[[अभिनवकौस्तुभमाला-दक्षिणमूर्तिस्तवौ Source: EB]]
\
TRIVANDRUM SANSKRIT SERIES.
NO H.
ABHINAVAKAUSTUBHAMÁLÁ
AND
DAKSHINAMÚRTISTAVA
01
KRISHNALILASUKAMUNI
Edited with Note.
BY
T. GANAPATI SÁSTRĪ
Principal. His Highness, the Maharajah’s Sauskert. Colleg Forurden
PUBLISHED UNDER THE AUTHORITY OF THE GOVERNMENT OF
HIS HIGHNESS THE MAHARAJAH OF TRAVANCORE
TRIVANDRUM.
PRINTED AL THE IL AVANCORE GOVERNMENT PRES:
1905.
॥श्रीः॥
अनन्तशयनराजकीयसंस्कृतग्रन्थावलिः
ग्रन्थाङ्कः २.
अभिनवकौस्तुभमाला-दक्षिणामूर्त्तिस्तवौ
श्रीकृष्णलीलाशुकमुनिना
प्रणीतौ
अनन्तशयनस्थराजकीयसंस्कृतविद्यामन्दिराध्यक्षेण
त. गणपतिशास्त्रिणा
संशोधितौ
लघुटिप्पण्या च संयोजितौ।
__________
तौ च
अनन्तशयने
महामहिमश्रीमूलकरामवर्मकुलशेखरमहाराजशासनेन
राजकीयमुद्रणयन्त्रालय
मुद्रयित्वा प्रकाशितौ ।
कालम्बाब्दाः १०८१, कैस्ताब्दाः १९०५.
निवेदना।
अभिनवकौस्तुभमालाया दक्षिणामूर्त्तिस्तवस्य च प्रणेता लीलाशुकमुनिर्यथा पुरुषकारकर्तर्न भिद्यते, तथा पुरुषकायस्य निवेदनायां प्रत्यपादयम् । कृष्णकर्णामृतस्य कर्ता लीXकः किमयमेव स्यादुतान्य इति न निश्चयः । तत्र अभिनवकौस्तुभमालाया रत्नसहोदरकौस्तुभमालेत्यपि प्रसिद्धिरस्ति।
त. गणपतिशास्त्री.
Prefatory Note.
As has been stated in the Introduction to Purushakard, its r Krishnallasukamum is also the author of Abhinavaibhumala and Dakshinamurtistaram. But it is not n whether he is the same as Lilasuka, the author of naharnamritam. Abhinavahaustubhamala is also known nasahodarakaustubhamala.
T. G. S.
॥श्रीः॥
श्रीकृष्णलीलाशुकमुनिप्रणीता
अभिनवकौस्तुभमाला।
लक्ष्मीश्च कौस्तुभश्चेति यद्रत्नद्वयमुद्धृतम्।
तन्नः कामदुघं भूयात् तेजस्त्रैलोक्यमङ्गलम्॥१॥
यत्र साम्राज्यचिह्नानि यमिनां हृदयैः सह।
श्रीश्च जाग्रति तज्जीयाच्छ्रीश ! त्वच्चरणाम्बुजम्॥२॥
यच्चादिकवयो व्यासप्रमुखाः सपितामहाः।
भागीरथीसरस्वत्योः प्रवाहप्रभवं विदुः॥३॥ (युग्मकम् )
किं ब्रूमः प्रपदं देव ! यस्य [प्रतिनिधावपि1।
पृष्ठे जरढकूर्मस्य जगती प्रतितिष्ठति॥४॥
तेऽमी नखेन्दवो देव ! यान् हि नाभिसरोजभूः।
पुरा सिसृक्षितस्येन्दोः प्रतिमामन्वमन्यत॥५॥
जयतां जगतां नाथ ! गुल्फावुत्फुल्लविभ्रमौ।
यावनुस्मरतां गाढमुन्नतिर्न2 तथानयोः॥६॥
तव देव ! पदं धन्या मणिभूषणमण्डली।
वेषान्तरेण वेदान्तवाणीव विनिषेवते॥७॥
निर्वाणसंज्ञकं देव ! तव तत् परमं पदम्।
चिरात् प्रविशतां शङ्के जङ्घे मङ्गल्यतोरणे॥८॥
एते ते जानुनी नाथ ! यशोदाङ्गणरिङ्गिणी।
लक्ष्मीः करीषगन्धान्ध्यच्छ्लाज्जिघ्रति3 ये ( स्मिता ?)4 ॥९॥
तावूरू जयतां यौ किं द्वौ करौ स्मरहस्तिनः।
हस्तिपृष्ठाप्रतिष्ठश्चेन्नैव5 देवः श्रियं जयेत्॥१०॥
त्वत्कटीतटसौभाग्ये स्वामिन्नास्माद्गिरां गतिः।
लक्ष्मीवसुन्धराधन्यमनीषास्तत्र जाग्रतु॥११॥
कामरूपैव देव! श्रीर्येयं वक्षस्तटे स्थिता।
कटीतटेऽपि कामान्धा भाति पीताम्बरात्मना॥१॥
काञ्चीयं काञ्चनी नाथ! भाति रत्नप्रभोद्भटा।
मुग्धयेव कृता लक्ष्म्या मदान्धस्मरशृङ्खला॥१३॥
सेयं नाभी यया देव! शङ्खः संघृष्य गर्जति।
लक्ष्मीविरिञ्चयोः स्पर्धा वस्तुं यत्सरसीरुहे॥१४॥
वलित्रयमिदं देव! जगत्त्रयमनोहरम्।
माधुर्यवारिधेर्धत्ते वीचीनां विभ्रमश्रियम्॥१५॥
श्रीमानुदरबन्धोऽयं श्रियं देवस्य पुष्यति।
कान्तिसिन्धौ दृशोः क्रीडाप्लवः क्लृप्त इव श्रियः॥१६॥
लोकैकनाथ! रम्येयं रोमराजी विराजते।
कॢप्तेव प्रथमं लक्ष्म्या वक्षोहर्म्याधिरोहणी॥१७॥
श्रीवत्सः श्रीनिधे ! सोऽयं श्रियं कामपि पुष्यति।
यः पद्मजापदाम्भोजक्रीडाचिह्नानि निह्नुते॥१८॥
चकास्ति कौस्तुभः सोऽयं तव देव! भुजान्तरे।
पयोधिराजकन्याथा हर्म्यदीप इवार्पितः॥१९॥
नानारत्नसहस्राणि नाथ! वक्षसि जाग्रति।
रत्नाकरसुतोद्वाहयौतकानीव कानिचित्॥२०॥
वैजयन्तीमिमां6 देव! मन्ये साधारणीं7ध्रुवम्।
ममत्वपात्रं भृङ्गाणां देवस्य8 मदनस्य च॥२१॥
भान्ति ते जगतां नाथ! भुजा भूषणभूषणाः।
जगद्भारोद्वहैश्चक्रे यैश्रक्रादिभरश्रमः॥२२॥
पाणयश्चक्रपाणे! ते भान्ति भक्ताभयप्रदाः।
येषां दक्षिणतैवासील्लक्ष्मीपाणिग्रहोत्सवे॥२३॥
लोकपालललाटेषु लक्ष्म्याश्च स्तनमण्डले।
लेखारसज्ञैर्यैः पञ्चशाखैः पञ्चशरः स्मरः॥२४॥(युग्मकम्)
तेऽमी कररुहा देव! येषां विभ्रमविक्रमाः।
कमलाविपुलोत्तुङ्गस्तनयोर्हृदि च द्विषः॥२५॥
कम्बु ग्रीवामिमां नाथ! कथं नु कथयामहे।
लक्ष्मीकङ्कणमुद्राभिर्या त्रिरेखास्थितिं
जहौ॥9२६॥
कर्णपाशाविमौ देव! स्फुरन्मकरकुण्डलौ।
अवशाद्यत्प्रवेशान्धा मृगा मृगदृशां दृशः॥२७॥
तौ कपोलाविमौ देव! यावुद्वीक्ष्य रमाभुवौ।
मन्ये नान्यावमन्येतां10 मङ्गल्यमणिदर्पणौ॥२८॥
अधरं देव! बिम्बोष्ठममृतं भुवनोत्तरम्।
आहुर्विपर्ययेणात्र11 प्रमाणं प्राणवल्लभे॥२९॥
तवाधरसुधा सेयं यां निपीय पयोधिजा।
ततः प्रभृति वै देव! सुधान्तरमुपेक्षते॥३०॥
दन्तपङ्क्तिरियं देव ! दशनच्छदरञ्जिता।
मुखेन्दुकान्तेराधत्ते मुक्तावलिपरिष्क्रियाम्॥३१॥
देव! त्वन्नासिकावज्रकुसुमं प्राप्य मन्मथः।
कुसुमान्तरसम्पत्तिं मन्यते पङ्क्तिपूरणम्॥३२॥
अनयोः पुण्डरीकाक्ष! नेत्रयोः पुण्डरीकयोः।
मुखेन्दुः कान्तिसरसी मूलभूमिस्तु चिन्त्यताम्12॥३३॥
देव ! क्रीडाकटाक्षाय भूयो बद्धोऽयमञ्जलिः।
कामं न केवलं लक्ष्म्या यो दुग्धे जगतामपि॥३४॥
तदेतद् वदनं देव! माधुर्यमिव मूर्त्तिमत्।
वीक्ष्य सेवाच्छलारूढनासाग्राङ्गुलि13 यज्जगत्॥३५॥
यत्र स्वयंवरे स्पर्धा लक्ष्मीकान्त्योः किलाभवत्।
वेदाश्च केलिजल्पाश्च सौभ्रात्रं यत्र बिभ्रते॥३६॥(युग्मकम्)
पद्मचन्द्रमधुज्योत्स्नाविवादान्ध्येष्वनादिषु।
देव ! त्वद्वक्त्रबिम्बस्य स्मितस्य च किमुच्यताम्14॥३७॥
कस्तूरीतिलकामोदे ललाटे भ्रमरैर्वृते।
देव! त्वद्भ्रूलताभृङ्गचमूः पाति मुखाम्बुजम्॥३८॥
अष्टमीन्दुनिभस्यास्य ललाटाष्टापदस्य ते।
यौवराज्यपदं देव! मुखेन्दुरनुमन्यताम्॥३९॥
नाथ ! धम्मिल्लभारेऽस्मिन नानासौरभनिर्भरे।
भृङ्गैर्लक्ष्मीकटाक्षाणां जृम्भतेऽतिमृधं मुध॥४०॥
नाथ! त्वामेव मन्येऽहमचलं भुवनोन्नतम्
अनुल्लङ्घ्येव यन्मौलिं छलादर्कोऽपि15 सेवते॥४१॥
देव ! त्वद्भक्तिरथवा त्वत्तोऽपि द्विगुणोन्नता।
जितस्त्वमसि यद्भाजा प्रह्लादेन रणेऽपि हि॥४२॥
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः।
नमस्तुभ्यं नमस्तुभ्यं नमस्तुभ्यं नमो नमः॥४३॥
तदिदं त्वद्वपुर्देव ! नीलं निर्वृतिमन्मयम्।
कान्तिभूषाशताभोगकर्बुरं भातु मे मुहुः॥४४॥
तत्त्वं परं किमपि यत् स्वरसावभासि
सान्द्रप्रमोदलहरीभरिताखिलाशम्।
कैवल्यविग्रहमिदं तदनुग्रहार्थ-
मस्मादृशां जयति तादृगुपात्तमूर्त्ति॥४५॥
अनुभवतममुं भृशं दृशाभिनवकौस्तुभमालयानया।16
भुवनविभुमभूतपूर्वया पुलकपरम्परया च भूषितम्॥४६॥
श्रीकृष्ण केलिशुकवाङ्मयवीचिमाला-
लीलारसज्ञ (मकर) श्रवणाञ्चलस्य।
देवस्य दिव्यहृदये हृदयङ्गमेयं
कण्ठस्थले च सुकृतां सुचिराय जीयात्॥४७॥
इति श्रीकृष्णलीलाशुकमुनिविरचिता
सप्तचत्वारिंशत्संख्या
अभिनवकौस्तुभमाला
समाप्ता ।
॥श्रीः॥
श्रीकृष्णलीलाशुकमुनिप्रणीतो
दक्षिणामूर्त्तिस्तवः।
____
दुर्वारगर्वभरदृरविजृम्भमाण-
मोहान्धकारपरिपाटनबद्धदीक्षः।
शश्वद् भृशप्रविसरत्सहजप्रकाश-
कोशः प्रभुर्जयति कोऽपि वटस्थलीशः॥१॥
अग्नीन्दुभानुभिरशेषजगत्प्रकाशै-
रासादितं नयनभावमवेक्ष्य वेदाः।
यद् वेदयन्ति महसां तमसां च दूरं
तद् दैवतं वटतटीदयितं भजामः॥२॥
कल्पद्रुमैरलममीभिरनीश्वराणा-
माराधनीयपदवीमधिगम्य रम्यैः।
तेऽमी वयं परिवृतं परमेश्वरेण
तं वा वटं तमपि वा विभुमाश्रयामः॥३॥
षड्वर्गदुर्गपरिलङ्घनकोपितेन
चित्तेन यत्र सुचिरं चपला मुनीन्द्राः।
तच्छाम्भवं मधुरिमैकरसोर्मि धाम
श्रीमद्वटाश्रयमुपाश्रयितुं यतध्वम् ॥ ४ ॥
नृत्यन्ति यच्छिरसि नाकनदीप्रवाहा-
स्तद्भ्रातरश्च रसने वचसां प्रपञ्चाः।
चित्ते दया चरणरेणुषु वाञ्छितार्थाः
पायादयं वटतटीदयितो विभुर्वः॥५॥
इन्द्रादयो यदरुणाङ्घ्रिरजःकणेन
राज्यश्रियं त्रिभुवनैर्भृशमुद्वहन्ति।
व्याघ्रत्वचा परिहितस्य हि तस्य भिक्षो-
र्व्याख्याश्रियं वटतटावसथस्य वन्दे॥६॥
आम्नायवीचिसहचारिवचःप्रसारै-
रासारसारसरणीमाधिरोहमाणैः।
आसिच्य मानसमनन्यधियां मुनीना-
माद्यं वटं च विहरन् गिरिशोऽवताद् वः॥७॥
मन्दस्मितेन च मनोहरमुद्रया च
व्याख्यानवीथिविभवैश्च विजृम्भमाणैः।
आख्यायमाननिजतत्त्वरसानुभूति-
विश्वेश्वरो वटतटप्रकटोऽवताद्वः॥८॥
ऊर्ध्वं दिवो भवमधश्च भुवो भवन्तं
तिर्यक् च पर्यवसिते भववैभवं तम्।
गाढं कयापि कृपया वटवृक्षमूले
मन्मानसे च विहरन्तमनन्तमीडे॥९॥
रक्ताङ्गुलायुगलनात्ततचारुमुद्र
संसारवृक्षपरितक्षपरश्वधाढ्यम् ।
क्रीडागृहीतमृगलाञ्छनलाञ्छिताग्रं
हस्तेन जानुनिहितेन जगन्मनोज्ञम्॥१०॥
तत्तत्फणामणिविभूषणभासुरेण
भाग्याधिकेन फणिना कृतयोगपट्टम्।
वामेतराङ्घ्रितलकान्तिकरम्बितेन
वामोरुणा गिरिसुताहृदयं हरन्तम्॥११॥
इन्दोः कलां खलु जटापटले वहन्तं
सर्वाः कला वचनवीथिषु चारयन्तम्।
देव्या वृतं गिरिजया मुनिभिः शुकाद्यै-
स्तं विश्वतो विशदमादिगुरुं प्रपद्ये॥१२॥ (विशेषकम्)
त्रिभुवनसुभगेयं दक्षिणामूर्त्तिमूर्तौ
भगवति कृतभावा कृष्णलीलाशुकीया।
जयतु जयतु देवी भारती जीवलोक-
श्रवणहृदयजिह्वाजन्म साफल्यमेतु॥१३॥
इति श्रीकृष्णलीलाशुकमुनिविरचितो
दक्षिणामूर्त्तिस्तवः
समाप्तः॥
_____
]
-
“साक्षात् तस्मिन् जगती प्रतितिष्ठतीति किमु वक्तव्यमित्यपिशब्देन द्योत्यते.” ↩︎
-
" उन्नतिरुत्कर्ष उत्सेधश्च." ↩︎
-
“करीषगन्धान्ध्यं शुष्कगोमयगन्धव्याप्तत्वं तम्यच्छलात् तद्रूपाद्वा कल्पितालिङ्गादित्यर्थः। जिघ्रति स्पृशति इति मन्ये इति शेषः। एवञ्च लक्ष्मीसंसर्गजमेवेदं जानुनोः करीषगन्धान्ध्यं. न त्वङ्गणरिङ्गणवशजनितमिति तात्पर्यं फ़लितम्। लक्ष्मीश्च करीषिणी श्रीसूक्ते श्रूयते— ‘गन्धद्वारान्दुराधर्षां नित्यपुष्टां करीषिणीं। ईश्वरीं सर्वभूतानां त्वामिहोपह्वये श्रियम्’ इति.” ↩︎
-
" ‘सदा’ इति वा ‘मुदा’ इति वा पाठो भवेत्." ↩︎
-
" इदमर्धं ’ इतिप्रविष्टप्रतिश्नेनैव देवः श्रियं जयेत् ?’ इत्येवादर्शपुस्तके दृश्यते." ↩︎
-
" ‘वैजयन्ती पताकायां जयन्त्यां केशवस्त्रजि’ इति यादवः." ↩︎
-
“साधारणीं सामान्यवनिताम्” ↩︎
-
“देवस्य प्रकरणात् तवेत्यर्थः. " ↩︎
-
“कम्बुना त्रिरेखेण भाव्यं, न तु त्रिरेखाहीनेन।‘त्रयी तु कम्बुः शङ्खोऽस्त्री सुग्रीवो मधुरस्वनः। त्रिरेखः षोडशावर्तः’ इति वैजयन्ती.” ↩︎
-
“अन्यौ वास्तवौ.” ↩︎
-
" भुवनोत्तरत्वादुत्तर शति हि बिम्बोष्ठो वक्तव्यः, न त्वधर इति.” ↩︎
-
" विरोधिन इन्दोरुत्पत्तिम्थानत्वमद्भुतमिति भावः." ↩︎
-
" सेवायाः सेवाकालिकाञ्चलेश्छलाद्व्याजाद् वस्तुतो विस्मयादित्यर्थः आरूढनासाग्रा अङ्गुलयो यस्य तत्." ↩︎
-
“पद्मचन्द्रयोर्मधुज्योत्स्नयोश्चोत्कर्षाप्रतिष्ठानान्न किमपि वक्तुमर्हमुपानतयेति भावः।” ↩︎
-
“नेत्रस्थानावस्थानव्याजादित्यर्थः। सेवनं च मौल्यनुल्लङ्घनपूर्वमिहोत्प्रेक्ष्यम्.” ↩︎
-
“. अभिनवेति स्तुत्यर्थे नूतनार्थे च .” ↩︎