गायत्रीरामायणम्

[[गायत्रीरामायणम् Source: EB]]

[

गायत्रीरामायणम्

तपस्स्वाध्याय निरतं तपस्वी वाग्विदां वरं ।

नारदं परिपप्रच्छ वाल्मीकिर्मुनिपुङ्गवम् ॥ १ १-०१-०१ तत

स हत्वा राक्षसान् सर्वान् यज्ञघ्नान् रघुनन्दनः ।

ऋषिभिर्जितः सम्यग्यथेन्द्रो विजयी पुरा ॥ २ १-३०-१४ स

विश्वामित्रः स धर्मात्मा श्रुत्वा जनकभाषितं ।

वत्स राम धनुः पश्य इति राघवमब्रवीत ॥ ३ १-६७-१२ वि

तुष्टावास्य तदा वंशं प्रविश्य स विशाम्पतेः ।

शयनीयं नरेन्द्रस्य तदासाद्य व्यतिष्ठत ॥ ४ २-१५-२० तुर

वनवासं हि सन्ग्ख्याय वासाम्स्याभरणानि च ।

भर्तारमनुगच्छन्त्यै सीतायै स्वशुरो दधौ ॥ ५ २-४०-१४ व

राजा सत्यं च धर्मं च राजा कुलवतां कुलं ।

राजा माता पिता चैव राजा हितकरो नृणाम्॥ ६ २-६७-३४ रे

निरीक्ष्य स मुहूर्तं तु ददर्श भरतो गुरुं ।

उटजे राममासीनं जटावल्कलधारिणं ॥ ७ २-९९-२५ णि

यदि बुद्धिः कृता द्रष्टुम् अगस्त्यं तं महामुनिं ।

अद्यैव गमने बुद्धिं रोचयस्व महायशः ॥ ८ ३-११-४४ यम

भरतस्यार्य पुत्रस्य स्वश्रूणां मम च प्रभो ।

मृगरूपमिदं व्यक्तं विस्मयं जनयिष्यति ॥ ९ ३-४३-१७ भर

गच्छ शीघ्रमितो राम सुग्रीवं तं महाबलं ।

वयस्यं तं कुरु क्षिप्रं इतो गत्वाद्य राघव ॥ १० ३-७२-१७ गो

देशकालौ प्रतीक्षस्व क्षममाणः प्रियाप्रिये ।

सुखदुःखसहः काले सुग्रीव वशगो भव ॥ ११ ४-२२-२० दे

वन्द्यास्ते ति तपस्सिद्धाः तापसा वीतकल्मषाः ।

प्रष्टव्या चापि सीतायाः प्रवृत्तिर्विनयान्वितैः ॥ १२ ४-४३-३४ व

स निर्जित्य पुरीं श्रेष्ठां लङ्कां तां कामरूपिणीं ।

विक्रमेण महतेजा हनुमान कपिसत्तमः ॥ १३ ५-०४-०१ स्य

धन्या देवाः स गन्धर्वाः सिद्धाश्च परमर्षयः ।

मम पश्यन्ति ये नाथं रामं राजीवलोचनं ॥ १४ ५-२६-३९ धी

मङ्लाभिमुखी तस्य सा तदासीन महाकपेः ।

उपतस्थे विशालाक्षी प्रयता हव्यवाहनं ॥ १५ ५-५३-२७ म

हितं महार्थं म्रुदु हेतु संहितम

व्यतीत कालायति सम्प्रतिक्षमं ।

निशम्य तद्वाक्यमुपस्थितज्वरः

प्रसन्ग्गवान उत्तरमेतदब्रवीत ॥ १६ ६-१०-२७ हि

धर्मात्मा रक्षसां श्रेष्ठः

सम्प्राप्तोऽयं विभीषणः ।

लङ्केश्वर्यं ध्रुवं श्रीमान

अयं प्राप्नोत्यकण्टकं ॥ १७ ६-४१-६९ धि

यो वज्रपाताशनि सन्निपातात

न सुक्षुभे नापि चचाल राजा ।

स रामबाणाभिहतो भृशार्तः

चचाल चापं च मुमोच वीरः ॥ १८ ६-५९-१३९ यो

यस्य विक्रम मासाद्य राक्षसा निधनं गताः ।

तं मन्ये राघवं वीरं नारायण मनामयं ॥ १९ ६-७२-११ यो

न ते दद्रुशिरे रामं दहन्तमरिवाहिनीं ।

मोहिताः परमास्त्रेण गान्धर्वेण माहात्मना ॥ २० ६-९४-०३ नः

प्रणम्य देवताभ्यश्च ब्राह्मणेभ्यश्च मैथिली ।

बद्धान्ज्जलिपुटा चेदमुवाचाग्नि समीपतः ॥ २१ ६-११६-१८ प्र

चलनात पर्वेन्द्रस्य गणा देवाश्च कम्पिताः ।

चचाल पार्वती चापि तदाश्लिष्टा महेश्वरं ॥ २२ ७-१६-२७ चो

दाराः पुत्राः पुरं राष्ट्रं भोगाच्छादन भोजनं ।

सर्वमेवाविभक्तं नो भविष्यति हरीश्वर ॥ २३ ७-३४-४१ द

यामेव रात्रिं शत्रुघ्नः पर्णशालां समाविशत ।

तामेव रात्रिं सीतापि प्रसूता दारक द्वयं ॥ २४ ७-६६-०१ यात

॥ इति श्री गायत्रीरामायणं सम्पूर्णम् ॥

]