एकात्मतास्तोत्रम्

[[एकात्मतास्तोत्रम् Source: EB]]

[

एकात्मतास्तोत्रम्ॐ नमः सच्चिदान्दरूपाय परमात्मने ज्योतिर्मयस्वरूपाय विश्वमंगल्यमूर्तये ॥१ ॥प्रकृतिः पञ्चभूतानि ग्रहा लोकाः स्वरास्तथादिशः कालश्च सर्वेषां सदा कुर्वन्तु मङ्गलम्॥ २॥ रत्नाकराधौतपदां हिमालयकिरीटिनीम्ब्रह्मराजर्षिरत्नाढ्यां वन्दे भारतमातरम् ॥३॥महेन्द्रो मलयःसह्यो देवतात्मा हिमालयः ध्येयो रैवतको विन्ध्यो गिरिश्चारावलिस्तथा ॥४ ॥गंगा सरस्वती सिन्धुर्ब्रह्मपुत्रश्च गण्डकीकावेरी यमुना रेवा कृष्णा गोदा महानदी ॥५ \।\।अयोध्या मथुरा माया काशी कांची अवन्तिकावैशाली द्वारिका ध्येया पुरी तक्षशिला गया ॥६ ॥प्रयागः पाटलिपुत्रं विजयानगरं महत्इन्द्रप्रस्थं सोमनाथस्तथामृतसरः प्रियम् ॥७ ॥चतुर्वेदाः पुराणानि सर्वोपनिषदस्तथारामायणं भारतं च गीता षड्दर्शनानि च ॥८॥जैनागमास्त्रिपिटकः गुरुग्रन्थः सतां गिरःएष ज्ञाननिधिः श्रेष्ठः श्रद्धेयो हृदि सर्वदा ॥९॥ अरुन्धत्यनसूय च सावित्री जानकी सतीद्रौपदी कन्नगे गार्गी मीरा दुर्गावती तथा ॥१०॥ लक्ष्मी अहल्या चन्नम्मा रुद्रमाम्बा सुविक्रमानिवेदिता सारदा च प्रणम्य मातृ देवताः ॥११॥ श्रीरामो भरतः कृष्णो भीष्मो धर्मस्तथार्जुनःमार्कंडेयो हरिश्चन्द्र प्रह्लादो नारदो ध्रुवः ॥१२॥ हनुमान्‌ जनको व्यासो वसिष्ठश्च शुको बलिःदधीचि विश्वकर्माणौ पृथु वाल्मीकि भार्गवः ॥१३॥ भगीरथश्चैकलव्यो मनुर्धन्वन्तरिस्तथाशिबिश्च रन्तिदेवश्च पुराणोद्गीतकीर्तयः ॥१४॥ बुद्ध जिनेन्द्र गोरक्शः पाणिनिश्च पतंजलिःशंकरो मध्वनिंबार्कौ श्रीरामानुजवल्लभौ ॥१५॥ झूलेलालोथ चैतन्यः तिरुवल्लुवरस्तथानायन्मारालवाराश्च कंबश्च बसवेश्वरः ॥१६॥देवलो रविदासश्च कबीरो गुरुनानकःनरसी तुलसीदासो दशमेषो दृढव्रतः ॥१७॥ श्रीमच्छङ्करदेवश्च बंधू सायनमाधवौज्ञानेश्वरस्तुकाराम रामदासः पुरन्दरः ॥१८॥बिरसा सहजानन्दो रमानन्दस्तथा महान्‌वितरन्तु सदैवैते दैवीं षड्गुणसंपदम्‌ ॥१९॥ रविवर्मा भातखंडे भाग्यचन्द्रः स भोपतिःकलावंतश्च विख्याताः स्मरणीया निरंतरम्‌ ॥२०॥ भरतर्षिः कालिदासः श्रीभोजो जनकस्तथासूरदासस्त्यागराजो रसखानश्च सत्कविः ॥२१॥ अगस्त्यः कंबु कौन्डिण्यौ राजेन्द्रश्चोल वंशजःअशोकः पुश्य मित्रश्च खारवेलः सुनीतिमान्‌ ॥२२॥ चाणक्य चन्द्रगुप्तौ च विक्रमः शालिवाहनःसमुद्रगुप्तः श्रीहर्षः शैलेंद्रो बप्परावलः ॥२३॥ लाचिद्भास्कर वर्मा च यशोधर्मा च हूणजित्‌श्रीकृष्णदेवरायश्च ललितादित्य उद्बलः ॥२४॥ मुसुनूरिनायकौ तौ प्रतापः शिव भूपतिःरणजितसिंह इत्येते वीरा विख्यात विक्रमाः ॥२५॥ वैज्ञानिकाश्च कपिलः कणादः शुश्रुतस्तथाचरको भास्कराचार्यो वराहमिहिर सुधीः ॥२६॥ नागार्जुन भरद्वाज आर्यभट्टो वसुर्बुधःध्येयो वेंकट रामश्च विज्ञा रामानुजायः ॥२७॥ रामकृष्णो दयानन्दो रवीन्द्रो राममोहनःरामतीर्थोऽरविन्दाश्च विवेकानन्द उद्यशः ॥२८॥ दादाभाई गोपबंधुः टिलको गांधी रादृताःरमणो मालवीयश्च श्री सुब्रमण्य भारती ॥२९॥ सुभाषः प्रणवानन्दः क्रान्तिवीरो विनायकःठक्करो भीमरावश्च फुले नारायणो गुरुः ॥३०॥ सङ्घशक्तिप्रणेतारौ केशवो माधवस्तथास्मरणीय सदैवैते नवचैतन्यदायकाः ॥३१॥ अनुक्ता ये भक्ताः प्रभुचरण संसक्तहृदयाःअनिर्दिष्टाः वीराः अधिसमरमुद्ध्वस्तरिपवःसमाजोद्धर्तारः सुहितकरविज्ञान निपुणाःनमस्तेभ्यो भूयात्सकल सुजनेभ्यः प्रतिदिनम्‌ ॥ ३२॥ इदमेकात्मता स्तोत्रं श्रद्धया यः सदा पठेत्‌स राष्ट्रधर्म निष्ठावानखंडं भारतं स्मरेत्‌ ॥३३॥ ॥ वन्दे भारतमातरम् ॥

]