दत्तात्रेयाष्टोत्तरशतनामस्तोत्रम्

[[दत्तात्रेयाष्टोत्तरशतनामस्तोत्रम् Source: EB]]

[

मन्त्रगर्भ दत्तात्रेयाष्टोत्तरशतनामस्तोत्रम्

ओंकारतत्त्वरूपाय दिव्यज्ञानात्मने नमः । नभोतीतमहाधाम्न ऐंद्र्यृध्या ओजसे नमः ॥ १॥
नष्टमत्सरगम्यायागम्याचारात्मवर्त्मने । मोचितामेध्यकृतये ऱ्हींबीजश्राणितश्रिये ॥ २॥
मोहादिविभ्रमान्ताय बहुकायधराय च । भत्तदुर्वैभवछेत्रे क्लींबीजवरजापिने ॥ ३॥
भवहे तुविनाशाय राजच्छोणाधराय च । गतिप्रकम्पिताण्डाय चारुव्यहतबाहवे ॥ ४॥
गतग र्वप्रियायास्तु यमादियतचेतसे । वशिताजातवश्याय मुण्डिने अनसूयवे ॥ ५॥
वदद्व रेण्यवाग्जालाविस्पृष्टविविधात्मने । तपोधनप्रसन्नायेडापतिस्तुतकीर्तये ॥ ६॥
तेजोमण्यन्तरङ्गायाद्मरसद्मविहापने । आन्तरस्थानसंस्थायायैश्वर्यश्रौतगीतये ॥ ७॥
वातादिभययुग्भावहेतवे हेतुबेतवे । जगदात्मात्मभूताय विद्विषत्षट्कघातिने ॥ ८॥
सुरवर्गोद्धृते भृत्या असुरावासभेदिने । नेत्रे च नयनाक्ष्णे चिच्चेतनाय महात्मने ॥ ९॥
देवाधिदेवदेवाय वसुधासुरपालिने । याजिनामग्रगण्याय द्रांबीजजपतुष्टये ॥ १०॥
वासनावनदावाय धूलियुग्देहमालिने । यतिसंन्यासिगतये दत्तात्रेयेति संविदे ॥ ११॥
यजनास्यभुजेजाय तारकावासगामिने । महाजवास्पृग्रूपायात्ताकाराय विरूपिणे ॥ १२॥
नराय धीप्रदीपाय यशस्वियशसे नमः । हारिणे चोज्वलाङ्गायात्रेस्तनूजाय सम्भवे ॥ १३॥
मोचितामरसङ्घाय धीमतां धीरकाय च । बलिष्ठविप्रलभ्याय यागहोमप्रियाय च ॥ १४॥
भजन्महिमविKयात्रेऽमरारिमहिमच्छिदे । लाभाय मुण्डिपूज्याय यमिने हेममालिने ॥ १५॥
गतोपाधिव्याधये च हिरण्याहितकान्तये । यतीन्द्रचर्यां दधते नरभावौषधाय च ॥ १६॥
वरिष्ठयोगिपूज्याय तन्तुसन्तन्वते नमः । स्वात्मगाथासुतीर्थाय मःश्रिये षट्कराय च ॥ १७॥
तेजोमयोत्तमाङ्गाय नोदनानोद्यकर्मणे । हान्याप्तिमृतिविज्ञात्र ओंकारितसुभक्तये ॥ १८॥
रुक्षुङ्मनःखेदहृते दर्शनाविषयात्मने । रांकवाततवस्त्राय नरतत्त्वप्रकाशिने ॥ १९॥
द्रावितप्रणताघायात्तःस्वजिष्णुःस्वराशये । राजन्त्र्यास्यैकरूपाय मःस्थायमसुबम्धवे ॥ २०॥
यतये चोदनातीत प्रचारप्रभवे नमः । मानरोषविहीनाय शिष्यसंसिद्धिकारिणे ॥ २१॥
गङ्गे पादविहीनाय चोदनाचोदितात्मने । यवीयसेऽलर्कदुःखवारिणेऽखण्डितात्मने ॥ २२॥
ऱ्हींबीजायार्जुनज्येष्ठाय दर्शनादर्शितात्मने । नतिसन्तुष्टचित्ताय यतिने ब्रह्मचारिणे ॥ २३॥
इत्येष सत्स्तवो वृत्तोयात् कं देयात्प्रजापिने । मस्करीशो मनुस्यूतः परब्रह्मपदप्रदः ॥ २४॥

॥ इति श्री॥ प॥ प॥ श्रीवासुदेवानन्द सरस्वती विरचितं
मन्त्रगर्भ श्री दत्तात्रेयाष्टोत्तर शतनाम स्तोत्रं सम्पूर्णम॥

]