[[कात्यायन्यष्टकम् Source: EB]]
[
कात्यायन्यष्टकम्
श्रीगणेशाय नमः ।
अवर्षिसञ्ज्ञं पुरमस्ति लोके
कात्यायनी तत्र विराजते या ।
प्रसाददा या प्रतिभा तदीया
सा छत्रपुर्यां जयतीह गेया ॥ १॥
त्वमस्य भिन्नैव विभासि तस्या-
स्तेजस्विनी दीपजदीपकल्पा ।
कात्यायनी स्वाश्रितदुःखहर्त्री
पवित्रगात्री मतिमानदात्री ॥ २॥
ब्रह्मोरुवेतालकसिंहदाढो
सुभैरवैरग्निगणाभिधेन ।
संसेव्यमाना गणपत्यभिख्या
युजा च देवि स्वगणैरिहासि ॥ ३॥
गोत्रेषु जातैर्जमदग्निभार-
द्वाजाऽत्रिसत्काश्यपकौशिकानाम् ।
कौण्डिन्यवत्सान्वयजैश्च
विप्रैर्निजैर्निषेव्ये वरदे नमस्ते ॥ ४॥
भजामि गोक्षीरकृताभिषेके
रक्ताम्बरे रक्तसुचन्दनाक्ते ।
त्वां बिल्वपत्रीशुभदामशोभे
भक्ष्यप्रिये हृत्प्रियदीपमाले ॥ ५॥
खड्गं च शङ्खं महिषासुरीयं
पुच्छं त्रिशूलं महिषासुरास्ये ।
प्रवेशितं देवि करैर्दधाने
रक्षानिशं मां महिषासुरघ्ने ॥ ६॥
स्वाग्रस्थबाणेश्वरनामलिङ्गं
सुरत्नकं रुक्ममयं किरीट्म ।
शीर्षे दधाने जय हे शरण्ये
विद्युत्प्रभे मां जयिनं कुरूष्व ॥ ७॥
नेत्रावतीदक्षिणपार्श्वसंस्थे
विद्याधरैर्नागगणैश्च सेव्ये ।
दयाघने प्रापय शं सदास्मा-
न्मातर्यशोदे शुभदे शुभाक्षि ॥ ८॥
इदं कात्यायनीदेव्याः प्रसादाष्टकमिष्टदम् ।
कुमठाचार्यजं भक्त्या पठेद्यः स सुखी भवेत् ॥ ९॥
॥
इति श्रीकात्यायन्यष्टकं सम्पूर्णम् ॥
]