मुकुन्दमालास्तोत्रम्

[[मुकुन्दमालास्तोत्रम् Source: EB]]

[

मुकुन्दमाला ।

कुलशेखरः।

घुष्यते यस्य नगरे रङ्गयात्रा दिने दिने /

तम् अहं शिरसा वन्दे राजानं कुलशेखरम् //

श्रीवल्लभेति वरदेति दयापरेति भक्तप्रियेति भवलुण्ठनकोविदेति /

नाथेति नागशयनेति जगन्निवासेत्य् आलापिनं प्रतिदिनं कुरु मां मुकुन्द // मुकुन्दमाला.१ //

जयतु जयतु देवो देवकीनन्दनो ऽयं जयतु जयतु कृष्णो वृष्णिवंशप्रदीपः /

जयतु जयतु मेघश्यामलः कोमलाङ्गो जयतु जयतु पृथ्वीभारनाशो मुकुन्दः // मुकुन्दमाला.२ //

मुकुन्द मूर्ध्ना प्रणिपत्य याचे भवन्तम् एकान्तम् इयन्तम् अर्थम् /

अविस्मृतिस् त्वच्चरणारविन्दे भवे भवे मे ऽस्तु भवत्प्रसादात् // मुकुन्दमाला.३ //

नाहं वन्दे तव चरणयोर् द्वन्द्वम् अद्वन्द्वहेतोः कुम्भीपाकं गुरुम् अपि हरे नारकं नापनेतुम् /

रम्या रामा मृदुतनुलता नन्दने नापि रन्तुं भावे भावे हृदयभवने भावयेयं भवन्तम् // मुकुन्दमाला.४ //

नास्था धर्मे न वसुनिचये नैव कामोपभोगे यद् भाव्यं तद् भवतु भगवन् पूर्वकर्मानुरूपम् /

एतत् प्रार्थ्यं मम बहु-मतं जन्मजन्मान्तरे ऽपि त्वत्पादाम्भोरुहयुगगता निश्चला भक्तिर् अस्तु // मुकुन्दमाला.५ //

दिवि वा भुवि वा ममास्तु वासो नरके वा नरकान्तक प्रकामम् /

अवधीरितशारदारविन्दौ चरणौ ते मरणे ऽपि चिन्तयामि // मुकुन्दमाला.६ //

कृष्ण त्वदीयपदपङ्कजपञ्जरान्तर् अद्यैव मे विशतु मानसराजहंसः /

प्राणप्रयाणसमये कफवातपित्तैः कण्ठावरोधनविधौ स्मरणं कुतस् ते // मुकुन्दमाला.७ //

चिन्तयामि हरिम् एव सन्ततं मन्दमन्दहासिताननाम्बुजम् /

नन्दगोपतनयं परात् परं नारदादिमुनिवृन्दवन्दितम् // मुकुन्दमाला.८ //

करचरणसरोजे कान्तिमन्नेत्रमीने श्रममुषि भुजवीचिव्याकुले ऽगाधमार्गे /

हरिसरसि विगाह्यापीय तेजोजलौघं भवमरुपरिखिन्नः खेदम् अद्य त्यजामि // मुकुन्दमाला.९ //

सरसिजनयने सशङ्खचक्रे मुरभिदि मा विरमस्व चित्त रन्तुम् /

सुखतरम् अपरं न जातु जाने हरिचरणस्मरणामृतेन तुल्यम् // मुकुन्दमाला.१० //

माभीर् मन्दमनो विचिन्त्य बहुधा यामीश् चिरं यातना नामी नः प्रभवन्ति पापरिपवः स्वामी ननु श्रीधरः /

आलस्यं व्यपनीय भक्तिसुलभं ध्यायस्व नारायणं लोकस्य व्यसनापनोदनकरो दासस्य किं न क्षमः // मुकुन्दमाला.११ //

भवजलधिगतानां द्वन्द्ववाताहतानां सुतदुहितृकलत्रत्राणभारार्दितानाम् /

विषमविषयतोये मज्जताम् अप्लवानां भवतु शरणम् एको विष्णुपोतो नराणाम् // मुकुन्दमाला.१२ //

भवजलधिम् अगाधं दुस्तरं निस्तरेयं कथम् अहम् इति चेतो मा स्म गाः कातरत्वम् /

सरसिजदृशि देवे तावकी भक्तिर् एका नरकभिदि निषण्णा तारयिष्यत्य् अवश्यम् // मुकुन्दमाला.१३ //

तृष्णातोये मदनपवनोद्धूतमोहोर्मिमाले दारावर्ते तनयसहजग्राहसङ्घाकुले च /

संसाराख्ये महति जलधौ मज्जतां नस् त्रिधामन् पादाम्भोजे वरद भवतो भक्तिनावं प्रयच्छ // मुकुन्दमाला.१४ //

मा द्राक्षं क्षीणपुण्यान् क्षणम् अपि भवतो भक्तिहीनान् पदाब्जे मा श्रौषं श्राव्यबन्धं तव चरितम् अपास्यान्यद् आख्यानजातम् /

मा स्मार्षं माधव त्वाम् अपि भुवनपते चेतसापह्नुवानान् मा भूवं त्वत्सपर्याव्यतिकररहितो जन्मजन्मान्तरे ऽपि // मुकुन्दमाला.१५ //

जिह्वे कीर्तय केशवं मुररिपुं चेतो भज श्रीधरं पाणिद्वन्द्व समर्चयाच्युतकथाः श्रोत्रद्वय त्वं शृणु /

कृष्णं लोकय लोचनद्वय हरेर् गच्छाङ्घ्रियुग्मालयं जिघ्र घ्राण मुकुन्दपादतुलसीं मूर्धन् नमाधोक्षजम् // मुकुन्दमाला.१६ //

हे लोकाः शृणुत प्रसूतिमरणव्याधेश् चिकित्साम् इमां योगज्ञाः समुदाहरन्ति मुनयो यां याज्ञवल्क्यादयः /

अन्तर्ज्योतिर् अमेयम् एकम् अमृतं कृष्णाख्यम् आपीयतां तत् पीतं परमौषधं वितनुते निर्वाणम् आत्यन्तिकम् // मुकुन्दमाला.१७ //

हे मर्त्याः परमं हितं शृणुत वो वक्ष्यामि सङ्क्षेपतः संसारार्णवम् आपदूर्मिबहुलं सम्यक् प्रविश्य स्थिताः /

नानाज्ञानम् अपास्य चेतसि नमो नारायणायेत्य् अमुं मन्त्रं सप्रणवं प्रणामसहितं प्रावर्तयध्वं मुहुः // मुकुन्दमाला.१८ //

पृथ्वी रेणुर् अणुः पयांसि कणिकाः फल्गुः स्फुलिङ्गो लघुः तेजो निःश्वसनं मरुत् तनुतरं रन्ध्रं सुसूक्ष्मं नभः /

क्षुद्रा रुद्रपितामहप्रभृतयः कीटाः समस्ताः सुराः दृष्टे यत्र स तावको विजयते भूमावधूतावधिः // मुकुन्दमाला.१९ //

बद्धेनाञ्जलिना नतेन शिरसा गात्रैः सरोमोद्गमैः कण्ठेन स्वरगद्गदेन नयनेनोद्गीर्णबाष्पाम्बुना /

नित्यं त्वच्चरणारविन्दयुगलध्यानामृतास्वादिनाम् अस्माकं सरसीरुहाक्ष सततं सम्पद्यतां जीवितम् // मुकुन्दमाला.२० //

हे गोपालक हे कृपाजलनिधे हे सिन्धुकन्यापते हे कंसान्तक हे गजेन्द्रकरुणापारीण हे माधव /

हे रामानुज हे जगत्त्रयगुरो हे पुण्डरीकाक्ष मां हे गोपीजननाथ पालय परं जानामि न त्वां विना // मुकुन्दमाला.२१ //

भक्तापायभुजाङ्गगारुडमणिस् त्रैलोक्यरक्षामणिर् गोपीलोचनचातकाम्बुदमणिः सौन्दर्यमुद्रामणिः /

यः कान्तामणिरुक्मिणीघनकुचद्वन्द्वैकभूषामणिः श्रेयो देवशिखामणिर् दिशतु नो गोपालचूडामणिः // मुकुन्दमाला.२२ //

शत्रुच्छेदैकमन्त्रं सकलम् उपनिषद्वाक्यसम्पूज्यमन्त्रं संसारोत्तारमन्त्रं समुपचिततमसः सङ्घनिर्याणमन्त्रम् /

सर्वैश्वर्यैकमन्त्रं व्यसनभुजगसन्दष्टसन्त्राणमन्त्रं जिह्वे श्रीकृष्णमन्त्रं जप जप सततं जन्मसाफल्यमन्त्रम् // मुकुन्दमाला.२३ //

व्यामोहप्रशमौषधं मुनिमनोवृत्तिप्रवृत्त्यौषधं दैत्येन्द्रार्तिकरौषधं त्रिभुवने सञ्जीवनैकौषधम् /

भक्तात्यन्तहितौषधं भवभयप्रध्वंसनैकौषधं श्रेयःप्राप्तिकरौषधं पिब मनः श्रीकृष्णदिव्यौषधम् // मुकुन्दमाला.२४ //

आम्नायाभ्यसनान्य् अरण्यरुदितं वेदव्रतान्य् अन्वहं मेदश्छेदफलानि पूर्तविधयः सर्वे हुतं भस्मनि /

तीर्थानाम् अवगाहनानि च गजस्नानं विना यत्पद-द्वन्द्वाम्भोरुहसंस्मृतीर् विजयते देवः स नारायणः // मुकुन्दमाला.२५ //

श्रीमन्नाम प्रोच्य नारायणाख्यं के न प्रापुर् वाञ्छितं पापिनो ऽपि /

हा नः पूर्वं वाक् प्रवृत्ता न तस्मिंस् तेन प्राप्तं गर्भवासादिदुःखम् // मुकुन्दमाला.२६ //

मज्जन्मनः फलम् इदं मधुकैटभारे मत्प्रार्थनीयमदनुग्रह एष एव /

त्वद्भृत्यभृत्यपरिचारकभृत्यभृत्य-भृत्यस्य भृत्य इति मां स्मर लोकनाथ // मुकुन्दमाला.२७ //

नाथे नः पुरुषोत्तमे त्रिजगतां एकाधिपे चेतसा सेव्ये स्वस्य पदस्य दातरि सुरे नारायणे तिष्ठति /

यं कञ्चित् पुरुषाधमं कतिपयग्रामेशम् अल्पार्थदं सेवायै मृगयामहे नरम् अहो मूका वराका वयम् // मुकुन्दमाला.२८ //

मदन परिहर स्थितिं मदीये मनसि मुकुन्दपदारविन्दधाम्नि /

हरनयनकृशानुना कृशो ऽसि स्मरसि न चक्रपराक्रमं मुरारेः // मुकुन्दमाला.२९ //

तत्त्वं ब्रुवाणानि परं परस्तान् मधु क्षरन्तीव सतां फलानि /

प्रावर्तय प्राञ्जलिर् अस्मि जिह्वे नामानि नारायणगोचराणि // मुकुन्दमाला.३० //

इदं शरीरं परिणामपेशलं पतत्य् अवश्यं श्लथसन्धिजर्जरम् /

किम् औषधैः क्लिश्यसि मूढ दुर्मते निरामयं कृष्णरसायनं पिब // मुकुन्दमाला.३१ //

दारा वाराकरवरसुता ते तनूजो विरिञ्चः स्तोता वेदस् तव सुरगणो भृत्यवर्गः प्रसादः /

मुक्तिर् माया जगद् अविकलं तावकी देवकी ते माता मित्रं बलरिपुसुतस् त्वय्य् अतो ऽन्यन् न जाने // मुकुन्दमाला.३२ //

कृष्णो रक्षतु नो जगत्त्रयगुरुः कृष्णं नमस्याम्य् अहं कृष्णेनामरशत्रवो विनिहताः कृष्णाय तस्मै नमः /

कृष्णाद् एव समुत्थितं जगद् इदं कृष्णस्य दासो ऽस्म्य् अहं कृष्णे तिष्ठति सर्वम् एतद् अखिलं हे कृष्ण संरक्ष माम् // मुकुन्दमाला.३३ //

स त्वं प्रसीद भगवन् कुरु मय्य् अनाथे विष्णो कृपां परमकारुणिकः किल त्वम् /

संसारसागरनिमग्नम् अनन्त दीनम् उद्धर्तुम् अर्हसि हरे पुरुषोत्तमो ऽसि // मुकुन्दमाला.३४ //

नमामि नारायणपादपङ्कजं करोमि नारायणपूजनं सदा /

वदामि नारायणनाम निर्मलं स्मरामि नारायणतत्त्वम् अव्ययम् // मुकुन्दमाला.३५ //

श्रीनाथ नारायण वासुदेव श्रीकृष्ण भक्तप्रिय चक्रपाणे /

श्रीपद्मनाभाच्युत कैटभारे श्रीराम पद्माक्ष हरे मुरारे // मुकुन्दमाला.३६ //

अनन्त वैकुण्ठ मुकुन्द कृष्ण गोविन्द दामोदर माधवेति /

वक्तुं समर्थो ऽपि न वक्ति कश्चिद् अहो जनानां व्यसनाभिमुख्यम् // मुकुन्दमाला.३७ //

ध्यायन्ति ये विष्णुम् अनन्तम् अव्ययं हृत्पद्ममध्ये सततं व्यवस्थितम् /

समाहितानां सतताभय-प्रदं ते यान्ति सिद्धिं परमां तु वैष्णवीम् // मुकुन्दमाला.३८ //

क्षीरसागरतरङ्गशीकरा-सारतारकितचारुमूर्तये /

भोगिभोगशयनीयशायिने माधवाय मधुविद्विषे नमः // मुकुन्दमाला.३९ //

यस्य प्रियौ श्रुतिधरौ कविलोकवीरौ मित्रे द्विजन्मवरपद्मशराव् अभूताम् /

तेनाम्बुजाक्षचरणाम्बुजषट्पदेन राज्ञा कृता कृतिर् इयं कुलशेखरेण // मुकुन्दमाला.४० //

———————————————————-

]