[[काशीपञ्चकम् Source: EB]]
[
काशीपञ्चकम्
.. काशीपञ्चकम् ..
मनोनिवृत्तिः परमोपशान्तिः
सा तीर्थवर्या मणिकर्णिका च .
ज्ञानप्रवाहा विमलादिगङ्गा
सा काशिकाहं निजबोधरूपा .. १..
यस्यामिदं कल्पितमिन्द्रजालं
चराचरं भाति मनोविलासम् .
सच्चित्सुखैका परमात्मरूपा
सा काशिकाहं निजबोधरूपा .. २..
कोशेषु पञ्चस्वधिराजमाना
बुद्धिर्भवानी प्रतिदेहगेहम्
साक्षी शिवः सर्वगतोऽन्तरात्मा
सा काशिकाहं निजबोधरूपा .. ३..
काश्यां हि काश्यते काशी काशी सर्वप्रकाशिका .
सा काशी विदिता येन तेन प्राप्ता हि काशिका .. ४..
काशीक्षेत्रं शरीरं त्रिभुवन-जननी व्यापिनी ज्ञानगङ्गा
भक्तिः श्रद्धा गयेयं निजगुरु-चरणध्यानयोगः प्रयागः .
विश्वेशोऽयं तुरीयः सकलजन-मनःसाक्षिभूतोऽन्तरात्मा
देहे सर्वं मदीये यदि वसति पुनस्तीर्थमन्यत्किमस्ति .. ५..
]