[[गोविंददामोदरस्तोत्रम् Source: EB]]
[
<doc id=“10614” url=“https://sa.wikisource.org/wiki?curid=10614" title=“गोविन्ददामोदरस्तोत्रम्”>
गोविन्ददामोदरस्तोत्रम्
<poem>
अग्रे कुरूनाम् अथ पाण्डवानां दुःशासनेनाहृत वस्त्रकेशा ।
कृष्णा तदाक्रोशदनन्यनाथ गोविंद दामोदर माधवेति ॥ १ ॥
अग्रे कुरूनाम् अथ पाण्डवानां
कृष्णा तदाक्रोशदनन्यनाथ
श्रीकृष्ण विष्णो मधुकैटभारे भक्तानुकम्पिन् भगवन् मुरारे ।
त्रायस्व माम् केशव लोकनाथ गोविंद दामोदर माधवेति ॥ ३ ॥
श्रीकृष्ण विष्णो मधुकैटभारे
त्रायस्व माम् केशव लोकनाथ
विक्रेतुकाम अखिल गोपकन्या मुरारी पदार्पित चित्तवृत्त्यः ।
दध्योदकं मोहवसादवोचद् गोविंद दामोदर माधवेति ॥ ५ ॥
विक्रेतुकाम अखिल गोपकन्या मुरारी
दध्योदकं मोहवसादवोचद्
जगधोय दत्तो नवनीत पिण्डः गृहे यशोदा विचिकित्सयानि ।
उवाच सत्यं वद हे मुरारे गोविंद दामोदर माधवेति ॥ ७ ॥
जगधोय दत्तो नवनीत पिण्डः
उवाच सत्यं वद हे मुरारे
जिह्वे रसाग्रे मधुरा प्रिया त्वं सत्यं हितं त्वं परमं वदामि ।
अवर्णयेत मधुराक्षराणि गोविंद दामोदर माधवेति ॥ ९ ॥
जिह्वे रसाग्रे मधुरा प्रिया त्वं
अवर्णयेत मधुराक्षराणि
गोविंद गोविंद हरे मुरारे गोविंद गोविंद मुकुंद कृष्ण ।
गोविंद गोविंद रथांगपाणे गोविंद दामोदर माधवेति ॥ ११ ॥
गोविंद गोविंद हरे मुरारे
गोविंद गोविंद रथांगपाणे
सुखावसाने त्विदमेव सारं दुःखावसाने त्विदमेव गेयम् ।
देहावसाने त्विदमेव जप्यं गोविंद दामोदर माधवेति ॥ १३ ॥
सुखावसाने त्विदमेव सारं
देहावसाने त्विदमेव जप्यं
वक्तुं समर्थोपि नवक्ति कश्चित् अहो जनानां व्यसनाभिमुख्यम् ।
जिह्वे पिबस्वमृतमेतदेव गोविंद दामोदर माधवेति ॥ १५ ॥
वक्तुं समर्थोपि न वक्ति कश्चित्
जिह्वे पिबस्वमृतमेतदेव
</poem>
</doc>
]