एकश्लोकिरामायणम्

[[एकश्लोकिरामायणम् Source: EB]]

[

एकश्लोकिरामायणम्

आदौ रामतपोवनादिगमनं हत्वा मृगं कांचनं

वैदेहीहरणं जटायुमरणं सुग्रीवसंभाषणम् ।

वालीनिर्दलनं समुद्रतरणं लंकापुरीदाहनं
पश्चाद्रावणकुंभकर्णहननमेतद्धि रामायणम् ॥

एकश्लोकि रामायणं संपूर्णम् ॥

]