमेण वैश्वानरहिरण्यगर्भेश्वरपदवाच्यम्। अन्तःकरणकारणोपहितः परमात्मा हिरण्यगर्भः। प्राणकारणोपहितस्तु सूत्रात्मा। उभाभ्यां कारणाभ्यामविभक्ताभ्यामनुगमय्योपहितस्त्वन्तर्यामीत्युच्यते। एते त्रय एव ब्रह्मविष्णुरुद्रपदैः क्रमादभिधेया भवन्ति। एतच्च व्यष्टिजीवात्मसमष्टिजीवात्मपरमात्मनां प्रातिस्विकं त्रैविध्यमौपनिषदानां मतमवलम्ब्योक्तम्। तेषामन्ते जाग्रत्स्वप्नसुषुप्तीनामवस्थानां सृष्टिस्थितिसंहाराणां कृत्यानां च त्रयस्य त्रयस्यैवाङ्गीकारात्। तान्त्रिकाणां मते तु तुर्यतुर्यातीतयोरवस्थयोस्तिरोधानानुग्रहयोः कृतयोश्च द्वयोर्द्वयोराधिक्येन तदवस्थाकृत्यापन्नयोर्जीवपरमा
त्मनोरप्याधिक्यात्प्रातिस्विकं पाञ्चविध्यम्। नचैतावता वैमत्यं त्रिवृत्करणपञ्चीकरणप्रक्रिययोरिव स्थूलसूक्ष्मदृष्टिभेदेन व्यवस्थोपपत्तेः, परंतु सुषुप्तावेव प्राज्ञस्य ब्रह्मभावसंपत्त्या तदतीतावस्थाद्वयापन्नस्यात्मनो न जीवभावः। अविद्यालेशानुवृत्तेः सत्वाच्च न परमात्मभावोऽपि। अतएव सुषुप्तिदशापन्नजीवोपाधेः कारणशरीरत्वेनेव तुर्यदशापन्नजीवोपाधेर्महाकारणशरीरत्वेन व्यवहारः ‘तत्परश्च शिवतुल्यो जायत’ इति शिवसूत्रे तादृशः शिवतुल्यत्वेन निर्दिष्टः। अर्थसाम्यादर्धशिव इति तदर्थः। अतएव च ततोऽपि परस्य ‘निरञ्जनः परमं साम्यमुपैती’तिश्रुतावभेदस्य परमसाम्यपदेन निर्देश उपपद्यते। अनेनैवाशयेन पूर्णजीवतायाः पूर्णशिवतायाश्च तद्दशायामभावान्न पृथग्गणनमौपनिषदानाम्। अतएव ‘मुग्धेऽर्धसंपत्तिः परिशेषा’दित्यधिकरणे मूर्च्छावस्थायाः पार्थक्येन गणनाभावेऽयमेव हेतुस्तैरुपन्यस्तः। अस्त्येव वा गणनं पञ्चविधजीवोपाधीनां पञ्चकोशपदैर्व्यवहारदर्शनात्। परमात्मनस्तु तिरोधानानुग्रहापरपर्यायबन्धमोक्षदानोपाधिकत्वेन ‘ईश्वरो बहिरुन्मेषो निमेषोऽन्तः सदाशिव’ इति शैवतन्त्रोक्तलक्षणानुसारेण रुद्रात्परतो भेदद्वयमक्षुण्णम्। एवंसति विश्वे स्थूलभूतोपहितजागरावस्थापन्नचैतन्यात्मका जीवास्तत्समष्टिभूतो वैश्वानरो रूपं चैतन्यदृष्ट्यात्मैव यस्याः सा विश्वरूपेत्यर्थः। यद्वा पूर्वं धर्मधर्मिभावविवर्जितेत्युक्तं तेन जगदभेदः सिद्ध इत्याह — विश्वरूपेति। विश्वमेव यस्या रूपं नतु विश्वाधारत्वेन धर्मिभूतमन्यद्रूपमस्तीत्यर्थः। तदुक्तं विष्णुपुराणे ‘यथा हि कदली नाम त्वक्पत्रान्योन दृश्यते। एवं विश्वस्य नान्यत्वं त्वत्स्थादीश्वर दृश्यत’ इति। देवीभागवतेऽपि प्रथमस्कन्धे ‘वटपत्रशयानाय विष्णवे बालरूपिणे। श्लोकार्धेन तदा प्रोक्तं भगवत्याखिलार्थदम्। सर्वं खल्विदमेवाहं नान्यदस्ति सनातन’मिति। अथवा साक्षाद्ब्रह्मणो जीवभावोऽत्यन्तं नीचं रूपमिति शुनकतुल्यत्वम्। अतएव नीचसेवात्मकवृत्तेः श्ववृत्तिरिति संज्ञा। नीचतरः पशुभाव इति यावत्। तादृशं स्वरूपं विगतं यस्याः प्रसादात्सा विश्वरूपा। अथवा षोडशकलात्मिका त्रिपुरसुन्दरीत्यविवादम्। तदुक्तंवासनासुभगोदये ‘दर्शाद्याः पूर्णिमान्ताद्याः कलाः पञ्चदशैव तु। षोडशी तु कला ज्ञेया सच्चिदानन्दरूपिणी’ति। चन्द्रमण्डले हि सादाख्या कला वृद्धिह्रासरहितैका। अन्याः पञ्चदश यातायातभागिन्यः। तदभिन्नायाः श्रीदेव्या अपि चिद्रूपा कला त्रिपुरसुन्दरीपदवाच्यैका। अन्यास्तु कामेश्वर्यादिचित्रान्तास्तिथिभेदेन विपरिवर्तमानाः। तदभिन्नायां पञ्चदश्यामप्येकमक्षरं गुरुमुखैकवेद्यं चिद्रूपं यद्वशादस्याः श्रीविद्येति संज्ञा। अन्यानि च पञ्चदशाक्षराणि सर्वैरुपासकैः श्रूयमाणानि नित्यास्वरूपाणि। एवं चन्द्रमण्डलदेवीपञ्चदशीनामैक्यमिति तत्तत्कलाक्षराणामप्यैक्यमेव। अतएव पञ्चदशसंख्यानां तिथीनामक्षराणामपि त्रिखण्डत्वं यथा नन्दा भद्रा जयारिक्ता पूर्णेति त्रिरावृत्तेन भेदेन वाग्भवादिकूटभेदेन च। अतएव खण्डत्रयेणैव तैत्तिरीयाः शुक्लपक्षरात्रीणां पञ्चदशानां नामान्यामनन्ति ‘दर्शा दृष्टा दर्शना विश्वरूपा सुदर्शना आप्यायमानाप्यायमानाप्यायसूनृतेरापूर्यमाणापूर्यमाणा पूरयन्ती पूर्णा पौर्णमासी’ति। एवमेतद्दिवसानामपि खण्डत्रयेणैव नामान्याम्रायन्ते ‘संज्ञानं
विज्ञानं प्रज्ञानं जानदभिजानत्। संकल्पमानं प्रकल्पमानमुपकल्पमानमुपक्लृप्तं क्लृप्तं श्रेयोवसीय आपत्संभूतं भूतमिति। अनयोरनुवाकयोश्च दिवसरात्रिनामत्वमित्यपि तत्रैवाम्नातम् ‘संज्ञानं विज्ञानं दर्शा दृष्टे’त्येतावनुवाकौ पूर्वपक्षस्याहोरात्राणां नामधेयानीति। अत्र यद्यपि खण्डत्रयमपि समानसंख्यमेव तथाप्येकादश्या दशमीवेधे दशमीत्वात् ‘उपोष्या द्वादशी शुद्धे’ति वचनाद्द्वादश्या एवैकादशीत्वाच्चरमखण्डान्तर्गततिथेर्मध्यमखण्डे प्रवेशान्मन्त्रे द्वितीयतृतीयखण्डौ षट्चतुरक्षरौ भवतः। अतएव वेधाभावपक्षाभिप्रायेण सूर्यादिविद्यान्तरेषु समानाक्षराण्येव श्रीणि कूटानि। अनेनैवाशयेन सुभगोदयटीकायां लल्लेनोक्तम् ‘आपूर्यमाणायाः कलायाश्चन्द्रखण्डान्तः स्थिताया अपि सौरखण्डेऽन्तर्भावः। इराकलाप्रभेदत्वादिरापूर्यमाणयोरैक्यमनुसंधेय’मिति। उक्तश्लोके दर्शाद्या इति पदस्य शुक्लप्रतिपदाद्या इत्यर्थः। उदाहृतश्रुतौ प्रतिपदो दर्शनामकत्वोक्तेः तासां तिथीनां मन्त्राक्षराणां च प्रातिस्विकं शिवशक्तिमायाशुद्धविद्यादितत्त्वात्मकत्वं कौलिकसामयिकमतभेदेन तत्तदुपासनाप्रकारश्च चन्द्रकलायां द्रष्टव्यः। एवंच परस्पराभेदाच्छुक्लपक्षचतुर्थीरात्रेः संज्ञाभूतमपि विश्वरूपापदं वाग्भवकूटचतुर्थाक्षरस्य शुद्धाविद्यातत्त्वस्य च प्रतिपादकमिति तत्त्रितयाभिन्नेत्यर्थः। अथवा विश्वरूपमिति नपुंसकं पदम्। तस्य च मिथ्याजगदधिष्ठानेतिवत्स्त्रीलिङ्गता। तच्च कृष्णपक्षपञ्चमीदिवसवाचकम्। तथाच श्रूयते ‘प्रस्तुतं विष्टुतं संस्तुतं कल्याणं विश्वरूपम्। शुक्रममृतं तेजस्वि तेजः समिद्धम्। अरुणं भानुमन्मरीचिमदभितपत्तपस्वत्। सुता सुन्वती प्रसूता सूयमानाभिपूयमाणा। पीति प्रपा संपा तृप्तिस्तर्पयन्ती। कान्ता काम्या कामजाती युष्मती कामदुघा। प्रस्तुतं विष्टुतं सु॒तासुन्वती’ति। एतावनुवाकावपरपक्षस्याहोरात्राणां नामधेयानीति। तेन तद्रूपेत्यर्थः। एवं रात्रिविशेषस्य दिवसविशेषस्य चोपलक्षणरीत्या श्लेषलिप्सया चैकैकस्यैवोपादानेऽपि सर्वरात्रिरूपा सर्वदिवसरूपा चेत्यर्थः पर्यवस्यति। अतएवेदृशज्ञाने फुलविशेषः श्रूयते ‘स यो ह वा एता मधुकृतश्च मधुवृषांश्च वेद कुर्वन्ति हास्यैता अग्नौ मधु नास्येष्टापूर्तं धयन्ति। अथ यो न वेद न हास्यैता अग्नौ मधु कुर्वन्ति घ्रयन्त्यस्येष्टापूर्त’मिति। अत्र मधुकृच्छब्दो रात्रिपरः। मधुवृषशब्दश्च दिवसपरः। ‘या एताः पूर्वपक्षापरपक्षयो रात्रयस्ता मधुकृतो यान्यहानि ते मधुवृषा’ इति वाक्यशेषात्। मधु कुर्वन्ति वर्षन्ति चेत्यवयवशक्तेश्च। एता यो वेद तस्यैता दिवससहिता रात्रयः अग्नौ बैन्दवस्थानात् ब्रह्मरन्ध्रान्मधु कुर्वन्ति स्रावयन्ति। अस्येष्टापूर्त कर्मजातं न धयन्ति पीत्वा न लोपयन्ति। व्यतिरेकेऽनिष्टमाह। अथ य इत्यादिना। कुण्डलिन्युत्थापनेन मधुस्रावणेन डाकिन्यादिमण्डलाप्लावनरूपान्तरकर्मणि सत्येव बाह्यानि यज्ञादिकर्माणि सफलानि भवन्ति। तदभावे तु यस्मिन्काले कर्माणि क्रियन्ते स काल एव तेषां कर्मणां कालमृत्युरूपो भवतीति फलितार्थः। तदिदमुपबृंहितं चन्द्रज्ञानतन्त्रे ‘अन्तरग्नौ मधुस्रावं कुर्वतां शिशिरात्मनाम्। इष्टापूर्वादिकर्माणि फलन्ति किल कालतः॥ अन्तःस्रावविहीनानां सदा संतप्तचेतसाम्।
सुप्ता प्राज्ञात्मिका तुर्या सर्वावस्थाविवर्जिता।
——————
कर्माणि क्रियमाणानि कालो ग्रसति तत्क्षणात्॥ कालकर्षणिकैवान्तः करोति मधु वर्षति। इति यो वेद तस्य स्याद्द्रह्मरन्धात्सुधास्रुतिः॥ वैदेही जनयामास सरघा कालकर्षणी। अहोरात्रैरिमां विद्यां दशपञ्चभिरक्षरै’रिति। अत्र तृतीयचतुर्थश्लोकयोरयमर्थः— कालकर्षिण्याख्या देवी मधु करोतीति मधुकृत् रात्रिरूपा। मधुवर्षतीति मधुवृषा अहोरूपा च। इति प्रकारेण रात्रिदिवसाभिन्नां देवीं यो वेदेत्यादि। विगतो देहो यस्य स विदेहोऽनङ्गः कामेशस्तत्संबन्धिनी वैदेही कामेश्वरी अहोरात्राभिन्नैः पञ्चदशभिर्वर्णैरिमां पञ्चदशीं विद्यां जनयामास। तथाच श्रुतिः ‘जनको ह वैदेहोऽहोरात्रैः समाजगामे’ति। इयमेव च मधुकर्तृत्वात्सरघा। ‘सरघा मधुमक्षिके’त्यमरः। श्रुतिरपि ‘इयं वाव सरघा तस्या अग्निरेव सारघं मध्वि’तीत्यलं विस्तरेण। जागराख्यावस्थालक्षणमुक्तमीश्वरप्रत्यभिज्ञायां ‘सर्वाक्षगोचरत्वेन या तु बाह्यतयां स्थिरा। सृष्टिः साधारणी सर्वप्रथात्मायं स जागर’ इति। तद्वान् जागरी विश्वाख्यः स्थूलशरीराभिमानी जीवः तदभिन्ना जागरिणी। ‘ऋन्नेभ्यो ङीप्’। स्वप्नलक्षणमपि प्रत्यभिज्ञायाम् ‘मनोमात्रपथेऽध्यक्षविषयत्वेन विभ्रमात्। स्पष्टावभासभावानां सृष्टिः स्वप्नपदं मत’मिति। स्वपितीति स्वपन् स्वप्नदशापन्नस्तैजसाख्यः सूक्ष्मशरीरव्यष्ट्यभिमानी जीवः तदभिन्ना स्वपन्ती। ‘उगितश्चे’ति ङीप्। तैजसा उक्तलक्षणा जीवास्तत्समष्टिभूतो हिरण्यगर्भ आत्मा स्वरूपं यस्याः सा तैजसात्मिका॥११३॥ सुप्तं संमदावस्था। तल्लक्षणं च शिवसूत्रे ‘अविवेको माया सौषुप्त’मिति। ‘सुखमहमस्वाप्सं न किंचिदवेदिष’मिति स्मरणान्यथानुपपत्त्या कल्पितास्तिस्रोऽविद्यावृत्तयोऽज्ञानाहन्तासुखविषयिण्यः सन्ति यत्र तत्सौषुप्तमित्यर्थः। तद्वान्प्राज्ञाख्यः कारणशरीरव्यष्ट्यभिमानी जीवः सुप्तः। अर्शआदिभ्योऽच्। तदभिन्ना सुप्ता। प्राज्ञी उक्तलक्षणा जीवास्तत्समष्टिभूत ईश्वर आत्मा स्वरूपं यस्याः सा प्राज्ञात्मिका। एतदवस्थात्रयस्य तद्भोक्तॄणां च विविच्य ज्ञानजन्यः शुद्धविद्योदयाख्यश्चमत्कारस्तु’र्यावस्था। तदुक्तं स्पन्दशास्त्रे ‘त्रिषु धामसु यद्भोग्यं भोक्ता यश्च प्रकीर्तितः। विद्यात्तदुभयं यस्तु स भुञ्जानो न लिप्यत’ इति। वरदराजेनापि ‘तुर्यं नाम परं धाम तदाभोगश्चमत्क्रिया। भेदेऽपि जाग्रदादीनां योगिनस्तस्य संभवेदिति। शिवसूत्रमपि ‘जाद्रत्स्वप्नसुषुप्तिभेदेऽपि तुर्याभोगसंभव’इति। ‘त्रिषु चतुर्थं तैलवदासेच्य’मिति च। तद्वान्महाकारणशरीराभिमानी जीवस्तुर्यः। तस्य व्यष्ट्या समष्ट्या चाभिन्ना तुर्या। तुर्यावस्थाप्राप्तावुपायः शिवेनोक्तः— ‘मनः स्वचित्तेन प्रविशे’दिति। ‘प्राणायामादिकं कृत्वा स्थूलोपायं विकल्पकम्। अविकल्पकरूपेण स्वचित्तेन स्वसंविदा॥ अन्तर्मुखपरामर्शचमत्काररसात्मना। मनस्तुर्यरसेनात्र स्वदेहादिप्रमातृताम्॥ मज्जनेन प्रशमयन्प्रविशेत्तत्समाविशेत्’ इति। यद्वा ‘शिवमद्वैतं चतुर्थं मन्यन्ते’ इति श्रुतिप्र
सृष्टिकर्त्री ब्रह्मरूपा गोप्त्री गोविन्दरूपिणी॥११४॥
——————
सिद्धस्वरूपा तुरीया कापि देवतेति शक्तिरहस्यात्। ’तुरीया कापि त्वं दुरधिगमनिःसीममहिमे’ति भगवत्पादोक्तश्च। त्रिपुरा सिद्धान्ते तु ‘तुरीयानन्दनाथस्य प्रसन्नत्वाद्वरानने। तुर्येति नाम विख्यातं तस्य देव्या निरन्तर’मित्युक्तम्॥
अथ चत्वारिंशन्नामानि परिभाषायां विभजते॥ दिविभारतभुविताडघमृदुजंगमभोवदार्थदिवा। वाक्चतुरंघ्रिर्द्व्यर्धा तत्फलमूलं तदेव वादवलम्॥१४॥ स्पष्टोऽर्थः॥१४॥
(सर्वावस्थेत्यस्यार्थः)॥ अस्ति पञ्चमी जीवस्यावस्था। तस्याश्च रूढ्या नामान्तराभावात्तुर्यावस्थामतिक्रान्तत्वात्तुर्यातीतेत्येव यौगिको व्यवहार इत्याशयेनाह— सर्वेति। तुर्यावस्थामतिक्रान्ते पुरुषे प्राथमिकावस्थात्रयातिक्रमस्यावश्यकत्वात्सर्वाभिश्चतसृभिरवस्थाभिर्विशेषेण पुनरावृत्त्यभावपूर्वकं वर्जितो रहितो जीवस्तुर्यातीतस्तत्समष्टिव्यष्ट्यभेदादियमपि सर्वावस्थाविवर्जितेत्यर्थः। सा च तुर्यावस्थादार्ढ्याद्भवति। ‘तुर्यावष्टम्भतो लभ्यं तुर्यातीतं परं पदमिति वचनात्। वरदराजोऽप्याह ‘तुर्याभ्यासप्रकर्षेण तुर्यातीतात्मकं पदम्। संप्राप्तः साधकः साक्षात्सर्वलोकान्तरात्मना। तुल्यः शिवेन चिन्मात्रस्वच्छन्दानन्दशालिने’ति। पञ्चमदशापन्नस्य स्वरूपकथनाय सूत्रत्रयं ‘शरीरवृत्तिर्व्रतम्’, ‘कथा जपः,’ ‘दानमात्मज्ञान’मिति। स्वात्मानुसंधानरूपशिवपूजासाधनत्वाच्छरीरधारणं व्रतरूपं न तुच्छम्। अतएव भट्टोत्पलेन शरीरधारणं प्रार्थितम् ‘अन्तरुल्लसितस्वच्छशक्तिपीयूषपोषितम्। भवत्पूजोपभोगाय शरीरमिदमस्तु मे’ इति। स्वैराभिलापमात्रं जपः। तच्चित्तस्य सत्यग्राहित्वात्। तदुक्तं योगसूत्रद्वये ‘निर्विचारवैशारद्येऽध्यात्मप्रसादः,’ ‘ऋतंभरा तत्र प्रज्ञे’ति। ‘यद्धि मनसा ध्यायति तद्वाचा वदती’ति श्रुत्या तदुक्तेः सर्वस्या अपि यथार्थरूपत्वेन मन्त्ररूपत्वात्। तदुक्तं योगवासिष्ठे ‘सदा सन्तोऽभिगन्तव्या यद्यप्युपदिशन्ति नो। या हि स्वैरकथास्तेषामुपदेशा भवन्ति ताः’ इति। परेभ्य आत्मोपदेश एव दानम्। तदुक्तं कृष्णदासेन ‘प्रोक्तचैतन्यरूपस्य साक्षात्करणमात्मनः। यत्तज्ज्ञानं तदेवास्य दानं यत्तेन दीयते’ इति। एतत्सूत्रत्रयमुपलक्षणपरत्वेन व्याख्येयमिति मन्वानैरुक्तं भगवत्पादैः ‘जपो जल्पः शिल्पं सकलमपि मुद्राविरचन’मित्यादि। वार्तिकेऽपि ‘इति प्रोक्तं व्रतं कुर्वञ्जपं चर्यां च पालयन्। शिवतुल्यः सदा स्वात्मा शिवाराधनतत्परः। अयमेव महायोगी महामन्त्रधुरंधुरः। अन्तेवासिजनस्यान्तस्तत्त्वतस्तत्त्वबोधक’ इति। एवमविद्यावशीकृतस्य जीवस्य पाञ्चविध्यमुक्त्वा वशीकृतमायावच्छिन्नस्येश्वरस्य कृत्यभेदेन तथात्वमाह — सृष्टीत्यादिना। आचार्यभगवत्पादैरयमर्थो जगत्सूते धाते’ति श्वोके निरूपितः। सृष्टिर्जगन्निर्माणं रजोगुणप्रधानस्येश्वरस्य कृत्यं तस्य कर्त्री। ब्रह्मा चतुर्मुखस्तादृश ईश्वरः स एव रूपं यस्याः। तदुक्तं विष्णुपुराणे ‘ब्रह्मविष्णुशिवा ब्रह्मन्प्रधाना ब्रह्मशक्तय’ इति। गोपनं जगतः स्थितिः सा च सत्त्वगुणप्रधानस्यैश्वरस्य कृत्यं तस्य कर्तृत्वाद्गोप्त्री।
संहारिणी रुद्ररूपा तिरोधानकरीश्वरी।
सदाशिवाऽनुग्रहदा पञ्चकृत्यपरायणा॥११५॥
———————
गोविन्दस्तादृश ईश्वरो विष्णुः स एव रूपमस्याः। तथाच हरिवंशे नारदवाक्यम्’प्रकृत्याः प्रथमो भाग उमादेवी यशस्विनी। व्यक्तः सर्वमयो विष्णुः स्त्रीसंज्ञो लोकभावन’ इति। गोविन्दपदनिरुक्तिर्विष्णुभागवते ‘अहमिन्द्रो हि देवानां त्वं गवामिन्द्रतां गतः। गोविन्द इति नाम्ना त्वां भुवि गास्यन्ति मानवा’ इति भारते मोक्षधर्मेऽपि ‘नष्टां च धरणीं पूर्वमविन्द इति तेनाहं देवैर्वाग्भिरभिष्टुत’ इति। हरिवंशेऽपि ‘गौरेषा तु तथा वाणी तां च विन्दयते भवान्। गोविन्दस्तु ततो देव मुनिभिः कथ्यते भवा’निति। ‘गवादिषु विदेः संज्ञाया’मिति शः। ‘गोविन्दो वासुदेवे स्याद्गवाध्यक्षे बृहस्पता’विति विश्वप्रकाशकोशाद्बृहस्पतिरूपेति वा॥११४॥ संहारो जगतः परमाण्वादिसावशेषो ध्वंसस्तमोगुणप्रधानस्येश्वरस्य कृत्यं तत्करोतीति संहारिणी। रुद्रस्तादृश ईश्वरः। रुजं द्रावयतीति वा रोदयतीति वा। संवर्तकालीनाया वृष्टेरेतत्सूर्याख्यनेत्रजन्यत्वेनाश्रुरूपत्वात्। ‘सोऽरोदीद्यदरोदीत्तद्रुद्रस्य रुद्रत्व’मिति श्रुतेः। ‘रुजं द्रावयते तस्माद्रुद्रः पशुपतिः स्मृत इति शिवरहस्याच्च। ‘प्राणा वाव रुद्रा एते हीदं सर्वं रोदयन्तीति छान्दोग्यात्‘रोदेर्णिलुक्चे’त्यैाणादिको रक्। अण्यन्तादपि रगित्याहुः। ‘तुष्ट्यर्थे ब्रह्मणः पुत्रो ललाटादुत्थितः स्वयम्। अरुदत्सुस्वरं घोरं जगतः प्रभुरव्यय’ इति भारते। वायवीयसंहितायां तु ‘रुद्दुःखं दुःखहेतुर्वा तद्द्रावयति यः प्रभुः। रुद्र इत्युच्यते तस्माच्छिवः परमकारण’मित्युक्तं स एव रूपं यस्यास्तथा। विरोधानमाच्छादनं निरवशेषो ध्वंसः। परमाण्वादेरपि प्रकृतौ लयो दीपनाशतुल्यो घनतरशुद्धसत्त्वप्रधानस्येश्वरस्य कृत्यं तत्करोतीति तिरोधानकरी। तिरस्करिण्याख्यशक्तिविशेषरूपा वा। तदुक्तं त्रिपुरासिद्धान्ते ‘अभक्तानां च सर्वेषां तिरोधानकरी यतः। श्रीस्तिरस्करिणी, तस्मात्प्रोक्ता सत्यं वरानने’ इति। ईश्वरपदेन घनतरशुद्धसत्त्वप्रधान ईश्वर उच्यते। ईश्वरपदस्य मायाया इव तादृशसत्त्वगुणस्यापि शक्यतावच्छेदकत्वेनैकार्थत्वात्। तदभिन्नत्वादीश्वरी। ‘वनोरचे’ति ङीप्। वस्तुतः ‘स्थेशभासे’ति वरचि गौरादित्वान्ङीप्। अश्नोतेर्वा वरट् इच्चोपधायाः टित्वान्ङीप्। पराहन्तेवेश्वरत्वं तद्वतीत्यर्थः। उक्तंच विरूपाक्षपञ्चाशिकायां विश्वशरीरस्कन्धे ‘ईश्वरता कर्तृत्वं स्वतन्त्रता चित्स्वरूपता चेति। एते चाहन्तायाः पर्यायाः सद्भिरुच्यन्त’ इति। विरलतरशुद्धसत्त्व प्रधान ईश्वरः सदाशिवस्तदभेदात्सदाशिवा। अदन्तत्वाट्टाप्। अनुग्रहो निरवशेषध्वंसमापन्नस्य जगतः सृष्ट्यादौ पुनः परमाण्वादिरूपतापत्तिः। साच तावदुक्तविधस्येश्वरस्य कृत्यं तद्ददाति कुरुत इत्यनुग्रहदा। तिरोधानानुग्रहौ बन्धमोक्षौ वा। एतत्पक्षे बहिरन्तरुन्मेषलक्षणयोरीश्वरसदाशिवयोरेतत्प्रदत्वं स्वारसिकं भवति। पञ्चविधानामुक्तरूपाणां कृत्यानां परायणं आश्रयस्तेषु तत्परा वा। तान्यभीष्टानि
भानुमण्डलमध्यस्था भैरवी भगमालिनी।
——————
यस्या इति वा। ‘परायणमधीष्टं स्यात्तत्पराश्रययोरपी’ति विश्वः उक्तंच मृगेन्द्रसंहितायाम् ‘जगज्जन्मस्थितिध्वंसतिरोधानैककारणम्। भूतभौतिकभावानां नियमस्यैतदेव ही’ति। आगमान्तरेऽपि ‘पञ्चविधं तत्कृत्यं सृष्टिः स्थितिसंहृती तिरोभावः। तद्वदनुग्रहकरणं जगतः सततोदितस्यास्ये’ति। देवीभागवतेऽपि चतुर्थस्कन्धे ‘सा विश्वं कुरुते कामं सा पालयति पालितम्। कल्पान्ते संहरत्येव त्रिरूपा विश्वमोहिनी॥ तया युक्तः सृजेद्ब्रह्मा विष्णुः पाति तयान्वितः। रुद्रः संहरते कामं तया संगिलितो जगत्॥ सा बध्नाति जगत्कृत्स्नं मायापाशेन मोहितम्। अहं ममेति पाशेन सुदृढेन नराधिप॥ योगिनो मुक्तसङ्गाश्च मुक्तिकामा मुमुक्षवः। तामेव समुपासन्ते देवीं विश्वेश्वरीं शिवा’मिति। आचार्यभगवत्पादैरप्युक्तं ‘जगत्सूते धाता हरिरवती’त्यादिना। शक्तिसूत्रेऽपि ‘तथा तद्वत्पञ्चविधकृत्यानि करोती’ति। कृत्यलक्षणान्यप्येतदुत्तरसूत्रे ‘आभासनरक्तिविमर्शनबीजावस्थापनविलापनतस्तानी’ति। एतदर्थः प्रत्यभिज्ञाहृदये द्रष्टव्यः॥११५॥ भानुमण्डलस्य सूर्यमण्डलस्य मध्ये तिष्ठतीति तथा। संध्यासमये देव्यास्तत्र ध्येयत्वात्। अन्तरधिकरणे ‘य एषोऽन्तरादित्येहिरण्मयः पुरुषो दृश्यते’ इति श्रुतौ प्रतिपादितस्य रूपस्य परमेश्वरत्वनिर्णयाच्च। तथाच कूर्मपुराणे हिमवत्कृते देवीस्तवे ‘अशेषवेदात्मकमेकवेद्यं स्वतेजसा पूरितलोकमेदम्। त्रिलोकहेतुं परमेष्ठिसंज्ञं नमामि रूपं रविमण्डलस्थ’मिति भानुमण्डलमनाहतकमलं वा। भैरवस्य परशिवस्य स्त्री भैरवी। यद्वा भीरूणां स्त्रीणां संहतिर्भैरवी। ‘तस्य समूह’ इत्यणि ङीप्। नच काकं शोकं यौवतं गार्भिणमितिवन्नपुंसकापत्तिः। भैरवपदाद्विभूतिसंबन्धे पुनरणि ङीप्संभवात्। तथाच लैङ्गे ‘अर्थः शंभुः शिवा वाणी दिवा शंभुः शिवा निशे’त्यारभ्यारुन्धत्यनसूयाशच्यादीनां गौरीरूपत्त्वं विशिष्यविशिष्योक्त्वाऽन्ते उपसंहृतम् ‘स्त्रीलिङ्गशब्दवाच्या याः सर्वा गौर्या विभूतय’ इति। त्रिपुराम्बाचक्रेश्वरीमन्त्रे मध्यकूटे रेफनिष्कासे तस्य भैरवीति संज्ञा। तन्मन्त्रात्मिकेति वा। द्वादशवर्षकन्यारूपा वा। ‘द्वादशाब्दा तु भैरवी’ति कन्यां प्रकृत्य धौम्योक्तेः। भगं षाड्गुण्यं मलति धारयतीति भगमालिनी। ‘मल मल्ल धारणे’ इति धातुः। मालापदाद्वा समष्टिवाचिनो व्रीह्यादित्वादिनिः। भगाङ्कवस्तुमात्ररूपा वा। तथाच लैङ्गदेवीभागवतयोः ‘ये ये पदार्था लिङ्गाङ्कास्ते ते शर्वविभूतयः। अर्था भगाङ्किता ये ये ते ते गौर्या विभूतय’ इति। तिथिनित्याविशेषरूपा वा। अस्या मन्त्रे तन्त्रराजज्ञानार्तवोद्धृतप्रकारमपेक्ष्य दक्षिणामूर्तिसंहितोद्धृतप्रकारे बहवो भगशब्दाः पठ्यन्ते। तदावरणदेवतानामान्यपि प्रायेण भगशब्दपूर्वाण्येवेति तद्बाहुल्याद्भगमालिन्येवेयम्। ब्रह्मरूपत्वात्पद्मासना। प्रकृतिमयपत्रविकारमयकेसरसंविन्नालादिविशेषणशीलं पद्ममेवासनं पीठं यस्या वा, पद्मां लक्ष्मीं सनति भक्तेभ्यो विभज्य ददातीति वा। ‘वन षण संभतौ’। तदुक्तमभियुक्तेः ‘असौभाग्यं धत्ते परमसुखभोगास्पदमयं विचित्रं तद्गेहं
पद्मासना भगवती पद्मनाभसहोदरी॥११६॥
उन्मेषनिमिषोत्पन्नविपन्नभुवनावली।
——————
भवति पृथुकार्तस्वरभृतम्। निविष्टः पल्यङ्के स कलयति कान्तारतरणं प्रसादं कोपं वा जननि भवती यत्र कुरुते’ इति। प्रसादपक्षे असौ इति छेदः। कार्तस्वरं सुवर्णम्। पल्यङ्को मञ्चः। कान्तारस्य तरणमिति। कोपपक्षे असौभाग्यमित्येकं पदम्। अयं इति छेदः। विचित्रं विगतचित्रम्। पृथुकानामार्तस्वरः पल्या अङ्के कान्ताया रते रणमिति श्लेषेण योज्यम्। पद्मः शूरः पद्मासुरस्तमस्यति क्षिपतीति वा। बिन्द्वादिसंभवदर्थान्तरमपि योज्यम्। ‘पद्मं स्यादम्बुजव्यूहनिधिसंख्याहिबिन्दुष्वि’ति रभसः। ‘ऐश्वर्यस्य समग्रस्य धर्मस्य यशसः श्रियः। ज्ञानविज्ञानयोश्चैव षण्णां भग इतीरणे’ति कालिकापुराणे, ‘भगमैश्वर्यमाहात्म्यज्ञानवैराग्ययोनिषु। यशोवीर्यप्रयत्नेच्छाधर्मश्रीरविमुक्तिष्वि’ति कोशे च प्रसिद्धा भगपदार्था अस्यां सन्तीति भगवती। देवीभागवते तु ‘उत्पत्तिं प्रलयं चैव भूतानां गतिमागतिम्। अविद्याविद्ययोस्तत्त्वं वेत्तीति भगवत्यसा’वित्युक्तम्। शक्तिरहस्ये तु ‘पूज्यते या सुरैः सर्वैस्तांश्चैव भजते यतः। सेवायां भजतिर्धातुर्भगवत्येव सा स्मृते’त्युक्तम्। पद्मनाभस्य विष्णोः सहोदरी एकोदरभवाभगिनी। एकमेव ब्रह्म धर्मो धर्मीति रूपद्वयं प्रापत्। तत्र धर्मः पुमान् धर्मी स्त्रीति द्विधाभवत्। तत्र पुमान् विष्णुः सकलजगदुत्पादनभावं, स्त्री तु परमशिवमहिषीभावं प्रापत्। एतत्त्रयमपि मिलित्वैकमखण्डं ब्रह्मेति शैवमतरहस्यं कूर्मपुराणादिषु प्रसिद्धं रत्नत्रयपरीक्षायां दीक्षितैर्विस्तरेण निरूपितम्। एतदभिप्रायेणैव ब्रह्मपुराणे पुरुषोत्तमक्षेत्रमाहात्म्ये ‘या मेनाकुक्षिसंभूता सुभद्रा पूर्वजन्मनि। कृष्णेन सह देवक्याः सास्मिञ्जन्मनि कुक्षिगे’त्यादि स्मर्यते। यत्तु ‘सुभद्राप्राणनाथाय जगन्नाथाय मङ्गल’मिति तत्रैव पठ्यते तत्र सुभद्रापदं लक्ष्मीपरं तात्त्विकाभेदाभिप्रायं वेति न कश्चिद्विरोध इति। अन्यत्रापि ‘काञ्चीक्षेत्रे पुरा धाता सर्वलोकपितामहः। श्रीदेवीदर्शनार्थाय तपस्तेपे सुदारुणम्॥ आत्मैक्यध्यानयुक्तस्य तस्य प्रतपतो मुनेः। प्रादुर्बभूव त्रिपुरा पद्महस्ता ससोदरा॥ पद्मासने च तिष्ठन्ती विष्णुना जिष्णुना सहे’ति। अत्र कादिविद्याया वाग्भवकूटोद्धारः। पद्मासनः ककारः। भग एकारः। तद्वतीत्यत्र कामकलायाः प्रश्लेषः। पद्मनाभस्योपेन्द्रस्य सहोदर इन्द्रो लकारः। हश्च उदं च होदे हकारबिन्दू ताभ्यां सहिता सहोदा। सहोदा च सा रीचेत्यनेन हृल्लेखेति रहस्यम्॥११६॥ उन्मेषनिमिषौ नेत्रविकाससंकोचौ ताभ्यामेव क्रमेणोत्पन्ना विपन्नाश्च सृष्टा नष्टाश्च भुवनानां ब्रह्माण्डानामावल्यः पङ्क्तयो यस्यास्तथा देव्या अनिमिषत्वेऽपि प्राणिकर्मवशेन तयोरुत्पत्तिसंभवात्। इच्छामात्रे तात्पर्यात्। तदुक्तमाज्ञावतारे ‘इच्छयैव जगत्सर्वं निगिरत्युद्गिरत्यपी’ति। ‘इच्छामात्रं प्रभोः सृष्टि’रिति च। कालिदासेनाप्युक्तम् ‘दृष्टदृश्यदृशिलक्षणं जगत्प्राक्स्मृतेस्त्वयि तदम्ब संहृतम्। उन्मिषत्यपि पुनस्त्वदुद्गमे त्वल्लये निमिषति त्वदिच्छये’ति। गोरक्षेणाप्युक्तं महामञ्जर्याम् ‘विसुउम्मेदसाए देसिअणाहस्स जेत्तियोऽवसरो।
सहस्रशीर्षवदना सहस्राक्षी सहस्रपात्॥११७॥
आब्रह्मकीटजननी वर्णाश्रमविधायिनी।
——————
कालावत्थप्पढियो विस्सणिमेसेवि तेत्तियो होई’ इति। छाया तु ‘विश्वोन्मेषदशायां देशिकनाथस्य यावानवसरः। कालावस्थाप्रथितो विश्वनिमिषेऽपि तावानेव भववी’ति। ‘सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपा’दिति श्रुतौ सहस्रशब्दोऽनन्तपरः। शीर्षशब्दो मुखादेरुपलक्षणम्। लिङ्गं त्वविवक्षितम्। ‘सर्वतः पाणिपादं तत्सर्वतोऽक्षिशिरोमुखम्। सर्वतःश्रुतिमल्लोके सर्वमावृत्य तिष्ठती’ति गीतासूपबृंहणदर्शनादित्याशयेनाह सहस्रशीर्षवदनेति। ‘बहुव्रीहौ सक्थ्यक्ष्णो’रिति षच्प्रत्ययान्तान्ङीषि सहस्राक्षी। सहस्राणि पादा यस्याः सहस्रपात्। सहस्रपदे। नम इति प्रयोगः। ‘संख्या सुपूर्वस्ये’ति समासान्तो लोपः। देवीभागवते तृतीयस्कन्धे ‘सहस्रनयनारामा सहस्रकरसंयुता। सहस्रशीर्षचरणा भाति दूरादसंशय’मिति। अत्र भुवनस्यावलीत्यनेन भुवनेश्वरीबीजद्वयम्। सहस्राक्षीत्यनेन लकारः। सहस्रशब्दो हकारसकारसाहित्यपरः। तेन द्वितीयतृतीयकूटयोरुद्धारः॥११७॥ ब्रह्मा सर्वजीवसमष्टिः स्थूलतमो हिरण्यगर्भाख्यो जीवः कीटः अतीन्द्रियतर ऊर्णाभक्षको वैद्यतन्त्रे ककेरुकमकेरुकेति द्वैविध्येन प्रतिपादितः स्तम्बाख्यो जीवविशेषः। आद्यन्तग्रहणेन प्रत्याहारन्यायेन तन्मध्यपतिताः सर्वेऽपि तन्मध्यमपरिमाणकशरीरधारिणो जीवा गृह्यन्ते। आङभिविधौ। ब्रह्मादिस्तम्बान्तजीवजातजनयित्रीत्यर्थः। एवं निर्मितानां जीवानां सन्मार्गप्रदर्शनाय स्वाज्ञारूपवेदात्मिका जाता। तत्र कर्मकाण्डब्रह्मकाण्डभेदेन द्विविधे वेदे कर्मणि तिर्यगधिकरणन्यायेन देवानां तिरश्चां चाधिकाराभावान्मनुष्यानेव वर्णाश्रमभेदेन चतुर्धा विभज्य कर्मकाण्डेन मातेवतत्तद्धर्मानपि व्यवस्थापयामासेत्याह**—** वर्णाश्रमेति। तथाच कूर्मपुराणे हिमवत्कृतदेवीस्तवानन्तरं ‘अथ सा तस्य वचनं निशम्य जगतोऽरणिः। सस्मितं प्राह पितरं स्मृत्वा पशुपतिं पतिम्॥ शृणुष्व चैतत्परमं गुह्यमीश्वरगोचरम्। उपदेशं गिरिश्रेष्ठ सेवितं ब्रह्मवादिभि’रित्यादिना साधनान्युक्त्वा ‘ध्यानेन कर्मयोगेन भक्त्या ज्ञानेन चैव हि। प्राप्याहं ते गिरिश्रेष्ठ नान्यथा कर्मकोटिभि’रित्युपसंहृत्य कर्मयोगनिरूपणार्थं पुनरप्युक्तं ‘श्रुतिस्मृत्युदितं सम्यक्कर्म वर्णाश्रमात्मकम्। अध्यात्मज्ञानसहितं मुक्तये सततं कुरु। धर्मात्संजायते भक्तिर्भक्त्या संजायते परम्। श्रुतिस्मृतिभ्यामुदितो धर्मो यज्ञादिको मतः। नान्यतो ज्ञायते धर्मो वेदाद्धर्मो हि निर्वभौ। तस्मान्मुमुक्षुर्धर्मार्थं मद्रूपं वेदमाश्रयेत्। मदाज्ञयैव गुप्यर्थं वेदानां भगवानजः। ब्राह्मणादीन्ससर्जाथ स्वे स्वे कर्मण्ययोजय’दित्यादि। निजां स्वीयामाज्ञां वेदविद्भिः शब्दभावनात्वेन व्यवहृतां रूपयन्ति साध्यसाधनेतिकर्तव्यतारूपांशत्रयविशिष्टामर्थभावनार्थ
वादिभिः कुर्वन्ति तादृशा निगमाः कर्मकाण्डात्मका वेदा यस्यास्तथा।
निजाज्ञारूपनिगमा पुण्यापुण्यफलप्रदा॥११८॥
श्रुतिसीमन्तसिन्दूरीकृतपादाब्जधूलिका।
सकलागमसंदोहशुक्तिसंपुटमौक्तिका॥११९॥
——————
अतएव ‘तद्भूतानां क्रियार्थेन समाम्नायः12’ इति जैमिनिः। कौर्मेऽपि ‘मसैवाज्ञा परा शक्तिर्वेदसंज्ञा पुरातनी। ऋग्यजुःसामरूपेण सर्गादौसंप्रवर्तत’ इति। अथवा सन्तिवेदानुयायीनि शैवतन्त्राणि कामिकादीन्यष्टाविंशतिः वेदविरुद्धानि कापालभैरवादीनि च। तेषु वैदिकानि निगमपदवाच्यानि परमेश्वरस्य मुखादुद्भूतत्वादाज्ञारूपाणि न पुनर्नाभ्यधोभागादुत्पन्नानि वेदविरुद्धानीत्यर्थः। तदुक्तं देवीभागवतस्कान्दयोः ‘सद्योजातमुखाज्जाताः पञ्चाद्याः कामिकादयः। वामदेवमुखाज्जाता दीप्ताद्याः पञ्च संहिताः॥ अघोरवक्रादुद्भूताः पञ्चाप्तिविजयादयः। पुंवक्रादपि संभूताः पञ्च वैरोचनादयः॥ ईशानवदनाज्जाताः प्रोद्गीताद्यष्टसंहिताः। ऊर्ध्वस्रोतोभवा एते नाभ्यधःस्रोतसः परे’ इत्यादि। एवं व्यवस्थापिते वर्णाश्रमधर्मात्मके वेदे विहिताचरणनिषिद्धाचरणाभ्यां सदसत्फलमपि व्यवस्थादार्ढ्यार्थं मातैव ददातीत्याह**—** पुण्यापुण्येति। पुण्यपापयोः फले स्वर्गनरकौ प्रददातीति तथा। तदुक्तं कौर्मे ‘ये न कुर्वन्ति तद्धर्मं तदर्थं ब्रह्मणा कृताः। निरयास्तेषु शमनः पातयेत्तान्मदाज्ञया॥ धर्मं कुर्वन्ति वेदोक्तं ये मद्भक्तिपरायणाः। स्वर्गादिषु शचीशाद्यास्तान्नयन्ति मदाज्ञये’ति। अन्यत्रापि ‘ईश्वरप्रेरितो गच्छेत्स्वर्गं वा श्वभ्रमेव वे’ति। ‘क्रतौ सुप्ते जाग्रत्त्वमसि फलयोगे क्रतुमता’मित्यादि। शिवरहस्ये श्रुतिरपि ‘एष एव साधुकर्म कारयति यमेभ्यो लोकेभ्य उन्निनीषत्येष एवासाधु कर्म कारयति यमधो निनीषती’ति। ‘फलमत उपपत्ते’रिति ब्रह्ममीमांसाधिकरणेऽप्ययमेवार्थः साधितः। ‘वैषम्यनैर्घृण्ये अपि कर्मसापेक्षत्वान्न भवत’ इति च तत्रैवोक्तम्। सौर संहितायामपि ‘ननु धर्मो ह्यधर्मश्च स्वस्वकर्ता ह्यधिष्ठितः। अन्तरेण महादेवं फलं कर्तुः प्रयच्छति। इति चेत्तन्न साधूक्त’मित्यादिनान्तर्यामिब्राह्मणोपबृंहणपूर्वकं समर्थोपसंहृतं ‘श्रुत्यनुग्राहकेणापि ग्राह्यस्तर्केण शंकरः। अतः सर्वात्मना साक्षाद्धर्माधर्मफलप्रद’ इति॥११८॥ एवं कर्मकाण्डस्य क्रियार्थत्वमुक्त्वा ब्रह्मकाण्डस्य सिद्धवस्तुप्रतिपादनपरत्वमपि मातुराज्ञैवेत्याह। श्रुतीनां सीमन्ता ऊर्ध्वभागसाम्यादुपनिषदां भागास्तेषु सिन्दूरवत्तदन्तर्गतरहस्यार्थवत्संपद्यमाना कृता पादाब्जधूलिश्चरणकमलरजो यया सा तथोक्ता। अत्र विषयस्योपनिषदादेर्निगरणाद्रूपकातिशयोक्तिः। श्रुतिशब्दस्य स्त्रीलिङ्गत्वादिवशादप्रस्तुतनायिकामण्डनप्रतीतेश्च समासोक्तिः। ताभ्यामलंकाराभ्यां वस्तुनो ध्वनिः। वेदा अपि भगवत्याः स्वरूपं शृङ्गग्राहिकया विधिमुखेन प्रतिपादयितुमसमर्था एव। इतरनिषेधमात्रं कुर्वन्तस्तु दूरादेव लज्जिता इव भीता इव वा यथाकथंचित्प्रतिपादयन्तीव। तदिदं प्रतिपादनमित्थमिति
पुरुषार्थप्रदा पूर्णा भोगिनी भुवनेश्वरी।
अम्बिकाऽनादिनिधना हरिब्रह्मेन्द्रसेविता॥१२०॥
——————
ननादत्यल्पतममिति धूलिपदेन ध्वन्यते। एतदपि च न वेदानां सामर्थ्यादपि तु मातुराज्ञयैवेति च्विप्रत्ययेन ध्वन्यत इति। तदिदमुक्तमस्माभिः शिवस्तवे ‘सर्वज्ञाः श्रुतयोऽपि याः परशिव त्वत्प्राणरूपाः प्रियाः शृङ्गग्राहिकया त्रपामृत इव त्वांन प्रजल्पन्ति ताः। अन्यानेव तु नेतिनेति बहुशो वाचा निषेधन्ति चेत्कोऽन्यस्त्वामिदमित्थमित्यनुवदेत्तत्रापि मादृग्जनः’ इति। विधिमुखेन प्रतिपादयन्तस्त्वागमाः स्थूलारुन्धतीन्यायेन तटस्थलक्षणरीत्यैव निर्दिशन्तीत्याह। सकलाश्च ते आगमा वेदाश्च तेषां संदोहाः समूहा एव शुक्तयस्ताभिः संपुटं पुटितं गर्भीकृतं प्रतिपादितं मौक्तिकं नासाभरणं यस्याः सा तथोक्ता। मौक्तिकपदं समीपवर्तिसृष्ट्यादिधर्मोपलक्षकं, स्थूलतारकासाम्यात्तन्यायस्मारकं च। अम्बामुखसमीपवर्त्य साधारणं मौक्तिकाद्येव वेदैः प्रतिपाद्यते नतु तस्याः स्वरूपकम्। ‘यतो वाचो निवर्तन्त’ इत्यादिश्रुतेरिति भावः। यद्वा मुक्ताशब्दात्स्वार्थे कप्रत्ययोत्तरं तद्धितेन मौक्तिकमिति नपुंसकरूपसिद्धावपि प्रथममेवाणन्तान्ङीपि कृते पश्चात्कप्रत्यये ‘ङ्यापोः संज्ञाच्छन्दसोर्बहुल’मिति ह्रस्वेघटी घटिकेतिवन्मौक्तिकेति स्त्रीलिङ्गमपि रूपं भवति। मौक्तिकवदाचरतीत्यर्थे क्विबन्तात् ‘अप्रत्ययादि’त्यनेनाकारप्रत्यये सति अदन्ताट्टाब्वा। एवमेव मिथ्याजगदधिष्ठानेत्यादिवक्ष्यमाणनामसु द्रष्टव्यम्। तेनागमसंदोह एव शुक्तिमयः संपुटः समुद्गकस्तत्र मौक्तिकेव मौक्तिकेति तत्पुरुष एवेति न परवल्लिङ्गताविरोधभयेन बहुव्रीहिराश्रयणीय इति रूपकोत्प्रेक्षे। श्रुतिसीमन्तेत्यादिना त्रैवर्णिकोपास्यत्वं, सकलागमेत्यादिना चतुर्थवर्णोपास्यत्वं च ध्वनितमिति वा। तथाच रुद्रयामले ‘यद्वेदैर्गम्यते स्थानं तत्तन्त्रैरपि गम्यते। ब्रह्मक्षत्रियविट्शूद्रास्तेन सर्वेऽधिकारिण’ इति॥११९॥ धर्मादींश्चतुरः पुरुषार्थान्प्रददातीति तथा। ‘येऽर्चयन्ति पराशक्ति विधिनाऽविधिनापि वा। न ते संसारिणो नूनं मुक्ता एव न संशयः॥ तस्मादशेषवर्णानां त्रिपुराराधनं विना। न स्तो भोगापवर्गौतु यौगपद्येन कुत्रचि’दिति ब्रह्माण्डपुराणात्। ‘पुरुषो वै रुद्र’ इति श्रुत्या रुद्रः अर्थप्रदः पुरुषार्थदातृत्ववान्यया सेति वा। निष्कलस्य ब्रह्मण उपास्यत्वं फलप्रदत्वं च शक्त्यायत्तमिति भावः। देशकालवस्तुकृतपरिच्छेदराहित्यात्पूर्णा। ‘पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते। पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यत’ इति श्रुतेः। पञ्चमीदशमीपञ्चदशीतिथिस्वरूपादितो
। शुक्लपक्षचतुर्दशीरात्रिस्वरूपा वा। नदीविशेषरूपा वा। भोगः सुखसान्मुमुक्षुकारस्तद्वती भोगिनी वा। नागकन्यात्मिका वा। भुवनानां चतुर्दशसंख्याब्राह्मणादीन्समीश्वरी स्वामिनी। भुवनशब्दो जलपरो वा। हृल्लेखाभिमानिदेवताशब्दभावनात्हृल्लेखात्मकमन्त्रस्वरूपा वा। त्रिपुरासिद्धान्ते तु ‘भुवनानन्दनाथस्य प्रसभावनार्थवाहेश्वरी। भुवनेष्वतिविख्याता शांभवी भुवनेश्वरी’त्युक्तम्। भुवनान-
न्दनाथोनाम मानवौघान्तर्गतो गुरुविशेषः। दक्षिणामूर्तिसंहितायां तु घटार्गलयन्त्रपटले ‘एकाक्षरेऽपि देवेशि सन्त्यत्र भुवनानि त्वि’त्युपक्रम्य हृल्लेखाघटकाक्षरेषु हकारादिषु ‘व्योमबीजे महेशानि कैलासादिप्रतिष्ठित’मित्यादिना प्रत्येकं भुवनादिसद्भावं प्रतिपाद्य ‘अतएव महेशानी भुवनाधीश्वरी स्मृते’त्युपसंहृत्य ‘हकाराद्व्योम तुर्येण स्वरेणानिलसंभव’ इत्यादिना भुवनजनकत्वमप्युक्त्वा ‘अतएव महेशानी भुवनेशीति कथ्यत’ इत्युपसंहारेण द्वेधा निरुक्तम्। अम्बैवाम्बिका। जगन्माताभारतीपृथ्वीरुद्राण्यात्मकेच्छाज्ञानक्रियाशक्तीनां समष्टिरम्बिकेत्युच्यते तद्रूपा वा। रात्रिरूपा निद्रारूपा वा। ‘अम्बिका कैतवे सिद्धे निद्रायां निशि कीर्त्यत’ इति विश्वः। उक्तंच नवरात्रदीपे स्कान्दे ‘रात्रिरूपा महादेवी दिवारूपो महेश्वर’ इति। हरिवंशेऽपि ‘या ह्येषा गह्वरी माया निद्रेति जगति स्थिता। तस्यास्तनुस्तमोद्वारि निशादिवसनाशिनी॥ जीवितार्धहरी घोरा सर्वप्राणिभृतां भुवि। नैतया कश्चिदाविष्टो जृम्भमाणो मुहुर्मुहुः॥ सक्तः प्रसहितुं वेगं मज्जन्निव महार्णवे। देवीष्वपि दधारैनां नान्यो नारायणादृते’ इति। मार्कण्डेयपुराणेऽपि ‘विश्वेश्वरीं जगद्धात्रीं स्थितिसंहारकारिणीम्। निद्रां भगवतीं विष्णोरतुलां तेजसः प्रभुः’ इत्यादि। आदिर्जननं निधनं मरणं च न विद्यते यस्याः साऽनादिनिधना। अथवाऽनादिशब्दादादिशब्दाद्वा वररुचिपरिभाषानुसारेणाशीतिसंख्योच्यते। आदिसंख्याकानि च तानि निधनानि च। आयुर्घृतमितिवत्साधनलक्षणया मरणसाधनान्यमृतत्वविघातकानीति यावत्। न विद्यन्ते आदिनिधनानि यस्या उपासनया साऽनादिनिधना। निधनसाधनानि तावत्पाशवधभेदेन द्विविधानि तत्र वधा अष्टाविंशति विधाः। ‘अहंकृता अहंमाना अष्टाविंशद्वधात्मिका’ इति विष्णुपुराणात्। पाशास्तु द्विपञ्चाशद्विधाः। ‘द्वापञ्चाशदमी पाशा अविद्यापर्वसंभवा’ इति लिङ्गपुराणात्। एवमशीतिः। तेषु वधनिरूपणं सांख्यतन्त्रे। तत्र समाससूत्राणि ‘अष्टाविंशतिधा शक्तिः’। ‘नवधा तुष्टिः’। ‘अष्टधा सिद्धि’रिति। एतेषामर्थस्तु कारिकाभिरुक्तः ‘एकादशेन्द्रियवधाः सहबुद्धिवधैरशक्तिरुद्दिष्टा। सप्तदशधा तु बुद्धेर्विपर्ययात्तुष्टिसिद्धीनाम्॥ आध्यात्मिकाश्चतस्रः प्रकृत्युपादानकालभाग्याख्याः। बाह्या विषयोपरमात्पञ्चान्यास्तुष्टयोऽभिहिताः॥ ऊहः शब्दोऽध्ययनं दुःखविघातास्त्रयः सुहृत्प्राप्तिः। दानं च सिद्धयोऽष्टौ सिद्धेः पूर्वाङ्कुशस्त्रिविध’ इति। अयमर्थः— मुक्तेः पूर्वाङ्कुशः प्रतिघातकस्त्रिविधः अशक्तिस्तुष्टिः सिद्धिश्चेति। तत्राशक्तिर्नामेन्द्रियाणां स्वार्थग्रहणासामर्थ्यमान्ध्यवाधिर्यादिवैकल्यकृतम् साचेन्द्रियाणामेकादशत्वादेकादशधा। तुष्टिस्तावद्द्विविधा। आध्यात्मिकबाह्यभेदात्। तत्राद्या प्रकृत्यादिभेदाच्चतुर्धा। अष्टविधायां प्रकृत्यां चित्तलयान्मुक्तोऽस्मीति तुष्टिः प्रकृत्याख्या। संन्यासवेषमात्रोपादानात्कृतार्थोऽस्मीति तुष्टिरुपादानाख्या। कालत एव सेत्स्यति किं ध्यानक्लेशेनेति तुष्टिः कालाख्या। दैवोदयादेव सेत्स्यतीति तुष्टिर्भाग्याख्या। एताश्चात्मानमधिकृत्य भवन्तीत्याध्यात्मिकाः। बाह्यास्तु शब्दादिविषयपञ्चकभेदेन पञ्चविधाः अर्थानामर्जनरक्षणव्ययनाशादिदोषाणां शब्दादिषु विद्यमानानां कतिपयेषां दोषाणां च दर्शनेन तत्तद्विषयेष्वलंबुद्धिरूपाः। एवं नव तुष्टयः। एतासां सलिलाद्युत्तमाम्भःपर्यन्तानि
नारायणी नादरूपा नामरूपविवर्जिता।
——————
नामानि तारादिसमुदितान्तानि सिद्धिनामानि चाकर एव द्रष्टव्यानि। सिद्धिरष्टविधा। ऊहादिभेदात्। उपदेशानपेक्षमेवार्थोन्नयनमूहसिद्धिः। प्रासङ्गिकाच्छब्दश्रवणादर्थज्ञानं शब्दसिद्धिः। गुरूपदेशादेव ततो विवेकार्थज्ञानमध्ययनसिद्धिः। आध्यात्मिकाधिदैविकाधिभौतिकरूपदुःखत्रयविघातात्मिकास्तिस्रः सिद्धयः। सुहृत्प्राप्तितोऽर्धसिद्धिरेका। विद्वत्तपस्विशुश्रूषालभ्यार्थसिद्धिरेकेत्यष्टौ सिद्धयो नव तुष्टयश्च। एतासां सप्तदशानां विपर्ययोऽपि सप्तदशविधः। अस्तेत्यादिप्रमुदितान्तानि तन्नामान्याकरे द्रष्टव्यानि। एतेऽप्यशक्तिबुद्धिपदवाच्याश्चेति सप्तदश। एकादशभिरिन्द्रियशक्तिभिः सहाष्टाविंशतिर्वधा इति। एतेषां च व्यवस्थोक्ता वायुपुराणे ‘अष्टमोऽनुग्रहः सर्गः स चतुर्धा व्यवस्थितः। विपर्ययेण चाशक्त्या सिद्ध्या तुष्ट्या तथैव च॥ स्थावरेषु विपर्यासात्तिर्यग्योनिष्यशक्तितः। सिद्ध्यात्मना मनुष्येषु तुष्ट्या देवेषु कृत्स्नशः’ इति दिक्। हरिब्रह्मेन्द्रैर्विष्णुविधिशक्रैः सेवितोपासिता। श्रीनगरेऽष्टादशसप्तदशप्राकारयोर्मध्ये, विष्णोः सप्तदशषोडशयोर्मध्ये, ब्रह्मणः पञ्चदशचतुर्दशयोर्मध्ये चेन्द्रादिलोकपालानां देवीसेवार्थं निवासस्मरणात्। देवीभागवतेऽपि ‘ब्रह्मा विष्णुस्तथा शंभुर्वासवो वरुणो यमः। वायुरग्निः कुबेरश्च त्वष्टा पूषाऽश्विनौ भंगः॥ आदित्या वसवो रुद्रा विश्वेदेवा मरुद्गणाः। सर्वे ध्यायन्ति तां देवीं सृष्टिस्थित्यन्तकारिणी’मिति। एतेन विष्णुब्रह्मादिमात्रविषयकागमद्रष्टॄणां विष्ण्वादिविषयकतत्त्वज्ञानाभावात्तदुपासनायां प्रवृत्तापि देव्यागमदर्शिनां विशेषदर्शनान्न तदुपासनायां प्रवृत्तिः। ‘नहि भिक्षुको भिक्षुकान्याचितुमर्हति सत्यन्यस्मिन्नभिक्षुके’ इति न्यायविरोधादिति ध्वन्यते। तदिदमुक्तमस्माभिः शिवस्तवे ‘त्वद्दत्तैश्वर्यभाजः परमशिव कथंकारमन्यानमर्त्यान्याचे देहीति शक्रद्रुहिणहरिमुखान्भिक्षुकान्भिक्षुकोऽहम्। अज्ञोऽपि द्वादशाहक्रतुविकृतिशतोक्थ्याङ्गभूतोऽपि चोक्थ्यो ज्योतिष्टोमोक्थ्यधर्मानभिलषति नतु द्वादशाहोक्थ्यधर्मा’निति॥१२०॥ नरस्यापत्यमित्यर्थे नडादित्वात्फकि नारायणः शिवो विष्णुर्वा तस्येयं नारायणी। नारायणपदनिरुक्तिस्तावन्मनुस्मृतौ ‘आपो नारा इति प्रोक्ता आपो वै नरसूनवः। अयनं तस्य ता यस्मात्तेन्नारायणः स्मृत’ इति। ब्रह्मवैवर्तेऽपि ‘नराणामयनं यस्मात्तस्मान्नारायणः स्मृत’ इति। अत्र नारशब्दोजीवपरः। ‘नॄनये’ इति धातुमभिप्रेत्य ‘नयतीति नरः प्रोक्तः परमात्मा सनातनः’ इति देवीभागवतात्। नरस्येमे नारा इति व्युत्पत्तिसंभवात्। महाभारते तु ‘नराज्जातानि तत्त्वानि नाराणीति विदुर्बुधाः। तान्येव चायनं तस्य तेन नारायणः स्मृत’ इत्युक्तस्य नारायणस्य परमशिवस्य स्त्री नारायणी। तुरीयं प्रकृत्य ‘सः श्रीपतिः सोऽपि च पार्वतीपति’रिति काशीखण्डात्। लक्ष्म्यभेदाभिप्रायेण वेयमुक्तिः। वस्तुतस्तु ‘पुंयोगादाख्याया’मिति सूत्रे पुंयोगपदेन न वधूवरभाव एव विवक्षितः। पितृपुत्रीभावरूपसंबन्धस्यापि तत्रोदाहरणदर्शनात्। तेनेह भ्रातृभगिनीभावरूपे पुंयोगे ङीप्। नारायणभगिनीत्यर्थः। अतएव ‘नारा
ह्रींकारी ह्रीमती हृद्या हेयोपादेयवर्जिता॥१२१॥
——————
यणीसहचराय नमः शिवाये’यत्रैवमेव व्याचक्षते। नारायणस्य गौर्या सहाभेदादपि नारायणी। तदुक्तं कूर्मपुराणे गुणिशिवेन ‘अहं नारायणो गौरी जगन्माता सनातनी। विभज्य संस्थितो देवः स्वात्मानं परमेश्वरः॥ न मे विदुः परं तत्त्वं देवाद्या न महर्षयः। एकोऽहं वेद विश्वात्मा भवानी विष्णुरेव चे’ति। देवीपुराणे तु ‘जलायनानले कुर्यात्समुद्रशयनाथवा। नारायणी समाख्याता नरनारीः प्रकुर्वती’ति। इयं च सुपार्श्वक्षेत्रे प्रसिद्धा। उक्तंच पाद्मे देवीक्षेत्राध्याये ‘नारायणी सुपार्श्वे तु त्रिकूटे भद्रसुन्दरी’ति। ह्रींकारादिषु बिन्दोरुपर्यर्धचन्द्ररोधनीनादनादान्तशक्तिव्यापकाः समनोन्मन्याख्याः सूक्ष्मसूक्ष्मतरसूक्ष्मतमरूपा अष्टौ वर्णा वर्तन्ते तेषु तृतीयो वर्णो नाद इत्युच्यते। तत्स्वरूपं च महास्वच्छन्दतन्त्रे ‘रोधिन्याख्यं यदुक्तं ते नादस्तस्योर्ध्वसंस्थितः। पद्मकिञ्जल्कसंकाशः कोटिसूर्यसमप्रभः। पुरैः परिवृतोऽसंख्यै’रित्यारभ्य ‘तस्योत्सङ्गगतामूर्ध्वगामिनीं परमां शिवाम्। ध्याये’दित्यन्तं तादृशे नादे रूपं यस्याः सा। नाद एव रूपं यस्या इति वा। सन्ति हि परस्परविवेकेन चिदचिद्गन्थिरूपेण भासमानानि जगतः पञ्च रूपाणि। ‘अस्ति भाति प्रियं नाम रूपं चेत्यंशपञ्चकम्। आद्यत्रयं ब्रह्मरूपं जगद्रूपं ततो द्वय’मित्यभियुक्तैर्विवेचितानि। तत्र जगद्रूपयोर्नामरूपयोर्मिथ्यात्वात्ताभ्यां विवर्जिता। असत्यसत्ययोः संबन्धस्यापि मिथ्यात्वेन वास्तविकस्ताभ्यां संबन्धः सत्येन सह भवतीति भावः। आमनन्ति च छन्दोगाः ‘आकाशो ह वै नाम नामरूपयोर्निर्वहिता ते यदन्तरा तद्ब्रह्मे’ति। चिच्छक्तिरूप आकाश एव नामरूपयोर्निर्वाहकस्तदुभयं विना यदधिष्ठानमात्रमवशिष्यते तदेव ब्रह्मेति तदर्थः॥ इति भास्कररायेण कृते सौभाग्यभास्करे। मरीच्याख्या कला तुर्या जाता नाम्नां शतत्रयात्॥३००॥ इति श्रीमत्पदवाक्येत्यादिभास्कररायोन्नीते ललितासहस्रनामभाष्ये तृतीयशतकं नाम चतुर्थी मरीचिः कला॥४॥
ह्रीं लज्जां करोतीति ह्रींकारी। कर्मण्यण्। अण्णन्तान्ङीप्। द्वितीयाया अलुक्। यद्वा हीमिति स्वरादेराकृतिगणत्वादव्यत्वम्। अतएव त्रिशत्यामेकोनशततमस्य नाम्नश्चतुर्थ्यन्तो ह्रींनम इत्येव प्रयोगः। तस्यार्थस्तु स्वतन्त्रतन्त्रे व्याकुलाक्षरश्लोकेनोक्तः’त्वंकामाम्नानप्रशव्यो13नानमसग्निमात्वग्ररोमईयोकार्विर्शतनन्तफादुलनान्निबिं’ इति। ‘देवतारथगो मूक इति यो वेत्ति न क्रमम्। स व्याकुलाक्षरे मूको देवतारथगोऽपि स’न्निति तु वाचनक्रमः। सृष्टिस्थितिसंहारास्तदर्थत्वेन पर्यवस्यन्ति तान्करोतीति ह्रींकारी। अथवा वर्णात्कारप्रत्ययोयम् गौरादेराकृतिगणत्वान्ङीष्। भुवनेश्वरीबीजस्वरूपेत्यर्थः। ह्रीरस्या अस्तीति ह्रीमती। तथाच श्रूयते ‘लज्जामती तुष्टिरष्टा च पुष्टे’ति॥
अथ परिभाषायामष्टत्रिंशन्नामानि विभजते॥ राजतरेखितलिङ्गैरहरत्तैर्द्विर्विभूरतौ रेतः। हालामदभुविरक्तो गुणदम्भो वाजिगीर्णं
राजराजार्चिता राज्ञीरम्या राजीवलोचना।
रञ्जनी रमणी रस्या रणत्किङ्किणिमेखला॥१२२॥
रमा राकेन्दुवदना रतिरूपा रतिप्रिया।
रक्षाकरी राक्षसघ्नीरामा रमणलम्पटा॥१२३॥
——————
द्विः॥१५॥ द्विर्द्विरिति चतुश्चतुरक्षरे द्वे द्वे नामनी॥१५॥
हृदि भवा हृद्या मुनिहृन्निवासिनी, रमणीया वा। हातुमुपादातुं च योग्ये हेयोपादेये ताभ्यां वर्जिता। प्रवृत्तिनिवृत्तिबोधकशास्त्राणामविद्यावद्विषयत्वात्॥१२१॥ राजराजो मनुः कुबेरश्च ताभ्यामर्चितोपासिता, कुबेरादिविद्यारूपा वा। अतएव चतुर्दशपञ्चदशप्रकारयोर्मध्यभूमिं वर्णयतोक्तंदुर्वासमुनिना ‘तल्लोकपूर्वभागे धनदं ध्यायामि शेवधिकुलेशम्। अपि माणिभद्रमुख्यानम्बाचरणावलम्बिनो यक्षा’निति। तल्लोकेति तत्पदस्य वायुरर्थः। राजराजेश्वरस्य पट्टमहिषीत्वाद्राज्ञी। रम्या सौन्दर्यवती। राजीवशब्देन पद्मं हरिणो मत्स्यो वा गृह्यते। तद्वल्लोचने यस्याः सा राजीवलोचना। ‘राजीवाख्या मृगे मत्स्ये पद्म राजोपजीविनी’ति विश्वः। राजोपजीविनो लोचयति पश्यतीति वा। भक्तान्रञ्जयतीति रञ्जनी। शुद्धस्फटिकसंकाशं परमशिवं अरुणादेवी जपाकुसुमवत्सांनिध्यमात्रेण रञ्जयतीति वा। भक्तान्रमयति तैः सह क्रीडतीति रमणी। ‘जक्षन् क्रीडन् रममाणः’ इति श्रुतेः। रसयितुमास्वादितुं योग्या रस्या। ‘रसो वै सः’ इति श्रुतेः। रणन्त्यः किङ्किणयः क्षुद्रघण्टिका यस्यां तादृशी मेखला रशना यस्याः सा॥१२२॥ सूतसंहितायां ‘लक्ष्मीर्वागादिरूपेण नर्तकीव विभाति ये’त्युक्तरीत्या लक्ष्मीस्वरूपत्वाद्रमा। ‘कलाहीने सानुमतिः पूर्णे राका निशाकरे।’ इत्याग्नेयपुराणस्थकोशबलाद्राकेन्दुवत्पूर्णचन्द्रवद्वदनं यस्याः। रतिरेव रूपं यस्याः कामपत्नीत्वात्। रमा ईकारः। राकेन्दुवदना अनुस्वारसहिता चेद्रतिरूपा कामकला भवतीत्युद्धारः। रतिः कामपत्नीं रतं वा प्रियं यस्याः। रक्षा रक्षणं भस्म वा तत्कर्तृत्वाद्रक्षाकरी स्थितिसंहारकर्त्री। रक्षांस्येव राक्षसास्तान्हन्तीति राक्षसघ्नी। रामा स्त्रीमात्रस्वरूपा। रमन्तेऽस्यां योगिन इति वा। ‘ज्वलितिकसन्तेभ्यो णः’ इति णः। ‘स्त्रीलिङ्गमखिलं गौरी’ति लैङ्गात्। तत्रैव स्थलान्तरे ‘शंकरः पुरुषाः सर्वे स्त्रियः सर्वा महेश्वरी। पुंलिङ्गशब्दवाच्या ये ते च रुद्राः प्रकीर्तिताः॥ स्त्रीलिङ्गशब्दवाच्या याः सर्वा गौर्या विभूतयः। एवं स्त्रीपुरुषाः प्रोक्तास्तयोरेव विभूतय’ इति। विष्णुपुराणेऽपि ‘देवतिर्यङ्मनुष्यादौ पुंनाम्नि भगवान्हरिः। स्त्रीनाम्नि लक्ष्मीमैत्रेय नानयोर्विद्यते पर’मिति। ब्रह्मवैवर्तेऽपि ‘यत्किंचित्त्रिषु लोकेषु स्त्रीरूपं देवि दृश्यते। तत्सर्वं त्वत्स्वरूपं स्यादिति शास्त्रेषु निश्चय’ इति। अतएव बृहत्पाराशरस्मृतौ ‘स्त्रियस्तुष्टाः स्त्रियो रुष्टास्तुष्टा रुष्टाश्च देवताः। वर्धयन्ति कुलं तुष्टा नाशयन्त्यपमानिता’ इति। निखिलस्त्रीरूपत्वादेव स्वस्वरमणेषु पतिषु रमणे संभोगे वा क्रीडायां वा लम्पटा लालसा सतृष्णा॥१२३॥ ज्ञानेन प्राप्तव्यत्वेन मुमुक्षुभिः काम्यमा-
काम्या कामकलारूपा कदम्बकुसुमप्रिया।
कल्याणी जगतीकन्दा करुणारससागरा॥१२४॥
कलावती कलालापा कान्ता कादम्बरीप्रिया।
वरदा वामनयना वारुणीमदविह्वला॥१२५॥
——————
नत्वात्काम्या। कृष्णपक्षद्वादशीरात्रिरूपा वा। ‘बिन्दुत्रयं हार्धकला चे’त्यत्र प्रथमो बिन्दुः कामाख्यश्चरमा कला चेति प्रत्याहारन्यायेन कामकलेत्युच्यते। तस्याः स्वरूपं ‘स्फुटशिवशक्तिसमागमबीजाङ्कुररूपिणी पराशक्ति’रित्यारभ्य ‘कामः कमनीयतया कला च दहनेन्दुविग्रहौ बिन्दू’ इत्यन्तेन निर्णीतं कामकलाविलासे तद्रूपेत्यर्थः। कामो योनिः कमलेति वा। तदुक्तं त्रिपुरासिद्धान्ते ‘तस्य कामेश्वराख्यस्य कामेश्वर्याश्च पार्वति। कलाख्या सविलासा च ख्याता कामकलेति से’ति। कामा चासौ कलारूपा चेति वा। कामपदमात्रवाच्यतायाः कालीपुराणे प्रतिपादनात् ‘कामार्थमागता यस्मान्मया सार्धं महागिरौ। कामाख्या प्रोच्यते देवी नीलकूटे रहोगता॥ कामदा कामिनी काम्या कान्ता कामाङ्गदायिनी। कामाङ्गनाशिनी यस्मात्कामाख्या तेन कथ्यते’ इति। कदम्बकुसुमानि नीपपुष्पाणि प्रियाणि यस्याः सा। मङ्गलस्वरूपत्वात्कल्याणी। पाद्मे देवीपुराणे च ‘कल्याणी मलयाचल’ इति परिगणितमूर्तिविशेषरूपा। शुभात्मिका वाणी कल्या तामेवाणति शब्दायतेऽसौ कल्याणी। जगत्याः कन्दः पूरणं मूलं वा यस्याः सा। ‘कन्दः स्यात्पूरणे सस्यमूले जलधरेऽपि चे’ति यादवः। करुणैव रसो येषु तादृशाः सागरा यस्यां सा। सागरेभ्योऽप्यधिकतमकरुणाशीलेति यावत्। तत्पुरुषपक्षे कन्दसागरपदयोः परवल्लिङ्गतया पुंस्त्वापत्तिः॥१२४॥ चतुःषष्टिसंख्याः कला अस्यां सन्तीति कलावती। कल एवालापो भाषणं यस्याः। कलो मञ्जुल आलापो यस्या इति वा। “ध्वनौ तु मधुरास्फुटे। कल’ इत्यमरः। कं ब्रह्म तस्य लालावत् लक्षणया अतिसुलभ आपः प्राप्तिर्यस्याः सकाशादिति वा। कं लालापं लालाजलप्रायं ययेति वा। अपां समूह आपं ‘ऋक्पूरब्धू’रिति समासान्तो वा। कान्ता कमनीयत्वात्। कं ब्रह्मैवान्तः सिद्धान्तो यस्या इति वा। कृष्णैकादशीरात्रिरूपा वा। कादम्बरी उत्तमा मदिरा सैव प्रिया यस्याः। अतएव श्रुतिः ‘परिस्रुतं झषमाद्यं पलं च भक्तानि योनीः सुपरिष्कृतानि। निवेदयन्देवतायै महत्यै स्वात्मीकृत्य सुकृती सिद्धिमेती’ति। ब्रह्मविष्ण्वादिभ्य उपासकेभ्यो वरान् दत्त इति वरदा। तदुक्तं मात्स्यपाद्मयोर्नारदेन ‘यच्चाहमुक्तवानस्या उत्तानकरतां सदा। उत्तानो वरदः पाणिरेषं देव्याः सदैव तु॥ सुरासुरमुनिव्रातवरदेयं भविष्यती’ति। अत्र दानस्य प्रायेण हस्तकरणकत्वाद्वरदः पाणिरित्युक्तम्। वस्तुतो देवकामना’ पूर्तिमात्रे तात्पर्यं नतु वरदमुद्राधारणेऽपि। भगवत्पादाचार्यैः ‘त्वदन्यः पाणिन्यामभयवरदो दैवतगणस्त्वमेका नैवासि प्रकटितवराभीत्यभिनया’ इत्युक्तेः ‘वरा
विश्वाधिकाःवेदवेद्या विन्ध्याचलनिवासिनी।
विधात्री वेदजननी विष्णुमाया विलासिनी॥१२६॥
——————
र्थिभ्यः सुरादिभ्यः कामान्पूरयतीश्वरी। धातुर्वृञ् वरणे प्रोक्तस्तेन सा वरदा स्मृते’ति देवीभागवताच्च। वाराहेऽपि वेत्रासुरवधप्रकरणे ‘नवम्यां च सदा पूज्या इयं देवी समाधिना। वरदा सर्वलोकानां भविष्यति न संशय’ इति। वामानि सुन्दराणि नयनानि नेत्राणि प्रमाणानि वा यस्याः। वामं मार्गविशेषं नयतीति वा। अथवा कर्मजन्यफलं वाममित्युच्यते ‘एष उ एव वामनी’रिति श्रुती संयद्वामादिश्रुतौ च वामपदस्य तथा व्याख्यानदर्शनात्तन्नयति प्रापयतीति वामनयना। वरुणस्येयं वारुणी सास्यास्तीति वारुणीमान्सहस्रफणः शेषः। शेषं प्रस्तुत्य विष्णुपुराणे ‘उपास्यते स्वयं कान्त्या यो वारुण्या च मूर्तये’ति पाठात्स यथा भूधरणे विह्वलो न भवति तद्वदविह्वला यद्वा खर्जूरीसमुद्भवो रसो वरुणप्रियत्वाद्वारुणीं तस्या मदेन पानजन्यानन्देन विह्वला बाह्यपदार्थविस्मरणशीला। स्वात्मानन्दैकचर्वणवतीति यावत्। वारुणीमन्तः अविह्वला ययेति वा। वारुण्याख्यां वायुदेवत्यां नाडीं जितवन्तो वारुणीमन्तः इत्युच्यन्ते। उक्तं च योगशास्त्रे ‘अधश्चोर्ध्वं स्थिता नाडी वारुणी सर्वगामिनी। पूषा दिग्देवता प्रोक्ता वारुणी वायुदेवते’ति॥१२५॥ विश्वस्मात्क्षित्यादिशिवान्तादधिकोत्कृष्टा। ‘विश्वाधिको रुद्रो महर्षि’रिति श्रुतेः। वेदैः ॠग्यजुःसामाथर्वणैर्वेद्या ज्ञेया। ‘वेदैश्च सर्वैरहमेव वेद्य’ इति श्रुतेः स्मृतेश्च। यद्वा चिन्तामणिगृहस्य चत्वारि द्वाराणि चतुर्वेदरूपाणि। द्वारप्रवेशमन्तरेण देवतादर्शनाभावाद्वेदैकवेद्यत्वम्। तथाच श्रुतिः ‘ऋचां प्राची महती दिगुच्यते दक्षिणामाहुर्यजुषामपाराम्। अथर्वणामङ्गिरसां प्रतीची साम्नामुदीची महती दिगुच्यत’ इति। शुद्धविद्यादिभिः सौभाग्यादिभिर्लोपामुद्रादिभिस्तुरीयाम्बादिभिश्चर्ग्यजुषाथर्वसामदेवताभिर्वेद्येत्यप्यर्थः। विन्ध्याख्ये अचले पर्वते निवसतीति तथा। तथाच पाद्मे देवीक्षेत्रगणनायां ‘त्रिकूटे च तथा सीता विन्ध्ये विन्ध्याधिवासिनी’ति। पाञ्चरात्रलक्ष्मीतन्त्रेऽपि ‘वैवस्वतेऽन्तरे तौच पुनः शुम्भनिशुम्भकौ। उत्पत्स्येते वरान्मत्तौ देवोपद्रवकारिणौ॥ नन्दगोपकुले जाता यशोदागर्भसंभवा। तावहं नाशयिष्यामि नन्दाख्या विन्ध्यवासिनी’ति। मार्कण्डेयपुराणेऽप्येषोऽर्थः प्रसिद्धः। विदधाति धारयति पोषयति वा जगदिति विधात्री। ‘धात्री माता समाख्याता धारणाच्चोपगीयत’ इति देवीपुराणात्। विधातुर्ब्रह्मणः पत्नी वा। विशिष्टा विशेषप्रीतिविषया धात्री आमलकी यस्या इति वा। वेदानां जननी उत्पादिका। ‘अस्य महतो भूतस्य निःश्वसितमेतद्यदृग्वेदो यजुर्वेद’ इत्यादिश्रुतेः। ‘ऋचः सामानि जज्ञिर’ इत्यादिश्रुतेश्च। देवीपुराणे तु ‘यतः शृङ्गाटकाकारकुण्डलिन्याः समुद्गता। स्वराश्च व्यञ्जनानीति वेदमाता ततः स्मृते’त्युक्तम्। विष्णोर्व्यापनशीलस्य देशकालादिभिरनवच्छिन्नस्यापि माया आवरणकर्त्री। प्ररिच्छेदिकेति यावत्। तत्संबन्धिनी मायेति वा। ‘देवी ह्येषा गुणमयी मम माया
क्षेत्रस्वरूपा क्षेत्रेशी क्षेत्रक्षेत्रज्ञपालिनी।
क्षयवृद्धिविनिर्मुक्ता क्षेत्रपालसमर्चिता॥१२७॥
——————
दुरत्यये’तिभगवद्वचनात्। कालिकापुराणेऽप्युक्तम् ‘अव्यक्तव्यक्तरूपेण रजःसत्त्वतमोगुणैः। विभज्य यार्थं कुरुते विष्णुमायेति सोच्यत’ इति। विलासो विक्षेपशक्तिरस्या अस्तीति तथा। पीठशक्तिविशेषरूपा वा। ‘नित्या विलासिनी दोग्ध्री’त्यादिना तासु परिगणनात्। विले ब्रह्मरन्ध्रे आस्त इति वा विलासिनी। तदुक्तं स्वच्छन्दतन्त्रे ‘तत्र ब्रह्मविलं ज्ञेयं रुद्रकोट्यर्बुदैर्वृत’मिति प्रस्तुत्य ‘ब्रह्माणीत्यपरा शक्तिर्ब्रह्मणोत्सङ्गगामिनी। द्वारं सा मोक्षमार्गस्य रोधयित्वा व्यवस्थिते’ति॥१२६॥
** **अथ परिभाषायामष्टत्रिंशन्नामानि विभजते॥ मृगजो द्विर्बालः खे जीवाभं पञ्चपादार्धम्। गुणभूवरतेजोर्धं रतिगुणदेशो दहेद्गणं दुरितम्॥१६॥ द्विरित्यष्टाक्षरे द्वे नामनी॥१६॥
** **क्षेत्रं कामरूपादिकं वसुधादिशिवान्तषट्त्रिंशत्तत्त्वात्मकं शरीरं वा। तत्स्वं निजं रूपं यस्याः सा। तथाच लैङ्गे ‘बिभर्ति क्षेत्रतां देवी त्रिपुरान्तकवल्लभा। क्षेत्रज्ञत्वमजो धत्ते भगवानन्तकान्तक’ इति। क्षेत्रस्य शरीरस्येशः शिवस्तस्येयं क्षेत्रेशी। क्षेत्रं क्षेत्रज्ञो जीवस्तं च पालयतीति क्षेत्रक्षेत्रज्ञपालिनी। तथाच विष्णुस्मृतौ ‘इदं शरीरं वसुधे क्षेत्रमित्यभिधीयत’ इति। ‘इदं शरीरं कौन्तेय क्षेत्रमित्यभिधीयते। एतद्यो वेत्ति तं प्राहुः क्षेत्रज्ञ इति तद्विदः। क्षेत्रज्ञं चापि मां विद्धि सर्वक्षेत्रेषु भारते’ति गीतास्वप्येवमेव कौन्तेयभारतसंबोधनाभ्यां घटितमिदमेव। लैङ्गेपि ‘चतुर्विंशतितत्त्वानि क्षेत्रशब्देन सूरयः। आहुः क्षेत्रज्ञशब्देन भोक्तारं पुरुषं तथे’ति। वायुपुराणे तु ‘अव्यक्तं क्षेत्रमुद्दिष्टं ब्रह्मा क्षेत्रज्ञ उच्यत’ इत्युक्तम् \। ब्रह्मपुराणेऽपि ‘क्षेत्राख्यानि शरीराणि तेषां चैव यथासुखम्। तानि वेत्ति स योगात्मा ततः क्षेत्रज्ञ उच्यत’ इति। मनुस्मृतौ तु ‘योऽस्यात्मनः कारयिता तं क्षेत्रज्ञं प्रचक्षते। यः करोति तु कर्माणि स भूतात्मोच्यते बुधैः॥ जीवसंज्ञोऽन्तरात्मान्यः सहजः सर्वदेहिनाम्। येन वेदयते सर्वं सुखं दुःखं च जन्मसु॥ तावुभौ भूतसंपृक्तौ महान् क्षेत्रज्ञ एव च। उच्चावचेषु भूतेषु स्थितं तं व्याप्य तिष्ठतः॥ असंख्या मूर्तयस्तस्य निष्पतन्ति शरीरतः। उच्चावचानि भूतानि संततं चेष्टयन्ति याः’ इत्युक्तम्। क्षयवृद्ध्योः क्षेत्रसंबन्धिभावविकाररूपत्वेन तदधिष्ठातृत्वेऽपि ताभ्यां विनिर्मुक्ता। ‘नैनं छिन्दन्ति शस्त्राणी ‘त्यादिस्मृतेः। कर्मकृताभ्यां वा ताभ्यां विनिर्मुक्ता। ‘एष नित्यो महिमा ब्राह्मणस्य न कर्मणा वर्धते नो कनीयानि’ति काठकश्रुतेः। ‘स न साधुना कर्मणा भूयान्नो एवासाधुना कनीयानि’ति वाजसनेयश्रुतेश्च। दारुकासुरवधार्थं शिवेन काली निर्मिता सती दारुकं हतवती। तदुत्तरमप्यशान्तेन तस्याः क्रोधाग्निना जगदाकुलमालोक्य शिवस्तत्क्रोधनिरासाय वालो भूत्वाऽरोदीत्। सा तं बालं स्तनावपाययत्। स पयोद्वारा तस्याः क्रोधाग्निमपि पपौ। सोऽयं क्षेत्रपालः शिवावतारविशेष इति कथा लैङ्गादिषु प्रसिद्धा। क्षेत्रं यागायतनं पालयतीति व्युत्पत्तिः तेन सम्यगर्चिता॥१२७॥
विजया विमला वन्द्या वन्दारुजनवत्सला।
वाग्वादिनी वामकेशी वह्निमण्डलवासिनी॥१२८॥
भक्तिमत्कल्पलतिका पशुपाशविमोचिनी।
संहृताशेषपाखण्डा सदाचारप्रवर्तिका॥१२९॥
——————
विशिष्टो जयो यस्याः सा विजया संविद्रूपा वा। देवीपुराणेऽष्टषष्टिशिवतीर्थेषु ‘विजयं चैव काश्मीर’ इति गणित इति शिवस्वरूपा वा। तत्रैव निर्वचनाध्याये ‘विजित्य पद्मनामानं दैत्यराजं महाबलम्। त्रिषु लोकेषु विख्याता विजया चापराजिते’ति विश्वकर्मशास्त्रप्रसिद्धविजयाख्यगृहविशेषरूपा वा। विजयाख्यो मुहूर्त उक्तश्चिन्तामणौ ‘आश्विनस्य सिते पक्षे दशम्यां तारकोदये। स कालो विजयो ज्ञेयः सर्वकार्यार्थसिद्धिदः’ इति। रत्नकोशे तु ‘ईषत्संध्यामतिक्रान्तः किंचिदुन्निद्रतारकः। विजयो नाम कालोऽयं सर्वकार्यार्थसाधकः॥ एकादशो मुहूर्तो यो विजयः परिकीर्तितः। तस्मिन्यात्रा विधातव्या सर्वैर्विजयकाङ्क्षिभि’रिति तादृशकालरूपेत्यर्थः। विगतो मल आविद्यको यस्याः सा विमला। पाद्मे ‘विमला पुरुषोत्तमे’ इति देवीतीर्थेषु परिगणितमूर्तिविशेषरूपा वा। गृहविशेषरूपा वा। तदुक्तं विश्वकर्मशास्त्रे गृहाण्यधिकृत्य ‘ध्रुवं धान्यं जयं कान्तं विपुलं विजयं तथा। सुमुखं विमलं नन्दं निधनं च मनोरम’मिति। वन्दितुं योग्या वन्द्या। योग्यतामेवाह— वन्दार्विति। वन्दन्ते ते वन्दारवः। ‘शॄवन्द्योरारु’रित्यारुप्रत्ययः। तादृशान् जनान्वत्सवल्लात्यनुगृह्णाति ‘वत्सांसाभ्यां कामबले’ इति लप्रत्ययो वा। वाचं वदतीति वाग्वादिनी काचिद्देवता तद्रूपा वा। वाचं वादयतीति वा। एतन्निर्वचनं च त्रिपुरासिद्धान्ते ‘सर्वेषां च स्वभक्तानां वादरूपेण सर्वदा। स्थिरत्वाद्वाचो विख्याता लोके वाग्वादिनीति से’ति। ‘शब्दानां जननी त्वमेव भुवने वाग्वादिनीत्युच्यस’ इति लघुस्तवेऽपि। वामाः सुन्दराः केशा यस्याः सा। वामा एव वामकास्तेषामीशः शिवः। देवीपुराणेऽष्टषष्टिशिवतीर्थेषु ‘जटे वामेश्वरं विद्यादि’ति प्रतिपादितस्तस्य स्त्री वा। वामकेशेन प्रोक्तं तन्त्रं वामकेशं तत्र प्रतिपाद्यतया तत्संबन्धिनी वा। वह्नेर्मण्डलं मूलाधारे परमाकाशे वा विद्यमानं तत्र वसतीति तथा। वह्निशब्दस्त्रित्वसंख्यावच्छिन्नपरो वा। तेन सोमसूर्याग्निमण्डलत्रयवासिनीत्यर्थः॥१२८॥ भक्तिमतां जनानां कल्पलतिकेव अभिमतार्थदातृत्वात्। अथवा ईषदसमाप्तौकल्पप्प्रत्ययेनाऽपूर्णभक्ता भक्तिमत्कल्पाः। तेषां लतिकेव विस्तारकारिणी। कस्तूरिकेवामोदयित्री वा। ‘ज्योतिष्मत्यां च कस्तूर्यां माधवीदूर्वयोर्लते’ति रभसः। अर्धभक्तानां भक्तिपूर्तिदानद्वारा संतोषिकेति यावत्। तदुक्तं शक्तिरहस्ये ‘अक्रमेणार्धभक्त्या वा भवान्याः कृतमर्चनम्। जन्मान्तरे क्रमप्राप्त्यै पूर्णभक्त्यै च कल्पत’ इति। अभेदज्ञानरूपविद्याविहीनाः पशवः। तदुक्तं वृहदारण्यके ‘योऽन्यां देवतामुपास्तेऽन्योऽसावन्योऽहमस्मीति न स वेद यथा पशु’रिति। इह योन्यां त्रिकोण-
चक्र इत्यर्थः। ‘तस्मिन् हिरण्मये कोशे त्र्यरे च त्रिप्रतिष्ठित’ इति श्रुत्यन्तरात्। ईदृशानां पशूनां विद्याविहीनानां पाशे पिपासाऽशनाये विशिष्य मोचयतीति तथा। पिबतेरश्नातेश्च धातुद्वयस्य पाशपदेन निर्देशः। पातेरश्नातेश्चक्विपि पा अश हलन्ताट्टापि तयोः समाहारे पाशमिति रूपम्। तावन्मात्रवत्त्वादेव हि पशुत्वं निर्विद्यानाम्। तथाच श्रूयते ‘अथेतरेषां पशूनामशनापिपासे एवाभिज्ञानं न विज्ञातं वदन्ति न विज्ञातं पश्यन्ति न विदुः श्वस्तनं न लोकालोका’विति। अथवा पशु इत्यव्ययं सम्यगर्थे ‘लोधं नयन्ति पशु मन्यमानाः’ इति श्रुतौ तथा व्याख्यानदर्शनात्। पशु यथाभवति तथा पाशान् वरुणपाशान् विमोचयतीति। यद्वा सम्यक्पाशानक्षान्पातयतीति। शिवेन सह द्यूतक्रीडायां सम्यक्पाशान् फलके पातयित्वा शिवं जयतीति यावत्। अथवा पशुपस्य परशिवस्याशा प्रेप्सा येषां ते पशुपाशास्तान् विशेषेण मोचयति प्राप्तशिवांस्तनोतीति। अथवा ब्रह्मादिस्थावरान्ताः पशुसमानधर्मत्वात्पशवः तेषां वन्धसाधनत्वादविद्यैव पाशः। तदुक्तं सौरसंहितायामविः द्यानामनिर्वचनप्रकरणे ‘सर्वाधारतयाधारः पाशो वन्धस्य हेतुत’ इति। तद्विकारास्तत्त्वादयो वा पाशास्तान् शिवभक्त्या मोचयति। तदुक्तं लैङ्गे ‘ब्रह्माद्याः स्थावरान्ताश्च देवदेवस्य शूलिनः। पशवः परिकीर्त्यन्ते समस्ताः पशुवर्तिनः॥ चतुर्विंशतिः तत्त्वानि मायाकर्मगुणा इति। विषया अपि कीर्त्यन्ते पाशाजीवनिबन्धनात्॥ तैर्बद्धाः शिवभक्त्यैव मुच्यन्ते सर्वदेहिन’ इति। अथवा अविद्याऽस्मिता रागो द्वेषोऽभिः निवेशश्चेति पञ्चविधः क्लेशः। आत्मानात्मविवेकाभावोऽविद्या। अनात्मनि देहादावात्मत्वविपर्योऽस्मिता। तेनच देहोपभोगकरणे सक्चन्दनादावभिलाषो रागः। तत्प्राप्तिपरिपन्थिनि क्रोधो द्वेषः। तदिदमहितमिति ज्ञात्वाप्यज्ञवत्तदपरित्यागोऽभिनिवेश इति। तदिदं योगसूत्रे प्रथमपादोपान्त्यसूत्रेणोद्देशमात्रं कृत्वा द्वितीयपादेपञ्चभिः सूत्रैः सलक्षणमुक्तम्। यत्तूक्तं देवीभागवते ‘तमोऽविवेको मोहः स्यादन्तःकरणविभ्रमः। महामोहस्तु विज्ञेयो ग्राम्यभोगसुखैषणा॥ मरणं त्वन्धतामिस्रं तामिस्रं क्रोध उच्यते। अविद्या पञ्चपर्वैषा प्रादुर्भूता महात्मन’ इति। तत्र तमःप्रभृतीन्यचिद्यादीनामेव नामान्तराणि। मरणशब्दो मिथ्याभिनिवेशपरः। तदिदमुक्तंलैङ्गे ‘अविद्यामस्मितां रागं द्वेषं च द्विपदां वर। वदन्त्यभिनिवेशं च क्लेशान्पाशत्वमागतान्॥ तमो मोहो महामोहस्तामिस्रमथ पण्डिताः। अन्धतामिस्रमित्याहुः क्लेशान्वै पञ्चधास्थितान्॥ अविद्या तम इत्याहुरस्मिता मोह इत्यपि। रागं चैव महामोहं द्वेषस्तामिस्रमित्यपि॥ अन्धतामिस्रकं मिथ्याभिनिवेशं प्रचक्षत’ इति। एतेषां पञ्चानां क्लेशानां प्रभेदा अपि तत्रैव ‘तमसोऽष्टविधो भेदो मोहश्चाष्टविधः स्मृतः। महामोहप्रभेदास्तु बुधैर्दश विचिन्तिताः॥ अष्टौ विधास्तथा प्राहुस्तामिस्रस्य विचक्षणाः। अन्धतामिस्रभेदाश्च तथाष्टादश कीर्तिता’ इति संहत्य द्विपञ्चाशत्। तामिस्रस्याप्यष्टादशविधत्वमाश्रित्य द्विषष्टिः पाशा इति केचित्। एते च क्लेशा वैषयिकयोगितत्त्वज्ञरूपपशुत्रैविध्यात्तांस्तान्प्रति विलक्षणाः। तदुक्तं देवीभागवते ‘प्रसुप्तास्तत्त्ववेत्तॄणां दग्धदेहास्तु योगिनाम्। अविच्छिन्नोदाररूपाः क्लेशा विषयसङ्गिना’मिति। यत्तु
कुलार्णवे ‘घृणा शङ्का भयं लज्जा जुगुप्सा चेति पञ्चमी। कुलं शीलं च जातिश्चेत्यष्टौ पाशाः प्रकीर्तिताः’ इति तदविद्यादिक्लेशपञ्चकस्योक्तेष्वेव द्विपञ्चाशद्भेदेषु कतिपयानामवयुत्यानुवादः। तेच भेदा विस्तरभयान्नोक्ताः। इत्थंच मूले पशुशब्द उक्त परिभाषयैकपञ्चाशत्संख्यापरोऽपि प्रत्यासत्तिसंबन्धेन लक्षणया द्विपञ्चाशत्परः। ‘नियानन्दवपुर्निरन्तरगलपञ्चाशदर्णैः क्रमा’दिति शारदातिलकश्लोकेपञ्चाशत्पदस्येदृशलक्षणयैव हर्षदीक्षितादिभिरेकपञ्चाशत्परत्वेन व्याख्यानात्। तेन पशुसंख्यान् द्विपञ्चाशत्पाशान्विमोचयतीत्यर्थः। तदुक्तं शिवरहस्ये ‘पञ्चक्लेशैर्द्विपञ्चाशत्पाशैर्बध्नाति यः पशून्। स एव मोचकस्तेषां भक्त्या सम्यगुपासित’ इति तु पौराणिकरीत्या निष्कर्षः। अथवा अणुर्भेदः कर्म चेति त्रयः पाशाः। तत्राज्ञानमणुः। तच्च चैतन्यस्वरूपे आत्मन्यात्मत्वज्ञानाभावो देहादावनात्मन्यात्मत्वज्ञानं चेति द्विविधम्। द्विविधमप्येतत्संभूयाणवं मलमित्युच्यते। अणुपदवाच्यत्वं चास्यापरिच्छिन्नस्याप्यात्मनः परिच्छेदकत्वात्। तदुक्तं सौरसंहितायाम् ‘आत्मनोऽणुवहेतुत्वादणुर्मालिन्यतो मल’मिति। एकस्यैवात्मनो नानात्वं तु भेदः। तत्र मूलकारणं मायाख्यं तत्त्वेषु षष्ठमेकम्। तज्जन्यं सप्तमादिषट्त्रिंशान्ततत्त्ववृन्दमपरमिति द्विविधमपि गायीयं मलमुच्यते। विहितनिषिद्धक्रियाजन्यं शरीरदानक्षममदृष्टं तु कर्म। तदपि पुण्यपापभेदेन द्विविधमपि संभूय कार्मणं मलमुच्यते। एतेष्वणुकर्मभेदेषूत्तरोत्तरं पूर्वपूर्वव्याप्यं सर्वमिदमभिहितं प्रत्यभिज्ञाशास्त्रे ‘स्वातन्त्र्यहानिर्योधस्य स्वतन्त्रस्याप्यबोधता। द्विधाणवं मलमिदं स्वस्वरूपापहारतः। भिन्नवेद्यप्रथात्मैव मायीयं जन्म भोगदम्। कर्तव्यबोधकार्मं तु मायाशक्त्यैव तत्त्रय’मिति। स्पष्टतरमुक्तं शैवसूत्रवार्तिके ‘नन्वेवंविधविश्वस्य चैतन्यं चेद्वपुस्तदा। कथं बन्धस्य संबन्ध इति शङ्कां व्यपोहितुम्। अश्लेषश्लेषपाठाभ्यां सूत्रमाह महेश्वरः’। अज्ञानं बन्धः। ‘अज्ञानमिति तत्राद्यं चैतन्यस्फाररूपिणी। आ॒त्मन्यनात्मताज्ञानं ज्ञानं पुनरनात्मनि॥ देहादावात्ममानित्वं द्वयमप्येतदाणत्रम्। मलं स्वकल्पितं स्वस्मिन्बन्धस्वेच्छाविभावितः॥ किमाणवमलात्मैव बन्धोऽयं नेत्युदीर्यते’। योनिवर्गः कलाशरीरम्। ‘योनिर्भेदप्रथाहेतुर्मायावर्गस्तदुत्थितः। कालादिक्षितिपर्यन्ततत्त्वराशिस्तदात्मकः॥ मायीयाख्यं मलं तत्तद्भिन्नवेद्यप्रथामयम्। कलेति कायमाविश्य परिच्छेदकरी नृणाम्॥ व्यावृत्तिः पुण्यपापात्मा शरीरं यस्य तत्पुनः। कार्मणं मलमेतस्मिन्द्वये बन्धोऽनुवर्तत’ इति। एवंभूतेषु त्रिषु पाशेष्वेकेन द्वाभ्यां त्रिभिरपि बन्धप्रयुक्ता जीवा अपि त्रिविधाः पशुपदेनोच्यन्ते। यद्यपि त्रयाणां प्रस्तारेष्वेककास्त्रयो द्विकास्त्रयस्त्रिक एक इति सप्तधा जीवाः संपद्यन्ते तथाप्यणुकर्मभेदानामुत्तरोत्तरस्य पूर्वपूर्वव्याप्यत्वनियमात्तिस्र एव पशोर्विधाः। ते च पशवो नित्याहृदयेशुद्धमिश्राशुद्धपदैर्व्यवह्रियते। स्वच्छन्दतन्त्रादौ तु विज्ञानकेबलाः प्रलयाकलाः सकला इति व्यवहृताः। तथाचोक्तं ‘पशवस्त्रिप्रकाराः स्युस्तेष्वेके सकला मताः। प्रलयाकलनामानस्तेषां केचिन्महेश्वरि। विज्ञानकेवलाम्त्वन्येतेषां रूपं क्रमाच्छृण्वि’ति। तेषु त्रिभिरपि पाशैर्बद्धः सकलः। तदुक्तम् ‘अनादि-
मलसंछन्नो मायाकर्मावृतो विभुः। शरीरशिवतत्त्वज्ञो भेदैकरसिको लघुः॥ सर्वदा कर्मकर्ता च स्वकर्मफलभोजकः। नित्यं विषयसंरक्तः सकलः पशुरुच्यत’ इति। अत्र मलमायाशब्दावणुभेदपरौ। एते च सकलाः पशवो मलपाकापाकाभ्यां द्विविधाः। तत्र ये पक्वमलास्त्रयस्तेषां मध्येऽष्टादशोत्तरशतसंख्याकाः सिद्धाः परिपूर्णशिवानुग्रहवशान्मन्त्रेश्वरतामाप्ता वर्तन्ते। ते च शतरुद्राख्या अष्टौ शतमण्डलिनो क्रोधभट्टारकादयो वीरेश्वरः श्रीकण्ठश्चेति द्वाविति। अन्यानप्याचार्यरूपेण शिव एवानुगृह्णाति अपरिपक्वमलत्रयांस्तु भोगेन मलपाकाय नानायोनिषु विनियुङ्क्ते सोऽपि चानुग्रह एव। तदुक्तं ‘मलादीनामपाके तु सामान्यानुग्रहो भवेत्। आधिकारिकमैश्वर्यं शिवानुग्रहमात्रतः। पशवस्त्रिप्रकारास्तु प्राप्नुयुः परमेश्वरी’ति। ‘नानायोनिषु पाकायं नियुङ्क्तेऽनुजिघृक्षये’ति च। अणुकर्माख्यपाशद्वयबद्धास्तु प्रलयाकलाः। तेपि तयोः परिपाकतदभावाभ्यां द्विविधाः। तेष्वन्त्याः कर्मवशादुत्तमयोनिषु जायन्ते। आद्येषु यत्रेश्वरानुग्रहस्ते भुवनेश्वरा भवन्ति। तदुक्तं स्वच्छन्दसंग्रहे ‘मिश्राः प्रमातृरूपाः स्युः प्रलयाकलसंज्ञकाः। पुर्यष्टकशरीराश्च पृथक्कर्मवशात्प्रिये॥ सर्वयोनिषु संप्राप्य भोगाद्यं स्वस्वकर्मणाम्। भुक्त्वा भोगानि तेषां तु कर्मसाम्ये शिवः स्वयम्॥ सुपक्वमलकर्माणस्तान्किंचिदनुगृह्य च। जलतत्त्वादि तत्त्वानां मध्ये लोकेश्वरास्त्रिधे’ति। आणवमलमात्रबद्धा विज्ञानकेवलाः। तदुक्तं ‘मलमात्रेण संबद्धः पशुर्विज्ञानकेवलः। सुपक्वमलविज्ञानकेवलः स स्वयं प्रिये’ इति। तेऽपि समाप्तकलुषा असमाप्तकलुषीश्चेति द्विविधाः। तत्राद्या विद्येश्वराः। अन्त्यास्तु सप्तकोटिमहामन्त्रात्मकाः। नच तेषां जडत्वमिति शक्यम्। शब्दरूपशरीराणां जडत्वेऽपि शरीरिणामस्माकमिव चेतनत्वोपपत्तेः। अतएव मृगेन्द्रसंहितायाम्। ‘अथानादिमलापेतः सर्वकृत्सर्वदृक् शिवः। पूर्वं व्यत्यासितस्याणोः पाशजालमपोहती’ति। आगमिका अप्याहुः ‘भुक्तिं मुक्तिमणूनां स्वव्यापारे समर्थानाम्। जडवर्गस्य विधत्ते सर्वानुग्राहकः शंभु’रिति। अपक्वाणवमलवज्जीवत्वादेव मन्त्राणामणुसंज्ञापि। एवं षड्विधानामपि पशूनां मलपाकतारतम्यानन्त्यादनन्ता भेदाः। तेषां च तत्तत्तारतम्यार्हयोनिप्रापणैश्वर्यदानान्यपि भोगेन मलपाकार्थत्वात्पाशविमोचनरूपाण्येव। तथाच पशूनामुक्तरूपाणां पाशान्मलान्विशेषेण तत्तद्योग्यतानुसारेण मोचयतीति पशुपाशविमोचिनी। नच मोचनस्य शिवकार्यत्वात्कथं तत्र देव्याः कर्तृत्वमिति वाच्यम्। मोचकत्वशक्तिमन्तरेण शिवस्य तदयोगेन मोचनकर्तृताया अन्वयव्यतिरेकाभ्यां शक्तावेव स्वीकर्तुं युक्तत्वात्। तदुक्तमभियुक्तैः ‘शक्तो यया स शंभुर्भुक्तौ मुक्तौ च पशुगणस्यास्य। तामेनां चिद्रूपामाद्यां सर्वात्मनास्मिनत’ इति। किंच स्वातन्त्र्यं हि कर्तृत्वम्। ‘स्वतन्त्रः कर्ते’ति पाणिनिसूत्रात्। तच्च शक्तिगतमेव। तथाच शक्तिसूत्रं ‘चितिः स्वतन्त्रा विश्वसिद्धिहेतुरिति। यत्तु ‘चैतन्यमात्मे’ति शिवसूत्रं तत्स्वातन्त्र्यानिर्देशान्नपुंसकलिङ्गबलाच्च कर्तृत्वादिधर्माभावपरम्। यत्तु ‘चितिः स्वतन्त्रा विश्वसिद्धिहेतु’रित्याद्यसूत्रं किल शक्तिशास्त्रे। चैतन्यमात्मेति तु शैवशास्त्रे ‘शिवश्च शक्तिश्च चिदेव तस्मा’-
तापत्रयाग्निसंतप्तसमाह्लादनचन्द्रिका।
तरुणी तापसाराध्या तनुमध्या तमोपहा॥१३०॥
चितिस्तत्पदलक्ष्यार्था चिदेकरसरूपिणी।
———————
दित्यभियुक्तैरुच्यते तत्तु शक्तिशक्तिमतोरभेदाभिप्रायेणेति तु शैवरहस्यनिष्कर्षः। संहृता नाशिताअशेषाः समस्ताः पाखण्डा यया सा तथोक्ता। पाखण्डस्वरूपं च लैङ्गे’वेदबाह्यव्रताचारः श्रौतस्मार्तबहिष्कृताः। पाखण्डिन इति ख्याता न संभाष्या द्विजातिभि’ति। ब्रह्मवैवर्तेऽपि ‘पुराणन्यायमीमांसाधर्मशास्त्राङ्गमिश्रिताः। वेदाः स्थानानि विद्यानां धर्मस्य च चतुर्दशे’ति परिगणितानि विद्यास्थानान्यधिकृत्य ‘एतत्सत्यमितश्चान्यत्पाखण्डं बुद्धिकल्पितम्। दैत्यानां मोहनार्थाय महामोहेन निर्मित’मिति। ‘पाशब्देन तु वेदार्थः खण्डाः स्युस्तस्य खण्डका’ इति तु निरुक्तिः, अतएवाह सदाचारप्रवर्तिकेति। सन्नुत्तमः सतां शिष्टानां वा सतो ब्रह्मणो वा आचारः सदाचारस्तस्य प्रवर्तिका। कर्मकाण्डोक्ते धर्मे ब्रह्मकाण्डोक्तेऽद्वैतब्रह्मणि चाभिरतिपूर्वकं तत्तत्प्राप्तिसाधनानि पुराणादिषूपदिशत्यनुष्ठापयतीति यावत्। उक्तंच कूर्मपुराणे भगवत्यैव ‘अष्टादश पुराणानि व्यासेन कथितानि तु। नियोगाद्ब्रह्मणो राजंस्तेषु धर्मः प्रतिष्ठितः॥ अन्यान्युपपुराणानि तच्छिष्यैर्व्याकृतानि तु। युगे युगे तु सर्वेषां कर्ता वै धर्मशास्त्रवित्॥ शिक्षा कल्पो व्याकरणं निरुक्तं छन्द एव च। ज्योतिःशास्त्रं न्यायविद्या सर्वेषामुपबृंहणम्॥ एवं चतुर्दशैतानि विद्यास्थानानि सत्तम। चतुर्वेदैः सहोक्तानि धर्मोनान्यत्र विद्यते॥ एवं पैतामहं धर्मं मनुव्यासादयः परम्। स्थापयन्ति ममादेशाद्यावदाभूतसंप्लव’मिति॥१२९॥ आध्यात्मिकाधिभौतिकाधिदैविकाख्यानां तापानां त्रयं यस्य तेनाग्निना संसारलक्षणेन सम्यक्तप्तानां जनानां सम्यगाहादनेनापहरणपूर्वकानन्दनविषये चन्द्रिकेव वा। ‘अजरोऽमृत’ इति श्रुतेर्नित्यतारुण्यवत्त्वात्तरुणी। ‘—-तरुणतलुनानामुपसंख्यान’मिति वार्तिकावयवेन ङीप्। तापसैस्तपस्विभिराराध्या। तापस्तज्जनकः संसारस्तत्र सारभूता। आध्या आसमन्ताद्ध्यानं यस्या इति वा। तनुः कृशो मध्योयस्याः सा। काञ्चीदेशे तनुमध्याख्या देवी प्रसिद्धा। यदाह ‘मां पातु निवायास्तीरे निवसन्ती। बिल्वेश्वरकान्ता देवी तनुमध्या’। तनुमध्यारूय समवृत्तविशेषरूपा वा। तथाच पिङ्गलसूत्रं ‘तनुमध्या त्यौ’। पद चतुरूर्ध्वसूत्रात्प्रतिपादमित्यस्यानुवृत्त्या प्रतिपादं तगणयगणौचेत्सा तनुमध्येत्युच्यते इति सूत्रार्थः। पूर्वोक्तमुदाहरणं ‘गायत्री छन्दसामह’ मिति कौर्मे देवीवचनादस्य वृत्तस्य तच्छन्दस्कत्वात्तद्रूपता। तमोऽविद्यामपहन्तीति तमोपहा। तथाचेशावास्ये श्रूयते ‘अन्धं तमः प्रविशन्ति येऽविद्यामुपासत’इति। अविद्यामिति पदकाराणां पाठः। ‘विद्यान्योपास कानेवं निन्दत्यारण्यकश्रुति’रिति ब्रह्माण्डपुराणस्थमुपबृंहणं च॥१३०॥ अतः एवाह। चितिः अविद्यापरिपन्थिज्ञानस्वरूपा। ‘चितिः स्वतन्त्रा विश्वसिद्धिहेतु’रिति
स्वात्मानन्दलवीभूतब्रह्माद्यानन्दसंततिः॥१३१॥
परा प्रत्यक्वितीरूपा पश्यन्ती परदेवता।
मध्यमा वैखरीरूपा भक्तमानसहंसिका॥१३२॥
——————
शक्तिसूत्रोक्तस्वरूपेत्यर्थः। ‘सैषा चितिरिति प्रोक्ता जीवनाज्जीवितैषिणा’मिति महावासिष्ठे। तत्त्वमस्यादिमहावाक्यघटकतत्पदस्य जगज्जन्मादिकर्तृत्वविशिष्टं शबलं ब्रह्म वाच्योऽर्थः। तदेवेह स्तूयमानम्। धर्मिमात्रं तु शुद्धं ब्रह्म लक्ष्योऽर्थः। अनयोश्चविशिष्टकेवलयोस्तादात्म्यं संबन्धः। तदेतदाह। तदिति पदेन लक्षणीयोऽर्थो यस्याः यत्तादात्म्यापन्नः सा तत्पदलक्ष्यार्था। धर्मिमात्रपरत्वे तु तत्पुरुषापत्त्या ‘परवल्लिङ्गंद्वन्द्वतत्पुरुषयो’रिति नियमात्पुंलिङ्गतापत्तिः। ननु केवलमपि रूपमानन्दादिधर्मविशिष्टमेवेति वाच्यमेवास्त्वत आह। चिता सहैको रसः स्वरूपं येषां, चिदेव मुख्योरसो येषां तानि चिदेकरसानि रूपाण्यानन्दचैतन्यादिधर्मा अस्याः सन्तीति चिदेकरसरूपिणी। स्वाभिन्नधर्मवतीति यावत्। उक्तंच पंचपादिकायां, ‘आनन्दो विषयानुभवो नित्यत्वं चेति सन्ति धर्मा अपृथक्त्वेऽपि चैतन्यात्पृथगिवावभासन्त’ इति। तथाच शक्यतावच्छेदकभूतसृष्टिकर्तृत्वादिधर्माणां स्वरूपानन्तर्गतत्वात्तदन्तर्गतधर्माणां चात्यन्ताभेदेन शक्यतावच्छेदकत्वाभावाद्भागत्यागलक्षणावश्यकीति भावः। यद्वा केवलं ब्रह्म नेश्वरस्य धर्मीति तयोर्भेदादुक्तः संबन्धो न घटत इत्यत आह। चिदेकरसं चिन्मात्राभिन्नंरूपमस्या एवेत्यर्थः। तयोर्भेदेऽप्यभेदस्यापि सत्त्वाद्भेदसमानाधिकरणाभेदस्यैव तादात्म्यरूपत्वादुक्तसंबन्धो घटत एवेति भावः। ननु सृष्टिकर्तृत्वादिधर्माणां स्वरूपानन्तर्गतत्वेऽपि शक्यतावच्छेदकत्वसंभवात्तद्विशिष्टस्यैव तत्पदेन प्रतिपादने तदभेद एव वाक्यार्थोऽस्तु। वचनबलाद्विशिष्टयोरपि तादात्म्यस्वीकारसंभवात्। ‘यो यच्छ्रद्धः स एव स’ इत्यादिवचनानामुपास्योपासकत्वादिधर्मविशिष्टयोरेवाभेदप्रतिपादने स्वारस्यात्। एतेनैतदन्यथानुपपत्त्या कल्प्यमानस्य निर्गुणस्यापि निरासाद्विशिष्टकेवलयोः संभवन्नपि संबन्धोऽप्रयोजक एवेत्यत आह—स्वात्मेति। स्वस्या आत्मरूप य आनन्दस्तस्य लवीभूता इन्द्राद्यानन्दबिन्दुपर्यालोचनया सागरायमाणत्वेनालवा अपि देव्यानन्दसारस्य लवाः संपद्यमानाः ब्रह्मादीनां सृष्टिकर्तृत्वादिधर्मविशिष्टानां ब्रह्मविष्णुरुद्राणामानन्दानां संततयः सम्यक्समूहा यस्याः सा। ‘एतस्यैवानन्दस्यान्यानि भूतानि मात्रामुपजीवन्ती’ति श्रुतेः। तैत्तिरीये मानुषानन्दमारभ्योत्तरोत्तराधिक्येन वर्ण्यमानानामानन्दानां मध्ये परिगणितानां प्रजापत्याद्यानन्दानामपि परिच्छिन्नत्वेनापरिच्छिन्नब्रह्मानन्दतोऽल्पत्वेन पुरुषार्थत्वायोगेनापरिच्छिन्नानन्दस्य निर्गुणस्य सिद्धत्वाच्च पुरुषार्थसाधनज्ञानोपक्रमादितात्पर्यनिर्णायकप्रमाणाविरोधाय तत्पदस्य निर्धर्मकात्मलक्षकत्वमेव युक्तमित्याशयः। ‘लवो लेशे विलासे चेति’ विश्वः॥१३१॥ ननु शब्दार्थयोस्तादात्म्यस्यैव शक्तिपदार्थत्वान्निर्गुणस्यापि ब्रह्मणः शब्दब्रह्माभिन्नत्वेन किमिति तत्र सत्यादिशब्दानां लक्षणेत्याशङ्क्य वैखर्यात्मकपदानां
विराट्पुरुषेणैव सह तादात्म्येन शुद्धब्रह्मतादात्म्यं नास्त्येवेति समाधित्सया वाचं विभजते। अत्रेदं बोध्यम्— प्रलये सृज्यमानप्राणिकर्मणामपरिपाकदशायां तादृशकर्माभिन्नमायावच्छिन्नं ब्रह्म घनीभूतमित्युच्यते। कालवशात्कर्मणां परिपाके सति विनश्यदवस्थः परिपाकप्रागभावो विचिकीर्षेत्युच्यते। ततः परिपाकक्षणे मायावृत्तिरुत्पद्यते। तादृशं परिपक्वकर्माकारपरिगणितमायाविशिष्टं ब्रह्माव्यक्तपदवाच्यम्। अतएव तस्योत्पत्तिरपि स्मर्यते ‘तस्मादव्यक्तमुत्पन्नं त्रिगुणं द्विजसत्तमे’ति। स एव जगदङ्कुरकन्दरूपत्वात्कारणबिन्दुपदेन व्यवह्रियते। तदुक्तं प्रपञ्चसारे ‘विचिकीर्षुर्घनीभूता सा चिदभ्येति बिन्दुता’मिति। अस्माच्च कारणबिन्दोः सकाशात्क्रमेण कार्यबिन्दुस्ततो नादस्ततो बीजमिति त्रयमुत्पन्नम्। तदिदं परसूक्ष्मस्थूलपदैरप्युच्यते। चिदंशश्चिदचिन्मिश्रोऽचिदंशश्चेति तेषां रूपाणि। तदुक्तं रहस्यागमे ‘कालेन भिद्यमानस्तु स बिन्दुर्भवति त्रिधा। स्थूलसूक्ष्मपरत्वेन तस्य त्रैविध्यमिष्यते। स बिन्दुनादबीजत्वभेदेन च निगद्यत’ इति। एते च कारणबिन्द्वादयश्चत्वारोऽघिदैवतमव्यक्तेश्वरहिरण्यगर्भविराट्स्वरूपाः, शान्तावामाज्येष्ठारौद्रीरूपाः, अम्बिकेच्छाज्ञानक्रियारूपाश्च। अधिभूतं तु कामरूपपूर्णगिरिजालन्धरोड्याणपीठरूपा इति तु नित्याहृदये स्पष्टम्। अध्यात्मं तु कारणबिन्दुः शक्तिपिण्डकुण्डल्यादिशब्दवाच्यो मूलाधारस्थः ‘शक्तिः कुण्डलिनीति विश्वजननव्यापारबद्धोद्यमां ज्ञात्वेत्थं न पुनर्विशन्ति जननीगर्भेऽर्भकत्वं नराः’ इत्यादिरीत्याचार्यैर्व्यवहृतः सोऽयमविभागावस्थः कारणबिन्दुः। अयमेव च यदा कार्यबिन्द्वादित्रयजननोन्मुखो भिद्यते तद्दशायामव्यक्तः शब्दब्रह्माभिधेयो रवस्तत्रोत्पद्यते। तदप्युक्तम् ‘बिन्दोस्तस्माद्भिद्यमानादव्यक्तात्मा रवोऽभवत्। स रवः श्रुतिसंपत्नैः शब्दब्रह्मेति गीयत’इति। सोऽयं रवः कारणबिन्दुतादात्म्यापन्नत्वात्सर्वगतोऽपि व्यञ्जकयत्नसंस्कृतपवनवशात्प्राणिनां मूलाधार एवाभिव्यज्यते। तदुक्तं“देहेऽपि मूलाधारेऽस्मिन्समुदेति समीरणः। विवक्षोरिच्छयोत्थेन प्रयत्नेन सुसंस्कृतः॥ स व्यञ्जयति तत्रैव शब्दब्रह्मापि सर्वग’मिति। तदिदं कारणबिन्द्वात्मकमभिव्यक्तं शब्दब्रह्म स्वप्रतिष्ठतया निष्पन्दं तदेव च परावागित्युच्यते। अथ तदेव नाभि पर्यन्तमागच्छता तेन पवनेनाभिव्यक्तं विमर्शरूपेण मनसा युक्तं सामान्यस्पन्दप्रकाशरूपकार्यबिन्दुमयं सत्पश्यन्तीवागुच्यते। अथ तदेव शब्दब्रह्म तेनैव वायुना हृदयपर्यन्तमभिव्यज्यमानं निश्चयात्मिकया बुद्ध्या युक्तं विशेषस्पन्दप्रकाशरूपनादमयं सन्मध्यमावागित्युच्यते। अथ तदेव वदनपर्यन्तं तेनैव वायुना कण्ठादिस्थानेष्वभिव्यज्यमानमकारादिवर्णरूपपरं श्रोत्रग्रहणयोग्यस्पष्टतरप्रकाशरूपबीजात्मकं सद्वैखरीवागुच्यते। तदुक्तमाचार्यैः ‘मूलाधारात्प्रथममुदितो यश्च भावः पराख्यः पश्चात्पश्यन्त्यथहृदयगो बुद्धियुङ्मध्यमाख्यः। व्यक्ते वैखर्यथ रुरुदिषोरस्य जन्तोः सुषुम्णाबद्धस्तस्माद्भवति पवने प्रेरिता वर्णसंज्ञा’इति। नित्यातन्त्रेऽपि ‘मूलाधारे समुत्पन्नः पराख्यो नादसंभवः। स एवोर्ध्वतयानीतः स्वाधिष्ठाने विजृम्भितः॥ पश्यन्त्यारूमवाप्नोति तथैवोर्ध्वं शनैःशनैः। अनाहते बुद्धितत्त्वसमेतो मध्यमाभिधः॥ तथा तयोर्ध्वनुन्नः
कामेश्वरप्राणनाडी कृतज्ञा कामपूजिता।
शृङ्गाररससंपूर्णा जया जालन्धरस्थिता॥१३३॥
——————
सन्विशुद्धौ कण्ठदेशतः। वैखर्याख्य’ इत्यादि इत्थं चतुर्विधासु मातृकासु परादित्रयमजानन्तो मनुष्याः स्थूलदृशो वैखरीमेव वाचं मन्वते। तथाच श्रुतिः ‘तस्माद्यद्वाचोऽनाप्तं तन्मनुष्या उपजीवन्ती’ति। अनाप्तं अपूर्णं तिसृभिर्विरहितमित्यर्थं इति वेदभाष्ये। श्रुत्यन्तरेऽपि ‘चत्वारि वाक्परिमिता पदानि तानि विदुर्ब्राह्मणा ये मनीषिणः। गुहा त्रीणि निहिता नेङ्गयन्ति तुरीयं वाचो मनुष्या वदन्ती’ति। स्कान्दे यज्ञवैभवखण्डेऽपि ‘अपदं पदमापन्नं पदं चाप्यपदं भवेत्। पदापदविभागं च यः पश्यति स पश्यती’ति। अपदं गतिरहितं निःस्पन्दं शब्दब्रह्मैव परादिपदचतुष्टयं जातं तदिदं पदचतुष्टयमेव ज्ञातं सदपदं ब्रह्मैव भवतीति तदर्थः। एवं श्रुतिस्मृतिभ्यां तदिति पदस्य चातुर्विध्यात् ‘ते विभक्तयन्ताः पदमिति गौतमसूत्रेण, ‘सुप्तिङन्तं पद’मिति पाणिनिसूत्रेण च प्रतिपादितपदलक्षणान्तर्गतसुप्रत्ययादेरपि चातुर्विध्यात्परात्मकतत्पदस्यापि त्रिगुणाव्यक्तमात्रतादात्म्यवत्त्वेन ततोऽपि परतरनिर्गुणब्रह्मतादात्म्याभसेवन वैखर्यात्मकतरत्पदस्य कैमुतिकन्यायेन दूरापास्तं तत्तादात्म्यमिति शक्यशब्दार्थयोस्तादात्म्यमेव शक्तिरिति पक्षेऽपि तत्पदस्य केवले लक्षणैव स्वीकार्येति भावः। मातृकाभेदेषु तिसृभ्यः परत्वात्परा। त्रिपुरासिद्धान्ते तु प्रकारान्तरैरपि निरुक्ता ‘श्रीपरानन्दनाथस्य प्रसन्नत्वात्परेति सा। परानन्दाभिधे तन्त्रे प्रसिद्धत्वाच्च सा परा। प्रासादरूपिणी चेति परा सा शांभवीपरे’ति। प्रतिकूलं स्वात्माभिमुखमञ्चतीति प्रतीची साच सा चिती च प्रत्यक्चिती अव्यक्तसंज्ञं ब्रह्म सैव रूपं यस्यास्तथा। चिनोतेः क्तिजन्तात् ‘कृदिकारादि’ति ङीप्। पश्यतीति पश्यन्ती। अस्या एवोत्तीर्णेत्यपि संज्ञा। उक्तंच सौभाग्यसुधोदये ‘पश्यति सर्वं स्वात्मनि करणानां सरणिमपि यदुत्तीर्णा। तेनेयं पश्यन्तीत्युत्तीर्णेत्यप्युदीर्यते माते’ति। पराउत्कृष्टा चासौ देवता च परदेवता। उपास्येश्वरस्वरूपेत्यर्थः। मध्ये स्थिता मध्यमा तदुक्तं‘पश्यन्तीव न केवलमुत्तीर्णा नापि वैखरीव बहिः। स्फुटतरनिखिलावयवा वाग्रूपा मध्यमा तयोरस्मा’दिति। विशेषेण खरः कठिनस्तस्येयं वैखरी सैव रूपं यस्याः। घनभावमापन्नेति यावत्। वै निश्चयेन खं कर्णविवरं राति गच्छतीति व्युत्पत्तिः सौभाग्यसुधोदये कथिता ‘प्राणेन विखराख्येन प्रेरिता वैखरी पुन’रिति योगशास्त्रवचनाद्विखरवायुनुन्नेति वा। भक्तानां मानसे चित्ते श्लेषभित्तिकाभेदाध्यवसायेन सरोविशेषे हंसीव हंसिका। परैरज्ञातत्वात्कप्रत्ययः॥१३२॥ कामेश्वरस्य शिवकामस्य प्राणनाडी जीवनाडीव। तदुक्तमाचार्यभगवत्पादैः ‘करालं यत्क्ष्वेलं कवलितवतः कालकलना न शंभोस्तन्मूलं तव जननि ताटङ्कमहिमे’ति। कृते सुकृतदुष्कृते जानातीति कृतज्ञा। ‘सूर्यः सोमो यमः कालो महाभूतानि पञ्च च। एते शुभाशुभस्येह कर्मणो नव साक्षिण’ इत्युक्तनवकाभिन्नेति वा। कृतस्योपकारस्य ज्ञानेन प्रत्युपकर्त्री वा। कृतवत् ज्ञा ज्ञानं
ओड्याणपीठनिलया बिन्दुमण्डलवासिनी।
रहोयागक्रमाराध्या रहस्तर्पणतर्पिता॥१३४॥
——————
यस्या इति वा। कृतादियुगेषु धर्मस्येव ज्ञानस्याप्युत्तरोत्तरं ह्रासात्कृते यथा पूर्णं ज्ञानं तादृशज्ञानवतीत्यर्थः। यद्वा द्यूतशास्त्रे कृतनेताद्वापरकलिसंज्ञानि चत्वारि द्यूतानि प्रसिद्धानि। तानि चतुस्त्रिद्व्येकाङ्कघटितान्यपि दशषट्त्र्येकरूपाणि। पूर्वपूर्वद्यूते उत्तरोत्तरद्यूतानामन्तर्भावात्। तथाच श्रूयते ‘ते वा एते पञ्चान्ये पञ्चान्ये दश संतस्तत्कृत’मिति दशानां कृतसंज्ञा। अतएव कृतद्यूतं जितता त्रेतादिद्यूतत्रयमपि जितं भवतीति द्यूतशास्त्रमर्यादापि। श्रूयते च ‘कृतायविजितायाधरेऽयाः संयन्ती’ति। अयो द्यूतक्रीडा कृतरूपोऽयो विजितो येन तस्मै अधरे तदधस्तना अयास्त्रेतादिक्रीडाः संयन्ति उपनमन्ते जिता भवन्तीति तदर्थात्। तेन कृतं यथा सर्वव्यापकमेवं सर्वविषयकं ज्ञानं यस्या इत्यर्थः। कृतं जानातीति वा। शिवेन सह द्यूतक्रीडायामवश्यं कृतज्ञत्वाद्देव्या एव जय इति ध्वन्यम्। कामेन मन्मथेन पूजितोपासिता। अतएव वारुणोपनिषदि ‘पुत्रो निर्ऋत्या वैदेह अचेता यश्च चेतनः। स तं मणिमविन्द’दिति श्रूयते। लक्ष्म्याः पुत्रोऽनङ्गो विद्यारत्नं प्राप्तवानित्यर्थः। शृङ्गाराख्यरसेन सम्यक् पूर्णा। अथवा उत्तरत्र जालंधरोड्याणपीठयोः परामर्शदर्शनादनयोर्नाम्नोः कामरूपपूर्णगिरिपरत्वं नामैकदेशन्यायेनास्थेयम्। सम्यक् पूर्णे आस्ते इति संपूर्णास्। आस्तेः क्विपि रुत्वयत्वयलोपाः। शृङ्गपदेन द्विसंख्या। अपरपदेन दलम्। रसाः षट्। द्विदलषट्कं द्वादशदलं। अनाहतचक्रमिति यावत्। अधिभूतं प्रसिद्धस्य पीठचतुष्कस्याध्यात्मं मूलाधारानाहतविशुद्ध्याज्ञास्थिते तन्त्रेषु कथनाद्द्वादशदलेति पूर्णगिरिविशेषणम्। यद्वा श्रृङ्गं प्रधानभूतं अररं कपाटं आवरकाविद्येति यावत् यस्याः सा शृङ्गाररा। संपूर्णेन ब्रह्मणा सहिता ससंपूर्णा। उभयोः कर्मधारये शबलब्रह्मशुद्धब्रह्मोभयवतीति यावत्। जयस्वरूपत्वाज्जया। पाद्मे ‘जया वराहशैले त्वि’ति परिगणिता। जालन्धरे पीठविशेषे स्थिता। पाद्मे ‘जालन्धरे विष्णुमुखी’ति प्रतिपादितविष्णुमुख्याख्या॥१३३॥
अथ नामपरिभाषामण्डले चतुश्चत्वारिंशत्पदानि विभजते॥ द्वेद्वे चेद्वेद्वेभवदोहदभुविलेशशीलजलमोहैः। द्व्यर्धचतुर्भवगाः स्मो भुवि जलशोभा भगोलः खे॥१७॥ अत्र तृतीयं द्वे इति पदं षडक्षरनामद्वयपरम्। इतराणि त्वष्टाक्षरपराणि। चतुःपदं चतुरक्षरकनामचतुष्टयपरम्॥१७॥
ओड्याणाख्यं पीठमेव निलयो वासस्थानं यस्याः। बिन्दुरेव मण्डलं सर्वानन्दमयात्मकं चक्रवालं तत्र वसति। बिन्दुः शुक्लं तस्य मण्डलं ब्रह्मरन्ध्रमित्यन्ये। ‘सहस्रारे पद्मे सह रहसि पत्या विहरसे’ इत्याचार्योक्तेः। रहसि विविक्ते क्रियमाणो यागश्चिदग्नौ अनच्ककुण्डलिन्यधिष्ठिते पुण्यादिहोमाष्टकरूपो रहोयागस्तस्य क्रमेण प्रयोगेणाराध्या। ‘यज देवपूजासंगतिकरणदानेष्वि’ति धातुपाठादेकान्तसंगतिरेव वा रहोयागः तत्र क्रमेण पादवि-
सद्यःप्रसादिनी विश्वसाक्षिणी साक्षिवर्जिता।
षडङ्गदेवतायुक्ता षाङ्गुण्यपरिपूरिता॥१३५॥
नित्यक्लिन्ना निरुपमा निर्वाणसुखदायिनी।
नित्याषोडशिकारूपा श्रीकण्ठार्धशरीरिणी॥१३६॥
——————
क्षेपेणाराध्या प्राप्या। यदाहापस्तम्बः ‘न शब्दशास्त्राभिरतस्य मोक्षो न चैव रम्यावसथप्रियस्य। न भोजनाच्छादनतत्परस्य न लोकचित्तग्रहणे रतस्य॥ एकान्तशीलस्य दृढव्रतस्य मोक्षो14 भवेत्प्रीतिनिवर्तकस्य। अध्यात्मयोगे15निरतस्य सम्यङ्मोक्षो16 भवेन्नित्यमहिंसकस्ये’ति। अरुणोपनिषदपि ‘यदि प्रविशेत् मिथो चरित्वा प्रविशेदिति। श्रीविद्योपासनामार्गे रहःसंपाद्यैव प्रविशेदिति तदर्थः। ‘मिथोऽन्योन्यं रहस्यपी’ति कोशात् ‘प्रकाशामर्शहस्ताभ्यामवलम्ब्योन्मनी स्रुचम्। धर्माधर्मकलास्नेहं पूर्णवह्नौ जुहोम्यह’मिति। मन्त्रोक्तार्थविभावनं ‘अन्तर्निरन्तरनिरिन्धनमेधमाने मोहान्धकारपरिपन्थिनि संविदग्नौ। कस्मिंश्चिदद्भुतमरीचिविकासभूमौ विश्वं जुहोमि वसुधादिशि वा वसान’मिति मन्त्रार्थविभावनं च रहस्तर्पणं तेन तर्पिता॥१३४॥ तादृशयागतर्पणाभ्यां सद्यस्तदात्व एव प्रसीदतीति तथा। विश्वस्य द्रष्ट्री साक्षादव्यवधानेन स्वरूपात्मकबोधेनेति विश्वसाक्षिणी। ‘साक्षाद्द्रष्टरि संज्ञाया’मितीञ्। सर्वसाक्षिण्याः साक्ष्यन्तरायोगात्साक्षिवर्जिता। षडवयवकान्यङ्गानि हृदयशिरःशिखानेत्रकवचास्त्राणि तेषां देवताभिः शक्तिभिर्युक्ता आवृता। ज्ञानार्णवादिषु ‘अथाङ्गावरणं कुर्याच्छ्रीविद्यामनुसंभवम्। षडङ्गावरणाद्वाह्यसमीपे क्रमतोऽर्चयेत्। परिवारार्चनं पश्चादादावङ्गावृतिः प्रिये’ इत्यादिव्यवहारदर्शनेन तासामप्यावरणदेवतात्वात्, ताभिः सहैव नवावरणसंख्यापूर्तेः संभवाच्च। षण्णामङ्गानामधिष्ठात्री देवता महेश्वर एव। तेन युक्ता वा। उक्तंच देवीभागवते ‘सर्वज्ञता तृप्तिरनादिबोधः स्वतन्त्रता नित्यमलुप्तशक्तिः। अनन्तता चेति विधेर्विधिज्ञाः षडाहुरङ्गानि महेश्वरस्ये’ति। शिक्षाकल्पादिषडङ्गाभिमानिदेवतासाहित्याच्छ्रुतिस्वरूपेति वार्थः। संधिविग्रहयानासनद्वैधीभावसमाश्रयाणां कामन्दकोक्तानामैश्वर्यधर्मयशःश्रीज्ञानवैराग्याणां पुराणप्रसिद्धानां वा षण्णां गुणानां समूहः षाड्गुण्यं तेन परितः पूरिता॥१३५॥ नित्यं दयया क्लिन्ना सार्द्रा। तृतीयातिथिनित्या नित्यक्लिन्नेत्युच्यते। इयं गरुडपुराणे ‘नित्यक्लिन्नामथो वक्ष्ये त्रिपुरां भुक्तिमुक्तिदामित्यादिना प्रपञ्चिता तद्रूपा वा। निर्गतोपमा सादृश्यंयस्याः सा निरुपमा। ‘न तस्य प्रतिमा अस्ती’ति श्रुतेः। निर्गतं बाणं शरीरं यस्मिंस्तदशरीरम्। ‘एतद्बाणमवष्टभ्ये’ति श्रुतौ वेदान्तिभिर्गीर्वाणपदे च मीमांसकैर्बाणशब्दस्य शरीरपरत्वेन व्याख्यानात्। ‘शरीरे बाणमुद्गला’वित्यमरशेषाच्च। अशरीरं इयत्तानवच्छिन्नं सुखं मोक्षाख्यं ददातीति तथा। कौर्मे हिमवन्तंप्रति देवीवाक्यं ‘मामनादृत्य परमं निर्वाणममलं पदम्। प्राप्यते नहि शैलेन्द्र ततो मां शरणं व्रज॥ एकत्वेन पृथक्त्वेन तथाचोभयतोऽपि वा। मामुपास्य महाराज ततो,
‘प्रभावती प्रभारूपा प्रसिद्धा परमेश्वरी।
मूलप्रकृतिरव्यक्ता व्यक्ताव्यक्तस्वरूपिणी॥१३७॥
——————
यास्यसि तत्पद’मितिः। षोडशैव षोडशिकाः नित्याश्च ताः पोड़शिकाश्च कामेश्वर्यादित्रिपुरसुन्दर्यन्तास्तासां रूपाणि यस्याः सा। उक्तं च तन्त्रराजे ‘आद्याया ललितायाः स्युरन्याः पञ्चदशागाः। ललिताङ्गित्वरूपेण सर्वासामात्मविग्रहे’ति। षोडश्येव षोडशिकेति वा। नित्यो विकल्परहित आसमन्तात्षोडशिको ग्रहयागाभ्यासविशेषो येषु क्रतुषु तैरासमन्ताद्रूप्यते प्रीयत इति वा। अतिरात्रे विकल्पितस्यापि षोडशीग्रहस्य ‘उत्तरेहन् द्विरात्रस्य गृह्यते’ इत्यादिवचनैरुत्तरक्रतुषु नित्यत्वात्। उक्तंच शक्तिरहस्ये ‘कोटिभिर्वाजपेयानां यथा षोडशकोटिभिः। प्रीयतेऽम्बा तथैकेन षोडश्युच्चारणेन से’ति। श्रीर्विषं कण्ठे यस्य सः श्रीकण्ठः शिवस्तस्यार्धं शरीरमस्याः। श्रीकण्ठेनार्धशरीरवतीति वा। तदभिन्नार्धशरीरशालिनीति यावत्। अतएवैकस्यैव द्व्यात्मकत्वं वृहदारण्यके श्रूयते ‘आत्मैवेदमग्र आसी’दिति प्रक्रम्य ‘स इममेवात्मानं द्वेधाऽपातयत्ततः पतिश्च पत्नी चाभवतामिति। अथवा श्रीकण्ठवदर्धे शरीरे अस्याः श्रीकण्ठस्य यथा किंचिन्नीलं किंचिच्छुक्लं शरीरं तद्वदुभयरूपेति यावत्। तदुक्तं वायुपुराणे ‘तत्र या सा महाभागा शंकरस्यार्धकायिनी। कायार्थं दक्षिणं तस्याः शुक्लं वामं तथा सितम्॥ आत्मानं विभजस्वेति प्रोक्ता देवी स्वयंभुवा। तदैव द्विविधा भूता गौरी कालीति सा द्विजा’ इति। यद्वा ‘अः श्रीकण्ठः सुरेशश्च ललाटं केशवोऽमृते’ति मातृकाकोशाच्छ्रीकण्ठोऽकारः स एवार्धंशरीरमस्या वाग्रूपाया इत्यर्थः। तथाच श्रूयते ‘अकारो वै सर्वा वाक्सैपा स्पर्शोष्मभिर्व्यज्यमाना बह्वीनानारूपा भवती’ति। अकाररूपा पराख्या प्रथमा वागेव वैखर्यात्मिका जातेति फलितार्थः। उक्तंच सूतसंहितायां ‘वागुद्भूता पराशक्तिर्या चिद्रूपा पराभिधा। वन्दे तामनिशं भक्त्या श्रीकण्ठार्धशरीरिणी’मिति। यद्वा एकार्थरूपाया देव्या अर्धान्तरः श्रीकण्ठः परिपूर्तिकर इति यावत्। तदपि तत्रैवोक्तम् ‘इच्छासंज्ञा च या शक्तिः परिपूर्णा शिवोदरे’ति। शैवे मातृकान्यासेऽर्धं पूर्णोदर्यादिशक्तिभिरर्धं श्रीकण्ठादिशिवैः पूर्यत इति फलितार्थः। यद्वा अकारस्य यल्लेखनदशायां कामकलासमानजातीयमर्धं तदभिन्नशरीरवतीति॥१३६॥ प्रभा अणिमाद्या आवरणदेवताः। ‘अणिमादिभिरावृतां मयूखं’रिति वचनात् तद्वती। ताभिरावृता किरणास्तावद्गुणस्वरूपा न पुनर्द्रव्यान्तराणीति प्राचां पक्षः ‘किरणा गुणा न दव्वं तेषु पयासो गुणो न सो दव्वो’ इति धर्मसंग्रहिण्यादौ ग्रन्थे हरिभद्रादिभिर्जैनसूरिभिरुट्टङ्कितः। ‘किरणा गुणा न द्रव्यं तेषु प्रकाशो गुणो न स द्रव्य’मिति तु तच्छाया। ततश्च गुणगुणिनोरभेदादाह। प्रभारूपा अणिमाद्या देवताः स्वरूपमेव यस्याः। ‘मनोमयो भारूप’ इति श्रुतेः। सर्वैरहमिति वेद्यत्वात्प्रसिद्धा। तथाच देवीभागवते ‘तामहं प्रत्ययव्याजात्सर्वे जानन्ति जन्तव’ इति। तत्रैव प्रथमस्कन्धारम्भे ‘सर्वचैतन्यरूपां तामाद्यां विद्यां च धीमही’ति। परमा उत्कृष्ट च सेश्वरी स्वामिनी च। मूलस्य श्रीविद्यामन्त्रस्य प्रकृतिः कारणभूतप्रकाशविमर्शाख्या
क्षरद्वयरूपा। सांख्यमतप्रसिद्धा वा मूलप्रकृतिः। यदाहुः ‘मूलप्रकृतिरविकृतिर्महदाद्याः प्रकृतिविकृतयः सप्त। षोडशकस्तु विकारो न प्रकृतिर्न विकृतिः पुरुष’ इति। मृगेन्द्रसंहितायां तु ‘महदादिसप्तकरूपसुषुम्णावेष्टिता कुण्डलिन्येवाष्टप्रकृतिरूपा मूलप्रकृतिरुच्यत’इत्युक्तम्। तेन तद्रूपा वा। अथवा पृथिव्यादीनामाकाशान्तानां मध्ये पूर्वपूर्वस्य विकृतिभूतस्योत्तरोत्तरं भूतं प्रकृतिः। आकाशस्य तु ब्रह्मैव प्रकृतिः। ‘आत्मन आकाशः संभूत’ इति श्रुतेः। तस्य तु न प्रकृत्यन्तरमतो मूलस्थानीया प्रथमा प्रकृतिरित्यर्थः। अतएव पञ्चरात्रागमे शिववाक्यम् ’ प्रादुरासीज्जगन्माता वेदमाता सरस्वती। यस्या न प्रकृतिः सेयं मूलप्रकृतिसंज्ञिता। तस्यामहं समुत्पन्नस्तत्त्वैस्तैर्महदादिभि’रिति। अत्रेदं बोध्यम्— नियतकालपरिपाकानां हि कर्मणां मध्ये परिपक्वानामुपभोगेन क्षयादितरेषां च पक्वानां भोगसंभवेन तदर्थायाः सृष्टेरनुपयोगात्प्राकृतप्रलयो भवति। तदा ग्रस्तसमस्तप्रपञ्चा माया स्वप्रतिष्ठे परमशिवे निष्कले विलीना सती यावदवशिष्टकर्मपरिपाकं तथैव तिष्ठति। तदुक्तं ‘प्रलये व्याप्यते तस्यां चराचरमिदं जग’दिति। विष्णुपुराणेऽपि ‘जगत्प्रतिष्ठा देवर्षे पृथिव्यप्सु प्रलीयते। तेजस्यापः प्रलीयन्ते तेजो वायौ प्रलीयते॥ वायुः प्रलीयते व्योम्नि तदव्यक्तेप्रलीयते। अव्यक्तं पुरुषे ब्रह्मन्निष्कले संप्रलीयत’ इति। अव्यक्तं माया। तस्याश्च लयो नाम मुक्ताविव नात्यन्तिको नाशः किंतु सुषुप्तावन्तःकरणवृत्तीनामिव मायावृत्तीनामनुदयादत्यन्तनिर्विकल्पात्मनः परमात्मप्रकाशस्य बलाद्भानसत्त्वेऽप्यप्रतिभातप्रायत्वम्। सर्वथा भानाभावे वस्तुन एवाभावापत्तेः इष्टापत्तावुत्तरत्र सर्गानुपपत्तेः। अवशिष्टैः प्राणिकर्मभिश्च तस्यां मायायां विलीयैव क्रमेण प्राप्तपरिपाकैः स्वफलप्रदानाय परशिवस्य सिसृक्षात्मिका मायावृत्तिरुपाद्यते। सैषा मायावस्था ईक्षणकामतपोविचिकीर्षादिशब्दैरुच्यते। ‘स ईक्षत लोकान्नु सृजा’ इत्यैतरेये। ‘तदैक्षत बहु स्यां प्रजायेये’ति छान्दोग्ये। ‘सोऽकामयत बहु स्यां प्रजायेये’ति तैत्तिरीये। ‘तपसा चीयते ब्रह्मे’ति मुण्डके। तादृशवृत्तिविषयतया सविकल्पकत्वेन मायाया यत्स्फुरणं सोऽयमबुद्धिपूर्वकस्तमसः सर्गः प्रथमः। ‘नासदासीन्नो सदासी’दित्यारभ्य ‘तम आसीत्तमसा गूलहमग्र’इत्यन्ता श्रुतिः ‘तस्मादव्यक्तमुत्पन्न’मित्यादिस्मृतिरप्येतत्परैव। एतस्मादविभागापन्नगुणत्रयादव्यक्ततमःपदवाच्यादन्तर्विभागस्थगुणत्रयात्मकस्येषदव्यक्तस्य महतः सर्गो द्वितीयः। तदुक्तं ‘अव्यक्तादन्तरुदितत्रिभेदग्रहणात्मकम्। महन्नाम भवेत्तत्त्वं महतोऽहंकृतिस्तथे’ति। तस्माद्बहिर्विभागगुणत्रयावस्थस्याहंकारस्य सर्गस्तृतीयः। वैकारिकस्तैजसश्च भूतादिश्चैव तामसः। त्रिविधोऽयमहंकारो महत्तत्त्वादजायते’ति वचनात्। अत्र भूतादेस्तामसत्वेन विशेषणादन्ययोः सात्त्विकराजसत्वे सूचिते। तत्र भूतादिनामकात्तामसादहंकाराद्रजसावष्टब्धात्पञ्चतन्मात्राणां सर्गश्चतुर्थः। वैकारिकनाम्नः सात्त्विकादहंकाराद्रजोवष्टब्धादेकादशेन्द्रियगणस्य सर्गः पञ्चमः। राजसात्तैजसादहंकारादुभयाधिष्ठातृदिग्वातार्कप्रचेतोश्व्यादिदेवतासर्गः षष्ठः। यदाहुः सांख्याः ‘सात्त्विक एकादशकः प्रवर्तते वैकृतादहं-
कारात्। भूतादेस्तामसतस्तन्मात्रं तैजसादुभय’मिति। शैवमते तु सात्त्विकादहमो मनः, राजसादहमो दशेन्द्रियाणीति विशेषः। यदाहुः शैवाः ‘सात्त्विकराजसतामसभेदेन स जायते पुनस्त्रेधा। स च तैजसवैकारिकभूतादिकनामभिः समुल्लसति॥ तैजसतस्तत्र मनो वैकारिकतो भवन्ति चाक्षाणि। भूतादेस्तन्मात्राण्येषां सर्गोऽयमेतस्मा’दिति। एते च षट्सर्गाः प्राकृताः। वृक्षादिरूर्ध्वस्रोतोरूपः पश्वादिस्तिर्यक्स्रोतोरूपो भूतप्रेतादिरर्वाक्स्रोत इति त्रयो वैकृताः। प्राकृतवैकृतात्मक एकः कौमारसर्ग इति। तदुक्तं विष्णुभागवते ‘आद्यस्तु महतः सर्गो गुणवैषम्यमात्मनः। द्वितीयस्त्वहमो यत्र द्रव्यज्ञानक्रियोदयः॥ भूतसर्गस्तृतीयस्तु तन्मात्रो द्रव्यशक्तिमान्। चतुर्थ ऐन्द्रियः सर्गो यस्तु ज्ञानक्रियात्मकः॥ वैकारिको देवसर्गः पचमो यन्मयं मनः। षष्ठस्तु तमसः सर्गो यस्त्वबुद्धिकृतः प्रभोः॥ षडिमे प्राकृताः सर्गा वैकृतानपि मे शृणु’ इत्यादि। अत्राव्यक्ताख्यतमःसर्गस्य षष्ठत्वोक्तिः पाठक्रमानुसारेण। आर्थक्रमात्तु तस्य प्रथमत्वमेव। अस्मिन्नेवार्थे वायुपुराणादीन्यप्युदाहार्याणि। एवं चाव्यक्तादिसर्गाणां मध्ये उत्तरोत्तरस्य पूर्वपूर्वं प्रकृतिः अव्यक्तस्य तु ब्रह्मैव प्रकृतिरिति सर्वसृष्टीनां मूलभूतत्वात्तस्य मूलान्तराभावाच्च मूलप्रकृतिरित्यर्थः। अतएव श्रूयते ‘इन्द्रियेभ्यः परा ह्यर्था’ इत्यारभ्य ‘महतः परमव्यक्तमव्यक्तात्पुरुषः परः। पुरुषान्न परं किंचित्सा काष्ठासा परा गति’रिति। अथवा मूकारः पञ्चसंख्यानां तन्मात्राणां लकारस्त्वव्यक्तमहदहंकाराणां त्रयाणां बोधकः। तेनाष्टविधा प्रकृतिरित्यर्थः। तथाच समाससूत्रं ‘अष्टौ प्रकृतय’ इति। अथ क्रमेण सर्वस्वरूपैः स्तोतुमुपक्रमते। अव्यक्ता प्राथमिकमायास्फूर्तिरूपा। सांख्यमते प्रधानप्रकृत्यादिपदवाच्यमव्यक्तं तद्रूपा वा। तदुक्तं सांख्यसप्तत्यां ‘सूक्ष्ममलिङ्गमचेतनमनादिनिधनं तथा प्रसवधर्मि। निरवयवमेकमेव हि साधारणमेतदव्यक्त’मिति। पञ्चशिखाचार्यैरपि ‘अनादिमध्यं महतः परं ध्रुवं प्रधानमव्यक्तमुशन्ति सूरय’ इति। तच्च गुणत्रयसमष्टिरूपमेवेति ‘सत्त्वादीनामतद्धर्मत्वं तद्रूपत्वादिति सांख्यप्रपञ्चनसूत्रे स्पष्टम्। ब्रह्मैव वाऽव्यक्तपदेनोच्यते। ’ तदव्यक्तमाह ही’त्यधिकरणे ‘न चक्षुषा गृह्यते नापि वाचा नान्यैर्देवैस्तपसा कर्मणा वे’त्यादिश्रुतिभिस्तथा निर्णयात्। विष्णुस्वरूपेति वार्थः। ‘प्रधानमव्ययं योनिरव्यक्तं प्रकृतिस्तमः। विष्णोरेतानि नामानि नित्यं प्रभवधर्मिण’ इति लैङ्गात्। व्यक्तं महत्तत्त्वं पूर्वस्मादभिव्यक्तत्वान्महृत्वाच्च। आसमन्ताद्व्यक्त आव्यक्तस्तज्जन्योऽहंकारः तदुभयस्वरूपिणीत्येकं पदम्। व्यक्तेत्यस्य भिन्नपदत्वं स्वीकृत्योत्तरत्र ब्रह्मजननीति नामद्वयस्यैक्यमपि कर्तुं युक्तं पौनरुक्त्यादिदोषाप्रसारात्। प्रत्युत वकारवकारादिनामप्रायपाठानुगुण्याच्च। अस्मिन्पक्षे व्यक्तंस्वरूपमहन्तात्मकमस्या इति योज्यम्। पराहन्तायास्त्रिपुरसुन्दरीरूपत्वात् अहंकाराख्यतत्त्वे तदभिव्यक्तेः। व्यक्तमव्यक्तं चेति स्वरूपे अस्या इति वा। भूतभावविकारसाहित्यराहित्यवतीत्यर्थः। तदप्युक्तं लैङ्गे’भूतभावविकारेण द्वितीयेन सदुच्यते। व्यक्तं तेन विहीनत्वादव्यक्तमसदित्यपी’ति। क्षराक्षररूपेति वार्थः ‘उक्तमक्षरमव्यक्तं व्यक्तं क्षरमुदाहृत’मिति मत्स्यपुराणात्। समष्टिव्यष्टिरूपेति वा। ‘समष्टि-
व्यापिनी विविधाकारा विद्याविद्यास्वरूपिणी।
महाकामेशनयनकुमुदाह्लादकौमुदी॥१३८॥
———————
विदुरव्यक्तं व्यक्तंव्यष्टिं मुनीश्वरा’इति नृसिंहपुराणात्। त्रयोविंशतितत्त्वप्रकृतिरूपा वा। ‘त्रयोविंशतितत्त्वानि व्यक्तशब्देन सूरयः। वदन्त्यव्यक्तशब्देन प्रकृतिं च परां तथे’ति ब्रह्माण्डपुराणात्। अथवा व्यक्ताव्यक्ते च व्यक्ताव्यक्तं चेति पुनरेकशेषान्तरेण व्यक्तमव्यक्तं व्यक्ताव्यक्तं चेति त्रिविधलिङ्गरूपेत्यर्थः। तल्लक्षणानि ब्रह्मवैवर्तपुराणे ‘स्वायंभुवं बाणलिङ्गं शैललिङ्गमिति त्रिधा। कीर्तितं व्यक्तमव्यक्तं व्यक्ताव्यक्तमिति क्रमात्॥ व्यक्तं भुक्तिप्रदं मुक्तिप्रदमव्यक्तमुच्यते। भुक्तिमुक्तिप्रदं लिङ्गं व्यक्ताव्यक्तं प्रचक्षते॥ द्वित्रिस्तुलां समारूढं वृद्धिमेति न हीयते। तद्बाणलिङ्गमुदितं शेषं शैलं विदुर्बुधा’ इति। अथवा पक्वमलेषु सुव्यक्तं पाशबद्धेष्वव्यक्तं स्वरूपमस्याः। तदुक्तं शक्तिरहस्ये शक्तिपातशब्दार्थनिरूपणावसरे ‘व्यापिनी परमा शक्तिः पतितेत्युच्यते कथम्। उर्ध्वादधोगतिः पातो मूर्तस्यासर्वगस्य च॥ सत्यं सा व्यापिनी नित्या सहजा शिववत्स्थिता। किं त्वियं मलकर्मादिपाशबद्धेषु संवृता॥ पक्वदोषेषु सुव्यक्ता पतितेत्युपचर्यत’इति॥१३७॥ अहंकारत्रयकार्यरूपावशिष्टप्राकृतसर्गत्रितयात्मकतया परिणामाद्व्यापिनी। सर्वजगद्व्यापिका वा॥
इति भास्कररायेण कृते सौभाग्यभास्करे। चतुर्थशतकेनाभू-
त्पञ्चमी ज्वालिनी कला॥४००॥ इति श्रीमल्ललितासह-
स्रनामभाष्ये चतुर्थशतकं नाम पञ्चमी कला॥५॥
प्राकृता वैकृताः सर्गाः कौमारसर्गश्चेत्येवं विविधा आकारा यस्याः सा। ‘विद्यां चाविद्यां च यस्तद्वेदोभयं सह। अविद्यया मृत्युं तीर्त्वा विद्ययाऽमृतमश्नुत’इति श्रुतौ प्रसिद्धे विद्याविद्ये। विद्या स्वात्मरूपं ज्ञानम्। अविद्या चरमवृत्तिरूपं ज्ञानम्। तदुभयं स्वरूपमस्याः। उक्तंच बृहन्नारदीये ‘तस्य शक्तिः परा विष्णोर्जगत्कार्यपरिक्षमा। भावाभावस्वरूपा सा विद्याविद्येति गीयत’ इति। देवीभागवतेऽपि ‘ब्रह्मैव सातिदुष्प्रापा विद्याविद्यास्वरूपिणी’ति। तत्रैव स्थलान्तरे ‘विद्याविद्येति देव्या द्वे रूपे जानीहि पार्थिव। एकया मुच्यते जन्तुरन्यया बध्यते पुन’रिति। यद्वा विद्यैव चरमवृत्तिरूपं ज्ञानम्। अविद्या भेदभ्रान्तिरूपं ज्ञानम्। स्वः परब्रह्मात्मकं ज्ञानम्। स्वपदस्यात्मवाचित्वात्। ‘स्वो ज्ञातावात्मनी’ति कोशात्। एतत्त्रयं रूपमस्याः। उक्तंच लैङ्गे ‘भ्रान्तिर्विद्या परं चेति शिवरूपमिदं त्रयम्। अर्थेषु भिन्नरूपेषु विज्ञानं भ्रान्तिरुच्यते॥ आत्माकारेण संवित्तिर्बुधैर्विद्येति कथ्यते। विकल्परहितं तत्त्वं परमित्यभिधीयत’इति। महांश्चासौ कामेशश्चेति वा महाकामो महेच्छो महाशयश्चास / वीशश्चेति वा महाकामेशस्तस्य नयने एव कुमुदे कैरवे रक्तपङ्कजे वा तयोराह्लादे विकासे सुखातिशयकृतनिमीलने वा कौमुदी चन्द्रिकेव। कार्तिकपूर्णिमेवेति वा। ‘कुमुदं कैरवे रक्तपङ्कजे कुमुदः कपौ। कौमुदः कार्तिके मासि चन्द्रिकायां च कौमुदी’ति यादवः। अथवा। कुत्सिता नश्वरत्वाधिकदुःखसंमिश्रत्वादि-
भक्तहार्दतमोभेदभानुमद्भानुसंततिः।
शिवदूती शिवाराध्या शिवमूर्तिः शिवंकरी॥१३९॥
शिवप्रिया शिवपरा शिष्टेष्टा शिष्टपूजिता।
अप्रमेया स्वप्रकाशाऽमनोवाचामगोचरा॥१४०॥
——————
हेतुभिर्निन्द्या मुत्प्रीतिर्येषां ते कुमुदो वैषयिकाः। अतएव तेषामनुकम्प्यत्वाभिप्रायेण ‘कृपणे कुमुदे कुमुदि’ति शाश्वतः। ’ स्यात्कुमुत्कृपणेऽन्यवदि’ति विश्वश्च। तेषामासमन्ताद्व्याप्तो ह्लादः सुखातिशयो मोक्षरूप इति यावत्। सच महाकामेशंप्रति नयनेन प्रापणेनेति तृतीयासमासः। शिवप्रापणजन्यस्य वैषयिकनिष्ठस्य सुखस्य कौमुदी प्रकाशिका॥१३८॥ भक्तनां हृदि भावनीयानि तमांस्यावरणशक्तिमन्त्यज्ञानानि तेषां भेदे नाशने भानुमतः सूर्यस्य भानुसंततिः किरणपरम्परेव। ‘हृदयस्य हृल्लेखयदण्लासेष्वि’ति हृदादेशः। ‘तत्र भवः’ इत्यण्। शिवो दूतोऽल्पं यथा भवति तथा संदेशप्रापको यस्याः सा शिवदूती। ‘दूञ् उपतापे’। यथोक्तवदकृत्वा दूतोऽप्युपतापकः। ‘दूती संचारिके समे’ इति कोशे संचारशब्दोऽपि संदेशसंचारणपरः। दुनोतेर्निष्ठायां ‘दुतनिभ्यां दीर्घश्चे’ति दीर्घः। ‘क्तादल्पाख्याया’मिति ङीष्। बहुव्रीहेः क्तान्ताददन्तादल्पत्वे द्योत्ये स्त्रियां ङीषिति तदर्थः। उक्तंच मार्कण्डेयपुराणे ‘यतो नियुक्तो दौत्येन तया देव्या शिवः स्वयम्। शिवदूतीति लोकेऽस्मिंस्ततः सा ख्यातिमागते’ति। एतद्व्याख्याकारास्तु शिवेन संदेशं प्रापयतीति शिवदूती। गौरादेराकृतिगणत्वान्ङीष्। बहुव्रीहौ तु टाप् स्यादित्याहुस्तच्चिन्त्यम्। इयं च पुष्कराख्ये तीर्थे स्थिता। तदुक्तं पद्मपुराणे पुष्करखण्डे ‘अथ तेऽन्याः प्रवक्ष्यामि पुष्करे या व्यवस्थिता’ इति प्रकृत्य ‘शिवदूती तथा वेदी क्षेमा क्षेमंकरी सदे’त्यादि। शिवेनाराध्योपास्या। तदुक्तं ब्रह्माण्डपुराणे ‘शिवोऽपि यां समाराध्य ध्यानयोगबलेन च। ईश्वरः सर्वसिद्धीनामर्धनारीश्वरोऽभवदि’ति। शंकरोपासितचतुष्कूटविद्यास्वरूपा वा। शिव एव मूर्तिः स्वरूपं यस्याः शिवशक्त्योरभेदात्। तदुक्तं ‘एको रुद्रः सर्वभूतेषु गूढो माया रुद्रः सकलो निष्कलश्च। स एव देवी न च तद्विभिन्ना ह्येतज्ज्ञात्वैवामृतत्वं व्रजन्ती’ति। शिवा मङ्गलमयी मूर्तिर्यस्या इति वा। शिवो मोक्ष एव रूपं यस्या वा। मोक्षस्यात्ममात्रस्वरूपत्वात्। तदुक्तं सौरसंहितायां चतुर्दशाध्याये ‘अथ मुक्तेः स्वरूपं ते प्रवक्ष्यामि समासत’ इत्यारभ्य ‘तस्मादात्मस्वरूपैव परा मुक्तिरविद्यया। प्रतिबद्ध। विशुद्धस्य विद्यया व्यज्यतेऽनघे’त्यन्तम्। भक्तं शिवमेव करोति अविद्यापाशनिरासेन मुक्ताप्राप्यं ब्रह्म करोतीवेत्युपचारात्। मङ्गलं करोतीति वा शिवंकरी। ‘कृञो हेतुताच्छील्यानुलोम्येष्वि’ति टः। ‘शिवशमरिष्टस्य करे’ इति मुम्॥१३९॥ शिवस्य प्रिया। शिवः प्रियो यस्या इति वा। शिवात्परा शिवस्य शक्त्यधीनात्मलाभकत्वात्। शिवः परो यस्या इति वा। शिवप्रतिपादकत्वाद्वा शिवपरा। अयं शिवशब्द एतत्पर इत्यत्रैवमेव व्याख्यादर्शनात्। शिष्टान्यनुशिष्टानि विहितकर्माणि इष्टानि इच्छाविषयाः प्रियाणि यस्याः सा शिष्टेष्टा। ‘इषु इच्छाया’मिति धातोः कर्मणि निष्ठायामिष्टमिति
चिच्छक्तिश्चेतनारूपा जडशक्तिर्जडात्मिका।
——————
रूपम्। यद्वा शिष्टैर्विहितकर्मभिरिष्टा पूजिता। यजतेर्निष्ठायां संप्रसारणे ‘व्रश्चे’ति षत्वे च रूपम्। ‘स्वस्ववर्णाश्रमैर्धर्मैः सम्यग्भगवदर्पितैः। यत्पूजनं न तद्गन्धमाल्यादीनां समर्पणै’रिति वचनात्। ‘आचारप्रभवो धर्मो धर्मस्य प्रभुरच्युत’इति महाभारतबृहन्नारदीययोर्वचनाच्च। यद्वा ‘न पाणिपादचपलो न नेत्रचपलो भवेत्। नच वागङ्गचपल इति शिष्टस्य गोचरः॥ पारंपर्यागतो येषां वेदः सपरिबृंहणः। तें शिष्टा ब्राह्मणा ज्ञेयाः श्रुतिप्रत्यक्षहेतवः’ इति वसिष्ठसूत्रोक्तलक्षणकाः शिष्टास्ते इष्टा यस्याः सा। यद्वा शिष्टैरिष्टा पूजिता। इममेवार्थं स्पष्टमाचष्टे शिष्टपूजिता।योग्या प्रमेया। प्रमेया न भवतीत्यप्रमेया। अकारार्थैर्ब्रह्मविष्ण्वादिभिः प्रमेया वा। अप्सु प्रमेया वा। ‘मन योनिरप्स्वन्तः समुद्र’ इति श्रुतेः। स्वः आत्माभिन्नः प्रकाशोयस्याः। दृश्यत्वाभावेन पराप्रकाश्यत्वात्। ‘अत्रायं पुरुषः स्वयंज्योति’रिति श्रुतेः। सुषु अप्सु प्रकाशो यस्या वा। मनांसि च वाचश्च मनोवाचस्तेषां तासां चागोचरा अविषयः। ‘यतो वाचो निवर्तन्ते। अप्राप्य मनसा सहे’ति श्रुतेः। विष्णुपुराणे प्रह्लादवचनं च ‘यातीतगोचरा वाचां मनसां चाविशेषणा। ज्ञानिज्ञानपरिच्छेद्या वन्दे तामीश्वरीं परा’मिति। ‘स्त्रीशूद्रद्विजबन्धूनां त्रयी न श्रुतिगोचरे’त्यादाविव गोचरशब्दस्य स्त्रीलिङ्गत्वम्। न विद्यते गोचरो यस्यामिति वा। वाङ्मनसविषय एकोऽपि पदार्थो यस्यां नास्ति। तद्गुणानामप्यानन्त्येन वाङ्मनसातीतत्वादिति भावः। यत्तु अन्त्या इत्यधिकृत्य ‘निर्मन् द्वे क्तिष्टे’ इति छलाक्षरसूत्रद्वयं पठ्यते। निः मन् क्तिः ष्ठाइत्येतदक्षरान्तानि चत्वार्येव नामानि द्विद्विपदघटितानि भवन्तीति तदर्थः। तत्समानविभक्तिकपदद्वयपरम्। ‘अप्राप्ते वाक्यमर्थव’दिति न्यायेन तादृशस्थल एव नामद्वयभ्रमनिरासकत्वेन सार्थक्यात्। यथा ‘परं ज्योतिः परं धाम परा शक्तिः परा निष्ठे’ति। इदं तु भिन्नविभक्तिपदद्वयघटितमेकं नामेत्यदोषः। यद्यपि मनश्च वाचा च मनोवाचे ते च ते आमे च अपक्वेच मनोवाचामे। ‘विशेषणं विशेष्येण बहुल’मित्युक्तेर्न पूर्वनिपातः। ते न भवत इत्यमनोवाचामे। तयोर्गोचरेत्येकपदमेवेदं नाम सुवचम्। ‘यतो वाचो निवर्तन्ते’इति श्रुतेर्वेदैकवेद्यत्वश्रुत्या ‘मनसैवानुद्रष्टव्य’ इत्यादिश्रुत्या च सह विरोधस्य भामत्यां शक्तिलक्षणापरतया पक्वापक्वमनःपरतया च व्यवस्थाकल्पनेन परिहृतत्वात्। तयापि ‘गस्वियादृढीठकां पृण’ इति छलाक्षरसूत्रविरुद्धम्। तस्य च छाया ‘पृकिकुरवीरिवदृढीठकांप17ृ’ इत्येकादशभिरक्षरैः र्भाष्यकारैरुक्ता। तेषु च प्रकृतं नामारभ्य पञ्चकोशान्तरस्थितेत्यन्तानि चतुर्दश नामानि प्रतिपद्यन्ते। पवर्गीयाद्यक्षरकाष्टाक्षरनामभ्यां संपुटीकृतानि द्वादश नामानीत्यर्थः। ‘प्रकृतनामन्येकाक्षरप्रश्लेषे तु नवाक्षरत्वं स्वरादित्वं च स्यादिति तादृशेन संपुटीकरणाभावाद्भवति सूत्रविरोधः। सूत्राणामपि दृष्टोपायनिबन्धनमात्ररूपत्वेन तदुक्तोपायस्योपायान्तरादूषकत्वपर्यालोचने तु सोऽपि पक्षः साधुरेव। एवमन्यत्रापि द्रष्टव्यम्॥१४०॥ चिच्छक्तिरौपम्यशक्तिः। ‘चिदित्युपमाया’मिति
गायत्री व्याहृतिः संध्या द्विजवृन्दनिषेविता॥१४१॥
——————
यास्कस्मृतेः। ‘चिदिति चोपमार्थे प्रयुज्यमाने’ इति पाणिनिस्मरणाच्च। ‘द्वेअक्षरे ब्रह्मपरे अनन्ते विद्याविद्ये निहिते यत्र गूढे। क्षरं त्वविद्या ह्यमृतं तु विद्या विद्याऽविद्ये ईशते यस्तु सोऽन्यः॥’ इति श्वेताश्वतरनिर्दिष्टं विद्यापदेनोच्यते। अविद्यानिवारकत्वरूपं सामर्थ्यं चैतन्यापरपर्यायं वा चिच्छक्तिः। देवीभागवते पञ्चमस्कन्धे ‘वर्तते सर्वभूतेषु शक्तिः सर्वात्मना नृप। शववच्छक्तिहीनस्तु प्राणी भवति सर्वथा। चिच्छक्तिःसर्वभूतेषु रूपं तस्यास्तदेव ही’ति। तदेवाह— चेतनारूपा। ‘चिच्छक्तिः परमेश्वरस्य विमला चैतन्यमेवोच्यते’ इति संक्षेपशारीरकाचार्याः। ‘चैतन्यस्वरूपा शक्तिः’ इति गौडपादीयसूत्रं च। देवीभागवते प्राथमिकश्लोकेऽपि ‘सर्वचैतन्यरूपां तामाद्यां विद्यां च धीमहि। बुद्धिं या नः प्रचोदयात्’ इति। इयं च त्रिचरणा गायत्री। अतएव मात्स्ये ‘गायत्र्या च समारम्भस्तद्वै भागवतं विदु’रिति। ‘सैषानन्दस्य मीमाँसा भवती’ति श्रुतिरपि। आनन्दस्य ब्रह्मणः सैषा चिद्रूपा शक्तिर्मीमांसा भवति विमर्शात्मिका भवतीति शंकरारण्यचरणैर्विद्यारत्ने व्याख्यानदर्शनात्। स्रष्टव्यजगदात्मकशक्यप्रतियोगिको मायापरिणामविशेषो जडशक्तिः। सृज्यशक्तिमात्रोपलक्षणमेतत्। उक्तंच विष्णुपुराणे ‘शक्तयः सर्वभावानामचिन्त्यज्ञानगोचराः। शतशो ब्रह्मणस्तास्तु सर्गाद्या भावशक्तयः॥ भवन्ति तपसां श्रेष्ठ पावकस्य यथोष्णता। निमित्तमात्रमेवासौ सृज्यानां सर्गकर्मणि॥ प्रधानकारणीभूता यतो वै सृज्यशक्तयः। निमित्तमात्रं मुक्त्वैकं नान्यत्किंचिदपेक्षते॥ नीयते तपसां श्रेष्ठ स्वशक्त्या वस्तु वस्तुता’मिति। जडं दृश्यमात्रमात्मा स्वरूपं यस्या मायायाः सा जडात्मिका। चतुर्विंशत्यक्षरं छन्दो गायत्री। ‘गायत्री छन्दसामह’मिति गीता। ‘गायत्री छन्दसामसी’ति कौर्मे देवीस्तवे च। यद्वा गायत्र्याख्या गोपकन्या ब्रह्मणः कनिष्ठपत्नी। तदुक्तं पद्मपुराणे पुष्करक्षेत्रे ब्रह्मणि यागं कुर्वति सति समाहूता सावित्री, लक्ष्म्यादिका अद्यापि नागतास्ताभिः सहागच्छामीत्युत्तरमदात्। तेन वचनेन कुपितो ब्रह्मा शक्तिहस्तात्कांचिद्गोपकन्यामानाय्यविष्णुं प्रत्युक्तवानिति प्रकृत्य ‘तावद्ब्रह्मा हरिं प्राह यज्ञार्थं सत्वरं च नः। दैवी चैषा महाभाग गायत्री नामतः प्रभो॥ एवमुक्ते तदा विष्णुर्ब्रह्माणं प्रोक्तवानिदम्। तदेनामुद्वहस्वाद्य मया दत्तां तव प्रभो॥ गान्धर्वेण विवाहेन विकल्पं मा कृथाश्चिरम्। गृहाण गोपकन्याया अस्याः पाणिमनाकुलम्॥ गान्धर्वेण ततो गोपीमुपयेमे पितामहः’ इत्यादि। तेन तादृशगोपकन्यारूपेत्यर्थः। अथवा ‘गायन्तं त्रायते यस्माद्गायत्री तेन कथ्यत’ इति गायत्रीकल्पे भरद्वाजस्मृत्युक्तनिर्वचनाद्वेदमातरि प्रसिद्धो गायत्रीशब्दस्तदभेदादम्बाया अपि वाचकः। ‘आतोऽनुपसर्गे क’ इति कः। गौरादित्वान्ङीष्। तदुक्तं पद्मपुराणे ‘विशेषात्पुष्करे स्नात्वा जपेन्मां वेदमान्तरम्। अष्टाक्षरा स्थिता चाहं जगद्व्याप्तं मया त्विद’मिति। देवीपुराणे तु ‘गायनाद्गमनाद्वापि गायत्री त्रिदशार्चितेत्युक्तम्। ‘गायति च त्रायते चे’ति तु छान्दोग्यम्। ‘गायत्री गायनात्मत्वा’दिति महावासिष्ठरामायणं च। व्याहृति-
र्व्याहरणमुच्चारणं तद्रूपा। मन्त्रविशेषरूपा वा। वायुपुराणे तु ‘मयाभिव्याहृतं यस्मात्त्वं चैव समुपस्थिता। तेन व्याहृतिरित्येवं नाम ते सिद्धिमेष्यती’ति निरुक्तम्। आदित्यावच्छिन्नचैतन्यस्य स्वस्य चाभेदभावनं संध्यापदार्थः। सम्यग्ध्यायन्त्यस्यामिति व्युत्पत्तेश्च। तदुक्तं महाभारते ‘संध्येति सूर्यगं ब्रह्म संध्यानादु विभागतः। ब्रह्माद्यैः सकलैर्भूतैस्तदंशैः सच्चिदात्मनः॥ तस्य दासोऽहमस्मीति सोऽहमस्मीति या मतिः। भवेदुपासकस्येति ह्येवं वेदविदो विदु’रिति। तदभेदादियमपि संध्या। तथाच व्यासः ‘न भिन्नां प्रतिपद्येत गायत्रीं ब्रह्मणा सह। साहमस्मीत्युपासीत विधिना येनकेनचि’दिति। भारद्वाजस्मृतावपि ‘ब्रह्माद्याकारभेदेन या भिन्ना कर्मसाक्षिणी। भास्वतीश्वरशक्तिः सा संध्येत्यभिहिता बुधै’रिति। ‘गायत्री सशिरास्तुरीयसहिता संध्यामयीत्यागमैराख्याता त्रिपुरे त्वमेव महतां शर्मप्रदा कर्मणा’मित्यभियुक्तोक्तिरिति। अतएव संधिकालोपास्यदेवतापरोऽयं शब्द इति माधवः। सम्यग्ध्येयत्वात्संध्या। ‘आतश्चोपसर्ग’ इति ‘कर्मण्यणि’ति पारिजातकारः। इयं च ब्रह्मणो मानसपुत्री। तदुक्तं कालिकोपपुराणे ‘तदा तन्मनसो जाता चारुरूपा वराङ्गना। नाम्ना संध्येति विख्याता सायंसंध्या जयन्तिका॥ ब्रह्मणो ध्यायतो यस्मात्सम्यग्जाता वराङ्गना। अतः संध्येति लोकेऽस्मिन्नस्याः ख्यातिर्भविष्यती’ति। भगवतीपुराणेऽपि ‘या सा संध्या ब्रह्मसुता मनोजाता पुराऽभवत्। तपस्तप्त्वा तनुं त्यक्त्वा सैव भूता ह्यरुन्धती’ति। रेणुकापुराणे तु ‘इडैकास्य महाकाली महालक्ष्मीस्तु पिङ्गला। एकवीरा सुषुम्णेयमेवं संध्या त्रयात्मिके’त्युक्तम्। एकवर्षात्मककन्यारूपा वा ‘एकवर्षा भवेत्संध्ये’ति कन्याप्रकरणे धौम्यवचनात्॥
अथ परिभाषायां षट्त्रिंशत्पदानि विभजते॥ दिवि कूटैरुदिते द्वे द्विर्द्विर्गीर्णा विभाति नदी। चत्वारो रूढफलं शंभुर्भोजो बली राजा॥१८॥ द्वे इति पञ्चाक्षरे। चत्वार इति यक्षराः शब्दाः एकस्मिन्नर्थे ‘अविशिष्टेषु समं स्या’दिति न्यायेन तथैव पर्यवसानान्नकारस्य दशाक्षरं नामेत्यर्थः। स्पष्टमन्यत्॥१८॥
द्विजवृन्दैस्त्रैवर्णिकसमूहैर्निषेवितोपास्या संध्यात्वादेव। उक्तंच रेणुकापुराणे ‘संध्यैका सर्वदा देवैर्द्विजैर्वन्द्या महात्मभिः। आसने शयने याने भोजने रेणुकैव ही’ति। अथवा व्याहृत्यादिनामत्रयमवस्थात्रयवत्परम्। व्याहृतिर्वाग्व्यापारो जाग्रदवस्थोपलक्षकः। संध्याशब्दो’ऽवस्थयोः संधौ जात’ इति व्युत्पत्त्या ‘संध्ये सृष्टिराह ही’ति व्याससूत्रे प्रयोगाच्च स्वप्नपरः। अवस्थाविशेषत्वाभिप्रायेण सदवच्छिन्नदेव्यभिप्रायेण च स्त्रीलिङ्गः। द्विजाः पक्षिण इव द्विजा जीवास्तेषां वृन्देन नितरामभेदेन सेविता संबद्धेति सुषुप्तिदृशोक्तिः। यथा पक्षिणः संचारेण श्रान्ताः पक्षौ संकोच्य नीडे लीयन्ते तथा जीवा अपि श्रान्ता जागरस्वप्नौ संकोच्य परब्रह्मणि निलीयन्त इत्युक्तेः। यच्छ्रुतं बृहदारण्यके ‘तद्यथास्मिन्नाकाशे श्येनो वा सुपर्णो वा विपरिपत्य श्रान्तः संहत्य पक्षौ संल्लयायैव ध्रियत एवमेवायं पुरुष एतस्मा अन्ताय धावति यत्र सुप्तो न
तत्त्वासना तत्त्वमयी पञ्चकोशान्तरस्थिता।
निःसीममहिमा नित्ययौवना मदशालिनी॥१४२॥
________
कंचन कामं कामयते न कंचन स्वप्नं पश्यती’ति। ‘सता सोम्य तदा संपन्नो भवती’ति श्रुतेश्च। ‘तदभावो नाडीषु तच्छ्रुतेरात्मनि चे’ति तार्तीयीकाधिकरणे तथानिर्णयाच्च॥१४१॥ शिवादिक्षित्यन्तानि षट्त्रिंशत्तत्त्वान्येवासनं योगपीठाख्यमासनंयस्याः। तत्त्वान्यस्यति क्षिपतीति वा। तत्पदस्य बुद्धिविपरिवृत्तिविषये शक्तिः।भगवत्यपि सर्वेषां बुद्धौविपरिवर्तत एवेति भवति तत्पदवाच्या। एवमेव चोक्तं’यत्तत्पदमनुत्तम’मिति विष्णुसहस्रनामभाष्ये आचार्यभगवत्पादैः। ततश्च तत्र’यदे नमः तदे नमः’ इति केषांचिच्चतुर्थ्यन्तमन्त्रकल्पनं चिन्त्यं, यत्तत्पदशक्यतावच्छेदकापरित्यागेनैव ब्रह्मणि प्रवृत्तौ संज्ञात्वाभावेन सर्वनामत्वानपायात्। किंचतवर्गीयाक्षरचतुष्टयान्यतमान्तत्वेऽपि चर्त्वेन यत्तत्पदमिति संहितोपपत्तेर्दकारान्तत्वमेवेति तयोः प्रातिपदिकयोर्दुरुपपादम्। तस्मात् यस्मै नमः तस्मै नमः इत्येवप्रयोगः। ब्रह्मविशेष्यकत्वाभिप्रायेण नपुंसकलिङ्गोपपत्तिः। एवमेव त्वंपदेनापि भगवती वाच्येति तुभ्यं नम इत्येव प्रयोगः। यदा तु तत्त्वमसीत्यत्रेव निर्गुणब्रह्मलक्षकेतत्त्वंपदे तदापि सर्वनामतानपायादुक्तविध एव प्रयोगः। नहि संकुचितवृत्तिकमपि विश्वपदं विश्वेदेवा इत्यादौसर्वनामतां जहाति। अयीति कोमलामन्त्रणेऽव्ययम्। गौरादेराकृतिगणत्वात्ततो ङीषि रूपमिदम्। जनमातृत्वाज्जनैरामन्त्रणीयेत्यर्थः। अयः शुभावहो विधिस्तद्रूपा वा। असीति पदार्थस्यैक्यस्य वाचकं वाऽयति पदम्। ‘अय पय गता’विति धातुपाठेन गत्यर्थस्य तत्रैव पर्यवसानात् अय्यैनमः इति प्रयोगः। चरमशतकान्तर्गतेन नाम्ना पौनरुक्त्यपरिजिहीर्षयेयं कल्पनासूत्रकृतामित्युपपत्तिः। एवमन्यत्राप्यूह्यम्। पञ्चसंख्याकाः कोशाः पञ्चकोशा इति मध्यमपदलोपी समासः। ते च पञ्च पचिकापूजने प्रसिद्धा मन्त्रविशेषाः। तदभेदात्तद्देवताभपि। ताश्च ज्ञानार्णवे ‘श्रीविद्या च परंज्योतिः परा निष्कलशांभवी। अजपा मातृका चेति पञ्च कोशाः प्रकीर्तिता’ इति। एतासु पञ्चदेवतासुश्रीचक्रराजेऽर्च्यमानासु परंज्योतिराद्याश्चतस्रो देवता अभितः सृष्ट्यादिचक्रेषुव्यष्टिसमष्टिभेदेन पूज्यन्ते। श्रीविद्या तु मध्ये बिन्द्विति स्थितिः। तेनपञ्चकोशानामन्तरे मध्ये स्थितेत्यर्थः। यद्वा सन्ति तावदस्मदादिशरीरेष्वन्नमयप्राणमयमनोमयविज्ञानमयानन्दमयाख्या अन्तरन्तः कक्ष्याक्रमेण पञ्चकोशपदवाच्याः पदार्थाः। एतेषां पञ्चानां मध्ये आन्तर आनन्दमयः कोशस्तत्राभेदेन स्थिता। आनन्दमयाधिकरणे वृत्तिकारैः ‘अन्योऽन्तर आत्मानन्दमय’ इत्यादिश्रुतिष्वानन्दमयस्य ब्रह्मरूपतोक्तेः। आचार्यभगवत्पादैस्त्वानन्दमयस्य शोधनीयेषुगणनादशुद्धत्वे सिद्धे ब्रह्मता नोपपद्यत इत्याशयेन ब्रह्मपुच्छवाक्य एव ब्रह्मनिर्देशोव्यवस्थापितः। तत्पक्षे ‘यदयमाकाश आनन्दो न स्या’दिति सामानाधिकरण्येनप्रयोगादानन्दमयकोशस्य पराकाशात्मकब्रह्मशरीरभूतचिच्छक्तिरूपत्वम्। श्रीकण्ठभाष्यतट्टीकादावयमर्थः स्पष्टः। ब्रह्मपुच्छपक्षे तु पश्चानामन्तरे मध्ये स्थितेत्यर्थः
मदाघूर्णितरक्ताक्षी मदपाटलगण्डभूः।
चन्दनद्रवदिग्धाङ्गा चाम्पेयकुसुमप्रिया॥१४३॥
कुशला कोमलाकारा कुरुकुल्ला कुलेश्वरी।
कुलकुण्डालया कौलमार्गतत्परसेविता॥१४४॥
__________
युक्तं चैतत्। ब्रह्मगीतायां तथैवोपबृंहणदर्शनात्। तदुक्तं ‘तथानन्दमयश्चापि ब्रह्मणान्येन साक्षिणा। सर्वोत्तरेण संपूर्णो ब्रह्म नान्येन केनचित्॥यदिदं ब्रह्मपुच्छाख्यंसत्यज्ञानाद्वयात्मकम्। सरसः सर्वदा साक्षान्नान्यथा सुरपुंगवाः’ इति। क्रोधभट्टारका अप्याहुः ‘अन्नप्राणमनः प्रबोधपरमानन्दैः शिरःपक्षयुक् पुच्छात्मप्रकटैर्महोपनिषदां वाक्यैः प्रसिद्धीकृतः। कोशैःपञ्चभिरेभिरेव भवतीमेतत्प्रलीनामितिज्योतिःप्रज्वलदुज्ज्वलात्मचपलां यो वेद स ब्रह्मवित्’ इति। निष्क्रान्तः सीमानं सीमां वानिःसीमा। निःसीमो वा निरवधिको महिमा यस्याः। ‘मनः’ इति निषेधान्न ङीप्।वैकल्पिको डाप्। अतो निःसीममहिम्ने नम इति वा निःसीममहिमायै नम इति वाप्रयोगः। कालत्रयेऽपि रजसोऽविरहान्नित्ययौवना। विषयान्तरसंपर्कशून्य आनन्दैकविषयको वृत्तिविशेषो मदस्तेन शालते शोभत इति तथा॥१४२॥ मदेन घूर्णितानि रक्तानि चाक्षीणि यस्याः। बाह्यविषयवैमुख्यं घूर्णनम्। मदेन पाटले श्वेतरक्ते गण्डभुवौ कपोलभित्ती यस्याः। मदो मद्यं लक्षणया तत्पानम्। यद्वा मदःकस्तूरी। पाटलं पुष्पविशेषः। मत्वर्थीयोऽच्। तद्वत्यौ मकरिकाचित्रिते कर्णावतंसवत्यौ च गण्डभुवौ यस्याः \। ‘मदो रेतसि कस्तूर्यां गर्वे हर्षेभदानयोः। मद्येऽपिमद आख्यात’ इति विश्वः। चन्दनस्य मलयजस्य द्रवेण घृष्टसारेण दिग्धानिलिप्तान्यङ्गानि यस्याः॥ चाम्पेयकुसुमं नागकेसरपुष्पं, चम्पासंबन्धिपुष्पं वा प्रियंयस्याः॥१४३॥ सृष्ट्यादिनिर्माणकौशलवत्त्वात्कुशला। कुशं जलं लाति आदत्तेइति वा आदन्तत्वात्कः कुत्सितः शलश्चन्द्रमा यस्या अग्रे तदधिककान्तिमत्त्वादिति वा। ‘शलं तु शल्लकीलोम्नि शलो भृङ्गीगणे विधा’विति विश्वः। कोमलःसुकुमार आकारोऽवयवविन्यासो यस्याः। कुरुकुल्लाख्यदेवी श्रीपुरेऽहंकारचित्तमयप्राकारयोर्मध्ये विमर्शमयवाप्यामधिकृता। तदुक्तं ललितास्तवरत्ने वापीं प्रकृत्य’कुरुविन्दतरणिनिलयां कुलाचलस्पर्धिकुचनमन्मध्याम्। कुङ्कुमविलिप्तगात्रीं कुरुकुल्लां मनसि कुर्महे सतत’मिति। तन्त्रराजे च द्वाविंशे पटले निरूपिता तद्रूपा।सजातीयानां मातृमानमेयानां समूहः कुलं तस्येश्वरी। मूलाधारकर्णिकामध्यगतोबिन्दुः कुलकुण्डं कमलकन्दमध्यस्थितच्छिद्रतुल्यं तदेवालयः स्वापस्थानं यस्याः।तस्मिन्नासमन्ताल्लयः सुप्तिरिव यस्या इति वा। सा कुण्डलिनीतियावत्। तदुक्तमाचार्यभगवत्पादैः ‘अवाप्य स्वां भूमिं भुजगनिभमध्युष्ठवलयं स्वमात्मानं कृत्वास्वपिषि कुलकुण्डे कुहरिणी’ति। स्वस्ववंशपरंपराप्राप्तो मार्गः कुलसंबन्धित्वात्कौलः।तदुक्तं व्रतखण्डे ‘यस्य यस्य हि या देवी कुलमार्गेण संस्थिता। तेन तेन च सापूज्या बलिगन्धानुलेपनै’रिति। ‘नैवेद्यैर्विविधैश्चैव पूजयेत्कुलमार्गत’ इति च। यद्वा
कुमारगणनाथाम्बा तुष्टिः पुष्टिर्मतिर्धृतिः।
शान्तिः स्वस्तिमती कान्तिर्नन्दिनी विघ्ननाशिनी॥१४५॥
तेजोवती त्रिनयना लोलाक्षीकामरूपिणी।
_________
समयमतं कलमतं मिश्रमतं चेति विद्योपास्तौगतत्रयम्। शुक्रवशिष्ठादिसंहितापञ्चकोक्तं वैदिकमार्गकरम्बितमाद्यम्। चन्द्रकुलादितन्त्राष्टकोक्तं तु चरमम्। कुलसमयोभयानुसारित्वात्। एतद्भिन्नतन्त्रोदितं कौलमार्गम्। कौलैर्मृग्यत इत्यर्थे कर्मणि घञ्।तत्तदुपास्तिभेदोऽधिकारभेदश्च तत्तत्तन्त्रेष्वेव स्पष्टः। तस्मिंस्तत्परैरासक्तैःसेविता॥१४४॥ कुमारः स्कन्दो गणनाथो गजाननस्तयोरम्बा माता। कुत्सितो मारगणःस्मरविकारसमूहो येषां तान्नाथानम्बते बध्नातीति वा। ‘अवि बन्धन’ इति धातुः।कुमारशब्देन तद्देवत्योऽहंकारो वा गृह्यते। तदुक्तं वराहपुराणे ‘पुरुषो विष्णुरित्युक्तःशिवो वा नाम नामतः। अव्यक्तं तु उमादेवी श्रीर्वा पद्मनिभेक्षणा। तत्संयोगादहंकारः स च सेनापतिर्गुह’ इति। तद्गणैर्नाथानतीवाहन्ताविष्टानम्बत इति। तुष्ट्यादीनि सप्तनामानि तोषपोषज्ञानधैर्यशमकल्याणवत्त्वकमनीयतावाचकानि सन्तितादृशभगवतीस्वरूपत्वाभिप्रायेण तामप्यभिदधति। तथाच मार्कण्डेयपुराणे ‘या देवीसर्वभूतेषु तुष्टिरूपेण संस्थिता। नमस्तस्यै नमस्तस्यै नमस्तस्यै नमोनमः’ इत्यादि।मल्लारिमाहात्म्येऽपि ‘यो देवः सर्वभूतेषु तोषरूपेण संस्थितः। नमस्तस्यै नमस्तस्मैनमस्तस्मै नमोनमः’ इत्यादि। देवीभागवते तृतीयस्कन्धे ‘बुद्धिः कीर्तिर्धृतिर्लक्ष्मीःशक्तिः श्रद्धा मतिः स्मृतिः। सर्वेषां प्राणिनां साम्बा प्रत्यक्षं तन्निदर्शन’मिति। पद्मपुराणे देवीक्षेत्रगणनावसरे ‘तुष्टिर्वस्त्रेश्वरे तथा। देवदारुवने पुष्टिः’, ‘धृतिः पिण्डारकक्षेत्रे’ इत्येवं तत्तत्क्षेत्राधिष्ठात्र्या भगवत्या नामेत्युक्तम्। मतिस्तु वायुपुराणेनिरुच्यते ‘बिभर्ति मानं मनुते विभागं मन्यतेऽपि च। पुरुषो भोगसंबद्धस्तेन चासौमतिः स्मृते’ति। तस्याश्च देवीरूपता सूतसंहितायाम् \। ‘यानुभूतिरुदिता मतिः परावेदमाननिरता शुभावहा। तामतीव सुखदां वयं शिवां केशवादिजनसेवितां नुमः’इत्यादि। शान्तिशब्देन वायवीयः कलाविशेषो वा कथ्यते। तदुक्तं शैवागमे ‘मलमायाविकारौघशान्तिः पुंसः पुनर्यया। सा कला शान्तिरित्युक्ता साधिकारास्पदंपद’मिति। बृहत्पाराशरस्मृतावपि ‘दशपञ्चाङ्गुलव्याप्तं नासिकाया बहिःस्थितम्।जीवो यत्र विशुध्येत सा कला षोडशी स्मृते’ति प्रकृत्य ‘सा च शान्तिः प्रकीर्तिते’त्यन्तम्। सुष्ठु अस्तिः सत्ता तद्वत्त्वेन वा स्वस्तिमती। सत्तायाः शोभनत्वं च पारमार्थिकत्वं व्यावहारिकसत्ताधिकत्वम्। ‘प्राणा वै सत्यं तेषामेष सत्यम्’ \। ‘तत्सत्वस्यसत्य’मिति च श्रुतेः। ‘स्वस्त्याशीःक्षेमनिष्पापपुण्यमङ्गलवाचक’ इति रत्नकोशः।‘स्वस्तीत्यविनाशिनामे’ति यास्कश्च। कान्तिशब्देनेच्छाशक्तिर्वोच्यते। नन्दयितृत्वान्नन्दिनी कामधेनुवंशोद्भवगोविशेषो वा। गङ्गास्वरूपा वा। विशेषेण घ्नन्तीतिविघ्ना विद्यान्तरायास्तान्नाशयितुं शीलमस्यास्तथा॥१४५॥ तेजसामादित्यादी -
मालिनी हंसिनी माता मलयाचलवासिनी॥१४६॥
__________
नामाधारभूतत्वात्तेजोवती। ‘एतस्मिन् खल्वक्षरे गार्गि सूर्याचन्द्रमसौ विधृतौतिष्टत’ इति श्रुतेः। त्रीणिसोमसूर्याग्निरूपाणि नयनानि नेत्राणि यस्याः। क्षुन्नादेराकृतिगणत्वात्संज्ञाशब्दत्वेऽपि णत्वाभावः। वौषडिति शब्दस्य त्रिनयनेति संज्ञा नामपारायणे प्रसिद्धा तद्रूपा वा। यद्वा नयनशब्दो लक्षणया प्रमाणपरः। नयतिप्रापयति प्रमाणमिति व्युत्पत्तेश्च। तथाच शाण्डिल्यसूत्रे प्रयोगः’त्रीण्येषां नेत्राणिशब्दलिङ्गाक्षभेदाद्रुद्रव’दिति। त्रीणि प्रत्यक्षानुमानशब्दरूपाणि प्रमाणानि यस्याः।यद्विषयकप्रमाजनने त्रिविधमेव प्रमाणम्। श्रवणरूपं शाब्दज्ञानं। मननं यौक्तिकत्वादानुमानिकं। निदिध्यासनं तु स्वानुभवरूपं प्रत्यक्षमेव। परंतु विजातीयप्रत्ययैःकदाचिन्मध्येमध्येऽन्तरितम्। एतदभिप्रायेणैव शाण्डिल्यमुनिना शब्दमारभ्यैव प्रमाणानि गणितानि। उपमानस्य शक्तिग्रहमात्रविषयकत्वेन प्रकृतानुपयोगात्। अतएवोक्तं मनुस्मृतौ ‘प्रत्यक्षं चानुमानं च शास्त्रं च विविधागमम्। त्रयं सुविदितं कार्यं धर्मशुद्धिमभीप्सते’ति। सांख्यानां समाससूत्रमपि ‘त्रिविधं प्रमाण’मिति। योगसूत्रमपि ‘प्रत्यक्षानुमानागमाः प्रमाणानी’ति। त्रीन्मार्गान्प्रत्यधिकारिणो नयतीतिवा। दक्षिणोत्तरमार्गौब्रह्ममार्गश्चेति त्रयो मार्गा उत्तरत्र विवेचयिष्यन्ते। तथाचोक्तं देवीपुराणे ‘दक्षिणं चोत्तरं लोकं तथा ब्रह्मायनं परम्। नयं सन्मार्गवर्गं चनेत्री त्रिनयना मते’ति। लोलाक्षीणां स्त्रीणां यः कामो मन्मथस्तद्रूपिणी। शिवकामनिरासाय लोलाक्षीसंबन्धित्वं कामविशेषणम्। कामाभिमानियोगेश्वरीरूपा वा।तदुक्तं वराहपुराणे ‘कामः क्रोधस्तथा लोभो मदो मोहश्च पञ्चमः मात्सर्यं षष्टमित्याहुःपैशुन्यं सप्तमं तथा॥ असूया त्वष्टमी ज्ञेया इत्येता अष्ट मातरः। कामं योगेश्वरींविद्धि क्रोधं माहेश्वरीं तथा॥ लोभस्तु वैष्णवी प्रोक्ता ब्रह्माणी मद एव च। मोहः स्वयंभूः कल्याणी मात्सर्यं चेन्द्रजां विदुः॥ यमदण्डधरा देवी पैशुन्यं स्वयमेव च। असूयाच वराहाख्या इत्येताः परिकीर्तिता’ इति। मालावत्त्वान्मालिनी। व्रीह्यादित्वादिनिः। एकपञ्चाशन्मातृकाभिमानिदेवताया मालिनीति संज्ञा तद्रूपा वा। यद्वा अस्ति देव्याःसखी मालिनीनाम्नी तद्रूपा। तदुक्तंवामनपुराणे पार्वतीविवाहप्रकरणे सप्तपदीक्रमणंप्रकृत्य ‘ततो हराङ्घ्रिर्मालिन्या गृहीतो दायकारणात्। किं याचसे ददाम्येष मुञ्चस्वेतिहरोऽब्रवीत्॥ मालिनी शंकरं प्राह मत्सख्यै देहि शंकर। सौभाग्यं निजगोत्रीयं ततोमोक्षमवाप्स्यसि॥ अथोवाच महादेवो दत्तं मालिनि मुञ्च मा’मित्यादि। वृत्तविशेषरूपामन्दाकिनीरूपा वा। ‘मालिनी वृत्तभेदे स्यान्मालाकारस्त्रियामपि। चम्पानगर्यां गौर्यां च मन्दाकिन्यां च मालिनी’ति विश्वः। सप्तवर्षा कन्या मालिनीत्युच्यतेतद्रूपा वा। ‘सप्तभिर्मालिनी सा स्यादि’ति कन्याप्रकरणे धौम्यवचनात्। हंसायतिविशेषा अस्यामभेदेन सन्तीति हंसिनी। हंस इत्यजपामन्त्रो वा। सर्वजनयितृत्वान्माता। मातृकारूपा वा।‘मन्त्राणां मातृभूता च मातृकापरमेश्वरी’ति स्कान्दात्। प्रमात्रर्थकं पुंलिङ्गं वा। प्रकाशोऽत्र विशेष्यः।
सुमुखा नलिनी सुभ्रूः शोभना सुरनायिका।
कालकण्ठी कान्तिमती क्षोभिणी सूक्ष्मरूपिणी॥१४७॥
__________
अथवा दत्तमीतिथिनित्यामन्त्रस्य मातेति संज्ञा। नामपारायणे तथा दर्शनात्तद्रूपेत्यर्थः। कायावरोहणाख्यक्षेत्राधिष्ठात्रीयम्। ‘माता कायावरोहण’ इति पाद्यात्।लक्ष्मीबीजस्यापि मातेति संज्ञा। ‘श्रीर्मा रमा च कमला माता लक्ष्मीश्च मङ्गले’तिविश्वाख्योक्तेः। शाबरचिन्तामणौप्रसिद्धा मलयालया भगवती तद्रूपत्वान्मलयाचलेवसतीति तथा॥१४६॥
अथ परिभाषायां पञ्चत्रिंशन्नामानि विभजते॥ गलफफशोभावेगः शंभोर्वेदेचतुर्होमः। भूर्द्विस्ताद्राजैको मोदाङ्गणवासतो नतिहृत्॥१९॥ अत्रस्ताद्राजेत्यनेनार्धसमाप्त्युत्तरमेकपदेनैकं नामेत्येतावन्मात्रोक्तावपि परत्र मोदाङ्गणेतिपञ्चाक्षरनामकीर्तनबलात्प्रथमस्यैकादशाक्षरात्मत्वलाभो न्यायगम्यः। तावत एव परिशेषात्। चरमतकारस्य स्वरयोगाभावान्नाक्षरसंख्यापरता॥१९॥
शोभनं मुखं यस्याः सा सुमुखी। ज्ञानेन मुखकान्तेराधिक्यात्। ‘शोभतेऽस्यमुखं य एवं वेदे’ति श्रुतेः। ‘ब्रह्मविद इव ते सौम्य मुखमाभाती’ति श्रुतेश्च। षोडश्यङ्गत्वेनोपास्यदेवताविशेषो वा सुमुखी। करचरणमुखनेत्राद्यवयगनां कमलरूपत्वात्सृष्टिन्यायेन नलिनी। भागीरथीरूपत्वाद्वा। ‘नन्दिनी नलिनी सीते’ति तदीयद्वादशनामसु गणनात्। नलाख्यो राजा यस्यामुपासनया तादात्म्येन निविष्टः सेति वा।शोभने भ्रुवौ यस्याः सा सुभ्रूः। सौन्दर्यशीलत्वाच्छोभना। ‘सुषमं साधु शोभन’मितिकोशः। सुराणां नायिकेश्वरी ‘महत्तरा महिमा देवताना’मिति श्रुतेः। कालः कण्ठोयस्येश्वरस्य तस्य स्त्री। उक्तंच वायुपुराणे ‘पश्यतां देवसंघानां पिशाचोरगरक्षसाम्।घृतं कण्ठे विषं घोरं कालकण्ठस्ततोऽस्म्यह’मिति देवीपुराणेऽष्टषष्टिशिवतीर्थप्रकरणे‘कालञ्जरे कालकण्ठः’ इति स्मर्यते। तेन तत्क्षेत्राधिष्ठात्रीत्यर्थः। मधुरोऽस्फुटो ध्वनिःकलः स एव कालः स्वार्थिकोऽण्। कालः कण्ठो यस्या इति वा। अङ्गगात्रकण्ठेभ्यो वाङीप्। दारुकासुरवधार्थं ‘ससर्ज कालीं कामारिः कालकण्ठीं कपर्दिनी’मिति लैङ्गे कथायाः प्रसिद्धेस्तद्रूपा वा। कलपदादेव स्वार्थिकोऽण्वा। मञ्जुध्वनिरिति तदर्थः। कान्तिरस्या अस्तीति कान्तिमती। परमेश्वरौ सृष्ट्यौन्मुख्येन क्षोभयतीति क्षोभिणी। तदुक्तंविष्णुपुराणे ‘प्रकृतिं पुरुषं चैव प्रविश्यात्मेच्छया हरिः। क्षोभयामास भगवान्सर्गकाले व्यपाश्रित’ इति। यद्वा। मनः क्षोभात्कांश्चिद्गणानजनयदिति क्षोभिणी।तदुक्तं वराहपुराणे मूर्तित्रयं प्रकृत्य ‘या मन्दरं गता देवी तपस्तप्तुं तु वैष्णवी।तस्यास्तपन्त्याः कालेन महतः क्षुभितं मनः॥ तस्मात्क्षोभात्समुत्तस्थुः कुमार्यः सौम्यदर्शनाः। नीलकुञ्चितकेशान्ता बिम्बोष्ठ्यः पद्मलोचनाः॥ इन्दीवरसभा दामनूपुराढ्याः सुवर्चसः। एवंविधाः स्त्रियो देव्यःक्षोभिते मनसि द्रुतम्॥ उत्तस्थुः शतसाहस्राः कोटिशो विविधानना’ इत्यादि। सूक्ष्मं दुर्ज्ञेयं रूपमस्याः। ’ सूक्ष्मात्सूक्ष्म-
वज्रेश्वरी वामदेवी वयोवस्थाविवर्जिता।
सिद्धेश्वरी सिद्धविद्या सिद्धमाता यशस्विनी॥१४८॥
विशुद्धिचक्रनिलयाऽऽरक्तवर्णा त्रिलोचना।
खट्वाङ्गादिप्रहरणा वदनैकसमन्विता॥१४९॥
___________
तरं नित्यम्’ ‘अणोरणीया’निति च श्रुतेः। सूक्ष्म इति होमविशेषस्य संज्ञा। तन्त्रराजे ‘नित्यानित्योदिते मूलाधारमध्येऽस्ति पावक’ इत्यादिना ‘एवं द्वादशधा होममक्षरैः स्यादुदीरितै’रित्यन्तेन ग्रन्थेनोक्ता तदेव रूपमस्या इति वा। देव्या अपित्रीणि रूपाणि स्थूलसूक्ष्मपरभेदात्सन्त्येवेति व्यक्तमेव॥१४७॥ षष्ठीतिथिनित्याजालन्धरपीठाधिष्ठात्री वज्रेश्वरी। अथवा श्रीपुरस्य द्वादशः प्राकारो वज्रमणिमयस्तस्यैकादशस्य मध्ये वज्राख्या नदी तदधिपतिः। उक्तंच दुर्वाससा ‘तत्र सदाप्रवहन्ती तटिनी वज्राभिधा चिरं जीयात्। चटुलोर्मिझाटनृत्यत्कलहंसीकुलकलक्वणितपुष्टा\।\। रोधसि तस्या रुचिरे वज्रेशी जयति वज्रभूषाढ्या। वज्रप्रदानतोषितवज्रिमुखत्रिदशविनुतचारित्रे’ति। इन्द्राय वज्रोऽपि देव्यैव दत्तः। तदुक्तंब्रह्माण्डे शक्रस्य जले तपः प्रकृत्य ‘तज्जलादुत्थिता देवी वज्रं दत्त्वा बलद्विषे। पुनरन्तर्दधे सोऽपि कृतार्थः स्वर्गमेयिवा’निति। वामो वननीयो देवो वामदेवः।‘तं देवा अब्रुवन्नयं वै नः सर्वेषां वाम इति तस्माद्वामदेव’ इत्यैतरेयश्रुतेः। वामेनभागेन दीव्यतीत्यर्धनारीश्वरो वा वामदेवः। ‘कुङ्कुमक्षोदसंकाशं वामाख्यं वनवेषधृत्। वक्रमुत्तरमीशस्य प्रतिष्ठायां प्रतिष्ठित’मिति शिवपुराणोक्तः सदाशिवव्यूहान्तर्गतो मूर्तिविशेषोऽपि वामदेवस्तस्येयं वामा सुन्दरी च सा देवी वा। वामानांकर्मफलानां वा देवी अधिष्ठानदेवता। वामाचारे रता वामाः। ‘पूजकोऽपि भवेद्वामस्तन्मार्गे सततं रत’ इति कालिकापुराणवचनात् तेषां देवीति वा। उक्तंचदेवीपुराणे ‘वामं विरुद्धरूपं तु विपरीतं च गीयते। वामेन सुखदा देवीवामदेवी ततः स्मृते’ति। बाल्यपौगण्डकैशोरादिवयोविशेषाणामवस्थाभिर्विवर्जिता।सदातनत्वात्। गोरक्षप्रमुखानां सिद्धानामीश्वरी स्वामिनी एतन्नान्नैव काश्यांप्रसिद्धा। सिद्धा च सा विद्या च सिद्धविद्या। अतएव पञ्चदश्याः सिद्धारिचक्रशोधोनास्तीत्युक्तं कादिमते ‘नित्यानां सिद्धमन्त्रत्वान्नावेक्ष्यास्त्वंशकादय’ इति। सिद्धानांमाता रक्षकत्वात्। यशोऽस्यामस्तीति यशखिनी। ‘अस्मायामेधास्रजो विनिः’।‘तस्य नाम महद्यशः’ इति श्रुतेः॥१४८॥ अथ द्विषष्टिनामभिर्योगिनीन्यासक्रमेण विशुद्ध्यादिसप्तचक्राधिष्ठातृडरलकसहयाद्ययोगिनीसप्तकस्वरूपेण भगवतीं स्तोतुमारभते— विशुद्धीत्यादिना। तत्रेदं डाकिनिध्यानं ‘ग्रीवाकूपे विशुद्धौ नृपदलकमलेश्वेतरक्तां त्रिनेत्रां हस्तैः खट्वाङ्गखड्गौत्रिशिखमपि महाचर्म संधारयन्तीम्। वक्रेणैकेनयुक्तां पशुजनभयदां पायसान्नैकसक्तां त्वक्स्थां वन्देऽमृताद्यैः परिवृतवपुषं डाकिनींवीरवन्द्या’मिति। विशुद्धिचक्रं षोडशदलकमलस्य कर्णिकैव निलयो यस्याः। आरक्तो
पायसान्नप्रिया त्वक्स्था पशुलोकभयंकरी।
अमृतादिमहाशक्तिसंवृता डाकिनीश्वरी॥१५०॥
अनाहताब्जनिलया श्यामाभा वदनद्वया।
दंष्ट्रोज्ज्वलाक्षमालादिधरा रुधिरसंस्थिता॥१५१॥
कालरात्र्यादिशक्त्यौघवृता स्निग्धौदनप्रिया।
महावीरेन्द्रवरदा राकिण्यम्बास्वरूपिणी॥१५२॥
__________
वर्णो यस्या इति पञ्चाक्षरं नाम। आङीषदर्थे। तेन ‘श्वेतरक्तस्तु पाटल’ इत्युक्तलक्षणकपाटलीकुसुमसमानवर्णेत्यर्थः। लाकिनीप्रकरणगतनाम्ना पौनरुक्त्याभावाच्च।त्रीणि लोचनानि यस्याः। खट्वाङ्गं खट्वापादः। दण्डारोपितनरकपालं वा। तदादियेषां चतुर्णां मध्ये तानि प्रहरणान्यायुधानि यस्याः। वदनं च तदेकं च। ‘पूर्वकालैकेति’ समासः। अनित्यत्वान्न पूर्वनिपातः। तेन समन्विता युक्ता॥१४९॥पयोविकारः पायसश्च तदन्नं च तत्परमान्नं प्रियं यस्याः। त्वचि धातौ तिष्ठतीति त्वक्स्था। तदभिमानित्वात्। अद्वैतविद्याविहीनाः पशवस्त एव लोकास्तेषां भयंकरी। ‘योऽन्यां देवतामुपास्तेऽन्योऽसावन्योऽहमस्मीति न स वेद यथा पशु’रितिश्रुतेः। ‘द्वितीयाद्वै भयं भवति’, ‘य एतस्मिन्नुदरमन्तरं कुरुतेऽथ तस्य भयं भवती’ति च श्रुतेः। अमृताख्या शक्तिरादिर्यासां ताभिः षोडशभिर्महाशक्तिभिः‘अमृताकर्षिणीन्द्राणी’त्यादिभिरक्षरान्ताभिरेकैकदलनिष्ठाभिः संवृता। उक्तंच स्वच्छन्दतन्त्रे ‘तस्मादेकाङ्गुलादूर्ध्वं विशुद्धं षोडशाक्षरम्। मध्यगा डाकिनी बाह्यपत्रेषु परमेश्वरी। अमृताद्यक्षरान्ता स्युश्चन्द्रबिम्बं तदूर्ध्वत’ इति। नवानां विशेषणानां विशेष्यंनाम्ना निर्दिशति— डाकिनीश्वरीति। डाकिन्याख्येश्वरीत्यर्थः॥१५०॥ हृदयेद्वादशदलकमलेऽनाहृताख्यचक्रेराकिन्याख्या योगिनी तिष्ठति। तस्या ध्यानं यथा‘हृत्पद्मे भानुपत्रे द्विवदनलसितां दंष्ट्रिणीं श्यामवर्णामक्षं शूलं कपालं डमरुमपिभुजैर्धारयन्तीं त्रिनेत्राम्। रक्तस्थां कालरात्रिप्रभृतिपरिवृतां स्निग्धभक्तैकसक्तांश्रीमद्वीरेन्द्रवन्द्यामभिमतफलदां राकिनीं भावयाम’ इति। अनाहताब्जं तत्कर्णिकानिलयो यस्याः। श्यामा षोडशवार्षिकी तया तुल्या श्यामाभा। श्यामा आभाकान्तिर्यस्या इति वा। वदनयोर्द्वयं यस्याः। दंष्ट्राभिर्वराहसमानदन्तैरुज्ज्वलाशोभमाना। अक्षमाला आदिर्येषां तेषां चतुर्णामायुधानां धरा। पचाद्यच्। कर्मण्यणि धारेति स्यात्। उक्तश्लोके यदि चक्रं शूलमित्येव पाठस्तदाऽक्षस्य रथाङ्गस्य मांशोभां लाति आदत्त इत्यक्षमालं चक्रमित्याख्येयम्। रुधिरे शोणिते संस्थितातदभिमानित्वेन॥१५१॥ अस्ति कालरात्र्याख्या काचन शक्तिः। तदुक्तं वराहपुराणे मूर्तित्रयं प्रकृत्य ‘या सा नीलगिरिं याता तपसे धृतमानसा। रौद्री तमोभवा शक्तिस्तस्याः शृणु धरे व्रत’मित्यारभ्य ‘रौद्री तपोरता देवी तामसी शक्तिरुत्तमा। संहारकारिणी नाम्ना कालरात्रीति तो विदु’रिति। सा आदिर्यासां तासां
मणिपूराब्जनिलया वदनत्रयसंयुता।
वज्रादिकायुधोपेता डामर्यादिभिरावृता॥१५३॥
रक्तवर्णा मांसनिष्ठा गुडान्नप्रीतमानसा।
समस्तभक्तसुखदा लाकिन्यम्बास्वरूपिणी॥१५४॥
___________
ठंकार्यन्तद्वादशशक्तीनामोघेन समूहेन वृता पत्रेषु वेष्टिता \। स्निग्धो घृतप्लुत ओदनःप्रियो यस्याः। विविधा ईरा वा इरा वा येषां ते वीराः। पक्षद्वयेऽपि चमत्कृतवाणीकाः। स्तावका इति यावत्। अथवा महावीरं सौमिकः पात्रविशेषः। ‘महावीरंतुविबाधमृजीष’मित्यादिश्रुतिप्रसिद्धः। लक्षणया च पानपात्रपरः। तस्मान्मत्वर्थीयोऽच्। ब्रह्मरसामृतपानशीला इति यावत्। अतएवेन्द्रां ब्रह्मविदः। इदमित्यापरोक्ष्येण ये साक्षिणः स्वात्मभूतं ब्रह्माहमस्मीति साक्षात्कुर्वन्ति ते इन्द्राः। तथाच श्रूयते‘इदमदर्शमिदमदर्शमिति तस्मादिन्द्रो नामे’ति। अथवा ‘त्रितयाभोक्ता वीरेश’ इतिशिवसूत्रोक्तलक्षणा जागराद्यवस्थात्रयेऽपि तुर्यानुसंधानपरा वीरेन्द्राः। उक्तंच वरदराजेन ‘वीरेश इति वीराणां भेदव्यसनकारिणाम्। अन्तर्बहिर्विसरतामिन्द्रियाणामधीश्वर’ इति। अथवा महावीरः प्रह्लादः इन्द्रः शक्रश्च। देवीभागवते चतुर्थस्कन्धेशक्रप्रह्लादयोर्दिव्यवर्षशतं युद्धे जाते पश्चादुभाभ्यां स्तुता भगवती द्वयोरपि वरमदादिति कथानकस्मरणात् तेभ्यो वरं ददातीति तथा॥
अथ परिभाषायामेकोनचत्वारिंशन्नामानि विभजते॥ पञ्चपदी भाविचतुष्पदी द्विचरणीव शंभोर्वाक्। चतुरङ्घ्रिवशे पञ्चाङ्घ्रिभवे द्वैकं चतुष्पदंच मम॥२०॥ षट्पदीति वक्तव्ये चतुर्णां द्वयोश्च विभज्योक्तिश्छन्दः पूरणाय।एकपदेन द्वादशाक्षरमेकं नाम अर्धे तावत एव परिशेषात्॥२०॥
राकिणीनामिकाया अम्बायाः स्वरूपमस्याः॥१५२॥ मणिपूराख्यं दशदलंनाभौ पद्मं तत्र लाकिन्याख्या योगिनी तिष्ठति। तदुक्तं ‘दिक्पत्रे नाभिपद्मे त्रिवदनविलसद्दंष्ट्रिणीं रक्तवर्णां शक्तिं दम्भोलिदण्डावभयमपि भुजैर्धारयन्तीं महोग्राम्। डामर्याद्यैः परीतां पशुजनभयदां मांसधात्वेकनिष्ठां गौडान्नासक्तचित्तां सकलसुखकरींलाकिनीं भावयाम’ इति। मणिपूराख्यमब्जं निलयो यस्याः। वदनानां त्रयेण संयुता। वज्रादिकैश्चतुर्भिरायुधैरुपेता। डामर्याद्याभिः फट्कारिण्यन्ताभिर्दशभिः शक्तिभिरावृतां॥१५३॥ रक्तो वर्णो यस्याः। मांसे नितरां तिष्ठति तद्धात्वभिमानित्वेनेति तथा॥ इतिश्रीभासुरानन्दकृते सौभाग्यभास्करे। पञ्चभिः शतकैरासीत्षष्ठी नाम्नारुचिः कला॥५००॥ इति श्रीभास्कररायेत्यादिश्रीमल्ललितासहस्रनामभाष्ये पञ्चमशतकं नाम षष्ठी कला॥६॥
_________
गुडेन मिश्रमन्नं गुडान्नम् \। ‘भक्ष्येण मिश्रीकरण’मिति समासः। तेन प्रीतं मानसंयस्याः। समस्तेभ्यो भक्तेभ्यः सुखं ददातीति तथा। लाकिन्याख्याया अम्बायाः
स्वाधिष्ठानाम्बुजगता चतुर्वक्रमनोहरा।
शूलाद्यायुधसंपन्ना पीतवर्णातिगर्विता॥१५५॥
मेदोनिष्ठा मधुप्रीता बन्धिन्यादिसमन्विता।
दध्यन्नासक्तहृदया काकिनीरूपधारिणी॥१५६॥
मूलाधाराम्बुजारूढा पञ्चवक्त्राऽस्थिसंस्थिता।
अङ्कुशादिप्रहरणा वरदादिनिषेविता॥१५७॥
मुद्गौदनासक्तचित्ता साकिन्यम्बास्वरूपिणी।
आज्ञाचक्राब्जनिलया शुक्लवर्णा षडानना॥१५८॥
___________
स्वरूपमस्याः॥१५४॥ स्वाधिष्ठानाख्ये षड्दले पद्मे काकिन्याख्या योगिनी तिष्ठति।तदुक्तम् ‘स्वाधिष्ठानाख्यपद्मे रसदललसिते वेदवक्त्रां त्रिनेत्रां हस्ताभ्यां धारयन्तीं त्रिशिखगुणकपालाभयान्यात्तगर्वाम्। मेदोधातुप्रतिष्ठामलिमदमुदितां बन्धिनीमुख्ययुक्तां पीतां दध्योदनेष्टामभिमतफलदां काकिनीं भावयामः’ इति। स्वाधिष्ठानाख्यमम्बुजं गता प्राप्ता। चतुर्भिर्वक्रैर्मनोहरा रुचिरा। शूलादिभिरुक्तसंख्याकायुधैःसंपन्ना। पीतो वर्णो यस्याः सा। अतीव सौन्दर्यादिकृतो गर्वोयस्याः संजातोगर्वधातोर्निष्ठया वाऽतिगर्विता॥१५५॥ मेदसि धातुविशेषे निष्ठा स्थितिर्यस्याः।मधुना मद्येन क्षौद्रेण वा प्रीता। तथाच श्रुतिः ‘यन्मधुना जुहोति महतीमेव तद्देवतां प्रीणाती’ति। महादेवीं प्रीणयतीत्यर्थः। बन्धिन्यादिभिर्लम्बोष्ठ्यन्ताभिः षड्भिः समन्विता। दध्ना अन्नं दध्यन्नं। ‘अन्नेन व्यञ्जन’मिति समासः। दधिसिक्तं ओदनंइति यावत्। तस्मिन्नासक्तं हृदयं यस्याः। काकिन्या रूपं स्वरूपं धारयतीति तथा॥१५६॥ मूलाधाराख्ये चतुर्दले कमले साकिन्याख्या योगिनी तिष्ठति। तदुक्तं’मूलाधारस्थपद्मे श्रुतिदललसिते पञ्चवक्रां त्रिनेत्रां धूम्राभामस्थिसंस्थां सृणिमपिकमलं पुस्तकं ज्ञानमुद्राम्। बिभ्राणां बाहुदण्डैः सुललितवरदापूर्वशक्त्या वृतां तांमुद्गान्नासक्तचित्तां मधुमदमुदितां साकिनीं भावयाम’ इति। मूलाधाराख्येऽम्बुजेआरूढा तत्कर्णिकायां स्थिता। पञ्चसंख्यानि वक्राणि यस्याः। अस्थिअस्थिषु वासंस्थिता। अङ्कुशादीनि चत्वारि प्रहरणानि यस्याः। वरदादिभिः सरस्वत्यन्ताभिश्चतसृभिः शक्तिभिर्निषेविता॥१५७॥ मुद्रसूपमिश्र ओदने आसक्तं चित्तं यस्याः।तल्लक्षणं च कुमारसंहितायां ‘सुशालितण्डुलप्रस्थं तदर्धंमुद्गभिन्नकम्। चतुःपलं गुडं प्रोक्तं तन्मानं नालिकेरकम्। मुष्टिमात्रं मरीचं स्यात्तदर्धं सैन्धवं रजः।तदर्धं जीरकं विद्यात्कुडवं गोघृतं विदुः। गोक्षीरेण स्वमात्रेण संयोज्या कमलासनम्। मन्दाग्निपचनादेव सिद्धान्नमिदमुत्तम’मिति। साकिन्यम्बायाः स्वरूपमस्याः। भ्रूमध्ये आज्ञाचक्रं नाम द्विदलं पद्मं तत्र हाकिन्याख्या योगिनी तिष्ठति। तदुक्तं ‘भ्रूमध्ये बिन्दुपद्मे दलयुगकलिते शुक्लवर्णां कराब्जैर्बिभ्राणांज्ञानमुद्रां डमरुकममलामक्षमालां कपालम्। षट्चक्राधारमध्यां त्रिनयन-
मज्जासंस्था हंसवती मुख्यशक्तिसमन्विता।
हरिद्रान्नैकरसिका हाकिनीरूपधारिणी॥१५९॥
सहस्रदलपद्मस्था सर्ववर्णोपशोभिता।
सर्वायुधधरा शुक्लसंस्थिता सर्वतोमुखी॥१६०॥
सर्वौदनप्रीतचित्ता याकिन्यम्बास्वरूपिणी।
स्वाहा स्वधा मतिर्मेधा श्रुतिस्मृतिरनुत्तमा॥१६१॥
__________
लसितां हंसवत्यादियुक्तां हारिद्रान्नैकसक्तां सकलसुखकरीं हाकिनीं भावयाम’ इति।आज्ञाचक्राब्जमेव निलयो यस्याः। शुक्लो वर्णो यस्याः। षट्संख्यान्याननानि यस्याः॥१५८॥ मज्जशब्दो नकारान्तः पुंलिङ्गः। ‘सारो मज्जा नरी’त्यमरात्। तदुत्तरमाङ्प्रश्लेषेण मज्ज्ञि आसमन्तात्सम्यक् तिष्ठतीति विग्रहे मज्जधात्वभिमानिनीत्यर्थः।आबन्तो वा मज्जाशब्दः। तथा ‘चिद्विल्वफलमज्जेयं’ ‘चिन्मज्जारूपमखिलं निजमज्जाचमत्कृति’रित्यादेर्ज्ञानवासिष्ठे प्रयोगात्। ‘मज्जा स्यान्मज्जया सहे’ति कोशाच्चटाबन्त एव वा। तेन वाङ्प्रश्लेषः। मुखे भवा मुख्या हंसवत्येव मुख्या आदिर्ययोस्ताभ्यां शक्तिभ्यां हंसवतीक्षमावतीभ्यां समन्विता। हरिद्रामिश्रेऽन्ने एको मुख्योरसो रसवत्ताबुद्धिः प्रीतिर्यस्याः। हाकिन्याख्याया देव्या रूपं धारयितुं शीलमस्या इति तथा॥१५९॥ ब्रह्मरन्ध्रे सहस्रदलं पद्मं तत्र याकिन्याख्या योगिनीतिष्ठति। तदुक्तं ‘मुण्डव्योमस्थपद्मे दशशतदलके कर्णिकाचन्द्रसंस्थां रेतोनिष्ठांसमस्तायुधकलितकरां सर्वतोवक्त्रपद्माम्। आदिक्षान्तार्णशक्तिप्रकटपरिवृतां सर्ववर्णां भवानीं सर्वान्नासक्तचित्तां परशिवरसिकां याकिनीं भावयाम’ इति। सहस्नदले पद्मे तिष्ठतीति तथा। सर्वैर्वर्णैः पाटलश्यामरक्तपीतादिरूपैरुपशोभिता। चित्रवर्णेति यावत्। यद्वा सर्वाण्यकारादिक्षकारान्तानि वर्णा अक्षराणियासांताभिरमृतादिक्षमावत्यन्ताभिः पञ्चाशच्छक्तिभिरुप समीपे दलेषु शोभिता आवृताअनुलोमविलोमरीत्या शतसंख्याभिस्ताभिर्दशवारं दलेषु स्थिताभिः परिवृतेति यावत्। उपशब्दस्योक्तपरिभाषया दशसंख्याबोधकत्वासंभवाच्च। अतएव योगिनीन्यासेदशवारं तासां न्यासं केचिदिच्छन्ति। सर्वेषामायुधानां धरा धारयित्री। ‘सहस्राणिसहस्रधा बाह्वोस्तव हेतय’ इति श्रुतेः। शुक्ले वीर्याख्यधातौ सम्यक् तदभिमानित्वेनस्थिता। भविष्योत्तरपुराणे रमणकालीनध्यानविशेषः शुक्लसंज्ञः कथितस्तत्र स्थिता वा।सर्वतः सर्वासु दिक्षु मुखानि यस्याः सा। ‘सर्वतोऽक्षिशिरोमुख’मितिवचनात्॥१६०॥
अथ परिभाषायां द्वात्रिंशन्नामानि विभजते॥ **हेदाराः फलरेखारम्भविवादेतमोंशोऽस्ति। खेदो देहे भीष्मो देवे वा त्र्यङ्घ्रिलिङ्गफले॥२१॥**स्पष्टार्थः॥२१॥
सर्वैः पायसादिभिर्हरिद्रान्नान्तैरविशेषादन्यविधैरप्योदनैः प्रीतं तुष्टं चित्तंयस्याः। याकिन्याख्याया अम्बायाः स्वरूपमस्याः। एवं योगिनीस्वरूपतया वर्णयित्वा प्रकारान्तरैरपिवर्णयितुमारभते— स्वाहास्वधेत्या-
दिना। ‘स्वाहा देवहविर्दाने श्रौषट्वौषड्वषट्स्वधे’ति कोशादुद्देश्यकद्रव्यत्यागवचनौस्वाहास्वधाशब्दौ। तदर्थरूपापि देव्येव। तदुक्तं मार्कण्डेयपुराणे ‘सोमसंस्था हविःसंस्थाः पाकसंस्थाश्च सप्त याः। तास्त्वदुच्चारणाद्देवि क्रियन्ते ब्रह्मवादिभि’रिति।अन्यत्रापि ‘यस्याः समस्तसुरता समुदीरणेन तृप्तिं प्रयाति सकलेषु मखेषु देवि।स्वाहासि वै पितृगणस्य च तृप्तिहेतुरुच्चार्यसे त्वमतएव जनैः स्वधा च’। अस्मिन्पक्षेऽनयोरव्ययत्वात्स्वाहानमः स्वधानम इति प्रयोगः। तन्निरुक्तिः प्रपञ्चसारे’स्येति स्वर्गे स्वेति चात्मा प्रदिष्टो हेत्याहेती हेति विद्याद्गतिं च। स्वर्गात्मा चस्वात्मना सामशाखा वह्नेर्जाया हूयते यत्र सर्व’ मिति। ‘सैव ते वागित्यब्रवीदि’तितैत्तिरीयश्रुतौ स्वाहापदस्य स्वीया वागित्यर्थ उक्तः। सामब्राह्मणे ‘स्वाहा कत्यक्षरे’त्यादिप्रश्नास्तदुत्तराणि च श्रूयन्ते। एतेषु निर्वचनेषु पृषोदरादिप्रवेश एव गतिः।एवं यास्कस्य निरुक्तावपि ‘सु आहेति स्वमाहेति वे’त्यादौ बोध्यम्। अन्ये त्वाहुः।सुष्ठु आहूयतेऽनयेति व्युत्पत्तिः। ‘अन्येभ्योऽपि दृश्यते’ इति डप्रत्ययः। स्वान् स्वकीयान् आजिहीते गच्छति स्वीयत्वेन सम्यग्जानातीति वा स्वाहा। सुष्ठु अं पितामहं जिहीत इति वा। इयं च वह्निमूर्तेः शिवस्य भार्या स्कन्दमाता। तदुक्तं लिङ्गपुराणे ‘स्वाहा वह्न्यात्मनस्तस्य प्रोक्ता पशुपतेः प्रिया। षण्मुखो भगवान् देवो बुधैःपुत्र उदाहृतः’ इति। वायवीयेऽपि ‘नाम्ना पशुपतेर्या तु तनुरग्निर्द्विजैः स्मृता। तस्यपत्नी स्मृता स्वाहा स्कन्दश्चापि सुतः स्मृतः’ इति। एषा च माहेश्वरपीठाधिष्ठात्री।‘स्वाहा माहेश्वरे पुरे’ इति पाद्मात्। सुष्ठु आधीयतेऽनयेति वा। सुष्ठु अं विष्णुंस्वान्वा दधाति पोषयतीति स्वधा। अस्मिन्पक्षे स्वाहायै नमः स्वधायै नमः इतिप्रयोगः। ‘यन्न व्येति तदव्यय’मिति आथर्वणश्रुतौ न व्येतीत्यस्य लिङ्गसंख्याकारकरूपान्सत्त्वधर्मान् गृह्णातीति व्याख्यानेन हविर्दानेऽथर्व एव तयोरसत्त्वार्थकत्वात्अमतिरिति त्र्यक्षरं नाम। अविद्येत्यर्थः। नञोऽल्पार्थकत्वमाश्रित्य वृत्त्यात्मकज्ञानरूपेति वा। वैदिकनिघण्टुगतोऽयममितिशब्दः स्वात्मविज्ञानपरत्वेन नैरुक्ते दुर्गभट्टेनव्याख्यातः। तत्रैव स्थलान्तरे रूपपरत्वेनोक्तः। यद्वा पूर्वोक्ते सृष्टिक्रमे प्राथमिकीसृष्टिरबुद्धिपूर्वा तद्रूपा वा। क्रमप्राप्तत्वाद्बुद्धिपूर्वकसृष्टिरूपापि देव्येवेत्याह। मेधा’मेधासि देवि विदिताखिलशास्त्रसारे’ति च। ‘या देवी सर्वभूतेषु मेधारूपेण संस्थिते’ति वचनात्। ‘धीर्धारणावती मेधे’त्यग्निपुराणवचनाच्च बुद्धिविशेषरूपा वा।‘मेधा काश्मीरमण्डले’ इति पद्मपुराणोक्तदेवीरूपा वा। वेदा मन्वादिस्मृतयश्चैतद्रूपा एवेत्याह स्मृतिः ‘ऋचो यजूंषि सामानि तथैवाथर्वणानि च। ब्रह्मणः सहजंरूपं नित्यैषा शक्तिरव्यये’ति कौर्मे। श्रवणस्मरणात्मकज्ञानरूपा वा। वायुपुराणे तु’वर्तमानान्यतीतानि तथैवानागतान्यपि। स्मरते सर्वकार्याणि तेनासौस्मृतिरुच्यत’ इत्युक्तम्। देवीपुराणे तु ‘स्मृतिः संस्मरणाद्देवी’ति। यदपेक्षयोत्तममन्यद्वस्तु नास्तिसानुत्तमा। ‘न तत्समश्चाभ्यधिकश्च दृश्यत’ इति श्रुतेः। ‘न त्वत्समोऽस्त्यभ्यधिकःकुतोऽन्य’ इति स्मृतेश्च। देवीभागवते तृतीयस्कन्धेऽपि ‘रुद्रहीनं विष्णुहीनं न वदन्तिजनास्तथा। शक्तिहीनं यथा सर्वे प्रवदन्ति नराधम’मिति। न नुत्ता परप्रेरिता मा
पुण्यकीर्तिः पुण्यलभ्या पुण्यश्रवणकीर्तना।
पुलोमजार्चिता बन्धमोचनी बन्धुरालका॥१६२॥
विमर्शरूपिणी विद्या वियदादिजगत्प्रसूः।
सर्वव्याधिप्रशमनी सर्वमृत्युनिवारिणी॥१६३॥
___________
बुद्धिरैश्वर्यं वा यस्या इति वा। स्वतन्त्रबुद्धिः सहजैश्वर्या चेति यावत्॥१६१॥पुण्या पुण्यप्रदा कीर्तिर्यस्याः। पुण्यैः प्राक्तनैर्लभ्यां। उक्तंच देवीभागवते तृतीयस्कन्धे ‘पश्यन्ति पुण्यपुञ्जा ये ये वेदान्तास्तपस्विनः। रागिणो नैव पश्यन्ति देवींभगवतीं शिवा’मिति। पुण्ये विहितकर्मरूपे श्रवणकीर्तने यस्याः। पष्ठ्यर्थश्चरित्रद्वारकः संबन्धः। पुलोमतो जातया इन्द्राण्यार्चिता। तथाच देवीभागवते षष्ठस्कन्धेकथा स्मर्यते। नहुषे स्वाराज्यं शासति शक्रप्राप्त्यर्थमिन्द्राण्या भगवत्याराधितेति’‘इत्युक्ता सा तदा तेन शक्रपत्नी सुमानसा। जग्राह मन्त्रं विधिवद्गुरोर्देव्याः सुसाधनम्॥ विद्यां प्राप्य गुरोर्देवी देवीं त्रिपुरसुन्दरीम्। सम्यगाराधयामास बलिपुष्पार्चनैः शुभै’रित्यादि। बन्धमाविद्यकं मोचयति। कारागृहादपि मोचयति। तदुक्तंहरिवंशे ‘अनिरुद्धेन एभिर्नामभिरन्यैश्व कीर्तिता ह्यसि शांकरि। त्वत्प्रसादादविघ्नेनक्षिप्रं मुच्येय बन्धनात्॥ अवेक्षस्व विशालाक्षि पादौ ते शरणं व्रजे। सर्वेषामेव बन्धानां मोक्षाणां कर्तुमर्हसी’त्यारभ्य एवं स्तुता तदा देवी दुर्गा दुर्गपराक्रमा।बद्धं वाणपुरे वीरमनिरुद्धं व्यमोचयदि’त्यन्तम्। एवं देवीभागवते षष्ठस्कन्धेएकावलीनामिका राजकन्या कालकेतुना दानवेन बद्धा यशोवत्या तत्सख्यास्वोपासितभगवतीमन्त्रबलान्मोचितेति कथा स्मर्यते साप्यत्रोदाहर्तव्या। बन्धुरा उन्नतानता अलकाश्चूर्णकुन्तला यस्याः। बर्बरालकेति तु संप्रदायागतपाठः। वर्वरशब्दः संकुचिताग्रह्रस्वकेशेषु रूढः। ‘आनीलस्निग्धबर्बरकचाना’मिति ललितास्तवरत्ने प्रयोगात्। बर्बरेति पाठेऽपि स एवार्थः। बावरेत्यपभ्रंशदर्शनाच्च। वस्तुतोऽयमेव बहुसंमतः पाठो न बन्धुरेति॥१६२॥ प्रकाशात्मकस्य परब्रह्मणः स्वाभाविकं स्फुरणं विमर्श इत्युच्यते। तदुक्तं सौभाग्यसुधोदये ‘स्वाभाविकी स्फुरत्ताविमर्शरूपास्य विद्यते शक्तिः। सैव चराचरमखिलं जनयति जगदेतदपि च संहरति’ इति। स एव रूपं शक्तिरस्याः, विमर्शो वाचकः शब्दो वा स एव रूपं निरूपकंनिरूप्यं चास्याः। तदुक्तं मातृकाविवेके ‘वाचकेन विमर्शेन विना किंवा प्रकाश्यते।वाच्येनापि प्रकाशेन विना किंवा विमृश्यते। तस्माद्विमर्शो विस्फूर्तौप्रकाशं समपेक्षते। प्रकाशश्चात्मनो ज्ञाने विमर्शं समपेक्षत’ इति। मोक्षप्रदज्ञानस्वरूपत्वाद्विद्या।‘विद्यासि सा भगवती परमा हि देवी’ति देवीमाहात्म्यात्। तथाच गौडपादीयंसूत्रं ‘सैव विद्ये’ति। चैतन्यस्वरूपा शक्तिरिति पूर्वसूत्रोपस्थितायाः शक्तेस्तत्पदेनपरामर्शः। तेजोनिष्ठकलाविशेषरूपा वा। तल्लक्षणं च शैवतन्त्रे ‘मायाकार्यविवेकेनवेत्ति विद्यापदं यया। सा कला परमा ज्ञेया विद्या ज्ञानकियात्मिके’ति। वियद्व्योम
अग्रगण्याऽचिन्त्यरूपा कलिकल्मषनाशिनी।
कात्यायनी कालहन्त्री कमलाक्षनिषेविता॥१६४॥
ताम्बूलपूरितमुखी दाडिमीकुसुमप्रभा।
मृगाक्षी मोहिनी मुख्या मृडानी मित्ररूपिणी॥१६५॥
आदिर्यस्य तज्जगत्प्रसूते। ‘आत्मन आकाशः संभूत’ इत्यादिश्रुतेः। सर्वेषां व्याधीनांज्वरादिरूपाणां प्रशमनी नाशकारणम्। अपमृत्युकालमृत्य्वादिरूपसर्वमृत्यून्निवारयति। ‘ज्ञात्वा देवं मृत्युमुखात्प्रमुच्यते’ इति श्रुतेः॥१६३॥ सर्वस्य जगतो मूलकारणत्वादग्रे प्रथमतो गण्या गणयितुमर्हा। गणं लब्ध्रीगण्या अग्रे च सा गण्याचेति वा। ‘धनगणं लब्धे’ति यत्प्रत्ययः। गुणसंपर्कशून्यत्वादचिन्त्यं चिन्तयितुमशक्यं रूपमस्याः। कलियुगे कल्मषाधिक्यस्यावश्यकत्वात्तन्नाशमन्यसाध्यमेषैवकरोति। तदुक्तं कूर्मपुराणे ‘शमायालं जलं वह्नेस्तमसो भास्करोदयः। शान्त्यैकलेरघौघस्य देवीनामानुकीर्तन’मिति। ‘कृतस्याखिलपापस्य ज्ञानतोऽज्ञानतोऽपि वा।प्रायश्चित्तं परं प्रोक्तं पराशक्तेः पदस्मृति’रिति ब्रह्माण्डपुराणेऽपि। कतो नामर्षिःतस्यापत्यं स्त्रीत्यर्थे गर्गादित्वाद्यञि कात्यः। ततः ‘सर्वत्र लोहितादिकतन्तेभ्य’ इति ष्फः। षित्वान्ङीष्। सर्वदेवतेजःसमूहात्मिकाया देव्या इयं संज्ञा। तदुक्तंवामनपुराणे ‘तच्चापि तेजो वरमुत्तमं महन्नाम्ना पृथिव्यामभवत्प्रसिद्धम्। कात्यायनीत्येवतदा बभौ सा नाम्ना च तेनैव जगत्प्रसिद्धे’ति। इयं च ओड्याणपीठाभिमानिनी।तदुक्तं कालिकापुराणे ‘कात्यायनी चोड्डियाने कामाख्या कामरूपके। पूर्णेश्वरी पूर्णगिरौ चण्डी जालन्धरे स्मृते’ति। देवीपुराणे तु ‘कं ब्रह्म कं शिरः प्रोक्तमश्मसारंच कं मतम्। धारणाद्वासनाद्वापि तेन कात्यायनी मते’त्युक्तम्। कालस्य मृत्योर्हन्त्री। ‘ज्ञः कालकालो गुणी सर्वविद्य’ इति श्रुतेः। कमलाक्षेण विष्णुना नितरांसेवितोपासिता। उक्तंच पद्मपुराणे ‘इन्द्रनीलमयीं देवीं विष्णुरर्चयते सदा। विष्णुत्वंप्राप्तवांस्तेने’त्यादि॥१६४॥ ताम्बूलेन पूरितं मुखं यस्याः। अस्ति फलविरहितःपुष्पमात्रशाली दाडिमीत्वव्याप्यजातिमान् वृक्षविशेषस्तस्य कुसुमस्येव प्रभा यस्याः।मृगस्येवाक्षिणी यस्याः। मोहयतीति मोहिनी। तदुक्तं लघुनारदीयपुराणे ‘यस्मादिदं जगत्सर्वं त्वया सुन्दरि मोहितम्। मोहिनीत्येव ते नाम स्वगुणोत्थं भविष्यती’ति।अथवा अमृतमथने यद्विष्णुना मोहिनीरूपं धृतं प्रवरानदीतीरे निवासपुरे निवसतितदस्या एवाभेदभावनया व्यक्तिमापन्नम्। तदुक्तं ब्रह्माण्डपुराणे ‘आदौ प्रादुरभूच्छक्तिर्ब्रह्मणो ध्यानयोगतः। प्रकृतिर्नाम सा ख्याता देवानाभिष्टसिद्धिदा॥ द्वितीयमुदभूद्रूपं प्रवृत्तेऽमृतमन्थने। सर्वसंमोहजनकमवाङ्मनसगोचरम्॥ यद्दर्शनादभूदीशःसर्वज्ञोऽपि विमोहित’ इत्यादि। तत्रैवाध्यायान्तरे मोहिनीरूपं प्रक्रम्य ‘यद्ध्यानवैभवाल्लब्धं रूपमद्वैतमद्भुतम्। तामेवानन्यमनसा ध्यात्वा किंचिद्विहस्य स’ इत्यादि।सर्वादौ भवा मुख्या। ‘अहमस्मि प्रथमजा ऋतस्ये’ति श्रुतेः। ‘मृड सुखने’।
'
नित्यतृप्ता भक्तनिधिर्नियन्त्री निखिलेश्वरी।
मैत्र्यादिवासनालभ्या महाप्रलयसाक्षिणी॥१६६॥
पराशक्तिः परानिष्ठा प्रज्ञानघनरूपिणी।
माध्वीपानालसा मत्ता मातृकावर्णरूपिणी॥१६७॥
__________
जनसुखकृते सत्त्वोद्रिक्तौमृडाय नमोनम’ इति शिवरहस्यात्। सुखप्रदस्य मृडस्यपरमशिवस्य पत्नीत्यर्थे आनुगागमविशिष्टो ङीष्॥
अथ परिभाषायामेकत्रिंशत्पदानि विभजते॥ शंभोर्भाले मज्जज्जीवाभेदाच्चरे त्र्यंघ्रि। भवदृढभण्डो मन्दो गौणार्धं भूशिलापाढे॥२२॥
मित्राणां सूर्याणामिव रूपमस्याः। ‘सुहृत्स्वरूपे’ति वा॥१६५॥ नित्यं सर्वकालं तृप्ता। नित्येन स्वरूपानन्देन वा तृप्ता। भक्तानां निधिरिव। कामपूरकत्वात्।नात्र पाक्षिकोऽपि निध्यैनम इति प्रयोगः। जगन्नियामकत्वान्नियन्त्री।निखिलस्यकृत्स्नप्रपञ्चस्येश्वरी। मैत्रीकरुणामुदितोपेक्षा चेति चतस्रो वासनाः। सुखिषु मैत्रीदुःखिषु करुणा पुण्येषु मुदिता पापिपूपेक्षेति व्यवस्थिता इति विष्णुभागवतेप्रसिद्धाः। एताश्चित्तस्य शोधिकाः। तदुक्तमभियुक्तैः’मैत्र्यादिचित्तपरिकर्मविदोविधाय क्लेशप्रहाणमिह लब्धसबीजयोगाः। ख्यातिं च सत्त्वपुरुषान्यतयाधिगम्यवाञ्छन्ति तामपि समाधिभृतो निरोद्धु’मिति। तथाच योगसूत्रमपि ‘मैत्रीकरुणामुदितोपेक्षाणां सुखदुःखपुण्यापुण्यविषयाणां भावनातश्चित्तप्रसादन’मिति। इह सुखादिशब्दैस्तद्वन्तः प्रतिपादिता इति राजमार्तण्डः। मैत्र्यादिभिश्चतसृभिर्वासनाभिर्लभ्या। परमशिवस्य महाप्रलयकालीने ताण्डवे ब्रह्मविष्ण्वादेरपि नाशात्तदैषैवतत्साक्षिणी। उक्तंच ‘कल्पोपसंहरणकल्पितताण्डवस्य देवस्य खण्डपरशोः परभैरवस्य। पाशाङ्कुशैक्षवशरासनपुष्पबाणैः सा साक्षिणी विजयते तव मूर्तिरेके’ति। गुरुकलायामपि ‘सुरेन्द्ररुद्रपद्मजाच्युतादयोऽपि ये मृतेर्वशंवदा न तस्त्रियः सुवासिनीपदस्पृशः। महेश्वरस्य मृत्युघस्मरस्य साक्षिणी तु या सुमङ्गलीरियं वधूरिमां समेतपश्यते’ति॥१६६॥ देहे दशमधातुः पराशक्तिरित्युच्यते। तदुक्तं कामिकागमे’त्वगसृङ्यांसमेदोस्थिधातवः शक्तिमूलकाः। मज्जशुक्लप्राणजीवधातवः शिवमूलकाः॥ नवधातुरयं देहो नवयोनिसमुद्भवः। दशमी धातुरेकैव पराशक्तिरितीरिते’ति।यद्वा परोत्कृष्टा शक्तिः। शक्तिमात्रस्वरूपत्वादेवोत्कर्षः ‘अन्येभ्योऽपि दृश्यत’इतिदीर्घः। ‘परास्य शक्तिर्विविधैव श्रूयत’ इति श्रुतिः। लैङ्गेऽपि ‘यस्य यस्य पदार्थस्यया या शक्तिरुदाहृता। सा सा विश्वेश्वरी देवी स स सर्वो महेश्वरः॥ शक्तिमन्तःपदार्था ये ते वै शर्वविभूतयः। पदार्थशक्तयो यायास्तास्ता गौरीं विदुर्बुधा’ इति।परा निष्ठा उत्कृष्टा समाप्तिर्ज्ञानविशेषरूपा। सर्वकर्मणां सर्वजगतां चात्रैव समाप्तेः।उक्तंच गीतासु ‘सर्वं कर्माखिलं पार्थ ज्ञाने परिसमाप्यत’ इति। सच ज्ञानविशेषःसूतगीतायामुक्तः ‘शास्त्राचार्योपदेशेन तर्कैः शास्त्रानुसारिभिः। सर्वसाक्षितयात्मानं
सम्यङ्क्षिश्चित्य सुस्थिरः॥ स्वात्मनोऽन्यतया भातं समस्तमविशेषतः। स्वात्ममात्रतयाबुद्ध्वापुनः स्वात्मानमद्वयम्॥ शुद्धं ब्रह्मेति निश्चित्य स्वयं स्वानुभवेन च। निश्चयं चस्वचिन्मात्रे विलाप्याविक्रियेऽद्वये॥ विलापनं च चिद्रूपं बुद्ध्वाकेवलरूपतः। स्वयंतिष्ठेदयं साक्षाद्ब्रह्मवित्प्रवरो मुनिः॥ ईदृशीयं परा निष्ठा श्रौती स्वानुभवात्मिके’ति।अत्र परस्यैशक्त्यै नम इति परायैनिष्ठायैनम इत्याकारकः प्रयोगः। ‘अग्नयेपवमानायेद’मित्यादाविवोभयत्र चतुर्थ्यन्तताया न्यायसिद्धत्वात्। ‘पराशक्तिमित्रं नुमःपञ्चवक्त्र’मिति भगवत्पादानां प्रयोगाद्यद्येकं पदं तदा पराशक्त्यैनम इत्येव प्रयुज्यताम्। परा मन्त्रस्य या शक्तिस्तद्रूपेत्यर्थः। प्रकृष्टेन वृत्तिभिन्नेन नित्येन ज्ञानेन धनंनिरन्तरमविद्यालेशेनाप्यस्पृष्टं रूपमस्याः। तथाच काण्वेषु श्रूयते ‘स यथा सैन्धवघनोऽनन्तरोऽबाह्यः कृत्स्नो रसघन एवैवं वा अरेऽयमात्माऽनन्तरोऽवाह्यः कृत्स्नःप्रज्ञानघन एवे’ति। माध्वीशब्दः परिपन्थिशब्दवच्छान्दसोऽपि लोके प्रयुज्यते।‘स्वब्रह्मभावहन्त्रीं साधुविनिन्द्यां सुरां च सरणिं च। अहह कथं नु भजध्वेमाध्वींगौडींच मोहिनीं मन्दां’ इति। तेन ‘छन्दसि परिपन्थिपरिपरिणा’वितिवत् ‘ऋत्व्यवास्त्त्र्यवास्त्वमाध्वीहिरण्ययानि च्छन्दसी’त्यपि प्रयोगवशाद्भाषासमुच्चयपरं सूत्रैकदेशांशे व्याख्येयम्। छान्दसत्वेऽपि वा नात्र दुष्यति। माध्व्या द्राक्षादन्यमदिरायाःपानेनालसा। अन्तरेकनिष्ठतया शीतला। अतएव मत्तेव मत्ता। यद्वा मच्छब्दोऽहमर्थकस्तस्य भावो मत्ता। परशिवनिष्ठपराहन्तारूपेत्यर्थः। मातृका अकारादिक्षकारान्तास्तासां वर्णाः शुक्लादिरूपाणि तान्येव रूपं स्वरूपमस्याः। तानि च सनत्कुमारसंहितायाम् ‘अकाराद्याः स्वरा धूम्राः सिन्दूराभास्तु कादयः। डादिफान्ता गौरवर्णां अरुणाः पञ्च वादयः॥ लकाराद्याः काञ्चनाभा हकारान्त्यौ तडिन्निभा’विति। तन्त्रान्तरे तु ‘स्फटिकाभाः स्वराः प्रोक्ताः स्पर्शा विद्रुमसंनिभाः। यादयो नव पीताःस्युः क्षकारस्त्वरुणो मत’ इति। सर्वे वर्णाः शुक्ला इत्यपि क्वचित्। मातृकाविवेके तु’अकारं सर्वदेवत्यं रक्तं सर्ववशंकर’मित्यादिना प्रत्यक्षरं वर्णविशेष उक्तः। यद्वाएकपञ्चाशन्मातृकावर्णा एव रूपमस्या इति। अथवा वर्णा एव रूपा निरूपकावाचका यस्याः। तदुक्तं यज्ञवैभवखण्डे ‘यथा परतरः शंभुर्द्विधा शक्तिशिवात्मना।तथैव मातृकादेवी द्विधाभूता सती स्वयम्॥ एकाकारेण शक्तेस्तु वाचिका चेतरेणतु। शिवस्य वाचिका साक्षाद्विद्येयं पदगामिनी’ति। अकारादयः श्रीकण्ठादिवाचकाः पूर्णोदर्यादिवाचकाश्चेत्यस्यार्थ उक्तस्तट्टीकायाम्। अक्षमालास्वरूपिणीति वा।उक्तंच ज्ञानार्णवे ‘अकारः प्रथमो देवी क्षकारोऽन्त्यस्ततः परम्। अक्षमालेतिविख्याता मातृकावर्णरूपिणी। शब्दब्रह्मस्वरूपेयं शब्दातीतं तु जप्यत’ इति। मातृकावर्णान् रूपयति जनयतीति वा। अनुत्तराख्यशिवस्येच्छाशक्त्या योगादिक्रमेण वर्णोत्पत्तिप्रकारः सौभाग्यसुधोदये द्रष्टव्यः। मातृकावर्णानामेव श्रीचक्रात्मकत्वं मातृकाविवेके षष्ठेपटले विस्तरेण प्रतिपादितम्। अतएव सनन्दनसंहितायां मातृकाचक्रयोरैक्यविभावनं कैलासप्रस्तार इति व्यवहृतं तादृशरूपवतीति वा। प्रचण्डाज्ञेति
महाकैलासनिलया मृणालमृदुदोर्लता।
महनीया दयामूर्तिर्महासाम्राज्यशालिनी॥१६८॥
आत्मविद्या महाविद्या श्रीविद्या कामसेविता।
श्रीषोडशाक्षरीविद्या त्रिकूटा कामकोटिका॥१६९॥
___________
वक्ष्यमाणनाम्नोरन्ययोर्वैक्यमूरीकृत्य ‘स्कन्दोत्पादेन, मातृके’ति देवीपुराणे निरुक्तदर्शनाच्च मातृकेति अवर्णरूपिणीति च नामद्वयं सुवचम्॥१६७॥ महाकैलासोनाम कैलासादतीव परतो लोकः परमशिवावासस्थानत्वेन शिवपुराणादौ प्रसिद्धः।पूर्वनामोक्ताभेदभावनाविशेषो वा कैलासः। ‘एतत्कैलाससंज्ञं पदमकलपदं बिन्दुरूपीस्वरूपी यत्रास्ते देवदेवः’ इत्यादित्रिपुरासारोक्तेर्ब्रह्मरन्ध्रस्थसहस्रारमेव वा कैलासः। सर्वाशन्यादितादात्म्यनित्यतादात्म्याख्यप्रस्तारान्तरान्तरापेक्षयोत्तमत्वान्महान् स एव निलयो,यस्याः। मृणालं विसतन्तुः तद्वन्मृद्व्योदोर्लता यस्याः। पूज्यत्वान्महनीया।दयैव मूर्तिः स्वरूपं यस्याः। महाकैलासाधिपत्यं महासाम्राज्यं तच्छालिनी॥१६८॥आत्मज्ञानरूपत्वादात्मविद्या। आत्माष्टाक्षरमन्त्ररूपा वा। अतएव महाविद्या।महती च सा विद्या च। सर्वानर्थनिवारकत्वान्महत्त्वम्। नवदुर्गाविद्याया अपिमहाविद्येति संज्ञा तद्रूपा वा। श्रीविद्या पञ्चदशीस्वरूपा। उक्तंच विष्णुपुराणे ‘यज्ञविद्या महाविद्या गुह्यविद्या च शोभने। आत्मविद्या च देवि त्वं विमुक्तिफलदायिनी॥आन्वीक्षिकी त्रयीवार्ता दण्डनीतिस्त्वमेवचे’ति। अत्र व्याख्यातारः। कर्मविद्या;विश्वरूपाद्युपासना, मन्त्रविद्या, ब्रह्मविद्या चेति विद्यापदचतुष्टयार्थः। वार्ता शिल्पशास्त्रायुर्वेदादिः। दण्डनीती राजनीतिरिति। कामो महाकामेशस्तेन सेवितोपासिता।यद्वा। कामोऽनङ्गस्तेन सेविता स्यूता। ‘सीवनं सेवनं स्यूति’रिति कोशात्। श्रूयतेचारुणोपनिषदि ‘पुत्रो निर्ऋत्या वैदेहः। अचेता यश्च चेतनः। स तं मणिमविन्दत्।सोऽनङ्गुलिरावयत्। सोऽग्रीवः प्रत्यमुञ्चत्। सोऽजिह्वो असश्चत। नैनमृषिमविदित्वां नगरं प्रविशेत्। यदि प्रविशेत् मिथो चरित्वा प्रविशेत्। तत्संभवस्य व्रतमिति। निर्ऋत्या लक्ष्म्याः पुत्रो वैदेही। विदेहोऽनङ्गो मन्मथः। अनङ्गत्वादेवाचेतानेत्राङ्गुलिग्रीवाजिह्वारहितश्च। सोऽन्धो मणिं विद्यारत्नमविन्दत्। तत आवयत् असीव्यत्।ततो ग्रीवायां धृतवानास्वादितवांश्च। तेन मन्त्रद्रष्टृत्वादयमेवर्षिः। अस्य ज्ञानोत्तरंनगरे बाह्यचक्रे प्रवेशः। पूजाटोपो व्यर्थत्वात्कृतकार्यत्वाच्च न कार्यः। यदि सर्वथापूजनेच्छा तदा शिवशक्तिसामरस्यात्मकं मिथुनीभावं विज्ञाय कुर्यात्। तत्सामरस्यमेव चित्तसंभवस्य मन्मथस्य रहस्यतरं व्रतमिति श्रुत्यर्थः। शिवशक्तिसामरस्यमविज्ञाय क्रियमाणं पूजनं न तथा फलतीति तात्पर्यार्थः। षोडशानामक्षराणां समाहारः षोडशाक्षरी। श्रीयुक्ता च सा षोडशाक्षरी च सा विद्या चेति तथा। यद्यपिगौडपादीयसूत्रेऽप्यविद्याष्टाविंशतिवर्णविशिष्टेति पठ्यते तथापि तत्रत्यकूटत्रयस्यपञ्चदशाक्षररूपतया विभज्य गणनाभिप्रायमित्यविरोधः। श्रीति षोडशमक्षरं
कटाक्षकिंकरीभूतकमलाकोटिसेविता।
शिरस्थिता चन्द्रनिभा भालस्थेन्द्रधनुःप्रभा॥१७०॥
हृदयस्था रविप्रख्या त्रिकोणान्तरदीपिका।
दाक्षायणी दैत्यहन्त्री दक्षयज्ञविनाशिनी॥१७१॥
_________
यस्यां तादृशी च सा विद्या चेति वा। गौराद्यन्तर्गतस्य पिप्पल्यादेराकृतिगणत्वान्ङीप्। त्रयाणां ब्रह्मादीनामवस्थापीठलोकगुणादीनां वा कूटं समूहो यस्याम्।वाग्भवादिकूटत्रयाभिन्ना वा। कामः परशिव एव कोटिरेकदेशो यस्याः सैव कामकोटिका। शिवशक्तिसामरस्य परब्रह्मरूपत्वात्॥१६९॥ कटाक्षस्य दृगेकदेशपातस्य किंकरीभूताभिः कमलानां लक्ष्मीणां कोटिभिः सेविता। यस्मिन्नीपदवलोकनंतं पापरार्धं लक्ष्म्यो वृणत इति तात्पर्यम्। शिरसि ब्रह्मरन्ध्रे गुरुरूपतया स्थिता।ब्रह्मरन्ध्रस्याधोभागे चन्द्रोऽस्ति स च विद्यातृतीयकूटात्मक इत्याशयेनाह। चन्द्रनिभा भालहृल्लेखा बिन्दुरूपेण तिष्ठतीति भालस्था। तदुपर्यर्धचन्द्ररूपेण तिष्ठतीतिद्योतनायाह। इन्द्रधनुःप्रभा। उक्तंच नित्याहृदये ‘दीपाकारोऽर्धमात्रश्च ललाटे वृत्तइष्यते। अर्धचन्द्रस्तथाकारः पादमात्रस्तदूर्ध्वत’ इति॥१७०॥ हृदये ध्येयत्वेनतिष्ठतीति तथा। यद्वा पराबीजं हृदयमित्युच्यते। ‘प्रभुहृदयज्ञातुः पदेपदे सुखानिभवन्ती’ति कल्पसूत्रे प्रयोगात्। परमेश्वरहृदयाख्योपनिषदेव वा हृदयेनोच्यते।तत्रान्तर्यामितया प्रतिपाद्यतया वा तिष्ठति। अथवा हृदयस्य सर्वजगद्बीजत्वात्तत्रजगद्रूपेण स्थिता। तदुक्तमनुत्तरत्रिंशिकास्त्रे ‘यथा न्यग्रोधबीजस्थः शक्तिरूपो महाद्रुमः।तथा हृदयबीजस्थं जगदेतच्चराचर’मिति॥
अथ परिभाषायां पञ्चत्रिंशत्पदानि विभजते॥ **भेदभुवि त्र्यंघ्रिभुवो गुणगणंजार्धं विभेजेर्धं। भर्गो रोगेणैको मूलगुरोर्दण्डमुण्डशिला॥२३॥**अत्रैकपदेनैकादशाक्षरमेकं नामेत्यर्थः॥२३॥
हृदये तावत्सूर्यमण्डलमस्ति तच्च विद्याद्वितीयकूटमित्याशयेनाह। रविप्रख्या।निभप्रख्यशब्दौ सादृश्यपरावपीह तृतीयद्वितीयकूटयोस्तदभेदादभेदपरौ। स्वस्मिन्नेव मादृशः पुरुष इति व्यवहारदर्शनात्। सूर्यसमानकान्तिमतीति वा। मूलाधारपद्मकर्णिकामध्ये त्रिकोणमस्ति। तदन्तरेऽग्निमण्डलम्। तच्च प्रथमकूटस्वरूपं तदेतदाह।त्रिकोणस्यान्तरे मध्ये दीपवद्दीपिका तदभिन्नेत्यर्थः। तदुक्तं तन्त्रराजे ‘नित्यानित्योदिते मूलाधारमध्येऽस्ति पावकः। सर्वेषां प्राणिनां तद्वद्धृदये च प्रभाकरः॥ मूर्धनिब्रह्मरन्ध्राधश्चन्द्रमाश्च व्यवस्थितः। तत्त्रयात्मकमेव स्यादाद्यानित्यात्रिखण्डक’मिति।अथवा पूर्वोक्तं रवितुल्यत्वमुपमानोपमेयनिष्ठयोर्वस्तुतो भिन्नयोरपि धर्मयोः श्लेषभित्तिकाभेदाध्यवसायेनैकीकुर्वन्साधारणधर्मं निर्दिशति— त्रिकोणेति। देवीपक्षेतु पूर्वयोजनैव। रविपक्षे यथा। मेरुं प्रदक्षिणीकुर्वन् रविरष्टकोणात्मकस्य मेरोस्त्रींस्त्रीनेव कोणानवभासयति। तथाहि इन्द्रपुरे मध्याह्ने सूर्ये स्थिते सौम्ययाम्यपुरयो-
दरान्दोलितदीर्घाक्षी दरहासोज्ज्वलन्मुखी।
गुरुमूर्तिर्गुणनिधिर्गोमाता गुहजन्मभूः॥१७२॥
___________
रस्तमयोदयौ। एवं कोणत्रयतया स्थितं पुरत्रयमेव भासयति। ईशाग्निकोणौ तु त्रिकोणरेखामध्यपतिताविति तद्भासनमर्थायातम्। ईशे तदानीं तृतीयोयामः।आग्नेये तु प्रथमो यामः। एवं दिक्त्रयं मध्यपतितत्वाद्विदिग्द्वयं च भासयति। अग्निपुरे यदा मध्याह्नेऽस्तद्देशनिर्ऋत्योरस्तमयोदयौ। इन्द्रयमपुरयोस्तृतीयप्रथमयामौ।एवं षट्कोणत्रयतया स्थितं विदिक्त्रयं तद्रेखास्थानापन्नं दिग्द्वयं च भासयति। एवंयाम्यादिपुरेषु मध्याह्नकाल ऊह्यम्। तदुक्तं विष्णुपुराणे ‘शक्रादीनां पुरे तिष्ठन्स्पृशत्येष पुरत्रयम्। त्रिकोणौद्वौ विकोणस्थस्त्रीन्कोणान्द्वेपुरे तथे’ति। स्वावस्थितिकोण एकः। स्वदक्षिणवामकोणौद्वौ। एवं त्रीन्कोणान् तदन्तरे च तन्मध्यस्थिते स्वदक्षिणवामरेखे चेति पुरपञ्चकं दीपयति प्रकाशयतीति त्रिकोणान्तरदीपिका। दक्षस्य कन्या दाक्षायणी। लोहितादित्वात्ष्फः। अश्विन्यादिरूपा वा। ‘दाक्षायणी त्वपर्णायां रोहिण्यां तारकासु चे’ति विश्वः। दर्शपूर्णमासयोरावृत्तिर्दाक्षायणयज्ञपदेनोच्यते तद्रूपा वा। दैत्यानां भण्डासुरादीनां हन्त्री। दक्षो द्विविधः। एकःप्रजापतित्वेन प्रसिद्धः। अन्यो मानुषो राजा तस्यैवावतारविशेषः। उभयोरपि यज्ञंविनाशयितुं शीलमस्याः। ताच्छील्ये णिनिः। शिवकृतेऽपि यज्ञनाशे देव्या निमित्तत्वात्कर्तृत्वव्यपदेशः। तदुक्तं ब्रह्मपुराणवायुपुराणयोः ‘अभिव्याहृत्य सप्तर्षीन् दक्षेसोऽभ्यशपत्पुनः। भविता मानुषो राजा चाक्षुषस्य त्वमन्वये। प्राचीनबर्हिषः पौत्रःपुत्रश्चैव प्रचेतसः। दक्ष इत्येव नाम्ना त्वं मारिषायां जनिष्यसि। कन्यायां शाखिनांचैव प्राप्ते वै चाक्षुषान्तरे। अहं तत्रापि ते यज्ञं हन्मि देव्याः प्रियेप्सये’ति। यद्यत्रोपान्त्यस्वरोऽकारः पठ्यते तदा विनाशनशब्दल्युडन्तान्ङीप्। इकारपाठे तु णिन्यन्तात्। एवमन्यत्राप्यूह्यम्॥१७१॥
इति भास्कररायेण कृते सौभाग्यभास्करे। षष्ठेन शतकेनाभूत्सुषुम्णा सप्तमी कला॥६००॥ इति श्रीसौभाग्यभास्कराभिख्ये ललितासहस्रनामभाष्ये षष्ठशतकं नाम सप्तमी कला॥७॥
___________
दरमीषद्यथा स्यात्तथा आन्दोलितानि चञ्चलानि दीर्घाणि आकर्णान्तिकं विश्रान्तान्यक्षीणि यस्याः। यद्वा दरं भयमान्दोलितमस्थिरीकृतं नाशितं यैस्तादृशानिदीर्घाक्षीणि यस्याः। कटाक्षपातमात्रेण भयनाश इति यावत्। दरहासेनेषत्स्मितेनोज्ज्वलच्छोभमानं मुखं यस्याः। गुरुरेव मूर्तिः शरीरं यस्याः। अतएव सुन्दरीतापिनीये श्रूयते ‘यथा घटश्च कलशः कुम्भश्चैकार्थवाचकाः। तथा मन्त्रो देवताःच गुरुश्चैकार्थवाचकाः’ इति। गुरुपदनिरुक्तिरपि शक्तिरहस्ये ‘गुकारस्त्वन्धकारः स्यादुकारस्त
देवेशी दण्डनीतिस्था दहराकाशरूपिणी।
प्रतिपन्मुख्यराकान्ततिथिमण्डलपूजिता॥१७३॥
_________
न्निवर्तक’ इति। अन्यत्रापि ‘गुकारः सदिति प्रोक्तोरुकारो ज्ञानवाचकः। ब्रह्मज्ञाःनैकरूपत्वाद्गुरुरित्यभिधीयत’ इति। ‘तामिच्छाविग्रहां देवीं गुरुरूपां विभावये’दितिनित्याहृदयेऽपि। गुणानां निधिः शेवधिः। ‘कर्मण्यधिकरणे चे’ति किः। सत्त्वादिगुणानां सत्त्वादिजातिभिस्त्रित्वेऽपि व्यक्त्यानन्त्यमिति सांख्यसिद्धान्तात्। अतएवसांख्यप्रवचनसूत्रं ‘लघुत्वादिधर्मैरन्योन्यं साधर्म्यं वैधर्म्यं च गुणाना’मित्युपपद्यते।सत्त्वादयश्च द्रव्यत्वेऽपि पुरुषोपकरणत्वाद्गुणा इत्युच्यन्ते। ईदृशानां गुणानांनिधिर्वा। यद्वा गुणा व्यूहरूपा निधिसंख्या यस्याः। नवव्यूहात्मकत्वरूपगुणवतीतियावत्। यदाहुः ‘नवव्यूहात्मको देवः परानन्दः परात्मक’ इति। ‘कालव्यूहः कुलव्यूहो नामव्यूहस्तथैव च। ज्ञानव्यूहस्तथा चित्तव्यूहः स्यात्तदनन्तरम्। नादव्यूहस्तथा बिन्दुव्यूहः स्यात्तदनन्तरम्। कल्पव्यूहस्तथा जीवव्यूहः स्यादिति ते नवे’तिच। एतल्लक्षणानि च सौन्दर्यलहर्यां ‘तवाज्ञाचक्रस्थ’मिति श्लोकव्याख्यानावसरेलल्लेन प्रपञ्चितानि। यद्वा गुणो रज्जुः साचेह नौकाबन्धनी वटीरिकानाम्नी लक्षणयागृह्यते। सा नितरां धीयतेऽस्यामिति गुणनिधिः। एवं हि मात्स्यकालीपुराणयोःकथा स्मर्यते ‘प्रलयकाले मनुना भगवदाज्ञानुसारेण सर्वाणि बीजानि ऋषींश्चनौकायां निवेश्य मत्स्यावतारस्य भगवतः शृङ्गे सा नौका रज्ज्वाबद्धा। सा रज्जुरम्बयाधिष्ठिता सती दार्ढ्यमापेदे’ इति। तदुक्तं ‘नवयोजनदीर्घां तु यामत्रयसुविस्तृताम्। कुरुष्व चर्मणा तूर्णं बृहतीं तु वटीरिकाम्॥ जगद्धात्री महामाया लोकमाताजगन्मयी। दृढयिष्यति तां रज्जुं न त्रुट्यति यथा तथे’ति मनुं प्रति विष्णोर्वचनेन।तत्रैव स्थलान्तरे ‘योगनिद्रा जगद्धात्री समासीदद्वटीरिका’मिति। गवां धेनूनां मातासुरभिरूपा। संभवन्तोऽन्येऽपि गोपदस्यार्था वागादयो ग्राह्याः। तथाच विश्वः ‘गौःस्वर्गे वृषभे रश्मौवज्रे चन्द्रमसि स्मृतः। अञ्जनीनेत्रदिग्बाणभूवाग्वारिषु गौर्मते’तिअनेकार्थध्वनिमञ्जरी च’ बाणे वाचि पशौ भूमौ दिशि रश्मौ जलेऽक्षिणि। स्वर्गेमातरि वज्रेऽग्नौ मुखे सत्ये चं गोध्वनि’रिति। गुहस्य स्कन्दस्य जन्मभूरुत्पत्तिस्थानम्। यद्वा ‘गुहू संवरण’ इति धातोरविद्यासंवृता गुहा जीवाः तेषां जन्मस्थानम्। ‘यथाग्नेः क्षुद्रा विस्फुलिङ्गा व्युच्चरन्ती’त्यादिश्रुतेः। याज्ञवल्क्यस्मृतिरपि ‘निःसरन्तियथा लोहपिण्डात्तप्तात्स्फुलिङ्गकाः। सकाशादात्मनस्तद्वदात्मानः प्रभवन्ति ही’ति॥१७२॥ देवानां ब्रह्मविष्ण्वादीनामीशी ईश्वरी। दण्डनीतावर्थशास्त्रे तिष्ठतीतितथा। नीतिशास्त्रोक्तज्ञापि देव्येवेति यावत्। तदुक्तं देवीपुराणे ‘नयानयगतांल्लोकानविकल्पे नियोजनात्। दण्डनाद्दमनाद्वापि दण्डनीतिरिति स्मृते’ति। दहरमल्पमाकाशं हृदयकुहरवर्ति तदेव रूपमस्याः। ‘दहर उत्तरेभ्य’ इत्युत्तरमीमांसाधिकरणे
कलात्मिका कलानाथा काव्यालापविमोदिनी।
सचामररमावाणीसव्यदक्षिणसेविता॥१७४॥
_________
‘अथ यदस्मिन्ब्रह्मपुरे दहरं पुण्डरीकं वेश्म दहरोऽस्मिन्नन्तराकाशस्तस्मिन्यदन्तस्तदन्वेष्टव्य’मिति श्रुतौ दहराकाशस्यैव परब्रह्मत्वनिरूपणात्। प्रतिपत्तिथिर्मुख्याआद्या यस्मिन् राका पूर्णिमातिथिरन्ते यस्मिंस्तस्मिंस्तिथिमण्डले पञ्चदशतिथिसमूहेपूजिता। तिथिभेदेन पूजाभेदस्य तन्त्रेषु कथनात्तादृशप्रकारविशेषैरर्चितेत्यर्थः। यद्वा प्रतिपद्राकाशब्दौकामेश्वरीचित्रापरौ। तिथिशब्दो नित्यापरः। तेन नित्यामण्डलेन पूजिता त्रिकोणरेखात्रयरूपेणावृता। अथवा प्रतिपन्मुख्या राकान्ताश्च तिथयोयासां देवतानां तासां मण्डलेन समूहेन पूजिता। ताश्च वराहपुराणे ‘कथमग्नेः समुत्पत्तिरश्विनोर्वा महामुने। गौर्या गणपतेर्वापि नागानां वा गुहस्य च॥ आदित्यस्य च मातॄणां दुर्गाया वा दिशां तथा। धनदस्य च विष्णोर्वा धर्मस्य परमेष्ठिनः।शंभोर्वापि पितॄणां वा तथा चन्द्रमसो मुने। शरीरे देवताश्चैताः कथं मूर्तित्वमागताः॥ किंच तासां मुने भोज्यं काश्च संज्ञास्तिथिश्च का’ इति प्रश्ने षोडशभिरध्यायैः प्रतिपदातिथिदेवतात्वेन क्रमेणाग्न्यादीनामुत्पत्तय उक्ताः। अत्र परमेष्ठिशब्दोःविशेषणमात्रम्। अतएवोक्तं कादिमतेऽपि ‘वह्निर्दस्रावुमा विघ्नो भुजंगः षण्मुखोरविः। मातरश्च तथा दुर्गा दिशो धनदकेशवौ। यमो हरः शशी चेति तिथीशाःपरिकीर्तिता’ इति। तत्र त्वमावास्या पञ्चदशस्थाने गणिता, पूर्णिमा तु षोडशस्थाने,अत्र तु राकैव पञ्चदशीति विशेषः। प्रकृते त्वविशेषाद्वाराहोक्ताः षोडशापि देवतागृह्यन्ते॥१७३॥ अत्र कलाशब्देन वह्नेर्दशकलाः सूर्यस्य द्वादशकलाश्चन्द्रस्य षोडशकलाश्चतुःषष्टिसंख्याकत्वादिना प्रसिद्धाः। अन्याश्च कला गृह्यन्ते। ‘उत्पत्तिर्जा,गरो बोधो व्यावृत्तिर्मनसः सदा। कलाचतुष्टयं जाग्रदवस्थायां व्यवस्थितम्। जाग्रत्सर्वगुणैः प्रोक्ता केवलं शक्तिरूपिणी’ति। तथा ‘मरणं विस्मृतिर्मूर्च्छा निद्रा चतमसा वृता। सुषुप्तेषु कला ज्ञेयास्ताः सर्वाः श्रीकलात्मिकाः’। तथा ‘अभिलाषोभ्रमश्चिन्ता विषयेषु पुनः स्मृतिः। कलाचतुष्टयं देवी स्वप्नावस्था विधीयते। शिवरूपाः शक्तिरूपास्ताः कलास्त्रिपुरात्मिकाः’। तथा ‘वैराग्यं च मुमुक्षुत्वं समाधिविमलं मनः। सदसद्वस्तुनिर्धारस्तुर्यावस्थाः कला इमाः’। दूतीयागप्रकरणे षोडशकामकला उक्ताः। अन्तरदूतीप्रकरणे श्रीविद्यायाः षोडशकला उक्ताः। एवं बिन्द्वर्धचन्द्ररोधिन्यादीनां पार्थक्येन काश्चन कलाः स्वच्छन्दभैरवादावुक्तास्तादृशनिखिलकलास्वरूपेत्यर्थः। एतासां कलानां नाथा स्वामिनी च। चन्द्रमण्डलस्यश्रीचक्रस्वरूपत्वाच्चन्द्ररूपेत्यर्थो वा। काव्यानां वाल्मीक्यादिमहाकविकृतप्रबन्धविशेषाणामष्टादशलक्षणलक्षितानां रूपकभेदाभिन्नानामालापेन विशिष्य मोदतः इतितथा। चामराभ्यां सहिते सचामरे तादृशीभ्यां रमावाणीभ्यां लक्ष्मीसरस्वतीभ्यांसव्येदक्षिणे क्रमेण सेविता वीजिता॥१७४॥ सर्वजगतामुत्पादकत्वादादि-
आदिशक्तिरमेयात्मा परमा पावनाकृतिः।
अनेककोटिब्रह्माण्डजननी दिव्यविग्रहा॥१७५॥
__________
कारणभूता च सा शक्तिश्च। मातुमशक्या अमेया। न विद्यते मेयं यस्या इतिवा। यदपेक्षयाऽतिरिक्तं मेयं नास्तीत्यर्थः। तदुक्तं लिङ्गपुराणे ‘स्वर्गपाताललोकान्तब्रह्माण्डावरणाष्टके। मेयं सर्वमुमारूपं माता देवो महेश्वर’ इति। आत्मशब्देनजीवः परमशब्दोत्तरंचात्मानुषङ्गात्परमात्मा चेति नामद्वयेन कथ्यते। उक्तंच लैङ्गे‘वि॒ष्णुलिङ्गा यथा तावदग्नौ च बहुधा स्मृताः। जीवाः सर्वे तथा शर्वाः परमात्माच स·स्मृत’ इति। शिवपुराणेऽपि ‘आत्मा तस्याष्टमी मूर्तिः शिवस्य परमातनुः।व्यापिकेतरमूर्तीनां विश्वं तस्माच्छिवात्मक’मिति। अस्मिन्पक्षे आत्मने नमः परमायात्मने नम इति नामद्वय प्रयोगः। ‘नमो भवाय च रुद्राय च नम’ इत्यादिमन्त्राणामप्युभयतोनमरुकारत्वपक्षे सकृत्पठितस्यापि नमःशब्दस्य रुद्रशब्दस्य सर्वशब्दोभयशेषत्वेन पुनरावृत्तिवदात्मशब्दस्यावृत्तिः। यद्वा। आत्मशब्देन ब्रह्मैव। ‘यच्चाप्नोति यदादत्ते यच्चात्ति विषयानिह। यच्चास्य सततो भावस्तस्मादात्मेति कीर्त्यत’इति वचनात् आत्मशब्देन शरीरमेवोच्यते। तथाच वासिष्ठलैङ्गे ‘गौरीरूपाणिसर्वाणि शरीराणि शरीरिणाम्। शरीरिणस्तथा सर्वे शंकरांशा व्यवस्थिता’ इति। एवं‘आत्मा देहमनोब्रह्मस्वभावधृतिबुद्धिष्वि’ति विश्वप्रकाशोक्तान्यर्थान्तराण्यपि योज्यानि। “या देवी सर्वभूतेषु बुद्धिरूपेण संस्थिते’त्यादिवचनात्। परं ब्रह्म मातिपरिच्छिनत्तीति परमा। परस्य शिवस्य मा लक्ष्मीर्वा। यद्वा परब्रह्मणो रूपचतुष्कमस्ति तस्मात्परमोत्कृष्टा। तदुक्तं विष्णुपुराणे ‘परस्य ब्रह्मणो रूपं पुरुषः प्रथमंद्विजाः। व्यक्ताव्यक्ते तथैवान्ये रूपे कालस्तथा परम्॥ प्रधानपुरुषव्यक्तकालानांपरमं हि यत्ः। पश्यन्ति सूरयः शुद्धं तद्विष्णोः परमं पदम्॥ प्रधानपुरुषव्यक्तकालास्तु प्रविभागशः। रूपाणि स्थितिसर्गान्तव्यक्तिसद्भावहेतव’ इति। पावनीपावयित्री आकृतिः शरीरं चरित्रं वा ज्ञानं वा यस्याः। तथाच याज्ञवल्क्यस्मृतिः‘भूतात्मनस्तपोविद्ये बुद्धेर्ज्ञानं विशोधनम्। क्षेत्रज्ञस्येश्वरज्ञानाद्विशुद्धिः परमामते’ति। अनेका अनन्ताः कोटयो ये ब्रह्माण्डास्तेषां जननी जनयित्री। यद्वा अनेककोटयोब्रह्माण्डा येषां ते तथा। अभिमन्यमानत्वादिरूपः संवन्धः षष्ठ्यर्थः।तेषां विराडादीनां जननीं। विकारषोडशान्तर्वर्तिपञ्चीकृतस्थूलभूतकार्योहिब्रह्माण्डः। तदभिमानी विराडुच्यते। ब्रह्माण्डान्तर्वर्तिसमष्टिलिङ्गशरीराभिमानीस्वराट्। तदुभयकारणाव्याकृताभिमानी सम्राट्। तदुक्तं ‘प्राधान्येन विराडात्माब्रह्माण्डमभिमन्यत्ते। स्वराट् स्वरूपमुभयं सम्राडित्यब्रवीच्छ्रुति’रिति। दिव्यो रमणीयो विग्रहो देहो यस्याः। दिव्यन्तरिक्षे भवो दिव्यो विग्रहो रणो यस्या वा।‘तत्रापि सा निराधारा युयुधे तेन चण्डिके’ति मार्कण्डेयपुराणवचनात्। विस्तारःप्रविभागो वा विग्रहपदार्थः। ‘विग्रहः समरे देहे विस्तारप्रविभागयो’रिति
क्लींकारी केवला गुह्या कैवल्यपददायिनी।
त्रिपुरा त्रिजगद्वन्द्या त्रिमूर्तिस्त्रिदशेश्वरी॥१७६॥
____________
मेदिनी॥१७५॥ कामं बीजं करोतीति वा कामबीजस्वरूपेति वा क्लींकारस्य शिवकामस्य स्त्रीति वा क्लींकारी। निखिलधर्मराहित्येनैकाकित्वात्केवला। ‘तद्विमुक्तस्तुकेवली’ति शिवसूत्रप्रसिद्धज्ञानविशेषो वा केवली। कार्त्स्न्यंनिर्णीतार्थश्चकेवलम्।मत्वर्थीयेऽचि तद्वती तदभिन्ना वा। ‘केवलं ज्ञानभेदे स्यात्केवलश्चैककृत्स्नयोः।निर्णीते केवलं प्रोक्तं केवलः कुहने क्वचि’दिति विश्वः। यद्वा पूर्वोक्तकामबीजे केवलत्वंककारलकारात्मकव्यञ्जनराहित्यं। तेन केवलतुर्यस्वरूपा कामकलेत्यर्थः। ‘यदीं शृणोत्यलकं शृणोति नहि प्रवेद सुकृतस्य पन्था’मिति श्रुतेः। ईकारमात्रश्रवणं तु लकारककारराहित्येन श्रवणं अतस्तद्वान्। सुकृतस्य सत्कर्मणः पन्थानमुत्तमलोकान्नायाति किंतुनिर्गुणज्ञानस्यैव लोकं प्राप्नोति। कामबीजमात्रेण त्रिवर्गः कामकलामात्रेण तु मोक्षइति पर्यवसितोऽर्थः। तमेवाह नामद्वयेन। गुहां प्रविष्टा गुह्या। अतिरहस्यार्था इतियावत्। केवलस्य भावो धर्मिमात्रावशेषः कैवल्यं पञ्चमी मुक्तिस्तदेव पदं ददाति।अथवा कैवल्यं च पदानि च स्थानानि च दातुं शीलमस्याः। कैवल्यशब्देन योगशास्त्रान्तिमसूत्रेण कैवल्यं स्वरूपं ‘प्रतिष्ठा चितिशक्ते’रित्येतेन प्रतिपादितस्वरूपोमोक्ष उच्यते। ‘चितिशक्तेर्वृत्तिसारूप्यनिवृत्तौ स्वरूपमात्रेणावस्थानं कैवल्यमुच्यत’इति भोजराजवृत्तौ। पदशब्देन सालोक्यादिमुक्तिचतुष्टयं तासां स्थानविशेषरूपत्वात्। अत्रेदं बोध्यम्। प्रतीकाद्युपासनया सालोक्यम्। अन्तरेण प्रतीकं स्वात्मनः पृथक्त्वेनैश्वर्यविशेषविशिष्टतया देवताया उपासकस्य च रूपतः साम्यं सारूप्यम्। इयमेव सार्ष्टितेत्युच्यते। समानर्द्धितेत्यर्थः। सगुणं देवतारूपमहंग्रहेणोपास्यदेवतातादात्म्यं प्राप्नोति। तदिदं सायुज्यमूर्ध्वरेतसां स्वाश्रमे युक्तधर्मानुष्ठानवतांसामीप्यम्। ‘एतासामेव देवतानां सायुज्यं सार्ष्टितांसमानलोकतामाप्नोती’ति तैत्तिरीयश्रुतिरुक्तमुक्तित्रये प्रमाणम्। चतुर्थ्यां तु मुण्डकश्रुतिः। ‘तपःश्रद्धे ये ह्युपवसन्त्यरण्ये शान्ता विद्वांसो भैक्षचर्यां चरन्तः। सूर्यद्वारेण ते विरजाः प्रयान्ति यत्रामृतःस पुरुषो ह्यव्ययात्मे’ति। सूर्यद्वारेणेत्यस्य सूर्योपलक्षितेनार्चिरादिमार्गेण गत्वा यत्रसत्यलोके स पुरुषो ब्रह्म वर्तते तत्र यान्तीत्यर्थात्। एताः कर्मफलभूता अनित्याःसातिशया मुक्तयः। अतएव स्थानवाचिना पदपदेनेह निर्दिष्टाः। या तु ज्ञानफलंनिरतिशयानन्दलक्षणं कैवल्याख्या मुक्तिस्तस्यां तु तैत्तिरीयश्रुतिरेव प्रमाणम्। ‘य एवंविद्वानुदगयने प्रमीयते देवानामेव महिमानं गत्वादित्यस्य सायुज्यं गच्छत्यथ योदक्षिणे प्रमीयते पितृणामेव महिमानं गत्वा चन्द्रमसः सायुज्यँसलोकतामाप्नोत्येतौ वैसूर्याचन्द्रमसोर्महिमानौ ब्राह्मणो विद्वानभिजयति तस्माद्द्ब्रह्मणो महिमानमाप्नोती’ति। अत्र केवलकर्मणां चन्द्रलोकप्राप्तिः। य एवंविद्वानिति विद्वच्छब्दाभिहितप्रतीकाद्युपासनात्रयवतो देवानां महिमानमित्यनेन सालोक्यादित्रयम्।
ब्राह्मणो विद्वानित्यनेन ब्रह्मज्ञानवांस्तु एतौ कर्मोपासनप्राप्यौ सूर्यचन्द्रयोर्महिमानौसातिशयत्वादिदोषवन्तौ बुद्ध्वाअभिजयत्यभितः पराकरोति। तस्मादधिकं निरतिशयं ब्रह्मणो महिमानमाप्नोतीत्यर्थः। तदिदमुपबृंहितं शक्तिरहस्ये ‘आत्मबुद्ध्याप्रतीकेन मातृबुद्ध्याप्यहंघिया। कर्मणापि भजन्मर्त्यः कैवल्यपदमश्नुते’ इति। तिसृभ्यो मूर्तिभ्यः पुरातनत्वान्त्रिपुरा। तदुक्तं ‘मूर्तित्रयस्यापि पुरातनत्वात्तदम्बिकायास्त्रिपुरेति नामे’ति। गौडपादीयसूत्रमपि ‘तत्त्वत्रयेण भिदे’ति। एकमेव ब्रह्मतत्त्वत्रयेण भिद्यतेत्यर्थः। तद्भाष्ये तु तत्त्वपदं गुणमूर्तिबीजजगत्पीठखण्डादिपरत्वेन बहुधा व्याख्यातमिति गुणादिभ्यः पुरेत्यर्थः। त्रिपुरार्णवे तु ‘नाडीत्रयं तुत्रिपुरा सुषुम्णा पिङ्गला इडा। मनो बुद्धिस्तथा चित्तं पुरत्रयमुदाहृतम्॥ तत्र तत्रवसत्येषा तस्मात्तु त्रिपुरा मते’त्युक्तम्। कालिकापुराणेऽपि ‘त्रिकोणं मण्डलं चास्या’इत्यादि प्रस्तुत्य ‘सर्वं त्रयं त्रयंयस्मात्तस्मात्तु त्रिपुरा मते’ति। ‘देवानां त्रितयं त्रयींहुतभुजां शक्तित्रयं त्रिस्वरास्त्रैलोक्यं त्रिपुरी त्रिपुष्करमथ त्रिब्रह्म वर्णास्त्रयः।यत्किंचिज्जगति त्रिधा नियमितं वस्तु त्रिवर्गात्मकं तत्सर्वं त्रिपुरेति नाम भगवत्यन्वेति ते तत्त्वतः’ इति। लघुस्तवे पूर्वचतुःशत्यां चतुर्थपटले ‘त्रिपुरा परमाशक्ति’रित्यारभ्य ‘त्रिपुरा ख्यातिमागते’त्यन्तेन ग्रन्थेनान्यान्यप्येतन्नाननिर्वचनान्युक्तानि तानि तु तट्टीकायामेवास्माभिर्व्याख्यास्यन्त इति तत्रैव द्रष्टव्यानि।त्रिभिर्जगद्भिर्वन्द्या। त्रयो जगद्वन्द्या यस्या वा। त्रैवार्षिककन्यारूपत्वात्त्रिमूर्तित्वम्,‘त्रिमूर्तिस्तु त्रिवर्षास्या’दिति कन्याप्रकरणे धौम्यवचनात्। रक्तशुक्लमिश्रात्मकवर्णमूर्तित्रयरूपा वा। तत्तन्मन्त्राणामुद्धारस्तत्स्वरूपादिकं तन्त्रेषु व्यक्तम्। यद्वाब्रह्मादिमूर्तित्रयं वामादित्रयं इच्छादिमूर्तित्रयं चास्या एवेति त्रिमूर्तित्वम्। तदुक्तंवराहपुराणे ‘एवमुक्त्वा स्वयं ब्रह्मा वीक्षांचक्रे पिनाकिनम्। नारायणं च मनसासस्मार परमेश्वरः॥ ततो नारायणो देवो द्वाभ्यां मध्ये व्यवस्थितः। एकीभूयततस्ते तु ब्रह्मविष्णुमहेश्वराः॥ परस्परं सूक्ष्मदृष्ट्या वीक्षांचकुर्मुदान्विताः। ततस्तेषां त्रिधा दृष्टिर्भूता वै समजायत॥ तस्यां दृष्ट्यां समुत्पन्ना कुमारी दिव्यरूपिणी’त्यादिना तां वर्णयित्वा ‘अथ तां वीक्ष्य कन्यां तु ब्रह्मविष्णुमहेश्वराः। ऊचुः कात्वमसि ब्रूहि किंवा कार्यं शुचिस्मिते’ इति प्रश्न ‘त्रिवर्णा च कुमारी सा कृष्णाशुक्ला च पीतिका। उवाच भगवद्दृष्टेर्येन जातास्मि सत्तमाः॥ किं मां न वेत्थसुश्रोणीं स्वशक्तिं परमेश्वरी’मित्युत्तरिते ‘ततो ब्रह्मादयस्तस्यै त्रयस्तुष्टा वरं ददुः।नाम्नासि त्रिकला देवि पाहि विश्वं च सर्वदा॥ अपराण्यपि नामानि भविष्यन्तितवानघे। गुणोत्थानि महाभागे सर्वसिद्धिकराणि चे’त्याद्युक्त्वोक्तम् ‘अन्यच्च कारणं देवि यद्वक्ष्यामि शृणुष्व तत्। सितरक्तकृष्णवर्णैस्त्रिवर्णासि वरानने॥ मूर्तित्रयंत्रिभिर्वर्णैः कुरु देवि स्वविग्रहे। एवमुक्ता तदा देवैरकरोत्त्रिविधां तनुम्॥ सितां रक्तांतथा कृष्णां त्रिमूर्तित्वं जगाम हे’त्याद्युक्त्वा ब्राह्मीवैष्णवीरौद्रीणां श्वेतमन्दरनीलपर्वतेषु तपश्चर्यादिकमुक्तम्। अन्यत्रापि ‘एषा त्रिमूर्तिरुद्दिष्टा नयसिद्धान्तगामिनी। एषा श्वेता परा शक्तिः सात्त्विकी ब्रह्मसंस्थितिः॥ एषैव रक्ता रजसि वैष्णवी परिकीर्तिता। एषैव कृष्णा तमसि रौद्री देवी प्रकीर्तिता॥ परमात्मा यथा देव एक एव
त्र्यक्षरी दिव्यगन्धाढ्या सिन्दूरतिलकाञ्चिता।
उमा शैलेन्द्रतनया गौरी गन्धर्वसेविता॥१७७॥
_________
त्रिधा स्थितः। प्रयोजनवशाच्छक्तिरेकैव त्रिविधा भवे’दिति। गौडपादीयं सूत्रमपि ‘शांभवीविद्या श्यामा’ इति। देवीभागवतेऽपि ‘शांभवी शुक्लरूपा च श्रीविद्यारक्तरूपिका। श्यागला श्यामरूपास्यादित्येता गुणंशक्तय’ इति। त्रिदशानां देवानांतिसृणां वा दशानामवस्थानां त्रियुक्तदशानां त्रयोदशानां विश्वेषां देवानां वा त्रिगुणितदशानां त्रिंशता लक्षणया त्रयस्त्रिंशद्गणानां चेश्वरी स्वामिनी॥१७६॥त्रयाणामक्षराणां वाक्कामशक्तिबीजात्मकानां समाहारः। उक्तंच वामकेश्वरतन्त्रे’वागीश्वरी ज्ञानशक्तिर्वाग्भवे मोक्षरूपिणी। कामराजे क्रियाशक्तिः कामेशी कामरूपिणी॥ शक्तिबीजे पराशक्तिरिच्छैव शिवरूपिणी। एवं देवी त्र्यक्षरी तु महात्रिपुरसुन्दरी’ति। शुद्धविद्या कुमारीमन्त्ररूपा वा। तथाच गौडपादीये ‘त्र्यक्षरी शुद्धविद्याकुमारी चे’ति। हृदयरूपा सत्यरूपा वा ‘तदेतत्त्रयक्षरं हृदय’मिति, ‘तदेतत्त्रयक्षरं सत्य’मिति च बृहदारण्यकात्। आईपल्लवितयुगाक्षरमासाक्षरनित्याक्षरसमाहारो वा॥
अथ परिभाषायां पञ्चत्रिंशन्नामानि विभजते। मन्दिरचरतां विभवः शैवोमार्गो महान् हितोऽनुगुणः। गौणीलीलार्द्रीभावार्धविभेदा भवेदेव॥२४॥ स्पष्टार्थः॥२४॥
दिवि भवा दिव्या देवादयश्चेतनाचेतनात्मकपदार्थ समूहाः तेषां गन्धैःसंबन्धैराढ्या परिपूर्णा। नतु राजादिरिव भौमैः पदार्थैः परिवृतेति यावत्।दिव्यगन्धो हरिचन्दनादिपरिमलो वा तेनाढ्या। ‘गन्धद्वारां दुराधर्षा’मितिश्रुतेः। अथवा श्रोत्राकाशयोः संबन्धे ‘संयमाद्दिव्य’मिति योगसूत्रे श्रवणेन्द्रियाकाशयोः संबन्धेन कृतसंयमस्य योगिनो दिव्यं श्रोत्रं भवति तेन दिव्यशब्दश्रवणं भवतीत्युक्तम्। तुल्यन्यायेन तत्सर्वेन्द्रियाणामुपलक्षणम्। तेन दिव्यगन्धा आढ्याः संपन्ना यया यत्प्रसादात्सेत्यर्थः। सिन्दूरस्य रक्तचूर्णस्य गोरोचनायावा तिलकेन चित्रकेणाञ्चिता युक्ता। तिलकालकपरो वा तिलकशब्दः। तत्पक्षे सिन्दूरतिलकाभ्यामिति विग्रहः। सिन्दूरं रोचनारक्तचूर्णधातकिकासु चे’ति रभसः।‘तिलकं चित्रके प्राहुर्ललामे तिलकालके’ इति विश्वः। नागैः स्त्रीभिश्च परिवृतेविवा। ‘सिन्दूरतिलके नागे सिन्दूरतिलका स्त्रिया’मिति विश्वः। ‘सिन्दूरतिलको हस्तीसिन्दुरतिलकाङ्गने’ति हेमचन्द्रः। गजगामिनी वा स्त्रीभिः पूजितेति वा। ‘अञ्जुगतिपूजनयो’रिति धातुपाठात्। तथाच विष्णुभागवते ‘दुःसहप्रेष्ठविरहतीव्रतापधुताशुभाः’ इति नन्दव्रजकुमारिका उपक्रम्य ‘कात्यायनि महामाये महायोगिन्यधीश्वरि। नन्दगोपसुतं देवि पतिं मे कुरु ते नमः॥ इति मन्त्रं जपन्त्यस्ताः पूजां चक्रुः कुमारिका’ इत्यादि। रुक्मिण्या अपि उद्वाहप्रकरणे कृष्णागमनविलम्बोत्तरं वचनम्’दुर्भगाया हि मे धाता नानुकूलो महेश्वरः। देवी च विमुखा गौरी रुद्राणीगिरिजा सती’ इत्याद्युक्त्वा ‘कन्या चान्तःपुरात्प्रागाद्भटैर्गुप्ताऽम्बिकालयम्। पद्भ्यां
विनिर्ययौ द्रष्टुं भवानीपादपल्लव’मित्यादिना तदर्चनान्मनोरथसिद्ध्यादिकं वर्णितम्।उकारः शिववाचकस्तस्य मा लक्ष्मीः। उं परशिवं माति परिच्छिनत्तीति वा।अतसीकुसुमसंकाशत्वादभेदोपचारादुमा वा। हरिद्रावर्णवत्त्वादप्येवं वा। कीर्तिकान्तिस्वरूपत्वाद्वा। ‘या देवी सर्वभूतेषु कान्तिरूपेणे’त्यादिवचनात्। ‘उमातसीहैमवतीहरिद्राकीर्तिकान्तिष्वि’ति विश्वः। उ इत्यामन्त्रणे। मेति निषेधे। बाल्ये तपस्यन्ती भगवती मात्रागष्य निषिद्धेत्युगा वा। तदुक्तं कालिकापुराणे ‘यतो निरस्तातपसे वनं गन्तुं तु मेनया। उमेति तेन सोमेति नाम प्राप तदा सती’ति। ब्रह्मपुराणे’अपर्णा तु निराहारा तां गाता प्रत्यभाषत। उमा इति निषेधन्ती उमेत्येव तदाभवत् ॥ सा तथोक्ता तया मात्रा देवी दुश्चरचारिणी। तेनैव नाम्ना लोकेषुविख्याता सुरपूजिते’ति। पद्मपुराणे पुष्करखण्डे ‘ततोऽन्तरिक्षाद्दिव्या वागब्रवीद्भुवनत्रये। उमेति तु त्वया मेने यदुक्तं तनयां प्रति। उमेति नाम तेनास्या भुवनेषुभविष्यती’ति। उः उत्तमा च सा मा चित्तवृत्तिश्चेति वा। तदुक्तं सूतसंहितायाम्’परानुभूतिं भवपाशनाशिनीं सदाशिवस्याप्यतिशोभनाढ्यम्। उमाभिधामुत्तमचित्तवृत्तिं नमामि नानाविधलोकवैभवा’मिति। अथवा प्रणवघटकैरकारोकारमकारैर्विष्णुशिवब्रह्मवाचकैर्घटितत्वात्त्रिमूर्त्यात्मिकेत्यादयः प्रणवार्था इह योज्याः। अतएवास्य पदस्य देवीप्रणव इति संज्ञेति रहस्यविदः। उक्तंच लैङ्गे भगवतीं प्रति परशिवेनैव ‘अकारोकारमकारा मदीये प्रणवे स्थिताः। उकारं च मकारं च अकारंच क्रमेरितम्। त्वदीयं प्रणवं विद्धि त्रिमात्रं प्लुतमुत्तम’मिति। महावासिष्ठेऽपि’ओंकारसारशक्तित्वादुमेति परिकीर्तिते’ति। तत्रैव ‘सुप्तानामथ बुद्धीनाममात्रोच्चारणाद्धृदि। नित्यं त्रैलोक्यभूतानामुमेतीन्दुकलोच्यते’ इति। सर्वप्राणिनां स्वापे बोधेवाहृद्यनाहृतनादात्मना अकारादिमात्रात्रयशून्यस्य प्रणवनादभागस्य शब्दब्रह्मात्मकस्य नित्यमुच्चारणाद्धृदम्बुजच्छिद्राकाशदहराकाशशिवस्य शिरसीन्दुकला बिन्दुरूपेण स्थितेति तट्टीकायाम्। वायवीयसंहितायामपि ‘ओंकाराक्षरं ब्रह्मे’त्युपक्रम्यतदवयवानुक्त्वा ‘अर्धमात्रात्मको नादः श्रूयते लिङ्गमूर्धनी’त्युक्तम्। हंसोपनिपद्यपि हृदयाब्जदलभेदेन हंसावस्थाने मतिभेदानुक्त्वा ‘लिङ्गे सुषुप्तिः पद्मत्यागेतुरीया हंसस्य लिङ्गमूर्धस्थाना देवी लये सति तुर्यातीतावस्थे’त्युक्तम्। यद्वा ‘इच्छाशक्तिरुमा कुमारी’ति शिवसूत्रे योगिनामिच्छाया उमेति संज्ञोक्ता तद्रूपा वा।उक्तंच भगवता कृष्णदासेन ‘परभैरवतामुक्तां ग्रसमानस्य शाश्वतीम्। तस्यैवयोगिनो येच्छाशक्तिस्तां निगदन्त्युमा’मिति। इयंच विनायकपीठाधिष्ठात्री। ‘उमादेवी विनायके’ति पाद्मात्। ‘उमा सिन्धुवने नाम्ने’त्यपि पाद्म एव स्मर्यते। षड्वार्षिककन्यारूपा वा। ‘उमा षड्वार्षिकी मते’ति कन्याप्रकरणे धौम्यवचनात्। शैलेन्द्रस्य पर्वतराजस्य हिमवतस्तनया पुत्री। ‘जाता शैलेन्द्रगेहे सा शैलराजसुतातत’ इति देवीपुराणे निर्वचनम्। गौरवर्णत्वाद्गौरी। ‘गौरी गौराङ्गदेहत्वा’दितिमहावासिष्ठात्। ‘षिद्गौरादिभ्यश्चे’ति ङीप्। ‘वरुणस्य प्रियां गौरी’ति पाद्मे। ‘नदीभेदेऽपि गौरी स्याद्दशाब्दायां च योपिती’ति कोशे च। तेन तत्तत्स्वरूपेति
विश्वगर्भा स्वर्णगर्भाऽवरदा वागधीश्वरी।
ध्यानगम्याऽपरिच्छेद्या ज्ञानदा ज्ञानविग्रहा॥१७८॥
सर्ववेदान्तसंवेद्या सत्यानन्दस्वरूपिणी।
____________
वा। देवीपुराणे तु ‘योगाग्निना तु या दग्धा पुनर्जाता हिमालयात्। शङ्खकुन्देन्दुवर्णा चेत्यतो गौरीति सा स्मृते’त्युक्तम्। इयंच कान्यकुब्जपीठाधिष्ठात्री। ‘कान्यकुब्जे तथा गौरी’ति पाद्मात्। गन्धर्वैर्विश्वावसुप्रभृतिभिः सेविता। गन्धर्वैरश्वैर्वा सेविताऽश्वारूढाख्या देवी वा। दिव्यगानमेव वा गन्धर्वः॥१७७॥विश्वं प्रपञ्चजातं गर्भे यस्याः। स्वर्णं हिरण्यं गर्भे यस्याः। स्वर्णस्य गर्भभवा वा।तदुक्तं वायुपुराणे ‘हिरण्यमस्या गर्भोऽभूद्धिरण्यस्यापि गर्भजः। यस्माद्धिरण्यगर्भःस पुराणेऽस्मिन्निरुच्यत’ इति। यद्वा अर्णानां वर्णानां मातृकाणां गर्भः शोभनो ययासा। मातृकाप्रतिपाद्येति यावत्। ‘बह्वर्थगर्भितः शब्द’ इति प्रयोगात्। स्वर्णाःशोभनार्णा मन्त्रा गर्भे यस्या इति वा। अवरदेति चतुरक्षरं नाम। अवराननार्यानसुरान् द्यति खण्डयतीति तथा। अवन्तीत्यवाः कान्तिमन्तो रदा दन्ता यस्यावा। कान्त्यर्थकादवतेः पचाद्यच्। वाचामधीश्वरी स्वामिनी। ध्यानेन विभावनेनगम्या ज्ञेया। ‘ते ध्यानयोगानुगता अपश्यन् देवात्मशक्तिं स्वगुणैर्निगूढा’मितिश्रुतेः। अभावप्रतियोगित्वं परिच्छेद्यत्वं तदभावादपरिच्छेद्या। देशतः परिच्छेदोह्यत्यन्ताभाव एव। कालतस्तु ध्वंसप्रागभावौ। वस्तुतस्त्वन्योन्याभाव इतिस्थितेः। ज्ञानं कैवल्यप्रदत्वेनाभिमतं ददातीति ज्ञानदा। तथाचोक्तं तलवकारोपनिषदि ‘तस्मिन्नाकाशे स्त्रियमाजगाम बहुशोभमानामुमां हैमवतीं तां होवाचकिमेतद्यक्षमिति ब्रह्मेति होवाचे’त्यादि। स्कान्देऽपि ‘ईदृशी परमा विद्या शांकरीभवनाशिनी। प्रसादादेव जन्तूनां शक्तेरेव हि जायत’ इति। सूतसंहितायामपि ‘विद्यारूपा या शिवा वेदवेद्या सत्यानन्दानन्तसंवित्स्वरूपा। तस्या वाचः सर्वलोकैकमातुर्भक्त्यैव स्यादम्बिकायाः प्रसादा’दिति ज्ञानं ददाति, द्यति खण्डयतीति वा।‘ज्ञानं बन्ध’ इति तु शिवसूत्रे प्रथमोन्मेषे सूत्रमेकं तत्र त्वकारस्य प्रश्लेषोऽप्यस्तीत्युक्तम्। ‘चैतन्यमात्मेति पूर्वसूत्रेण संहितापाठे तथा संभवात्। तृतीयोन्मेषेऽपितादृशं सूत्रमपरं तत्र तु न प्रश्लेषः संभाव्यते। आत्मा चित्त’मिति पूर्वसूत्रात्।तच्च व्याख्यातं वार्तिके ‘अन्तःसुखादिसंवेद्यव्यवसायादिवृत्तिमत्। बहिस्तद्योग्यनीलादिदेहादिविषयोन्मुखम्॥ भेदाभासात्मकं चास्य ज्ञानं बन्धोऽनुरूपिणः।तत्प्राशितत्वादेवासावणुः संरसति ध्रुव’मिति। तदिदं संवित्त्वापादकं ज्ञानं नाशयतीत्यर्थः। अतएव द्वितीयोन्मेषे सूत्रान्तरं ‘ज्ञानमन्न’मिति। वार्तिकं च ‘ज्ञानं बन्धइति प्रोक्तं यत्प्राक्तत्परयोगिनः। अनात्मन्यात्मताज्ञप्तिरन्नं ग्रस्यत इत्यत’ इति।ज्ञानमेव विग्रहः शरीरं यस्याः, सर्वस्य जगतो ज्ञानात्मकत्वात्। तदुक्तं विष्णुपुराणेद्वितीयेंशे ‘ज्ञानमेव परं ब्रह्म ज्ञानं बन्धाय चेष्यते। ज्ञानात्मकमिदं विश्वं न ज्ञानाद्विद्यते परम्। विद्याविद्येति मैत्रेय ज्ञानमेवोपधारये’ति। ज्ञानस्य विग्रहो विस्तारोयस्याः सकाशादिति वा॥१७८॥ सर्वैर्वेदान्तैरुपनिषत्समूहैः सम्यग्वेद्या। उक्तंच
लोपामुद्रार्चिता लीलाक्लृप्तब्रह्माण्डमण्डला॥१७९॥
अदृश्या दृश्यरहिता विज्ञात्री वेद्यवर्जिता।
योगिनी योगदा योग्या योगानन्दयुगंधरा॥१८०॥
___________
वाराहे ‘एषा त्रिशक्तिरुद्दिष्टानयसिद्धान्तगामिनी। एषा ज्ञानात्मिका शक्तिः सर्ववेदान्तगामिनी’ति। सत्यमानन्दश्च स्वरूपं यस्याः।अत्र सत्येति भिन्नं पदमााश्रित्यामेयामेयात्मेत्येकं पदं कर्तुं शक्यते। ‘सच्च त्यच्चाभव’दिति श्रुतेः सत्या। प्राणान्नादित्यरूपा वा। ‘सदिति प्राणस्तीत्यन्नमयमित्यसावादित्य’ इति श्रुतेः। सति येतिविकर्षेण त्र्यक्षरत्वेप्युच्चारणं मेलनेन द्व्यक्षरस्यैवेति ज्ञेयम्। इदं च ‘इयादिपूरण’ इति छन्दःसूत्रव्याख्यानावसरे छन्दोभास्करे प्रपञ्चितमस्माभिः। सत्सु साधुरिति वासत्या। सत्यभामा स्वरूपेति वा। आनन्दः स्वरूपमस्या इत्यानन्दरूपिणी। अतएवोत्तरमीमांसायां ‘आनन्दादयः प्रधानस्ये’ति तार्तीयीकाधिकरणे आनन्दादिधर्माणां स्वरूपत्वादेव विद्यान्तरेषूपसंहारः साधितः। लोपामुद्रयागस्यपत्न्या कर्त्र्यार्चितोपासिता। तदुक्तं ब्रह्माण्डपुराणे ‘पत्न्यस्य लोपामुद्राख्या मामुपास्तेऽतिभक्तित’इति। त्रिपुरासिद्धान्तेऽपि ‘अगस्त्यपत्न्यालोपाख्यमुद्रायाः परमेश्वरी। प्रसन्नत्वादियं देवी लोपामुद्रेति गीयत’ इति। अतएव लोपामुद्रा चासावर्चिता चेत्यपिसुवचम्। लोपामुद्राख्यविद्यया करणेन वा पूजिता। ‘विद्यातृतीयखण्डेन कुर्यात्सर्वोपचारका’निति कादिमतात्। लीलामात्रेणानायासेन क्लृप्तानि ब्रह्माण्डमण्डलानि यस्याः। तदुक्तमस्माभिर्देवीस्तवे ‘विधिविष्णुमुखामरोदयस्थितिनाशेषु शिवोऽप्यनीश्वरः। जगदम्ब तव त्वयं क्रमः क्षणमुद्दालकपुष्पभञ्जिके’ति। उद्दालकेत्यादिनवाक्षरं क्रीडाविशेषस्य नाम। शक्तिसूत्रमपि ‘स्वेच्छया स्वभित्तौ विश्वमुन्मीलयती’ति॥१७९॥ दृश्यविलक्षणत्वाददृश्या। चक्षुरादीन्द्रियायोग्य वा। ‘नदृष्टेर्द्रष्टारं पश्ये’दिति श्रुतेः। उक्तंच देवीभागवते तृतीयस्कन्धे। ‘निर्गुणस्य मुने रूपंन भवेद्दृष्टिगोचर’मिति प्रक्रम्य ‘निर्गुणा दुर्गमा शक्तिर्निर्गुणश्च परः पुमा’नित्यन्तम्।दृश्यस्य व्यावहारिकस्य पारमार्थिक भाववत्त्वादृश्यरहिता। निर्विषया संविद्वा।विशेषेण जानातीति विज्ञात्री। ‘विज्ञातारमरे केन विजानीया’दिति श्रुतेः। वेद्यस्यपदार्थान्तरस्यानवशेषेण सर्वज्ञत्वाद्वेद्यवर्जिता। वेद्यस्य पारमार्थिकाभाववती वा।योग एकत्वभावना तद्वत्त्वात्तत्प्रदत्वात्तद्योग्यत्वाच्च योगिनी योगदा योग्या च। ‘योगाद्यच्चे’ति यत्प्रत्ययः। तदुक्तं विष्णुपुराणे ‘ज्ञानेन्द्रियाणि सर्वाणि निगृह्यमनसा सह। एकत्वभावनायोगः क्षेत्रज्ञपरमात्मनो’रिति। ‘तं विद्याद्दुःखसंयोगवियोगं योगसंज्ञित’मिति गीतासु। ‘योगश्चित्तवृत्तिनिरोध’ इति पातञ्जलसूत्रं च। स च मन्त्रो लयो हठो राजेति चतुर्विधः। राजयोगोऽपि सांख्यतारकामनस्कभेदात्त्रिविधः।तत्तल्लक्षणानि तु विस्तरभयान्नोच्यन्ते। यद्वा मङ्गलादिसंकटान्ता अष्टौ योगिन्यःषट्त्रिंशद्वर्षेः पुनः पुनः परिवर्तमाना ज्योतिःशास्त्रे, डाकिन्यादयश्च सप्त मन्त्रशास्त्रे -
.
,
प्रसिद्धास्तद्रूपा। अथवा योगो विषयसंगो भोग इति यावत्। तेन भोक्तृभोगप्रदभोग्यत्रितयरूपेति नामत्रितयार्थः। तदुक्तं श्वेताश्वतरोपनिषदि ‘भोक्ता भोग्यं प्रेरितारं च मत्वा सर्वं प्रोक्तं त्रिविधं ब्रह्म चैत’दिति। अत्रेदं बोध्यम्— माया प्रधानंस्वतन्त्रमिति सांख्याः। शिवस्य सा शक्तिरेवेति वेदान्तिनः। शक्तिरित्यनेन परतन्त्रतोच्यतंइति विवरणाचार्याः। सा त्रिगुणा गुणाश्च। परस्पराभिभावकाः। ‘रजस्तमश्चाभिभूय सत्त्वं भवति भारत। रजः सत्त्वं तमश्चैव तमः सत्त्वं रजस्तथे’तिगीतोक्तेः। तेन सा त्रिविधा पर्यवस्यति। रजस्तमसोरत्यन्ताभिभवाद्विशुद्धसत्त्वात्मकैका। ईषदुद्भूतरजस्तमोभ्यां मलिनसत्त्वा द्वितीया। अत्यन्ताभिभूतरजःसत्वाभ्यामसप्राया केवलतमोमयी तृतीयेति। तास्वाद्यावच्छिन्ना चिदीश्वरनाम्नी भोगप्रदा योगदेत्युच्यते। द्वितीयावच्छिन्ना जीवनाम्नी भोक्त्रीयोगिनी। तृतीयावच्छिन्ना जडवस्तुनाम्नीभोग्या योग्येत्युच्यत इति विवेकः। योगः शिवशक्तिसामरस्यमेवानन्दो यस्याः।निद्राया आनन्दप्रधानत्वाद्योगनिद्रेति वार्थः। साच देव्येवेयम्। तथाच हरिवंशे“याप्यानन्दघना योगनिद्रेति जगति स्थिते’त्युपक्रम्य ‘देवेष्वपि दधारैनां नान्योनारायणादृते। सखी सदाशिवस्यैषा माया विष्णोः शरीरजा॥ सैषा नारायणमुखेदृश्या कमललोचन। लोकानल्पेन कालेन भजते भृशमोहिनी’ति। योगानन्दाख्योनृसिंहस्तद्रूपा वा। मोहिनीमुख्येत्येकपदं स्वीकृत्येह अयोगानन्देति नामद्वयं सुवचम् \। योगः सङ्गो न विद्यते यस्याः। ‘असङ्गो नहि सज्जत’ इति श्रुतेः। अयः पर्वतरूपा वा। अभेद्येति तात्पर्यार्थः। अयेन शुभावहविधिना उं परशिवं गच्छतीतिवा। नन्दाऽलकनन्दात्मकगङ्गारूपा वा। प्रतिपत्षष्ठ्येकादशीरूपा वा। ‘नन्दाभगवती नाम या भविष्यति नन्दजे’ति मार्कण्डेयपुराणोक्तमूर्तिविशेषरूपा वा।सरस्वत्या एव स्थानविशेषयोगादानन्देति संज्ञा वा। ‘नन्दा हिमवतः पृष्ठे’ इतिपाद्मात्। पुष्करप्रान्तस्थनदीविशेषरूपा वा। तदप्युक्तं पाद्मएव पुष्करमाहात्म्ये’पुण्या पुण्यजलोपेता नदीयं ब्रह्मणः सुता। नन्दानाम्नीति विपुला प्रवृत्ता दक्षिणामुखी॥ अगच्छन्नपि यस्तस्या नाम गृह्णाति मानवः। स जीवन्सुखमाप्नोति मृतोभवति खेचर’ इति। नामनिरुक्तिर्वराहपुराणे ‘यथागतं तु ते जग्मुर्देवीं स्थाप्यहिमे गिरौ। संस्थाप्यानन्दिता यस्मात्तस्मान्नन्दा तु साभव’दिति। देवीपुराणे तु’नन्दते सुरलोकेषु नन्दने वसतेऽथवा \। हिमाचले महापुण्ये नन्दादेवी ततःस्मृते’ति। तत्स्वरूपमपि वाराहे ‘गायत्र्यष्टभुजा या तु चैत्रासुरमयोधयत्। सैवनन्दाभवद्देवी देवकार्यचिकीर्षया॥ स्वायंभुवे हतो दैत्यो वैष्णव्या मन्दरे गिरौ।महिषाख्योऽसुरः पश्चात्स वै चैत्रासुरोऽभवत्॥ नन्दया निहतो विन्ध्ये महाबलपराक्रमः। ज्ञानशक्तिस्तु सा देवी महिषोऽज्ञानमूर्तिमान्॥ अज्ञानं ज्ञाननाश्यं तुभवत्येव न संशय’ इति। ‘युगं हस्ते चतुष्केऽपि रथसीराङ्गयोर्युगः। युगंकृतादौ युगले वृद्धिनामौषधेऽपि चे’ति विश्वप्रकाशोक्त्यारथसीराङ्गधारिणामश्ववृषभाणां रथसीरनिर्वाहकत्वदर्शनादिह सकलजगन्निर्वाहकत्वमात्रतात्पर्येण युगंधरे-
इच्छाशक्तिज्ञानशक्तिक्रियाशक्तिस्वरूपिणी।
सर्वाधारा सुप्रतिष्ठा सदसद्रूपधारिणी॥१८९॥
__________
त्युच्यते। शिवशक्तियुगलस्य कृतादेर्वा धारणाद्युगंधरा ‘संज्ञायां भृतॄवृजिधारिसहितपिदम’ इति खच्। ‘अरुर्द्विषदजन्तस्ये’ति मुम्॥१८०॥ इच्छाज्ञानयत्नरूपगुणत्रयंस्वरूपमस्याः। उक्तंच संकेतपद्धतौ ‘इच्छा शिरःप्रदेशश्चज्ञाना च तदधोगता।क्रियापदगता ह्यस्या एवं शक्तित्रयं वपु’रिति। वानकेश्वरतन्त्रेऽपि ‘त्रिपुरा त्रिविधादेवी ब्रह्मविष्ण्वीशरूपिणी। ज्ञानशक्तिः क्रियाशक्तिरिच्छाशक्त्यात्मिका प्रिये’ति।अत्र ज्ञानेच्छायत्नानां पूर्वपूर्वस्योत्तरोत्तरं प्रति कारणत्वस्य क्लृप्तस्य क्रमेण शक्तित्रयस्यनिर्देशाभावेऽपि करोतेर्यत्नेशक्तत्वादेव क्रियाशब्दो यत्नपरः। उक्तंच लैङ्गे ‘धृतिरेषामदादिष्टा ज्ञानशक्तिः कृतिर्मता। इच्छारूपा तथा ज्ञाना द्वे विद्ये च न संशय’ इति। चलनात्मकक्रियापरैव वा। सा च पञ्चविधेत्युक्तं यज्ञवैभवखण्डे ‘स्पन्दश्चैव परिस्पन्दः प्रक्रमः परिशीलनः। प्रचार इति विद्वद्भिः कथिताः पञ्च ताःक्रियाः’। आङ्प्रश्लेषप्रयुक्तो दीर्घः। सर्वासां जगतीनां धारा परम्परा। जन्यजनकयोरभेदादिति। मालिनीविजयतन्त्रे ‘या सा शक्तिर्जगद्धातुः कथिता ब्रह्मणः परा।इच्छात्वं तस्य सा देवी सिसृक्षोः प्रतिपद्यते॥ एवमेतदिति ज्ञेयं नान्यथेति सुनिश्चितम्। ज्ञापयन्ती झडित्यन्तर्ज्ञानशक्तिर्निगद्यते॥ एवंभूतमिदं वस्तु भवत्वितियदा पुनः। ज्ञात्वा तदेव तद्वस्तु कुर्वन्त्यत्र क्रियोच्यत’ इति। वासिष्ठरामायणे ‘शिवंब्रह्म विदुः शान्तमवाच्यं वाग्विदामपि। स्पन्दशक्तिस्वदिच्छेयं दृश्याभासं तनोतिसा॥ साकारस्य नरस्येच्छा यथा वै कल्पनापुर’मिति। ‘दृश्याभासानुभूतानां करणात्सोच्यते क्रिये’ति च। दृश्याभासेष्वनुभूतानामुत्पत्त्याप्तिविकृतिसंस्कृतिलक्षणचतुर्विधफलानां कारणादिति तु तत्तट्टीकायां व्याख्यातम्। सर्वमाधारो यस्या इतिवा। सर्वेष्वन्तर्यामितया स्थितेति यावत्। सर्वेषामाधाररूपेति वा। तदुक्तं मार्कण्डेयपुराणे ‘येऽर्था नित्या ये विनश्यन्ति चान्ये येऽर्थाः स्थूला ये च सूक्ष्माच्च सूक्ष्माः।यच्चामूर्तं यच्च मूर्तं समस्तं यद्यद्भूतेष्वेकमेकं च किंचित्। येऽर्था भूमौ येऽन्तरिक्षेऽन्यतो वा तेषां देवि त्वत्त एवोपलब्धि’रिति। नचास्मिन्पक्षे स्त्रीलिङ्गानुपपत्तिः।‘परवल्लिङ्गं द्वन्द्वतत्पुरुषयो’रिति सूत्रात्। ‘आधारोऽधिकरण’मिति सूत्रानुसारेणाधारपदस्य पुंल्लिङ्गत्वनिश्चयादिति वाच्यम्। निर्गुणब्रह्मणि कथनीये प्रत्युत तस्यैवयुक्तत्वात्। तथाहि। सत्त्वादिगुणत्रयस्योपचयः पुंस्त्वम्। अपचयः स्त्रीत्वम्। साम्यंनपुंसकत्वम्। लिङ्गयोनितदुभयाभावरूपाणां तेषामचेतनेष्वव्याप्तेः। सर्वस्यापि जगतस्त्रिगुणात्मकतया देवीभागवतादौप्रतिपादितत्वेन तेषां सर्वत्र संभवात्। उपचयादेःसावधिकत्वेन प्रतिपादितार्थं किंचिदपेक्ष्योपचयादयः सन्त्येवेति लिङ्गत्रयस्यापिकेवलान्वयित्वाद्व्यवस्थया विवक्षानुसारेण प्रयोगः। सर्वमेतदभिप्रेत्योक्तंमहाभाष्ये’संस्त्यानप्रसवौ लिङ्गमास्थेयौ स्वकृतान्तत’ इति। ‘संस्त्यानं स्त्यायतेर्डट् स्त्री सूतेः
]
-
“‘निवासम्’ इति पाठः” ↩︎
-
“श्रीमत्सिंहासनेश्वरी.” ↩︎
-
" यद्यपीत्यादि व्यवतिष्ठते इत्यन्तो ग्रन्थो द्वित्रिपुस्तकेषु नोपलभ्यते तदेव समीचीनं वचनस्यैव निर्मूलत्वात्.” ↩︎
-
“स्तूयमानात्मवैभवा. पा.” ↩︎
-
“भण्डासुरसैनिकास्तत्समीपवर्तिमुख्यसैनिकास्तेषां इति पाठ एकस्मिन्कोशेऽधिकः.” ↩︎
-
" भक्तिसूत्रमिति पाठः.” ↩︎
-
“‘त्मेत्यौत्तानिक इति पाठः.” ↩︎
-
“स्वाभिन्ने तदभावादिति पाठः.” ↩︎
-
“भास्करकविनोक्ता इति पाठः.” ↩︎
-
“सेतुबन्धेऽस्माभिर्विवृतानि.” ↩︎
-
“त्वाद्धर्म्यंशेन” ↩︎
-
“समाम्नायोऽर्धस्य तन्निमित्तत्वादिति सूत्रशेषः.” ↩︎
-
“न विद्मोऽस्य पद्यस्य परिभाषां वयमतस्तज्ज्ञान्विशापयामोऽर्थावगत्यै.” ↩︎
-
“पञ्चेन्द्रियप्रीति” ↩︎
-
" विद्यारतमानसस्य" ↩︎
-
“मोक्षो ध्रुवो नित्यं.” ↩︎
-
“अस्यार्थोमात्त्रिकविद्वद्देशिकैकवेद्यः.” ↩︎