[[सूक्तिसङ्ग्रहः Source: EB]]
[
[TABLE]
[TABLE]
॥श्रीः॥
कविराक्षसकृतः।
सूक्तिसंग्रहः।
<MISSING_FIG href="../../../books_images/U-IMG-1723346984Screenshot2024-08-11085743.png"/>
प्रथमा पद्धतिः।
त्रयीयुवतिसीमन्तसीमासिन्दूरबिन्दवः।
संसाराब्धिं तरेयुर्वः कंसारेः पादपांसवः॥१॥
सुपार्थिवैश्च पद्मैश्च सर्वतोमुखभूतिभिः।
प्रसारिते मित्रकरे त्यज्यन्ते कोशसंपदः॥२॥
हतकामं चिरं लोकं प्रभोरुग्रस्य वीक्षणात्।
कुर्याद्यो निजया लक्ष्म्या सकामं परमः पुमान्॥३॥
विशिष्टं सर्वभूतेभ्यः श्रोतव्यं गुणवत्तया।
न त्यजेद्विभुता नित्यमाकाशमिव भूमिपम्॥४॥
काले मृदुश्च तीक्ष्णश्च नृपः स्याद्यदि सूर्यवत्।
उदयः क्रियते तस्य मण्डलेनानुरागिणा॥५॥
नलिनानां नृपाणां च श्रियं हि महतामपि।
मित्रप्रतापो भूयोऽपि वर्धयत्यनिशोज्ज्वलाम्॥६॥
यशोदयाशीलरूपमाधुर्यैरपि सर्वतः।
स बालोऽपि पुमान्वृद्धः साधुवृन्दावने रतः॥७॥
आरभ्यते महत्कार्यं यैः क्षुद्रैरपि पार्थिवैः।
ते चक्रवर्तिनो भूत्वा जायन्ते भद्रभाजनम्॥८॥
वशीकरोति पुरुषः समस्तानपि दानवान्।
स्वमहिम्ना तथा हन्ति समस्तानपि दानवान्॥ ९॥
नित्यमुत्कटदानानां भद्राणां स्तम्भमुज्झताम्।
नृपाणां च द्विपानां च पुरः स्तोत्रं नहि प्रियम्॥ १०॥
इनः स एव सेव्यो यः स्वालोकेन सुधामुचा।
द्विजेन्द्रमण्डलं क्षीणं समग्रयति संपदा॥ ११॥
विलक्षणतया राजा बाल एव भृशोज्ज्वलः।
लब्ध्वा वृद्धिं प्रतिकलं भात्यखण्डितमण्डलः॥ १२॥
मन्त्रप्रभावसंपन्ना ये नरेन्द्राः समाहिताः।
तुदन्त्यहिभयं नित्यं विना दण्डोद्यमेन ते॥ १३॥
यः क्षये वर्तमानः सन्पाति पुण्यजनान्धनी।
लोके मनुष्यधर्माणं किंनरं कथयन्ति तम्॥ १४॥
परमस्येव पुंसोऽस्य नित्यं श्रीरनपायिनी।
सारं सदाशयेनेह साधुचक्रं बिभर्ति यः॥ १५॥
भूपालः करवालश्च योगे क्षेमे च स प्रभुः।
यः प्रसन्नो मुक्तकोशः प्रत्यर्थिजनदानवान्॥ १६॥
निशातमसिमूढं च करेणोल्लासयन्रिपोः।
कबन्धोत्पातको राजा राजते जलधेरिव॥ १७॥
अमन्दतरवार्युग्रधाराहतमहीभृतः।
चित्रचापधरा वीरा विद्योतन्ते घना इव॥ १८॥
भुङ्क्ते यस्य सदा भूरि जीवनं वाडवः शुचिः।
स नदीनः प्रभुर्नित्यं दुर्लङ्घ्यामश्नुते दशाम्॥ १९॥
महान्स एव पुरुषो यस्य सत्यानुरोधिनः।
आक्षिप्तपारिजातेन बाहुना रक्ष्यते जगत्॥ २०॥
अजन्यकम्पाः शूरा ये नित्यमप्यपराङ्मुखाः।
दर्शयन्त्यपरागेण परेभ्यश्चित्ररूपवत्॥ २१॥
यत्र स्मृतेऽपि नारीणां निर्वृतिं लभते मनः।
स दर्पकोपमानानां सीमापुरुष उच्यते॥ २२॥
स एव केवलः कर्णः श्रेयानङ्गेषु शस्यते।
यः कुण्डलस्य वहनात्यागेनैव प्रकाशते॥ २३॥
गम्भीरं यत्प्रसन्नं च धनिनां मानसं महत्
द्विजानामुपकाराय शुचिना केन निर्मितम्॥ २४॥
कर्णलङ्घिगुणोत्कर्षा वदान्या धन्विनो यथा।
निष्फलान्न विमुञ्चन्ति मार्गणान्समितौ स्थिताः॥ २५॥
शक्तः शब्द इवैकः स्यात्साधुश्रुतिपदे स्थितः।
सदध्याहारपूर्णस्य स्वार्थस्य प्रतिपादने॥ २६॥
इति कविराक्षसकृतौ सूक्तिसंग्रहे सुराजपद्धतिः प्रथमा समाप्ता॥ १॥
________________
द्वितीया पद्धतिः।
उदयं प्राप्य तीक्ष्णत्वाद्दुः प्रेक्ष्यत्वमुपेयुषः।
पादान्तिके वसुमतो नहि मानी निषीदति॥ १॥
अनुवेलं निहन्यन्ते यस्य सिन्धोरिवोद्यमाः।
तं प्रमध्य श्रियं कोऽपि विपक्षो भूभृदुद्धरेत्॥ २॥
आक्रम्य यस्य दोर्दण्डमरिचक्रं प्रकाशते।
प्राप्नोति पुरुषो लोके स वैकुण्ठ इति प्रथाम्॥ ३॥
प्रभावमीश्वरस्यापि कोदण्डेन निवारयेत्।
प्राप्नोति विजयश्लाघां नरः पौरुषमाश्रितः॥ ४॥
बलिना विद्विषे पुंसे पदं दीयेत चेद्भुवि।
महत्त्वं प्राप्य स्वल्पोऽपि विक्रमेण श्रियं हरेत्॥ ५॥
स्वस्थानादबरोप्येत बलात्पुंसा परेण यः।
अपारिजातं न प्राहुः पार्थिवं पादपं च तम्॥ ६॥
विरसप्रकृतिर्भूपः सत्त्ववानपि सिन्धुवत्।
राज्ञा स्वान्तसमुत्थेन क्षोभ्यते मृदुनापि सः॥ ७॥
यस्य राज्ञो नवसुधा सेव्या सुमनसां गणैः।
ध्रुवं बहुलदोषोत्थः क्षयः स्यात्तस्य मण्डले॥ ८॥
अधः कुर्वन्प्रजाः सर्वा बहुधा महिमोल्बणाः।
राजा पर्वणि कस्मिंश्चिद्भवेदहिभयाकुलः॥ ९॥
महता करतापेन सर्वं वसु सतां हरन्।
संपूर्णोऽप्यश्नुते राजा कलया क्षयमन्वहम्॥ १०॥
यो हीनस्य प्रभावेण राजा सन्परिभूयते।
स तु न क्षत्रगोष्ठीषु तेजस्वीति प्रकीर्त्यते॥ ११॥
दत्वा वारं जनाय स्वं दिक्षु गर्जन्ति ये मुहुः।
तानुत्सेकवतः प्राप्य नन्दन्ति न वनीपकाः॥ १२॥
कुमुदैश्च कुभूपैश्च वनसंकुचितैरपि।
प्राप्यते सुविकासश्रीराभिमुख्यं गते विधौ॥ १३॥
भूभुजामम्बुजानां च पत्रकोशवतामपि।
दोषान्वयाद्व्यसनिनां संकुचन्ति ध्रुवं श्रियः॥ १४॥
भिक्षाशनो विषादी च सुहृद्यश्च धनेशितुः।
न स्तूयते किंपुरुषैरपदानकरः सदा॥ १५॥
क्षिपन्तं मार्गणान्रोषात्कृत्रिमं लुब्धमीश्वरम्।
प्रपद्य न फलस्याप्त्यैकल्पते कोऽप्यफाल्गुनः॥ १६॥
एकक्षितिभृदुत्पन्नाः सच्छिद्राः कण्टकोल्बणाः।
मिथः संघर्षणाद्वंशा दह्यन्ते साधुशाखिभिः॥ १७॥
दण्डे च कण्टकाक्रान्ते कोशे च प्रथितो नृपः।
नालं जेतुं कुवलयं मित्रेऽप्यसति पद्मवत्॥ १८॥
वृताः सर्वासुहृद्भिर्ये द्विजिह्वैर्जिह्मगामिभिः।
दुर्भूभृतो न सेव्यास्ते जनैर्जीवनकाङ्क्षिभिः॥ १९॥
जडेन राज्ञा लब्धेऽपि सकले निजमण्डले।
विरोध्याक्रम्य गृह्णीयात्तं कदापि महत्तमः॥ २०॥
द्विपाश्च दुरमात्याश्च प्रवृद्धा यत्र भूभृति।
तस्यैव शृङ्गभङ्गाय मदात्परिणमन्ति हि॥ २१॥
इति कविराक्षसकृतौ सूक्तिसंग्रहे कुराजपद्धतिर्द्वितीया समाप्ता॥२॥
_______________
तृतीया पद्धतिः।
गुणदोषौ बुधो गृह्णन्निन्दुक्ष्वेडाविवेश्वरः।
शिरसा श्लाघते पूर्वं परं कण्ठे नियच्छति॥ १॥
गुणिनो वृत्तविमला महावंशप्रसूतयः।
मुक्तामयाः प्रकाशन्ते नरा हारा इवोज्ज्वलाः॥ २॥
साधुसंतानभाजो ये सन्तः संश्रितनन्दनाः।
न ते मुञ्चन्ति पञ्चत्वेऽप्यौदार्यं स्वर्द्रुमा इव॥ ३॥
स्वयं क्षोभमुपेत्यापि परानामोदयन्ति ये।
भद्रश्रियस्ते जायन्ते स्वगोत्रस्य प्रसिद्धये॥ ४॥
मुञ्चन्तश्चापलरुचिं ये स्थिताः पावने पथि।
घना इवार्द्रहृदयाः प्रयतन्ते दिगन्तरम्॥ ५॥
प्रकृष्टजातरूपश्रीर्मानेन च महत्तरः।
एक एव महार्घेषु भवेत्सर्वोत्तरो भुवि॥ ६॥
मणयः सुधियश्चापि निसर्गोदग्रतेजसः।
अन्तस्त्रासेन निर्मुक्ता राज्ञां स्युर्हृदयंगमाः॥ ७॥
मुक्तामृणालसुधियां निर्मलानां निसर्गतः।
क्षुद्रं यदि स्याद्यच्छिद्रं तद्गुणैरपिधीयते॥ ८॥
विवृण्वन्ती पुरस्तैक्ष्ण्यं पृष्ठतः कुर्वती गुणान्।
कर्णान्विध्यति लोकस्य सूची वा सूचकस्य वाक्॥ ९॥
महागोत्रेषु संजाता मृदवो येऽपि ते घनाः।
स्वजीवनव्ययेनापि बहुधान्योपकारिणः॥ १०॥
भुवनोत्तरकल्पानां भोगेष्वव्यभिचारिणाम्।
केदाराणां प्रकृष्टानां न तृप्यन्ति कुटुम्बिनः॥ ११॥
प्रासादातिशयेनाशु विस्फुरत्सर्वसंपदः।
नदीनां भङ्गवन्तोऽपि साधवः सिन्धवो यथा॥ १२॥
पार्श्वे वसन्तं कामेषु साधकं सहचारिणम्।
दृष्ट्वापि कः पुमान्हृष्यन्नालपेन्मधुरां गिरम्॥ १३॥
अशेषचक्षुः श्रवणं प्रतिकूलो भवन्नपि।
विनतानन्दहेतुर्यः स पुमानाप्तनन्दनः॥ १४॥
शब्दशक्त्यैव कुर्वाणा सर्वदानवनिर्वृतिम्।
काव्यविद्या श्रुतिगता स्यान्मृतस्यापि जीविनी॥ १५॥
अनेकवर्णपदतां वाग्विद्युदिव बिभ्रती।
अभ्रान्तेषु सदा सारसङ्गिषु स्यात्स्फुरद्गुणा॥ १६॥
गूढभावास्पदत्वेन यदनादेयवद्भवेत्।
न जानते तत्कवयो गूढं सारस्वतामृतम्॥ १७॥
क्षीणस्नेहो निशान्तेषु मुञ्चन्स्वांजनसंहतिम्।
आत्मन्याप्तरुचिर्योगी निर्वाणं याति दीपवत्॥ १८॥
निर्मुक्तभोगशुचिता क्षमया मूर्ध्नि संगतिः।
महिम्ना चाप्यहीनत्वं न ह्यशेषस्य विद्यते॥ १९॥
पश्यन्मध्यस्थया दृष्ट्या कामं द्रुह्यन्तमप्यरिम्।
अनङ्गीकृत्य यः शाम्येत्सत्यमीश्वर एव सः॥ २०॥
योगिधीरर्कदीप्तिश्च प्राचीनतमसः क्षयात्।
क्रमाद्दीत्या परां काष्ठां याति कामं विहायसा॥ २१॥
इति कविराक्षसकृतौ सूक्तिसंग्रहे सुजनपद्धतिस्तृतीया समाप्ता॥ ३॥
_________________
चतुर्थी पद्धतिः।
अलकाश्च खलाश्चैव मूर्ध्नि भीरुजनैर्धृताः।
उपर्युपरि सत्कारेऽप्याविष्कुर्वन्ति वक्रताम्॥ १॥
गुणानार्तिपरान्नीत्वा धनिनो धन्विनो यथा।
निघ्नन्ति हृदयं दृप्ता विदुषां विद्विषामिव॥ २॥
महाप्रभञ्जनं प्राप्य स्वान्तेषु कलुषीकृताः।
प्रतिकूलं विचेष्टन्ते नीचाः केऽपि जडाशयाः॥ ३॥
प्रियार्थतृष्णामापाद्य विप्रलम्भेन खेदयन्।
विनापि विग्रहं लोकान्कामवद्बाधते खलः॥ ४॥
पुरुषा विवरं प्राप्य केऽप्यलक्षितसंभवाः।
शोषयन्ति महावंशान्मुखे तीक्ष्णा घुणा इव॥ ५॥
अदाक्षिण्यादतीवोप्राः पवना इव दुर्जनाः।
गुरूनपि प्रतिक्षेप्तुंप्रयतन्ते क्षमाभृतः॥ ६॥
मूर्खाश्च मुकुराश्चैव भृशं भूत्यवलेपिनः।
परेषामनुरूपाणि विपर्यासेन गृह्णते॥ ७॥
मधुव्रताश्च मूर्खाश्च रजसा रूक्षतां गताः।
नित्यमाक्रम्यगृह्णन्ति सारं सुमनसां मुखात्॥ ८॥
आसाद्यमन्दरागोऽपि भुजंगेनातिसंगतिम्।
तद्भोगात्तु भ्रमन्कष्टं प्राप्नोति विषमन्ततः॥ ९॥
दुर्भृत्यो दुरुपानच्च प्राप्यापि स्नेहसत्क्रियाम्।
स्वामिनः पदभङ्गाय स्वकाठिन्येन कल्पते॥१०॥
अपथेनैव यो मोहादधः सारायते स्वयम्।
नीचोपसर्पणवशात्स पतेद्वंशवानपि॥ ११॥
मन्दतीक्ष्णरुचिः पापः कुजन्मा यच्च देहिनाम्।
दुःखाय जन्म भजते निधनं चेति विस्मयः॥ १२॥
जनित्वाप्युन्नते वंशे वक्राः केचन कण्टकाः।
कुर्युर्जनपदक्लेशं साधुमार्गस्य दूषकाः॥ १३॥
स्वपक्षमवधुन्वन्तः परानाशु विशन्ति ये।
गुणोज्झितत्वात्तेभ्योऽपि च्यवन्तेऽत्र शरा इव॥ १४॥
नित्यमक्षिगतस्यापि दुर्जनस्याञ्जनस्य च।
न लक्षयितुमाकारः शक्यः स्यात्स प्रवेशतः॥ १५॥
नौश्च दुर्जनजिह्वा च प्रतिकूलं विसर्पिणी।
प्रतारणाय लोकानां दारुणा केन निर्मिता॥ १६॥
लक्षयित्वैव लुब्धेशाः किंचिद्रूपं भयानकम्।
मार्गणानां प्रवर्तन्ते क्षयायानपराधिनाम्॥ १७॥
नीतोऽप्यभ्यन्तरत्वेन जनैः प्राणसमानताम्।
खलो वायुरिवारूपो दुर्ग्रहः स्पर्शनं विना॥ १८॥
मृदवोऽपि सदामोदहेतवोऽप्यमला अपि।
नातिश्लाघ्याः समनसो जनैर्जातिविवर्जिताः॥ १९॥
कृपणेन कथंकारं कृपाणः सह गण्यते।
परेषां दानसमये यः स्वकोशं विमुञ्चन्ति॥ २०॥
जडाशयस्य हृदये कामः सोम इवोत्थितः।
बह्वीरपि क्षपाः प्राप्य क्षयं याति नभोगतः॥ २१॥
भ्रमेण सहितं नीचैर्गत्वादाय तु जीवनम्।
क्षेत्रे दत्ते घटीयन्त्रमक्षेत्रे बालिशो जनः॥ २२॥
कविराक्षसकृतौ सूक्तिसंग्रहे कुजनपद्धतिश्चतुर्थी समाप्ता॥४॥
_____________
पञ्चमी पद्धतिः।
बाल्ये कामप्रवृद्धस्तु वृद्धः स्यादधिको जडः।
स्वान्ते च कृष्णरूपश्चेत्पूज्यो राजा द्विजन्मिनाम्॥ १॥
शुचेर्यस्य द्विजेन्द्रस्य हृदयं हरिणाश्रितम्।
विराजति पदे विष्णोरतिक्रम्याशुभानि सः॥ २॥
क्षुद्रान्हित्वा सवयसोऽप्यप्रसन्नाञ्जलाशयान्।
विप्रस्थितो हंस इव प्राप्नुयान्मानसं शुभम्॥ ३॥
वसन्नप्यवदातानां द्विजानां सविधे सदा।
रागानुबन्धमधरो न कदाचिद्विमुञ्चति॥ ४॥
द्विजेन्द्रोऽपि कलाढ्योऽपि कामचारी भवेत्सदा।
नित्यं निमज्जन्नप्यब्धौ नान्तःशुद्धो भवत्यलम्॥ ५॥
वेदत्रयमयो यः स्यात्सोऽपि हीनः क्षणाद्भवेत्।
स्वस्यैव रुच्या पीतायां वारुण्यां सत्पथाच्च्युतः॥ ६॥
देवाश्च भूमिदेवाश्च नित्यमप्यमृताशनाः।
हीयन्ते स्वाधिकारात्ते ये सेवन्ते नवासवम्॥ ७॥
दृष्ट्वाग्रे भूमृतः कन्यां शमस्थोऽपि विकारवान्।
अतनुं काममातन्वन्नष्टात्मेत्युच्यते बुधैः॥ ८॥
द्विजः सुमनसो हित्वा भृङ्गवद्दानलिप्सया।
आश्रयन्नृपमातङ्गान्सीदेच्छ्रुतिनिषेधतः॥ ९॥
अधिगम्याशु गोलक्षमेकः शाम्यति मार्गणः।
अनुरोधस्थिरतया न च शक्यप्रतारणा॥ १०॥
साध्वी सरिच्च पत्यौ स्याद्विरसेऽप्यपराङ्मुखी।
पितृपत्यभिगुप्तापि या लङ्का धवगामिनी।
सर्वदैव क्रियानर्हा सा स्त्री दिगिव दक्षिणा॥ ११॥
कविविद्यादुराधर्षो यो राक्षस इवापरः।
दक्षिणस्थो लब्धवर्णो विख्यातः कविराक्षसः॥ १२॥
प्रसादार्थं सुमनसां संतोषार्थं सभासदाम्।
पाण्डित्यं ख्यापयंस्तेन कृतोऽयं सूक्तिसंग्रहः॥ १३॥
इति कविराक्षसकृतौ सूक्तिसंग्रहे प्रकीर्णपद्धतिः पञ्चमी समाप्ता॥ ५॥
समाप्तोऽयं ग्रन्थः॥
<MISSING_FIG href="../../../books_images/U-IMG-1723808789Screenshot2024-08-16114601.png"/>
]