धर्मव्यतिक्रमविलापः

[[धर्मव्यतिक्रमविलापः Source: EB]]

[

[TABLE]

<MISSING_FIG href="../books_images/U-IMG-17238835742.png"/>

श्रीकाञ्च्यां

श्री म न्म द्र पु री व र्णा श्र म ध र्म सं र क्ष ण स भा याः

प्रथमवार्षिकमहोत्सवसम्मेलनाऽवसरे

श्रीमद्रपुरीमहाधिकरणन्यायवादिना

त. शं. नारायणशास्त्रिणा

सङ्कलितः

द शा व ता र द ण्ड क स म ल ङ्कृ तः

धर्म व्यतिक्रम विलापः
<MISSING_FIG href="../books_images/U-IMG-17238839242A.png"/>

** अ**

हह ! कथमिव समायातोऽयं दुर्भाग्यमयः समयः सनातनधर्मस्य! यद्, यत्र गरुडाङ्किता महाध्वजाः ममुद्धूननै र्गगनतलोद्धूयमानपवन मपावयन्, तत्र विस्रगन्धिनो विविधसाञ्चारिकरोगनिदानभूता वीथिप्रणाल्युध्मानधूमध्वजा भारताभिजनसघनकलङ्का इव समुद्धूयन्ते; यत्र कोटिजन्मार्जितमहापातकदी-

र्घदावदावानलज्वालामालाभिरिव हरिहरनामघोषणाभि र्व्यापूर्यत वसुधा, तत्र कर्णकषाया श्चीत्कारमयाः शिवविष्णुनिन्दानादाः कर्णौ स्फोटयन्ति; यत्र कदा जन्माष्टमी? कदा रामनवमी? कदैकादशी? कदा प्रदोषः? इति पृच्छा समश्रूयत पण्डितमण्डलेषु, तत्र हि कदा मोहरमः? कदा रामयानम्? कदा कृष्टिमासः? कदा ईस्तरः? इत्यादि रनवरत माकर्ण्यते विरामकुतुकानां विनोदैकलालसानां विमुक्तपरमपुरुषार्थाना मस्मद्देशीयानां प्रश्नविन्यासः; यत्र विपणिषु सर्वदा द्राक्षा रम्भा, आम्राणि नारिकेलानि दाडिम्बानि, बीजपूराणि जम्बीराणि लिकुचानि पनसानि च व्यक्रीयन्त, तत्राऽधुना वर्तिका स्तित्तिराः, कुक्कुटा लावाः कलविङ्काः, सारसाः श्येना उलूका स्तत्तदण्डाश्च विक्रीयन्ते; यत्र पुन र्विशालतिलकाः कलितरुद्राक्षतुलसीकमलाक्षमालिका ऊर्णाकौशेयमात्रपवित्रवसनाः काष्ठपादुकारोहिणो भगवन्नामामृतरसरसनरसिकरसना विहिततीर्थसार्थसञ्चरणचरणाः स्वोचिताचाराचरणमात्रव्यसनिनो महात्मानः सप्रश्रयं सस्तवं सपादस्पर्शञ्चप्राणम्यन्त, तत्र त एवाऽधुना वीथिषु राजपथेषु, तडागतटेषु उद्यानेषु, विपणिषु समाजेषु च महामांसढक्कारपूतिगन्धसम्बन्धान्धीकृतपारिपार्श्वकैः, चिरजलानवगाहनोद्भूतमहामलावलिमलीमसैः, मद्य-स्वेद-निष्ठयूत-कर्णकिट्ट-सिङ्घाण-दूषिकादि-विविधमललिप्तचिराक्षालितमलिनवसनैः, आजानुपरिधृतदीर्घचर्मोपानद्भिः, वारवधृच्छिष्टभोणिभिः, दुराचारहतकैः ब्रह्मबन्धुभिरेव, सगर्वं साहङ्कारं सोन्मादं च, अवहेल्यन्ते, अवधीर्यन्ते, गालिप्रदानपुरःसरं तिरस्क्रियन्ते वचन ताड्यन्ते, निःसार्यन्ते च! समायातोऽयं

घोरः कलियुगो, नात्र संशयः। हन्त! यै दुराचारहतकै र्दृशाऽप्यवलोकित मन्नादि, अस्मत्पूर्वजै महानुभावैः, शुनकेभ्यो वितीर्णम्, तैरेव व्रात्यापसदैः साक मधुना, एकपङ्तौ, एकासने, एकभाजन एव, गौरवबुद्धया तादृशमहाकुलप्रसूतैरेव भुज्यते! ये चाऽस्मत्सनातन धर्माचारनिन्दकाः सजिह्वाच्छेद मस्माकं पूर्वपुरुषै रार्यसमया न्निरवासिषत, त एवाऽधुना राजास्थानेषु, नागरिकसमाजेषु, पण्डितपरिषत्सु च साऽञ्जलिजयध्वनिसन्तोषकरघोषपुरःसरं अभिवाद्यन्ते, अभिनन्द्यन्ते, सश्लाघ मनुमोद्यन्ते च!

हो! सम्प्रत्यपिबहवः साधवः, पाश्चात्यदुर्मतदुराचारदुर्मर्यादाभूतप्रेतपिशाचिकाग्रस्तैः शिरोमुण्डन-कञ्चुकधारण-दीर्घोपानद्ग्रहणादिभिरेव स्वान् नवनागरिकशेखरान् मन्यमानैः आर्यपदानर्हैः हिन्दूपसदश्वापदैः सहठात्कारं सर्वथा परिभूयमाना अपि, व्याघ्रवदनाघ्राणसाहससोदर्यसाहसोपबृंहिताः कृपाणधारास्विव धावमानाः प्राणान प्यगणयन्तः, “शिव राम गोविन्द! हरे कृष्ण दामोदर महादेव!! नारायण वामन वैकुण्ठ रमापते गौरीपते!!!” इत्यादीनि सकलकलिकल्मषापनोदनपटूनि, अधरीकृतसुधामाधुर्याणि, सवीणावादं नारदेन रसनीयानि भगवन्नामानि उच्चारयन्तः कलितपरमपवित्रवेषाः विमुक्तरागद्वेषाः, तत्तत्कुलाचारसम्प्राप्ततिलकपुण्ड्रचूडादिधारणपवित्रीकृतसकलगात्राः, सहामाना अपि वाचाटाना मेतेषां दुराचारहतकाना मरुन्तुदा वाचः, कथं कथमपि स्वधर्मं निर्वहन्ति! हा! धिगस्मान, ये दुराचाराणा मेतेषां ईदृश मात्मधिकारं ईक्षामहे! सहामहे!!

जीवाम श्र!!! (निश्वस्य) आः! ग्रहा एव प्रतिकूलाः! विधिरेव वामः! समय एव अशुभमयः! अदृष्टमेव निकृष्टम्! भवितव्यमेव निन्दितव्यं सनातनधर्मस्य! अन्यथा को वा दार्शनिकंमन्यः सकलभारतीयसनातनधर्ममूलभूतानां अद्वैत-विशिष्टाद्वैत- द्वैतरूपाणां त्रिविधब्रह्ममीमांसादर्शनाना मेकतमस्याऽपि सिद्धान्तलेशस्य लेशमपि निराकर्तुमलम्? परन्तु, ऐक्यमेव न भवत्यस्माकं त्रिमतस्थानां सनातनधर्मसर्वस्वानुयायिनामपि। यदि नाम सर्वेऽपि भारताभिजनवैदिकवराः सह युञ्जीरन्, तद्वयं क्षणेन पारावारमपि मरूकुर्मः। स्वजातीयबन्धुभिरेव कृतवैराणां परजातीयमहाशयैः सोपहासं बहिष्कृताना मुभयभ्रष्टानां भारताभिजनसमयाचारपरिष्कारकंमन्यानां दुराचारहतकाना मेतेषां प्रशमनन्तु को नाम कठिनो व्यापारः? परं तु, “जननी जन्मभूमिश्च स्वर्गादपि गरीयसी " इति श्रीमद्भारतमातृसेवाबद्धपरिकराणां स्वदेशाभिमानिनां अन्यतमः, प्राचीननवीनशास्त्रवादिना मग्रेसरः, महावैदिककुलसम्पन्नो महामहनीयः शास्त्रिमहाराज एव वर्णाश्रमाचारनिर्मूलनपराणां कदर्यहतकाना मेतेषां परिष्कारकंमन्यानामेव पार्श्वग्रहता मङ्गीकृत्य, भारताभ्युदयकांक्षिभिः सनातनधर्माभिमानिभि रस्माभिरेव सह योद्धुं ध्वजा नुद्धूय, मद्रनगरनेदीयस्येव राजकीयमहासभायां शिबिराण्यधितिष्ठति। सकलधर्माचारप्रवर्तनानां आदर्शभूते, श्रीमच्छङ्कर-रामानुज-मध्वप्रभृतिभि र्मताचार्यैः पवित्रीकृते, इदानीमपि सकलवैदिकधर्माणा मङ्कुरस्थले श्रीदक्षिणभारत एव विद्यमानाः केचन वैदिकशास्त्रविशारदाः संस्कृतकलाशालासु देवभाषोपदेष्टारः स्वदेशपण्डिता एव स्वकपोलकल्पनाकल्पितैः विपरीतार्थविन्यासैः कुत-

र्कावलम्बनैश्च, अधर्मं धर्ममिति, दुराचारं सदाचारमितिच प्रदर्शयन्तः स्वपाण्डित्यगरिम्णा अप्रसिद्धपदार्थकेन, दुरन्वयव्यवहितान्वययो- रन्वयप्रदर्शनेन, अपरिपूर्णस्थले अध्याहारकल्पनेन च शास्त्रजातं प्रकाम मधरोत्तरीकुर्वन्तः, कदर्यहतकानामेतेषामेव साहाय्यमाचरन्ति। वङ्गदेशे श्रोत्रियप्रवराः पूर्णतया पाश्चात्यमताचारानुयायिनः संवृत्ता इति श्रूयते। मोहाम्बामण्डले प्रायः सर्वेऽपि भारताभिजनवराः महामोहप्रेरिता अर्थकामावेव प्रधानपुरुषार्थतया समवलम्ब्य नूतनधर्मपरिवर्तनपरायाणाः सनातनधर्म मशेषमपि कथाऽवशेषं कर्तुं हठात् प्रवर्तन्ते। उत्तरभारते तु वैदिकधर्मानुयायिनः प्रायशो न वर्तन्ते; सन्तोऽपि वर्णाश्रमधर्मान् याथार्थ्यतो न जानन्ति, जानन्तोऽपि च न तान् यथावदनुतिष्ठन्ति। महीशूरमण्डलप्रधानसंस्कृतपण्डितश्च ब्रह्मज्ञानकञ्चुकप्रवेशिनां वाङ्माधुर्यतृणच्छन्नान्धकूपोपमानां सार्वलौकिकसौभ्रात्रानुदर्शनापदेशेन जातिसङ्करकारकाणां एतेषांवैज्ञानिकहतकानामेव पृष्ठपोषकः संवृत्तः। केवलमेक एव आयुष्मान् महाकुलप्रसूतो वदान्यशेखरः श्रोत्रियवरिष्ठः श्रीदरभङ्गापरयथार्थनामधेय श्रीमद्धनुर्भङ्गदेशमहाराजः, सनातनधर्मे बलात्कारमेन मसहमानः, महामोहान्धतामिस्रके निपतितं भारतवर्षमिमं चातुर्वर्ण्य प्रतिष्ठापनेन, सर्वभारतसमयसामरस्यप्रदर्शनेन, ईश्वरभक्ति-गुरुभक्ति-राजभक्तिप्रवर्धकसार्वलौकिकसद्गीतावलिप्रवर्तनेन, श्रीवारणस्यां भारतार्यसर्वस्वभूतविश्वविद्यालयप्रतिष्ठापनेन च पुनरप्युज्जीवयितुं प्रयतते; न चैतस्य, ऋते परमात्मनः कोऽपि साहाय्यं विदधाति। इदानीमेव हरद्वारादिषु केषुचित स्थलेषु सनातनधर्मस्य उद्यानं

विकसितमिव समवलोक्यते। अहह! तदप्येते दुराचारहतकाः, अनुदारा भूदारा इव, उल्लुलूषन्ति। परन्तु न्यक्कारविषया वयमेव, ये नीचानामेषां उच्छलतां ब्रह्मज्ञानोपदेशापदेशेन सर्वान् त्रैवर्णिकान् चण्डालसदृशान् ब्रह्मबन्धून् क्षत्रबन्धून् वैश्यबन्धूंश्व कुर्वतां चाटुकारा इव किमिदमित्यवगणय्य प्राप्तसङ्केता एव स्वसनातनधर्मसर्वस्वमपि कृत्रिमकोपज्वालाभिर्दिधक्षामः। अथवा किं कुर्मः? पूर्वजचरणा एवाऽस्माकं महामहिममर्यादा मुल्ललङ्घिरे। आसीदेष महीशूरमण्डलमण्डनायमानपण्डितप्रकाण्डः, अध्यात्मविद्योपदेशकानां प्राग्रेसरः, वैदिकधर्मशास्त्रमर्यादाप्रदर्शकानां प्रथमगणनीयो महाकुलप्रसूतो वैदिकशिखामणित्वेन सर्वैरपि माननीय एव, योऽयमधुना बहूनां पितृपैतामहिकीं पारम्परीणां प्राणाधिकमूल्यां सर्वस्वहानेनापिरक्षणीयां धर्मार्थकाममोक्षचतुर्विधपुरुषार्थनिदानभूतां ब्रह्मण्यतासम्पत्तिं, बलादाच्छिद्य स्वकुतर्कखड्गधारासारैरखिलान् वर्णाश्रमधर्मान्, आत्मानञ्चाऽन्धीकृत्येव, सकलदुराचारमूलाधारभूताया ब्रह्मराक्षस्या दग्धहस्ते समर्पयति स्म। अथवा कस्तस्य दोषः? क्रूरतमोऽयं कलिः! अभद्राणि भाग्यानि! अभव्यं भाव्यम्! ध्वस्ता धीरता! स्रस्ता स्वतन्त्रता! पतनोन्मुखी ब्राह्मणसम्पत्तिः! विधूतप्रायो वर्णाश्रमधर्मः! तत्, महतां विनि- न्दनेन व्यर्थोऽयं वदनमलिनीकारः!

हा

भारत! किं दुराचारहतकैरेव भोक्ष्यसे? हा वसुन्धरे! किं दीनप्रजानां रक्तैरेव स्नास्यसि? हा सनातनधर्म! किं विलयमेव यास्यसि? हा चातुर्वर्ण्य! किं कथावशेषमेव भविष्यसि?

हा मन्दिरबृन्द! किं धूलिसादेव सम्पत्स्यसे? हाँ साङ्गवेद! किं भस्मतामेव प्राप्स्यसि? अहह! धिग्! धिग्!! रे कलिकाल!!! य स्त्वं रक्षकानेव भक्षकान् विदधासि! हन्त! भगवन्, महति दुराचारे प्रवृत्ते धर्मसंस्थापनार्थमवतरामीति प्रतिज्ञातवानसि ! तत् किमितोऽप्यधिकतरं दुराचारमपेक्षसे? अहह! परःकोटयो देवतामूर्तयः प्रमदवनेषु कौतुकागारेषु प्रदर्शनस्थलेषु च क्रीडामूर्तयः कल्प्यन्ते! असंख्यानि देवमन्दिराणि विहारमन्दिराणि क्रियन्ते ! अस्तसंख्याः पुण्यभूमय आपानभूमयः सम्पद्यन्ते! राशीकृतानि वेदादिपुस्तकानि कीटदग्धानि प्रमादज्वालाजालैर्ज्वल्यन्ते! कुलीनानामपि कन्यकाः कदर्यहतकैः कुत्सिताभिप्रायेण स्वमताद् बलादाच्छिद्यन्ते! विधवोद्वाहानां, प्रौढाविवाहानां, असवर्णस्त्रीपुरुषपरिणयानां विजातीयपङ्क्तिभोजनानां विमतावलम्बनानां विप्रतिषिद्धविदेशगमनानां मांसभक्षणानां मद्यपानानां, धूमपत्रानुसेवनानां अगम्यागमनानां, अभोज्यभक्षणानां, असेव्यसेवनानां चूडापुण्ड्रादिविहितकर्मपरित्यागानां विदेशीयदुराचारादिनिषिद्धकर्मपरिग्रहाणां च क्रीडा इव क्रियन्ते! भगवन्! नाऽधुनाऽपि तव हृदये दया सञ्चरति? प्रभो! किमिति ‘दीनबन्धु’ पदेन सम्बोध्यसे? यासां भारतीयप्रजानां दीनतामवलोक्य ग्रावाणोऽपि रुदन्ति, तासामुपरि करुणामयीं दृष्टिमपि न क्षिपसि। हन्त! कियच्छयिष्यसे? अहह! अस्माकं महाक्रन्दनकोलाहलैरपि न विद्राव्यते तव निद्रा? हा! तवाऽपि कथं व्यामोहः? गरलन्तु धूर्जटिना पीतम्, मधु च दानवैरास्वादि; किन्तु, चित्रं यदेष विलक्षणस्त्वयि दृश्यते व्यामोहः। त्वं

हि राजतप्रासादो वा क्षीरसागरो वा दन्तिदन्तपर्यङ्को वा, कुण्डलिताऽनन्तभोगाभोगो वा, इति किमपि न वेवेक्षि। अगणितफणावलिफूत्कृतैरिव वीज्यमानः, विमलकमलोदरसोदरसौन्दर्याभ्यां कमलकोमलकमलाकरतलाभ्यां पादयोः पीड्यमानो निःशङ्कं तस्मिन्नेवकोमलतमवेषे शेषे शेषे! तत् किं जगतः शेषस्तव निद्रया भङ्क्ष्यते? अथवा तस्यैव महागरलस्य महामद्यस्य च भगिन्या कनकाङ्गिन्या समालिङ्गित इति, पन्नगकुलमूलस्य शेषनागस्य गरलावलीढैर्निश्वासैः प्रतिरोमकुहरं रञ्जित इति च, कलयसि कांचन मूर्च्छां मत्ततां च? कथ मन्यथा, क्षीरधिवेष्टित एव, क्षीरधिकन्यया रमेथाः!

कि

न्तु, मैवम्! क्षमस्वैनामनल्पजल्पकल्पनाम्!! ‘सर्वत्रैवाऽसि, सर्वान् पश्यसि, सर्वं वेत्सि, सर्वेषु दयसे’ इति सन्त्यत्रपरःसहस्राणां प्रामाणिकानां वचनानि! येषु विश्वस्य, तव सत्ता अङ्गीक्रियते; कथंतेष्वेव विश्वस्य तवेदृग्गुणिता नाऽङ्गीकरिष्यते? परं, अहह! पश्यन्नपि, विदन्नपि, न दयसे! हन्त ! किं कथ्यते, जगदीश्वरोऽसि! तत् किं गजोद्धारधावनस्थगितोऽसि यन्न धावसि? विप्ररावणहननवनवासव्रीडितोऽसि यन्नाऽवतरसि? कंसच्छेदनायासस्मरणेन वा तृष्णीकोऽसि यदभयं न ददासि? चिरन्तन इति बलीपलितविग्रहो वा सम्पन्नोऽसि यन्नाऽऽविर्भवसि? न ज्ञायते तत्त्वम्!यादृश स्त्वं, तादृशमेव वयं नमस्कुर्मः। प्रभो, प्रणतार्तिहर, दयस्व! दयस्व!! वरदराज, वन्दारुजनमन्दार, क्षमस्वाऽस्मान्! क्षमस्व!! हा गदाधर! कदा तव कौमोदकीमोदं जनयिष्यति?

अहो शार्ङ्गपाणे! कदा तव चापस्तापं विलयं यापयिष्यति? हहा सुदर्शनोज्वल! कदा तव चक्रं दुष्टचक्रं चङ्क्रमिष्यते? आहो नन्दनन्दन! कदा वा तव नन्दकः साधुब्रृन्दान् नन्दयिष्यति? मा स्म, भगवन्, अस्मदपराधान् स्मार्षीः! पाहि! पाहि!! परमात्मन् पाहि!!!

(श्रीदशावतारदण्डकम्)

<MISSING_FIG href="../books_images/U-IMG-172398755110.png"/>

य! जय!! जगतीपते! श्रीपते!!
विश्वसृष्टिस्थितिध्वंसकारिन्! जग-
द्धर्मसंस्थापनार्थप्रकाशावता-
रक्रमस्फारमाहात्म्यतादात्म्यभा-
रिन्!! सदाऽलङ्कृतोद्दामवैकुण्ठसिं-
हासनारोहकारिन! प्रपन्नार्तिहा-
रिन्!! अहो! बाधिताऽशेषभूतौघघो-
रासुराऽऽस्कन्दिताऽऽम्नायजातोद्धृति-
प्रस्तुतोद्वृत्तसंपर्तसप्तार्णवी-
प्लावनाऽऽर्तार्तवैवस्वताऽऽक्रान्तदु-
र्दान्तनौवाहनाख्यप्रसङ्गद्वया-
रूढमायामहामीनमूर्ते! मह-
र्पिप्रतानस्तुताऽस्तोककीर्ते!! सुधा
दानसंरम्भदेवासुरस्तोमब-
न्धोज्वलस्कन्धसंव्यूढसर्पेशयो-
त्तभ्रमोदभ्रान्तनीरौघनिर्मग्नम-
न्थक्षमाभृत्समुत्तम्भनारम्भग-

म्भीरपृष्ठप्रतिष्ठप्रसाधिष्ठकू-
र्माकृते! सम्प्रतिष्ठापिताशेषसा-
धिष्ठकर्मादृते!! दृप्तदैतेयजा-
तीयरक्षाविधादक्षरूक्षाक्षिरो-
चिर्हिरण्याक्षशिक्षाक्षणोत्क्षिप्तती-
क्ष्णैकदंष्ट्राशिखोत्तभ्यमानाऽक्षत-
क्षोणिचक्रावतंसक्रियोदारभू-
दारचूडामणे! भक्तचिन्तामणे!!

प्र

कटितनिरवद्यहृद्यस्वनि-
र्देशविद्वत्सुरर्षिप्रदत्तोपदे-
शप्रसीदन्मनोन्यस्तदुस्तर्कदू-
रत्रिधामाख्यधामस्तुतिस्तोमस-
क्तस्वभक्तप्ररक्षाविधौ दुर्ग्रहो-
ग्राऽसुराध्यक्षवक्षःक्षणक्षोभणो-
ग्रक्षरत्क्षातजक्षोदशोणीकृता-
भीक्ष्णतीक्ष्णस्फुरत्पाणिजस्तोमभी-
मोज्वलन्नारसिंहाकृते! सर्वसौ-
पर्वणव्रातदत्तात्मसाक्षात्कृते!!
देववैर्यङ्गनावर्गसीमन्तसि-
न्दूरसन्ध्यामयूखच्छटोन्मार्जनो-
द्दामधामोज्वलद्विक्रमैकत्रया-
क्रान्तविध्पण्डभाण्डोदरोद्दण्डप-

द्दण्डकाण्डप्रचण्डप्रभावाभिभू-
तप्रभूतावलिप्तप्रतीपप्रता-
पप्रकाशात्मतादात्म्यविद्योल्लस-
च्छाम्बरीवामनाकारशालिन्! पदो-
द्भिन्नविध्यण्डभित्तिद्रवद्बाह्यपू-
राभिपातप्रवाहाभिषेकक्षणा-
सक्ततच्छीकरासारमालिन्!! अनौ-
पम्यमाहात्म्यसीमन्! त्रिधामन्!! अनि-
र्देश्यदोर्वीर्यभारिन्! सदा धर्मचा-
रिन्!! विनिर्मुद्रलीलोदययोगनि-
द्राख्यमुद्राविधे! विश्वतेजोनिधे !!

त्रि

भुवनरिपुमत्तचित्तातिमा-
त्रात्तमानोन्नताऽजय्यदुर्वारग-
र्वावहोद्रिक्तचारित्रवैचित्र्यदु-
र्वृत्तमत्ताऽशुभक्षत्रसर्वस्वस-
र्वङ्कषोद्दण्डहिण्डत्कठोराग्रधा-
राकुठाराननोद्वान्तदुर्दान्तर-
क्तच्छटानीरधाराप्रदत्तावुक-
प्राप्यनव्यापनैवापदानापदा-
नप्रतापप्रथाप्रोल्लसत्क्षत्रिय-
श्रोत्रियीभूतविख्यातलीलामुने!
सर्ववेदार्थसद्रत्नपालीखने!

मेघनादोरगास्त्रप्रपातक्षणा-
यातवाहाण्डजच्छायनिर्मोचिता-
पत्कलाऽशेषशेषाशरध्वंसधी-
रर्क्षगोपुच्छतुच्छीकृताशेषर-
क्षस्तते ! भूतजाताऽभिवित्रासका-
योधनाचण्डिमोदस्तरक्षःपते!!
दैत्यकण्ठाऽस्थिकूटस्फुटोन्मार्जनो-
द्दामहालस्फुरज्ज्योतिरुल्लासितो-
द्दामदोर्दण्डसङ्कर्षणाऽऽयातका-
लिन्द्यभिश्लेषसंक्रान्तपीनस्तना-
भोगपत्रावलीलाञ्छितोरस्थल-
स्थूलमुक्ताफलोदारहारप्रभा-
मण्डलप्रस्फुरत्कण्ठ! वैकुण्ठ!! लो-
कैकशिक्षागुरो! सद्गुरोऽसमद्गुरो!!

य! जय!! जय!!! देवदेवेशचू-
डामणिश्रेणिनीराजितोपान्तपा-
दद्वयाम्भोज! गोवर्धनच्छत्रनि-
र्वारिताऽऽखण्डलोद्योजिताऽऽकाण्डच-
ण्डाम्बुवाहातिवर्षत्रसद्गोकुल-
त्राणविस्मापिताशेषविश्व! प्रसृ-
ष्टाद्यविश्व!! स्फुरद्द्वैतविभ्रान्तिस-
न्तानसन्तप्तवन्दारुसंसारनि-

द्रापहारिन्! प्रबुद्धावतारिन!! दुरा-
चारभूयिष्ठगर्वावलेपिन्! समा-
विष्कृताशेषभूतानुकम्पिन्!! महन्!!!
देशकालाद्यवच्छेदशून्य! स्वयं-
भासमानासमानप्रकाशोर्णना-
भप्रतीकाश मेत ज्जगज्जात मा-
त्मान्तरा दात्मनै वान्तरा व्यञ्जयन्
रञ्जयन् भञ्जय नञ्जसा सच्चिदा-
नन्दरूपाऽनुरूपात्ममायासमा-
यातमूर्ते! त्रिमूर्ते!! प्रसादेन ते
सन्तु सर्वे नृपा न्यायमार्गानुगाः,
प्राप्तपद्याः सदाचारयुक्ताः प्रजाः,
एहि तूर्णं मुदा! देहि मुक्तिं सदा!!
पाहि! वर्णाश्रमाचारधर्मान् विभो!
पाहि!!तद्धर्मसंरक्षणोद्योगिनः
पाहि!!! चास्मान् प्रभो!! देव तुभ्यं नमः!
देव तुभ्यं नमः!! देव तुभ्यं नमः!!!

** <MISSING_FIG href="../books_images/U-IMG-172407663614.png"/>**

[TABLE]

]