[[गुरुगीतास्तोत्रम् Source: EB]]
[
[TABLE]
गुरुगीतास्तोत्रम्।
भूतपूर्ब्ब-गवर्मेण्ट-विद्यालयसमूह-परिदर्शकेन
श्रीयुक्त नारायणचन्द्र शर्म्म कविरत्नेन
परिशोधितम्।
(कलिफाता ८नं निमतला घाट इष्ट्रीटस्थ
भवनात् प्रकाशितम्।)
———
कलिकातानगरे।
श्रीभुवनचन्द्र वसाक-संख्यापित-संवाद-
ज्ञानरत्नाकरयन्त्रेतद्द्वारैव मुद्रितं।
प्रकाशितञ्च।
८ नं निमतला घाट इष्ट्रीट।
१८८६
अथ गुरूगीतास्तोत्रम्।
————————
श्रीगुरवे नमः।
अज्ञानतिमिरान्धस्य ज्ञानाञ्जनशलाकया।
चक्षुरुन्मीलितं येन तस्मै श्रीगुरवे नमः॥
अखण्डमण्डलाकारंव्याप्तंयेन चराचरम्।
तत्पदंदर्शितं येन तस्मै श्रीगुरवे नमः॥
अस्य गुरुगीतास्तोत्रस्य सदाशिव ऋषिर्विराट छन्दः
श्रीगुरुपरसात्माहं वीजं सः शक्तिः कौ कीलकम्
श्रीगुरुप्रसादसिद्ध्यर्थं जपे विनियोगः।
न्यासः।
ओँ हंसा सूर्य्यात्मने अङ्गुष्टाभ्यां नमः॥
हंसीं सोमात्मने तर्ज्जनीभ्यां स्वाहा।
हंसुं निरञ्जनात्मनेमध्यमाभ्यां बषट्॥
हंसैंनिराभाषात्मने अनामिकाभ्यां ह्रूं।
हंसौंअतिसूक्ष्मबोधात्मने कनिष्ठाभ्यां बौषट्॥
हंसःअव्यक्तवोधात्मने करतलष्टष्ठाभ्यां फट्।
हसः खात्मानमग्निसोमात्मपक्षयुक्तभिवात्मकम्॥
सकारेण वहिर्यान्तं प्रविशन्तं हकारतः।
हंसः सोऽहमिति ज्ञात्वा सोहं व्यञ्जनहीनतः॥
प्रक्षान् संहृत्य चात्मानं मांसरूपं बिचिन्तयेत्।
हंसाभ्यां परिवृत्य पत्रकमलैर्दिव्यैर्जगत्कारणैः॥
विश्वोत्तोर्ण मनेकदेहनिलयं स्वच्छन्दमायात्मया।
तत्तद्योग्यतया स्वदेशिकतनुं भावैकदीपाङ्गुरम्॥
प्रत्यक्षं रविविग्रहं गुरुपदं ध्यायेत् सितं चिन्मयम्।
इति ध्यानम्॥
ऋषय ऊचुः।
गुह्याद् गुह्यतरा विद्या गुरुगीता विशेषतः।
त्वत्प्रसादाद्धिश्रोतव्यं तत्सर्व्वं ब्रूहि मे प्रभो॥
सूत उवाच।
कैलासशिखरे रम्ये भक्तिसाधनतत्परम्।
प्रणय्य शङ्करं भक्त्या पार्व्वती परिपृच्छति॥
पार्व्वत्युवाच।
नमोऽस्तु देवदेवेश सदाशिव जगद्गुरो।
सर्व्वेश्वर महादेव गुरुदीक्षां प्रदेहि मे॥
केन मार्गेण भोः स्वामिन् देही ब्रह्ममयो भवेत्।
तत् कृपां कुरु मे खामिन् नमामि चरणे तव॥
श्रीभगवानुवाच।
यस्य देवे परा भक्ति र्यथा देवे तथा गरौ।
तस्य ते कथिता ह्यर्थाःप्रकाश्यन्ते महात्मनः॥
गुशब्द स्त्वन्धकारः स्याद्रुकार स्तन्निरोधकः।
अन्धकारनिरोधित्वाद्गुरुरित्यभिधीयते॥
यदङ्घिसकलद्वन्द्वबन्धतापनिरोधनम्।
तारकं विपदां मध्ये श्रीगुरुं प्रणमाम्यहम्॥
ममरूपासि देवि त्वं त्वद्भक्त्यर्थं वदाम्यहम्।
लोकोपकारकं प्रश्नं न केनापि श्रुतं पुरा॥
दुर्लभं त्रिषु लोकेषु तत् श्टणुष्व वदाम्यहम्।
गुरुं ब्रह्म विना नान्यत् सत्यं सत्यं वरानने॥
वेदशास्त्रपुराणानि इतिहासादिकानि च।
मन्त्र तन्त्रादिविज्ञानं स्मृतिरुच्चाटनादिकम्।
शैवशाक्तागमादीनि चान्ये च बहवोमताः॥
अप्रभ्रंशाः समस्ताहि जीवानां भ्रान्तचेतसाम्।
स्वयंलोकगुरुः साक्षी जायते वेदतत्त्ववित्॥
यज्ञब्रततपोदानं जपस्तीर्थस्तथैवच।
गुरुतत्त्वमविज्ञाय मूढ़ा स्त्वन्यरता जनाः।
गुरुबुद्ध्यात्मनो नान्यत् सत्यं सत्यं नसंशयः॥
तल्लाभार्थं प्रयत्नेन कर्त्तव्यश्च मनीषिभिः।
गूढमाया जगन्माया देहमज्ञानसंस्थितम्॥
उदयं स्वप्रकाशेन गुरुशब्देन कथ्यते।
देही ब्रह्म भवेद्यस्मात् त्वत्कृपार्थं वदामि ते॥
सर्व्वपापविशुद्ध्यर्थं श्रीगुरोः पादपङ्कजम्।
सर्व्वतीर्थावगाहस्य संप्राप्नोति फलं नरः॥
गुरुपादाम्बुजं सम्यक् संसारार्णवतारकम्।
अज्ञानमूलहरणं जन्म कर्म्मनिवारणम्॥
‘ज्ञानवैराग्यसिद्ध्यर्थं गुरुपादोदकं पिवेत्।
गुरोः पादोदकं पीत्वा गुरोरुच्छिष्टभोजनम्॥
गुरुमूर्त्तिं सदा ध्यायन् गुरोः स्तोत्रं जपेत् सदा।
काशी क्षेत्रनिवासः स्यात् जाह्नवी चरणोदकम्॥
गुरुर्विश्वेश्वरः साक्षात् तारकं ब्रह्म निश्चितम्।
शिवः पादान्वितोभूत्वा पादस्थश्चाक्षयोवटः॥
तीर्थराजः प्रयागश्च श्रीगुरोः पादसन्निधौ।
गुरुमूर्त्तिं स्मरेत् नित्यं गुरुनाम सदा जपेत्।
गुरोराज्ञां प्रकुर्व्वीत गुरोरन्यं न भावयेत्॥
अनन्यचित्तोयोगी स्यात् सुलभं तत्पदं शुभम्।
तस्मात् सर्व्वप्रयत्नेन गुरोराराधनं कुरु॥
गुरुवक्तेस्थिता विद्या गुरुभक्तिषु लभ्यते।
त्रैलोक्यस्फुटवक्तारो देवतासुरपन्नगाः॥
गुशब्दस्त्वन्धकारः स्यात् रुकारस्तन्निरोधकः।
अज्ञानग्रासकं ब्रह्म गुरुरेव नसंशयः॥
गुकारः प्रथमो वर्णो मायादिगुणभाषकः।
रुकारो द्वितीयो वर्णो मायाभ्रान्तिविमोचकः॥
एवं गुरुपदं श्रेष्ठं देवानामपि दुर्लभम्।
हाहाहूहूगणैश्चैव गन्धर्वाद्यैश्च पूज्यते ॥
ध्रुवन्तेषाञ्च सर्व्वेषां नास्ति तत्त्वं गुरोः परम्।
आसनं शयनं बस्त्रं वाहनञ्चापि भूषणम्॥
साधकेन प्रदातव्यं गुरोः सन्तोषकारकम्।
गुरोराराधनं कार्य्यं स्वजीवित्वं निवेदयेत्॥
शरीरमर्थसंप्राप्तंपशुपुत्रगृहादिकम्।
कर्म्मणा मनसा वाचा सदा सन्तोषयेत् गुरुम्॥
दण्डवत् प्रणमेत् भक्त्या निर्लज्जो गुरुसन्निधौ।
शरीरमर्थं प्राणांश्च सर्व्वं तस्मैनिवेदयेत्॥
चात्मदारादिकञ्चैव सद्गुरुभ्यो निवेदयेत्।
कृमिकीटभस्मविष्ठा–दुर्गन्धिमलमूत्रकम्॥
श्लेष्मरक्तंत्वचं मांसं गुरोरग्रे नकारयेत्।
संसारवृक्षमारूढाः पतन्ति नरकार्णवे॥
येन चोद्गारितं विश्वं तस्मै श्रीगुरवे नमः।
गुरुर्ब्रह्मा गुरुर्विष्णु गुरुर्देवो महेश्वरः॥
गुरुरेव परं ब्रह्म तस्मै श्रीगुरवे नमः।
अज्ञानतिमिरान्धस्य ज्ञानाञ्जनशलाकया॥
चक्षुरुन्मीलितं येन तस्मै श्रीगुरवे नमः।
अखण्डमण्डलाकारं व्याप्तं येन चराचरम्॥
तत्पदं दर्शितं येन तस्मै श्रीगुरवे नमः ।
स्थावर जङ्गमञ्चैव व्याप्तं येन चराचरम् ॥
तत्पदं दर्शितं येन तस्मै श्रीगुरवे नमः।
चिन्मयं व्यापितं सर्व्वं त्रैलोक्यं सचराचरम्।
तत्पदं दर्शितं येन तस्मै श्रीगुरवे नमः॥
सर्व्वश्रुतिशिरोरत्नविराजितपदाम्बुजम्॥
वेदाम्बुजन्मसूर्य्यायतस्मै श्रीगुरवे नमः।
चैतन्यं शाश्वतं शास्त्रं व्योमातीतं निरञ्जनम्॥
विन्दुनादकलातीतं तस्तै श्रीगुरवे नमः।
न गुरोरधिकं तत्त्वं न गुरोरधिकं तपः॥
तत्त्वज्ञानात् परं नास्ति तस्मै श्रीगुरवे नमः।
मन्नाथः श्रीजगन्नाथो मद्गुरुः श्रीजगद्गुरुः॥
ममात्मा सर्व्वभूतात्मा तस्मै श्रीगुरवे नमः।
ध्यानमूर्त्ति गुरोर्मूर्त्तिः ज्ञानमूलं गुरोः पदम्॥
मन्त्रमूलं गुरोर्वाक्यं मुक्तिमूला गुरोः कृपा।
नित्यं शुद्धं निराभाषं निराकारं निरञ्जनम्॥
नित्यवोधं चिदानन्दं गुरु ब्रह्मं नमाम्यहम्।
गुरुरादिरनादिश्च गुरुः परमदैवतम्॥
गुरुमन्त्रसमो नास्ति तस्मै श्रीगुरवे नमः।
सप्तसागरपर्य्यन्तं तीर्थस्नानफलं तथा॥
गुरोरङ्घ्रिजलाद्विन्दु सहस्रांशोः सुदुर्लभम्।
गुरुदेवो जगत् सर्व्वं ब्रह्मविष्णुशिवात्मकम्॥
गुरोः परतरं नास्ति तस्मात् सम्पूजयेद्गुरुम्।
ज्ञानंविनापि मुक्तिस्तु लभ्यते गुरुभक्तितः॥
गुरोः समो नास्ति नान्यत् साधयेत् गुरुमार्गिणाम्।
तस्मात् परतरं नास्ति वदन्तीति शिवादयः॥
सामान्यतां तथाचान्यत् साधयेत् गुरुमार्गिणाम्।
तस्मात् परतरं नास्ति नेति नेतीतिवै श्रुतेः॥
मनसा वचसाचैव अस्मदाद्या विमोहिताः।
गुरोः कृपाप्रसादेन ब्रह्मा विष्णुर्हरस्तथा॥
सामर्थ्यं तत्प्रसादेन केवलं गुरुसेवया।
देवकिन्नरगन्धर्व्वाः पितृयक्षास्तु चारणाः॥
मुनयो ऽपि न जानन्ति पितरो यक्षकिन्नराः।
ऋषयः सर्व्वसिद्धाद्या गुरुसेवापराङ्मुखाः॥
ध्यानं श्टणु महादेवि सर्व्वानन्दप्रदायकम्।
सर्व्वसौख्यकरञ्चैव भक्तिमुक्तिप्रदायकम्॥
श्रीमत् परं ब्रह्म गुरुं नमामि।
श्रीमत् परं ब्रह्म गुरुं भजामि॥
श्रीमत् परं ब्रह्म गुरुंस्मरामि।
श्रीमत् परं ब्रह्म गुरुं वदामि॥
ब्रह्मानन्दंपरमसुखदं केवलं ज्ञानमात्रम्
द्वन्द्वातीतं गगनसदृशं तत्त्वमस्यादिलक्षम्।
एवं नित्यं विमलमचलं सर्व्वदा साक्षिभूतं
भावातीतं त्रिगुणरहितं सद्गुरुं तं नमामि॥
नित्यं शुद्धं निराभासं निराकारं निरञ्जनम्।
नित्यबोधं चिदानन्दं गुरुब्रह्म नमाम्यहम्॥
आनन्दमानन्दकरं प्रसन्नंज्ञानस्वरूपं निजभावयक्तम्।
योगीन्द्रमीड्यंभवरोगवैद्यं श्रीमद्गुरुं नित्यमहं भजामि॥
ब्रह्माम्बुजेकर्णिकमध्यसंस्थं सिंहासने संस्थितदिव्यमूर्त्तिम्।
ध्यायेद्गुरुं चन्द्रकलाप्रकाशं सञ्चित्सुखाभीष्टवरं दधानम्॥
श्वेताम्बरं श्वेतविलेपनाढ्यं मुक्ताफलाभूषितचारदिव्यम्।
वामाङ्गपीठे स्थितदेवशक्तिं मन्दस्मितं चारुकृपाभिधानम्॥
यस्मिन् सृष्टिस्थितिध्वंसि निग्रहानुग्रहात्मकम्।
कृत्यं पञ्चविधं शश्वत् भासते तन्नमाम्यहम्॥
प्रातः शिरसि शुक्लाब्जे त्रिनेत्रंद्विभुजं गुरुम्।
वराभयकरं शान्तं स्मरेत्तन्नामपूर्व्वकम्॥
न गुरोरधिकं न गुरोरधिकं
न गुरोरधिकं न गुरोरधिकम्।
शिवशासनतः शिवशासनतः
शिवशासनतः शिवशासनतः॥
इदमेवशिवम् इदमेवशिवम् इदमेवशिवम् इदमेवशिवम्।
मम शासनतो ममशासनतः ममशासनतो ममशासनतः
एवम्विधं गुरुं ध्यात्वा ज्ञानमुत्पाद्यते खयम्।
तदागुरोः प्रसादेन मुक्तोऽहमिति भावयेत् ॥
गुरोर्निरूपिते मार्गे मनःशुद्धिञ्चकारयेत्।
अनित्यं खण्डयेत् सर्व्वं यत्किञ्चिदात्मगोचरम्॥
ज्ञेयंसर्व्वं मतीतच्च ज्ञानञ्च सन उच्यते।
ज्ञानं ज्ञेयं समं कुर्य्यात् यथान्यान्यद्वितीयकम्।
एवं श्रुत्वामहेशानि गुरूनिन्दां करोति यः।
सयाति नरकं घोरं यावच्चन्द्रनिशाकरौ॥
यावत् कल्यान्तको देही तावदेव गुरं स्मरेत्।
गुरुलोपो न कर्त्तव्यः स्वच्छन्दं यदि भावयेत्॥
हुङ्कारेण न कत्तेव्यः प्राज्ञैःशिष्यैः कथञ्चन।
गुरोरग्रेन वक्तव्यमसत्यञ्च कदचन॥
यो वै जयति हूङ्कृत्य गुरं निजित्य वादतः।
अरण्ये निर्जने देशे स भवेत् बह्मराक्षसः॥
मुनिभिः पन्नगैर्व्वापिसुरैर्व्वा शापितो यदि।
कालमृत्युभयाद्वापि गुरूरक्षति पार्व्वति॥
अशक्तोऽपि सुराध्यक्षोऽप्यशक्ता मुनयस्तथा।
ततृक्षणांत् गुरुशापात्तु क्षयंयाति न संशयः॥
मन्त्रराजमिदंदेविगुरुरित्यक्षरद्वयम्॥
स्मृतिवेदार्थवाक्यानां गुरः साक्षात् परं पदम्।
श्रुतेः स्मृतेश्च विज्ञानं केवलं गुरुसेवया॥
तेवैसन्मासिनः प्रोक्ता इतरे वेशधारिणः॥
नित्यं बह्मनिराकारं निर्गुणं वोधयेत् परम्।
सर्व्वं व्रह्मनिराभासं दीपाद्दीपान्तरंयथा॥
गुरुोः कृपाप्रसादेन आत्मारामं निरीक्षयेत्॥
अनेन मुक्तिमार्गेण आत्मज्ञानं प्रवर्त्तते।
आब्रह्मस्तम्भपर्य्यन्तं परमात्मस्वरूपिणम्॥
स्थावरं जङ्गमञ्चैव प्रणमामि जगद्गुरुम्।
वन्देऽहं सच्चिदानन्दंभेदातीतं सदा गुरुम्॥
नित्यं पूर्णं निराकारं निर्गुणं स्नात्मसंस्थितम्।
परात् परतरं ध्येयं नित्यमानन्दकारकम्॥
हृदयाकाशमध्यस्थं शुद्धस्फटिकसन्निभम्।
स्फटिकप्रतिमारूपं दृश्यते दर्पणे यथा॥
तथात्मानं चिदाकारमानन्दं सोऽहमित्यतः।
अङ्गुष्ठमात्रः पुरुषो ध्यायते चिन्मयो यदि॥
तत्त्वं स्फुरति यद्भावं श्टणु तत्कथयाम्यहम्।
अगोचरं तथागग्यं नामरूपविवर्ज्जितम्॥
निःशब्दं तं विजानीयात् स्वभावं ब्रह्म पार्व्वति।
यथा निजस्वभावेन कर्पूरकुङ्कु मादिषु॥
शीतलत्वं स्वभावेन तथा ब्रह्म च शाश्वतम्।
स्वयं तथाविधो भूत्वा स्थातव्यं यत्र कुत्रचित्॥
कोटिभृङ्गरिटिध्यानात् यथा भवति पार्व्वति।
गुरुध्यानात्तथा नित्यं स्वयं ब्रह्ममयो भवेत्॥
पिण्डे पदे तथा रूपे मुक्तास्ते नात्र संशयः।
स्वयं ब्रह्ममयो भूत्वा तत्पदञ्च विलोकयेत्॥
परात् परतरं नास्ति सर्व्वदेवनिरामयम्।
तस्यावलोकनं प्राप्तं सर्व्वसङ्गविवर्ज्जितम्॥
एकाकी निःस्पृहः शान्तः स्वातव्यं तत्प्रसादतः।
लब्धं वाथ न लब्धं वा स्वल्पंवा बहुलं तथा॥
निष्कामेनैव भोक्तव्यं सदासन्तुष्टमानसैः।
सर्व्वज्ञपदमित्याहुर्देही सर्व्वमयो विभः॥
सदानन्दः सदाशान्तो रमते यत्र कुत्रचित्।
यत्रैव तिष्टते सोऽपि स देशः पुण्यभाजनम्॥
मुक्तस्त्र लक्षणञ्चापि तवात्र कथितं मया।
उपदेशो मया देवि गुरुमार्गेण दर्शितः॥
गुरुभक्ति स्तथा ध्यानं सकलंतब कीर्त्तितम्।
अनेन यद्भवेत् कार्य्यं तद्वदामि महामते॥
लोकोपकारकं देवि लौकिकन्तु न भावयेत्।
लौकिकं धर्म्मतो यातिज्ञानहीनं परन्तपः॥
ज्ञानात्तु भावयेत् सर्व्वं कर्म्म निष्कर्म्म सान्यतः। .
इदन्तु भक्तिभावेन मानवैः श्रूयते यदि॥
लिखित्वा यत् प्रदातव्यं दानं दक्षिणया सह।
गुरुगीता मिमां देवि शुद्धसत्त्वमयोदिताम्॥
भवव्याधिविनाशार्थं स्वयमेव जपेत् सदा।
गुरुगीताक्षरैरेकं मन्त्रराज मिस्रं जपेत्॥
अन्ये च विविधा मन्त्राः कलां नार्हन्ति षोड़शीम्।
अनन्तफलमाप्नोति गुरुगीताजपेन च॥
सर्व्वपापप्रशमनं सर्वदारिद्र्यनाशनम्।
कालमृत्युभयहरं सर्व्वसङ्कटनाशनम् ॥
यक्षराक्षसभूतानां चौरव्याघ्रभयापहम्।
महाव्याधिगताः सर्व्वे जप्त्वाश्रुत्वा निरामयाः॥
अथवा मोहने हरण्ये वश्ये जपेत सदा।
कुशैर्व्वादूर्व्वया वापि आसने शुभ्रकम्बले॥
उपविश्य ततो देवि जपेदेकाग्रमानसः।
शान्त्यथंमासनं शुक्लंवश्ये रक्तासनं प्रिये॥
अभिचारे कृष्णवर्णं पीतवर्णं धनागमे।
उत्तरे शान्तिजप्यञ्च वश्ये पूर्व्वमुखोदितम्॥
दक्षिणे मारणं प्रोक्तं पश्चिमे च धनागमम्।
मोहनं सर्व्वभूतानां बन्धमोक्षकरं भवेत् ॥
असाध्यं साधयेत् कर्म्म नवग्रहभयापहम्।
दुःस्वप्ननाशनञ्चैव सुस्वप्नफलदायकम्॥
सर्व्वस्योर्त्तिहरं नित्यं तथा बन्ध्यासुतप्रदम्।
अवैधव्यकरं स्त्रीणां सदा सौभाग्यदायकम्॥
आयुरारोग्यमैश्वर्य्यपुत्रपौत्रविबर्द्धनम्।
अकामतः स्त्री विधवा जप्त्वामोक्षमवाप्नुयात्॥
वैधव्यध्वंसकामेन लभ्यते त्वन्यजन्मनि।
सर्व्वदुःखं भयं विघ्नं नाशयेत् तापहारकम्॥
सर्व्वबाधाप्रशमनं सर्व्वकामार्थमोक्षदम्॥
यं यं कामयतें कामं तं तमाप्नोति निश्चितम्।
कामिकस्य कामधेनुकल्पद्रुमप्रकल्पितौ॥
चिन्तामणि श्चिन्तितस्य सर्व्वमङ्गलदायकम्।
लिखित्वा पूजयित्वा च जपान्मोक्षमवाप्नुयात्॥
कामेन पूजयेद्यस्तु तस्य कामफलप्रदम्।
जपेत्तु शाक्तः शैवश्च गाणपत्यश्च वैष्णवः॥
सिद्धिदं मोक्षदं देवि सत्यं सत्यं न संशयः।
अथ काम्यजपस्थानं कथयामि वरानने॥
नगरान्ते सरित्तीर्थे तथा हरिहरालये।
शक्तिदेवालये गोष्टे सर्व्वदेवालये शुभम्॥
वटस्य धात्र्यामूले वा मठे वृन्दावने तथा।
पवित्रे निर्म्मले स्थाने नित्यानुष्ठानतोऽपिवा॥
निर्वेदनेन मौनेन जपञ्चैव समाचरेत्।
श्मशाने निर्भयो भूत्वा जपेदेकाग्रमानसः॥
सिद्ध्यन्ति पैप्पले मूले चूतष्टक्षस्यचैवहि।
गुरुः पूज्यो वरं मूर्ख स्तस्मात् सिद्ध्यन्ति नान्यथा॥
शुभकर्माणि सर्व्वाणि दीक्षादीक्षादिसिद्धिदाः।
संसारमलनाशार्थं भवतापान्निवर्त्तते॥
गुरुगीतादिशुश्रूषां तत्त्बज्ञः कुरुते सदा।
सएव सद्गुरुः साक्षात् सदा सद्धर्म्मवित्तमः ॥
तस्यस्थानानि सर्व्वाणि पवित्राणि न संशयः।
सएव शुद्धःपूतश्च सौख्यभावे स तिष्ठति॥
तत्र देवगणाः सर्व्वे क्षेत्रपीठे वसन्ति च।
आसनस्थः शयानो वा गच्छन् तिष्ठन् सदाशुचिः॥
अश्वारूढ़ो गजारूढः सुषुप्तौ जाग्रतोऽपिवा।
शुचिस्थितः सदाज्ञानी गुरुगीताजपेन च॥
तस्यदर्शनमात्रेण पुनर्जन्म न विद्यते।
समुद्रे च यथा तोयं क्षीरे क्षीरंजले जलम्
भिन्ने कुम्भे यथाकाशं तथात्मा परमात्मनि।
यथायथाविधो भूत्वा यत्र कुत्र स्थितोऽपि वा॥
तथैव ज्ञानी जीवात्मा परमात्मनि सर्व्वदा।
तस्य सर्व्वप्रयत्नेन भावभक्तिं करोति यः।
सर्व्वहितः स्थितः सर्व्वोयुक्तो भवति पार्व्वति॥
भक्तिर्मुक्तिर्दया तस्य जिह्वाग्रे च सरस्वती।
अनेन प्राणिनः सर्व्वेतथा गीताजपेन च॥
सर्व्व सिद्धिमवाप्नोति भुक्तिं मुक्तिं न संशयः।
सत्यं सत्यं पुनः सत्यं धर्मसंख्यानयोदिता॥
गुरुगीतासमा नास्ति सत्यं सत्यं वरानने।
एकदैव एकधर्म्म एका निष्ठा परन्तपः॥
गुरोः परतरं नास्ति तत्त्वञ्चैव गुरोः पदम्।
माता धन्या पिता धन्यो धन्यं सर्व्वं कुलं तथा॥
धन्याच वसुधादेवीगुरुभक्तिः सुदुर्लभा।
शरीर मिन्द्रीयं प्राणा अर्थस्वजनबान्धवाः॥
पितृमातृकुलं देवि गुरुरेव न संशयः।
आजन्म कर्म्मणां कोटियद्मब्रततपःक्रियाः॥
तस्य सर्व्वफलंदेवि गुरुसन्तोषमात्रतः।
विद्याधनैर्बलेनापि मन्दभाग्यास्तु ये जनाः॥
गुरुसेवां न कुर्व्वन्ति सत्यं सत्यं न संशयः।
ब्रह्मविष्णुमहेशादिदेवर्षिपितृकिन्नराः॥
सिद्धचारणयक्षाद्या ये चान्ये मुनयो जनाः।
गुरुभावं परं तीर्थ मन्यत्तीर्थं निरर्थकम्॥
सर्व्वतीर्थाश्चयो देवि पादाङ्गुष्ठेच वर्त्तते।
इदं रहस्यं नो वाच्यं तवाग्रे कथितं मया॥
सुगोप्यञ्च प्रयत्नेन परतत्त्वं प्रियासती।
स्वामिमुख्या गणेशादिवैष्णवादिषु पार्व्वति॥
अभक्ते वञ्चके धूर्ते पाषण्डे नास्तिके पुनः।
मनसापि न वक्तव्या गुरुगीता कदाचन॥
गुरवो वहवः सन्ति शिष्यवित्तापहारकाः।
दुर्लभः सद्गुरुर्देवि शिष्यसन्तापनाशकः॥
अतीवचित्तशान्तश्च शुद्धभक्तिसमन्वितः।
वक्तव्यन्तु इदं देवि मम चात्मप्रिया सती॥
संसारसागर समुद्धरणैकमन्त्रं
ब्रह्मादिदेवमुनिपूजितसिद्धमन्त्रम्।
दारिद्र्यदुःखभयशोकविनाशमन्त्रं
वन्दे महाभयहरं गुरुराजमन्त्रम्॥
इति रुद्रजामले उमामहेश्वरसंवादे
गुरुगीतास्तोत्रं समाप्तम्।
———
]