[[कमलापत्यष्टकम् Source: EB]]
[
कमलापत्यष्टकम्
भुजगतल्पगतं घनसुन्दरं
गरुडवाहनमम्बुजलोचनम् ।
नलिनचक्रगदाकरमव्ययं
भजत रे मनुजाः कमलापतिम् ॥ १॥
अलिकुलासितकोमलकुन्तलं
विमलपीतदुकूलमनोहरम् ।
जलधिजाश्रितवामकलेवरं
भजत रे मनुजाः कमलापतिम् ॥ २॥
किमु जपैश्च तपोभिरुताध्वरै-
रपि किमुत्तमतीर्थनिषेवणैः ।
किमुत शास्त्रकदम्बविलोकनैः
भजत रे मनुजाः कमलापतिम् ॥ ३॥
मनुजदेहमिमं भुवि दुर्लभं
समधिगम्य सुरैरपि वाञ्छितम् ।
विषयलम्पटतामपहाय वै
भजत रे मनुजाः कमलापतिम् ॥ ४॥
न वनिता न सुतो न सहोदरो
न हि पिता जननी न च बान्धवाः ।
व्रजति साकमनेन जनेन वै
भजत रे मनुजाः कमलापतिम् ॥ ५॥
सकलमेव चलं सचराचरं
जगदिदं सुतरां धनयौवनम् ।
समवलोक्य विवेकदृशा द्रुतं
भजत रे मनुजाः कमलापतिम् ॥ ६॥
विविधरोगयुतं क्षणभङ्गुरं
परवशं नवमार्गमलाकुलम् ।
परिनिरीक्ष्य शरीरमिदं स्वकं
भजत रे मनुजाः कमलापतिम् ॥ ७॥
मुनिवरैरनिशं हृदि भावितं
शिवविरिञ्चिमहेन्द्रनुतं सदा ।
मरणजन्मजराभयमोचनं
भजत रे मनुजाः कमलापतिम् ॥ ८॥
हरिपदाष्टकमेतदनुत्तमं
परमहंसजनेन समीरितम् ।
पठति यस्तु समाहितचेतसा
व्रजति विष्णुपदं स नरो ध्रुवं ॥ ९॥
इति श्रीमत्परमहंसस्वामिब्रह्मानन्दविरचितं कमलापत्यष्टकं समाप्तं॥
]