[[चण्डिकाष्टकम् Source: EB]]
[
चण्डिकाष्टकम्
..
चण्डिकाष्टकम् ..
सहस्रचन्द्रनित्दकातिकान्त- चन्द्रिकाचयै-
दिशोऽभिपूरयद् विदूरयद् दुराग्रहं कलेः ।
कृतामलाऽवलाकलेवरं वरं भजामहे
महेशमानसाश्रयन्वहो महो महोदयम् ॥ १॥
विशाल- शैलकन्दरान्तराल- वासशालिनीं
त्रिलोकपालिनीं कपालिनी मनोरमामिमाम् ।
उमामुपासितां सुरैरूपास्महे महेश्वरीं
परां गणेश्वरप्रसू नगेश्वरस्य नन्दिनीम् ॥ २॥
अये महेशि! ते महेन्द्रमुख्यनिर्जराः
समे
समानयन्ति मूर्द्धरागत परागमंघ्रिजम् ।
महाविरागिशंकराऽनुरागिणीं नुरागिणी
स्मरामि चेतसाऽतसीमुमामवाससं नुताम् ॥ ३॥
भजेऽमरांगनाकरोच्छलत्सुचाम
रोच्चलन्
निचोल- लोलकुन्तलां स्वलोक- शोक- नाशिनीम् ।
अदभ्र- सम्भृतातिसम्भ्रम- प्रभूत- विभ्रम-
प्रवृत- ताण्डव- प्रकाण्ड- पण्डितीकृतेश्वराम् ॥ ४॥
अपीह पामरं विधाय चामरं
तथाऽमरं
नुपामरं परेशिदृग्- विभाविता- वितत्रिके ।
प्रवर्तते प्रतोष- रोष- खेलन तव
स्वदोष-
मोषहेतवे समृद्धिमेलनं पदन्नुमः ॥ ५॥
भभूव्- भभव्- भभव्- भभाभितो-
विभासि भास्वर-
प्रभाभर-
प्रभासिताग- गह्वराधिभासिनीम् ।
मिलत्तर- ज्वलत्तरोद्वलत्तर- क्षपाकर
प्रमूत-
भाभर- प्रभासि- भालपट्टिकां भजे ॥ ६॥
कपोतकम्बु- काम्यकण्ठ- कण्ठयकंकणांगदा-
दिकान्त- काश्चिकाश्चितां कपालिकामिनीमहम् ।
वरांघ्रिनूपुरध्वनि- प्रवृत्तिसम्भवद् विशेष-
काव्यकल्पकौशलां कपालकुण्डलां भजे ॥ ७॥
भवाभय- प्रभावितद्भवोत्तरप्रभावि भव्य-
भूमिभूतिभावन प्रभूतिभावुकं भवे ।
भवानि नेति ते भवानि! पादपंकजं
भजे
भवन्ति तत्र शत्रुवो न यत्र तद्विभावनम् ॥ ८॥
दुर्गाग्रतोऽतिगरिमप्रभवां भवान्या
भव्यामिमां
स्तुतिमुमापतिना प्रणीताम् ।
यः श्रावयेत् सपुरूहूतपुराधिपत्य
भाग्यं
लभेत रिपवश्च तृणानि तस्य ॥ ९॥
रामाष्टांक शशांकेऽब्देऽष्टम्यां शुक्लाश्विने गुरौ ।
शाक्तश्रीजगदानन्दशर्मण्युपहृता स्तुतिः ॥ १०॥
॥
इति कविपत्युपनामक- श्री उमापतिद्विवेदि- विरचितं चण्डिकाष्टकं
सम्पूर्णम् ॥
]