बृहत्स्तोत्ररत्नाकरः

[[बृहत्स्तोत्ररत्नाकरः Source: EB]]

[

[TABLE]

श्रीवेङ्कटेश्वरायनमः।

श्रीमदनंतनिगमांतसिद्धांतपरमतत्त्वार्थानंतकल्याणगुणकर श्रीमन्नारायणस्वरूपस्वभावप्रकाश-कोऽपिच यद्दर्शनस्पर्शनलेखनपठनपाठनप्रदानादानरक्षणपूजनश्रवणादिभिः सकलभगवद्भक्तानां-कलिकलुषान्धकारनिर्हरणप्रचंडभास्करद्युतिः श्रीमत्पूर्वाचार्यैः प्रणीतोऽध्येतृजानांझटित्यखिल-पुरुषार्थप्रदत्वेन वृत्तालंकारादिभिश्चात्यंतसुंदरोयं “बृहत्स्तोत्ररत्नाकरः” सेतुशीताचलांतर्धरमणि-मध्यवर्तिनामास्तिकमतावलम्बिसकलसज्जनानामत्यंतोपकारायश्रीवैकुण्ठपतेः श्रीमन्नारायणस्य प्रेरणया स्वकीये “श्रीवेङ्कटेश्वर”मुद्रणालयेऽङ्कयित्वा प्रसिद्धिं प्रापितः।

क्षेमराज श्रीकृष्णदास

,

“श्रीवेङ्कटेश्वर” मुद्रणालयाध्यक्ष-मुम्बई,

श्रीः।

अथ बृहत्स्तोत्ररत्नाकरस्थ

स्तोत्राणामनुक्रमणिका।

<MISSING_FIG href="../books_images/U-IMG-1724428897Capture.JPG"/>

स्तोत्रनामानि

मंगलम्‌ शिवस्तुतिः
गणेशकवचम्‌ पशुपत्यष्टकम्
संकष्टनाशनगणपतिस्तोत्रम्‌ लिंगाष्टकम्‌
गणेशाष्टकम्‌ शिवकवचम्
एकदंतस्तोत्रम् शिवमहिमस्तोत्रम्
शिवभुजंगप्रयातस्तोत्रम्‌ वेदसारशिवस्तवः
शिवपंचाक्षरस्तोत्रम् विश्वनाथाष्टकम्‌
उपमन्युकृतशिवस्तोत्रम् शिवनामावल्यष्टकम्‌
शिवापराधक्षमापनस्तोत्रम् प्रदोषस्तोत्राष्टकम्
रावणकृतशिवतांडवस्तोत्रम् चंद्रशेखराष्टकम्‌
द्वादशज्योतिर्लिंंगस्तोत्रम् दक्षिणामूर्तिस्तोत्रम
शिवमानसपूजा
निर्वाणदशकम्‌ देवकृतगर्भस्तुतिः
निर्वाणषट्कम्‌ वसुदेवकृतश्रीकृष्णस्तोत्रम्
आत्मपंचकम्‌ बालकृतकृष्णस्तोत्रम्
कालभैरवाष्टकम् श्रीमदच्युताष्टकम्‌
असितकृतशिवस्तोत्रम पांडुरंगाष्टकम्‌
हिमालयकृतशिवस्तोत्रम् विष्णुस्तवराजः
शिवाष्टकम् विष्णुपंजरस्तोत्रम्
द्वादशज्योंतिर्लिंगानि नारायणस्तोत्रम्‌
दारिद्र्यदहनस्तोत्रम्‌ शालिग्रामस्तोत्रम्‌
कल्किकृतशिवस्तो० गोपालस्तोत्रम्
चतुःश्लोकीभागवतम् श्रीकृष्णस्तवराजः
पांडवगीता त्रैलोक्यमंगलकवचम्
सप्तश्लोकीगीता कृष्णाष्टकम्‌
कल्किस्तोत्रम् जगन्नाथाष्टकम्
संकष्टनाशनलक्ष्मीनृसिंहस्तोत्रम्‌ मोहिनीकृतकृष्णस्तोत्रम्
ज्वरस्तोत्रम् ब्रह्मदेवकृतकृष्णस्तोº
आचार्यकृतषट्‌पदी
श्रीकृष्णस्तोत्रम्‌ आनंदलहरी
अच्युताष्टकम्‌ देवकृतलक्ष्मी स्तोत्रम्‌
श्रीकृष्णाष्टोत्तरशतनामस्तोत्रम् वाराहीनिग्रहाष्टकम्‌
मुकुंदमाला वाराह्यनुग्रहाष्टकम्‌
नारायणवर्म ताराष्टकम्‌
इंद्रकृतकृष्णस्तोत्रम् शीतलाष्टकम्‌
विप्रपत्नीकृतकृष्ण स्तोत्रम् अन्नपूर्णा स्तोत्रम्‌
गोपालविंशति राधाकवचम्‌
भगवन्मानसपूजा तुलसी स्तोत्रम्‌
श्रीबालरक्षा तुलसीकवचम्‌
विष्णोरष्टाविंशतिनामस्तोत्रम्‌ सूर्यकवचम्
हरिस्तुतिः आदित्यहृदयम्‌
हरिनाममाला सुर्याष्टकम्‌
विष्णुशतनाम स्तोत्रम् रामगीता
महालक्ष्म्यष्टकम्‌ रामरक्षास्तोत्रम्‌
त्रीपुरसुंदरी स्तोत्रम्‌ रामस्तवराजः
देव्यपराधक्षमापनस्तोत्रम् संक्षिप्तमूलरामायणम्‌
ब्रह्मदेवकृतरामस्तुतिः आत्मषट्कस्तोत्रम्
रामहृदयम् सिद्धांतबिंदुः
जटायुकृतरामस्तोत्रम् मनीषापंचकम्‌
श्रीसीतारामाष्टकम्‌ वाक्यवृत्तिः
रामाष्टकम्‌ परापूजा
महादेवकृतरामस्तुतिः हरिहरात्मकस्तोत्रम्‌
अहल्याकृतरामस्तो० दत्तात्रेयस्तोत्रम्‌
इंद्रकृतरामस्तोत्रम्‌ शिवरामाष्टकम्‌
धन्याष्टकम्‌ शंकराचार्यकृतगुर्वष्टकम्
विज्ञाननौका प्रश्नोत्तरमालिका
द्वादशपंजरिकास्तो० कल्किस्तवः
चर्पटपंजरिकास्तोत्रम्‌ प्रातःस्मरणस्तोत्रम्‌
हस्तामलकस्तोत्रम्‌ अश्वत्थस्तोत्रम्‌
पंचरत्नमालिकास्तो० नवग्रहस्तोत्रम्‌
वैराग्यपंचकम्‌ शनिस्तोत्रम्
गुरुवरप्रार्थनापंचरत्नम्‌ ऋणमोचकमंगलस्तोत्रम्
आत्मबोधः श्रीमच्छंकराचार्यकृतगंगाष्टकम्
बाल्मीकिकृतरगंगाष्टकम् काशीपंचकम्
कालिदासकृतगंगाष्टकम् संकटानामाष्टकम्‌
द्वितीयं कालिदासकृतगंगाष्टकम् सत्यव्रतोक्तदामोदरस्तोत्रम्
गंगास्तवः श्रीविष्णोः षोडशनामस्तोत्रम्
सत्यज्ञानानंदतीर्थकृतगंगाष्टकम् अथदशावतारस्तोत्रम्
नर्मदाष्टकम् आर्तत्राणनारायणाष्टादशकम्
यमुनाष्टकम् पंचमहायुधस्तोत्रम्
यमुनाष्टकम् नृसिंहगद्यस्तोत्रम्
सरस्वत्यष्टकम् श्रीनृसिंहस्तोत्रम्
पुष्कराष्टकम् वलरामस्तोत्रम्
मणिकर्णिकाष्टकम् श्रीवेंकटेशमंगलस्तो०
प्रयागाष्टकम्

इत्यनुक्रमणिका समाप्ता।

<MISSING_FIG href="../books_images/U-IMG-1726208075vbnmv.png"/>

<MISSING_FIG href="../books_images/U-IMG-1726208225hhhhhj.png"/>

<MISSING_FIG href="../books_images/U-IMG-1726208297jjjjjjh.png"/>

<MISSING_FIG href="../books_images/U-IMG-1726208443kkkkkkl.png"/>

<MISSING_FIG href="../books_images/U-IMG-1726208552oooooop.png"/>

<MISSING_FIG href="../books_images/U-IMG-1726208712pppo.png"/>

<MISSING_FIG href="../books_images/U-IMG-1726208804kkkkkj.png"/>

<MISSING_FIG href="../books_images/U-IMG-1726208969mmmmm.png"/>

<MISSING_FIG href="../books_images/U-IMG-1726209039bbbbbbbbbb.png"/>

<MISSING_FIG href="../books_images/U-IMG-1726209200vvvvvvvvv.png"/>

<MISSING_FIG href="../books_images/U-IMG-1726210631nnnnn.png"/>

श्रीः।
वृहत्स्तोत्ररत्नाकरः।
<MISSING_FIG href="../books_images/U-IMG-1724554358Capture.JPG"/>

अथ मङ्गलम्।

श्रीगणेशाय नमः॥

श्रीहयग्रीवाय नमः॥

शुक्लांवरधरं विष्णुं शशिवर्णं चतुर्भुजम्‌॥
प्रसन्नवदनं ध्यायेत्सर्बविघ्नोपशांतये॥१॥

नारायणं नमस्कृत्यनरं चैव नरोत्तमम्‌।
देवींसरस्वतीं व्यासंततो जयमुदीरयेत्‌॥२॥

व्यासं वसिष्ठनप्तारं शक्तेःपौत्रमकल्मषम्‌॥
पराशरात्मजं वंदे शुकतातं तपोनिधिम्‌॥३॥

व्यासाय विष्णुरूपाय व्यासरूपाय विष्णवे॥
नमो वैब्रह्मविधये वासिष्ठाय नमोनमः॥४॥

अचतुर्वदनो ब्रह्मा द्विबाहुरपरो हरिः॥
अभाललोचनः शंभुर्भगवान्‌ बादरायणः॥५॥

अथ गणेशकवचप्रारंभः।

श्रीगणेशाय नमः॥

गौर्युवाच॥

एषोऽतिचपलो

दैत्यान्वाल्येऽपि नाशयत्यहो॥
अग्रे किं कर्मं कर्तेति न जाने मुनिसत्तम॥१॥

दैत्या नानाविधादुष्टाः साधुदेबद्रुहः खलाः॥
अतोऽस्य कंठे किंचित्त्वंरक्षांर्थंबद्धुमर्हसि॥२॥

मुनिरुवाच॥

ध्यायेत्सिंहगतं विनायकममुंदिग्बाहुमाद्येयुगे
त्रेतायां तु मयूरवाहनममुंषड्वाहुकं सिद्धिदम्‌॥
द्वापारेतु गजाननं युगथुजं रक्तांगरागं विभुं
तर्ये तु द्विभुजं तितांगरुचिरं सर्वाभेदं सवेदा॥३॥

विनायकः शिखांं पातु परमात्मा परात्परः॥
अतिसुंदरकायस्तु मस्तकं सुमहोत्कटः॥४॥

ललाटं काश्यपः पातु श्रूयुगं तु महोदरः॥
नयने भालचंद्रस्तु गजास्यस्त्वोष्ठपल्लवौ॥५॥

जिह्वां पातु गणक्रीडश्चिबुकं गिरिजासुतः॥
वाचं विनायकः पातुदंतान्रक्षतु दुर्मुखः॥६॥

श्रवणौपाशपाणिस्तु नासिकां चिंतितार्थदः॥
गणेशस्तु मुखं कंठं पातु देवो गणंजयः॥७॥

स्कंधौपातु गजस्कंधः स्तनौविघ्नविनाशनः।

हृदयं गणनाथस्तु हेरंबौजठरं महान्‌॥८॥

धराधरः पातु पार्श्वौपृष्ठं विघ्नहरः शुभः॥
लिंगं गुह्यंसदा पातु वक्रतुंडो महाबलः॥९॥

गणक्रीडो जानुजंघेउरूमंगलमूर्तिमान्॥
एकदंतो महाबुद्धिः पादौगुल्फौसदाऽवतु॥१०॥

क्षिप्रप्रसादनो बाहू पाणी आशाप्रपूरकः॥
अंगुलीश्चनखान्पातु पद्महस्तोऽरिनाशनः॥११॥

सर्वांगानि मयूरेशो विश्वव्यापी सदाऽवतु॥
अनुक्तमापे यत्स्थानं धूमकेतुः सदाऽवतु॥१२॥

आमोदस्त्वग्रतः पातु प्रमोदः पृष्ठतोऽवतु॥
प्राच्यां रक्षतु बुद्धीश आग्नेय्यांसिद्धिदायकः॥१३॥

दक्षिणस्यामुमापुत्रो नैर्ऋत्यां तुगणेश्वरः॥
प्रतीच्यां विघ्नहर्ताऽव्याद्वायव्यां गजकणेकः॥१९॥

कौबेर्यांनिधिपः पायादीशान्यामीशनंदनः॥
दिवाऽव्यादेकदंतस्तु रात्रौसंध्यासु विघ्नहृत्॥१५॥

राक्षसासुरवेतालग्रहभूतपिशाचतः॥
पाशांकुशधरः पातु रजःसत्त्वतमः स्मृतोः॥१६॥

ज्ञानं धर्मं च लक्ष्मीं च लज्जांकीर्तिं तथा कुलम्॥
वपुर्धनं च धान्यं च गृहदारान्सुतान्‌ सखीन्‌॥१७॥

सर्वायुधधरः पौत्रान्‌ मयूरेशोऽवतात्सदा॥
कपिलोऽजाविकंपातु गजाश्वान्विकटोऽवतु॥१८॥

भूर्जपत्रेलिखित्वेदं यः कंठे धारयेत्सुधी॥
न भयं जायते तस्य यक्षरक्षः पिशाचतः॥१९॥

त्रिसंध्यं जपते यस्तु वज्रसारतनुर्भवेत्‌॥
यात्राकाले पठेद्यस्तु निर्विघ्नेन फलं लभेत्‌॥२०॥

युद्धकाले पठेद्यस्तु बिजयंचाप्नुयाद्धुवम्‌॥
मारणोच्चाटनाकषेस्तंभमोहनकमेणि॥२१॥

सप्तवारं जपेदेतद्दिनानामेक विंशतिम्॥
तत्तत्फलमवाप्नोति साधको नात्रसंशयः॥२२॥

एकविंशतिबारं च पठेत्तावहिनानि यः।
कारागृहगतं सद्यो राज्ञा वध्यं च मोचयेत्‌॥२३॥

राजदर्शनवेलायांपठेदेतत्त्रिवारतः॥
सराजानं बशं नीत्वा प्रकृतीश्च सभां जयेत्‌॥२४॥

इदंगणेशकवचं कश्यपेन समीरितम्॥
मुद्गलाय च तेनाथ माण्डव्याय महर्षये॥२५॥

मह्यं स प्राह कृपयाकवचं सर्वसिद्धिदम्॥
न देयं भक्तिहीनाय देयं श्रद्धावते शुभम्॥२६॥

अनेनास्य कृता रक्षा न बाधाऽस्य भवेत्क्वचित्‌॥
राक्षसासुरवेतालदैत्यदानवसंभवा॥२७॥

इति गणेशपुराणे उत्तरखंडे वालक्रीडायां षडशीतितमेऽध्याये गणेशकवचंसंपूर्णम्‌॥३॥

अथ संकष्टनाशनगणपतिस्तोत्रप्रारंभः।

श्रीगणेशाय नमः॥

नारद उवाच॥

प्रणम्य शिरसा देवं गौरीपुत्रंविनायकम्‌॥
भक्तावासं स्मरेन्नित्यमायुष्कामार्थसिद्धये॥१॥

प्रथमं वक्रतुंडं च एकदंतं द्वितीयकम्॥
तृतीयं कृष्णपिंगाक्षं गजवक्रं चतुर्थकम्‌॥२॥

लंबोदरं पंचमं च षष्ठं विकटमेव च॥
सप्तमं विभराजं च धूम्रवर्णंतथाष्टमम्‌॥३॥

नवमं भालचंद्रं च दशमं तु विनायकम्‌॥
एकादशंगणपतिं द्वादशं तु गजाननम्‌॥९॥

द्वादशैतानि नामानि त्रिसंध्यंयः पठेन्नरः॥

न च विघ्नभयं

तस्य सर्वसिद्धिकरंपरम्॥५॥

विद्यार्थी लभते विद्यांधनार्थी लभते धनम्‌॥
पुत्रार्थी लभते पुत्रान्मोक्षार्थीलभते गतिम्‌॥६॥

जपेद्गणपतिस्तोत्रंषड्भिर्मासैःफलंलभेत्॥
संवत्सरेण सिद्धिं च लभतेनात्र संशयः॥७॥

अष्टानांब्राह्मणानां च लिखित्वा यःसमर्पयेत्‌॥
तस्य विद्या भवेत्सर्वागणेशस्य प्रसादतः॥८॥

इति श्रीनारदपुराणे संकष्टनाशानं नामगणेशस्तोत्रं संपूर्णम॥२॥

अथ गणेशाष्टकप्रारंभः।

श्रीगणेशाय नमः॥

सर्वे ऊचुः॥

यतोऽनंतशक्तेरनंताश्चजीवा यतोनिर्गुणादप्रमेया गुणास्ते॥
यतो भाति सर्बंत्रिधाभेदभिन्नं सदा तं गणेशं नमामो भजामः॥१॥

यतश्चाविरासीज्जगत्सर्वमेतत्तथा ब्जासनो विश्वगो विश्वगोप्ता॥
तथेंद्रादयो देवसंधा मनुष्याः सदा तं गणेशं नमामो भजामः॥२॥

यतो वह्निभानूभवोभूर्जलंच यतः सागराश्चंद्रमाव्योमवायुः॥

यतः स्थावरा जंगमा वृक्षसंधाः सदा तंगणेशं नमामो भजामः॥३॥

यतो दानवाः किन्नरायक्षसंधा यतश्चारणा वारणाः श्वापदाश्च॥
यतः पक्षिकीटा यतो वीरूधश्च सदा तं गणेशं नमामों भजामः॥४॥

यतो बुद्धिरज्ञाननाशोमुमुक्षोर्यतः संपदो भक्तसंतोषिकाः स्युः॥
यतोविघ्ननाशो यतः कार्यसिद्धिःसदा तं गणेशं नमामो भजामः॥५॥

यतः पुत्रसंपद्यतों वाञ्छितार्थेयतोऽभक्तविघ्नास्तथाऽनेकरूपाः॥
यतः शोकमौहौ यतः काम एव सदा तंगणेशं नमानमो भजामः॥६॥

यतोऽनंतशक्तिः स शेषो वभूव धराधारणेऽनेकरूपे च शक्तः।
यतोऽनेकधा स्वर्गलोका हि नाना सदा तं गणेशं नमामो भजामः॥७॥

यतो वेदवाचोऽतिकुंठामनोभिः सदा नेति नेतीति यत्ता गृणंति॥
परब्रह्मरूपंचिदानंदभूतं सदा तंगणेशंनमामो भजामः॥८॥

पुनरुचेगणाधीशःस्तोत्रमेतत्पठेन्नरः॥
त्रिसंध्यं त्रिदिनं तस्य सर्वकार्येभविष्यति॥९॥

यो जपेदष्टदिवसं श्लोकाष्टकमिदं शुभम्॥
अष्टवारं चतुर्थ्यांतु सोऽष्टसिद्धोरवाप्नुयात्‌॥१०॥

यः पठेन्मासमात्रं तु दशवारं दिने दिने॥
स मोच येद्बंधगतं राजवध्यं न संशयः॥११॥

विद्याकामो लभेद्विद्यांपुत्रार्थीपुत्रमाप्नुयात्‌।
वांछिताल्ँलभते सर्वानेकविंशतिवारतः॥१२॥

यो जपेत्परयाभक्तया गजाननपरो नरः॥
एवमुक्त्वा ततो देवश्चांतर्धानं गतः प्रभुः॥१३॥

इति श्रीगणेशपुराणे उपासनाखंडे श्रीगणेशाष्टकं संपूर्णम्‌॥३॥

अथ एकदंतस्तोत्रप्रारंभः।

श्रीगणेशाय नमः॥

महासुरं सुशांतं वैदृष्ट्वाविष्णुमुखाः सुरा॥
मृग्वादयश्चमुनय एकदंतं समाययुः॥३॥

प्रणम्य तं प्रपूज्यादौपुनस्तं नेमुरादरात्॥
तुष्टुवुर्हर्षसंयुक्ताएकदंतं गणेश्वरम्‌॥२॥

देवर्षय ऊचुः॥

सदात्महरूपं सकलाहिभूतममायिनं सोहमंचिन्त्यावोधम्‌॥

अनादिमध्यांतविहीनमेकं तमेकदंतंशरणं व्रजामः॥३॥

अनंतचिद्रूपमयं गणेशं ह्यभेदभेदादिविहीनमाद्यम्।
हृदिप्रकाशस्यधरंस्वधीस्थं तमेकदंतं शरणं व्रजामः॥४॥

विश्वादिभूतंहृदि योगिनां वैप्रत्यक्षरूपेण विभांतमेकम्‌॥
सदा नि रालंवसमाधिगम्यं तमेकदंतं०॥५॥

स्वविंबभावे न विलासयुक्तंबिन्दुस्वरूपा रचिता स्वमाया॥
तस्यां स्ववीर्यं प्रददाति योवैतमेकदंतं०॥६॥

त्वदीयवीर्येण समर्थभूता माया तया संरचितं च विश्वम्‌॥
नादात्मकं ह्यात्मतया प्रतीतंतमेकदंतं०॥७॥

त्वदीयसत्ताधरमेकदंतं गणेशमेकंत्रयबोधितारम्‌॥
सेवंत आपुस्तमजंत्रिसंस्थास्तमेकदंतं०॥८॥

तत स्त्यया प्रेरित एव नादस्तेनेदमेवं रचितं जमद्वै॥
आ नंदरूपं समभावसंस्थं तमेकदं०॥९॥

तदेव विश्वं कृपया तवैव संभूतंमाद्यंतमसा विभातम्‌॥
अनेकरुपं ह्यजमेकभृतं तमेक०॥१०॥

ततस्त्वया प्रेरितमे

व तेन सृष्टं सुसूक्ष्मं जगदेकसंस्थम्‌॥
सत्त्वात्मकंश्वेतमनंतमाद्यंतमेक०॥११॥

तदेव रूपंतपसा गणेशंसंसिद्धिरूपं विविधं बभूव॥
सदेकरुपंकृपया तवापि तमेक०॥१२॥

संप्रेरितं तच्च त्वया हृदिस्थं तथा सुसृष्टं जगदंशरूपम्‌।
तेनैव जाग्रन्मयमप्रमेयं तमेक०॥१३॥

जाग्रत्स्वरूपं रजसाविभातं विलोकितं तत्कृपयायदैव॥
तदाविभिन्नंभवत्येकरूपं तमेक०॥१४॥

एवं च सृष्ट्वाप्रकृतिस्व भावात्तदंतरे त्वंचविभासि नित्यम्‌॥
बुद्धिप्रदाता गणनाथ एकस्तमेक०॥१५॥

त्वदाज्ञया भानि ग्रहाश्चसर्वे नक्षत्ररुपाणि विभांति खे वै॥
आधारदीनानि त्वयाधृतानि तमेक०॥१६॥

त्वदाज्ञया सृष्टिकरो विधाता त्वदाज्ञया पालक एवं विष्णुः॥
त्वदाज्ञायासंहरको हरोऽपि तमेक०॥१७॥

यदाज्ञयाभूमिजले च संस्था यदाज्ञयाऽपः प्रवहंति नद्यः।
सीमां सदा रक्षति वैसमुद्रस्तमेक०॥१८॥

यदाज्ञया देव

कणो दिविस्थो ददाति वैकर्मफलानि नित्यम्॥
यदाज्ञया शैलगणोऽचलोवैतमेक०॥१९॥

यदाज्ञया शेष इलाधसे वैयदाज्ञया मोहप्रदश्चकामः॥
यदाज्ञया कालधसेऽर्यमा च तमे०॥२०॥

यदाज्ञया वाति विभाति वायुर्यदाज्ञयाऽग्निर्जठरादिसंस्थः॥
यदाज्ञया वैसचराचरं च तमेक०॥२१॥

सर्वान्तरे संस्थितमेकमूढं यदाज्ञया सर्वमिदं विभाति।
आद्यंत रूपं हृदि बोधकं वैतमेक०॥२२॥

यंयोगिनो योगबलेन साध्यं कुर्वंति तंकः स्तवनेन स्तौति॥
अतः प्रणामेन सुसिद्धिदोऽहस्तुतमेक०॥२३॥

गृत्समद उवाच॥

एवं स्तुत्वा च प्रह्नाददेवाः स

सुनयश्चवै॥
तृष्णींभावंप्रपद्यैवननृतुर्हर्षसंयुताः॥२४॥

सतानुवाचप्रीतात्मा ह्येकदंतः स्तवेन वै॥
जगाद तान्महाभागान्देवर्षीन्भक्तवत्सलः॥२५॥

एकदंत उवाच॥

प्रसन्नोऽस्मि च स्तोत्रेण सुराः सर्पिगणाः किल॥
वृणुतवरदोऽहंवोदास्यामि मनसीप्सितम्॥२६॥

भवत्कृतं मदीयं वैस्तोत्रंप्रीतिप्रदं मम॥
भविष्यति न संदेहः सर्वसिद्धिप्रदायकम्‌॥२७॥

यं यमिच्छति तंतं वैदास्यामि स्तोत्रपाठतः॥
पुत्रपौत्रादिकं सर्वंलभते धनधान्यकम्‌॥२८॥

गजाश्वादिकमत्यंतंराजभोगं लभेद्ध्रुवम्‌॥
भुक्तिं मुक्तिं च योगंवैलभते शांतिदायकम्‌॥२९॥

मारणोच्चाटनादीनि राज्यवंधादिकं च यत्‌॥
पठतां शृण्वतां नॄणां भवेच्चवंधहीनता॥३०॥

एकविंशतिबारं च श्लोकांश्चैवैकविंशतिम्॥
पठते नित्यमेवं च दिनानि त्वेकविंशतिम्‌॥३१॥

न तस्य दुर्लभंकिंचित्त्रिषु लोकेषु वैभवेत्‌॥
आसध्यंसाधयेन्मर्त्यः सर्वत्र विजयी भवेत्‌॥३२॥

नित्यं यःपठते स्तोत्रं ब्रह्मभूतः स वैनरः॥
तस्य दर्शनतःसर्वे देवाः पूता भवंति वै॥३३॥

एवं तस्य वचः श्रुत्वा हृष्टा देवतर्षयः॥
ऊचुः सांजलयः सर्वेभक्तियुक्ता गजाननम्‌॥३४॥

इत्येकदन्तस्तोत्रं संपूर्णम्‌॥४॥

शिवस्तोत्राणि।

अथ शिवभुजंगप्रयातस्तोत्रम्।

श्रीगणेशाय नमः॥

गलद्दानगंडं मिलद्भ्रृगखंडं चलच्चारुशुंडं जगत्राणशौंडम्‌॥
लसद्दंतकांडं विपद्भं गचंडं शिवप्रेमपिंडं भजेवक्रतुंडम्‌॥१॥

अनाद्यं तमाद्यंपरंतत्त्वमर्थं चिदाकारमेकं तुरीयं त्वमेयं॥
हरिव्रह्ममृग्यं परव्रह्मरुपंमनोवागतीतं महः शैवमीडे॥२॥

स्वशक्त्यादिशक्त्यंतसिंहासनस्थं मनोहारिसर्वांगरत्नादिभूषम्‌॥
जटाहींदुगंगास्थिशश्यर्कमौलिं परं शक्तिमित्रंनुमः पंचवक्रम्‌॥३॥

शिवेशानतत्पूरुषाधोरवामादिभिर्ब्रह्मभिर्हृन्सुखैःषड्भिरंगैः॥
अनौपम्यषट्त्रिशतंतत्त्वविद्यामतीतं परं त्वां कथं वेत्ति को वा॥४॥

प्रवालप्रवाहप्रभाशोणमर्धंमरुत्त्वन्मणि श्रीमहः श्याममर्धम्‌॥
गुणस्यूतमेकंवपुश्चैकमंतः स्मरामिस्मरापत्तिसपत्तिहेतुम्॥५॥

स्वसेवा समायातदेवासुरेंद्रानमन्मौलिमंदारमालाभिषिक्तम्‌।
नमस्यामि शंभो पदांभोरुहंते भवांभोधिपोतं भवानीबिभाव्यम्‌॥६॥

जगन्नाथ मन्नाथगौरीसनाथ प्रपन्नानुकंपिन्विपन्नार्तिहारिन्‌॥
महास्तोमभूतैःसमस्तैकबंधोनमस्तेनमस्ते पुनस्तेनमोऽस्तु॥७॥

महादेवदेबेशदेवादिदेवस्मरारेपुरारे यमारे हरेति॥
ब्रुवाणः स्मरिष्यामि भक्तया भवं तं ततो मे दयाशील देव प्रसीद्‌॥८॥

विरूपाक्षवि श्वेशविद्यादिकेश त्रयीमूलशभो शिव त्र्यंबकत्वं॥
प्रसीद स्मर त्राहि पश्याऽव पुष्य क्षमस्वाप्नुहीतिक्षपा हि क्षिपामः॥९॥

त्वदन्यःशरण्यःप्रपन्नस्यनेति प्रसीद स्मरन्नेव हन्यास्तु दैन्यम्‌॥
न चेत्तेभवेद्भक्तवात्सल्यहानिस्ततो मे दयालों दयां सन्निधेहि॥१०॥

अयंदानकालस्त्वहं दानपात्रं भवान्नाथ दाता त्वदन्यं न याचे॥
भवद्भक्तिमेव स्थिरां देहि मह्यंकृपाशील शंभो कृतार्थोऽस्मि तस्मात्‌॥११॥

पशुंवेत्सि चेन्मां त्वमेवाधिरूढःकलंकीतिवा मूर्ध्निधत्सेत्वमेब॥
द्विजिह्वःपुनस्तेऽपि ते कंठभूषा त्वदङ्गीकृताः शर्वसर्वेपिधन्याः॥१२॥

न शक्नोमि कर्तुंपरद्रोहलेशं कथं प्रीयसे त्वं न जाने गिरीश॥
तदाहि प्रसन्नोऽसि कस्यापि कांतासुतद्रोहिणो वा पितृदोहिणोवा॥१३॥

स्तुतिं ध्यानमर्चांयथावद्विधातुं भजन्नप्यजानन्महेशावलंबे॥
त्रसंतं सुतं त्रातुमग्रेमृकंडोर्यमप्राणनिर्वापणं त्वत्पदाब्जम्‌॥१४॥

अकंठे कलंकादनंगे भुजंगादपाणौकपालादभालेन लाक्षात्‌॥
अमौलौ शशांकादवामे कलत्रादहं दैव मन्यं न मन्येन मन्ये॥१५॥

इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमच्छंकराचार्यविराचितं श्रीशिवभुजंगप्रयातस्तोत्रंसंपूर्णम्‌॥५॥

अथ शिवपंचाक्षरस्तोत्रप्रारंभः।

श्रीगणेशाय नमः॥

नांगेंद्रहाराय त्रिलोचनाथभस्मांगरागाय महेश्वराय॥
नित्याय शुद्धाय दिगंवराय तस्मैनकाराय नमः शिवाय॥१॥

मंदाकिनीसलिलचंदनचर्चिताय नंदीश्वरप्रमथनाथमहेश्वराय॥

मंदारपुष्पबहुपुष्पसुपृजिताय तस्मैमकारयनमःशिवाय॥२॥

शिवाय गौरीवदनाब्जवृंदसूर्याय दक्षाध्वरनाशकाय॥
श्रीनीलकंठाय वृषध्वजाय तस्मै शिकाराय नमः शिवाय॥३॥

वसिष्ठकुंभोद्भवगौतमार्यमुनींद्रदेवार्चितशेखराय॥
चंद्रार्कवैश्वानरलोचनाय तस्मैवकाराय नमः शिवाय्॥४॥

यक्षस्वरूपाय जटाधराय पिनाकरस्ताय सनातनाय॥
दिव्याय देवाय दिगंबराय तस्मैयकारायतमःशिवाय॥५॥

पंचाक्षरमिदं पुण्यं यःपठेच्छिवसन्निधौ॥
शिवलोकमवाप्नोति शिवेन सह मोदते॥६॥

इति श्रीमच्छंकराचार्यविरचितं शिवपंचाक्षरस्तोत्रंसंपूर्णम्‌॥६॥

श्रीसांबसदाशिवार्पणमस्तु॥

अथ उपमन्युकृतशिवस्तोत्रप्रारंभः।

श्रीगणेशाय नमः॥

जय शंकर पर्वतीपते मृड शंभो शशिखंडमंडन॥
मदनांतक भक्तवत्सलप्रियकैलास दयासुधांबुधे॥१॥

सदुपायकथास्वपंडितोदये दुखःशरेण खंडितः॥
शशिखंडशिखंडमंडनंशरणं यामि शरण्यमीश्वरम्‌॥२॥

महतः परितः प्रसर्पतस्तमसो दर्शनभेदिनो भिदे॥
दिननाथ इव स्वतेजसा हृदयव्योम्निमनागुदेहि नः॥३॥

न वयं तव चर्मचक्षुषा पदवीमप्युपवीक्षितुं क्षमाः॥
कृप याऽभयदेनचक्षुषा सकलेनेशविलोकयाशुनः॥४॥

त्वदनुस्मृतिरेव पावनी स्तुतियुक्ता न हि वक्तुमीशसा॥
मधुरं हि पयः स्वभावतो ननु कीदृक्सितशर्करान्वितम्‌॥५॥

सविषोऽप्यमृतायते भवाञ्श्छवमुंडाभरणोऽपि पावनः॥
भव एव भवांतकः सतां सम दृष्टिर्विषमेक्षणोऽपि सन्‌॥६॥

अपि शूलघरो निरामयो दृढवैराग्यरतोऽपि रागवान्‌॥
अपि भैक्ष्यचरो महेश्वरश्चरितंचित्रमिदं हि ते प्रभो॥७॥

वितरत्य भिवांछितं दृशा परिदृष्टः किलकल्पपादपः।
हृदये भृत एव धीमतो नमतोऽभीष्टफल्प्रदो भवान्॥८॥

सहसैव भुजगपाशवान्विनिगृह्णाति न यावदंतकः॥

अभयं कुरु तावदाशु मे गतजीवस्य पुनः किमौषधैः॥९॥

सविषैरिव भीमपन्नगैर्विषयैरेभिरलंपरिक्षितम्‌॥
अमृतैरिव संभ्रमेण मामभिषिंचाशु दयावलोकनैः॥१०॥

मुनयो बहवोऽद्य धन्यतां गमिताः स्वाभिमतार्थदर्शिनः॥
करुणाकर येन तेन मामवसन्नंननु पश्यचक्षुषा॥१३१॥

प्रणमाम्यथ यामिचापरं शरणं कं कृपणाभयप्रदम्‌॥
विरहीव विभो प्रियामयं परिपश्यामि भवन्मयं जगत्‌॥१२॥

बहवोभवताऽनुकंपिताः किमितीशान न मानुकंपसे॥
दधता किमु मंदराचलंपरमाणुः कमठेन दुर्धरः॥१३॥

अशुचिं यदि मानुमन्यसे किमिदं मुर्घ्निकपालदाम ते॥
उत शाठ्यमसाधुसंगिनं विषलक्ष्मासिन किं द्विजिह्वधृक्॥१४॥

क्व दृशं विदधामि किं करोम्यनुतिष्ठामिकथंभयाकुलः॥
क्वनु तिष्ठसि रक्ष रक्ष मामायिशंभोशरणागतोऽस्मि ते॥१५॥

विलुठाम्यवनौकिमाकुलः किमुरो हन्मि शिरश्छिनद्मिवा॥

किमुरोदिमि रास्टीमि किं कृपणं मां न यदीक्षसे प्रभो॥१६॥

शिव सर्वगशर्वशर्मदप्रणतो देव दयां कुरुष्व मे॥
नम ईश्वर नाथ दिक्पतेपुनरेवेश नमो नमोऽस्तुते॥१७॥

शरणं तरुणेंदुशेखरःशरणं मे गिरिराजकन्यका॥
शरणं पुनरेवतावुभौशरणं नान्यदुपैमि दैवतम्‌॥१८॥

उपमन्युकृतं स्तवोत्तमं जपतः शंभुसमीपवर्तिनः॥
अभिवांछितभाग्यसंपदःपरमायुःप्रददाति शंकरः॥१९॥

उपमन्युकृतंस्तवोत्तमं प्रजपेद्यस्तु शिवस्य संनिधौ॥
शिवलोकमवाप्य सोऽचिरात्सह तेनैव शिवेन मोदते॥२०॥

इत्युपमन्युकृतं शिवस्तोत्रं संपूर्णम्॥७॥

अथ शिवापराधक्षमापनस्तोत्रप्रारंभः।

श्रीगणेशायनमः॥

आदौ कर्मप्रसंगात्कलयतिकलुषं मातृकुक्षौस्थितं मां
विण्मूत्रामेध्यमध्येक्वथयति नितरां जाठसे जातवेदाः॥
यद्यद्वैतत्र दुःखं व्यथयति नितरांशक्यते केन वक्तुं
क्षंतव्योमेऽपशधः शिव शिवशिव भोः श्रीमहादेवशंभो॥१॥

वाल्येदुःखातिरेकान्मललुलितवपुः स्तन्यपानेपिपासा-
नोशक्यश्चेंद्रियेभ्योभवगुणजनिता जंतवो मांतुदंति॥
नानारोगादिदुःखाद्रुदनपरवशः शंकरं नस्मरामि
क्षंतव्यो मेऽपराधः शिव शिव शिव भो श्रीमहादेव शंभो॥२॥

प्रौढोऽहं यौवनस्थो विषयवि षधरैःपंचभिर्मर्मसंधौ
दष्टो नष्टोविवेकः सुतधनयुवतिस्वादुसौख्ये निषण्णः॥
शैवीचिंताविहीनं मम हृदयमहो मानगर्वाधिरूढं
क्षंतव्यो मेऽपराधः शिव शिव शिव भो श्रीमहादेव०॥३॥

वार्धक्येचोंद्रियाणां विनतगतिमति श्चाधिदैवाधितापैः
पापैरोगौर्वियो गैस्त्वनवसितवपुःप्रौढिहीनं च दीनम्‌॥
मिथ्यामो हाभिलाषैर्भ्रमतिमम मनो धूर्जटेर्ध्यानशुन्यं
क्षंतव्यो मेऽपराधः शिव शिव०॥४॥

नोशक्यं स्मार्तकर्मप्रतिपदगर्हनप्रत्यवायाकुलाख्यं
श्रौते वार्ताकथं मे द्विजकुलविहिते ब्रह्ममार्गेसुसारे॥

ज्ञातो धर्मेविचारैःश्रवणमननयोः किं निदिभ्यासितव्यं
क्षंतव्यो मेऽपराधः शिव शिव०॥५॥

स्नात्वा प्रत्यूषकालेस्नपनविधिकृते नाहृतंगांगतोयं
पूजार्थं वा कदाचिद्वहुतरगहनात्खंडबिल्वीदलानि॥
नानीता पद्ममालासरसि विकसिता गंधपुष्पैस्त्वदर्थं
क्षंतव्योमेऽपराधः शिव शिव०॥६॥

दुग्धैर्मध्वाज्ययुक्तैर्दधिसितसहितैःस्नापितं नैव लिंगं
नो लिप्तंचंदनाद्यैः कनकविरचितं पूजितं न प्रसूनैः॥
धूपैःकर्पूरदीपैर्विविधरसयुतैर्नैव भक्ष्योपहारैः
क्षंतव्योमेऽपराधः शिव शिव०॥७॥

ध्यात्वा चित्ते शिवाख्यंप्रचुरतरधनं नैव दत्तं द्विजेभ्यो
हव्यं ते लक्षसंख्यैर्हुत बहवदने नार्पितं बीजमंत्रैः॥
नो तप्तं गांगतीरे ब्रत जपनियमैरुद्रजाप्यैर्नवेदैः
क्षंतव्योमेऽपराधः शिव्शिव०॥८॥

स्थित्वा स्थाने सरोजे प्रणवमयमरुत्कुंडले स॒क्ष्ममार्गे
शांतेस्वांतेप्रलीने प्रकटितवि भवे ज्योतिरूपे पराख्ये॥

लिङ्गज्ञे ब्रह्मवाक्ये सकलतनुगतं शंकरं न स्मरामि
क्षंतव्यो मेऽपराधः शिवशिव०॥९॥

नग्नो निःसंगगशुद्धस्त्रिगुणविरहितो ध्वस्तमोहांधकारो
नासाग्रे न्यस्तदृष्टिर्विदितभवगुणो नैवदृष्टःकदाचित्॥
उन्मन्यावस्थया त्वां विगतकलिमलंशंकरं न स्मरामि
क्षंतव्यो मेऽपराधः शि०॥१०॥

चंद्रोद्भासितशेखरेस्मरहरे गंगाधरे शंकरे
सर्पैर्भूषितकंठकर्णविवरे नेत्रोत्थवैश्वानरे॥
दंतित्वकृतसुंदरांवरधरे त्रैलोक्यसारे हरे
मोक्षार्थंकुरुचित्तवृत्तिमखिलामन्यैस्तु किंकर्मभिः॥११॥

किंवानेन धनेन वाजिकरिभिःप्राप्तेन राज्येन किं
किंवा पुत्रकलत्रमित्रपशुभिर्देहेन गेहेन किम्‌॥
ज्ञात्वैतत्क्षणभुंगरं सपदिरे त्याज्यं मनो दूरतः
स्वात्मार्थं गुरु वाक्यतो भज भजश्रीपार्वतीवल्लभम्‌॥१२॥

आयुर्नेश्यति पश्यतां प्रतिदिनं याति क्षयं यौवनं
प्रत्यायांति गताः पुनर्न दिवसाः कालोजमद्भक्षकः॥
लक्ष्मीस्तोयतरंगभंगचपलाविद्युच्चलंजीवितं

तस्मात्वां शरणागतं शरणदत्वंरक्षरक्षाधुना॥१३॥

करचरणकृतं वाक्कायजं कर्मजं वा
श्रवणनयनजंवा मानसं वाऽपराधम्‌॥
विहितमविहितं वा सर्वमेतत्क्षमस्व
जयजय करुणाब्धेश्रीमहादेवशंभो॥१४॥

इति श्रीमच्छंकराचार्यविरचितं शिवापराधक्षमापनस्तोत्रं संपूर्णम्॥८॥

श्रीउमामहेश्वरापर्णमस्तु॥

अथ रावणकृतशिवतांडवस्तोत्रप्रारंभः।

श्रीगणेशाय नमः॥

जटाकटाहसंभ्रमभ्रमन्निलिंपनिर्झरी-
विलोलवीचिवल्लरीविराजमानमूर्धनि॥
धगद्धगद्भगज्ज्वलल्ललाटपट्टपावके
किशोरचंद्रशेखरे रतिःप्रतिक्षणं मम॥१॥

धराधरेंद्रनंदिनीविलासबंधुवंधुर-
स्फुरद्दृगंतसंततिप्रमोदमानमानसे॥
कृपा कटाक्षधोरणीनिरुद्धदुर्धरापदि
क्वचिच्चिदंबरे मनोविनोदमेतु वस्तुनि॥२॥

जटाभुजंगपिंगलस्फुरत्फणामणिप्रभा
कदंबकुंकुमद्रवप्रलिप्तदिग्वधूसुखे॥
मदांधसिंधुरस्फुरत्त्वगुत्तरीयमेदुरे
मनोविनोदमद्भुतंविभर्तु भूतभर्तरि॥३॥

सहस्रलोचनप्रभृत्यशेषलेखशेखर-
प्रसूनधूलिधोरणीविधूसरांघ्रिपीठभूः॥
भुजंगराजमालया निबद्धजाटजूटकः
श्रियैचिराय जायतां चकोरबंधुशेखरः॥४॥

ललाटचत्वरज्वलद्धनंजयस्फुलिंगभा-
निपीतपंचसायकं नमन्निलिंपनायकम्॥
सुधामयूखलेखया विराजमानशेखरं
महाकपालिसंपदे शिरोजटालमस्तु नः॥५॥

करालभालपट्टिकाधगद्धगद्धगज्ज्वल्द्ध-
नंजयाधरीकृतप्रचंड पंचसायके॥
धराधरेंद्रनंदिनीकुचाग्रचित्रपत्रक-
प्रकल्पनैकशिल्पिनी त्रिलोचने मतिर्मम॥६॥

नवीनमेघमण्डलीनिरुद्धदुर्धरस्फुरत्कु-
हुनिशीथिनीतमः प्रबंधवंधकं धरः॥
निलिंपानिर्झरीधरस्तनोतु कृत्तिसिंधुरः
कलानिधानवंधुरःप्रियं जगद्भुरंधरः॥७॥

प्रफुल्लनीलपंकजप्रपंचकालिमच्छटा-
विडंबिकंठकंधरा रुचिप्रबंधकं धरम्॥
स्मरच्छिदं पुरच्छिदं भवच्छिदं मखच्छिदं
गजच्छिदांधकच्छिदं तमंतकच्छिदंभजे॥८॥

अगर्वसर्वमंगलाकलाकदंवमंंजरी-
रसप्रवाहमाधुरीविजृंभणामधुव्रतम्॥
स्मरांतकंपुरांतकंभवांतकं मखांतरं
गजांतकांधकांतकंतमंतकांतकं भजे॥९॥

जयत्वदभ्रविभ्रमभ्रमद्भुजंगमस्फुरद्ध-
गद्धगद्धिनिर्गमत्करालभालहव्यवाट्‌॥
धिमिद्धिमिद्धिमिध्वनन्मृदङ्गतुङ्गमंगल-
ध्वनिक्रमप्रवर्तित प्रचंडतांडवः शिवः॥१०॥

दृषद्विचित्रतल्पयोर्भुजंगमौक्तिकस्रजो-
र्गरिष्ठरत्नलोष्टयोः सुहृद्विपक्षपक्षयोः॥
तृणारविंदचक्षषोः प्रजामहीमहेंद्रयोः
समप्रवर्तयन्मनः कदा सदाशिवं भजे॥११॥

कदानिलिंपनिर्झरीनिकुंजकोटरे वसन्वि-
मुक्तदर्गतिः सदा शिरःस्थमंजलिंवहन्‌॥
विमुक्तलोललोचनो ललामभाललग्नकः
शिवेति मंत्रमुच्चरन्कदासुखी भवाम्यहम्॥१२॥

इमं हि नित्यमेवमुक्तमुत्तमोत्तमं स्तवं
पठन्स्मरन्ब्रुवन्नरो विशुद्धिमेति संततम्॥
हरे गुरौसुभक्तिमाशुयाति नान्यथा गतिं
विमोहन हि देहिनां सुशंकरस्य चितनम्‌॥१३॥

पुजावसानसमये दशवक्रगीतं
यः शंभुपूजनमिदं पठति प्रदोषे॥
तस्य स्थिरां रथगजेंद्रतुरंगयुक्तां
लक्ष्मीं सदैव सुमुखींप्रददाति शंभुः॥१४॥

इति श्रीरावणविरंचितं शिवतांडवस्तोत्रंसंपूर्णम्‌॥९॥

अथ द्वादशज्योतिर्लिंगस्तोत्रप्रारंभः।

श्रीगणेशाय नमः॥

सौराष्ट्रदेशे विशदेऽतिरम्येज्योतिर्मयं चंद्रकरावतंसम्‌॥
भक्तिप्रदानाय कृपावतीर्णंतंसोमनाथं शरणं प्रपद्ये॥१॥

श्रीशैलसंगे विबुधातिसंगे तुलाद्रितुंगेऽपि मुदा वसंतम्‌॥
तमर्जुनं मल्लिकपूर्वमेकं नमामि संसारसमुद्रसेतुम्॥२॥

अवंतिकायां विहितावतारं मुक्तिप्रदानायच सज्जनानाम्‌॥
अकालमृत्योः परिरक्षणार्थं वंदे महाकालमहासुरेशम्‌॥३॥

कावेरिकानर्मदयोः पवित्रे समागमे सज्जनतारणाय॥
सदैव मांधातृपुरेबसन्तमोंकारमीशंशिवमेकमीडे॥४॥

पूर्वोत्तरे

प्रज्वलिकानिधाने सदा वसन्तं गिरिजासमेतम्‌॥
सुरासुराराधितपादपद्मंश्रीवैद्यनाथं तमहं नमामि॥५॥

याम्ये सदंगे नगरेऽतिरम्येविभूषितांगं विविधैश्चभोगैः॥
सद्भक्तिभुक्तिप्रदमीशमेकं श्रीनागनाथं शरणं प्रपद्ये॥६॥

महाऽद्रिपार्श्वेच तटे रमंतं संपुज्यमानं सततं मुनींद्रैः॥
सरासुरैर्यक्षमहोरगाद्यैःकेदारमीशं शिवमेकमीडे॥७॥

सह्याद्रीशीर्षेविमले वसंतंगोदावरीतीरपवित्रदेशे॥
यद्दर्शनात्पातकमाशुनाशंप्रयाति तंत्र्यंबकमीशमीडे॥८॥

सुताम्रपर्णीजलराशियोगे निबध्य सेतुं विशिखैरसंख्यैः॥
श्रीरामचंद्रेणसमर्पितं तं रमेश्वराख्यं नियतं नमामि॥९॥

यं डाकिनीशाकिनिकासमाजे निषेव्यमाणं पिषिताशनैश्च॥
सदैवभीमादिपदप्रसिद्धं तं शंकरं भक्तहितं नमामि॥१०॥

सानंदमानंदवने वसंतमानंदकंदं हतपापवृंदम्॥
वाराणसीनाथमनाथनाथंश्रीविश्वनाथं शरणं प्रपद्ये॥११॥

इलापुरे रम्यविशालकेस्मिन्समुल्लसंतंच जगद्वरेण्यम्॥
वंदेमहोदारतरस्वभावंघृष्णेश्वराख्यं शरणं प्रपद्ये॥१२॥

ज्योतिर्मयद्वादशलिंगकानां शिवात्मनां प्रोक्तमिदंक्रमेण॥
स्तोत्रंपठित्वा मनुजोऽतिभक्त्या फलंतदालोक्यनिजं भजेच्च॥१२॥

इति श्रीद्वादशज्योतिर्लिंगस्तोत्रं संपूर्णम्‌॥१०॥

अथ शिवमानसपूजाप्रारंभः।

श्रीगणेशाय नमः॥

रत्नैःकल्पितमासनं हिमजलैःस्नानं च दिव्यांवरं
नानारत्नविभूषितं मृगमदामोदांकितं चंदनम्॥
जातीचंपकविल्वपत्ररचितं पुष्पं च धूपं तथा
दीपं देव दयानिधे पशुपते हृत्कल्पितं गृह्यताम्॥१॥

सौवर्णे मणिखंडरत्नरचिते पात्रेधृतंपायसं
भक्ष्यं पंचविधं पयोदधियुतं रंभाफलंपायसम्‌॥
शाकानामयुतं जलंरुचिकरं कर्पुरखंडोज्ज्वलं
तांबूलं मनसा मया विरचितं भक्त्या प्रभो स्वीकुरु॥२॥

छत्रंचामरयोर्युगं व्यजनकं चाद र्शकंनिर्मलं
वीणाभेरिमृदंगकाहलकलागीतंच नृत्यं तथा॥
साष्टांगंप्रणतीः स्तुतिर्बहुविधा एतत्समस्तं मया
संकल्पेन समर्पितं तव विभो पूजां गृहाणप्रभो॥३॥

आत्मा त्वं गिरिजा मतिः सहचराः प्राणाः शरीरं गृहं
पूजाते विषयोपभोगरचना निद्रा समाधिस्थितिः॥
संचारः पदयोः प्रदक्षिणविधिः स्तोत्राणि सर्वागिरो
यद्यत्कर्मकरोमि तत्तदखिलं शंभो तवाराधनम्‌॥४॥

करचरणकृतं वाक्कायजंकर्मजंवा
श्रवणनयनजं वा मानसं वाऽपराधम्‌॥
विहितमविहितं वा सर्वमेतत्क्षमस्व
जय जय करुणाव्धेश्रीमहादेव शंभो॥५॥

इति श्रीशिवमानसपूजा समाप्ता॥११॥

अथ शिवस्तुतिःप्रारंभः।

शीगणेशाय नमः॥

स्फुटं स्फटिकसप्रभं स्फुटितहाटकश्रीजटं
शशांकदलशेखरं कपिलफुल्लनेत्रत्रयम्॥
तरक्षुवरकृत्तिमद्भुजगरभूषणं भुतिमत्‌
कदानुशितिकंठते वपुरवेक्षते वीक्षणम्‌॥१॥

त्रिलोचन विलोचने लसति ते ललामायिते स्मरो
नियम वस्मरो नियमिनामभूद्धस्मसात्॥
स्वभक्तिलतया वशीकृतवती सतीयं सती
स्वभक्तवशतो भवानपि वशीप्रसीद प्रभो॥२॥

महेश महितोऽसि तत्पुरुष पुरुषाग्र्योभवान-
घोर रिपुघोर तेऽनवम वामदे वांजलिः॥
नमः सपदिजात ते त्वमिति पंचरूषों चितः
प्रपंचचयपंचवृन्मम मनस्तमस्ताडय॥३॥

रसाधनरसानलानिलवियद्विवस्वद्विधुप्रयष्टृषु
निविष्टमित्यजभजामि मूर्त्यष्टकम्‌॥
प्रशांतमुतभीषणं भुवनमोहनं चेत्यहो
वपूंषि गुणभूषितेहमहमात्मनोहंभिदे॥४॥

विमुक्तिपरमाध्वनां तव्षडध्वनामास्पदं
पदंनिगमवेदिनो जगति वामदे वादयः॥
कथंचिदुपशिक्षिता भगवतैवसंविद्रते
वयं तु विरलांतराः कथमुमेश तन्मन्मरे॥५॥

कठोरितक

डरयाललितशलयाबाहया

रणड्डमरयास्फुरद्धरिणया सखट्वांगया॥
चलाभिरचलाभिरप्य गणिताभिरुन्नृत्यत-
श्चतुर्दशनगंति ते जयजयेत्ययुर्विस्मयम्‌॥६॥

पुरा त्रिपुररंधनं विविधदैत्यविध्वंसनं
पराक्रमपरंपरा अपि परा न ते विस्मयः॥
अमर्षिवलहर्षितक्षुभितवृत्तनेत्रोज्ज्वलज्ज्व-
लज्ज्वलनहेलयागलभितं हिलोकत्रयम्॥७॥

सहस्रनयनोगुहः सहसहस्ररश्मिर्विधु-
र्बृहस्पतिरुताप्पतिःससुरसिद्धविद्याधराः॥
भवत्पदपरायणाः श्रियामिमां ययुः प्रार्थितां
भवान्‌ सुरतरुर्भृशं शिव शिवां शिवावल्लभ॥८॥

तव प्रियतमादतिप्रियतमं सदैवां तरं पयस्यु
परितं धृतं स्वयमिव श्रीयो वल्लभम्‌।
विबुध्य लघुबुद्धयः स्वपरपक्षलक्ष्यायितं
पठंति हि लुठंति ते शठहृदःशुचा शुंठिताः॥९॥

निवास निलयाचिता तव शिरस्ततिर्मालिका
कपालमपि ते करे त्वमशिवोस्यनंतधियाम्‌॥
तथापि भवतःपदंशिवरिवेत्यदो जल्पताम-
किंचनन किंचन वृजिनमस्तिभस्मीभवेत्‌॥१०॥

त्वमेव किलकामुधुक् सकलकाममापूरयन्‌
सदा त्रिनयनोभवान्वहसि चार्चि नेत्रोद्भवम्॥
विषं विषधरान्दधत्पिबसितेन चानंदवान्वि-
रुद्धचरितोचिता जगदधीशते भिक्षुता॥११॥

नमःशिव शिवाशिवा शिवशिवार्थकृंता शिवं
नमो हरहराहराहरहरांतरी मेदृशम्॥
नमो भवभवाभवप्रभवभूतयेमे भवान्नमो
मृड नमो नमो नम उमेश तुभ्यं नमः॥१२॥

सतां श्रवणपद्धतिं सरतु सन्नतोक्तेत्यसौ
शिवस्य करुणांकुरात्प्रतिकृतात्‌ सदा सोचिता॥
इति प्रथितमानसोव्यधितनामनारायण.
शिवस्तुतिमिमां शिवां लिकुचिसूरिसूनुःसुधीः॥१३॥

इति श्रीमल्लिकुचिसूरिसूनुनारायणपंडिताचार्यविरचिताशिवस्तुतिःसंपू्र्णा॥१२॥

अथ पशुपत्यष्टकप्रारंभः।

श्रीगणेशाय नमः॥

पशु पतिंद्युपतिं धरणीपतिं भुजग़लोकपतिं च सतीपातिम्॥

प्रणतभक्तजनार्तिहरंपरं भजत रे मनुजागिरिजापतिम्॥१॥

न जनको जननी न च सोदरो न तनयो न च भूरिबलंकुलम्‌॥
अवति कोऽपि न कालवशंगतं भजत रे मनुजा गिरिजापतिम्‌॥२॥

मुरजडिंडिमवाद्यविलक्षणं मधुरपंचमनादविशारदम्‌॥
प्रथमभूतगणैरपिसेवितं भजत रे मनुजा०॥२॥

शरणदं सुखदं शरणान्वितं शिव शिवेति शिवेति नतं नृणाम्॥
अभयदं करुणावरुणालयंभजत रे मनुजा०॥९॥

नरशिरोरचितं मणिकुंडंलं भुजगहारमुदं वृषमध्वजम्‌॥
चितिरजो धवलीकृतविग्रहं भजत रे म०॥५॥

मखविनाशकरं शशिशेखरं सततमध्वरभाजिफलप्रदम्‌॥
प्रलयदग्धसुरासुरमानवं भजत रे म०॥६॥

मदमपास्यचिरंहृदि संस्थितं मरणजन्मजनराभयपीडितम्‌॥
जगदुदीक्ष्य समीपभयाकुलंभजत रेम०॥७॥

हरिविरंचिसुराधिपपुजितं यमजनेशधनेशनमस्कृतम्‌।
त्रिनयनं भुवनत्रितयाधिपं भजत रे म०॥८॥

शुपतेरिदमष्टकमद्भुतंविरचितं पृथिवीपतिसूरिणा॥
पठति संशृणुते मनुजः सदा शिवपुरीं वसते लभते मुदम्॥९॥

इति श्रीपशुपत्यष्टकंसंपूर्णम्‌॥१३॥

अथ लिंङ्गाष्टकप्रारंभः।

श्रीगणेशाय नमः॥

ब्रह्ममुरारिसुरार्चितलिंंगं निर्भलभाषितशोभितलिंगम्‌॥
जन्मजदुःखविनाशकलिंगंतत्प्रणमामिसदा शिवलिंगम्‌॥१॥

देवमुनिप्रवरार्चितलिंगं कामदहंकरुणाकरलिंगम्॥
रावणदर्पविनाशनलिंगंतत्प्रण०॥२॥

सर्वसुगंधिसुलेपितलिंगं बुद्धिविवर्द्धनकारणलिंगम्‌॥
सिद्धसुरासुरवंदितलिंगं तत्प्र०॥३॥

कनकमहामणिभूषितलिंगं फणिपतिवेष्टितशोभितलिंगम्‌॥
दक्षसुयज्ञविनाशनलिंगं तत्प्र०॥४॥

कुंकुमचंदनलेपितलिंगं पंकजहारसुशोभितलिंगम्॥
सच्चित्पापविनाशनलिंगं तत्प्र०॥५॥

देवगणार्चितसेवितरलिगं भावैर्भक्तिभिरेव च लिंगम्॥
दिनकरकोटिप्रभाकरलिंगं तत्प्र०॥६॥

अष्टदलोपरि वेष्टितलिंगं सर्वसमुद्भवकारण लिंगम्‌॥
अष्टदरिद्रविनाशितलिंगं तत्प्र०॥७॥

सुरगुरुसुरवरपूजितलिंगं सुरवनपुष्पसदार्चितलिंगम्॥
परात्परं परमात्मकलिंगं तत्प्र०॥८॥

लिंगाष्टकमिदंपुण्यं यः पठेच्छिवसन्निधौ॥
शिवलोकमवाप्नोति शिवेन सह मोदते॥९॥

इति श्रीलिंगाष्टकस्तोत्रंसंपुर्णम्॥१४॥

अथशिवकवचप्रारंभः।

श्रीगणेशाय नमः॥

अस्य श्रीशिवकवचस्तोत्रमंत्रस्य ब्रह्माऋषिः अनुष्टिप् छंदः श्रीसदाशिवरुद्रो देवता ह्नींशक्तिः रं कीलकं श्रीं ह्नींक्लींबीजं श्रीसदाशिवप्रीत्यर्थेशिवकवचस्तोत्रजपेविनियोगः॥

अथ व्यासः॥

ॐनमो भगवते ज्वलज्ज्वालामालिने ॐहां सर्वशक्तिधाम्नेदेशानात्मने अंगुष्ठाभ्यां नमः॥ ॐनमो भगवतेज्वलज्ज्वालामालिने ॐनं रिं नि त्यतृप्तिधाम्नेतत्पुरुषात्मने तर्जनीभ्यां नमः॥

ॐनमो भगवते ज्वलज्ज्वालामालिने ॐ मंरुंअनादिशक्तिधाम्नेअघोरात्मने मध्यमाभ्यां नमः॥ ॐ नमो भगवते ज्वलज्ज्वालामालिने ॐ शिं रैंस्वतंत्रशक्तिधाम्नेवामदेवात्मने अनामिकाभ्यां नमः॥ ॐ नमो भगवते ज्वलज्ज्वालामालिनेॐ वां रैंअलुप्तशक्तिधाम्ने सद्योजातात्मने कनिष्ठिकाभ्यां नमः॥ॐ नमो भगवतं ज्वलज्ज्वालामालिने ॐ यं रः आनादिशक्तिधाम्नेसर्वात्मनेकरतलकर पृष्ठाभ्यां नमः॥ एवं हृदयादि॥

अथ ध्यानम्‌॥

वज्रदंष्ट्रंत्रिनयनंकाल कंठमरिंदमम्‌॥
सहस्रकरमत्युग्रंवंदे शंभुमुमापतिम्‌॥१॥

अथाप्रदंसर्वपुराणगुह्यंनिःशेषपापौघहरं पवित्रम्॥
जयप्रदं सर्वविपत्प्रोमोचनं वक्ष्यामि शैवं कवचंहिताय ते॥२॥

ऋषभ उवाच॥

नमस्कृत्यमहादेवंविश्वव्यापिनमीश्वरम॥
वक्ष्ये शिवमयं वर्मसर्वरक्षाकरं नृणाम्‌॥३॥

शुचौदेशेसमासीनो यथावत्कल्पितासनः॥

जितेंद्रियो जित

प्राणश्चियेच्छिवमव्ययम्‌॥४॥

हृत्पुंडरीकांतरसन्निविष्टं स्वतेजसा व्याप्तनभोवकाशम्॥
अतींद्रियं सुक्ष्ममनंतमाद्यंध्यायेत्परानंदमयंमहेशम्॥५॥

ध्यानावधूताखिलकर्मवंधश्चिरंचिदानंदनिमग्नचेताः॥
षडक्षरन्याससमाहितात्मा शैवेनकुर्यात्कवचेन रक्षाम्‌॥६॥

मां पातु देवाऽखिलदेवतात्मा संसारकूपे पतितं गभीरे॥
तन्नाम दिव्यं वरमंत्रमुलंधुनोतु मे सर्वमघं हृदिस्थम्‌॥७॥

सर्वत्र मांरक्षतु विश्वमूर्तिर्ज्योतिर्मयानंदघनश्चिदात्मा॥
अणोरणीयानुरुशक्तिरेकः स इश्वरः पातु भयादशेषात्‌॥८॥

यो भूस्वरूपेण विभर्ति विश्वंपायात्सभुमेर्गिरिशोऽष्टमूर्तिः॥
योऽपांस्वरूपेण नृणांकरोति संजीवनं सोऽवतु मां जलेभ्यः॥९॥

कल्पावसाने भुवनानि दग्ध्वा सर्वाणि यो नृत्यति भूरिलीलः॥
स कारुद्रोऽवतु मां दवाग्नेर्वात्यादिभीतेरलिलाच्चतापात्॥१०॥

प्रदीप्तविद्युत्कनकावभा

सो विद्यावराभीतिकुठारपाणिः॥
चतुमुर्खस्तत्पुरुषस्त्रिनेत्रःप्राच्यां स्थितं रक्षतु मामजस्रम्॥११॥

कुठारवेदांकुशपाशशूलकपालढक्काक्षगुणान्दधानः॥
चतुर्मुखो नीलरुस्त्रिनेत्रः पायादधोरो दिशि दक्षिणस्याम्‌॥१२॥

कुंदेंदुशंखस्फटिकावभासोवेदाक्षमालावरदाभयांकः॥
त्र्यक्षश्चतुर्वक्रउरुप्रभावः सद्योधिजातोवतु मांप्रतीच्याम्‌॥१३॥

वराक्षमालाभयटंकहस्तः सरोजकिंजल्कसमानवर्णः॥
त्रिलोचनश्चारुचतुर्मुखोमां पायादुदीच्यां दिशिवामदेवः॥१४७॥

वेदाभयेष्टांकुशपाशटंककपालढक्काक्षकशुलपाणिः॥
सितद्युतिः पंचमुखोवतान्मामीशान उर्ध्वंपरमप्रकाशः॥१५॥

मूर्धानमव्यान्मम चंद्रमौलिर्भालंममाव्यादथ भालनेत्रः॥
नेत्रेममाव्याद्भगनेत्रहारीनासां सदा रक्षतु विश्वनाथः॥१६॥

पायाच्छ्रुतीमे श्रुतिगीतकीर्तिः कपोलमव्यात्सततं कपाली॥
वक्रंसदा रक्षतु पंचवक्त्रोजिह्वां सदारक्षत वेदजिह्वः॥१७॥

कंठंगिरीशोऽवतुनीलकंठः पाणिद्वयं पातु पिनाकपाणिः॥
दोर्मूलमव्यान्ममधर्मवाहुर्वक्षःस्थलंदक्षमखांतकोव्यात्‌॥१८॥

ममोदरं पातुगिरींद्रधन्वा मध्यं ममाव्यान्मदनां तकारी ।
हेरंवतातो मम पातुनाभिं पायात्कटिं धूर्जटिरीश्वरो मे॥१९॥

ऊरुद्वयं पातु कुवेरमित्रो जानुद्वयं मेजगदीश्वरोव्यात्॥
जंघायुगं पुंगवकेतु रव्यात्पादैममाव्यात्सुरवंद्यपादः॥२०॥

महेश्वरः पातु दिनादियामे मां मध्ययामेऽवतुवामदेवः॥
त्रिलोचनः पातु तृतीययामेवृषध्वजः पातुदिनांत्ययामे॥२१॥

पायान्निशादौशशिशेखरोमां गंगाधरो रक्षतु मांनिशीथे॥
गौरीपतिः पातु निशावसाने मृत्युंजयो रक्षतु सर्वकालम्‌॥२२॥

अंतःस्थितं रक्षतु शंकरोमांस्थाणुःसदा पातु बहिःस्थितं माम्‌॥
तदंतरे पातुपतिः पशूनां सदाशिवोरक्षतु मां समंतात्‌॥२३॥

तिष्ठंतमव्याद्भुवनैकनाथः पायाद्व्रजंतंप्रमथाधिनाथः॥
वेदांतवेद्योवतुमांनिषण्णं मामव्ययःपातु शिवःशयानम्॥२४॥

मार्गेषु मां रक्षतु नीलकंठःशैलादिदुर्गेषु पुरत्रयारिः॥
अरण्यवासादिमहाप्रवासे पायान्मृगव्याधउदारशक्तिः॥२५॥

कल्पान्तकाटोपपटुप्रकोपस्फुटाट्टहासोच्चलिताण्डकोशः॥
धोरारिसेनार्णवदुर्निवारमहाभयाद्रक्षतु वीरभद्रः॥२६॥

पत्त्यश्वमातंगरथावरूथ सहस्रलक्षायतु कोटिभीषणम्‌॥
अक्षौहिणीनांशतमाततायिनां छिंद्यान्मृडो घोरकुठारधारया॥२७॥

निहंतु दस्यून्प्रलयानलार्चिर्ज्वलत्रिशूलं त्रिपुरांतकस्य॥
शार्दुल सिंहर्क्षवृकादिहिंस्रान्संत्त्रासयत्वीशधनुःपिनाकः॥२८॥

दुःस्वप्नदुःशकुनदुर्गतिदौर्मनस्यदुर्भिक्षदुर्व्यसनदुः सहदुर्यशांसि॥
उत्पाततापविषभीतिमसद्ग्रहार्तिव्याधींश्चनाशयतुमेजगतामधीशः॥२९॥

ॐ नमो भगवते सदाशिवाय सकलतत्त्वात्मकायसर्वमंत्रस्वरूपाय सर्वयंत्राधिष्ठिताय सर्वतंत्रस्वरूंपाय सर्वतत्त्वविदूराय ब्रह्मरुद्रावतारिणे नीलकंठाय पार्वतीमनोहरप्रियाय सोमसूर्याग्निलोचनाय भस्मोद्धूलितविग्रहाय महामणिमुकुटधारणाय माणिक्यभूषणाय सृष्टिस्थितिप्रलयकालरौद्रावताराय दक्षाध्वरध्वंसकाय महाकालभेदनाय मूलाधारै कनिलयाय तत्त्वातीताय गंगाधराय सर्वदेवाधिदेवाय षडाश्रयाय वेदांतसाराय त्रिवर्गसाधनाया नंतकोटिब्रह्मांडनायकायानंतवासुकितक्षककर्कोटकशंखकुलिकपद्ममहापद्मेत्यष्टमहानागकुलभूषणाय प्रणवस्वरूपाय चिदाकाशायाकाशदिक्स्वरूपाय ग्रहनक्षत्रमालिने सकलाय कलंकरहिताय सकललोकैककर्त्रेसकललोकैकसंहर्त्रेसकललोकैकगुरवे सकललोकैकसाक्षिणे सकलनिगमगुह्या यसकलवेदांतपारगाय सकललोकैकवरप्रदाय सकललोकैकशंकराय शशांकशेखरायशाश्वतनि-

जावासाय निराभासाय निरामयाय निर्मलाय निर्लोभाय निर्मदाय निश्चिंताय निरहंकाराय निरंकुशाय निष्कलंकाय निर्गुणाय निष्कामाय निरुपप्लवाय निरवद्याय निरंतराय निष्कारणाय निरातंकाय निष्प्रपंचाय निःसंगाय निर्द्वादराय निराधाराय नीरागाय निष्क्रोधाय निर्मलाय निष्पापाय निर्भयाय निर्विकल्पाय निर्भेदाय निष्क्रियाय निस्तुलाय निःसंरायाय निरंजनाय निरुपमविभवाय नित्यशुद्धबुद्धपरिपृर्णसच्चिदानंदाद्वयाय परम शांतस्वरूपाय तेजोरुपाय तेजोमयाय जय जय रुद्रमहारौद्रभद्रावतार महाभैरव कालभैरव कल्पांतभैरव कपालमालाधरखट्वांगखङ्गर्मपाशांकु शडमरुशूलचापवाणगदाशक्तिभिन्दिपालतोमरमु शलमुद्गरपाशपरिघभुशुंडीशतपघ्नीचक्राद्यधभीषणकर सहस्रमुख दंष्ट्राकरालवदन विकटाट्टहा सविस्फारिब्रह्मांडमंडलनागेंद्रकुंडलनागेंद्रहार-

नागेंद्रवलयनागेंद्रचर्मधर मृत्यृंजय त्र्यंवक त्रिपुरांतकविश्वरूप विरूपाक्ष विश्वेश्वर वृषभवाहन विश्वतोमुख सर्वतो रक्ष रक्ष मांज्वल ज्वलमहामृत्युमपमृत्युभयं नाशय नाश्य चोरभयमुत्साद योत्सादय विषसर्पभयं शमय शमय चोरान्मारय मारय मम शत्रुनुच्चाटयोच्चाटयत्रिशुलेन विदारय विदारयकुठारेण भिंधि भिंधि खङ्गेन छिंधि छिंधि खट्वांगेनविपोथय विपोथय मुसलेन निष्पेषय निषपेषय वाणैःसंताडय संताडय रक्षांसि भीषय भीषयाऽशेषभूतानि विद्रावय विद्रावय कृष्मांडवेता लमारीगणब्रह्मराक्षसगणान्संत्रासय संवासयममाभयं कुरु कुरु वित्रस्तं मामाश्वासयाश्वासय नरकमहाभयान्मामुद्धरोद्धर संजीवयसंजीवयक्षृत्तृ ड्भ्यां मामाप्याययाप्यायय दुःखातुरं मामानन्दयानंदय शिवकवचेन मामाच्छादयाच्छादय मृत्युंजय त्र्यंवक सदाशिव नमरते नमस्ते॥

ऋषभ उवाच॥

इत्येतत्कवचं शैवंवरदं व्याहृतं मया॥
सर्वबाधाप्रशमनं रहस्यं सर्वदेहिनाम्‌॥३०॥

यः सदा धारयेन्मर्त्यःशैवं कवचमुत्तमम्‌॥
न तस्य जायते क्वापि भयं शंभोरनुग्रहात्‌॥३१॥

क्षीणायुःप्राप्तमृत्युर्वामहारोगहतोपि वा॥
सद्यःसुखमवाप्नोति दीर्धमायुश्च विंदति॥३२॥

सर्वदारिद्र्यशमनं सौमंगल्यविवर्धनम्‌॥
यो धत्ते कवचं शैवं स दैवेरपि पूज्यते॥३३॥

महापातकसंघातैर्मुच्यते चोपपातकैः॥
देहांते मुक्तिमाप्नोति शिववर्मानुभावतः॥३४॥

त्वमपि श्रद्धयावत्स शैवं कवचमुत्तमम्‌॥
धारयस्व मया दत्तं सद्यःश्रेयो ह्यवाप्त्यति॥३५॥

सूत उवाच॥

इत्युक्त्वा ऋषभो योगी तस्मैपार्थिवसूनवे॥
ददौशंखं महारावंखङ्गंचारिनिषूदनम्‌॥३६॥

पुनश्चभस्म संमत्र्यतदंगं परितोस्पृशत॥
गजानां षट्सहस्रस्यद्विगुणस्य बलंददौ॥३७॥

भस्मप्रभावात्संप्राप्तबलैश्वर्यधृतिस्मृतिः॥
स राजपुत्रः शुशुभे शरदर्कइव श्रीया॥३८॥

तमाह प्रांजलिं भूयः स योगी नृपनंदनम्‌॥
एष खङ्गीमया दत्तस्तपोमंत्रानुभावितः॥३९॥

शितधारमिमं खङ्गं यस्मैदर्शयसेस्फुटम्‌॥
स सद्योम्रियते शत्रुःसाक्षान्मृत्युरपिस्वयम्‌॥४०॥

अस्य रांखस्य निर्हृायंये शृण्वंतितवाहिताः॥
तेमूर्च्छिताःपतिष्यंति न्यस्तशस्त्राविचेतनाः॥४१॥

खङ्गशंखाविमौदिव्यौपरसैन्यविना\।शिनौ॥
आत्मसैन्यस्वपक्षाणां शौर्यतेजोविर्वधनौ॥४२॥

एतयोश्च प्रभावेण शैवेन कवचे नच॥
द्विषट्‌ सहस्रनागानां वलेनमहतापि च॥४३॥

भस्मधारणसामर्थ्याच्छत्रुसैन्यं विजेष्यसि॥
प्राप्य सिंहासन पित्र्यंगोप्तासि पृथिवीमिमाम्‌॥४४॥

इतिभद्रायुषं सम्यगनुशास्य समातृकम्‌॥
ताभ्यां संपूजितः सोथ योगी स्वैरगतिर्ययौ॥४५॥

इति श्रीस्कंदपुराणे ब्रह्मोत्तरखंडे शिबवर्मकथनं नाम द्वादशोऽध्यायः॥१२॥१५॥

अथ शिवमहिमस्तोत्रप्रारंभः।

श्रीगणेशाय नमः॥
पुष्पदंत उवाच॥

महिम्नःपारं ते परमविदुषो यद्यसदृशी
स्तुतिर्ब्रह्मादीनामपि तद वसन्नास्त्वयि गिरः॥
अथावाच्यः सर्वःस्वमतिपरिणामावधि
गृणन्ममाप्येषस्तोत्रेहर निरपवादःपरिकरः॥१॥

अतीतःपंथानं तव च महिमा बाङ्मनसयो-
रतद्व्यावृत्त्यायंचकितमभिधत्ते श्रुतिरपि॥
स कस्यस्तोतव्यः कृतिविधगुणः कस्यविपयः
पदे त्वर्वाचीने पतति नमनः कस्य नवचः॥२॥

मधुस्फीतावाचः परमममृतं निर्मितवत-
स्तव ब्रह्मन्किं वागपि सुरगुहोर्विस्मयपदम्॥
ममत्वेतां वाणींगुणकथनपुण्येन भवतः
पुनामीत्यर्थेस्मिन्पुरमथन बुद्धिर्व्यबसिता॥३॥

तवैश्वर्यंयत्तज्जगदुदयरक्षाप्रल्यकृत्य-
यीवस्तुव्यस्तंतिसृषुगुणभिन्नासु तनुषु॥

अभव्यानामस्मिन्वरद रमणी

यामरमणो
विहुंतुंव्याक्रोशीं विदधत इहैके जडधियः॥४॥

किमीहः किंकायः सखलु किसपायस्त्रिभुवनं
किमाधारो धाता सृजति किमुपादान इतिच॥
अतर्क्यैश्वर्येत्वय्यनवसरदुःस्थो हतधियः
कुतर्कोऽयं कांश्चिन्मुखरयति मोहायजगतः॥५॥

अजन्मानो लोक्राःकिमवयववंतोऽपि जगता-
मधिष्ठातारं किं भवविधिरनादृत्यभवति॥
अनीशोवा कुर्याद्भुवनजनने कः परिकरो
यतो मंदास्त्वां प्रत्यमरवर संशेरत इमे॥६॥

त्रयी सांख्यं योगः पशुपतिमतं वैष्णवमिति
प्रमिन्नेप्रस्थाने परमिदमदः पथ्यमिति च॥
रुचोनांवैचित्र्यादृजुकुटिलना नापथजुषां
नृणामेको गम्यस्त्वमिसपयसामर्णव इव॥७॥

महोक्षःखट्वांग परशुरजिनंभस्मफाणिनः
कपालं चेतीयत्तव वरदतंत्रीपकरणम्‌॥
सुरास्तांतामृद्धिं विदधति भवद्धुप्रणिहतां
नहि स्वात्मारामं विषयमृगतृष्णा भ्रमयति॥८॥

ध्रुवं क

कश्चित्सर्वंसकलमपरस्त्वध्रुवमिदं
परोध्रौव्याध्रौव्येजगति गदति व्यस्तविषये॥
समस्तेऽप्येतस्मिन्पुरमथन तैर्विस्मित इव
स्तुवञ्जिह्नेमि त्वां न खलु ननु धृष्टामुखरता॥९॥

तवैश्वर्यंयत्नाद्यदुपरिविरिंचोहरिरधः
परिच्छेतुं यातावनलमनलस्कंधवृपुषः॥
ततो भक्तिश्रद्धाभरगुरुगृणद्भ्यांगिरिश यत्‌
स्वयंतस्थे ताभ्यां तव किमनुवृत्तिर्न फलति॥१०॥

अयत्नादापाद्यत्रिभुवनमवैरव्यतिकरं
दशास्यो यद्वाहूनभृत रणकंडूपरवशान्॥
शिरःपद्म श्रेणीरचितचरणांभोरुहबलेः
स्थिरायास्त्वद्धकेस्त्रिपुरहर विस्फूर्जितमिदम्॥११॥

अमुष्य त्वत्सेवा समधिगतसारं भुजवनं
वलात्कैलासेपि त्वदधि वसतौविक्रमयतः॥
अल्भ्या पातालेप्यलसच लितांगुष्ठशिरसि
प्रतिष्ठा त्वय्यासोद्धुवमुपचितो मुह्यति खलः॥१२॥

यदृद्धिं सुत्राम्णोवरद परमो तैरपिसती-
मधश्चक्रे बाणः परिजनविधेयत्रिभुवनः॥

न तच्चित्रं तस्मिन्वरिवसितरि त्वचरणयोर्न
कस्याप्युन्नत्यैभवति शिरसस्त्वय्यवनतिः॥१३॥

अकांडब्रह्मांडक्षयचकितदेवासुरकृपा-
विधेयस्यासी द्यस्त्रिनयन विषं संहृतवतः॥
सकल्माषः कंठे तव न कुरुते न श्रियमहो
विकारोपि श्लाघ्यो भ्रुवनभयभंगव्यसनिनः॥१४॥

असिद्धार्थानैव क्व चिदपि सदेवासुरनरे
निवर्तंते नित्यंजगति जय नोयस्य विशिखाः॥
सपश्यन्नीशत्वामितरसुर साधारणमभृत्‌
स्मरःस्मर्तव्यात्मा नहिवशिषु पथ्यःपरिभवः॥१५॥

मही पादाघाताद्व्रजति सहसा संशयपदं
पदंविष्णोर्भ्राम्यद्धुजपरिघरुग्णग्रहगणम्‌॥
मुहुर्द्यौर्दौस्थ्यं यात्यनिभृतजटाताडिततटा
जगद्रक्षायैत्वं नटसिननुवामैव विभुता॥१६॥

वियद्व्यापी तारागणगुणितफेनोद्गरुचिः
प्रवाहोवारांयः पृषतलघुदृष्टःशिरसि ते॥
जगद्वीपाकारंजलधिबलयं तेन कृतमि-
त्यनेनैवोन्नेयंधृतमहिम दिव्यं तब वपुः॥१७॥

रथः क्षोणोयंता शतधृतिरगेंद्रो धनुरथो
रथांगे चंद्रार्कौरथचरणपाणिः शर इति॥
दिधक्षोस्ते कोयं त्रिपुरतृणमाडंबरविधि-
र्विधेयै क्रीडंत्यो न खलु परतंत्राः प्रभुधियः॥१८॥

हरिस्ते साहस्रंकमसबलिमाधाय पदयो-
र्यदैकोने तस्मिन्निजमुदहरन्नेत्रकमलम्‌॥
गतो भक्त्युद्रेकः परिणतिमसौचक्रवपुषा
त्रयाणां रक्षायै त्रिपुरहर जागर्ति जगताम्‌॥१९॥

क्रतौसुप्तेजाग्रत्त्वमसि फलयोगे क्रतुमतां
क्व कर्म प्रध्वस्तं फलति पुरुषा राधनमृते॥
अतस्त्वां संप्रेक्ष्य ऋतुषु फलदानप्रति भुवं
श्रुतौ श्रद्धां बद्ध्वादृढपरिकरः कर्मसु जनः॥२०॥

क्रियादक्षोदक्षः ऋतु पतिरधीशस्तनुभृता-
मृषीणामार्त्विज्यं शरणद सदस्याः सुरगणाः॥
क्रतुभ्रेषस्त्वत्तः ऋतुफलविधानव्यसनिनो
ध्रुवं कर्तुःश्रद्धाविधुरमभिचाराय हि मखाः॥२१॥

प्रजानाथंनाथ प्रसभमभिकं स्वां दुहितरं

गतं रोहिद्भुतां

रिरमयिषुमृष्यस्य वपुषा॥
धनुष्पाणेर्यातं दिवमपिसपत्राकृतमसुं
त्रसंतं तेऽद्यापि त्यजति न मृगव्याधरभसः॥२२॥

स्वलावण्याशंसा धृतधनुषमह्नाय तृण-
वत्पुरः प्लुष्टं दृष्ट्वापुरमथन पुष्पायुधमपि॥
यदि स्त्रैणं देवी यमनिरतदेहार्धघटना-
दवैति त्वामद्धा बत वरदमुग्धायुवतयः॥२३॥

श्मशा नेष्वाक्रीडा स्मरहरपिशाचाः सहचरा-
श्चिताभस्मालेपः स्रगपि नृकरोटीपरिकरः॥
अमंगल्यंशीलंतवभवतु नामैवमखिलं
तथापि स्मर्तॄणां वरदपरमं मंगलमसि॥२४॥

मनः प्रत्यक्चित्ते सविध मविधायात्तमरुतः
प्रहृष्यद्रोमाणः प्रमदसलिलो त्संगितदृशः॥
यदालोक्याह्लादं हृद इव निमज्यामृतमये
दधत्यंतस्तत्तवंकिमपि यमिनस्तत्किलभवान्‌॥२५॥

त्वमर्कस्त्वं सोमस्त्वमसि पवनस्त्वं हुतवह-
स्त्वमापस्त्वंव्योमत्वमुधरणिगत्मा त्वमि॥
परिच्छिनामेवं त्वयि परिणताबिभ्रतुगिरं

न विद्मस्तत्तत्त्वं वयमिह तुयत्त्वंन भवसि॥२६॥

त्रयीं तिस्रोवृत्तीस्त्रीभुवनमथो त्रीनपि सुरा-
नकाराद्यैर्णैस्त्रिभिरभिदधत्तीर्णविकृति॥
तुरीयं ते धाम ध्वनिभिरवरुंधानमणुभिः
समस्तव्यस्तं त्वां शरणदगृणात्योमिति पदम्‌॥२७॥

भवःशर्वोरुद्रः पशुपतिरथोग्रःसह महां-
स्तथा भीमेशानाविति यदभिदानाष्टकमिदम्॥
अमुष्मिन्प्रत्येकं प्रविचरति देव श्रुतिरपि
प्रियायास्मैधाम्नेप्रणिहितनमस्योस्मि भवते॥२८॥

नमो ने दिष्ठाय प्रियदव दविष्ठाय च नमो
नमः क्षोदिष्ठाय स्मरहर महिष्ठाय च नमः॥
नमो वर्षिष्ठाय त्रिनयनयविष्टाय च नमो
नमः सर्वस्मैते तदिदमिति शर्वाय च नमः॥२९॥

बहलरजसे विश्वोत्पतौभवाय नमो नमः
प्रवलतमसे तत्संहारे हराय नमोनमः॥
जनसुखकृते सत्त्वोदिक्तौमृडायनमो नमः
प्रमहसि पदे निस्त्रैगुण्ये शिवाय नमोनमः॥३०॥

कृशपरिणति चेतः क्लेशवश्यंक्वचेदं
क्व च तव गुणसीमोल्लंघिनी शश्वदृद्धिः॥
इति चकितममंदीकृत्य मां भक्तिराधाद्वरद
चरणयोस्ते वाक्यपुष्पोपहारम्‌॥३१॥

असितगिरिसमं स्यात्कज्जलंसिंधुपात्रे
सुरतरुवरशाखा लेखनीपत्रमुर्वी॥
लिखति यदि गृरीत्वा शारदा सर्वकालं
तदपि तव गुणानामीश पारं न याति॥३२॥

असुरसुरमुनींद्रैरर्चितस्येंदुमौले-
र्ग्रथितगुणमहिम्नोनिर्गुणस्येश्वरस्य॥
सकलगुणवरिष्ठः पुष्पदंताभिधानो
रुचिरम लघुवृत्तैःस्तोत्रमेतच्चकार॥३३॥

अहरहरनवद्यंधूर्जटेः स्तोत्रमेतत्-
पठति परमभक्त्या शुद्धचित्तःपुमान्यः॥
स भवति शिवलोके रुद्रतुल्यस्तथाऽत्र
प्रचुरतरधनायुःपुत्रवान्कीर्तिमांश्च॥३४॥

महेशान्नापरो देवो महिम्नोनापरा स्तुतिः॥
अधोरान्नाप रोमंत्रो नास्ति तत्वं गुरोः परम्‌॥३५॥

दीक्षादानं तपस्तीर्थं ज्ञानं यागादिकाः क्रियाः॥

महिम्नस्तव

पाठस्यकलांनार्हतिषोडशीम्‌॥३६॥

कुमुमदशननामा सर्वगंधर्वराजः
शशिधरवरमौलेर्देवदेवस्य दासः॥
स गुरुनिजमहिम्नोभ्रष्टएवास्य रोषात् -
स्तवनमिदमकार्षीर्द्दिव्यदिव्यं महिम्नः॥३७॥

सुरवरमुनिपूज्यं स्वर्गमोक्षैकहेतुं
पठति यदि मनुष्यःप्रांजलिर्नान्यचेताः॥
व्रजति शिवसमीपं किन्नरैःस्तुयमानः
स्तवनमिदममोघंपुष्पंदतप्रणीतम्‌॥३८॥

श्रीपुष्पदंतमुखपंकजनिर्गतेन
स्तोत्रेण किल्विषहरेण हरप्रियेण॥
कंठस्थितेन पठितेन समाहितेन
सुप्रीणितो भवतिभूतपतिर्महैशः॥३९॥

इत्येषा वाङ्मयी पूजा श्रीमच्छंकरपादयोः॥
अर्पिता तेन मे देवः प्रीयतांच सदाशिवः॥४०॥

इति श्रीपुष्पदंतविरचितं शिवमहिमस्तोत्रंसेपूर्णम्‌॥१६॥

श्रीसांबसदाशिवार्पणमस्तु॥
शुभंभवतु॥

अथ वेदसारशिवस्तवप्रारंभः।

श्रीगणेशाय नमः॥

पशुनां पतिं पापनाशांपरेशं गजेद्रस्य कृत्तिं वसानं वरेण्यम्‌॥
जटाजूटमध्ये स्फुरद्गांगवारि महादेवमेकं स्मरामि स्मरामि॥१॥

महेशं सुरेशं सुरारातिनाशं विभुं विश्वनाथं विभूत्यंगभुषम्‌॥
विरुपाक्षमिंद्वर्कवह्नित्रिनेत्रंसदानंदमीडे प्रभुंपंचवक्त्रम्‌॥२॥

गिरीशं गणेशं गले नीलवर्णंगवेंद्राधिरूढंगुणातीतरूपम्॥
भवं भास्करं भस्मना भूषितांगं भवानीकलत्रंभजेपंचवक्त्रम्‌॥३॥

शिवाकांत शंभो शशांकार्धमौले महेशान शूलिञ्जटाजूटधारिन्॥
त्वेमेकोजगद्व्यापकोविश्वरूप प्ररीद प्रसीद प्रभो पूर्णरूप॥४॥

परात्मानमेकं जगद्वीजमाद्यंनिरीहं निराकारमोंकारबेद्यम्‌॥
यतो जायते पाल्यते येन विश्वंतमीशं भजे लीयते यत्र विश्वम्॥५॥

न भूमिर्नचापो न वह्निर्नवायुर्नचाकाशमास्ते न तंद्रान निद्रा॥
न ग्रीष्मो न शीतंन देशो न वेषो नयस्यास्ति मृर्तिस्त्रिमूर्तिं तमीडे॥६॥

अजं शाश्वतकारणंकारणानां शिवं केवलंभासकं भासकानाम्॥
तुरीयं तमः पारमाद्यंतहीनं प्रपद्ये परं पावनं द्वैतहीनम्‌॥७॥

नमस्ते नमस्ते विभो विश्वमूर्त्तेनमस्ते नमस्ते चिदानंदमूर्त्ते॥
नमस्ते नमस्ते तपो योगगम्य नमस्ते नमस्ते श्रुतिज्ञानगम्य॥८॥

प्रभो शूलपाणेविभोविश्वनाथ महादेव शंभो महेश त्रिनेत्र॥
शिवाकांत शांत स्मरारे पुरारे त्वदन्यो बरेण्यो न मान्यो न गण्यः॥९॥

शंभो महेश करुणामयशूलपाणे गौरीपते पशुपते पश्च पाशनाशिन्‌॥
काशीपते करुणया जगदेतदेकस्त्वं हंसि पासि विदधासि महेश्वरोऽसि॥१०॥

त्वत्तो जगद्भवति देव भव स्मरारेत्वय्येव तिष्ठितिजगन्मृड विश्वनाथ॥
त्वय्येव गच्छति लयं जगदेतदीश लिगात्मके हरचराचरविश्वरूपिन्‌॥११॥

इति श्रीमच्छंकराचार्यविरचितं वेदसारशिवस्तोत्रंसंपुर्णम्॥१७॥

अथ विश्वनाथाष्टकप्रारंभः।

श्रीगणेशाय नमः॥

गंगातरंगरमणीयजटाकलापं
गौरीनिरंतरविभूषितवामभागम्‌॥
नारायणप्रियमनंगमदापहारं
वाराणसीपुरपतिं भज विश्वनाथम्‌॥१॥

वाचामगोचरमनेकगुणस्वरूपं
वागीश विष्णुसुरसेवितपादपीठम्‌॥
वामेन विग्रहवरेणकलत्रवंतं
वाराणसीपुरपतिं भज विश्वनाथम्‌॥२॥

भूताधिपंभुजगभूषणभूषिरतांगं
व्याघ्राजिनांबरधरं जटिलं त्रिनेत्रम्‌॥
पाशांकुशाभयवरप्रदशूलपाणिं
वाराणसीपुरपतिं भज०॥३॥

शीतांशुशोभितकि रीटविराजमानं
भालेक्षणानलविशोषितपंचवाणम्‌॥
नागाधिपारचितभासुरकर्णपूरं
वाराणसी०॥४॥

पंचाननं दरितमत्तमतंगजानां
नागांतकंदनुजपुंगवपन्नगानाम्‌॥
दावानलंमरणशोकजराट वीनां
वाराणसीपुरप०॥५॥

तेजोमयं सगुणनिर्गुणमद्वितीय-
मानंदकंदमपराजितमप्रमेयम्‌॥
ना गात्मकं सकलनिष्कलमात्मरुपं
वाराणसीपुर०॥६॥

आशां विहाय परिहृत्य परस्य निंदां
पापै रतिं च सुनिवार्यमनः समाधौ॥
आदाय हृत्क मलमध्यगतं परेशं
वासणसीपुर०॥७॥

रागादिदोषरहितं स्वजनानुराग-
वैराग्यशांतिनिलयं गिरिजासहायम्॥
माधुर्यधैर्यसुभगं गरलाभिरामं
वाराणसीपुर०॥८॥

वाराणसीपुरपतेः स्तवनं शिवस्य
व्याख्यातमष्टकमिदं पठते मनुष्यः॥
विद्यांश्रियं विपुलसौख्यमनंतकीर्तिं
संप्राप्य देवविलये लभते च मोक्षम्‌॥९॥

व्यासाष्टकमिदंपुण्यं यः पठेच्छिवसन्निधौ॥
शिवलोकमवाप्नोति शिवेन सह मोदते॥१०॥

इति श्रीव्यासकृतंविश्वनाथाष्टकं संपूर्णं॥

अथ शिवनामावल्यष्टकप्रारंभः।

श्रीगणेशाय नमः॥

हेचंद्रचूड मदनांतक शूलपाणे स्थाणो गिरिश गिरिजेश महेश शंभो॥
भूतेश भीतिभयसूदन मामनाथंसंसारदुःखगहनाज्ज गदीश रक्ष॥१॥

हेपार्वतीहृदयवल्लभ चंद्रमौले सृताधिपप्रमथनाथ गिरीशजाप॥
हेवामदेव भवरुद्र पिनाकपाणे संसारदुःखग०॥२॥

हेनीलकंठवृषभध्वज पंचदक्त्रलोकेश शेषवलय प्रमथेशशर्व॥
हेधूर्जटे पशुपते गिरिजापते मांसंसार०॥३॥

हे विश्वनाथशिव शंकर देवदेव गंगाधर प्रमथनायक नंदिकेश॥
बाणेश्वरांधकरिपो हर लोकनाथ संसारदुःखग०॥४॥

वाराणसीपुरपते मणिकर्णिकेशवीरेश दक्षमखकाल विभो गणेश॥
सर्वज्ञ सर्वहृदयैकनिवास नाथ संसारदुःखग०॥५॥

श्रीमन्महेश्वर कृपामय हेदयालोहे व्योमकेश शितिकंठ गणाधिनाथ॥
भस्मांगरागनृकपालकलापमालसंसार०॥६॥

कैलासशैलविनिवास वृषाकपे हे मृत्युंजय त्रिनयन त्रिजगन्निवास॥
नारायणप्रिय मदापहशक्तिनाथ संसार०॥७॥

विश्वेश विश्वभ वनाशितविश्वरूप विश्वात्मकत्रिभुवनैकगुणामिवेश॥
हे विश्ववंद्य करुणामय दीनबंधोसंसार०॥८॥

गौरीविलासभुवनाय महेश्वराय पंचाननाय शरणागतकल्पकाय॥
सर्वाय सर्वजगतामधिपाय तस्मैदारिद्रदुःखदहनाय नमः शिवाय॥९॥

इति श्रीमच्छंकराचार्यविरचितं शिवना मावल्यष्टकं संपूर्णम्‌॥१९॥

अथ प्रदोषस्तोत्राष्टकं प्रारभ्यते।

श्रीगणेशाय नमः॥

सत्यंब्रवीमि परलोकहितं ब्रवीमि
सारं ब्रवीम्युपनिषद्धृदयं ब्रवीमि॥
संसारमुल्बणमसारमवाप्य जंतोः
सारोऽयमीश्वरपदांबुरुदस्य सेवा॥१॥

ये नार्चयंति गिरिशंसमये प्रदोषे
ये नार्चितं शिवमपि प्रणमंति चान्ये॥
ये तत्कथां श्रुतिपुटैर्नपिवंति मूढास्ते जन्मजन्पसु भवंति न रा दरिद्राः॥२॥

ये वैप्रदोषसमये परमेश्वरस्य
कुर्वत्यनन्यमनसोंधिसरोजपूजाम्‌॥
नित्यं प्रवृद्धधनधान्यकलत्रपुत्र-
सौभाग्यसंपदधिकास्त इहैवलोके॥३॥

कैलासशैलभुवने त्रिजगज्जनित्रीं

गौ

रीं निवेशय कनकांचितरत्नपीठे॥
नृत्यं विधातुम भिवाञ्छति शूलपाणौ
देवाः प्रदोषसमये नु भजंतिसर्वे॥४॥

वाग्देवी धृतवल्लकी शतमखो वेणुं दधत्पद्मज-
स्तालोन्निद्रकरो रमा भगवती गेयप्रयोगान्विता॥
विष्णुः सांद्रमृदंगवादनपटुर्देवाः समंतात्स्थि
ताःसेवंते तमनु प्रदोषसमये देवं मृडानीपतिम्‌॥५॥

गंधर्वयक्षपतगोरगसिद्धसाध्य-
विद्याधरामरव राप्सरसां गणाश्च॥
येऽन्ये त्रिलोकनिलयाःसहभूतवर्गाः
प्राप्ते प्रदोषसमये हरपार्श्वसंस्थाः॥६॥

अतः प्रदोषे शिव एक एव
पूज्योऽथनान्ये हरिपद्मजाद्याः॥
तस्मिन्महेशे विधिनेज्यमाने
सर्वे प्रसीदंति सुराधिनाथाः॥७॥

एष ते तनयः पूर्वजन्मनि ब्राह्मणोत्तमः॥
प्रतिग्रहैर्वयोनित्यं न दानाद्यैःसुकंर्मभिः॥८॥

अतो दारिद्यमापन्नः पुत्रस्ते द्विजभामिनि॥
तद्दोषपरिहारार्थं शरणं यातुशंकरम्‌॥९॥

इति श्रीस्कंद्पुराणेप्रदोषस्तोत्राष्टकं संपूर्णम्२०॥

अथं चंद्रशेखराष्टकप्रारंभः।

श्रीगणेशाय नमः॥

चंद्रशेखर चंद्रशेखर चंद्रशेखरपाहिमाम्‌॥
चंद्रशेखर

चंद्रशेखर चंद्रशेखर रक्ष माम्‌॥१॥

रत्नसानुशरासनं रजताद्रिशृंगनिकेतनं
सिंजिनीकृतपन्नगेश्वरमच्युताननसायकम्‌॥
क्षिप्रदग्धपुरत्रयं त्रिदिवालयैरभिवंदितं
चंद्रशेखर माश्रये मम किं करिष्यति वै यमः॥२॥

पंचपादयपुष्पगंधपदांबुजद्वयशोभितं
भाललोचनजातपावकदग्धमन्मथविग्रहम्॥
भस्मदिग्धकलेवरं भवनाशनं भवमव्ययं
चंद्रशेखर चं०॥३॥

मत्तवारण सुख्यचर्मकृतोत्तरीयमनोहरं
पंकजासनपद्मलोचन पूजितांघ्रिसरोरुहम्॥
देवसिंधुतरंगसीकरसिक्तशुभ्रजटाधरं
चंद्रशेखर०॥४॥

यक्षराजसखंभगाक्षहरंभुजंगविभृषणं
शैलराजसुता परिष्कृतचारुवाम कलेवरम्॥
क्ष्वेडनीलगलंपरश्वधधारिणं मृगधारिणं
चंद्रशेखरम्०॥५॥

कुंडलीकृतकुंडलेश्वरकुंडलं

वृषवाहनं
नारदादिमुनीश्वरस्तुतिवैभवं भुवनेश्वरम्‌॥
अन्धकांधकमाश्रीतामरपादपं गमनांतकं
चंद्ररोखर०॥६॥

भेषजं भवरोगिणामखिलापदामपहारिणं
दक्षयज्ञविनाशनं त्रिगुणात्मकं त्रिविलोचनम्॥
भुक्तिमुक्ति फलप्रदं सकलाघसंघनिबर्हणं
चंद्ररशेखर०॥७॥

भक्तवत्सल्मार्चितं निधिमक्षयं हरिदंवरं
सर्वभूतपतिं परात्परमप्रमेयमनुत्तमम्॥
सोमवारिनभूहुताशनसोमपानिलखाकृतिं
चंद्रशेखर०॥८॥

विश्वसृष्टिविधायिनंपुनरेव पालनतत्परं
संहरतमपि प्रपंचमशेषलोकनिवासिनम्॥
क्रीडयंतमहार्निशं गणनाथयूथसमन्वितं
चंद्रशेखर०॥९॥

मृत्युभीतमृकंडसूनुकृतस्तवंशिवसन्निधौ
यत्र कुत्रच यः पठेन्नहि तस्य मृत्युभयं भवेत्‌॥
पुर्णमायुररोगितामखिलार्थसंपदमादरं
चंद्रशेखर एवतस्य ददाति मुक्तिमयत्नतः॥१०॥

इति श्रीचंद्रशेखराष्टकस्तोत्रंसंपूर्णम्॥२१॥६॥

अथ दक्षिणामूर्तिस्तोत्रप्रारंभः।

श्रीगणेशाय नमः॥

विश्वंदर्पणदृश्यमाननगरी तुल्यं निजांतर्गतं
पश्यन्नात्मनि माययावहिरिवोद्धूतं यथा निद्रया॥
यः साक्षी कुरुते प्रबोधसमये स्वात्मानमेवाव्ययं
तस्मैश्रीगुरुमुर्तये नम इदं श्रीदक्षिणामूर्तये॥१॥

बीजस्यान्तरितांकुरो जगदिदं प्राङ्निर्विकल्पं
पुनर्मायाकल्पितदेशकालकलनावैचित्र्यचित्रीकृतम्॥
मायावीव विजृंभयत्यपि महायोगीव यःस्वेच्छया
तस्मैश्रीगुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये॥२॥

यस्यैवस्फुरणं सदात्मकमसत्क ल्पार्थकं भासते
साक्षात्तत्त्वमसीति वेदवचसा यो बोधयत्याश्रितान्॥
यत्साक्षात्करणाद्भवेन्न पुनरावृत्तिर्भवांभोनिधौ
तस्मैश्रीगुरुमृर्तये०॥३॥

नानाछिद्रव टोदरस्थितमहादीपप्रभाभास्वरं
ज्ञानं यस्यतुचक्षु रादिकरणद्वाराबहिः स्पंदते॥
जानामीति तमेव भांतमनुभात्येतत्समस्तं जगत
तस्मैश्रीगुरु०॥४॥

देहं प्राणमपींद्रियाण्यपिचलांबुद्धिं च शून्यं विदुः
स्त्रीबालांधजडोपमास्त्वहमिति भ्रांता भृशं बादिनः॥
मायाशक्तिविदासकल्पितमहाव्यामोहसंहारिणे
तस्मैश्रीगुरु०॥५॥

राहुग्रस्तदिवाकरेंदुसदृशी माया समाच्छादनात्-
सन्मात्रः करणोपसंहरणता योऽभूत्सुषुप्तःपुमान्‌॥
प्रागस्वाप्समिति प्रबोधसमये यः प्रत्यभिज्ञायते
तस्मैश्रीगुरु०॥६॥

बाल्यादिष्वपिःजाग्रदादिषु तथा सर्वास्ववस्थास्वपि
व्यावृत्तास्वनुवर्तमानमहमित्यंतःस्फुरंतं सदा॥
स्वात्मानं प्रकटीकरोति भजतां यो मुद्रया भद्रया
तस्मैश्रीगुरु०॥७॥

विश्वं पश्यति कार्यकारणतया स्वस्वामिसंवंधतः
शिष्याचार्यतया तथैव पितृषु त्राद्यात्मना भेदतः॥
स्वप्नेजाग्रति वा य एव पुरूषो मायापरिभ्रामितस्-तस्मैश्रीगुरु०॥८॥

भुरंभांस्यनलो निलांबरमहर्नाथो हिमांशुःपुमान-
इत्याभाति चराचरात्मकमिदं यस्यैव मृर्त्यष्टकं॥

नान्यत्किंचन विद्यते विमृशतां यस्मात्परस्माद्विभोस्तस्मैश्रीगुरु०॥९॥

सर्वात्मत्वमिति स्फुटीकृतमिदं यस्मादमुष्मिन्स्तवे
तेनास्य श्रवणात्तथार्थमननाद्ध्यानाच्च संकीर्तनात्‌॥
सर्वात्मत्वमहाविभूतिसहितंस्यादीश्वरत्वंस्वतः
सिद्ध्येत्तत्पुनरष्टधापरिणतं चैश्वर्यमव्याहतम्‌॥१०॥

वटविटपिसमीपे भूमिभागे निषण्णं
सकलमुनिज नानां ज्ञानदातारमारात्‌॥
त्रिभुवनगुरुमीशं दक्षिणामूर्तिदेवं
जननमरणदुःखच्छेददक्षं नमामि॥११॥

चित्रं वटतरोर्मूलेवृद्धाः शिष्या गुरुर्युवा॥
गुरोस्तुमौनं व्याख्यानं शिष्यास्तु च्छिन्नसंशयाः॥१२॥

नमः प्रणवार्थाय शुद्धज्ञानैकमूर्तये॥
निर्मलायप्रशांताय दक्षिणामूर्तये नमः॥१३॥

निधये सर्वविद्यानांभिषजे भवरोगिणाम्॥
गुरवे सर्वलोकानां दक्षिणामूर्तये नमः॥१४॥

मौनव्याख्याप्रकटितपर ब्रह्मतत्त्वं युवानं
वर्षिष्ठांतेवसदृषिगणैरावृतं ब्रह्म निष्ठैः॥
आाचार्येदं करकलितचिन्मद्रमानंदरुपं

स्वा

त्मारामं मुदितवदनं दक्षिणामुर्तिमीडे॥१५॥

इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमच्छंकराचार्यविरचितं दक्षिणामूर्तिस्तोत्रं संपूर्णम्‌॥२२॥

अथ निर्वाणदशकप्रारंभः।

श्रीगणेशायनमः॥

न भूमिर्नतोयं नतेजो न वायुर्न
खं नेंद्रियं वा न तेषां समूहः॥
अनैकांतिकत्वात्सुषुप्त्येकसिद्धस्-
तदेकोऽवशिष्टः शिवः केवलोहम्‌॥३॥

न वर्णा न वर्णाश्रमाचारधर्मा
न मेधारणा ध्यानयोगादयोऽपि॥
अनात्माश्रयोहंममध्यास हानात्-
तदेकोऽवशिष्टः शिवः केवलोहम्‌॥२॥

न माता पिता वा न देवा न लोका
न वेदा न यज्ञान तीर्थं ब्रुवंति॥
सुषुप्तौनिरस्तातिशून्यात्मकत्वात्-
तदेकोऽवशि०॥३॥

न सांख्यंन शैवं न तत्पांचरात्रं
न जैनं न मिमांसकादेर्मतं वा॥
विशिष्टानुभूत्या विशुद्धात्मकत्वात्-
तदेकोऽवशि०॥४॥

न शुक्लंन कृष्णं नरक्तं न पीतं
न पीनंन कुब्जंन हृस्वं न दीर्घम्॥

अरूपं तथा ज्योतिराकारकत्वात्-
तदेकोऽवशि०॥५॥

न जाग्रन्नमे स्वप्नको वा सुषुप्तिर्न
विश्वोन वा तैजसः प्राज्ञको वा॥
अविद्यात्म कत्वात्रयाणां तुरीयं
तदेकोऽवशि०॥६॥

न शास्तान शास्त्रंन शिष्योन शिक्षा
न च त्वं न चा हं न चायं प्रपंचः॥
स्वरूपावबोधाद्विकल्पासहिष्णुस्तदेकोऽवशि०॥७॥

न चोर्ध्वंन चाधो न चांतर्नबाह्य
न मध्यं नतिर्यड्‌ न पूर्वापरा दिक्॥
वियुद्व्यापकत्वादखंडैकरूपस्-
तदेकोऽवशि०॥८॥

अभिव्यापकत्वाद्वितत्वात्‌ प्रयोगात्‌
स्वतःसिद्धभावा दनन्याश्रयत्वात्‌॥
जगत्तुच्छमेतत्समस्तंं तदन्य
तदेकोऽवशि०॥९॥

न चैकं तदन्यद्द्वितीयंकुतः स्यान
चाकेवल्वंन वा केवलत्वम्॥
न शुन्यं न चाशुन्यंमद्वैतकत्वात्-
कथं सर्ववेदांतसिद्धं ब्रवीमि॥१०॥

इति श्रीमच्छंकराचायेविरचितं निवार्णदशकस्तोत्रं सेपूर्णम्॥२३॥

अथ निर्वाणषट्कप्रारंभः।

श्रीगणेशायनमः॥

मनोबुद्ध्यहंकारचित्तानिनाहंन च श्रोत्रजिह्वे नच घ्राणनेत्रे॥
न च व्योमभूमिर्नतेजो न वायुश्चिदानंदरुपः शिवोऽहंशिवोहम्‌॥१॥

न च प्राणसंज्ञो नवैपंचवायुर्नवा सप्तधातुर्नवा पंचकोशः॥
नवाक्पाणिपादं न चोपस्थ पायुश्चिदानंदरूपः शिवो०॥२॥

न मे द्वेषरागौन मे लोभमोहौमदो नैव मे नैव मात्सर्यभावः॥
न धर्मो न चार्थो न कामो न मोक्षश्चिदानंद०॥३॥

न पुण्यं न पापं न सौख्यं न दुःखं न मंत्रो नतीर्थं न देवा न यज्ञाः॥
अरं भोजनं नैव भोज्यंन भोक्ता चिदानं०॥४॥

न मृत्युर्न शंका न मे जातिभेदः पिता नैव मे नैव माता चजन्म॥
न वंधुर्नमित्रंगुरुर्नेव शिष्यश्चिदानंद०॥५॥

अहं निर्विकल्पो निराकाररूपो विभुत्वाच्चसर्वत्रसर्वेन्द्रियाणाम्‌॥
न चासंगतं नैव मुक्तिर्न मेयश्चिदानंद०॥६॥

हति श्रीमच्छंकराचार्यविरचितं निर्वाणषट्कंसंपूर्णम्‌॥२४॥

अथात्मपंचकप्रारंभः।

श्रीगणेशाय नमः॥

नाहं देहो नेंद्रियाण्यंतरंगं .ना हंकारः प्राणवर्गो न बुद्धिः॥
दारापत्यक्षेत्रवित्तादिदूरःसाक्षीनित्यःप्रत्यगात्माशिवोऽहम्‌॥१॥

रज्ज्वज्ञानाद्भाति रज्जुर्यथाऽहिः स्वात्माज्ञानादास्मनो जीवभावः॥
आप्तोक्त्याहि भ्रांतिनाशे स रज्जुर्जीवो नाहं देशिकोक्त्या शिवोहम्॥२॥

आभातीदं विश्वमात्मन्यसत्यं सत्यज्ञानानंदरूपे विमोहात्‌॥
निद्रामोहात्स्वप्नवत्तन्न सत्यं शुद्धःपूर्णोनित्यएकःशिवोहम्॥३॥

मत्तो नान्यत्किंचिदत्रास्ति विश्वं सत्यं वाह्यं वस्तु मायोपक्लृप्तम्‌॥
आदर्शांतर्भासमानस्य तुल्यं मय्यद्वैतेभाति तस्माच्छिवोऽहम्‌॥४॥

नाहं जातो न प्रवृद्धो न नष्टो देहस्योक्ताः प्राकृताःसर्वधर्माः॥
कृर्तृत्वादिश्चिन्मयस्यास्तिनाहंकारस्यैव द्यात्मनो मे शिवोऽहम्‌॥५॥

नाहंजातो जन्ममृत्युकुतो मे नाहं प्राणःक्षुत्पिपासे कुतोमे॥
नाहंचित्तं शोकमोहौकुतो मे नाहं कर्त्ताबंधमोक्षौकुतो मे॥६॥

इति श्रीमच्छंकराचार्यविरचितं आत्मपंचकस्तोत्रंसंपूर्णम्‌॥२५॥

अथ कालभैरवाष्टकप्रारंभः।

श्रीगणेशाय नमः॥

देवराजसेव्यमानपावनांघ्रिपं कजं
व्यालयज्ञसूत्रमिंदशेखरं कृपाकरम्‌॥
नारदा दियोगिवृंदवंदिनं दिगंबरं
काशिकापुराधिनाथकालभैरवं भजे॥१॥

भानुकोटिभास्वरं भवाब्धिता रकं परं
नीलकंठमीप्सितार्थदायकं त्रिलोचनम्‌॥
कालकालमंबुजाक्षमक्षशूलमक्षरं
कारिकापुरापिनाथकालभैरवं भजे॥२॥

शूलटंकपाशदंडपाणि मादिकारणं
श्यामकायमादिदेवमक्षरं निरामयम्‌॥
भीमविक्रमंप्रभुंविचित्रतांडवपप्रियं
काशिकापुराधिनाथका०॥३॥

भुक्तिमुक्तिदायकं प्रशस्तचारुविग्रहं
भक्तवत्सलंस्थितं समस्तलोकविग्रहम्॥

निक्वणन्मनोज्ञहेमकिंकिणीलसत्कटिं
काशिकापुराधि०॥४॥

धर्मसेतुपालकंत्वधर्ममार्गनाशकं
कर्मपाशमोचकं सुशर्मदायकं विभुम्‌॥
स्वर्णवर्णशेषपाशशोभितां गमंडलं
काशिकापुराधि०॥५॥

रत्नपादुकाप्रभा भिरामपादयुग्मकं
नित्यमद्वितीयमिष्टदैवतं निरंजनम्‌॥
मृत्युदर्पनाशनं करालदंष्ट्रमोक्षणं
काशिकापुराधिनाथ०॥६॥

अट्टहासभिन्नपद्माजांडकोशसंतति
दृष्टिपातनष्टपापजालभुग्रशासनम्‌॥
अष्टसिद्धिदायकं कपालमालिकंधरं
काशिकापुराधिना०॥७॥

भूतसंघनायकं विशालकीर्तिदायकं
काशिवासलोकपुण्यपापशोधकंविभुम्‌॥
नीतिमार्गकोविदं पुरातनं जगत्पतिं
काशिकापुरा०॥८॥

कालभैरवाष्टकंपठंति ये मनोहरं
ज्ञानमुक्तिसाधनं विचित्रपुण्यवर्धनम्॥
शोकमोहदैन्यलोभकोपतापना शनंते
प्रयांति कालभैरवांतिघ्रिसन्निधिंध्रुवम्‌॥९॥

इति श्रीमच्छंकराचार्यविरचितं कालभेैरवाष्टकंसंपूर्णम्॥२६॥

अथासितकृतशिवस्तोत्रारंभः।

श्रीगणेशाय नमः॥
असित उवाच॥

जगद्गुरोनमस्तुभ्यं शिवाय शिवदाय च॥
योगींद्राणां च योगींद्र गुरूणां गुरवे नमः॥१॥

मृत्योर्मृत्युस्वरूपेण मृत्युसंसारखंडन॥
मृत्योरीशमृत्युबीजमृत्युंजय नमोस्तु ते॥२॥

कालरूपं कलयतांकालकालेशकारण॥
कालादतीतकालस्थकालकाल नमोस्तुते॥३॥

गृणातीत गुणाधार गुणबीज गुणात्मक।॥
गुणीशगुणिनां बीज गुणिनां गुरवेनमः॥४॥

ब्रह्मस्वरूप ब्रह्मज्ञब्रह्मभावे च तत्पर॥
ब्रह्मवीजस्वरूपेण ब्रह्मवीज नमोस्तुते॥५॥

इति स्तुत्वा शिवं नत्वा पुरस्तस्थौमुनीश्वरः॥
दीनवत्साश्रुनेत्रश्चपुलकांचितविग्रहः॥६॥

असितेनकृतं स्तोत्रभक्तियुक्तश्चयः पठेत्‌॥
वर्षमेकं हविष्याशीशंकरस्यमहात्मनः॥७॥

स लभेद्वैष्णवंपुत्रंज्ञानिनं चिरजीविनम्‌॥
भवेद्धनाढ्योऽदुःखीचभुको भवति पंडितः॥८॥

अभार्योलभते भार्यां सुशीलांच पतिव्रताम्‌॥
इहलोके सुखं भुक्त्वा यात्यंते शिवसन्निधिम्॥९॥

इदं स्तोत्रं पुरा दत्तं ब्रह्मणा च प्रचेतसे॥
प्रचेतसा स्वपुत्रायासिताय दत्तमुत्तमम्‌॥१०॥

इति श्रीब्रह्मवैवर्तेमहापुराणे श्रीकृष्णजन्मखंडे असितकृतं शिवस्तोत्रंसंपूर्णम्॥२७॥

अथ हिमालयकृतशिवस्तोत्रप्रारंभः।

श्रीगणेशाय नमः॥
हिमालय उवाच॥

त्वं ब्रह्मा सृष्टिकर्ताच त्वं विष्णुःपरिपालकः॥
त्वं शिवःशिवदोऽनंतः सर्वसंहारकारकः॥१॥

त्वमीश्वरो गुणातीतो ज्योतीरूपःसनातनः॥
प्राकृतःप्रकृतीशश्च प्रकृतेःप्रकृतेः परः॥२॥

नानारूपविधाता त्वंभक्तानां ध्यानहेतवे॥
येषु रूपेषु यत्प्रीतिस्तत्तद्रुपं बिभर्षि च॥३॥

सूर्यस्तवं सृष्टिजनकआधारः सर्वतेजसाम्॥
सोमस्त्वं सस्यपाता च सततं शीतर

शिमना॥४॥

वायुस्त्वं वरुणस्त्वंचविद्धांश्चविदुषांगुरुः॥

मृत्युंजयो मृत्युमृत्युः फालकालोयमांतकः॥५॥

वेदस्त्वं वेदकर्ताच वेदवेदांगपारगः॥
विदुषांजनकस्त्वंच विद्वांश्च विदुषां गुरुः॥६॥

मंत्रस्त्वं हि जपस्त्वं हि तपस्त्वंतत्फलप्रदः॥
वाक्‌ त्वं रागाधिदेवीत्वं तत्कर्तातद्गुरुःस्वयम्‌॥७॥

अहो सरस्वतीबीजं कस्त्वांस्तोतुमिहेश्वरः॥
इत्येवमुक्त्वा शैलेंद्रस्तस्थौधृत्वा पदांबुजम्‌॥८॥

तत्रोवास तमुद्बोध्यचावरुह्यवृषाच्छिवः॥
स्तोत्रमेतन्महापुण्यं विसंध्यं यःपठेन्नरः॥९॥

मुच्यते सर्वपापेभ्यो भयेभ्यश्चभवार्णवे॥
अपुत्रो लभते पुत्रं मासमेकं पठेद्यदि॥१०॥

भार्याहीनोलभेद्भार्यांसुशीलांसुमनोहराम्‌॥
चिरकालगतंवस्तुलभते सहसा ध्रुवम्‌॥११॥

राज्यभ्रष्टो लभेद्राज्यं शंकरस्य प्रसादतः॥
कारागारेश्मशाने च शत्रुग्रस्तेऽतिसंकटे॥१२॥

गभीरेतिजलाकीर्णे भग्नपोते विषादते॥
रणमध्ये महाभीते हिस्रजंतुसमन्विते॥

सर्वतो मुच्यतेस्तुत्वाशंकरस्य प्रसादतः॥१३॥

इति श्रीब्रह्मवैवर्वेमहापुराणे श्रीकृष्णजन्मखंडे श्रीहिमालयकृतंश्रीशिवस्तोत्रंसंपूर्णम्‌॥२८॥

अथ शिवाष्टकप्रारंभः।

श्रीगणेशाय नमः॥

प्रभुं प्राणनाथं विभुं विश्वनाथंजगन्नाथनाथं सदानंदभाजाम्॥
भवद्भव्यभूतेश्वरंभूतनाथं शिवं शंकरं शंभुमीशानमीडे॥१॥

गले रुंडमालं तनौसर्पजालंमहाकलकालंगणेशाधिपालम्॥
जटाजूटगङ्गोत्तरङ्गैर्विशालं शिवं शंकरं शंभुमीशानमीडे॥२॥

मुद्रामाकरं मंडनं मंडयंतं महामंडलंभस्ममूपाधरं तम्॥
अनादिं द्यपारं महामोहमारं शिवं शंकरं शंभुमीशानमीडे॥३॥

तटाधोनिवासं महाट्टाट्टहासंमहापापनाशंसदा सुप्रकाशम्॥
गिरीशं गणेशंसुरेशं महेशं शिवं शंकरं शंभुमीशानमीडे॥४॥

गिरींद्रात्मजासंगृहीरीतार्धदेहंगिरौसंस्थितं सर्वदासन्नगेहम्॥
परब्रह्मब्रह्मादि भिर्वंद्यमानं शिवं शंकरं शंभुमीशानमीडे॥५॥

कपालंत्रिशूलंकराभ्यां दधानं पदांभोजनम्रायकामं ददानम्॥
बलीवर्दयानं सुराणां प्रधानं शिवं शंकरं शंभुमीशानमीडे॥६॥

शरच्चंद्रगात्रंगणार्नदपात्रंत्रिनेत्रं पवित्रं धनेशस्यमित्रम्॥
अपर्णाकलत्रं चरित्रंविचित्रं शिवं शंकरं शंभुमीशानमीडे॥७॥

हरंसर्पहारं चिताभूविहारं भवं वेदसारं सदा निर्वि कारम्॥
श्मशाने वसंतं मनोजं दहंतं शिवं शंकरं शंभुमीशानमीडे॥८॥

स्तवं यः प्रभाते नरः शूलपाणेः पठेत्सर्वदा भर्गभावानुरक्तः॥
सुपुत्रं धनं धान्यमित्रंकलत्रंविचित्रःसमासाद्यमोक्षं प्रयाति॥९॥

इति श्रीशिवाष्टकंसंपूर्णम्‌॥२९॥

अथ द्वादशज्योतिर्लिंगानि।

श्रीगणेशाय नमः॥

सौराष्ट्रेसोमनाथं चश्रीशैलेमल्लिकार्जुनम्‌॥
उज्जयिन्यां महाकालमोंकारममलेश्वरम्॥१॥

पर्यल्यां वैद्यनाथंचडाकिन्यांभीमशंकरम्‌॥
सेतुबंधेतु रामेशंनागेशंदारुकावने॥२॥

वाराणस्यां तु विश्वेशंत्र्यंवकंगौतमीतटे॥
हिमालये तु केदारंघुमृणेशं शिवालये॥३॥

एतानिज्योतिर्लिंगानि सायं प्रातः पठेन्नर॥
सप्तजन्मकृतं पापं स्मरणेन विनशयति॥४॥

इतिद्वादशज्योतिर्लिंगानि॥३०॥

अथ दारिद्य्रदहनस्तोत्रप्रारंभः।

श्रीगणेशाय नमः॥

विश्वेश्वरायनरकार्णवतारणाय कर्णामृताय शशिशेखरधारणाय॥
कर्पूरकांति धवलायजटाधराय दारिद्य्रदुःखदहनाय नमः शिवाय॥३॥

गौरीप्रियाय रजनीशकलाधराय कालंतकाय भुजगाधिपकंकबाण॥
गङ्गाधरायगजराजविमर्दनाय दारिद्रदुःखदहनाय नमः शिवाय॥२॥

भक्तिप्रियाय भवरोगभयापहाय उग्राय दुर्गभवसागरतारणाय॥
ज्योतिर्मयाय गुणनामसु नृत्यकाय दारिद्रदुःखदहनाय नमः शिवाय॥३॥

चर्मांवराय भवभस्मविलेपनाय भालेक्षणाय मणिकुंडलमंडिताय॥
मंजीरपादयुगलाय जटाधरायदारिद्य्रदुःखदहनाय नमः शिवाय॥४॥

पंचाननाय फणिराजविभूषणाय हेमांशुकाय भुवनत्रय मंडिताय॥
आनंदभूमिवरदाय तमोमयाय दारिद्रदुःखदहनाय नमः शिवाय॥५॥

भानुप्रियाय भवसागरतारणाय कालांतकाय कमलासनपूजिताय॥
नेत्रत्रयायशुभलक्षणलक्षिताय दारिद्रदुःखदहनाय नमः शिवाय॥६॥

रामप्रियाय रघुनाथवरप्रदाय नामप्रियाय नरकार्णवतारणाय॥
पुण्येषुपुण्यभरिताय सुरार्चिताय दारिद्रदुःखदहनाय नमः शिवाय॥७॥

भुक्तेश्वराय फलदाय गणेश्वरायगीतप्रियाय वृषभेश्वरधारणाय॥
मातंगचर्मवसनाय महेश्वराय दारिद्रदुःखदहनाय नमः शिवाय॥८॥

वसिष्ठेन कृतं स्तोत्रंसर्वरोगनि वारणम्‌॥
सर्वसंपत्करं शीघ्रंपुत्रपौत्रादिवर्धनम्‌॥९॥

त्रिसंध्यं यः पठेन्नित्यं स हि स्वर्गमवाप्नुयात्॥१०॥

इति श्रीवसिष्ठविरचितं दारिद्र्यदहनस्तोत्रं संपूर्णम्‌॥३३॥

अथ कल्किकृतशिवस्तोत्रप्रारंभः।

श्रीगणेशाय नमः ॥

गौरीनाथं विश्वनाथं शरण्यं भूतावासं वासुकीकंठभूषम्‌॥
त्र्यक्षं पंचास्यादिदेवंपुराणं वन्दे सांद्रानंदसंदोहदक्षम्॥१॥

योगाधीशंकामनाशं करालंगंगासंगक्लिन्नमूर्धानमीशम्॥
जाटाजूटाटोपनिक्षिप्तभावंमहाकालंचंद्रभालंनमामि॥२॥

श्मशानस्थं भूतवेतालसंगं नानारशस्त्रैःखड़्गशूलादिभिश्च॥
व्यग्रात्युग्रा बाहवोलोकनाशे यस्य क्रोधोद्भुतलोकोऽस्तमेति॥३॥

यो भूतादिःपंचभूतैःसिसृक्षुस्तन्मात्रास्माकालकर्मस्वभावैः॥
प्रहृत्येदं प्राप्य जीवत्वमीशो ब्रह्मानंदो रमतेतं नमामि॥४॥

स्थितौविष्णुःसर्वजिष्णुःसुरात्मा लोकान्साधुन्धर्मसेतुन्विभर्ति॥

ब्रह्माद्यंशोयोभिमानी गुणात्मा शब्दाद्यङ्गैस्तंपरेशं नमामि॥५॥

यस्याज्ञया वायवो वान्ति लोके ज्वलस्यग्निःसविता याति तप्यन्‌॥
शीतांशुः खे तारकासंग्रहश्चप्रवर्तते तं परेशं प्रपद्ये॥६॥

यस्य श्वासात्सर्वधात्री धरित्रीदेवोवर्षत्यंवु कालःप्रमाता॥
मेरुर्मध्ये भुवनानां च भर्ता तमीशानं विश्वरूपंनमामि॥७॥

इति श्रीकल्किपुराणे कल्किकृतशिवस्तोत्रं संपूर्णम्‌॥३॥

अथचतुःश्लोकीभागवतप्रारंभः।

श्रीगणेशाय नमः॥
श्रीभगवानुवाच॥

ज्ञानंपरमगुह्यं मेयद्विज्ञानसमन्वितम्॥
सरहस्यंतदंगं च गृहाण गदितं मया॥१॥

यावानहं यथाभावोयद्रुपगुण कर्मकः॥
तथैव तत्त्वविज्ञानमस्तुतेमदनुग्रहात्‌॥२॥

अहमेवासमेवाग्रेनान्यद्यत्सदसत्परम्॥
पश्चादहंयदेतच्च योवऽशिष्येत सोऽस्म्यहम्‌॥३॥

ऋतेऽर्थं यत्प्रतीयेत न प्रतीयेत चात्मनि॥

तद्विद्यादात्मनो मायां यथाभासो यथा तमः॥४॥

यथा महांति भूतानि भूतेषूच्चावचेष्वनु॥
प्रविष्टान्यप्रविष्टानि तथा तेषु न तेष्वहम्‌॥५॥

एतावदेव जिज्ञास्यं तत्त्वजिज्ञासुनाऽऽत्मनः॥
अन्वयव्यतिरेकाभ्यां यत्स्यात्सर्वत्रसर्वदा॥६॥

एतन्मतं समातिष्ठ परमेण समाधिना॥
भवान्कल्पविकल्पेषु न विमुह्यति कर्हिचित्‌॥७॥

इति श्रीमद्भागवते महापुराणेऽष्टादशसाहस्य्रांसंहितायां वैयासिक्यांद्वितीयस्कंधेमगवद्ब्रह्मसंवादेचतुःश्लोकी-
भागवतंसमाप्तं॥३३॥

अथ पांडवगीताप्रारंभः।

श्रीगणेशाय नमः॥
पांडव उवाच॥

प्रहृादनारद पराहरपुण्डरीकव्यासांवरीपशुक शौनकभीष्मदालभ्यान्‌॥
रुक्मांगदार्जुनवसिष्ठविभीषणादीन्पुण्या निमान्परमभागवतान्स्मरामि॥१॥

लोमहर्षण उवाच ॥

धर्मो विवर्धति युधिष्ठिरकीर्तनेन पापं प्रणश्यति वृकोदपकीर्तनेन॥
शत्रुर्विनश्यति धनंजयकीर्तनेनमाद्रीसुताकथयतां न भवंति रोगाः॥२॥

ब्रह्मोबाच॥

ये मानवा विगतरागपरावरज्ञानारायणं सुरगुरुंसततं स्मरंति॥
ध्यानेन तेन हतकिल्विष चेतनास्ते मातुःपयोधररसं न पुनः पिबंति॥३॥

इंद उवाच॥

नारायणो नाम नरो नराणांप्रसिद्धचोरः कथितःपृथिव्याम्॥
अनेकजन्मार्जितपापसंचयंहरत्यशेषं स्मरतां सदैव॥४॥

युधिष्ठिर उवाच॥

मेघश्यामं पितकौशेयवासं श्रीवत्सांकंकौस्तुभोद्भासितांगम्॥
पृण्योपेतं पुंडरी कायताक्षंविष्णुंवंदे सर्वलोकैकनाथम्‌॥५॥

भीमसेन उवाच॥

जलौमग्ना सचराचरा धरा विबाणकोट्याखिलविश्वमूर्तिना॥
समुद्धृता येन वराहरूपिणा स मे स्वयंभूर्भगवान्प्रसीद्ताम॥६॥

अर्जुनउवाच॥

अचिन्त्यमव्यक्तमनंतमव्ययं विभुंप्रभुं भावितविश्वभावनम्‌॥
त्रैलोक्यविस्तारविचारकारकंहरिं प्रपन्नोऽस्मि गतिंमहात्मनाम्‌॥७॥

नकुलउवाच॥

यदिगमनमधस्तात्कालपाशानुवद्धो
यदि चकुलविहीने जायते पक्षिकीटे॥
कृमिशतमपि गत्वा जायते चांतरात्मा
मम भवतु हृदिस्थेकेशवे भक्तिरेका॥८॥

सहदेव उवाचं॥

तस्ययज्ञवराहस्य विष्णोरतुलतेजसः॥
प्रणामं ये प्रकुर्वंति तेषामपि नमो नमः॥९॥

कुंत्युवाच॥

स्वकर्मफलनिर्दिष्टांयांयां योनिं ब्रजाम्यहम्॥
तस्यां तस्यां हृषीकेशत्वयिभक्तिर्दृढाऽस्तुमे॥१०॥

माद्र्युवाच॥

कृष्णेरताः कृष्णमनु स्मरंति रात्रौच कृष्णं पुररुत्थिता ये॥
ते भिन्नदेहाःप्रविशंति कृष्णं हविर्यथा मंत्रहुतं हुताशे॥११॥

द्रुपद उवाच॥

कीटेषु पक्षिषु मृगेषु सरोसृपेषु रक्षः
पिशाचमनुनजेष्वपि यत्र यत्र॥
जातस्य मे भवतु केशव त्वत्प्रसादात्त्वय्येव भक्तिरचलाऽव्यभिशारिणीच॥१२॥

सभद्रोवाच॥

एकोपि कृष्णस्यकृतः प्रणामोदशाश्वमेधावभृथेन तुल्यः॥

दशाश्वमेधी पुनरेति जन्म कृष्णप्रणामी न पुनर्भवाय॥१३॥

अभिमन्युरुवाच॥

गोविंदगोविंद हरे मुरारे गोविंद गोविंद रथांगपाणे॥
गोविंद गोविदं मुकुंद कृष्ण गोविंद गोविंद नमोनमस्ते॥१४॥

धृष्टद्युम्नउवाय॥

श्रीराम नारायण वासुदेव गोविंद वैकुंठमुकुंद कृष्ण॥
श्रीकेशवानंत नृसिंह विष्णो मां त्राहि संसारभुजंगदष्टम्॥१५॥

सात्यकिरुवाच॥

अप्रमेय हरे विष्णो कृष्णदामोदराच्युत॥
गोविंदानंत सर्वेश वासुदेवनमोऽस्तुते॥१६॥

उद्धवउवाच॥

वासुदेवं परित्यज्य येऽन्यं देवमुपासते॥
तृषिता जाह्नवीतीरे कूृपंवांछंतिदुर्भगाः॥१७॥

धौम्य उवाच॥

अपां समीपे शयनासनस्थं दिवा च रात्रौ च यथा धिगच्छताम्‌॥
यद्यस्तिकिंचित्सुकृतं कृतं मया जनार्दनस्तेन कृतेन तुष्यतु॥१८॥

संजय उवाच॥

आर्ताविषण्णाः शिथिलाश्च भीता घोरेषु व्याघ्रादिषु वर्तमानाः॥
संकीर्त्यनारायणशब्दमात्रांविमुक्तदुःखाःसुखिनो भवंति॥१९॥

अक्रूर उवाच॥

अहं तु नारायणदासदासदासस्य दासस्य च दासदा सः॥
अन्येभ्य ईशो जगतो नराणां तस्मादहं चान्यतरोऽस्मिलोके॥२०॥

विदुर उवाच॥

वासुदेवस्यये भक्ताः शांतास्तद्गतमानसाः॥
तेषां दासस्य दोसोऽहंभवे जन्मनि जन्मनि॥२१॥

भीष्म उ०॥

विपरीतेषु कालेषु परिक्षीणेषु बंधुषु॥
त्राहिमां कृपया कृष्ण शरणागतवत्सल॥२२॥

द्रोणाचार्यउवाच॥

ये ये हताश्चक्रधरेण राजंस्त्रैलोक्यनाथेन जनार्दनेन॥
ते ते गताविष्णुपुरीं प्रयाताः क्रोधोऽपि देवस्य वरेण तुल्यः॥२३॥

कृपाचार्य उवाच॥

मज्जन्मनः फलमिदं मधुकैटभारे मत्प्रार्थनीयमदनुग्रह एषएव॥

त्वद्भृत्यभृत्यपरिचारकभृत्यभृत्यभृत्यस्यभृत्यइतिमांस्मर लोकनाथ॥२४॥

अश्वत्थामोवाच॥

गोविंद केशव जनार्दन वासुदेव विश्वेश विश्व मधुसूदन विश्वनाथ॥

श्रीप

द्मनाभ पुरुषोत्तम पुष्कराक्ष नारायणाच्युत नृसिंह नमो नमस्ते॥२५॥

कर्णउवाच॥

नान्यं वदामि न शृणोमि न चिंतयामि
नान्यं स्मरामि नभजामि न चाश्रयामि॥

भक्त्या त्वदीयचरणांबुजमंतरेण
श्रीश्रीनिवास पुरूषोत्तम देहि दास्यम्‌॥२६॥

धृतराष्ट्रउवाच॥

नमो नमः कारणवामनाय नारायणायामितविक्रमाय॥

श्रीशार्ङ्गचक्राब्जगदाधराय नमोऽस्तु तस्मैपुरुषोत्तमाय॥२७॥

गांधार्युवाच॥

त्वमेव माता च पिता त्वमेव त्वमेव बंधुश्च सखा त्वमेव॥

त्वमेव विद्या द्रविणं त्वमेव त्वमेव सर्वं मम देवदेव॥२८॥

द्रौपद्युवाच॥

यज्ञेशाच्युत गोविंदमाधवानंत केशव॥

कृष्ण विष्णोहृषीकेशवासुदेव नमोस्तुते॥२९॥

जयद्रथउवा

च॥

नमः कृष्णाय देवाय ब्रह्मणेऽनंतमूर्तये॥
योगेश्वराय योगाय त्वामहं शरणंगतः॥३०॥

विकर्णउवाच॥

कृष्णाय वासुदेवाय देवकीनंदनाय॥

नंदगोपकुमाराय गोविंदाय नमो नमः॥३१॥

सोमदत्त उवाच॥

मः परमकल्याण नमस्ते विश्वभावन॥

वासुदेवाय शांताय यदूनांपतये नमः॥३२॥

विराट उवाच॥

नमो ब्रह्मण्यदेवाय गोब्राह्मणहिताय च॥
जगद्धिताय कृष्णाय गोविंदाय नमो नमः॥३३॥

शल्य उवाच॥

अतसीपुष्पसंकाशं पीतवाससमच्युतम्‌॥
ये नमस्यंति गोविंदं न तेषां विद्यते भयम्‌॥३४॥

बलभद्रउ०॥

कृष्ण कृष्ण कृपालुस्त्वमगतीनां गतिर्भव॥
संसारार्णवमग्नानां प्रसीद पुरुषोत्तम॥३५॥

श्रीकृष्ण उवाच॥

कृष्ण कृष्णेति कृष्णेति योमां स्मरति नित्यशः॥
जलं भित्वा यथा पद्मंनरकादुद्धराम्यहम्‌॥३६॥

सत्यं ब्रवीमि मनुजाःस्वयमूर्ध्वबाहु
र्योमां मुकुंदनरसिंहजनार्दनेति॥
जीवोजपत्यनुदिनं मरणे रणे वा
पाषाणकाष्ठसदृशाय ददाम्यभीष्टम्‌॥३७॥

सूत उवाच॥

तत्रैव गंगा यमुना च वेणी
गोदावरी सिंधु सरस्वती च॥

सर्वाणि तीर्थानि वसंति तत्र
यत्राच्युतोदारकथाप्रसंगः॥३८॥

यम उवाच॥

नरके पच्यमानं तु यमेन परिभाषितम्‌॥
किं त्वया नार्चितो देवः केशवः क्लेशनाशनः॥३९॥

नारद उवाच॥

जन्मांतरसहस्रेण तपोध्यानसमाधिभिः॥
नराणां क्षीणपापानां कृष्णे भक्तिः प्रजायते॥४०॥

प्रह्लादउवाच॥

नाथयोनिसहस्रेषु येषु येषुव्रजाम्यहम्॥
तेषु तेष्वचला भक्तिरच्युतास्तु सदा त्वयि॥४१॥

या प्रीतिरविवेकानां विषयेष्वनपायिनी॥
त्वामनुस्मरतः सा मेहृदयान्मापसर्पतु॥४२॥

विश्वामित्र उवाच॥

किं तस्य दानैःकिं तीर्थैःकिं तपोभिः किमध्वरैः॥
यो नित्यं ध्यायते देवं नराणां मनसि स्थितम्‌॥४२॥

जमदग्निरुवाच॥

नित्योत्सवस्तदा तेषां नित्यश्रीर्नित्यमंगलम्‌॥
येषां हृदिस्थो भगवान्मंगलायतनंहरिः॥४४॥

भरद्वाजउवाच॥

लाभस्तेषां जयस्तेषां कुतस्तेषां पराजयः॥
येषामिंदीवरश्यामो हृदयस्थो जनार्दनः॥४५॥

गौतम उवाच॥

गोकोटिदानं ग्रहणेषु काशीप्रयागगंगाऽयुतकल्पवासः॥
यज्ञायुतं मेरुसुवर्णदानं गोविंदनाम्ना न कदापि तुल्यम्‌॥४६॥

अत्रिरूवाच॥

गोविंदेति सदा स्नानं गोविंदेति सदा जपः॥
गोविंदेति सदा ध्यानं सदा गोविंदकीर्तनम्॥४७॥

अक्षरं हि परं ब्रह्मगोविंदेत्यक्षरत्रयम्‌॥
तस्मादुच्चरितं येन ब्रह्मभूयाय कल्पते॥४८॥

श्रीशुक उवाच॥

अच्युतःकल्पवृक्षोऽसावनंतः कामधेनवः॥
चिंतामणिश्चगोविंदो हरिनाम विचिंतयेत्॥४९॥

हरिरुवाच॥

जयतिजयतिदेवो देवकीनंदनोऽयं
जयति जयति कृष्णो वृष्णिवंशप्रदीपः॥
जयति जयति मेघश्यामलःकोमलांगो
जयति जयति पृथ्वीभारनाशामुकुंदः॥५०॥

पिप्पलायन उवाच॥

श्रीमन्नृसिंहविभवे गरुडध्वजाय
तापत्रयोपशमनाय भवौषधाय॥
कृष्णाय वृश्चिकजलाग्निभुजंगरोग-
लेशव्ययायहरये गुरवे नमस्ते॥५१॥

आविर्होत्र उवाच॥

कृष्ण त्वदीयपदपंकजपंजरांते
अद्यैव मे विशतु मानसराजहंसः॥
प्राणप्रयाणसमये कफवातपित्तैः
कंठावरोधनविधौस्मरणं कुतस्ते॥५२॥

विदुर उवाच॥

हरेर्नामैव नामैव नामैव मम जीवनम्‌॥
कलौ नास्त्येव नास्त्येव नास्त्येव गतिरन्यथा॥५३

वसिष्ठ उवाच॥

कृष्णेति मंगलंनाम यस्य वाचि प्रवर्तते॥
भस्मीभवंति तस्याशु महापातककोटयः॥५४॥

अरुंधत्युवाच॥

कृष्णाय वासुदेवाय हरये परमात्मने॥
प्रणतक्लेशनाशाय गोविंदाय नमो नमः॥५५॥

कश्यप उवाच॥

कृष्णानुस्मरणादेव पापसंघातपंजरः॥
शतधा भेदमाप्नोति गिरिर्वज्रहतो यथा॥५६॥

दुर्योधन उवाच॥

जानामि धर्मंन च मे प्रवृत्ति
र्जानामि पापं न च मे निवृत्तिः॥
केनापि देवेन हृदि स्थितेन
यथा नियुक्तोऽस्मि तथा करोमि॥५७॥

यत्रस्वगुणदोषेण क्षाम्यतां मधूसूदनः॥
अहमेवमहं हंतुमम दोषोन विद्यते॥५८॥

भृगुरुवाच॥

नामैव तव गोविदं कलौत्वत्तः शताधिकम्‌॥
ददात्युच्चारणान्मुक्तिं विना अष्टांगयोगतः॥५९॥

लोमहर्षणउवाच॥

नमामि नारायणपादपंकजं करोमि नारायणपूजनं सदा॥

वदामि नारायणनाम निर्मलं स्मरामि नारायणतत्त्वमव्ययम्‌॥६०॥

शौनक उवाच॥

स्मृत्वा सकलकल्याणभाजनं यत्र जायते॥

परुषं तमजं नित्यं व्रजामि शरणं हरिम्॥६१॥

गर्ग उवाच॥

नारायणेतिमंत्रोऽस्ति वागस्तिवशवर्तिनी॥
तथापि नरके घोरे पततीत्येतदद्भुतम्‌॥६२॥

दाल्भ्य उवाच॥

किं तस्य बहुभिर्मंत्रैर्भक्तिर्यस्य जनार्दने॥
नमोनारायणायेति मंत्रः सर्वार्थसाधकः॥६३॥

वैशंपायन उवाच॥

यत्र योगेश्वरः कृष्णो यत्रपार्थो धनुर्धरः॥
तत्र श्रीर्विजयो भूतिर्ध्रुवा नीतिर्मतिर्मम॥६४॥

अंगिरा उवाच॥

हरिर्हरति पापानि दुष्टचित्तैरपि स्मृतः॥
अनिच्छयाऽपि संस्पृष्टो दहत्येबहि पावकः॥६५॥

पराशर उवाच॥

सकृदुच्चरितं येन हरिरित्यक्षरद्वयम्॥
वद्धः परिकरस्तेन मोक्षाय गमनं प्रति॥६६॥

पौलस्त्य उवाच॥

हेजिह्वे रससारज्ञेसर्वदामधुरप्रिये॥
नारायणाख्यपीयुषं पिबजिह्वे निरंतरम्‌॥६७॥

व्यास उवाच॥

सत्यं सत्यं पुनः सत्यं भुजमुत्थाय चोच्यते॥
न वेदाच्च परंशास्त्रं न देवः केशवात्परः॥६८॥

धन्वंतरिरूवाच॥

अच्युतानंतगोविंदनामोच्चारणभेषजात्॥
नश्यंति सकला रोगाःसत्यं सत्यं वदाम्यहम्‌॥६९॥

मार्कंडेय उ०॥

सा हानिस्तन्मह

च्छिद्रें सा चांधजडमूढता॥
यन्मुहूर्तं क्षणं वापि वासुदेवं न चिंतयेत्‌॥७०॥

अगस्त्य उवाय॥

निमिषं निमिषार्धं वा प्राणिनां विष्णुचिंतनम्‌॥
क्रतुकोटिसहस्राणां ध्यानमेकं विशिष्यते॥७१॥

मनसा कर्मणा वाचा ये स्मरंति जनार्दनम्‌॥
तत्र तत्र कुरुक्षेत्रं प्रयागो नैमिषं वनम्‌॥७२॥

श्रीशुक उवाच॥

आलोडय सर्वशास्त्राणि विचार्यैवं पुनः पुनः॥

इदमेकंसुनिष्पन्नंध्येयो नारायणः सदा॥७३॥

श्रीमहादेव उवाच॥

शरीरं च नवच्छिद्रंव्याधिग्रस्तं कलेवरम॥
औषधंजाह्नवीतोयं वैद्यो नारायणो हरिः॥७४॥

शौनकउवाच॥

भोजनाच्छादने चिंतां वृथा कुर्वंति वैष्णवाः॥
योसौविश्वंभरो देवः स भक्तान्‌ किमुपेक्षते॥७५॥

एवं ब्रह्मादयो देवाऋषयश्च तपोधनाः॥
कीर्तयंति सुरश्रेष्ठंदेवं नारायणं विभुम्‌॥७६॥

सनत्कुमारउवाच॥

यस्य हस्ते गदा चक्रं गरुडो यस्यवाहनम्‌॥

शंखः करतले यस्य स मे विष्णुःप्रसीदतु॥७७॥

इदं पवित्रमायुष्यं पुण्यं पापप्रणाशनम्॥

यःपठेत्प्रातरुत्थाय वैष्णवंस्तोत्रमुत्तमम्॥७८॥

सर्वपाषविनिमुक्तोविष्णुसायुज्यमाप्नुयात्‌॥

धर्मा

र्थकाममोक्षार्थंपांडवैःपरिकीर्तितम्॥७९॥

आकाशात्पतितं तोयं यथा गच्छति सागरम्‌॥
सर्वदेवनमस्कारः केशवं प्रति गच्छति॥८०॥

इति श्रीपांडवकृतप्रपन्नगीता संपूर्णा॥३३॥

अथ सप्तश्लोकीगीताप्रारंभः।

श्रीगणेशाय नमः॥

ओमित्येकाक्षरं ब्रह्म व्याहरन्मामनुस्मरन्‌॥

यः प्रयाति त्यजन्देहं स याति परमां गतिम्‌॥१॥

स्थाने हृषीकेश तव प्रकीर्त्याजगत्पहृष्यत्यनुरज्यते च॥
रक्षांसि भीतानि दिशो द्रवंति सर्वे नमस्यंति च सिद्धसंघाः॥२॥

सर्वतः पाणिपादं तत्सर्वतोऽक्षिशिरोमुखम्‌॥
सर्वतः श्रुतिमल्लोके सर्वमावृत्य तिष्ठति॥३॥

कविं पुराणमनुशासितारमणोरणीयांसमनुस्मरेद्यः॥
सर्वस्य धातारमचिंत्यरूपमादित्यवर्णं तमसःपरस्तात्‌॥४॥

ऊर्ध्वमूलमधःशाखमश्वत्थं प्राहुरव्ययम्‌॥
छदांसि यस्य पर्णानि यस्तं वेदस वेदवित्॥५॥

सर्वस्य चाहं हृदि सन्निविष्टोमत्तःस्मृतिर्ज्ञानमपोहनं च॥
वेदैश्चसर्वैरहमेववेद्योवेदांतकृद्वेदविदेव चाहम्॥६॥

मन्मना भव मद्भक्तो माद्याजी मां नमस्कुरु॥

मामेवैष्यसि युक्त्वैवमात्मानं मत्परायणः॥७॥

इति श्रीभगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रेश्रीकृष्णार्जुनसंवादे सप्तश्लोकीगीता समाप्ता॥३४॥

॥श्रीकृष्णार्पणमस्तु॥

अथ कल्किस्तोत्रप्रारंभः।

श्रीगणेशाय नमः॥

सुशांतोवाच॥

जय हरेऽमराधीश सेवितं तव पदांबुजं भूरिभूषणम्‌॥
कुरु ममाग्रतः साधुसंस्कृतं त्यज महामते मोहमात्मनः॥१॥

तव वपुर्जगद्रूपसंपदा विरचितं सतां मानसे स्थितम्‌॥
रतिपतेर्मनोमोहदायकं कुरुविचेष्टिते कामलं पटम्‌॥२॥

तव यशो जगच्छोकनाशनं मृदुकथामृतं प्रीतिदायकम्‌॥
स्मितसुधोक्षितं चंद्रवन्मुखं तव करोज्ज्वजंलोकमंगलम्॥३॥

मम पतिस्त्वयं सर्वदुर्जयो यदि तवाप्रियं कर्मणाऽचरेत्‌॥

जहि तदात्मनः शत्रुमुद्यतं कुरु कृपां न चेदीदृगीश्वरः॥४॥

महदहंयुतं पंचमात्रया प्रकृतिजाययानिर्मितं वपुः॥
तव निरीक्षणाल्लीलया जगत्स्थितिलयोदयं ब्रह्मकाल्पितम्‌॥५॥

भूवियन्मरुद्वारितेजसां राशिभिः शरीरेंद्रियाश्रितैः॥
त्रिगुणयास्वया मायया विभो कुरुकृपां भवत्सेवनार्थिनाम्‌॥६॥

तव गुणालयं नाम पावनं कलिमलापहं कीर्तयंति ये॥
भवभयक्षयं तापतापिता मुहुरहो जनाः संसरंति नो॥७॥

तव जनुःसतां मानवर्धनं जिनकुलक्षयं देवपालकम्‌॥
कृतयुगार्पकं धर्मपूरकंकलिकुलांतकं शं तनोतु मे॥८॥

मम गृहं पतिं पुत्रजनप्तृकं गजरथैर्ध्वजेैश्चामरैर्धनैः॥
मणिवरासनं सत्कृतिं विना तव पदाब्जयोः शोभयंति किम्॥९॥

तव जगद्वपुः सुंदरस्मितं मुखमनिंदितं सुंदरारवम्‌॥
यदि न मे प्रियं वल्गु चेष्टितं परिकरोत्यहो मृत्युरस्त्विह॥१०॥

हयचर भयहरकरहरशरणखरतरवरशरदशबलदमन॥
जय हतपरभर भववरनशन शशधरशतसमरसभरमदन॥११॥

इति श्रीकल्किपुराणे सुशांताकृतं कल्किस्तोत्रं संपूर्णम्‌॥३५॥

संकष्टनाशनलक्ष्मीनृसिंहस्तोत्रम्।

श्रीगणेशाय नमः॥

श्रीमत्पयोनिधिनिकेतनचक्रपाणे भोगींद्रभोगमणिरंजितपुण्यमूर्ते॥
योगीशशाश्वत शरण्य भवाब्धिपोत लक्ष्मीनृसिंह मम देहि करावलंबम्‌॥१॥

ब्रह्मेंद्ररुद्रमरुदर्ककिरीटकोटिसंघट्टितांघ्रिकमलामलकांतिकांत॥
लक्ष्मीलसत्कुचसरोरुहराजहंस लक्ष्मीनृसिंह मम देहि करावलंबम्‌॥२॥

संसारघोरगहने चरतो मुरारे मारोगभीकरमृगप्रवरार्दितस्य॥
आर्तस्य मत्सरनिदाघनिपीडितस्य लक्ष्मीनृसिंह०॥३॥

संसारकूपमतिघोरमगाधमूलं संप्राप्य दुःखशतसर्पसमाकुलस्य॥

दीनस्य देव कृपणापदमागतस्य लक्ष्मीनृसिंह०॥४॥

संसारसागरविशालकरालकालनक्रग्रहग्रसननिग्रहविग्रहस्य॥
व्यग्रस्य रागरसनोर्मिनिपीडितस्य लक्ष्मीनृसिंह०॥५॥

संसारवृक्षमघबीजमनंतकर्मशाखाशतं करणपत्रमनंगपुष्पम्‌॥

आरुह्य दुःखफलितं पततो दयालोलक्ष्मीनृसिंह म०॥६॥

संसारसर्पवनवक्त्रभयोग्रतीव्रदंष्ट्राकरालविषदग्धविनष्टमूर्ते॥
नागारिवाहन सुधाब्धिनिवास शौरे लक्ष्मीनसिंह०॥७॥

संसारदावदहनातुरभीकरोरुज्वालावलीभिरतिदग्धतनूरुहस्य॥
त्वत्पादपद्मसरसीशरणागतस्य लक्ष्मीनृसिंह०॥८॥

संसारजालपतितस्य जगन्निवास सर्वेंद्रियार्थवडिशार्थझषोपमस्य॥
प्रोत्खंडितप्रचुरतालुकमस्तकस्य लक्ष्मीनृसिंह०॥९॥

संसारभीकरकरींद्रकलाभिघातनिष्पिष्टमर्मवपुषः सकलार्तिनाश॥
प्राणप्रयाणभवभीतिसमाकुलस्य लक्ष्मीनृसिंह०॥१०॥

अंधस्य मे हृतविवेकमहाधनस्य चोरैःप्रभो बलिभिरिंद्रियनामधेयैः॥
मोहांधकूपकुहरे विनिपाति तस्य लक्ष्मीनृसिंह०॥११॥

लक्ष्मीपते कमलनाभसुरेश विष्णो वैकुंठ कृष्ण मधुसूदन पुष्कराक्ष॥
ब्रह्मण्य केशव जनार्दन वासुदेव देवेश देहि कृपणस्य करावलंबम्॥१२॥

यन्माययोर्जितवपुःप्रचुरप्रवाहमग्नार्थमत्र निवहोरुकरावलंबम्‌॥
लक्ष्मी नृसिंहहरणाब्जमधुत्रतेन स्तोत्रं कृतं सुखकरं भुवि शंकरेण॥१३॥

इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमच्छंकराचार्यविरचितं संकटनाशनंलक्ष्मीनृसिंहस्तोत्रं संपूर्णम्॥३६॥

अथ ज्वरस्तोत्रप्रारंभः।

श्रीगणेशाय नमः॥

विद्रावितेभूतगणे ज्वरस्तुत्रिशिरास्त्रिपात्॥
अभ्यपद्यतदाशार्हंदहन्निव दिशोदश॥

अथ नारायणो देवस्तं दृष्ट्वाव्यसृजज्ज्वम्॥१॥

माहेश्वरो वैष्णवश्चयुयुधाते ज्वराबुभौ॥

माहेश्वरः समाक्रंदन्वैष्णवेन वलार्दितः॥२॥

अलब्ध्वाऽभयमन्यत्र भीतो माहेश्वरो ज्वरः॥

शरणार्थी हृषीकेशं तुष्टाव प्रयतांजलिः॥३॥

ज्वर उवाच॥

नमामि त्वाऽनंतशक्तिं परेशं सर्वात्मानं केवलं ज्ञप्तिमात्रम्॥
विश्वोत्पत्तिस्थानसंरोधहेतुं यत्तद्ब्रह्मं ब्रह्मलिंगं प्रशांतम्‌॥४॥

कालो दैवंकर्मजीवः स्वभावो द्रव्यं क्षेत्रं प्राणआत्मा विकारः॥
तत्संघातो बीजरोहप्रवाहस्त्वन्मायैषा तन्निषेधं प्रपद्ये॥५॥

नामाभावैर्लीलयैवोपपन्नैर्देवान्साधृल्ँलोकसेतून्विभर्षि॥
हंस्युन्मार्गान्हिंसयावर्तमानान्‌ जन्मैतत्ते भारहाराय भूमैः॥६॥

तप्तोऽहं ते तेजसा दुःसहेन शीतोग्रेणात्युल्वणेन ज्वरेण॥
तावत्तापो देहिनां तेऽघ्रिमूलं नो सेवेरन्यावदाशानुबद्धाः॥७॥

श्रीभगवानुवाच।

त्रिशिरस्ते प्रसन्नोऽस्मिव्येतु ते मज्ज्वराद्भयम्‌॥
यो नौस्मरति संवादं तस्य त्वन्न भवेद्भयम्‌॥८॥

इत्युक्तोऽच्युतमानम्यगतो माहेश्वरो ज्वरः॥
वाणस्तु रथमारूढःप्रागाद्योत्स्यन्‌ जनार्दनम्‌॥९॥

इति श्रीज्वरस्तोत्रंसंपूर्णम्‌॥३७॥

अथाचार्यकृतषट्पदीप्रारंभः।

श्रीगणेशाय नमः॥

अविनयमपनय विष्णोदमयमनः शमय विषयमृगतृष्णाम्॥
भूतदयां विस्तारय तारय संसारसागरतः॥१॥

दिव्यधुनीमकरंदे परिमलपरिभोगसच्चिदानंदे॥
श्रीपतिपदारविंदे भवभयखेदच्छिदे वंदे॥२॥

सत्यपि भेदापगमेनाथ तवाहं न मामकीनस्त्वम्॥
सामुद्रो हि तरंगः क्वचन समुद्रोन तारंगः॥३॥

उद्धृतनगनगभिदनुज दनुजकुलामित्र मित्रशशिदृष्टे॥

दृष्टे भवति प्रभवति न भवति किं भवतिरस्कारः॥४॥

मत्स्यादिभिरवतारैरवतारवताऽवतासदा वसुधाम्‌॥
परमेश्वर परिपाल्यो भवता भवतापभीतोऽहम्‌॥५॥

दामोदर गुणमंदिरसुंदरवदनारविंद गोविंद॥
भवजलधिमथनमंदर परमं दरमपनय त्वं मे॥६॥

नारायण करुणामय शरणं करवाणि तावकौचरणौ॥
इति षट्पदी मदीये वदनसरोजेसदावसतु॥७॥

इति श्रीमत्परमहंसपरिव्राजकाचार्य श्रीमच्छंकराचार्यषट्‌पदीस्तोत्रंसं०॥२८॥

अथ देवकृतगर्भस्तुतिप्रारंभः।

श्रीगणेशाय नमः॥

देवा उचुः॥

जगद्योनिरयोनिस्त्वमनंतोऽव्यय एव च॥
ज्योतिःस्वरूपोह्यनशःसगुणो निर्गुणो महान्‌॥१॥

भक्तानुरोधात्साकारो निराकारोनिरंकुशः॥
निर्व्यूहो निखिलाधारोनिःशंकोनिरुपद्रवः॥२॥

निरुपाधिश्चनिर्लिप्तो निरीहो निधनांतकः॥
स्वात्मारामः पूर्णकामोऽनिमिषोनित्य एवच॥३॥

स्वेच्छामयःसर्वहेतुः सर्वःसर्वगुणाश्रयः॥
सर्वदो दुःखदो दर्गो दुर्जनांतक एवच॥४॥

सुभगो दुर्भगो वाग्मी दुराराध्यो दुरत्ययः॥
वेदहेतुश्च वेदाश्च वेदांगोवेदविद्विभुः॥५॥

इत्येवमुक्त्वा देवाश्च प्रणेमुश्च मुहुर्मुहुः॥

हर्षाश्रुलोचनाः सर्वे वबृषुः कुसुमानि च॥६॥

द्विचत्वारिंशन्नामानि प्रातरुत्थाय यः पठेत्‌॥
दृढां भक्तिं हरेर्दास्यं लभते वांछितं फलम्‌॥७॥

इत्येवंस्तवनं कृत्वा देवास्ते स्वालयं ययुः॥
बभूव जलवृष्टिश्च निश्चेष्टा मथुरा पुरी॥८॥

इति श्रीब्रह्मवैवर्ते महापुराणे श्रीकृष्णजन्मखंडे देवकृतगर्भस्तुतिः संपूर्णा॥३९॥

श्रीकृष्णार्पणमस्तु॥

अथ वसुदेवकृतश्रीकृष्णस्तोत्रप्रारंभः।

श्रीगणेशाय नमः॥

वसुदेव उवाच॥

त्वामतींद्रियमव्यक्तमक्षरंनिर्गुणं विभुम्‌॥
ध्यानासाध्यं च सर्वेषां परमात्मानमीश्वरम॥१॥

स्वेच्छामयं सर्वरूपं स्वेच्छारूपघरंपरम्‌॥
निर्लिप्तं परमं ब्रह्म वीजरूपं सनातनम्॥२॥

स्थूलात्स्थुलतरं प्राप्तमतिसूक्ष्ममदर्शनम्‌॥
स्थितं सर्वशरीरेषु साक्षिरूपमदृश्यकम्॥३॥

शरीरवंतं सगुणमशरीरं गुणोत्करम्‌॥
प्रकृतिःप्रकृतीशं च प्राकृतं प्रकृतेः परम्‌॥४॥

सर्वेशं सर्वरूपं चसर्वांतकरमव्ययम्॥
सर्वाधारं निराधारं निर्व्यूहं स्तौमि किं विभुम्॥५॥

अनंतः स्तवनेऽशक्तोऽशक्तादेवी सरस्वती॥
यं वा स्तोतुमशक्तश्च पंचवक्त्रः षडाननः॥६॥

चतुर्मुखो वेदकर्तायंस्तोतुमक्षमः सदा॥
गणेशो न समर्थश्च योगींद्राणां गुरोर्गुरुः॥७॥

ऋषयो देवताश्चैव मुनींद्रमनुमानवाः॥
स्वप्नेतेषामदृश्यं च त्वामेवं किं स्तुवंति ते॥८॥

श्रुतयःस्तवनेऽशक्ताःकिं स्तुवंति विपश्चितः॥
विहायैवं शरीरं च वालो भवितुमर्हसि॥९॥

वसुदेवकृतं स्तोत्रं त्रिसंध्यं यः पठेन्नरः॥
भक्तिं दास्यमवाप्नोति श्रीकृष्णचरणांबुजे॥१०॥

विशिष्टपुत्रं लभते हरिदासं गुणान्वितम्॥

संकटं निस्तरेत्तूर्णं शत्रुभीत्या प्रमुच्यते॥११॥

इति श्रीब्रह्मवैवर्तेमहापुराणे श्रीकृष्णजन्मखंडे वसुदेवकृतं कृष्णस्तोत्रं संपूर्णम्‌॥४०॥

अथ बालकृतकृष्णस्तोत्रारंभः।

श्रीगणेशाय नमः॥

बाला उचुः॥

तथा संरक्षितं ब्रह्मन्सर्वापत्स्वेव नः कुलम्॥
तथा रक्षां कुरुपुनर्दार्वाग्नेर्मधुसूदन॥१॥

त्वमिष्टदेवताऽस्माकं त्वमेव कुलदेवता॥
स्रष्टा पाता च संहर्ता जगतां च जगत्पते॥२॥

वह्निर्वा वरुणो वापि चंद्रो वा सूर्यएवच॥
यमः कुवेरः पवन ईशानाद्याश्च देवताः॥३॥

ब्रह्मेशशेषधर्मेंद्रा मुनींद्रामनवः स्मृताः॥
मानवाश्चतथा दैत्या यक्षराक्षसकिन्नराः॥४॥

ये ये चराचराश्चैवसर्वे तवविभूतयः॥
आविर्भाव स्तिरोभावः सर्वेषां च तवेच्छया॥५॥

अभयं देहि गोविंद वह्निसंहरणं कुर॥
वयं त्वां शरणं यामो रक्ष नः शरणागतान्‌॥६॥

इत्येवमुक्त्वाते सर्वे तस्थुर्ध्यात्वा पदांबुजम्‌॥
दूरीभूतस्तु दावाग्निः श्रीकृष्णामृतदृष्टितः॥७॥

दूरीभूते च दावाग्नौ ननृतुस्ते मुदान्विताः॥
सर्वापदः प्रणश्यंति हरिस्मरणमात्रतः॥८॥

इदंस्तोत्रं महापुण्यं प्रातरुत्थाय यःपठेत्‌॥
वह्नितो न भवेत्तस्य भयं जन्मनिजन्मनि॥९॥

शत्रुग्रस्ते च दावाग्नौ विपत्तौ प्राणसंकटे॥
स्तोत्रमेतत्पठित्वा तु मुच्यते नात्र संशयः॥१०॥

शत्रुसैन्यं क्षयं याति सर्वत्र विजयी भवेत्‌॥
इह लोके हरेर्भक्तिमंतेदास्यं लभेद्ध्रुवम्‌॥११॥

इति श्रीब्रह्मवैवर्तेमहापुराणे श्रीकृष्णजन्मखंडे बालकृतंश्रीकृष्णस्तोत्रं संपूर्णम्‌॥४१॥

अथ श्रीमदच्युताष्टकप्रारंभ।

श्रीगणेशाय नमः॥

अच्युताच्युतहरे परमात्मन्राम कृष्ण पुरुषोत्तम विष्णो॥
वासुदेव भगवन्ननिरुद्ध श्रीपते शमय दुःखमशेषम्॥१॥

विश्वमंगलविभो जगदीश नंदनंदन नृसिंह नरेन्द्र॥
मुक्तिदायकमुकुंद मुरारे श्रीपते शमय दुःखमशेषम्॥२॥

रामचंद्ररघुनायक देव दीननाथदुरितक्षयकारिन्॥
यादवेंद्र यदुभूषण यज्ञ श्रीपते शमय दःखमशेषम्‌॥३॥

देवकीतनय दुःखदवाग्ने राधिकारमण रम्यसुमूर्ते॥
दुःखमोचन दयार्णव नाथ श्रीपते शमय दुःखमशेषम्‌॥४॥

गोपिकावदनचंद्रचकोर नित्य निर्गुण निरंजन जिष्णो॥
पूर्णरूपजयशंकर शर्वश्रीपते शमय दुःखमशेषम्॥५॥

गोकुलेश गिरिधारणधीर यामुनाच्छतटखेलनवीर॥
नारदादिमुनिवंदितपाद श्रीपते शमय दुःखमशेषम्॥६॥

द्वारकाधिप दुरंतगुणाब्धे प्राणनाथ परिपूर्ण भवारे॥
ज्ञानगम्य गुणसागरब्रह्मन् श्रीपते शमय दुःखमशेषम्॥७॥

दुष्टनिर्दलन देव दयालो पद्मनाभ धरणीधरधीमन्‌॥
रावणांतक रमेश मुरारे श्रीपते शमय दुः खमशेषम्‌॥८॥

अच्युताष्टकमिदं रमणीयं निर्मितं भवभयं विनिहंतुम्॥
यः पठेद्विषयवृत्तिनिवृत्तिजेन्मदुःखमखिलंस जहाति॥९॥

इति

श्रीशंक

राचार्यविरचितमच्युताष्टकस्तोत्रंसंपूर्णम्‌॥४२॥

अथ पांडुरंगाष्टकप्रारंभः।

श्रीगणेशाय नमः॥

महायोगपीठे तटे भीमरथ्या वरं पुंडरीकाय दातुं मुनींद्रैः॥
समागत्य तिष्ठंतमा नंदकंदं परब्रह्मलिंगं भजे पांडुरंगम्॥१॥

तडिद्वाससं नीलमेघावभासंरमामंदिरं सुंदरं चित्प्रकाशम्‌॥

वरंत्विष्टिकायां समन्यस्तपादंपरब्रह्मलिंगंभजे पांडुरंगम्‌॥२॥

प्रमाणं भवाब्धेरिदं मामकानां नितंवः कराभ्यां धृतो येन तस्मात्‌॥
विधातुर्वसत्यैधृतो नाभिकोशः परब्रह्मलिंगं भजे पांडुरंगम्॥३॥

स्फुरत्कौस्तुभालंकृतं कंठदेशे श्रिया जुष्टकेयूरकं श्रीनिवासम्‌॥
शिवं शांतमीड्यंवरं लोकपालं परब्रह्मलिंगं भजे पांडुरंगम्‌॥४॥

शरच्चंद्रविंबाननं चारुहासं लसत्कुंडलाक्रांतगंडस्थलांगम्॥
जपारागविंबाधरं कंजनेत्रं परब्रह्मलिंगं भजे पांडुरंगम्॥५॥

किरीटोज्ज्वलत्सर्वदिक्प्रांतभागं सुरैरर्चितं दिव्यरत्नैरनर्घ्यैः॥

त्रिभंगाकृतिं बर्हमाल्यावतंसं परब्रह्मलिंगं भजे पांडुरंगम्॥६॥

विभुंवेणुनादं चरंतं दुरंतं स्वयं लीलया गोपवेषं दधानम्‌॥
गवां वृंदकानंददं चारुहासं परब्रह्मलिंगं भजे पांडुरंगम्॥७॥

अजं रुक्मिणीप्राणसंजीवनं तं परंधाम कैवल्यमेकं तुरीयम्‌॥
प्रसन्नं प्रपन्नार्तिहं देवदेवं परब्रह्मलिंगं भजे पांडुरंगम्‌॥८॥

स्तवं पांडुरंगस्य वैपुण्यदं ये पठंत्येकचित्तेन भक्त्या च नित्यम्‌॥
भवांभोनिधिं तेपि तीर्त्वांऽतकालेहरेरालयं शाश्वतं प्राप्नुवंति॥९॥

इति श्रीमत्परमहंसपरिब्राजकाचार्य श्रीमच्छंकराचार्यविरचितं श्रीपांडुरंगाष्टकंसंपूर्णम्‌॥४३॥

अथ विष्णुस्तवराजप्रारंभः।

श्रीगणेशाय नमः॥

पद्मोवाच॥

योगेन सिद्धविबुधैःपरिभाव्यमानं
लक्ष्म्यालयंतुलसिकाचितभक्तभृंगम्‌॥
प्रोत्तुंगरक्तनखरांगुलिपत्रचित्रं
गंगारसं हरिपदांबुजमाश्रयेऽहम्‌॥१॥

गुम्फन्मणिप्रचयघट्टितराजहंस-
सिंजत्सुनूपुरयुतंपदपद्मवृंतम्‌॥

पीतांवरांचलविलोलचलत्पताकं
स्वर्णत्रिवक्त्रवलयं च हरेः स्मरामि॥२॥

जंघे सुपर्णगलनीलमणिप्रवृद्धे
शोभास्पदारुणमणिद्युतिचंचुमध्ये॥
आरक्तपादतललंव नशोभमाने
लोकेक्षणोत्सवकरे च हरेः स्मरामि॥३॥

ते जानुनी मखपतेर्भुजमूलसंग-
रंगोत्सवावृततडिद्वसने विचित्रे॥
चंचत्पतत्रिमुखनिर्गतसामगीत-
विस्तारितात्मयशसी च हरेः स्मरामि॥४॥

विष्णोः कटिं विधिकृतांतमनोजभूमिं
जीवांडकोशगणसंगदुकूलमध्याम्‌॥
नानागुणप्रकृतिपीतविचित्रवस्त्रां
ध्याये निबद्धवसनांखगपृष्ठसंस्थाम्‌॥५॥

शातोदरंभगवतस्त्रिवलिप्रकाश-
मावर्तनाभिविकसद्विधिजन्मपद्मम्॥
नाडीनदीगणरसोत्थसितांत्रसिंधुं
ध्यायेऽण्डकोशनिलयं तनुलोमरेखम्‌॥६॥

वक्षः पयोधितनयाकुचकुंकुमेन
हारेण कौस्तुभमणिप्रभया विभातम्॥
श्रीवत्सलक्ष्महरिचंदनजप्रसून-
मालांचितं भगवतः सुभगं स्मरामि॥७॥

बाहू सुवेषसदनौवलयांगदांदि-
शोभास्पदौ दुरितदैत्याविनाशदक्षौ॥
तौदक्षिणौभगवतश्चगदासुनाभ-
तेजोर्जितौसुललितौमनसा स्मरामि॥८॥

वामौभुजौ मुररिपोर्धृतपद्मशंखौ
श्यामौकरींद्रकरवन्मणिभूषणाढ्यौ॥
रक्तांगुलिप्रचयचुंवितजानुमध्यौ
पद्मालया प्रियकरौरुचिरौस्मरामि॥९॥

कंठं मृणालममलं मुखपंकजस्य
लेखात्रयेण वनमालिकया निवीतम्‌॥
किंवा विमुक्तिवशमंत्रकसत्फलस्य
वृंतं चिरं भगवतः सुभगं स्मरामि॥१०॥

वक्त्रांबुजंदशनहासविकासरम्यं
रक्ताधरोष्ठवरकोमलवाक्सुधाढ्यम्‌॥
सन्‍मानसोद्भवचलेक्षणपत्रचित्रं
लोकाभिरामममलं चहरेः स्मरामि॥११॥

सूरात्मजावसथगंधविदं सुनासं
भ्रूपल्लवं स्थितिलयोदयकर्मदक्षम्‌॥
कामोत्सवं चकमलाहृदयप्रकाशं
संचिंतयामि हरिवर्णविलासदक्षम्‌॥१२॥

कणौलसन्मकरकुंडलगंडलोलौ
नानादिशां च नभसश्चविकासगेहम्॥

लोलालकप्रचयचुंबनकुंचिताग्रो
लग्नौ हरेर्मणिकिरीटतटे स्मरामि॥१३॥

भालं विचित्रतिलकं प्रियचारुगंध-
गोरोचनारचनया ललनाक्षिसख्यम्‌॥
ब्रह्मैक धाम मणिकांतकिरीटजुष्टं
ध्याये मनोनयनहारकमीश्वरस्य॥१४॥

श्रीवासुदेवचिकुरं कुटिलं निबद्धं
नानासुगंधिकुसमैःस्वजनादरेण॥

दीर्घं रमाहृदयगं शमलंधुनंतं
ध्यायेऽम्बुवाहरुचितं हृदयाब्जमध्ये॥१५॥

मेधाकारं सोमसूर्यप्रकारां
सुभ्रून्नासं शक्रचापैकमानम्‌॥
लोकातीतंपुंडरीकायताक्षं वि-
द्युच्चैलं चाश्रयेऽहं त्वपूर्वम्‌॥१६॥

दीनं हीनं सेवयादैवगत्या-
पापैस्तापैःपूरितं मे शरीरम्॥
लोभाक्रांतं शोकमोहादिविद्धं
कृपादृष्ट्या पाहि मां वासुदेव॥१७॥

ये भक्त्याद्यां ध्यायमानां मनोज्ञां
व्यक्तिं विष्णोः षोडशश्लोकपुष्पैः॥
स्तुत्वा नत्वा पूजयित्वा विधिज्ञाः
शुद्धा मुक्ता ब्रह्मसौख्यं प्रयान्ति॥१८॥

पद्मोरितमिदं पुण्यं शिवेन परिभाषितम्‌॥

धन्यं यशस्यमायुष्यं स्वर्ग्यं स्वस्त्ययनं परम्‌॥१९॥

पठंति ये महाभागास्ते मुच्यंतेंऽहसोऽखिलात्‌॥
धर्म्मार्थकाममोक्षाणां परत्रेह फलप्रदम्॥२०॥

इति श्रीकल्किपुराणेऽनुभागवते भविष्ये पद्माप्रोक्तो विष्णुस्तवराजः संपूर्णः॥४४॥

अथ विष्णुपञ्चरस्तोत्रप्रारंभः।

श्रीगणेशाय नमः॥

ॐअस्य श्रीविष्णुपंजरस्तोत्रमंत्रस्य॥नारद ऋषिः॥ अनुष्टुप्छंदः॥ श्रीविष्णुःपरमात्मा देवता॥ अहं वीजम्‌॥ सोहं शक्तिः॥ॐ ह्रींकीलकम्‌। मम सर्वदेहरक्षणार्थं जपे विनियोगः।
नारदऋषये नमः शिरसि॥ अनुष्टुप्छंदसे नमः मुखे॥ श्रीविष्णुपरमात्मदेववायैनमः हृदये॥ अहंबीजाय नमः गुह्ये॥ सोहंशक्तये नमः पादयोः॥ ॐ ह्रींकीलकाय नमः पादाग्रे॥ ॐ ह्रांह्रींह्रूंह्रौंह्रःइति मंत्रः॥ ॐ ह्रांअंगुष्ठाभ्यां नमः॥ ॐ ह्रींतर्जनीभ्यां नमः॥ ॐ ह्रूं

मध्यमाभ्यां नमः॥ ॐह्रैंअनामिकाभ्यां नमः॥ॐह्रौंकनिष्ठिकाभ्यां नमः॥ ॐ ह्रः करतलकरपृष्ठाभ्यां नमः॥ इति करन्यासः॥

** ॐ ह्रांहृदयाय नमः॥ ॐ ह्रींशिरसे स्वाहा॥ ॐ ह्रूंशिखायै बषट्॥ ॐ ह्रैं कवचाय हुम्॥ ॐ ह्रौं नेत्रत्रयाय बौषट् ॐ ह्रः अस्त्राय फट्‌॥ इति अंगन्यासः॥**

** अहंबीजादिमंत्रत्रयेण प्राणायामं कुर्यात्‌॥**

अथ ध्यानम्‌॥

परं परस्मात्प्रकृतेरनादिमेकंनिविष्टं बहुधागुहायाम्‌॥
सर्वालयं सर्वचराचरस्थं नमामि विष्णुं जगदेकनाथम्‌॥१॥

ॐविष्णुपंजरकं दिव्यं सर्वदुष्टनिवारणम्‌॥
उग्रतेजो महावीर्यं सर्वशत्रुनिकृंतनम्‌॥२॥

त्रिपुरं दहमानस्य हरस्य ब्रह्मणोदितम्‌॥
तदहं संप्रवक्ष्यामि आत्मरक्षाकरं नृणाम्‌॥३॥

पादौरक्षतु गोविंदोजंघेचैव त्रिविक्रमः॥
ऊरू मे केशवः पातु कटिं चैव जनार्दनः॥४॥

नाभिं चैवाच्युतः पातु गुह्यं चैव तु वामनः॥

उदरं पद्मनाभश्चपृष्ठं चैव तु माधवः॥५॥

वामपार्श्वं तथा विष्णुर्दक्षिणं मधुसूदनः॥
बाहू वै वासुदेवश्च हृदि दामोदरस्तथा॥६॥

कंठं रक्षतु वाराहः कृष्णश्च मुखमंडलम्‌॥
माधवः कर्णमूले तु हृषीकेशश्च नासिके॥७॥

नेत्रे नारायणो रक्षेल्ललाटं गरुडध्वजः॥
कपोलौकेशवो रक्षेद्वैकुंठःसर्वतोदिशम्‌॥८॥

श्रीवत्सांकश्चसर्वेषामंगानां रक्षको भवेत्‌॥
पूर्वस्यां पुंडरीकाक्षमाग्नेय्यां श्रीधरस्तथा॥९॥

दक्षिणे नरसिंहश्चनैर्ऋत्यां माधवोऽवतु॥
पुरुषोत्तमो मे वारुण्यां वायव्यां च जनार्दनः॥१०॥

गदाधरस्तु कौवेर्यामीशान्यां पातु केशवः॥
आकाशे च गदापातु पाताले च सदर्शनम्‌॥११॥

सन्नद्धः सर्वगात्रेषु प्रविष्टो विष्णुपंजरः॥
विष्णुपंजरविष्टोऽहं विचरामि महीतले॥१२॥

राजद्वारेऽपथेघोरे संग्रामे शत्रुसंकटे॥
नदीषु चरणे चैब चोरव्याघ्रभयेषु च॥१३॥

डाकिनीप्रेतभूतेषु भयं तस्य न जायते॥
रक्ष रक्ष महादेव रक्ष रक्ष जनेश्वर॥१४॥

रक्षंतु देवताःसर्वाब्रह्मविष्णुमहेश्वराः॥
जले रक्षतु वाराहःस्थले रक्षतु वामनः॥१५॥

अटब्यां नारसिंहश्चसर्वतःपातु केशवः॥
दिवा रक्षतु मां सूर्यो रात्रौरक्षतु चंद्रमाः॥१६॥

पंथानं दुर्गमं रक्षेत्सर्वमेव जनार्दनः॥
रोगविघ्नहतश्चैव ब्रह्महा गुरुतल्पगः॥१७॥

स्त्रीहत्याबालघातीच सुरापी वृषलीपतिः॥
मुच्यते सर्वपापेभ्योयःपठेन्नात्र संशयः॥१८॥

अपुत्रो लभते पुत्रं धनार्थी लभते धनम्‌॥
विद्यार्थी लभते विद्यांमोक्षार्थी लभते गतिम्‌॥१९॥

आपदो हरते नित्यं विष्णुस्तोत्रार्थमंपदा॥
यस्त्विदं पठते स्तोत्रं विष्णुपंजरमुत्तमम्‌॥२०॥

मुच्यते सर्वपापेभ्यो विष्णुलोकंस गच्छति॥
गोसहस्रफलं तस्य वाजपेयशतस्य च॥२१॥

अश्वमेधसहस्रस्यफलं प्राप्नोति मानवः॥

सर्वकामं लभेदस्य पठनान्नात्र संशयः॥२२॥

जले विष्णुःस्थले विष्णुर्विष्णुःपर्वतमस्तके॥
ज्वालामालाकुले विष्णुःसर्वंविष्णुमयं जगत्‌॥२३॥

इति श्रीब्रह्मांडपुराणे इन्द्रनारदसंवादे श्रीविष्णुपंजरस्तोत्रंसंपूर्णम्‌॥४५॥

अथ नारायणस्तोत्रप्रारंभः।

श्रीगणेशाय नमः॥

नारायण नारायण जय गोविंदहरे॥
नारायण नारायण जय गोपाल हरे॥ध्रु०॥
करुणापारावारा वरुणालयगंभीरा नारायण०॥१॥

घननीरदसंकाशा कृतकलिकल्मपनाशा॥
नारायण०॥२॥

यमुनातीरविहारा धृतकौस्तुभमणिहारा॥
नारायण०॥३॥

पीतांबरपरिधाना सुरकल्याणनिधाना॥
नारायण०॥४॥

मंजुलगुंजाभूषा मायामानुषवेषा॥
नारायण०॥५॥

राधाधरमधुरसिका रजनीकरकुलतिलका॥
नारायण०॥६॥

मुरलीगानविनोदा वेदस्तुतभूपादा॥
नारायण०॥७॥

बर्हिनिबर्हापीडा नटनाटकफणिक्रीडा॥
नारायण०॥८॥

वारिजभूषाभरणा राधारुक्मिणिरमणा॥
नारायण०॥९॥

जलरुहदलनिभनेत्रा जगदारंभकसूत्रा॥
नारायण नारायण०॥१०॥

पातकरजनीसंहर करुणालयमामुद्धर॥
नारायण०॥११॥

अघवकक्षय कंसारे केशव कृष्ण मुरारे॥
नारायण०॥१२॥

हाटकनिभपीतांबरअभयं कुरुेममावर॥
नारायण०॥१३॥

दशरथराजकुमारा दानवमदसंहारा॥
नारायण०॥१४॥

गोवर्द्धनगिरिरमणा गोपीमानसहरणा॥
नारायण०॥१५॥

शारयूतीरविहारासज्जनऋषिमंदारा॥
नारायण०॥१६॥

विश्वामित्रमखत्रा विविधपरासुचरित्रा॥
नारयण०॥१७॥

घ्वजवज्रांकुशपादाधरणीसुतसहमोदा॥
नारायण०॥१८॥

जनकसुताप्रतिपाला जय जय संसृतिलीला॥
नारायण०॥१९॥

दशरथवाग्धृतिभारा दंडकवनसंचारा॥
नारायण०॥२०॥

मुष्टिकचाणुरसंहारा मुनिमानसविहारा॥
नारायण०॥२१॥

वालीनिग्रहशौर्या वरसुग्रीवहितार्या॥
नारायण०॥२२॥

मामुरलीकर धीवर पालय पालय श्रीधर॥
नारायण०॥२३॥

जलनिधिवंधनधीरा रावणकंठविहारा॥
नारायण०॥२४॥

ताटीमददलनाढ्या नटगुणविविधधनाढ्या॥
नारायण०॥२५॥

गौतमपत्नीपूजन करुणाघनावलोकन॥
नारायण०॥२६॥

संभ्रमसीताहारा साकेतपुरविहारा॥
नारायण०॥२७॥

अचलोद्धृतिचंचत्कर भक्तानुग्रहतत्पर॥
नारायण०॥२८॥

नैगमगानविनोदा रक्षःसुत प्रह्रादा॥
नारायण०॥२९॥

भारतियतिवरशंकर नामामृतमखिलांतर॥
नारायण नारायण जयगोपालहरे॥३०॥

इति श्रीमच्छंकराचार्यविरचितं नारायणस्तोत्रंसंपूर्णम्‌॥४६॥

अथ शालिग्रामस्तोत्रप्रारंभः।

श्रीगणेशाय नमः॥

अस्य श्रीशालीग्रामस्तोत्रंमंत्रस्य॥

श्रीभगवान् ऋषिः॥ नारायणो देवता॥ अनुष्टुप् छंदः॥
श्रीशालिग्रामस्तोत्रमंत्रजपे विनियोगः॥

युधिष्ठिर उवाच॥

श्रीदेवदेव देवेश देवतार्चनमुत्तमम्‌॥
तत्सर्वं श्रोतुमिच्छामि ब्रूहि मे पुरुषोत्तम॥१॥

श्रीभगवानुवाच॥

गंडक्यां चोत्तरे तीरे गिरिराजस्यदक्षिणे॥
दशयोजनविस्तीर्णामहाक्षेत्रवसुंधरा॥२॥

शालिग्रामोभवेद्देवो देवी द्वारावती भवेत्‌॥
उभयोः संगमोयत्र मुक्तिस्तत्र न संरशयः॥३॥

शालिग्रामशिला यत्र यत्र द्वारावती शिला॥
उभयोः संगमो यत्र मुक्तिस्तत्रन संशयः॥४॥

आजन्मकृतपापानां प्रायश्चित्तं य इच्छति॥
शालिग्रामशिलावारि पापहारि नमोस्तु ते॥५॥

अकालमृत्युहरणं सर्वव्याधिविनाशनम्‌॥
विष्णोः पादोदकं पीत्वा शिरसा धारयाम्यहम्‌॥६॥

शंखमध्ये स्थितं तोयं भ्रामितं केशवोपरि॥
अंगलग्नं मनुष्याणां ब्रह्महत्यादिकं दहेत्‌॥७॥

स्नानोदकंपिबेन्नित्यंचक्रांकितशिलोद्भवम्॥
प्रक्षाल्य इति तत्तोयं ब्रह्महत्यां व्यपोहति॥८॥

अग्निष्टोमसहस्राणि वाजपेयशतानि च॥
सम्यक्‌ फलमवाप्नोति विष्णोर्नैवेद्यभक्षणात्‌॥९॥

नैवेद्ययुक्तां तुलसीं च मिश्रितां विशेषतः पादजलेन विष्णोः॥
योऽश्नाति नित्यं पुरतो मुरारेःप्राप्नोति यज्ञायुतकोटिपुण्यम्‌॥१०॥

खंडिताः स्फुटिता भिन्ना अग्निदग्धास्तथैवच॥
शालिग्रामशिला यत्र तत्र दोषो न विद्यते॥११॥

न मंत्रः पूजनं नैव न तीर्थंनच भावना॥
न स्तुतिर्नोपचारश्च शालिग्रामशिलार्चने॥१२॥

ब्रह्महत्यादिकं पापं मनोवाक्कायसंभवम्‌॥
शीघ्रं नशयति तत्सर्वं शालिग्रामशिलार्चनात्‌॥१३॥

नानावर्णाभयं चैव नानाभोगेन वेष्टितम्‌॥
तथा वरप्रसादेन लक्ष्मीकांतं वदाम्यहम्‌॥१४॥

नारायणोद्भवो देवश्चक्रमध्ये च कर्मणा॥
तथा वरप्रसादेन लक्ष्मीकांतं वदाम्यहम्॥१५॥

कृष्णे शिलातले यत्र सूक्ष्मं चक्रंसुदृश्यते॥
सौभाग्यं संततिं धत्ते सर्वसौख्यं ददाति च॥१६॥

वासुदेवस्य चिह्नानि दृष्ट्वा पापैः प्रमुच्यते॥
श्रीधरस्तु करे वामे हरिवर्णस्तु दृश्यते॥१७॥

वाराहरूपिणं देवं कूर्मांगैरपि चिह्नितम्‌॥
गोपदं तत्र दृश्येतवाराहं वामनं तथा॥१८॥

पीतवर्णस्तु देवानां रक्तवर्णंभयावहम्‌॥
नारसिंहो भवेद्देवो मोक्षदं च प्रकीर्तितम्‌॥१९॥

शंखचक्रगदाकूर्माः शंखो यत्र प्रदृश्यते॥
शंखवर्णस्य देवानां वामे देवस्य लक्षणम्‌॥२०॥

दामोदरं तथास्थूलं मध्ये चक्रंप्रतिष्ठितम्‌॥
पूर्णद्वारेण संकीर्णापीतरेखा च दृश्यते॥२१॥

छत्राकारे भवेद्राज्यं वर्तुले च महाश्रियः॥
चपटे च महद्दुःखं शूलाग्रे तु रणं ध्रुवम्‌॥२२॥

ललाटे शेषभागस्तु शिरोपरिसुकांचनम्‌॥
चक्रकांचनवर्णानां वामदेवस्य लक्षणम्‌॥२३॥

वामपार्श्वे च वैचक्रे कृष्णवर्णस्तु पिंगलम्‌॥
लक्ष्मीनृसिंहदेवानां पृथग्बर्णस्तु दृश्यते॥२४॥

लंबोष्ठे च दरिद्रं स्यात्पिंगले हानिरेव च॥
लग्नचक्रे भवेद्व्याधिर्विदारे मरणंध्रुवम्‌॥२५॥

पादोदकं च निर्माल्यं मस्तके धारयेत्सदा॥
विष्णोर्दृष्टंभक्षितव्यं तुलसीदलमिश्रितम्॥२६॥

कल्पकोटिसहस्राणि वैकुंठे वसते सदा॥
शालिग्रामशिलाबिंदुर्हत्याकोटिविनाशनः॥२७॥

तस्मात्संपूजयेद्ध्यात्वां पूणितं चापि सर्वदा॥
शालिग्रामशिलास्तोत्रं यः पठेच्च द्विजोत्तमः॥२८॥

सगच्छेत्परमं स्थानं यत्र लोकेश्वरो हरिः॥
सर्वपापविनिर्मुक्तोविष्णुलोकंस गच्छति॥२९॥

दशावतारो देवानां पृथग्वर्णस्तु दृश्यते॥
ईप्सितं लभते राज्यं विष्णुपूजामनुक्रमात्‌॥३०॥

कोट्योहि ब्रह्महत्यानामगम्यागम्यकोटयः॥
ताः सर्वा नाशमायांति विष्णुनैवेद्यभक्षणात्‌॥३१॥

विष्णोः पादोदकं पीत्वा कोटिजन्माघनाशनम्‌॥
तस्मादष्टगुणं पापं भूमौविंदुनिपातनात्‌॥३२॥

इति श्रीभविष्योत्तरपुराणे

गडकीशिलामात्म्ये श्रीकृष्णयुधिष्ठरसंवादे शालिग्रामस्तोत्रं संपूर्णम्‌॥४७॥

अथ गोपालस्तोत्रप्रारंभः।

श्रीगणेशाय नमः॥

श्रीनारद उवाच॥

नवीननीरदश्यामं नीलेंदीवरलोचनम्‌॥
बल्लवीनंदन वंदे कृष्णं गोपालरूपिणम्‌॥१॥

स्फुरद्बर्हदलोद्बद्धनीलकुंचितमूर्धजम्‌॥
कदंबकुसुमोद्बद्धवनमालाविभूषितम्‌॥२॥

गंडमंडलसंसर्गिचलत्कुंचितकुंतलम्‌॥
स्थूलमुक्ताफलोदारहारोद्द्योतितवक्षसम्‌॥३॥

हेमांगदतुलाकोटिकिरीटोज्ज्वलविग्रहम्॥

मंदमारुतसंक्षोभचलितांवरसंचयम्‌॥४॥

रुचिरौष्ठपुटन्यस्तवंशीमधुरनिःस्वनैः॥
लसद्गोपालिकाचेतोमोहयंतं पुनः पुनः॥५॥

बल्लवीवदनांभोजमधुपानमधुव्रतम्‌॥
क्षोभयंतं मनस्तासां सस्मेरापांगवीक्षणैः॥६॥

यौवनोद्भिन्नदेहाभिःसंसक्ताभिः परस्परम्॥
विचित्रांबरभूषाभिर्गोपनारीभिरावृतम्‌॥७॥

प्रभिन्नांजनकालिंदीजलकेलिकलोत्सुकम्‌॥
योधयं तं क्वचिद्गोपान् व्याहरंतं गवां गणम्‌॥८॥

कालिंदीजलसंसर्गिशीतलानिलसेविते॥
कदंबपादपच्छाये स्थितं वृंदावने क्वचित्‌॥९॥

रत्नभूधरसंल्लग्नरत्नासनपरिग्रहम्‌॥
कल्पपादपमध्यस्थहेममंडपिकागतम्॥१०॥

बसंतकुसुमामोदसुरभीकृतदिङ्मुखे॥
गोवर्धनगिरौरम्ये स्थितं रासरसोत्सुकम्॥११॥

सव्यहस्ततलन्यस्तगिरिवर्यातपत्रकम्॥

खंडिताखंडलोन्मुक्तमुक्तासारघनाघनम्‌॥१२॥

वेणुवाद्यमहोल्लासकृतहुंकारनिःस्वनैः॥
सरसैरुन्मुखैःशश्वद्गोकुलैरभिवीक्षितम्॥१३॥

कृष्णमेवानुगायद्भिस्तच्चेष्टावशवर्तिभिः॥
दंडपाशोद्यतकरैर्गोपालैरुपशोभितम्‌॥१४॥

नारदाद्यैर्मुनिश्रेष्ठैर्वेदवेदांगपारगैः॥
प्रीतिसुस्निग्धया वाचा स्तूयमानं परात्परम्॥१५॥

य एनं चिंतयेद्देवं भक्त्या संस्तौतिमानवः॥
त्रिसंध्यं तस्यतुष्टोऽसौददाति वरमीप्सितम्॥१६॥

राजवल्लभतामेति भवेत्सर्वजनप्रियः॥
अचलां श्रियमाप्नोति स वाग्मी जायतेध्रुवम्॥१७॥

इति श्रीनारदपंचरात्रे ज्ञानामृतसारे गोपालस्तोत्रं समाप्तम्‌॥४८॥

अथ श्रीकृष्णस्तव्राजप्रारंभः।

श्रीगणेशायः नम॥

श्रीमहादेव उवाच॥

शृणु देवि प्रवक्ष्यामि स्तोत्रं परमदुर्लभम्॥
यज्ज्ञात्वा न पुनर्गच्छेन्नरो निरययातनाम्‌॥१॥

नारदाय च यत्प्रोक्तंब्रह्मपुत्रेण धीमता॥
सनत्कुमारेण पुरा योगींद्रगुरुवर्त्मना॥२॥

** श्रीनारद उवाच॥**

प्रसीद भगवन्मह्यमज्ञानात्कुण्ठितात्मने॥
तवांघ्रिपंकजरजोरागिणींभक्तिमुत्तमाम्‌॥३॥

अज प्रसिद्ध भगवन्नमितद्युतिपंजर॥
अप्रमेय प्रसीदास्मद्दुःखहन्पुरुषोत्तम॥४॥

स्वसंवेद्य प्रसीदास्मदानंदात्मन्ननामय॥
आचन्त्यसार विश्वात्मन्प्रसीद परमेश्वर॥५॥

प्रसीद तुंगतुंगानांप्रसीद शिव शोभेन॥

प्रसीद गुणगंभीर गंभीराणां महाद्युते॥६॥

प्रसीद व्यक्तविस्तीर्णविस्तीर्णानामगोचर॥
प्रसीदार्द्रार्द्रजातीनां प्रसीदान्तान्तदायिनाम्‌॥७॥

गुरोर्गरीयःसर्वेश प्रसीदानंत देहिनाम्‌॥
जय माधव मायात्मन् जयशाश्वत शंखभृत्‌॥८॥

जय शंखधर श्रीमन्जय नंदक नंदन॥
जय चक्रगदापाणे जय देव जनार्दन॥९॥

जय रत्नवराबद्धकिरीटाक्रांतमस्तक॥
जय पक्षिपतिच्छायानिरुद्धार्ककरारुण॥१०॥

नमस्ते नरकाराते नमस्ते मधुसूदन॥
नमस्ते ललितापांग नमस्ते नरकांतक॥११॥

नमःपापहरेशान नमः सर्वभयापह॥
नमः संभूतसर्वात्मन्नमः संभृतकौस्तुभ॥१२॥

नमस्ते नयनातीत नमस्ते भयहारक॥
नमो विभिन्नवेषाय नमः श्रुतिपथातिग॥१३॥

नमस्त्रिमूर्तिभेदेन सर्गस्थित्यंतहेतवे॥
विष्णवे त्रिदशारातिजिष्णवे परमात्मने॥१४॥

चक्राभिन्नारिक्रायचचक्रिणे चक्रवल्लभ॥
विश्वाय विश्ववंद्यायविश्वभूतानुचर्तिने॥१५॥

नमोऽस्तु योगिध्येयात्मन्नमोस्त्वध्यात्मरूपिणे॥
भक्तिप्रदाय भक्तानां नमस्ते भक्तिदायिने॥१६॥

पूजनं हवनंचेज्या ध्यानं पश्चान्नमस्क्रिया॥
देवेश कर्मसर्वंमे भवेदाराधनंतव॥१७॥

इति हबनजपार्चाभदतोविष्णुपूजा-
नियतहृदयकर्मायस्तु मन्त्री चिराय॥

स खलु सकलकामान् प्राप्य कृष्णांतरात्मा
जननमृतिविमुक्तोऽत्युत्तमां भक्तिमेति॥१८॥

गोगोपगोपिकावीतं गोपालं गोषु गोप्रदम्॥
गोपैरीड्यंगोसहस्रैर्नौमि गोकुलनायकम्॥१९॥

प्रीणयेदनया स्तुत्या जगन्नाथंजगन्मयम्॥
घर्मार्थकाममोक्षाणामाप्तये पुरुषोत्तमम्॥२०॥

इति श्रीनारदपंचरात्रे ज्ञानामृतसारेश्रीकृष्णस्तवराजः संपूर्णः॥४९॥

अथ त्रैलोक्यमंगलकवचप्रारंभः।

श्रीगणेशाय नमः॥

नारद उवाच॥

भगवन्त्सर्वधर्गज्ञ कवचं यत्प्रकाशितम्॥

त्रैलोक्यमंगलं नाम कृपया कथय प्रभो॥१॥

सनत्कुमार उवाच॥

शृणु वक्ष्यामि विप्रेंद्रकवचं परमाद्भुतम्‌॥
नारायणेन कथितं कृपया ब्रह्मणे पुरा॥२॥

ब्रह्मणा कथितं मह्यं परं स्नेहाद्वदामि ते॥
आतिगुह्यतरं तत्त्वं ब्रह्ममंत्रौघविग्रहम्॥३॥

यद्धृत्वा पठनाद्ब्रह्मासृष्टिं वितनुते ध्रुवम्॥
यद्धृत्वा पठनात्पाति महालक्ष्मीर्जगत्त्रयम्॥४॥

पठनाद्धारणाच्छंभुःसंहर्ता सर्वमंत्रवित्‌॥
त्रैलोक्यजननी दुर्गा महिषादिमहासुरान्॥५॥

वरदृप्ताञ्जघानैव पठनाद्धारणाद्यतः॥
एवमिंद्रादयःसर्वेसर्वैश्वर्यमवाप्नुयुः॥६॥

इदं कवचमत्यंतगुप्तं कुत्रापि नो वदेत्॥
शिष्याय भक्तियुक्ताय साधकाय प्रकाशयेत्‌॥७॥

शठाय परशिष्यायदत्वा मृत्यमवाप्नुयात्॥
त्रैलाक्येमंगलस्यास्य कवचस्य प्रजापतिः॥८॥

ऋषिश्छंदश्च गायत्री देवोनारायणः स्वयम्‌॥
धर्मार्थकाममोक्षेषु विनियोगः प्रकीर्तितः॥९॥

प्रणवो मे शिरः पातु नमो नारा

यणाय च॥

भालं मे नेत्रयुगुलमष्टाणौभुक्तिमुक्तिदः१०॥

क्लींपायाच्छ्रोत्रयुग्मंचैकाक्षरःसर्वमोहनः॥
क्लीं कृष्णाय सदा घ्राणं गोविंदायेति जिह्विकाम्॥११॥

गोपीजनपदवल्लभाय स्वाहाननं मम॥
अष्टादशाक्षरो मंत्रःकंठं पातु दशाक्षरः॥१२॥

गोपीजनपदवल्लभाय स्वाहा भुजद्वयम्‌॥
क्लीं ग्लौं क्लीं श्यामलांगाय नमःस्कंधौदशाक्षरः॥१३॥

क्लीं कृष्णः क्लीं करौपायात्‌ क्लीं कृष्णायांगतोऽवतु॥
हृदयं भुवनेशानःक्लींकृष्णाय क्लीं स्तनौमम॥१४॥

गोपालायाग्निजायांतं कुक्षियुग्मं सदाऽवतु॥
क्लीं कृष्णाय सदा पातु पार्श्वयुग्ममनुत्तमः॥१५॥

कृष्णगोविंदकौपातु स्मराद्योङेयुतोमनुः॥
अष्टाक्षरःपातु नाभिं कृष्णेतिद्व्यक्षरोऽवतु॥१६॥

पृष्ठं क्लीं कृष्णकं गल्लं क्लीं कृष्णाय द्विठान्तकः॥
सक्थिनीसततंपातु श्रीं ह्रींक्लीं कृष्णठद्बयम्॥१७॥

ऊरू सप्ताक्षरः पायात् त्रयोदशाक्षरोऽवतु॥

श्रीं ह्रीं

क्लीं पदतोगोपीजनवल्लभदन्ततः॥१८॥

भायस्वाहेतिपायुं वैक्लीं ह्रीं श्रीं स दशार्णकः॥
जानुनी च सदा पातुह्रीं श्रीं क्लीं च दशाक्षरः॥१९॥

त्रयोदशाक्षरः पातु जंघे चक्राद्युदायुधः॥
अष्टादशाक्षरो ह्रीं श्रींपूर्वको विंशदर्णकः॥२०॥

सर्वांगंमे सदा पातु द्वारकानायको बली॥
नमो भगवते पश्चाद्वासुदेवाय तत्परम्‌॥२१॥

ताराद्यो द्वादशार्णोऽयं प्राच्यां मां सर्वदावतु॥
श्रीं ह्रीं क्लींच दशार्णस्तु क्लीं ह्रीं श्रीं षोडशार्णकः॥२२॥

गदाद्युदायुधो विष्णुर्मामग्नेर्दिशि रक्षतु॥
ह्रीं श्रीं दशाक्षरो मंत्रोदक्षिणे मां सदावतु॥२३॥

तारो नमो भगवते रुक्मिणीवल्लभायच॥
स्वाहेति षोडशार्णोयं नैर्ऋत्यां दिशि रक्षतु॥२४॥

क्लीं हृषीकेषदेशाय नमो वां दारुणोऽवतु॥

अष्टादशार्णः कामान्तो वायव्ये मां सदावतु॥२५॥

श्रीं मायाकामकृष्णाय गोविंदाय द्विठोमनुः॥
द्वादशार्णात्मको विष्णुरुत्तरेमां सदावतु॥२६॥

वाग्भयं कामकृष्णाय ह्रीं गोविंदाय तत्परम्‌॥

श्रीं गोपीजनवल्लभांतेभाय स्वाहा हस्तौ ततः॥२७॥

द्वाविंशत्यक्षरोमंत्रो मामैशान्ये सदावतु॥
कालियस्य फणामध्ये दिव्यं नृत्यं करोति तम्‌॥२८॥

नमामिदेवकीपुत्रं नृत्यराजानमच्युतम्‌॥
द्वात्रिंशदक्षरोमंत्रोऽप्यघो मां सर्वदावतु॥२९॥

कामदेवाय विद्महे पुष्पवाणाय धीमहि॥
तन्नोऽनंगः प्रचोदयादेषा मांपातु चोर्ध्वतः॥३०॥

इति ते कथितं विप्र ब्रह्ममंत्रोधविग्रहम्॥
त्रैलोक्यमंगलं नाम कवचं ब्रह्मरूपकम्॥३१॥

ब्रह्मणा कथितं पूर्वं नारयणमुखाच्च्युतम्‌॥
तव स्नेहान्मयाऽऽख्यातं प्रवक्तव्यं न कस्याचित्‌॥३२॥

गुरुंप्रणम्य विधिवत्कवचं प्रपठेत्ततः॥
सकृद्द्विस्त्रिर्यथाज्ञानं सहि सर्वतपोमयः॥३३॥

मंत्रेष सकलेष्वेव देशिको नात्र संशयः॥
शतमष्टोत्तरं चास्य पुरश्चर्याविधिः स्मृतः॥३४॥

हवनादिदशांशेन

कृत्वा तत्साधयेत्स्वयम्॥
यदि स्यात्‌ सिद्धकवचो विष्णुरेव भवेत्‌ स्वयम्‌॥३५॥

मंत्रासिद्धिर्भवेत्तस्य पुरश्चर्याविधानतः॥
स्पर्धामुद्भूय सततं लक्ष्मीर्वाणीं वसेत्ततः॥२६॥

पुष्पांजल्यष्टकंदत्त्वा मूलेनैव पठेत्सकृत॥
दशवर्षसहस्राणि पूजायाः फलमाप्नुयात्‌॥३७॥

भूर्जेविलिख्य गुलिकां स्वर्णस्थां धारयेद्यदि॥
कंठे वा दक्षिणे बाहौसोऽपि विष्णुर्न संशयः॥३८॥

अश्वमेधसहस्राणि वाजपेयशतानि च॥
महादानानि यान्येव प्रादक्षिण्यं भुवस्तथा॥३९॥

कलां नार्हंति तान्येव सकृदुच्चारणात्ततः॥
कवचस्य प्रसादेन जीवन्मुक्तो भवेन्नरः॥४०॥

त्रैलोक्यं क्षोभयत्येव त्रैलोक्यविजयी भवेत्‌॥
इदं कवचमज्ञात्वा यजेद्यः पुरुषोत्तमम्‌॥
शतलक्षप्रजप्तोऽपि न मंत्रस्तस्य सिध्यति॥४१॥

इति श्रीनारदपंचरात्रे ज्ञानामृतसारे त्रैलोक्यमंगलं नाम कवचं संपूर्णम्‌॥५०॥

अथ कृष्णाष्टकप्रारंभः।

श्रीगणेशाय नमः॥

श्रीयाश्लिष्टो विष्णुः स्थिरचरगुरुर्वेदविषयो
धियां साक्षी शुद्धो हरिसुरहंताब्जनयनः॥
गदी शंखी चक्री विमलवनमारी स्थिररुचिः
शरण्यो लोकेशो मम भवतु कृष्णोऽक्षिविषयः॥३॥

यतः सर्वं जातं वियदनिलमु

ख्यं जगदिदं

स्थितौ निःशेषं योऽवति निजमुखांशेन मधुहा॥
लये सर्वंस्वस्मिन्‌ हरति कलया यस्तु स विभुः
शरण्यो लोकेशो मम भवतु कृष्णोक्षिविषयः॥२॥

असूनायम्यादौयमनियममुख्यः सुकरणैः

निरुध्येदं चित्तं हृदि विलयमानीय सकलम्‌॥
यमीड्यं पश्यंति प्रवरमतयो पायिनमसौ
शरण्यो लोकेशो मम०॥३॥

पृथिव्यांतिष्ठन्यो यमयति महीं वेदन धरा
यमित्यादौ वेदो वदति जगतामीशममलम्‌॥
नियंतारं ध्येयं मुनिसुरनृणां मोक्षदमसौ
शरण्योलोकेशोमम०॥४॥

महेंद्रादिर्देवो जयतिदितिजान्‌ यस्य बलतो

न कस्य स्वातत्र्यं क्वचिदपि कृतौ यत्कृतिमृते॥
कवित्वादेर्गर्वंपरिहरति योसौ विजयिनः
शरण्योलोकेशोमम०॥५॥

विना यस्य ध्यानं व्रजतिपशुतांसूकरमुखां
विना यस्य ज्ञानं जनिमृतिभयं याति जनता॥
विना यस्य स्मृत्या कृमिशतजनिं याति स विभुः
शरण्यो लोकेशोमम०॥६॥

नरातंकोत्तंकःशरणशरणो भ्रांति हरणो
घनश्यामोवामो व्रजशिशुवयस्योऽर्जुनसखः॥
स्वयंभूर्भूतानां जनक उचिताचारसुखदः
शरण्यो लोकेशो मम०॥७॥

यदा धर्मग्लानिर्भवति जगतां क्षोभकरणी
तदालोकस्वामी प्रकटितवपुः सेतुधृगजः॥
सतां धाता स्वच्छोनिगमगुणगीतो ब्रजपतिः
शरण्यो लोकेशोम०॥८॥

इति हाररखिलात्माराधितः शंकरेण
श्रुतिविशदगुणोऽसौमातृमोक्षार्थमाद्यः॥

यतिवरनिकटे श्रीयुक्त आविर्बभूव
स्वगुणवृत उदारः शंखचक्राब्जहस्तः॥९॥

इति श्रीमच्छंकराचायविराचितंकृष्णाष्टकंसंपूर्णण्‌ ५१॥

अथ जगन्नाथाष्टकप्रारंभः।

** श्रीगणेशाय नमः॥**

कदाचित्कालिंदीतटबिपिनसंगीतकवरो-
मुदाभीरीनारीवदनकमलास्वादमधुपः॥
रमाशंभुब्रह्मामरपतिगणेशार्चितपदो-

जगन्नाथस्स्वामी नयनपथगामीभवतु मे॥१॥

भुजे सव्येवेणुंशिरसि शिखिपिच्छंकटितटे
दुकूलं नेत्रांते सहचरकटाक्षं विदधते॥
सदा श्रीमद्वृन्दावनवसति लीलापरिचयो
जगन्नाथर्स्वामी०॥२॥

महांभोधेस्तीरे कनकरुचिरे नीलशिखरे
वसन्प्रासादांतःसहजबलभद्रेण बलिना॥
सुभद्रामध्यस्थस्सकलसुरसेवावसरदो
जगन्नाथः स्वामी०॥३॥

कथापारावारः सजलजलदश्रेणिरुचिरो
रमावाणीरामस्फुरदमलपद्मेक्षणमुखैः॥
सुरेंद्रैराराध्यः श्रुतिगणशिखागीतचरितो
जगन्नाथस्स्वामी०॥४॥

रथारूढो गच्छन्पथि मिलितभूदेवपटलैः

स्तुतिप्रादुर्भावंप्रतिपदमुपाकर्ण्यसदयः॥
दयासिंधुर्बंधुःसकलजगतां सिंधुसुतया
जगन्नाथस्स्वामी०॥५॥

परब्रह्मापीडः कुवलयदलोत्फुल्लनयनो
निवासी नीलाद्रौ निहितचरणोऽनन्तशिरसि॥
रसानंदो राधासरसवपुरालिंगनसुखो
जगन्नाथस्स्वा०॥६॥

नवै प्रार्थ्यं राज्यं न च कनकतां भोगविभवं
न याचेऽहं रम्यांनिखिलजनकाम्यां वरवधूम्॥
सदा काले कालेप्रमथपतिना गीतचरितो
जगन्नाथस्स्वामी०॥७॥

हर त्वं संसारं द्रुततरमसारं सुरपते
हर त्वं पापानां विततिमपरां यादवपते॥
अहो दीनानाथं निहितमचलं निश्चितपदं
जगन्नाथस्स्वामीनयनपथगामी भवतु मे॥८॥

इति श्रीजगन्नाथाष्टकंसंपूर्णम्॥५२॥

अथ मोहिनीकृतश्रीकृष्णस्तोत्रम्।

श्रीगणेशाय नमः॥

मोहिन्युवाच॥

सर्वेद्रियाणां प्रवरं विष्णोरंशं च मानसम्‌॥

तदेवं कर्मणां बीजंतदुद्भव नमोऽस्तुते॥१॥

स्वयमात्मा हि भगवान्‌ ज्ञानरूपो महेश्वरः॥
नमो ब्रह्मन्जगत्स्रष्टस्तदुद्भव नमोऽस्तु ते॥२॥

सर्वाजित जगज्जेतर्जीवजीव मनोहर॥
रतिबीज रतिस्वामिन्रतिप्रिय नमोऽस्तु ते॥३॥

शश्वद्योषिदधिष्ठान योषित्प्राणाधिकप्रिय॥
योषिद्वाहन योषास्त्र योषिद्बंधो नमोऽस्तुते॥४॥

पतिसाध्यकराशेषरूपाधार गुणाश्रय॥
सुगंधिवातसचिव मधुमित्र नमोऽस्तु ते॥ ५॥

शश्वद्योनिकृताधार स्त्रीसंदर्शनवर्धन॥
विदग्धानांविरहिणां प्राणांतक नमोस्तु ते॥६॥

अकृपायेषु तेऽनर्थं तेषां ज्ञानविनाशनम्॥
अनूहरूपभक्तेषु कृपासिंधो नमोऽस्तु ते॥७॥

तपस्विनां च तपसां विध्नबीजावलीलया॥
मनः सकामं मुक्तानां कर्तुं शक्त नमोऽस्तु ते॥८॥

तपः साध्यास्तथाराध्याः सदैवं पांचभौतिकाः॥
पंचेंद्रियकृताधार पंचबाणनमोऽस्तु ते॥९॥

मोहिनीत्येवमुक्त्वा तु मनसासा विधेःपुरः॥
विरराम नम्रवक्त्राबभूव ध्यानतत्परा॥१०॥

उक्तं मध्यंदिनं कांतेस्तोत्रमेतन्मनोहरम्॥
पुरादुर्वाससा दत्तं मोहिन्यैगंधमादने॥११॥

स्तोत्रमेतन्महापुण्यं कामी भक्त्या यदापठेत्‌॥
अभीष्टं लभते नूनंनिष्कलंको भवेद्ध्रुवम्‌॥१२॥

चेष्टांन कुरुते कामः कदाचिदपि तंप्रियम्॥
भवेदरोगी श्रीयुक्तः कामदेवसमप्रभः॥
वनितां लभते साध्वींपत्नीं त्रैलोक्यमोहिनीम्॥१३॥

इति श्रीमोहिनीकृतं कृष्णस्तोत्रं समाप्तम्‌॥५३॥

अथ ब्रह्मदेवकृतकृष्णस्तोत्रप्रारंभः।

श्रीगणेशाय नमः॥

ब्रह्मोवाच॥

रक्ष रक्ष हरे मां च निमग्नं कामसागरे॥
दुष्कीर्तिजलपूर्णे च दुष्पारे बहुसंकटे॥१॥

भक्तिविस्मृतिबीजे च विपत्सोपानदुस्तरे॥
अतीव निर्मलज्ञानचक्षुःप्रच्छन्नकारणे॥२॥

जन्मोर्मिसंगसहिते योषिन्नक्रौधसंकुले॥
रतिस्रोतःसमायुक्तेगंभीरे घोर एवच॥३॥

प्रथमामृतरूपे च परिणामविषालये॥
यमालयप्रवेशाय मुक्तिद्वारातिविस्मृते॥४॥

बुद्ध्या तरण्या विज्ञानेरुद्धरास्मानतः स्वयम्॥
स्वयं च त्वं कर्णदारः प्रसीद मधुसूदन॥५॥

मद्विधाःकतिचिन्नाथ नियोज्या भवकर्मणि॥
संति विश्वेशविधयोहे विश्वेश्वर माधव॥६॥

न कर्मक्षेत्रमेवेदं ब्रह्मलोकोयमीप्सितः॥
तशपि नः स्पृहा कामे त्वद्भक्तिव्यवधायके॥७॥

हे नाथ करुणासिंधो दीनवंधो कृपांकुरु॥
त्वं महेश महाज्ञाता दुःस्वप्नं मां न दर्शय॥८॥

इत्युक्वाजगतां धाता विरराम सनातनः॥
ध्यायंघ्यायं मत्पदाब्जं शश्वत्सस्मारमामिति॥९॥

ब्रह्मणा च कृतं स्तोत्रं भक्तियुक्तश्च यःपठेत्॥
स चैवाकर्णविषये न निमग्नोभवेद्ध्रुवम्॥१०॥

मममायां विनिर्जित्य स ज्ञानं लभते ध्रुवम्‌॥
इह लोके भक्तियुक्तो मद्भक्तप्रवरोभवेत्‌॥११॥

इति श्रीब्रह्मदेवकृतं कृष्णस्तोत्रं संपूर्णम्॥५४॥

अथ श्रीकृष्णस्तोत्रप्रारंभः।

वंदे नवघनश्यामं पीतकौशेयवाससम्॥
सानंदं सुंदरंशुद्धं श्रीकृष्णं प्रकृतेः परम्‌॥१॥

राधेशं राधिकाप्राणवल्लभं बल्लवीसुतम्॥
राधासेवितपादाब्जं राधावक्षःस्थलस्थितम्‌॥२॥

राधानुगं राधिकेष्टं राधापहृतमानसम्‌॥
राधाधारं भवाधारं सर्वाधारं नमामि तम्‌॥३॥

राधाहृत्पद्ममध्ये च वसंतं संततंशुभम्‌॥
राधासहचरं शश्वद्राधाज्ञापरिपालकम्‌॥४॥

ध्यायंतं योगिनो योगात्‌ सिद्धाः सिद्धेश्वराश्च यम्‌॥
तंध्याये सततं शुद्धं भगवंतं सनातनम्‌॥५॥

सेवंते सततं संतो ब्रह्मशशेषसंज्ञकाः॥
सेवंते निर्गुणं ब्रह्म भगवंतं सनातनम्‌॥६॥

निर्लिप्तं च निरीहं च परमात्मानमीश्वरम्‌॥
नित्यं सत्यं च परमं भगवंतं सनातनम्‌॥७॥

यंसृष्टेरादिभूतं च सर्वबीजं परात्परम्‌॥
योगिनस्तं प्रपद्यंते भगवंतं सनातनम्॥८॥

बीजं नानावताराणां सर्वकारणकारणम्‌॥

वेदावेद्यंवेदबीजं वेदकारणकारणम्॥
योगिनस्तं प्रपद्यंते भगवंतं सनातनम्‌॥९॥

इत्येवमुक्त्वा गंधर्वःपपात धरणीतले॥
ननाम दंडवद्भूमौदेवदेवं परात्परम्॥१०॥

इति तेन कृतं स्तोत्रंयः पठेत्प्रयतःशुचिः॥
इहैव जीवन्मुक्तश्चपरंयाति परां गतिम्‌॥११॥

हरिभक्तिं हरेर्दास्यं गोलोके च निरामयः॥
पार्षदप्रवरत्वं च लभते नात्र संशयः॥१२॥

इति श्रीनारदपंचरात्रे ज्ञानामृतसारे श्रीकृष्णस्तोत्रं संपूर्णम्॥५५॥

अथाच्युताष्टकंप्रारभ्यते।

श्रीगणेशाय नमः॥

अच्युतं केशवं रामनारायणं कृष्णदामोदरं वासुदेवं हरिम्‌॥
श्रीधरं माधवं गोपिकावल्लभं जानकीनायकं रामचंद्रं भजे॥१॥

अच्युतंकेशवं सत्यभामाधवं माधवं श्रीधरं राधिकाऽऽराधितम्‌॥
इंदिरामंदिरं चेतसा सुंदरं देवकीनंदनं नंदनं संदधे॥२॥

विष्णवे जिष्णवे शंखिने चक्रिणे रुक्मिणीरागिणे जानकीजानये॥

बल्लवावल्लभायार्चितायात्मने कंसविध्वंसिने वंशिने ते नमः॥३॥

कृष्ण गोबिंद हे राम नारायण श्रीपते वासुदेवाजित श्रीनिधे॥
अच्युतानंत हे माधवाधोक्षजद्वारकानायक द्रौपदीरक्षक॥४॥

राक्षसक्षोभितः सीतया शोभितो दंडकारण्यभूपुण्यताकारणम्॥

लक्ष्मणेनान्वितोवानरैःसेवितोऽगस्त्यसंपूजितोराघवःपातु माम्॥५॥

धेनुकारिष्टकोनिष्टकृद्देषिणांकेशिहाकंसहृद्वंशिकावादकः॥
पूतनाकोपकः सूरजाखेलनोबालगोपालकःपातु मां सर्वदा॥६॥

विद्युदुद्योतवान्प्रस्फुरद्वाससं प्रावृडंभोदवत्प्रोल्लसद्विग्रहम्॥
वन्ययामालया शोभितोरःस्थलं लोहितांघ्रिद्वयं वारिजक्षंभजे॥७॥

कुंचितैःकुंतलैर्भ्राजमानाननं रत्नमौलिंलसत्कुंडलं गंडयोः॥
हारकेयुरकं कंकणप्रोज्ज्वलं किंकिणीमंजुलं श्यामलं तं भजे॥८॥

अच्युतस्याष्टकं यःपठेदिष्टदं प्रेमतःप्रत्यहं पुरुषःसस्पृहम्॥

वृत्ततःसुंदरं कर्तृविश्वंभरं तस्य वश्यो हरिर्जायते सत्वरम्‌॥९॥

इति श्रीशंकेरायार्चविरचितं अच्युताष्टकं संपूर्णम्‌॥५६॥

श्रीकृष्णाष्टोत्तरशतनामस्तोत्रम्‌।

** श्रीगणेशाय नमः॥**

अस्य श्रीकृष्णाष्टोत्तरशतनाम्नःश्रीशेषऋषिः॥
अनुष्टप्छंद॥

श्रीकृष्णो देवता॥

श्रीकृष्णप्रीत्यर्थे श्रीकृष्णाष्टोत्तरशतनामजपे०॥

शेषउ०॥

श्रीकृष्णःकमलानाथो वासुदेवःसनातन॥

वासुदेवात्मजःपुण्यो लीलामानुषविग्रहः॥१॥

श्रीवत्सकौस्तुभधरो यशोदावत्सलो हरिः॥

चतुर्भुजात्तचक्रासिगदाशंखाद्युदायुधः॥२॥

देवकीनंदनः श्रीशो नंदगोपप्रियात्मजः॥
यमुनवेगसंहारी बलभद्रप्रियानुजः॥३॥

पूतनाजीवितहरः शकटासुरभंजनः॥
नंदब्रजजनानंदी सच्चिदानंदविग्रहः॥४॥

नवनीतनवाहारी मुचुकुंदप्रसादकः॥
षोडशस्त्रोसहस्रेशस्त्रीभंगो मधुराकृतिः॥५॥

शुकवागमृताब्धोन्दुर्गोविंदो गोविदांपतिः॥
वत्सपालनसंचारी धेनुकासुरभंजनः॥६॥

तृणीकृततृणावर्तो यमलार्जुनभंजनः॥
उत्तालतालभेत्ता च तमालश्यामलाकृतिः॥७॥

गोपगोपीश्वरो योगी सूर्यकोटिसमप्रभः॥
इलापतिः परंज्योतिर्यादवेंद्रोयदूद्वहः॥८॥

वनमाली पीतवासाः पारिजातापहारकः॥
गोवर्द्धनाचलोद्धर्त्तागोपालः सर्वपालकः॥९॥

अजो निरंजनः कामजनकः कंजलोचनः॥
मधुहामथुरानाथो द्वरकानायकोबली॥१०॥

वृंदावनान्तसंचारी तुलसीदामभूषणः॥
स्यमंतकमणेर्हर्तानरनारायणात्मकः॥११॥

कुब्जाकृष्णांवरधरोमायी परमपूरुषः॥
मुष्टिकासुरचाणूरमहायुद्धविशारदः॥१२॥

संसारवैरी कंसारिर्मुरारिर्नरकांतकः॥
अनादिर्ब्रह्मचारी च कृष्णाव्यसनकृर्षकः॥१२॥

शिशुपालशिरश्छेत्ता दुर्योधनकुलांतकृत्‌॥
विदुराक्रूरवरदोविश्वरूपप्रदर्शकः॥१४॥

सत्यवाक्सत्यसंकल्पः सत्यभामारतो जयी॥
सुभद्रापूर्वजो विष्णुर्भीष्ममुक्तिप्रदायकः॥१५॥

जगद्गुरुर्जगन्नाथो वेणुवाद्यविशारदः॥
वृषभासुरविध्वंसी बाणासुरबलांतकृत्‌॥१६॥

युधिष्ठिरप्रतिष्ठाता बर्हिवर्हावतंसकः॥

पार्थसारथिरव्यक्तो गोतामृतमहोदधिः॥१७॥

कालीयफणिमाणिक्यरंजित श्रीपदांबुजः॥
दामोदरो यज्ञभोक्ता दानवेंद्रविनाशनः॥१८॥

नारायणः परब्रह्म पन्नगाशनवाहनः॥
जलक्रीडासमासक्तगोपीवस्त्रापहारकः॥१९॥

पुण्यश्लोकस्तीर्थकरोवेदवेद्यो दयानिधिः॥

सर्वतीर्थात्मकः सर्वग्रहरूपी परात्परः॥२०॥

इत्येवं कृष्णदेवस्य नाम्नामष्टोत्तरं शतम्‌॥
कृष्णेन कृष्णभक्तेन श्रुत्वा गीतामृतं पुरा॥२१॥

स्तोत्रं कृष्णप्रियकरं कृतं तस्मान्मया पुरा॥
कृष्णनामामृतं नामपरमानंददायकम्‌॥२२॥

अनुपद्रवदुःखघ्नंपरमायुष्यवर्धनम्‌॥
दानं श्रुतं तपस्तीर्थं यत्कृतंत्विह जन्मनि॥२३॥

पठतां शृण्वतां चेैव कोटिकोटिगुणं भवेत्‌॥
पुत्रप्रदमपुत्राणामगतीनां गति प्रदम्‌॥२४॥

घनावहं दरिद्राणां जयेच्छूनां जयावहम्‌॥
शिशूनां गोकुलानां च पुष्टिदं पुष्टिवर्धनम्‌॥२५॥

वातग्रहज्वरादीनां शमनं शांतिमुक्तिदम्‌॥
समस्तकामदं सद्यः कोटिजन्माघनाशनम्‌॥२६॥

अन्ते कृष्णस्मरणदं भवतापभयापहम्‌॥
कृष्णाय यादवेंद्राय ज्ञानमुद्राय योगिने॥
नाथाय रुक्मिणीशाय नमोवेदांतवेदिने॥२७॥

इमं मंत्रं महादेव जपन्नेव दिवानिशम्‌॥

सर्वग्रहानुग्रहभाक्सर्वप्रियतमोभवेत्‌॥२८॥

पुत्रपौत्रैः परिवृतः सर्वसिद्धिसमृद्धिमान्‌॥
निर्विश्यभोगानन्तेऽपि कृष्णसायुज्यमाप्नुयात्‌॥२९॥

इति श्रीनारदपंचरात्रे ज्ञानामृतसारे उमामहेश्वरसंवादेधरणीशेष संवादे श्रीकृष्णाष्टोत्तशतनामस्तोत्रं संपूर्णम्॥५५॥

अथ मुकुन्दमालाप्रारंभः।

श्रीगणेशाय नमः॥

बन्दे मुकुन्दमरविंददलायताक्षं
कुंदेदुशंखदशनं शिशुगोपवेषम्॥
इंद्रादिदेवगणवंदितपादपीठं
वृंदावनालयमहं वसुदेवसूनुम्‌॥१॥

श्रीवल्लभेति वरदेति दयापरेति
भक्तिप्रियेति भव लुंठनकोपिदेति॥
नाथेति नागशयनेति जगन्निवासेत्य-
आलापितं प्रतिदिनं कुरु मां मुकुदं॥२॥

जयतु जयतु देवो देवकीनंदनोऽयं
जयतु जयतु कृष्णो वृष्णिवंशप्रदीपः॥
जयतुजयतुमेघश्यामलःकोमलांगो
जयतु जयतु पृथ्वीभारनाशो मुकुंदः॥३॥

मुकुंदमूर्घ्नाप्रणिपत्य याचे
भवंतमेकांतमियंतमर्थम्‌॥
अविस्मृतिस्त्वच्चरणारविंदे
भवे भवे मेऽस्तु तव प्रसादात्॥४॥

श्रीगोविंदपदांभोजमधुनो महदद्भुतम्॥
तत्पायिनो न मुंचंति मुंचंतिपदपायिनः॥५॥

नाहं वंदे तवचरणयोर्द्वंद्वमद्वंद्वहेतोः
कुंभीपाकं गुरुमपि हरे नारकं नापनेतुम्‌॥

रम्यारामामृदुतनुलतानंदनेनापि रंतुं
भावे भावे हृदयभवने भावयेयं भवंतम्‌॥६॥

नास्था धर्मे न च मुनिचये नैव कामोपभोगे
यद्भव्यं तद्भवतु भगवन्पूर्वकर्मानुरूपम्‌॥
एतत्प्रार्थ्यंमम बहुमतं जन्मजन्मांतरेऽपि-
त्वत्पादांभोरुहयुगगतानिश्चला भक्तिरस्तु॥७॥

दिवि वा भुवि वा ममास्तु वासो नरके वा नरकांतकप्रकामम्‌॥
अवधीरितशारदारविंदौ चरणौते मरणे विचिंतयामि॥८॥

सरसिजनयने सशंखचक्रे मुरभिदि मा विरमेह चित्त रंतुम्॥

सुखतरमपरं न जातु जाने हरिचरणस्मरणामृतेन तुल्यम्‌॥९॥

मा भैर्मंद मनो विचिंत्य बहुधा यामीश्चिरं यातना
नैवामी प्रभवंति पापरिपवः स्वामी ननु श्रीधरः॥
आलस्यं व्यपनीय भक्तिसुलभं ध्यायस्व नारायणं
लोकस्य व्यसनापनोदनकरोदासस्यकिं न क्षमः॥१०॥

भवजलधिगतानां द्वंद्ववाताहतानां
सुतदुहितृकलत्रत्राणभारावृतानाम्॥

विषमविषयतोये मज्जतामप्लवानां
भवति शरणमेकोविष्णुपोतो नराणाम्‌॥११॥

रजसि निपतितानां मोहजालावृतानां
जननमरणदोलादुर्गसंसर्गगानाम्‌॥
शरणमशरणानामेक एवातुराणां कुशल
पथनियुक्तश्चक्रपाणिर्नराणाम्॥१२॥

अपराधसहस्रसंकुलं पतितं भीमभवार्णवोदरे॥
अगतिं शरणागतं हरे कृपया केवलमात्मसात्कुरु॥१३॥

मामे स्त्री त्वंमा च मे स्यात्कुभावो
मा मूर्खत्वं मा कुदेशेषु जन्म॥
मिथ्यादृष्टिर्माच मे स्यात्कदाचिज्-
जातौ जातौविष्णुभक्तो भवेयम्॥१४॥

कायेन वाचामनसेंद्रियैश्चबुध्यात्मना वानुसृतस्वभावात्‌॥
करोमि यद्यत्सकलं परस्मैनारायणायैव समर्पयामि॥१५॥

यत्कृतं यत्करिष्यामि तत्सर्वं न मयाकृतम्‌॥
त्वया कृतं तु फलभुक्त्वमेव मधुसूदन॥१६॥

भवजलधिमगाधं दुस्तरं निस्तरेघं
कथमहमिति चेतो मा स्म गाः कातरत्वम्॥

सरसिजदृशि

देवे तारकी भक्तिरेका
नरकभिदि निषण्णा तारयिष्यत्यवश्यम्‌॥१७॥

तृष्णातोये मदनपवनोद्भूतमोहोर्मिमाले
दारावर्तेतनयसहजग्राहसंघाकुले च॥
संसाराख्ये महति जलधौ मज्जतां नस्त्रिधामन्
पादाम्भीजे वरदभवतो भक्तिभावं प्रदेहि॥१८॥

पृथ्वीरेणुरणुः पयांसि कणिकाः फल्गुः स्फुलिंगो लघु-
स्तेजोनिःश्वसनंमरुत्तनुतरंरंध्रं सुसूक्ष्मं नमः॥
क्षुद्रा रुद्रपितामहप्रभृतयः कीटाः समस्ताः सुरा
दृष्टा यत्र स तारको विजयते श्रीपादधूलीकणः॥१९॥

आम्नायाभ्यसनान्यरण्यरुदितं कृच्छ्रव्रतान्यन्वहं
मेदच्छेदपदानि पूर्तविधयः सर्वं हुतं भस्मनि॥

तीर्थानामवगाहनानि च गजस्नानं विना यत्पदं-
द्वद्वांभोरुहसंस्तुतिं विजयते देवः स नारायणः॥२०॥

आनंद गोविंद मुकुंद राम नारायणानंत निरामयेति॥
वक्तुंसमर्थोऽपि न वक्तिकश्चिदहो जनानां व्यसनानि मोक्षे॥२१॥

क्षीरसागरतरंगसीकरासारतारकितचारुमूर्तये॥
भोगिभोगशयनीयशायिने माधवाय मधुविद्विषे नमः॥२२॥

इति श्रीकुलशेखरेण राज्ञा विरचिता मुकुंदमाला संपूर्णा॥५८॥

अथ नारायणवर्मप्रारंभः।

श्रीगणेशाय नमः॥

रजोवाच॥

येन गुप्तःसस्राक्षः सवाहान्रिसैनिकान्॥
क्रीडन्निव विनिर्जित्य त्रिलोक्या बुभुजे श्रियम्‌॥१॥

भगवंस्तन्ममाख्याहि वर्मनारायणात्मकम्‌॥
यथाऽततायिनः शत्रून्‌ येन गुप्तोऽजयन्मृधे॥२॥

श्रीशुकउवाच॥

वृतःपुरोहितस्त्वाष्ट्रोमहेंद्रायानुपृच्छते॥

नारायणाख्यं वर्माह तदिहैकमनाः शृणु॥३॥

विश्वरूप उवाच॥

धौतांघ्रिपाणिराचम्य सपवित्र उदङ्मुखः॥
कृतस्वांगकरन्यासो मंत्राभ्यां वाग्यतः शुचिः॥४॥

नारायणमयं वर्म सन्नह्येद्भय आगते॥
दैवभूतात्मकर्मभ्यो नारायणमयः पुमान्‌॥५॥

पादयोर्जानुनोरूर्वोरुदरे हृद्यथोरसि॥

मुखे शिरस्यानुपूर्व्यादोंकारादीनि विन्यसेत्‌॥६॥

ॐनमो नारायणायेति विपर्ययमथापि वा॥
करन्यासं ततः कुयोद्द्वादशाक्षरविद्यया॥७॥

प्रणवादियकारांतमंगुल्यंगुष्ठपर्वसु॥
न्यसेद्धृदय ओंकारं विकारमनुमूर्धनि॥८॥

षकारं तु भ्रुवोर्मध्ये णकारं शिखया न्यसेत्‌॥
वेकारं नेत्रयोर्युंज्यान्नकारं सर्वसंधिषु॥९॥

मकारमस्त्रमुद्दिश्य मंत्रमूर्तिर्भवेद्वुधः॥
सविसर्गंफडंतं तत्सर्वदिक्षु विनिर्दिशेत्‌॥१०॥

ॐविष्णवेनमः॥

इत्यात्मानं परं ध्यायेद्ध्येयं षट्शक्तिभिर्युतम्‌॥
विद्यातेजस्तपोमूर्तिमिमं मंत्रमुदाहरेत्‌॥११॥

ॐहरिर्विदध्यान्मम सर्वरक्षां न्यस्तांघ्रिपद्मः पतगेंद्रपृष्ठे॥
दरारिचर्मासिगदेषुचापपाशान्दधानोऽष्टगुणोष्टबाहुः॥१२॥

जलेषु मां रक्षतु मत्स्यमूर्तिर्यादोगणेभ्यो वरुणस्थ पाशात्‌॥
स्थलेषुमायाबटुवामनोऽव्यात्त्रिविक्रमः खेऽवतु विश्वरूपः॥१३॥

दुर्गेष्वटव्याजिमुखादिषुप्रभुः पायान्नृसिंहोऽसुरयूथपारिः॥
विमुंचतो यस्य महाट्टहासं दिशो विनेदुर्न्यपतंश्च गर्भाः॥१४॥

रक्षत्वसौमाध्वनि यज्ञकल्पःस्वदंष्ट्रयान्नीतधरोवराहः॥
रामोद्रिकूटेष्वथविप्रवासे सलक्ष्मणोऽव्याद्भरताग्रजो माम्॥१५॥

मामुग्रधर्मादखिलात्प्रमादान्नारायणः पातु नरश्चहासात्‌॥

दत्तस्त्वयोगादथयोगनाथःपायाद्गुणेशःकपिलःकर्मवंधात्॥१६॥

सनत्कुमारोवतु कामदेवाद्धयाननो मां पथि देवहेलनात्॥
देवर्षिवर्यः पुरुषार्चनांतरात्कूर्मोहरिर्मां निरयादशेषात्‌॥१७॥

धन्वंतरिर्भगवान्पात्वपथ्यादूद्वंद्वाद्भयादृषभोनिर्जितात्मा॥
यक्षश्च लोकादवताज्जनांताद्वलोगणात्क्रोधवशादहींद्रः॥१८॥

द्वैपायनो भगवानप्रवोधाद्बुद्धस्तु पाखंडगणात्प्रमादात्‌॥
कल्किःकलेः.कालमलात्प्रपातु धर्मावनायोरुकृतावतारः॥१९॥

मां केशवो गदया प्रातरव्याद्गोविंदआसंगवमात्तवेणुः॥

नारायणः प्राह्ण उदात्तशक्तिर्मध्यंदिने विष्णुररींद्रपाणिः॥२०॥

देवोऽपराह्णेमधुहोग्रधन्वा सायंत्रिधामाऽवतु माधवो माम्॥
दोषैर्हृषीकेश उतार्धरात्रे निशीथ एकोऽवतु पद्मनाभः॥२१॥

श्रीवत्सधामाऽपररात्र ईशःप्रत्युषईशोऽसिधरो जनार्दनः॥
दामोदरोऽव्यादनुसंध्यं प्रभाते विश्वेश्वरो भगवान्कालमूर्तिः॥२२॥

चक्रं युगांतानलतिग्मनेमि भ्रमत्समंताद्भगवत्प्रयुक्तम्॥
दंदग्धिदंदग्ध्यरिसैन्यमाशुकक्षं यथा वातसखो हुताशः॥२३॥

गदेशनिस्पर्शनविस्फुलिंगे निष्पिंढि निष्पिंढ्यजितप्रियासि॥
कूष्मांडवैनायकयक्षरक्षो भूतग्रहांश्चूर्णय चूर्णयारीन्‌॥२४॥

त्वं यातुधानप्रथमप्रेतमातृपिशाचविप्रग्रहवोरदृष्टीन्॥
दरेंद्रविद्रावय कृष्णपूरितोभीमस्वनोऽरेहृदयानि कंपयन्‌॥२५॥

त्वं तिग्मधारासिवरारिसैन्यमीशप्रयुक्तो मम छिंधि छिंधि॥
चक्षूंषि चर्मञ्छतचन्द्र छादय द्विषामधोनां हरपापचक्षुषाम्‌॥२६॥

यन्नो भयं ग्रहेभ्योऽभूत्केतुभ्यो नृभ्य एवच॥
सरीसृपेभ्योदंष्ट्रिभ्यो भूतेभ्योऽधेभ्य एवच॥२०

सर्वाण्येतानिभगवतन्नामरूपास्त्रकीर्तनात्॥
प्रयांतु संक्षयं सद्योयेन्येश्रेयःप्रतीपकाः॥२८॥

गरुडोभगवांस्तोत्रस्तोमश्छंदोमयः प्रभुः॥
रक्षत्वशेषकृच्छ्रेभ्यो विष्वक्सेनस्य वाहनम्‌॥२९॥

सर्वापद्ध्योहरेर्नामरूपयानायुधानिनः॥
बुद्धींद्रियमनःप्राणान्पान्तु पार्षदभूषणाः॥३०॥

यथाहि भगवानेव वस्तुतः सदसच्च यत्‌॥
सत्येनानेन नः सर्वे यांतु नाशमुपद्रवाः॥२१॥

यथैकात्म्यानुभावानां विकल्परहितः स्वयम्॥
भूषणायुधलिंगाख्या धत्ते शक्तीःस्वमायया॥३२॥

तेनैव सत्यमानेन सर्वज्ञो भगवान्हरिः॥
पातु सर्वैःस्वरूपैर्नःसदा सर्वत्र सर्वगः॥३३॥

विदिक्षु दिक्षूर्ध्वमधः समंतादंतर्बहिर्भगवान्नारसिंहः॥
प्रहापयल्ँलोकभयंस्वनेन स्वतेजसा ग्रस्तसमस्ततेजाः॥३४॥

मघवन्निदमाख्यातं वर्मनारायणात्मकम्॥
विजेष्यस्यंजसा येन दंशितोऽसुरयूथपान्‌॥२५॥

एतद्धारयमाणस्तु यं यं परयति चक्षुषा॥
पदा वा संस्पृशेत्सद्यःसाध्वसात्स विमुच्यते॥३६॥

न कुतश्चिद्भयं तस्य विद्यांधारयतो भवेत्‌॥
राजदस्युग्रहादिभ्यो व्याघ्रादिभ्यश्च कर्हिचित्‌॥३७॥

इमां विद्यां पुरा कश्चित्कौशिको धारयन्‌ द्विजः॥
योगधारणया स्वांगं जहौ स मरुधन्वनि॥ ३८॥

तस्योपरि विमानेन गंधर्वपतिरेकदा॥
ययौचित्ररथः स्त्रीभिर्वृतो यत्र द्विजक्षयः॥३९॥

गमनान्न्यपतत्सद्यः सविमानो ह्यवाक्शिराः॥

स वालखिल्यवचनादस्थीन्यादाय विस्मितः॥७०॥

प्रास्य प्राचीसरस्वत्यां स्नात्वा धाम स्वम

च्वगात्॥
यइदं शृणुयात्काले यो धारयति चादृतः॥
तं नमस्यंति भूतानि मुच्यते सर्वतोभयात्‌॥४१॥

श्रीशुक उवाच॥

एतां विद्यामधिगतोविश्वरूपाच्छतक्रतुः॥
त्रेलोक्यलक्ष्मीं बुभुजे विनिर्जित्य मृधेऽसुरान्॥४२॥

इति श्रीमद्भागवते महापुराणेऽष्टादशसाह

रूयां संहितायां वैयासिक्यां षष्ठस्कंधे नारायणवर्मकथनंनामाष्टमोऽध्यायः॥५९॥

अथ इन्द्रकृतकृष्णस्तोत्रप्रारंभः।

श्रीगणेशाय नमः॥

इंद्र उवाच॥

अक्षरं परमं ब्रह्मज्योतीरूपं सनातनम्‌॥
गुणातीतं निराकारं स्वेच्छामयमनंतकम्‌॥१॥

भक्तध्यानाय सेवायैनानारूपधरं वरम्‌॥
शुक्लरक्तपीतश्यामंयुगानुक्रमणे न च॥२॥

शुक्लतेजः स्वरूपं च सत्ये सत्यस्वरूपिणम्॥
त्रेतायां कुंकुमाकारं ज्वलंतं ब्रह्मतेजसा॥३॥

द्वापरे पीतवर्णं च शोभितंपीतवाससा॥
कृष्णवर्णं कलौ कृष्णं परिपूर्णतमंप्रभुम्‌॥४॥

नवधाराधरोत्कृष्टश्यामसुंदरविग्रहम्॥
नंदैकनंदनं वंदे यशोदानंदनं प्रभुम्‌॥५॥

गोपिकाचेतनहरं राधाप्राणाधिकं परम्‌॥
विनोदमुरलीशब्दं कुर्वंतं कौतुकेन च॥६॥

रूपेणाप्रतिमेनैव रत्नभूषणभूषितम्‌॥

कंदर्पकोटिसौंदर्यं विभ्रतं शांतमीश्वरम्‌॥७॥

क्रीडंतं राधया सार्धं वृंदारण्ये च कुत्रचित्॥
कुत्रचिन्निर्जनेऽरण्ये राधावक्षःस्थलस्थितम्‌॥८॥

जलक्रीडां प्रकुर्वंतं राधिकासह कुत्रचित्॥
राधिकाकबरीभारं कुर्वंतं कुत्रचिद्वने॥९॥

कुत्रचिद्राधिकापादे दत्तवंतमलक्तकम्‌॥
राधाचर्विततांबूलं गृह्णंतं कुत्रचिन्मुदा॥१०॥

पश्यंतं कुत्रचिद्राधां पश्यंतीं वक्रचक्षुषा॥
दत्तवंतं च राधायै कृत्वा मालांच कुत्रचित्॥११॥

कुत्रचिद्राधया सार्धं गच्छंतं रासमंडलम्‌॥
राधादत्तां गले मालां धृतवंतं च कुत्रचित्॥१२॥

सार्धं गोपालिकाभिश्च विहरंतं च कुत्रचित्‌॥
राधां गृहीत्वा गच्छंतं तां विहाय च कुत्रचित्‌॥१३॥

विप्रपत्नीदत्तमन्नं भुक्तवंतंच कुत्रचित्‌॥
भुक्तवंतं तालफलं बालकैःसह कुत्रचित्‌॥१४॥

वस्त्रं गोपालिकानां च हरंतं कुत्रचिन्मुदा॥
गवां गणं व्याहरंतं कुत्रचिद्वालकैःसह॥१५॥

कलीयमूर्ध्नि पादाब्जंदत्तवंतं च कुत्रचित्॥
विनोदमुरलीशब्दं कुर्वंतं कुत्रचिन्मुदा॥१६॥

गायंतं रम्यसंगीतं कुत्रचिद्बालकैःसह॥
स्तुत्वा शक्रःस्तवेंद्रेण प्रणनामहरिं भिया॥१७॥

पुरा दत्तेन गुरुणा रणे वृत्रासुरेण च॥
कृष्णेन दत्तं कृपया ब्रह्मणे च तपस्यते॥१८॥

एकादशाक्षरों मंत्रः कवचं सर्वलक्षणम्‌॥
दत्तमेतत्कुमाराय पुष्करे ब्रह्मणा पुरा॥१९॥

तेन चांगिरसे दत्तंगुरवेऽङ्गिरसामुने॥
इदमिंद्रकृतं स्तोत्रंनित्यं भक्त्या च यः पठेत्‌॥२०॥

इह प्राप्य दृढां भाक्तिमंते दास्यंलभेद्ध्रुवम्॥
जन्ममृत्युजराव्याधिशोकेभ्यो मुच्यते नरः॥२१॥

नहि पश्यतिस्वप्नेपियमदूतंयमालयम्॥२२॥

इति श्रीब्रह्मवैवर्तेकृष्णजन्मखंडे इंद्रकृतं कृष्णस्तोत्रंसंपूर्णम्‌॥६०॥

अथ विप्रपत्नीकृतकृष्णस्तोत्रप्रारंभः।

श्रीगणेशाय नमः॥
विप्रपत्न्यऊचुः॥

त्वं ब्रह्मपरमंधाम निरोहो निरहंकृतिः॥
निर्गुणश्चनिराकारः साकारः सगुणः स्वयम्‌॥१॥

साक्षिरुपश्चनिर्लिप्तः परमात्मा निराकृतिः॥
प्रकृतिः पुरुषस्त्वं च कारणं च तयोःपरम्‌॥२॥

सृष्टिस्थित्यंतविषये ये च देवास्त्रयः स्मृताः॥
ते त्वदंशाः सर्वबीजा ब्रह्मविष्णुमहेश्वराः॥३॥

यस्य लोम्नांच विवरे चाखिलं विश्वमीश्वर॥
महाविराण्महाविष्णुस्त्वं तस्य जनको विभो॥४॥

तेजस्त्वं चापि तेजस्वी ज्ञानं ज्ञानी च तत्परः॥
वेदेऽनिर्वचनीयस्त्वं कस्त्वां स्तोतुमिहेश्वरः॥५॥

महदादिसृष्टिसूत्रं पंचतन्मात्रमेव च॥
बीजं त्वं सर्वशक्तीनां सर्वशक्तिस्वरूपकः॥६॥

सर्वशक्तीश्वरःसर्वः सर्वशक्त्याश्रयःसदा॥

त्वमनीहः स्वयंज्योतिः सर्वानंदः सनातनः॥७॥

अहोआकारहीनस्त्वं सर्वविग्रहवानपि॥
सर्वेन्द्रियाणां विषयं जानासिनेंद्रियी भवान्॥८॥

सरस्वती जडीभूता यत्स्तोत्रे यन्निरुपणे॥
जडीभूतो महेशश्चशेषो धर्मो विधिःस्वयम्‌॥९॥

पार्वती कमलाराधा सावित्री वेदसूरपि॥
वेदश्चजडतांयातिके वाशक्ता विपश्चितः॥१०॥

वयं किं स्तवनं कुर्मः स्त्रियःप्राणेश्वरेश्वर॥
प्रसन्नो भव नो देव दीनबंधो कृपां कुर॥११॥

इति पेतुश्च ता विप्रपत्न्यस्तच्चरणांबुजे॥
अभयं प्रददौताभ्यः प्रसन्नवदनेक्षणः॥१२॥

विप्रपत्नीकृतं स्तोत्रं पूजाकालेच यः पठेत्॥
स गतिं विप्रपत्नीनां लभते नात्रसंशयः॥१३॥

इति श्रीब्रह्मवैवर्ते महापुराणे कृष्णजन्मखंडे विप्रपत्नीकृतकृष्णस्तोत्रं समाप्तम्॥६१॥

अथ गोपालविंशविप्रारंभः ।

** श्रीमते रामानुजाय नमः॥**

श्रीमान्वेङ्कटनाथार्यः कवितार्किककेसरी॥
वेदांताचार्यवर्योमे संनिधत्तां सदा हृदि॥१॥

वंदे वृंदावनचरं बल्लवीजनवल्लभम्‌॥
जयंतीसंभवं धाम वैजयंतीविभूषणम्‌॥२॥

वाचं निजांकरसिकां प्रसमीक्षमाणो
वक्त्रारविंदविनिवेशितपांचजन्यः॥

वर्णेजिकोणरुचिरेवरपुंडरीके
बद्धासनो जयति बल्लवचक्रवर्ति॥३॥

आम्नायगंधरुचिरस्फुरिताधरोष्ठ-
मास्राविले क्षणमनु क्षेणमंदहासम्‌॥

गोपालडिंभवपुषंकुहनाजनन्याः
प्राणस्तनंधयमवैगिपरं पुमांसम्॥४॥

आविर्भवत्यनिभृताभरणं पुरस्तादा-
कुंचितैकचरणंनिहितान्यपादम्॥
दध्नानिबद्धमुकुरेण निवद्धतालं
नाथस्य नंदभवने नवनीतनाट्यम्‌॥५॥

कुंदप्रसूनविशदैर्दशनैश्चतुर्भिः
संदश्य मातुरनिश कुचचूचुकाग्रम॥

नंदस्यवक्रमवछोकयतो मुंरारेमद-
स्मितं पस मनीषितमातनोतु॥६॥

हर्तुंकुंभे विनिहितकरः स्वादुहैय्यंगवीनं
दृष्ट्वादामग्रहणचटुलां मातरं जातरोषाम्॥
पायादीषत्प्रचलितपदो नापगच्छन्नतिष्ठन्मि-
थ्यागोपःसपादि नयने मीलयन् विश्वगोप्ता॥७॥

ब्रजयीषिदपांगवेदनीयं मथुरागाग्यमनन्यभोग्यमीडे॥
वेसुदेववधूस्तनंधयं तत्‌ किमपि ब्रह्मकिशोरभावदृश्यम्॥८॥

परिवर्तितकंधरं भयेन स्मितफुल्लाधरपल्लवं स्मरामि॥
विटपित्वनिरासकंकयोश्चिद्विपुलोलूखलकर्षकं कुमारं॥९॥

निकटेषु निशामयामि नित्यं निगमांतैरधुनापि मृग्यमाणम्‌॥
यमलार्जुनदृष्टबालकेलिं यमुनासाक्षिकयौवतं युवानम्‌॥१०॥

पदवीमदवोयसीं विमुक्तेरटवीसंपदमंबुवाहयंतीम्॥
अरुणाधरसाभिलाषवंशां करणां कारणमानुषं भजामि॥११॥

अनिमेषनिषेवणीयमक्ष्णोरजहद्यौवनमाविरस्व चित्ते॥
कलहायितकुंतलं कलापैःकरुणोन्मादकविग्रहं मनो मे॥१२॥

अनुयायिमनोज्ञवंशनालैरवतु स्पर्शितवल्लवीविमोघैः॥
अनघस्मितशीतलेरसौमामनुकंपासरिदंबुजैरपांगैः॥१३॥

अधराहितचारुवंशनाला मुकुटालंबिमयूरपिच्छमालाः॥
हरिनीलशिलाविहंगलीलाः प्रतिभास्वंतु ममांतिमप्रयाणे॥१४॥

अखिलानवलोकयामि कालान्महिलादीनभुजांतरस्य यूनः॥

अभिलाषपदंव्रजांगनानामभिलापक्रमदूरमाभिरूप्यम्‌॥१५॥

वहसे महिताय मौलिना विनतेनां जलिमंजनत्विषे॥
कलयामि विमुग्धवल्लवीवलयाभाषितमंजुवेणवे॥१६॥

जयतु ललितकृत्यं शिक्षकोबल्लवीनां
शिथिलमलयसिंजाशीतलैर्हस्ततालैः॥
अखिलभुवनरक्षागोपवेषस्य विष्णोर-
धरमणिसुधाया वंशवान्वंशनालः॥१७॥

चित्राकल्पश्रवसि कलयल्ँलांगलीकर्णपूरं
बर्होत्तंसस्फुरिताचिकुरोबंधुजीवं दधानः॥
गुंजां बद्धामुरसि ललितां धारयन्‌ हारयष्टि-
गोपस्त्रीणां जयति कितवः कोपि कौमारहारी॥१८॥

लीलायष्टिं करकिसलये दक्षिणे न्यस्य धन्यामंसे
देव्याः पुलकनिबिडे सन्निविष्टान्यबाहुः॥
मेघश्यामो जयति ललितं मेखलादत्तवेणु-
गुंजापीडस्फुरितचिकुरोगोपकन्याभुगंगः॥१९॥

प्रत्यालीढस्मृतिमधिगतां प्राप्तगाढांगपालीं
पश्चादीषन्मिलितनयनां प्रेयसींप्रेक्षमाणः॥

भस्त्रां यंत्रप्रणिहितकरोभक्तजीवातुर
व्याद्वारिक्रीडानिबिडवसनोबल्लवीवल्लभोनः॥२०॥

वासो हृत्वा दिनकरसुतासन्निधौबल्लवीनां लीला
स्मेरो जयति ललितामास्थितः कुंदशाखाम्॥
सव्रीडाभिस्तदनुवसनं ताभिरभ्यर्थ्यमानः कामी
कश्चित्करकमलयोरंजलिं याचमानः॥२१॥

इत्यनन्यमनसा विनिर्मितां वेङ्कटेशकविना स्तुतिं पठन्‌॥
दिव्यवेणुरसिकैः समीक्षते दैवतं किमपि यौवतप्रियम्‌॥२२॥

इति गोपालविंशतिः संपूर्णा॥६२॥

अथं भगवन्मानसपूजाप्रारंभः।

** श्रीगणेशाय नमः॥**

हृदंभोजे कृष्णः सजलजलदश्यामलतनुः
सरोजाक्षः स्रग्वीमुकुटकटकाद्याभरणवान्॥
शरद्राकानाथप्रतिमवदनः श्रीमुरलिकां
वहन्ध्येयो गोपीगणपरिवृतः कुंकुमचितः॥१॥

पयोंऽभोधेर्द्वीपान्मम हृदयमायाहि भगवन्

मणिव्रातभ्राजत्कनकवरपीठं भज हरे॥
सुचिह्नौते पादौयदुकुलजनेनेज्मिसुजलै-
र्गृहाणेदं दूर्वाफलजलवदर्ध्यं मुररिपो॥२॥

त्वमाचामोपेंद्र त्रिदशसरिदंभोतिशिशिरं
भजस्वेमं पंचामृतरचितमाप्लावमघहन्‌॥
द्युनद्याः कालिंद्या अपि कनककुंभस्थितमिदं
जलंतेन स्नानं कुर कुरु कुरुष्वाचमनकम्‌॥३॥

तडिद्वर्णे वस्त्रे भजविजयकांताधिहरण
प्रलंबारिभ्रातर्भृदुलमुपवीतं कुरु गले॥
ललाटे पाटीरं मृगमदयुतं धारय हरे
गृहाणेदं माल्यं शतदलतुलस्यादिरचितम्‌॥४॥

दशांगं धूपं संद्वरदचरणाग्रेऽर्पितमये
मुखं दीपेनेंदुप्रभवरजसा देवकलये॥
इमौपाणी वाणीपतिनुतसकर्पुररजसा
विशोध्याग्रेदत्तं सलिलमिदमाचाम नृहरे॥५॥

सदा तृप्तान्नं षड्रसवदखिलव्यंजनयुतं
सुवर्णामत्रे गोघृतचषकयु

क्तेस्थितामिदम्‌॥
यशोदासूनो तत्परमदययाऽशान सखिभिः
प्रसादं वांछद्भिःसह तदनु नीरं पिब विभो॥६॥

सचंद्रं तांबूलं मुखरुचिकरं भक्षय हरे
फलं स्वादुप्रीत्या परिमलवदास्वादय चिरम्‌॥
सपर्या पर्याप्त्यैकनकमणिजातं स्थितमिदं
प्रदीपैरारार्तिं जलधितनयाश्लिष्ट रचये॥७॥

विजातीयैःपुष्पैरतिसुरभिभिर्विल्वतुलसी-
युतै श्चेमं पुष्पांजलि मजित ते मूर्ध्निनिदधे॥
तव प्रादक्षिण्यक्रमणमघविध्वंसि रचितं

चतुर्वारं विष्णोजनिपथगतिश्रांतविदुषा॥८॥

नमस्कारोऽष्टांगः सकलदुरितध्वंसनपटुः
कृतं नृत्यं गीतंस्तुतिरपि रमाकांत त इयम्‌॥
तव प्रीत्यैभूयादहमपि च दासस्तव विभो
कृतं छिद्रं पूर्णं कुरु कुरु नमस्तेऽस्तु भगवन्‌॥९॥

सदा सेव्यः कृष्णः सजलघननीलः करतले
दधानो दध्यन्नं तदनु नवनीतं मुरालिकाम्॥
कदाचित्कांतानांकुचकलशपत्रालिरचना-
समासक्तः स्निग्घैःसह शिशुविहारं विरचयन्‌॥१०॥

मणिकर्णीच्छिया जातमिदं मानसपूजनम्‌॥

यः कुर्वीतोषसि प्राज्ञस्तस्यकृष्णः प्रसीदति॥११॥

इतिश्रीमच्छंकरा०भगवन्मानसपूजनं समाप्तम्‌॥६२॥

अथ श्रीगोपीकृतबालरक्षाप्रारंभः।

** श्रीगणेशाय नमः॥
श्रीकृष्णाय नमः॥**

अव्यादजोंध्रिमणिमांस्तव जान्वथोरू
यज्ञोऽच्युतःकटितटंजठरं हयास्यः॥
हृत्केशवस्त्वदुर ईश इनस्तु कंठं
विष्णुर्भुजंमुखमुरुक्रम ईश्वरःकम॥१॥

चक़्यग्रतः सहगदो हरिरस्तु पश्चात्
वत्पार्श्वयोर्धनुरसी मधुहाजनन॥
कोणेषु शंख उरुगाय उपर्युपेंद्रस्तार्क्ष्यः
क्षितौहलधरःपुरुषःसमंतात॥२॥

इंद्रियाणिहृषीकेशः प्राणान्नारायणोऽवतु॥
श्वेतद्वीपपतिश्चित्तं मनो योगेश्वरोऽवतु॥३॥

पृश्निगर्भश्चते बुद्धिमात्मानं भगवान्प्रः॥
क्रीडंतंपातु गोविंदः शयानं पातु माधवः॥४॥

व्रजंतमव्याद्रैकुंठ आसीनं त्वांश्रियःपतिः॥
भुंजानं यज्ञभुक्पातु सर्वग्रहभयंकरः॥७॥

डाकिन्यो यातुधान्यश्चकूष्मांडा येऽर्भकग्रहाः॥

भृतप्रेतपिशाचाश्च यक्षरक्षोविनायकाः॥६॥

कोटरा रेवती ज्येष्ठापूतना मातृकादयः॥
उन्मादाये ह्यपस्मारा देहप्राणेंद्रियद्रुहः॥७॥

स्वप्नदृष्टा महोत्पाता वृद्धवालग्रहाश्चये॥
सर्वे नश्यं तु ते विष्णोर्नामग्रहणभीरवः॥८॥

इति श्रीमद्भागवते दशमस्कंधे गोपीकृतबालरक्षा समाप्ता॥६४॥

॥श्रीकृष्णार्पणमस्तु॥५॥

विष्णोरष्टाविंशतिनामस्तोत्रप्रारंभः।

श्रीगणेशाय नमः॥

॥अर्जुनउवाच॥

किं तु नामसहस्राणि जपंते च पुनः पुनः॥
यानिनामानि दिव्यानि तानि चाचक्ष्व केशव॥१॥

श्रीभगवानुवाच॥

मत्स्यं कूर्मंवराहं च वामनं च जनार्दनम्‌॥
गोविदं पंडरीकाक्षं माधवं मधुसूदनम्‌॥२॥

पद्मनाभं सहस्राक्षं वनमालिंहलायुधम्॥
गोवर्द्धनं हृषीकेशंवैकुंठंपुरुषोत्तमम्॥३॥

विश्वरूपं वासुदेवं रामंनारायणं हरिम्‌॥
दामोदरं श्रीधरं च वेदांगं गरुडध्वजम्॥ ७॥

अनंतं कृष्णगोपालंजपतो नास्ति पातकम्‌॥

गवां कोटिप्रदानस्य अश्वमेधशतस्य च॥५॥

कन्यादानसहस्राणां फलं प्राप्नोति मानवः॥
अमायां वा पौर्णमास्यामेकादश्यां तथैव च॥६॥

संध्याकाले स्मरेन्नित्यं प्रातःकाले तथैव च॥
मध्याह्ने च जपन्नित्यं सर्वपापैःप्रमुच्यते॥७॥

इति श्रीकृष्णार्जुनसंवादे विष्णोरष्टाविंशतिनामस्तोत्रंसंपूर्णम्‌॥६५॥

** श्रीकृष्णार्पणमस्तु॥**

अथ हरिस्तुतिप्रारंभः।

** श्रीगणेशाय नमः॥**

स्तोष्ये भक्त्या विष्णुमनादिंजगदादिं
यस्मिन्नेतत्संसृतिचक्रं भ्रमतीत्थम्‌॥
यस्मिन्‌ दृष्टेनश्यति तत्संसृतिचक्रं
तं संसारध्वांतविनाशं हरिमीडे॥१॥

यस्यैकांशादित्थमशेषं जगदेतत्
प्रादुर्भूतं येन पिनद्धं पुनरित्थम्॥
येन व्याप्तं येन विबुद्धं सुखदुःख-
स्तं संसारध्वांतविनाशं हरिमीडे॥२॥

सर्वज्ञो यो यश्च हि सर्वःसकलो यो
यश्चानंदोऽनंतगुणो यो गुणधामा॥

यश्चाव्यक्तो व्यस्तसमस्तः सदसद्य-
स्तं संसारध्वां०॥३॥

यस्मादन्यन्नास्त्यपि नैनं परमार्थं
दृश्यादन्यो निर्विषयज्ञानमयत्वात्‌॥
ज्ञातृज्ञानज्ञेयविहीनोपि सदाज्ञ-
स्तंसंसार०॥४॥

आचार्येभ्यो लब्धसुसूक्ष्माच्युततत्वाद्-
वैराग्येणाभ्यासबलाच्चैव द्रढिम्ना॥
भक्त्यैकाग्रध्यानपरा यं विदुरीशं
तं संसार०॥५॥

प्राणानायम्योमिति चितं हृदि रुद्ध्वा
नान्यत्स्मृत्वा तत्पुनरत्रेव विलाप्य॥
शीणे चित्ते भादृशिरस्मीति विदुर्यं
तंसंसार०॥६॥

यं ब्रह्माख्यं देवमनन्यं परिपूर्णं हृत्स्थं
भक्तैर्लभ्यमजं सूक्ष्ममतर्क्यम्॥

ध्यात्वात्मस्थं ब्रह्मविदो यं विदुरीशं
तं संसार०॥७॥

मात्रातीतं स्वात्मविकाशात्मविवोधं
ज्ञेयातीतं ज्ञानमयं हृद्युपलभ्यम्॥
भावग्राह्यानंदमनन्यं च विदुर्यं
तंसंसार०॥८॥

यद्यद्वेद्यं वस्तु सतत्त्वंविषयाख्यं
तत्तद्ब्रह्मैवेति विदित्वा तदहं च॥
ध्यायंत्येवं यं सनकाद्या मुनयोऽजं
तं संसार०॥९॥

यद्यद्वेद्यंतत्तादहंनेति विहाय
स्वात्मज्योतिर्ज्ञानमयानंदमवाप्य॥
तस्मिन्नस्मीत्यात्मविदोयं विदुरीशं
तंसंसार०॥१०॥

हित्वाहित्वा दृश्यमशेषं सविकल्पं
मत्वा शिष्टं भादृशिमात्रंगगनाभम्‌॥
त्यक्त्वा देहं यं प्रविशंत्यच्युतभक्ता-
स्तं संसार०॥११॥

सर्वत्रास्ते सर्वशरीरीन च सर्वः
सर्वं वेत्त्येवेह नयं वेत्ति च सर्वेः॥
सर्वत्रांतर्यामितयेत्यं यमयन्य-
स्तं संसार०॥१२॥

सर्वं दृष्ट्वास्वात्मनि युक्त्या जगदेत-
दृष्ट्वात्मानं चैवमजं सर्वजनेषु॥
सर्वात्मैकोऽस्मीति विदुर्यंजनहृत्स्थं
तं संसार०॥१३॥

सर्वंत्रेकः पश्यति जिघ्रत्यथ भुंक्ते
स्पृष्टाश्रोता बुध्यति चेत्याहुरिमं यम्‌॥
साक्षी चास्ते कर्तृषु पश्यन्निति चान्ये
तंसंसार०॥१५॥

पश्यन्‌ शृण्वन्नत्रविजानन्‌ रसयन्‌ सन्‌
जिघ्रन्‌ विभ्रद्देहमिमं जीवतयेत्थम्‌॥
इत्यात्मानं यं विदुरीशं विषयज्ञं
तं सं०॥१५॥

जाग्रद्दृष्ट्वास्थूलपदार्थानथ मायां

दृष्ट्वा स्वप्नेऽथापि सुषुप्तौसुखनिद्राम्‌॥
इत्यात्मानं वीक्ष्य मुदास्ते च तुरीये
तंसंसार०॥१६॥

पश्यन्शुद्धोप्यक्षर एको गुणमभेदा-
न्नानाकारान्‌ स्फाटिकवद्भाति विचित्रः॥
भिन्नश्छिन्नश्चायमजः कर्मफलैर्य-
स्तं संसार०॥१७॥

ब्रह्मा विष्णूरुद्रहुताशौ रविचंद्रा-
विंद्रो वायुर्यज्ञ इतीत्थं परिकल्प्य॥
एकं संतं यं बहुधाहुर्मतिभेदा-
त्तं संसार०॥१८॥

सत्यं ज्ञानं शुद्धमनंतं व्यतिरिक्तं
शांतं गूढं निष्कल मानंदमनन्यम्‌॥
इत्याहादौयं वरुणोऽसौभृगवेऽजं
तं संसार०॥१९॥

कोशानेतान्पंच रसादीनतिहाय
ब्रह्मास्मीति स्वात्मनि निश्चित्य दृशिस्थः॥
पित्रादिष्टोवेद भृगुर्यं यज़ुरंते
तंसंसार०॥२०॥

येनाविष्टो यस्य च शक्त्या यदधीनः
क्षेत्रज्ञोऽयं कारयिता जंतुषु कर्तुंः॥

कर्ता भोक्तात्मात्र हि चिच्छक्त्यधिरूढ-
स्तं संसार०॥२१॥

सृष्ट्वासर्वंस्वात्मतयैवेत्थमतर्क्यं

व्याप्याथांतःकृत्स्नमिदं सृष्टमशेषम्‌॥
सच्च त्यच्चाभूत्परमात्मा स यएक-
स्तं संसार०॥२२॥

बेदांतैश्चाध्यात्मिकशास्त्रैश्चपुराणैः
शास्त्रैश्चान्यैःसात्वततंत्रैश्च यमीशम्॥
दृष्ट्वाथांतश्चेतसि बुद्धा विविशुर्यं
तं संसार०॥२३॥

श्रद्धाभक्तिध्यानशमाद्यैर्यतमानै-
र्ज्ञातुं शक्यो देव इहैवाशु य ईशः॥
दुर्विज्ञेयो जन्मशतैश्चापि विनातै-
स्तं संसार०॥२४॥

यस्यातर्क्यं स्वात्मविभूतेः पररमार्थं
सर्वं खल्वित्यत्र निरुक्तंश्रुतिविद्भि॥
तज्जादित्वादब्धितरंगाभमभिन्नं
तं संसार०॥२५॥

दृष्ट्वागीतास्वक्षरतत्त्वं विधिनाजं
भक्त्या गुर्व्या लभ्य हृदिस्थं दृशिमात्रम्॥
ध्यात्वा तस्मिन्नस्म्यहमित्यत्र बिदुर्यं
तं संसार ०॥२६॥

क्षेत्रज्ञत्वंप्राप्य विभुः पंचसुखैर्यो
भुंक्तेऽजस्रं भोग्यपदार्थान्‌ प्रकृतिस्थः॥
क्षेत्रे क्षेत्रेऽप्स्विंदुवदेको बहुधाऽऽस्ते-
ति संसार॥२७॥।

युक्त्यालोड्य व्यासवचांस्यत्रहि लभ्यः
क्षेत्रक्षेत्रज्ञांतरविद्धिः पुरुषाख्यः॥

योऽ

हंसोऽसौऽस्म्यहमेवेति विदुर्यं
तंसंसार०॥२८॥

एकीकृत्यानेकशरीरस्थमिमं ज्ञं

यं विज्ञायेहैव स एवाशु भवति॥
यस्मिल्ँलोना नेह पुनर्जन्म लभंते
तंसंसार०॥२९॥

द्वंद्वैकत्वंयच्च मधुव्राह्मणवाक्यैः
कृत्वा शक्रोपासतमासाद्य विभूत्या॥

योऽसौसोहं सोऽस्म्यहमेवेतिषिदुर्यं
तंसंसार०॥३०॥

योऽयं देवे चेष्टयितांतःकरणस्थः
सूर्ये चासौतापयिता सोऽस्म्यहमेव॥
इत्यात्मैक्यो पासनया यं विदुरीशं
तंसंसार०॥३१॥

विज्ञानांशो यस्य सतःशक्त्यधिरूढो

बुद्धिर्बुध्यत्यत्र बहिर्बोध्यपदार्थान्‌॥

नैवांतस्थं बुध्यति यं वोधयितारं
तं सं०॥३२॥

कोऽयं देहे देव इतीत्थंसुविचार्य
ज्ञाता श्रोता नंदयिता चैष हि देवः॥
इत्यालोच्यज्ञांश इदास्मीतींविदुर्यं
तं संसार०॥३३॥

को ह्येवान्यादात्मनि न स्यादयमेष
ह्येवानंदःप्राणिति चापानितिचेति॥
इत्यस्थित्वं वक्त्युपपत्त्याश्रुतिरेषा
तंसंसा०॥३४॥

प्राणो वाहं वाक्श्रवणादीनि मनो वा
बुद्धिर्वाहं व्यस्त उताहोऽपि समस्तः॥
इत्यालोच्यज्ञप्तिरिहास्मीति विदुर्यं
तंसंसार०॥३५॥

नाहं प्राणोनैवशारीरं न ममोऽहं
नाहं बुद्धिर्नाहमहंकारधियौच॥
योत्र ज्ञांशः सोऽस्म्यहमेवेति विदुर्यं
तंससार०॥३६॥

सत्तामात्रं केवलविज्ञानमजं स-
त्सूक्ष्मं नित्यं तत्त्वमसीत्यात्मसुताय॥
साम्नामंते प्राह पिता यंविभुमाद्यं
तंसंसार०॥३७॥

मूर्त्तामूर्ते पूर्वमुपोह्याथ समाधौ
दृश्यं सर्वं नेतिच नेतीति विहाय॥
चैतन्यांशे स्वात्मनि संतं च विदुर्यं
तंसंसार०॥३८॥

ओतं प्रोतं यत्र च सर्वं नगनां तं
योऽस्थूलानण्वादिषु सिद्धोऽक्षरसंज्ञः॥
ज्ञातातोऽन्यो नेत्युपलभ्यो न च वैद्य-
स्तं संसा०॥३९॥

तावत्सर्वं सत्यमिवाभाति यथैत-
द्यावस्सोऽस्मीत्यात्मनि यो ज्ञो न हिदृष्टः॥
दृष्टे तस्मिन्‌ सर्वमसत्यं भवतीदं
तं संसार०॥४०॥

रागामुक्तं लोहयुतं हेम यथाग्नो
योगाष्टांगैरुज्ज्वलितज्ञानमयाग्नौ॥
दग्ध्वात्मानं ज्ञं परिशिष्टं च विदुर्यं
तंसंसार०॥४१॥

यं विज्ञानज्योतिषमाद्यं सविभातं
हृद्यर्केद्वग्न्योकसमीड्यं तडिदाभम्॥
भक्त्याराध्येहैवविशंवत्यात्मनि संतं
तंसंसार०॥४२॥

पायाद्धक्तंस्वात्मनि संतं पुरुषं यो
भक्त्या स्तौतीत्यांगिरंसं विष्णुरिमं माम्‌॥
इत्यात्मानं स्वात्मनि संहृत्य सदैक-
स्तं ससार०॥४३॥

इत्थंस्तोत्रंभक्तजनेड्यं भवभीति
ध्वांतार्काभंभगवत्पादियमिदंयः॥
विष्णोर्लोकं पठति शृणोति ब्रजति ज्ञो
ज्ञानं ज्ञेयं स्वात्मनि चाप्नोति मनुष्यः॥४४॥

इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमच्छंकराचार्यविरचिता हरिस्तुतिःसमाप्ता॥६६॥

अथ हरिनाममालास्तोत्रप्रारंभः।

** ॐतत्सत्‌॥**

गोविंदं गोकुलानंदं गोपालं गोपिवल्लभम्‌॥
गोवर्धनोद्धरं धीरं तंवंदे गोमतीप्रियम्‌॥१॥

नारायणं निराकारं नरवीरं नरोत्तमम्‌॥
नृसिंहं नागनाथं च तंवंदे नरकान्तकम्‌॥२॥

पीताम्बरंपद्मनाभं पद्माक्षं पुरुषोत्तमम्‌॥
पवित्रंपरमानंदं तं वंदे परमेश्वरम्‌॥३॥

राघवं रामचंद्रं च रावणारिं रमापतिम्‌॥
राजीवलोचनं रामं तं वंदे रघुनंदनम्‌॥४॥

वामनं विश्वरूपं च वासुदेवं च विठ्ठलम्॥
विश्वेश्वरं विष्णुव्यासं तं वंदे वेदवल्लभम्‌॥५॥

दामोदरं दिव्यासिंहं दयालुंदीननायकम्‌॥
दैत्यारिं देवदेवेशं तं वंदे देवकीसुतम्॥६॥

मुरारिं माधवं मत्स्यं मुकुंदं मुष्टिमर्दनम्॥
मुंजकेशं महावाहुं तं वंदे मधुसूदनम्‌॥७॥

केशवं कमलाकान्तं कामेशं कौस्तुभप्रियम्‌॥
कौमोदकीधरं कृष्णंतं वंदे कौरवांतकम्‌॥८॥

भूधरं भुवनानंदं भूतेशं भूतनायकम्‌॥
भावानैकं भुजंगेशं तं वंदे भवनाशनम्॥९॥

जनार्दनं जगन्नाथं जगज्जाड्यविनाशकम्‌॥
जामदन्गिं वरं ज्योतिस्त वंदे जलशायिनम॥१०॥

चतुर्भुजं चिदानंदं चाणूरमल्लमर्दनम्॥
चराचरगतं देवं तंवंदे चक्रपाणिनम्‌॥११॥

श्रियःकरं श्रियोनाथं श्रीधरं श्रीवरप्रदम्‌॥
श्रीवत्सलधरं सौम्यं तं वंदे श्रीसुरेश्वरम्॥१२॥

योगीश्वरं यज्ञपतिं यशोदानंददायकम्‌॥
यमुनाजलकल्लोलं तंवंदेयदुनायकम्‌॥१३॥

शालिग्रामशिलाशुद्धं शंखचक्रोपशोभितम्॥
सुरासुरसदासेव्यंतंवंदे साधुवल्लभम्॥१४॥

त्रिविक्रमं तपोमूर्तिं त्रिविधाघौघनाशनम्‌
त्रिस्थलं तीर्थराजेद्रं तं वंदे तुलसीप्रियम्‌॥१५॥

अनंतमादिपुरुषमच्युतं च वरप्रदम्‌॥
आनंदं च सदानंदं तं वेदे चाघनाशनम्‌॥१६॥

लीलया धृत भूभारं लोकसत्त्वैकवंदितम्॥
लोकेश्वरं च श्रीकांतं तं वंदे लक्ष्मणप्रियम्‌॥१७॥

हरिं च हरिणाक्षं च हरिनाथं हरिप्रियम्॥
हलायुधसहायंच तं वंदे हनुमत्पतिम्‌॥१८॥

हरिनामकृता माला पवित्रापापनाशिनी॥
बलिराजेंद्रेण चोक्ता कंठे धार्याप्रयत्नतः॥१९॥

इति श्रीशंकराचार्यविरयितं हरिनाममालास्तोत्रं संपूर्णम्‌॥६७॥

अथ विष्णुशतनामस्तोत्रप्रारंभः।

श्रीगणेशाय नमः॥

नारदउवाच॥

ॐ वासुदेवं हृषीकेशं वामनं जलशायिनम्॥
जनार्दनं हरिं कृष्णं श्रीवक्षं गरुडध्वजम्‌॥१॥

वाराहं पुण्डरीकाक्षं नृसिंहं नरकान्तकम्‌॥
अव्यक्तं शाश्वतं विष्णुमनंतमजमव्ययम्‌॥२॥

नारायणं गदाध्यक्षं गोविंदंकीर्तिभाजनम्॥
गोवर्द्धनोद्धरं देवं भूधरं भुवनेश्वरम्‌॥३॥

वेत्तारं यज्ञपुरुषं यज्ञेशं यज्ञवाहकम्‌॥
चक्रपाणिं गदापाणिं शंखपाणिं नरोत्तमम्‌॥ ४॥

वैकुंठं दुष्टदमनं भूगर्भं पीतवाससम्‌॥
त्रिविक्रमं त्रिकालज्ञं त्रिमूर्तिं नंदकेश्वरम्॥५॥

रामं रामं हयग्रीवं भीमं रौद्रंभवोद्भवम्‌॥
श्रीपतिं श्रीधरं श्रीशं मंगलं मंगलायुधम्‌॥६॥

दामोदरं दमोपेतं केशवं केशिसूदनम्‌॥
वरेण्यंवरदं विष्णुमानंदं वसुदेवजम्‌॥७॥

हिरण्यरेतसं दीप्तंपुराणं पुरुषोत्तमम्॥
सकलं निष्कलं शुद्धं निर्गुणं गुणशाश्वतम्॥८॥

हिरण्यतनुसंकाशं सूर्यायुतसमप्रभम्‌॥
मेघश्यामं चतुर्बाहुं कुशलं कमलेक्षणम्‌॥९॥

ज्योतीरूपमरूपं च स्वरूपं रूपसंस्थितम्‌॥
सर्वज्ञं सर्वरूपस्थं सर्वेशं सर्वतोमुखम्‌॥१०॥

ज्ञानं कूटस्थमचलं ज्ञानदं परमं प्रभुम्‌॥
योगीशं योगनिष्णातं योगिनं योगरूपिणम्‌॥११॥

ईश्वरंसर्वभूतानां वंदे भूतमयं प्रभुम्‌॥
इतिनामशतंदिव्यं वैष्णवं खलु पापहम्‌॥१२॥

व्यासेन कथितं पूर्वंसर्वपापप्रणाशनम्‌॥
यः पठेत्प्रातरुत्थाय सभवेद्वैष्णवो नरः॥१३॥

सर्वपापविशुद्धात्माविष्णुसायुज्यमाप्नुयात्‌॥
चांद्रायणसहस्राणि कन्यादानशतानि च॥१४॥

गवां लक्षसहस्राणि मुक्तिभागी भवेन्नरः॥
अश्वमेधायुतं पुण्यं फलं प्राप्नोति मानवः॥१५॥

इति श्रीविष्णुपुराणे विष्णुशतनामस्तोत्रं संपूर्णम्‌॥६८॥

अथ महालक्ष्म्यष्टकप्रारंभः।

श्रीगणेशाय नमः॥

इंद्र उवाच॥

नमस्तेऽस्तु महामाये श्रीपीठे सुरपूजिते॥
शंखचक्रगदाहस्ते महालक्ष्मिनमोऽस्तुते॥१॥

नमस्ते गरुडारूढे कोलासुरभयंकरि॥
सर्वपापहरे देवि महालक्ष्मि०॥२॥

सर्वज्ञे सर्ववरदे सर्वदुष्टभयंकरि॥
सर्वदुःखहरे देविमहाल०॥३॥

सिद्धिवुद्धिप्रदे देवि भुक्तिसुक्तिप्रदायिनि॥
मंत्रमूर्ते सदादेवि महाल०॥४॥

आद्यंतरहिते देवि आद्यशक्ति महेश्वरि॥
योगजे योगसंभूते महालक्ष्मि०॥५॥

स्थूलसूक्ष्ममहारौद्रे महाशक्ति महोदरे॥
महापापहरे देविमहालक्ष्मि०॥६॥

पद्मासनस्थिते देविपरब्रह्मस्वरूपिणि॥
परमेशिजगन्मातर्महालक्ष्मि०॥७॥

श्वेतांवरधरे देवि नानाऽलंकारभूषिते॥
जगात्स्थिते जगन्मातर्महालक्ष्मिनमो०॥८॥

महालक्ष्म्यष्टकस्तोत्रं यः पठेद्भक्तिमान्नरः॥
सर्वसिद्धिमवाप्नेति राज्यं प्राप्नोति सर्वदा॥९॥

॥९॥एककालं पठेन्नित्यं महापापविनाशनम्॥

द्विकालंयः पठेन्नित्यं धनधान्यसमन्वितः॥१०॥

त्रिकालं यः पठेन्नित्यं महाशत्रुविनाशनम्‌॥
महालक्ष्मीर्भेवेन्नित्यंप्रसन्ना वरदा शुभा॥११॥

इतीन्द्रकृतः श्रीमहालक्ष्म्यष्टकस्तवः संपूर्णः॥६९॥

अथ त्रिपुरसन्दरीस्तोत्रप्रारंभः।

श्रीगणेशाय नमः॥

कदंबवनचारिणींमुनिकदंबकादंबिनीं नितंबजितभूधरां सुरनितंबिनीसेक्ताम्‌॥
नवांवुरूहलोचनामभिनवांबुदश्यामलां त्रिलोचनकुटुंबिनीं त्रिपुरसंदरीमाश्रये॥१॥

कदंबवनवासिनीं कनकवल्लकीधारिणीं महार्हमणिहारिणीं मुखसमुल्लसद्वारुणीम्॥
दयाविभवकारिणीं विशदलोचनीं चारिणीं त्रिलोचनकुटुंबिनीं त्रिपुरसुंदरीमाश्रये॥२॥

कदंबवनशालया कुचभरोल्लसन्मालया कुचोपमितिशैलयागुरुकृपालसद्धेलया॥
मदारुणकपोलयामधुरमीतवाचालयाकयापि घन

नीलया कवचिता वयं लीलया॥३॥

कंदबवनमध्यगां कनकमंडलोपस्थितां षडंबुरुहवासिनीं सततसिद्धिसौदामिनीम्॥
विडंबितजपारुचिं विकचचंद्रचूडामणिं त्रिलोचनकुटुंबिनीं त्रिपुरसंदरीमाश्रये॥४॥

कुचांचितविपंचिकां कुटिलकुंतलालं कृतां कुशेशयनिवासिनींकुटिलचित्तविद्वेषिणीम्‌॥
मदारुणविलोचनां मनसिजारिसंमोहिनीं मतंगमुनिकन्यकां मधुरभाषिणीमाश्रये॥५॥

स्मरेत्प्रथमपुष्पिणीं रुधिरबिंदुनीलांबरांग़ृहीतमधुपात्रिकां मधुविधूर्णनेत्रांचलाम्॥
घनस्तनभरोन्नतां गलितचूलिकां श्यामलां त्रिलोचनकुटुंबिनीं त्रिपुरसुंदरीमाश्रये॥६॥

सकुंकुमविलेपनामलकचुंबिकस्तूरिकां समंदहसितेक्षणां सशरचापपाशांकुशाम्॥
अशेषजनमोहिनीमरुणमाल्यभूषांबरां जपाकुसुमभासुरांजपविधौस्मराम्यंबिकाम॥७॥

पुरंदपुरंध्रिकां चिकुरबंधसैरांध्रिकां पितामहपतिव्रतां पटुप

टीरचर्चारताम॥मुकुंदरमणींमणीलसदलंक्रियाकारिणीं भजामि भुवनांबिकां सुरवधूटिकाचेटिकाम्‌॥८॥

इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमच्छंकराचार्यविरचितं त्रिपुरसुन्दरीस्तोत्रं संपूर्णम्‌॥७०॥

अथ देव्यपराधक्षमापनस्तोत्रप्रारंभः।

श्रीगणेशाय नमः॥न मंत्र नो यंत्रं तदपि न च जाने स्तुतिमहो नचाह्वानं ध्यानं सपदिन जानेस्तुतिकथाः॥न जाने मुद्रास्ते तदापि च न जानेपि लपनं परं जाने मातस्त्वदनुसरणं क्लेशहरणम्‌॥१॥

विधेरज्ञानेन द्रविणविरहेणालसतया विधेयाशक्यत्वात्तव चरणयोर्याच्युतिरभूत्‌॥
तदेतत्क्षंतव्यंजननि सकलोद्धारिणि शिवेकुपुत्रो जायेत क्वचिदपि कुमाता न भवति॥२॥

पृथिव्यां पुत्रास्तेजनानि बहवः संति सरलाः परं तेषां मध्ये विरलतरलोऽहं तव सुतः॥
मदीयोऽयं त्यागः समुचि

तमिदं नो तव शिवे कुपुत्रो जायेत क्वचिदपि कुमाता न भवाति॥३॥

जगन्मातर्मातस्तवचरणसेवानरचिता न वा दत्तं देवि द्रविणमति भूयस्तव मया॥
तथापि त्वं स्नेहंमयि निरुपमं यत्प्रकुरुषे कुपुत्रो जायेत क्वचिदपि कुमाता न भवति॥४॥

परित्यक्त्वादेवान्विविधविधिसेवाकुलतया मया पंचाशीतेरधिकमपनीते तु वयसि॥
इदानीं चेन्मातस्तव यदिकृपा नापि भविता निरालंबो लंबोदरजननिकंयामि शरणम्‌॥५॥

श्वपाको जल्पाको भवति मधुपाकोपमगिरा निरातंको रंको विहरतिचिरं कोटिकनकैः॥
तवापर्णे कर्णे विषति मनुवर्णे फलमिदं जनः को जानीते जननि जपनीयं जपविधौ॥६॥

चिताभस्मालेपो गरलमशनं दिक्पटधरो जटाधारी कंठे भुजगपति हारी पशुपतिः॥
कपाली भूतेशो भजति जगदीशैक पदवीं भवानि त्वत्पाणिग्रहणपरिपाटीफलमिदम्‌॥७॥

न मोक्षस्याकांक्षा न च विभववांछापि च न मे
विज्ञानापेक्षा शशिमुखि सुखेच्छापि न पुनः॥
अतस्त्वां संयाचे जननि जननं यातु मम वैमृडानी
रुद्राणी शिव शिव भवानीति जपतः॥८॥

नाराधितासिविधिना विविधोपचारैः कि रूक्षचिंतनपरैर्नकृतं वचोभिः॥
श्यामे त्वमेवयदि किंचन मय्यनाथे धत्से कृपामुचितमंब परं तवैव॥९॥

आपत्सु मग्नःस्मरणं त्वदीयं करोमि दुर्गे करुणार्णवेशिव॥
नैतच्छठत्वं मम भावयेथाः क्षुधातृषार्ताजननींस्मरंति॥१०॥

मत्समः पातकी नास्ति पापघ्नी त्वत्समा न हि॥
एवं ज्ञात्वा महादेवि यथायोग्यं तथा कुरु॥१२॥

इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमच्छंकराचार्य विरचितं देव्यपरापक्षमापनस्तोत्रं संपूर्णम्‌॥७१॥

अथानन्दलहरी प्रारभ्यते।

श्रीगणेश्चायनमः॥
भवानि स्तोतंत्वां प्रभवति च तुर्भिर्नवदनैःप्रजानामीशानस्त्रिपुरमथनः पंचभिरपि॥
न षड्भिः सेनानीर्दशशतमुखैरप्यहिपतिस्तदान्येषां केषां कथय कथमस्मिन्नवसरः॥१॥

धृतक्षी रुद्राक्षामधुमधुरिमा कैरपि पदैर्विशिष्यानाख्येयो भवति रसनामात्रविषयः॥
तथा ते सौंदर्यंपरमशि वदङ्मात्रविषयः कथंकारंं ब्रूमःसकलनिगमागोचरगुणे॥२॥

मुखे ते तांबूलं नयनयुगुले कज्जलकला ललाटे काश्मीरं विलसति गले मौक्तिकलता॥
स्फुरत्कांची शाटीपृथुकटितटे हाटकमयी भजामस्त्वां गौरीं नगपतिकिशोरीमविरतम्‌॥३॥

विराजन्मंदारद्रुमकुसुमहारस्तनतटी नदद्वीणानादश्रवणविलसत्कुंडलगुणा॥
नतांगी मातंगी रुचिरगतिभंगी भगवती सती शांंभोरंभोरुहचटुलचक्षुर्विजयते॥४॥

नवीनार्कभ्रागजन्मणिकनकभूषापरि

करैर्वृतांगी सारंगीरुचिरनयनांगीकृताशिवा॥
तडित्पीता पीतांबरललितमंजीरसुभगा ममाऽपर्णापूर्णा निरवधिसुखैरस्तु सुमुखी॥५॥

हिमाद्रेःसंभूता सुललितकरैःपल्लवयुता सुपुष्पा मुक्ताभिर्भ्रमरकलिता चालकभरैः॥
कृतस्थाणुस्थाना कुचफलनता सूक्तिसरसा रुजां हंत्री गंत्री विलसति चिदानंदलतिका॥६॥

सपर्णामाकीर्णां कतिपयगुणैःसादरमिह श्रयंत्यन्ये वल्लींमम तु मतिरेवं विलसति॥
अपर्णेका सेव्या जगति सकलैर्यत्परिवृतःपुराणोऽपि स्थाणुः फलति किलकैवल्यपदवीम्‌॥७॥

विधात्री धर्माणां त्वमसिसकलाम्नायजननी त्वमर्थानां मूलंधनदनमनीयांघ्रिकमले॥
त्वमादिः कामानां जननि कृतकंदर्पविजये सतांमुक्तेर्बीजं त्वमसि परमब्रह्ममहिषी॥८॥

प्रभूता भक्तिस्ते यदपि न ममालोलमनसस्त्वया तु श्रीमत्या सदयमवलोक्योऽहमधुना।
पयोदः पानीयं

दिशति मधुरं चातकमुखे भृशं शंके कैर्वाविधिभिरनुनीता मममतिः॥९॥

कृपापांगालोकंवितरतरसा साधुचरिते न ते युक्तोपेक्षा मयि शरणदी क्षामुपगते॥
न चेदिष्टं दद्यादनुपदमहोकल्पलतिका विशेषः सामान्यैःकथमितरवल्लीपरिकरैः॥१०॥

महातं विश्वासं तवचरणपंकेरुहयुगे निधायान्यत्रैवाश्रितमिह मया देवतमुमे॥
तथाऽपि त्वच्चेतो यदि मयि न जायेत समयं निरालंबो लंबोदरजननि कं यामिशरणम्‌॥११॥

अयःस्पर्शे लग्नं सपदि लभते हेमपदवीं यथा रथ्यापाथः शुचि भवति गंगौघमिलितम्॥
तथा तत्तत्पापैरतिमलिनमंतर्मम यरि त्वयि प्रेम्णा सक्तं कथामिव न जायेत विमलम्‌॥१२॥

त्वदन्यस्मादिच्छाविषयफललाभेन नियमस्त्वमर्थानामिच्छाधिकमपि समर्था वितरणे॥
इवि प्राहुःप्राञ्चः कमलभवनाद्यास्त्त्वयि मनस्लदासक्तं नक्तं दिवमुचितमीशानिकुरुत

त्‌॥१३॥

स्फुरन्नानारत्नस्फटिकमयभित्तिप्रति फलत्वदाकारं चञ्चच्छशधरविलासौघशिखरम्॥
मुकुन्दब्रह्मेंद्रप्रभृतिपरिवारं विजयते तवागारं रम्यं त्रिभुवनमहाराजगृहिणि॥१४॥

निवासः कलासे विधिशतमखाद्याः स्तुतिकराः कुटुंबं त्रैलोक्यं कृतकरपुटः सिद्धिनिकरः॥महेशः प्राणेशस्तदवनिधराधीशतनये न ते सौभाग्यस्य क्वचिदापि मनागस्ति तुलना॥१५॥

वृषो वृद्धो यानंविषमशनमाशा निवसनं श्मशानंक्रीडाभूर्भुजगनिवहो भूषणविधिः॥
समग्रा सामग्री जगति विदितैव स्मररिपोर्यदेतस्यैश्वर्यं तव जननि सौभाग्यमहिमा॥१६॥

अशेषब्रह्मांडप्रलयविधिनैसर्गिकमतिः श्मशानेष्वासीनः कृतभसितलेपःपशुपतिः॥
दधौ कंठे हालाहलमखिलभूगोलक़ृपया भवत्याः संगत्याः फलमिति च कल्याणि कलये॥१७॥

त्वदीयं सौन्दर्यंनिरतिशयमालोक्य परया भियैवासीद्गंगा जलमयतनुःशैलतनये॥तदेतस्यास्ताम्यद्वद

नकमलंवीक्ष्य कृपया प्रातिष्ठामातेने निजशिरसि वासेन गिरिशः॥१८॥

विशालश्रीखंडद्रवमृगदाकीर्णघुसृणप्रसूनव्यामिश्रंभगवति नवाभ्यंगसलिलम्॥
समादाय स्रष्टाचलितपदपांसून्निजकरैः समाधत्ते सृष्टिं विबुधपुरपंकेरुहदृशाम्‌॥१९॥

वसंते सानंदे कुसुमितलताभिःपरिवृते स्फुरन्नानापद्मे सरसिकलहंसालिसुभगे॥
सखीभिः खेलंतीं मलयपदनांदोलितजले स्मरेद्यस्त्वां तस्य ज्वरजनितपीडाऽपसरति॥२०॥

इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमच्छंकराचार्यविरचिताऽनंदलहरी संपूर्णा॥७२॥

अथ देवकृतलक्ष्मीस्तोत्रप्रारंभः।

श्रीगणेशाय नमः॥

क्षमस्व भगवत्यंबक्षमाशीले परात्परे॥शुद्धसत्त्वस्वरूपे च कोपादिपरिवर्जिते॥१॥

उपमे सर्वसाध्वीनां देवीनां देवपूजिते॥
त्वया विना जगत्सर्वं मृततुल्यं च निष्फलम्‌॥२॥

सर्वसंपत्स्वरूपा त्वं सर्वेषां सर्वरूपिणी॥ रासेश्वर्य

धिदेवी त्वंत्वत्कलाः सवेयोषितः॥३॥

कैलासे पार्वती त्वं च क्षिरोदे सिंधुकन्यका॥
स्वर्गेच स्वर्गलक्ष्मीस्त्वं मर्त्यलक्ष्मीश्चभूतले॥४॥

वैकुंठे च महाल्क्ष्मीर्देवदेवीसरस्वती॥

गंगा च तलसी त्वं च सावित्री ब्रह्मलोकतः॥५॥

कृष्णप्राणाधिदेवी त्वं गोलोके राधिका स्वयम्॥
रासे रासेश्वरी त्वं च वृंदावनवने वने॥५॥

कृष्णप्रियातं भांडीरे चंद्राचंदनकानने॥
विरजा चंपकवने शतश्रृंगेच सुंदरी॥७॥

पद्मावती पद्मवने मालती मालतीवने॥
कुंददंती कुंदवने सुशीला केतकीवने॥८॥

कदंबमाला त्वं देवी कदंबकाननेऽपि च॥
राजलक्ष्मी राजगेहे गृहलक्ष्मीर्गृहे गृहे॥९॥

इत्युक्त्वा देवताः सर्वे मुनयो मनवस्तथा॥
रुरुदुर्नम्रवदनाःशुष्ककं ठोष्ठतालुकाः॥१०॥

इति लक्ष्मीस्तवं पुण्यं सर्व देवैः कृतं शभम्‌॥
यः पठेत्प्रातरुत्थाय स वैसर्वंलभेद्धुवम्॥११॥

अभार्योलभते भार्यां विनीतां च सुतां सतीम्॥
सुशीलांसुंदरीं रम्यामतिसु

प्रियवादिनीम्॥१२॥

पुत्रपौत्रवतीं शुद्धां कुलजां कोमलां वराम्॥
अपुत्रो लभते पुत्रं वैष्णवं चिरजीविनम्‌॥१३॥

परमैश्वर्यंयुक्तं च विद्यावंतंयशस्विनम्‌॥
भ्रष्टराज्यो लभेद्राज्यं भ्रष्टश्रीर्लभभते श्रियम्॥१४॥

हतबंधुर्लभेद्बंधुं धनभ्रष्टोधनं लभेत्॥
कीर्तिहीनोलभेत्कीर्तिं प्रतिष्ठांच लभेद्ध्रुवम्॥१५॥

सर्वमङ्गलदं स्तोत्रंशोकसंतापनाशनम्‌॥
हर्षानंदकरं शश्वद्धर्ममोक्षसुहृत्प्रदम्॥१६॥

इति श्रीदेवकृतरक्ष्मीस्तोत्रं संपूर्णम्‌॥७३॥

अथ वाराहीनिग्रहाष्टकप्रारंभः।

श्रीगणेशाय नमः॥

देवि क्रोडमुखि त्वदंघ्रिकमलद्वंद्वानुरक्तात्मने मह्यं द्रुह्यति यो महेशि मनसा कायेन वाचानरः॥
तस्याशुत्वदयोग्रनिष्ठुरहलाघातप्रभूतव्यथापर्यस्यन्मनसोभवंतु वपुषः प्राणाः प्रयाणोन्मुखाः॥१॥

देवि त्वत्पदपद्मभक्तिविभवप्रक्षीणदुष्कर्मणि प्रादुर्भूतनृशंसभावमलिनां वृत्तिं विधत्ते मयि॥
यो देहीभुवने तदीयद्हृदयान्निर्गत्वरै

र्लोहितैः सद्यः पूरयसेकराब्जचषकं वांछाफलैर्मामपि॥२॥

चंडोत्तुंडविदीर्णदुष्टहृदयप्रोद्भिन्नरक्तच्छटाहालापानमदाट्टहासनिनदाटोपप्रतापोत्कटम्॥
मातर्मत्परिपंथिनामपहृतैःप्राणैस्त्वदंघ्रिद्वयं ध्यानोद्दामरवैर्भवोदयवशात्संतर्पयामि क्षणात्‌॥३॥

श्यामांतामरसाननांघ्रिनयनां सोमार्धचूडांजगत्राणव्यग्रहलायुधाग्रमुसलां संत्रासमुद्रावतीम्॥

ये त्वां रक्तकपालिनीं हरवरारोहे वराहाननां भावैः संदधते कथं क्षणमपि प्राणंतितेषां द्विषः॥४॥

विश्वाधीश्वरवल्लभेविजयसे या तं नियंत्र्यात्मिका भूतांता पुरुषायुषावाधिकरी पाकप्रदा कर्मणाम्‌॥
त्वां याचे भवतीं किमप्यवितथं को मद्विरोधी जनस्तस्यायुर्मम वांछितावधिभवेन्मातस्तवैवाज्ञया॥५॥

मातः सम्यगुपासितुं जडमतिस्त्वां नैव शक्नोम्यहंयद्यप्यन्वितदैशिकांघ्रिकमलानु्क्रोशपात्रस्यमे॥

जंतुःकश्चनचिंतयत्यकुशलंयस्तस्य तद्वैशसं भूयाद्देविविरोधिनो मम च ते श्रेयः पदासं-

गिनः॥६॥

वाराहिव्यथमानमानसगलत्सौख्यं तदाशावालिं सीदंतं यमपाकृताध्यवसितं प्राप्ता खिलोत्पादितम्‌॥क्रंदद्बंधुजनैःकरंकितकुलंकंठव्रणोद्यत्कृमिं पश्यामि प्रतिपक्षमाशु पतितं भ्रांतं लुठंतं मुहुः॥७॥

वाराहित्वमशेषजंतुषु पुनःप्राणात्मिका स्पंदसे शक्तिव्याप्तचरा चराखलु यतस्त्वा मेतदभ्यर्थये॥त्वत्पादांबुजसांगिनो मम सकृत्पापं चिकीर्षंति ये तेषां मा कुरुशंकरप्रियतमे देदांतरावस्थितिम्‌॥८॥

इति श्रीवाराहीनिग्रहाष्टकम्॥७४॥

अथ वाराह्यनुग्रहाष्टकप्रारंभः।

श्रीगणेशाय नमः॥

ईश्वरउवाच॥

मातर्जगद्रचननाटकसूत्रधारः सद्रूपमाकलयितुंपरमार्थतोयम्‌॥
ईशोप्यनीश्वरपदं समुपैति तादृक्केन स्तवं किमिव तावकमादधातु॥१॥

नामानि किं तु ग्रणतस्तव लोकतुंडे नाडंबरं स्पृशते दंडधरस्य दंडः॥
यल्लेशलंबितभवांबुधिनिर्यतोयत्वन्नामसंसृतिरियं ननु न स्तुतिस्ते॥२॥

त्वाच्चिंतनादरसमुल्लसदप्रमेया

नंदोदयात्संमुदितःस्फुटरोमहर्षः॥
मातर्नमामिसुदिनानि सदेत्यमुं त्वामभ्यर्थयेऽर्थमिति पूरयताद्दयालो॥३॥

इंद्रेंदुमौलिविधिकेशवमौलिरत्नरोचिश्चयोज्ज्वलितपादसरोजयुग्मे॥
चेतो मतौमम सदाप्रतिबिंबिता त्वंभूयाद्भवानि विदधातु सदोरुहारे॥४॥

लीलोद्धृतक्षितितलस्य वराहमूर्तेर्वाराहिमार्तिरखिलार्थकरीत्वमेव॥
प्रालेयरश्मिसुखलोल्लसितावतंसा त्वं देवि वामतनुभागहरा हरस्य॥५॥

त्वामंबतप्तकनकोज्ज्वलकांतिमंतर्येचिंतयन्तियुवतीतनुमागलांताम्‌॥चक्रायुधत्रिनयनांबरपोतृवक्त्रां तेषांपदांबुजयुगंप्रणमंतिदेवाः॥६॥

त्वत्से वनस्खलितपापचयस्य मार्तमोक्षोऽपि यत्र न सतां गणनामुपैति॥ देवासुरोरगनृपालनमस्यपादस्तत्र श्रियः पटुगिरः कियदेवमस्तु॥७॥

किंदुष्करं त्वयिमनोविषयं गतायां किं दुर्लभंत्वयि विधानवदर्चितायाम्॥
किं दुष्करं त्वयि सकृत्स्मृतिमागता

यां कि दुजयंत्वयिकृतस्तुतिवादपुंसाम्॥८॥

इति श्रीवाराह्मनुग्रहाष्टकंसंपूर्णम्‌॥७५॥

अथ ताराष्टकप्रारम्भः।

श्रीगणेशाय नमः॥

मातनीलसरस्वति प्रणमतांसौ भाग्यसंपत्प्रदे प्रत्यालीढपदस्थिते शिवहृदि स्मेराननांभोरुहे॥
फुल्लेंदीवरलोचनत्रययुते कर्त्री कपालोत्पले खङ्गंचादधती त्वमेव शरणं त्वामीश्वरीमाश्रये॥१॥

वाचामीश्वरि भक्तकल्पलतिके सर्वार्थसिद्धिप्रदे॥
गद्यप्राकृतपद्यजातरचनासर्वत्रसिद्धिप्रदे॥
नीलेंदीवरलोचनत्रययुतेकारुण्यवारांनिधे सौभाग्यामृतवर्षणेन कृपया सिंच त्वमस्मादृशम्॥२॥

सर्वे गर्वसमूहपूरिततनोसर्पादिवेषोज्ज्वले व्याघ्रत्वक्परिवीतसुंदरकटिव्याधूतघंटांकिते॥
सद्यः कृत्तगलद्रजःपरिमिलन्मुंडद्वयीमूर्धजग्रंथिश्रेणिनृमुंडदामललिते भीमे भयं नाशय॥३॥

मायानं गविकाररूपललनाबिन्द्वर्धचंद्रात्मिके हुंफट्कारमयि त्वमेव शरणं मंत्रात्मिके मादृशः॥
मूर्तिस्ते ज

ननि त्रिधामघटिता स्थूलाऽतिसूक्ष्मापरा वेदानां
न हि गोचरा कथमपि प्राप्तं नुतामाश्रये॥४॥

त्वत्पादांबुजसेवया सुकृतिनो गच्छंति सायुज्यतां
तस्य स्त्री परमेश्वरी त्रिनयनब्रह्मादिसाम्यात्मनः॥
संसारांबुधिमज्जने पटुतनून्देवेंद्रमुख्यान्सुरान्मात

स्त्वत्पदसेवने हि विमुखो यो मंदधीः सेवते॥५॥

मातस्त्वत्पदपंकजद्वयरजोमुद्रांककोटीरिणस्ते दे
वाजयसंगरे विजयिनो निःशकमंके गताः॥
देवोऽहं भुवने न मे सम इति स्पर्धांवहंतः परे तत्तुल्यं नियतं यथाऽसुभिरमी नां वृजंति स्वयम्‌॥६॥

त्वन्नामस्मरणात्पलायनपरा द्रष्टुंच शक्ता न तेभूतप्रे तपिशाचराक्षसगणा यक्षाश्चनागाधिपाः॥
दैत्यादानवपुंगवाश्चखचरा व्याघ्रादिका जंतवों डाकि न्यःकुपितांतकाश्चमनुजं मातःक्षणं भूतले॥७॥

लक्ष्मीःसिद्धगणाश्च पादुकमुखाः सिद्धास्तथा वारिणःस्तंभश्चापिरणांगणे गजघटास्तंभस्तथा मोहनम्॥
मातस्त्वत्पदसेवयाखलुनृणां सिध्यंति ते ते गु

णाःकांतिःकातमनोभवस्य भवति क्षुद्रोऽपिवाचस्पतिः॥८॥

ताराष्टकमिदं रम्यं भक्तिमान्‌ यःपेठन्नरः॥प्रातर्मध्याह्नकाले च सायाह्नेनियतःशुचिः॥९॥

लभते कवितांदिव्यां सर्वशास्त्रार्थविद्भवेत्॥
लक्ष्मीमनश्चरां प्राप्य भुक्त्वा भोगान्‌ यथेप्सितान्‌॥१०॥

कीर्तिं कांतिं च नैरुज्यं सर्वेषां प्रियतां व्रजेत्‌॥
विख्यातिं चापि लोकेषु प्राप्यांते मोक्षमाप्नुयात्‌॥११॥

इति नीलतंत्रेसाराष्टकं संपूर्णम्‌॥७६॥

अथ शीतलाष्टकप्रारंभः।

श्रीगणेशाय नमः॥अस्य श्रीशीतलास्तोत्रस्य॥ महादेवऋषिः॥अनुष्टप्छंदः॥शीतला देवता॥ ‘लक्ष्मीर्बीजम्॥भवानी शक्तिः॥सर्वविस्फोटकनिवृत्तये जपे विनियोगः॥ईश्वरउवाच॥वंदेऽहं शीतलां देवी रासभस्थां दिगंबराम्‌॥ मार्जनीकलशोपेतां शूर्पालंकृतमस्तकाम्॥१॥

वंदेहं शीतलां देवीं सर्वरोगभयापहाम्‌॥यामासाद्य निवर्तेत विस्पोटकभयं महत्‌॥२॥

शीतले शीतलेचेति यो

ब्रूयाद्दाहपीडितः॥
विस्फोटकभयं घोरं क्षिप्रं तस्य प्रणश्यति॥३॥

यस्त्वामुदकमध्येतु धृत्वापूजयतेनरः॥
विस्फोटकभयं घोरं गृहे तस्य न जायते॥४॥

शीतलेश्वरदग्धस्य पूतिगंधयुतस्य च॥
प्रनष्टचक्षुषःपुंसस्त्वामाहुर्जीवनौषधम्॥५॥

शीतले तनुजान्‌ रोगान्नृणां हरसिदुस्त्यजान्‌॥
विस्फोटकविजीर्णानां त्वमेकाऽमृतवर्षणि॥६॥

गलगंडग्रहारोगा ये चान्ये दारुणा नृणाम्‌॥
त्वदनुध्यानमात्रेण शीतले यांति संक्षयम्‌॥७॥

न मंत्रं नौषधं तस्य पापरोगस्य विद्यते॥
त्वामेकांशीतले धात्रींनान्यां पश्यामि देवताम्‌॥८॥

मृणालतंतुसदृशीं नाभिहृन्मध्यसस्थिताम्‌॥
यस्त्वांसंचितयेद्देवि तस्य मृत्युर्नजायते॥९॥

अष्टकं शीतला देव्या यो नरः प्रपठेत्सदा॥
विस्पोटकभयं घोरं गृहे तस्य न जायते॥१०॥

श्रोतव्यं पठितव्यं च श्रद्धाभाक्तिसमन्वितैः॥
उपसर्गविनाशाय परंस्वस्त्ययनं महत्॥११॥

शीतल तं जगन्माता शीतले त्वं जगत्पि

ता॥
शीतले त्वंंजगद्धात्री शीतलायैनमोनमः॥१२॥

रासभो गर्दभश्चैवखरो वैशाखनंदनः॥
शीतलावाहनश्चैवदूर्वाकंदनिकृंतनः॥१३॥

एतानि खरनामानि शीतलाग्रे तु यः पठेत्‌॥
तस्य गेहे शिशूनां च शीतलारुङ् नजायते॥१४॥

शीतलाष्टकमेवेदं न देयंयस्य कृस्यचित्‌॥
दातव्यंच सदा तस्मैश्रद्धाभक्तियुतायवै॥१५॥

इति श्री स्कंदपुराणे शीतलाष्टकस्तोत्रंसंपूर्णम्‌॥७७॥

अथ अन्नपूणास्तोत्नप्रारंभः।

श्रीगणेशाय नम॥ नित्यानंदकरी वराभयकरी सौंदर्यरत्नाकरी निर्धूताखिलघोरपावनकरी प्रत्यक्षमाहेश्वरी॥ प्रालेयाचलवंशपावनकरी काशीपुराधीश्वरी भिक्षां देहि कृपावलंबनकरी मातान्नपूर्णेश्वरी॥१॥

नानारत्नाविचित्रभूषणकरी हेमांबराडंबरी मुक्ताहारविलंबमानविलसद्वक्षोजकुंभांतरी॥
काश्मीरागुरुवासिता रुचिकरी काशीपुराधीश्वरी भिक्षां देहिकृपा°॥२॥

योगानंदकरी रिपुक्षय

करी धर्मार्थनिष्ठाकरी चंद्रार्कानलभासमानलहरी त्रैलोक्यरक्षाकरी॥
सर्वैश्वर्यसमस्तवांछितकरी काशीपुराधीश्वरी भिक्षां देहि कृपा ०॥३॥

कैलासाचलकंदरालयकरी गौरी उमा शंकरी कौमारी निगमार्थगोचरकरी ओंकारबीजाक्षरी॥
मोक्षद्वारकपाटपाटनकरी काशीपुराधीश्वरी भिक्षां देहि कृपा॥४॥

दृश्यादृश्यप्रभृूतवाहनकरी ब्रह्मांडभांडोदरीलीलानाटकसूत्रभेदनकरी विज्ञानदीपांकुरी॥श्रीविश्वेशमनः प्रसादनकरी काशीपुराधीश्वरी भिक्षां देहि कृपावलंबनकरीमातान्नपूर्णेश्वरी॥५॥

उर्वीसर्वजनेश्वरी भगवतीमातान्नपूर्णेश्वरी वेणीनीलसमानकुंतलहरी नित्यान्नदानेश्वरी॥
सर्वानंदकरी दशाशुभकरी काशीपुराधीश्वरी भिक्षां देहि कृपा.॥६॥

आदीक्षांतसमस्तवर्णनकरी शंभोस्त्रिभावाकरी काश्मीरात्रिजलेश्वरी त्रिलहरी नित्यांकुरा शर्वरी॥
कामाकांक्षकरी जनोदयकरी काशीपुराधीश्वरी भिक्षां देहि कृपा०॥७॥

देवी सर्वविचित्ररत्नरचिता दाक्षायणी सुंदरी वामस्वादुपयोधरप्रियकरी सौभाग्यमाहेश्वरी॥
भक्ताभीष्टकरीदशाशुभकरी काशीपुराधीश्वरी भिक्षां देहि कृपा"॥८॥

चंद्रार्कानलकोटिकोटिसदृशाचंद्रांशुबिंबाधरी चंद्रार्काग्निसमानकुंतलधरी चंद्रार्कवर्णेश्वरी॥
मालापुस्तकपाशसांकुशधरी काशीपुराधीश्वरी भिक्षां देहि कृपा ०॥९॥

क्षत्रत्राणकरी महाऽभयकरी माता कृपासागरी साक्षान्मोक्षकरीसदा शिवकरी विश्वेश्वरश्रीधरी॥दक्षाक्रंदकरी निरामयकरी काशीपुराधीश्वरी भिक्षां देहि कृपा"॥१०॥

अन्नपूर्णे सदापूर्णे शंकरप्राणवल्लभे॥
ज्ञानवैराग्यसिद्ध्यर्थं भिक्षां देहि च पार्वति॥११॥

माता च पार्वती देवी पिता देवो महेश्वरः॥
बांधवाःशिवभक्ताश्च स्वदेशोभुवनत्रयम्॥१२॥

इति श्रीमच्छंकराचार्यविरचितं अन्नपूर्णाष्टकस्तोत्रं७८

अथ राधाकवचप्रारंभः।

श्रीगणेशाय नमः॥ पार्वत्युवाच॥ कैलासवासिन्

भगवन्‌ भक्तानुग्रहकारक॥
राधिकाकवचं पुण्यंकयस्व मम प्रभो॥१॥

यद्यस्ति करुणा नाथ त्राहि मां दःखतो भयात्‌॥
त्वमेव शरणं नाथ शूलपाणे पिनाकधृक्॥२॥

शिव उवाच॥
शृणुष्व गिरिजे तभ्यं कवचं पूर्वसूचितम्‌॥
सर्वरक्षाकरं पुण्यं सर्वहत्याहरं परम्॥३॥

हरिभक्तिप्रदं साक्षाद्भुक्तिमुक्तिप्रसाधनम्॥
त्रैलोक्याकर्षणं देविहरिसां निध्यकारकम्‌॥
सर्वत्रजयदं देवि सर्वशत्रुभयावहम्‌॥
सर्वेषां चैैव भूतानां मनोवृत्तिहरंपरम्‌॥९॥

चतुर्धामुक्तिजनकं सदानंदकरं परम्‌॥
राजसूयाश्वमेधानां यज्ञानां फलदायकम्‌॥६॥

इदंकवचमज्ञात्वा राधामंत्रं यो जपेत्‌॥
स नाप्नोतिफलं तस्य विघ्नास्तस्य पदे पदे॥७॥

ऋषिरस्य महादेवोऽनुष्टुप्छंदश्चकीर्तितम्‌॥
राधास्य देवताप्रोक्ता रांबीजं कीलकं स्मृतम्‌॥८॥

धर्मार्थ काममोक्षेषुविनियोगः प्रकीर्तितः॥
श्रीराधा मेशिरः पातुललाटंराधिकातथा॥९॥

श्रीमती नेत्रयुगलं

कर्णौ गोपेंद्रनंदिनी॥
हरिप्रिया नासिकां च भ्रूयुगं शशिशोभना॥१०॥

ओष्ठं पातु कृपादेवी अधरं गोपिका तथा॥
वृषभानुसुता दन्तांश्चिबुकंगोपनंदिनी॥११॥

चंद्रावली पातु गण्डं जिह्वाकृष्णप्रिया तथा॥
कंठं पातु हरिप्राणा हृदयं विजया तथा॥१२॥

बाहू द्वौचंद्रवदना उदरं सुबलस्वसा॥
कटियोगान्विता पातु ऊरू सौभद्रिकानना॥१३॥

पादौचंद्रमुखी पातु गुल्फौगोपालवल्लभा॥
नखान् विधुमुखी देवी गोपी पादतलं तथा॥१४॥

शुभप्रदा पातु पृष्ठं कक्षौ श्रीकांतवल्लभा॥
जानुदेश जया पातु हरिणी पातु सर्वतः॥१५॥

वाक्यं वाणी सदा पातु धनागारं धनेश्चरी॥
पूर्वोदिशंकृष्णरता कृष्णप्राणा च पश्चिमाम्‌॥१६॥

उत्तरां हरिता पातु दक्षिणांवृषभानुजा॥
चंद्रावली नैशमेव दिवा क्ष्वेडितमेखला॥१७॥

सौभाग्यदा मध्यदिने सायाह्नेकामरूपिणी॥
रौद्रीप्रातः पातु मां हि गोपिनी रजनीक्षये॥१८॥

हे

तदा संगवे पातु केतुमाला दिवार्धके॥
शेषाऽपराह्णसमये शमिता सर्वसंधिषु॥१९॥

योगिनी भोगसमये रतौरतिप्रदा सदा॥
कामेशी कौतुके नित्यं योगे रत्नावलीमम ॥२०॥

सर्वदा सर्वकार्येषु राधिका कृष्णमानसा॥
इत्येत्कथितं देवि केवचं परमाद्भुतम्‌॥२१॥

सर्वरक्षाकरं नाम महारक्षाकरं परम्‌॥
प्रातर्मध्याह्नसमयेसायाह्ने प्रपठेद्यदि॥२२॥

सर्वार्थसिद्धिस्तस्य स्याद्यद्यन्मनसि वर्तते॥
राजद्वारे सभायां च संग्रामे शत्रुसंकटे॥२३॥

प्राणार्थनाशसमये यः पटेत्प्रयतोनरः॥
तस्यसिद्धिर्भवेद्देवि न भयं विद्यते क्वचित्‌॥२४॥

आराधिता राधिका च तेन सत्यं न संशयः॥
गंगास्नानाद्धरेर्नामग्रहणाद्यत्फलं लभेत्‌॥२५॥

तत्फलं तस्य भवति यः पठेत्प्रयतः शुचिः॥
हरिद्रारोचनाचंद्रमंडितं हरिचंदनम्‌॥२६॥

कृत्वा लिखित्वा भूर्जेच धारयेन्मस्तके भुजे॥
कंठे वा देवदेवेशि सहरिर्नात्रसंशयः॥२७॥

कवचस्यप्रसादेन ब्रह्मा

सृष्टिं स्थितिं हरिः॥
संहारं चाहं नियतं करोमि कुरुते तथा॥२८॥

वैष्णवाय विशुद्धाय विरागगुणशालिने॥
दद्यात्कवचमव्यग्रमन्यथा नाशमाप्नुयात्‌॥२९॥

इति श्रीनारदपंचरात्रे ज्ञानामृतसारे राधाकवचंसमाप्तम्॥७९॥

अथतुलसीस्तोत्रप्रारंभः।

श्रीगणेशाय नमः॥
जगद्धात्रि नमस्तुभ्यं विष्णोश्च प्रियवल्लभे॥
यतोब्रह्मादयो देवाः सृष्टिस्थित्यंतकारिणः॥१॥

नमस्तुलसि कल्याणि नमो विष्णुप्रिये शुभे॥
नमो मोक्षप्रदे देवि नमः संपत्प्रदायिके॥२॥

तुलसी पातुमां नित्यं सर्वापद्भ्योऽपि सर्वदा॥
कीर्तितापि स्मृता वापि पवि्त्रयतिमानवम्॥३॥

नमामिशिरसा देवीं तुलसीं विलसत्तनुम्॥
यां दृष्ट्वा पापिनोमर्त्यां मुच्यंते तत्र किल्बिषात्॥४॥

तुलस्यारक्षित सर्वंजगदेतच्चराचरम्‌॥
या विनिर्हंति पापानि दृष्टा वा पापिभिर्नरैः॥५॥

नमस्तुलस्यतितरां यस्यैबद्धा बलिं

कलौ॥
कलयंति सुखं सर्वं स्त्रियोवैश्यास्तथापरे॥६॥

तुलस्या नापरं किंचिद्दैवतं जगतीतले॥
यया पवि्त्रितो लोको विष्णुसंगेन वैष्णवः॥७॥

तुलस्याः पल्लवं विष्णोः शिरस्यारोपितं कलौ॥
आरोपयति सर्वाणि श्रेयांसि वरमस्तके॥८॥

तुलस्यां सकला देवा वसंति सततं यतः॥
अतस्तामर्चयेल्लोके सर्वान्देवान्समर्चयन्‌॥९॥

नमस्तुलसिसर्वज्ञे पुरुषोत्तमवल्लभे॥
पाहि मां सर्वपापेभ्यः सर्वसंप्रदायिके॥१०॥

इति स्तोत्रं पुरागीतं पुण्डरीकेण धीमता॥
विष्णुमर्चयता नित्यं शोभनैस्तुलसीदलैः॥११॥

तुलसी श्रीमहाल्क्ष्मीर्विद्याविद्या यशस्विनी॥
धर्म्याधर्मानना देवी देव देवमनःप्रिया॥१२॥

लक्ष्मीः प्रियसखी देवीद्यौर्भूमिरचला चला॥
षोडशैतानि नामानि तुलस्याः कीर्तयेन्नरः॥१३॥

लभते सुतरां भक्तिमंते विष्णुपदं भवेत्॥
तुलसी भूर्महालक्ष्मीः पद्मिनी श्रीहरिप्रिया॥१४॥

तुलसी श्रीसखिशुभे पापहा

रिणि पुण्यदे॥
नमस्ते नारदनुते नारायणमनः प्रिये॥१५॥

इतिश्रीपुंडरीककृतं तुलसीस्तोत्रम्८०

अथ तुलसीकवचप्रारंभः।

श्रीगणेशाय नमः॥
अस्य श्रीतुलसीकवचस्तोत्रमंत्रस्य॥
श्रीमहादेव ऋषिः॥
अनुष्टुप्छंदःश्रीतुलसीदेवता॥
मनईप्सितकामनासिद्ध्यर्थेजपेविनियोगः॥
तुलसि श्रीमहदेवि नमः पंकजधारिणि॥
शिरो मे तुलसी पातुभालंपातु यशस्विनी॥१॥

दृशौमे पद्मनयना श्रीसखी श्रवणे मम॥
घ्राणंपातु सुगंधा मे मुखं च समुखी मम॥२॥

जिह्वांमे पातु शुभदा कंठं विद्यामयी मम॥

स्कन्धौकह्लारिणी पातु हृदयं विष्णुवल्लभा॥३॥

पुण्यदा मे पातु मध्यं नाभिं सौभाग्यदायिनी॥
कटिंकुंडलिनी पातुऊरू नारदवंदिता॥४॥

जननी जानुनी पातु जंघे सकलवंदिता॥
नारायणप्रिया पादौसर्वाङ्गं सर्वरक्षिणी॥५॥

सङ्कटेविषमे

दुर्गे भये वादे महाहवे॥
नित्यं हि सन्ध्ययोः पातु तुलसी सर्वतः सदा॥६॥

इतीदं परमं गुह्यं तुलस्याः कवचामृतम्‌॥
मर्त्योनाममृतार्थाय भीतानामभयाय च॥७॥

मोक्षाय च मुमुक्षूणांध्यायिनांध्यानयोगकृत्‌॥८॥

वशाय वश्यकामानां विद्यायैवेदवादिनाम्‌॥
द्रविणाय दरिद्राणां पापिनांपापशांतये॥९॥

अन्नाय क्षुधितानां च स्वर्गायस्वर्गमिच्छताम्‌॥
पशव्यं पशुकामानांपुत्रदं पुत्रकांक्षिणम्‌॥१०॥

राज्याय भ्रष्टराज्यानामशांतानां च शांतये॥
भक्त्यर्थंविष्णुभक्तानां विष्णौसर्वांतरात्मनि॥११॥

जाप्यं त्रिवर्गसिद्ध्यर्थंगृहस्थेन विशेषतः॥
उद्यंतं चंडकिरणमुपस्थाय कृतांजलिः॥१२॥

तुलसीकानने तिष्ठन्नासीनो वा जपेदिदम॥
सर्वान्कामानवाप्नोति तथैव मम सन्निधिम्॥१३॥

मम प्रियकरं नित्यं हरिभक्तिविवर्धनम्‌॥
या स्यान्मृतप्रजा नारी तस्या अंगं प्रमार्जयेत्‌॥१४॥

सा पुत्रंलभते दीर्घजीवनंचाप्य

रोगिणम्‌॥
वंध्याया मार्जयेदंगं कुशेमैत्रेणसाधकः॥१५॥

सापि संवत्सरादेवगर्भं धत्ते मनोहरम्‌॥
अश्वत्थे राजवश्यार्थी जपेदग्नेःसुरूपभाक्॥३६॥

पलाशमूले विद्यार्थीतेजोर्थ्यभिमुखोरवेः॥
कन्यार्थी चण्डिकागेहे शत्रुहत्यै गृहेमम॥॥१७॥

श्रीकामो विष्णुगेहे च उद्याने स्रीवशाभवेत्‌॥
किमत्रबहूनोक्तेन शृणु सैन्येश तत्त्वतः॥१८॥

यं यंकाममभिघ्यायेत्तं तं प्राप्नोत्यसंशयम्‌
मम गेहगतस्त्वं तु तारकस्यवधेच्छया॥१९॥

जपन्‌ स्तोत्रं च कवचं तुलसीगतमानसः॥मंडला
त्तारकं हंता भविष्यसि न संशयः॥२०॥

इतिश्रीब्रह्मांण्डपुराणे तुलसीमहात्म्येतुलसीकवचंनाम द्वितीयोऽध्यायः॥८१॥ श्रीतुलस्यर्पणमस्तु॥

अथ सूर्यकवचप्रारंभः।

श्रीगणेशाय नमः॥
श्रीसूर्य उवाच॥
सांबसांब महाबाहो शृणु मे कवचं शुभम्‌॥
त्रैलोक्यमंगलं नाम कवचं परमाद्भुतम्‌॥१॥

यज्ज्ञात्वा मंत्रवि

त्सम्यक् फलं प्राप्नोति निश्चितम्‌॥
यद्धृत्वा च महादेवो मणानामधिपोऽभवत्‌॥२॥

पठनाद्धारणाद्विष्णुः सर्वेषां पालकःसदा॥
एवमिंद्रादयःसर्वे सर्वैश्वर्यमवाप्नुयुः॥२॥

कवचस्यऋषिर्ब्रह्माछंदोऽनुष्टुवुदाहृतं॥
श्रीसूर्यो देवता चात्रसर्वदेवनमस्कृतः॥४॥

यश आरोग्यमोक्षेषु विनियोगःप्रकीर्तितः॥
प्रणवो मे शिरःपातु घृणिर्मेपातु भालकम्‌॥५॥

सर्योऽव्यान्नयनद्वंद्वमादित्यःकर्णयुग्मकम्‌॥
अष्टाक्षरो महामंत्रः सर्वाभीष्टफलप्रदः॥६॥

ह्रीबीजं मे मुखं पातु हृदयं भुवनेश्वरी॥
चंद्रबिंबंविंशदाद्यं पातु मे गुह्यदेशकम्‌॥७॥

अक्षरोऽसौमहामंत्रःसर्वतंत्रेषुगोपितः॥
शिवो वह्निसमायुक्तो वामाक्षीबिंदुभूषितः॥८॥

एकाक्षरो महामंत्रः श्रीसूर्यस्य प्रकीर्तितः॥
गुह्याद्गुह्यतरो मंत्रो वांछाचिंतामणिः स्मृतः॥९॥

शीर्षादिपादपर्यतं सदा पातुमनूत्तमः॥
इति ते कथितं दिव्यं त्रिषु लोकेषु दुर्ल्लभम्॥१०॥

श्रीप्रदं कांतिदंनित्यं धनारोग्यविवर्ध

नम्‌॥
कुष्ठादिरोगशमनं महाव्याधिविनाशनम्॥११॥

त्रिसंध्यंं यः पठेन्नित्यमरोगी बलवान्भवेत्‌॥
बहुना किमिहोक्तेन यद्यन्मनसि वर्तते॥१२॥

तत्सर्वंभवेत्तस्य कवचस्य च धारणात्‌॥
भूतप्रेतपिशाचाश्च यक्षगंधर्वराक्षसाः॥१३॥

ब्रह्मराक्षसबेताला न द्रष्टुमपि तं क्षमाः॥
दूरादेव पलायंते तस्य संकीर्तनादपि॥१४॥

भूर्जपत्रेसमालिख्यरोचनागुरुकुंकुमैः॥
रविवारे च संक्रांत्यां सप्तम्यां च विशेषतः॥१५॥

धारयेत्साधकश्रेष्ठः श्रीसूर्यस्य प्रियो भवेत्‌॥
त्रिलोहमध्यगं कृत्वा धारयेद्दक्षिणेकरे॥१६॥

शिखायामथ वा कंठे सोपि सूर्योन सशयः॥
इति ते कथितं सांब त्रैलोक्यमगलाभिधम्॥१७॥

कवचं दुर्ल्लभंलोके तव स्नेहात्पकाशितम्‌॥
अज्ञात्वा कवचं दिव्यं यो जपेत्सूर्यमुत्तमम्॥१८॥

सिद्धिर्नजायते तस्य कल्पकोटिशैरपि॥१९॥

इति श्रीब्रह्मयामलके त्रैलोक्यमंगलं नाम श्रीसूर्यकवचं संपूर्णम्॥८२॥

अथ आदित्यहदयप्रारंभः।

श्रीगणेशाय नमः॥
शतानीकउवाच॥
कथमादित्य मुद्यंतमुपतिष्ठेद्द्विजोत्तम॥
एतन्मे ब्रूहि विप्रेंद्रप्रपद्ये शरणं तव॥१॥

सुमंतुरुवाच॥इदमेव पुरा पृष्टः शंखचक्रगदाधरः॥
प्रणम्य शिरसा देवमर्जुने न महात्मना॥२॥

कुरुक्षेत्रे महाराज प्रवृत्ते भारते रणे॥
कृष्णनाथं समासाद्य प्रार्थयित्वाब्रवीदिदम्॥३॥

अर्जुन उवाच॥
ज्ञानं च धर्मशास्त्राणां गुह्याद्गुह्यतरं तथा॥
मया कृष्ण परिज्ञातं वाङ्मयं सचराचरम्‌॥४॥

सूर्यस्तुतिमयं न्यासं वक्तुर्महसि माधव॥
भक्त्या पृच्छामि देवेश कथयस्व प्रसादतः॥५॥

सूर्यभक्तिं करिष्यामि कथं सूर्यं प्रपूजयेत्‌॥
तदहं श्रोतुमिच्छामि त्वत्प्रसादेन यादव॥६॥

श्रीभगवानुवाच॥ रुद्रादिदैवतैःसर्वैःपृष्टेन कथितं मया॥
वक्ष्येहं सू्यविन्यासं शृणु पांडव यत्नतः॥७॥

अस्माकं यत्त्वया पृष्टमेकचित्तो भवार्जुन॥
तदहंसंप्रवक्ष्यामि आदिमध्यावसानकम्‌॥८॥

अर्जुन उवाच॥नारायण सुरश्रेष्ठ पृच्छामि त्वांमहायशः॥
कथमादित्यमुद्यंतमुपतिष्ठेत्सनातनम्‌॥॥९॥

श्रीभगवानवाच॥साधु पाथं महाबाहो बुद्विमानसि पांडव॥
यन्मां पृच्छस्युपस्थानं तत्पवित्रंविभावसोः॥१०॥

सर्वमंगरमांगल्यंसर्वपापप्रणाशनम्‌॥
सर्वरोगप्रशमनमायुर्वर्धनमुत्तमम्॥११॥

अमित्रदमनं पार्थसंग्रामे जयवर्धनम्‌॥
वर्धनं धनपुत्राणामादित्यहृदयं शृणु॥१२॥

यच्छ्रुत्वा सर्वपापेभ्यो मुच्यते नात्र संशयः॥
त्रिषुलोकेषु विख्यातं निःश्रेयसकरं परम्‌॥१३॥

देव देवं नमस्कृत्य प्रातरुत्थाय चार्जुन॥
विघ्नान्यनेकरूपाणि नश्यंतिस्मरणादपि॥१४॥

तस्मात्सर्वप्रयत्नेन सूर्यमावाहयेत्सदा॥
आदित्यहृदयं नित्यं जाप्यं तच्छृणु पांडव॥१५॥

यज्जपान्मुच्यते जंतुर्दांरिद्र्यादाशु दुस्तरात्॥
लभते च महासिद्धिंकुष्ठव्याधिविनाशिनीम्‌॥१६॥

अस्मिन्मंत्रे ऋषिश्छंदोदेवता शक्तिरेव च॥
सर्वमेव महाबाहो क

थयामि तवाग्रतः॥१७॥

मया ते गोपितं न्यासं सर्वशास्त्रप्रबोधितम्॥
अथ ते कथयिष्यामिउत्तमं मंत्रमेवच॥१८॥

ॐ अस्यश्रीआदित्यहृदयस्तोत्रमंत्रस्य श्रीकृष्ण ऋषिः॥
श्रीसूर्यात्मा त्रिभुवनेश्वरो देवता अनुष्ठप्छंदः॥
हरितहयरथं दिवाकरं घृणिरिति बीजम्‌॥
ॐ नमो भगवते जितवैश्वानरजातवेदस इति शक्तिः॥
ॐ नमो भगवते आदित्याय नम इति कीलकम्‌॥
ॐअग्निगर्भदेवता इति मंत्रः॥
ॐ नमो भगवते तुभ्यमादित्याय नमो नमः॥
श्रीसूर्यनारायणप्रीत्यर्थं जपे विनियोगः॥
अथ न्यासः॥
ॐ ह्रांअंगुष्ठाभ्यां नमः॥
ॐह्रींतर्जनीभ्यां नमः॥
ॐ ह्रूंमध्यमाभ्यां नमः॥
ॐ ह्रें अनामिकाभ्यां नमः॥
ॐह्नौंकनिष्ठिकाभ्यांनमः॥
ॐ ह्रःकरतलकरपृष्ठाभ्यां नमः॥
ॐह्नांहृदयाय नमः॥
ॐ ह्नीं शिरसे स्वहा॥
ॐहूंशिखायै वषट्॥
ॐ ह्नैं कवचायहुम्॥
ॐह्नों नेत्रत्रयायवौषट्॥
ॐह्नःअस्त्राय फट्॥
ॐ ह्रांह्रींह्रूंह्रैंह्रौंह्नः इति दिगबंधः

अथध्यानम्‌।
भास्वद्रत्नाढ्यमौलिःस्फुरदधररुचारंजितश्चारुकेशोभास्वान्योदिव्यतेजाः करकमलयुतःस्वर्णवर्णःप्रभाभिः॥
विश्वाकाशावकाशाग्रहपतिशिखरे भाति यश्चोदयाद्रो सर्वानंदप्रदाताहरिहरनमितः पातु मां विश्वचक्षुः॥१॥

पूर्वमष्टदलंपद्मं प्रणवादिप्रतिष्ठितम्‌॥
मायाबीजं दलाष्टाग्नेयंत्रमुद्धारयेदिति॥२॥

आदित्यं भास्करं भानुंरविं सूर्यंदिवाकरम्‌॥
मार्तंडंतपनं चेति दलेष्वष्टसु योजयेत्‌॥३॥

दीप्ता सूक्ष्मा जया भद्रा विभूतिर्विमला तथा॥
अमोघा विद्युता चेति मध्येश्रीःसर्वतोमुखी॥४॥

सर्वज्ञःसर्वगश्चैव सर्वकारणदेवता॥
सर्वेशं सर्वहृदयं नमामि सर्वसाक्षिणम्‌॥५॥

सर्वात्मा सर्वकर्ताच सृष्टिजीवनपालकः॥
हितः स्वर्गापवर्गश्चभास्करेश नमोऽस्तुते॥६॥

नमो नमस्तेऽस्तु सदा विभावसो सर्वात्मने सप्तहयाय भानवे॥
अनंतशक्तिर्मणिभूषणेन ददस्व भुक्तिंमम मुक्तिमव्ययाम्॥७॥

इति प्राथना॥अ

कै त्तु मूघ्नविन्यस्य ललाटे तु रविं न्यसेत्॥
विन्यसेन्नेत्रयोःसूर्येकर्णयोश्चदिवाकरम्॥८॥

नासिकायांन्यसेद्भानुंमुखे वैभास्करं न्यसेत्‌॥
पर्जन्यमोष्टयोश्चैवतीक्ष्णं जिह्वांतरे न्यसेत्‌॥९॥

सुवर्णरेतसं कंठे स्कंधयोस्तिग्मतेजसम्‌॥
बाह्वोस्तुपूषणं चैव मित्रं वैपृष्ठतो न्यसेत्‌॥१०॥

वरुणं दक्षिणे हस्ते त्वष्टारं वामतःकरे॥
हस्तावुष्णकरःपातु हृदयंपातुभानुमान्‌॥११॥

उदरे तु यमं विंद्यादादित्यं नाभिमंडले॥
कट्यां तु विन्यसेद्धंसं रुद्रमूर्वोस्तु विन्यसेत्‌॥१२॥

जान्वोस्तु गोपतिं न्यस्य स वितारं तु जंघयोः॥
पादयोश्च विवस्वंतं गुल्फयोश्च दिवाकरम्‌॥१३॥

बाह्यतस्तु तमोध्वंसं भगमभ्यंतरे न्यसेत्‌॥
सर्वांगेषु सहस्रांशुं दिग्विदिशु भगं न्यसेत्‌॥१४॥

इति दिग्वंधः॥
एषआदित्यविन्यासो देवानामपि दुर्ल्लभः॥
इमं भक्त्या न्यसेत्पार्थस याति परमां गतिम्‌॥१५॥

कामक्रोधकृतात्पापान्मुच्यते नात्र संशयः॥
सर्पादापिभयं नै

वसंग्रामेषु पथिष्वपि॥१६॥

रिपुसंघट्टकालेषु तथा चोरसमागमे॥
त्रिसंध्यं जपतो न्यासं महापातकनाशनम्॥१७॥

विस्फोटकसमुत्पन्नंतीव्रज्वरसमुद्भवम्॥
शिरोरोगं नेत्ररोगं सर्वव्याधिविनाशनम्‌॥१८॥

कुष्ठव्याधिस्तथा दद्रुरोगाश्च विविधाश्चये॥
जपमानस्य नश्यंति शृणु भक्त्या तदर्जुन॥१९॥

आदित्यो मंत्रसंयुक्त आदित्यो भुवनेश्वरः॥
आदित्यान्नापरो देवो ह्यादित्यः परमेश्वरः॥२०॥

आदित्यमर्चयेद्ब्रह्मा शिव आदित्यमर्चयेत्‌॥
यदादित्यमयं तेजो ममतेजस्तदर्जुन॥२१॥

आदित्यं मंत्रसंयुक्तमादित्यं भुवनेश्वरम्‌॥
आदित्यं ये प्रपश्यंति मां पश्यंति न संशयः॥२२॥

त्रिसंध्यमर्चयेत्सूर्यं स्मरेद्भक्त्या तु यो नरः॥
न स पश्यति दारिद्र्यंजन्मजन्मनि चार्जुन॥२३॥

एतत्तेकथितं पार्थआदित्यहृदयं मया॥
शृण्वन्मुक्तश्च पापेभ्यः सूर्यलोके भहीयते॥२४॥

नमो भगवते तुभ्यमादित्याय नमो नमः॥
आदित्यः सवि

ता सूर्यः खगः पूषा गभस्तिमान्‌॥२५॥

सुवर्णस्फटिको भानुः स्फुरितो विश्वतापनः॥
रविर्विश्वो महातेजाः सुवर्णःसुप्रबोधकः॥२६॥

हिरण्यगर्भस्त्रिशिरास्तपनो भास्करोराविः॥
मार्तंडो गोपतिः श्रीमान्कृतज्ञश्चप्रतापवान्॥२७॥

तमिस्रहा भगो हंसो नासत्यश्च तमोनुदः॥
शुद्धो विरोचनः केशी सहस्रांशुर्महाप्रभु॥२८॥

विवस्वान्पूषणो मृत्यु्र्मिहिरो जामदग्न्यजित्‌॥
धर्मरश्मिःषतंगश्च शरण्योऽमित्रहातपः॥२९॥

दुर्विज्ञेयगतिःशूरस्तेजोराशिर्महायशाः॥
शंभुचित्रांगदः सौम्यो हव्यकव्यप्रदायकः॥३०॥

अंशुमानुत्तमो देव ऋग्यजुःसामएवच॥
हरिदश्वस्तमोदारः सप्तसप्तिर्मरीचिमान्॥३१॥

जग्निगर्भोदितेः पुत्रः शंभुस्तिमिरनाशनः॥
पूषा विश्वंभरोमित्रःसुवर्णःसुप्रतापवान्‌॥३२॥

आतपी मंडली भास्वांस्तपनः सर्वतापनः॥
कृतविश्वोमहातेजा सर्वरत्नमयोद्भवः॥३३॥

अक्षरश्चक्षरश्चैव प्रभाकरविभाकरौ॥ चंद्रश्चंद्रांगदः

सौम्यो हृव्यकव्यप्रदायकः॥३४॥

अंगारकों गदोऽगस्ती रक्तांगश्चांगवर्धनः॥
बुधो बुद्धासनो बुद्धिर्बुद्धात्मा बुद्धिवर्धनः॥३५॥

बृहद्भानुर्बृहद्भासोबृहद्धामा बृहस्पतिः॥
शुक्रस्त्वं शुक्लरेतास्त्वं शुक्लांगः शुक्लभूषणः॥३६॥

शानिमान्‌ शनिरूपस्त्वं शनैर्गच्छसि सर्वदा॥
अनादिरादिरादित्यस्तेजोराशिर्महातपाः॥३७॥

अनादिरादिरूपस्त्वमादित्योदिक्पतिर्यमः॥
भानुमान्‌ भानुरूपस्त्वंस्वर्भानुर्भानुदीप्तिमान्‌॥३८॥

धूमकेतुर्महाकेतुः सर्वकेतुरनुत्तमः॥
तिमिरावरणः शंभुः स्रष्टामार्तंड एव च॥३९॥

नमः पूर्वाय गिरये पश्चिमाय नमोनमः॥
नमोत्तराय गिरये दक्षिणाय नमो नमः॥४०॥

नमो नमःसहस्रांशो ह्यादित्याय नमोनमः॥
नमःपद्मप्रबोधाय नमस्ते द्वादशात्मने॥४१॥

नमो विश्वप्रबोधाय नमो भ्राजिष्णुजिष्णवे॥
ज्योतिषे च नमस्तुभ्यं ज्ञानार्कायनमोनमः॥४२॥

प्रदीप्ताय प्रगल्भाय युगांताय नमो

नमः॥
नमस्ते होतृपतये प्रथिवीपतये नमः॥४३॥

नमोङ्कार वषट्कार सर्वयज्ञ नमोऽस्तुते॥
ऋग्वेदाय यजुर्वेदसामवेद नमोऽस्तुते॥४४॥

नमो हाटकवर्णाय भास्कराय नमो नमः॥
जयायजयभद्राय हरिदश्वाय ते नमः॥४५॥

दिव्याय दिव्यरूपाय ग्रहाणां पतये नमः॥
नमस्ते शुचये नित्यं नमः कुरुकुलात्मने॥४६॥

नमःस्रैलोक्यनाथाय भूतानां पतये नमः॥
नमः कैवल्यनाथाय नमस्ते दिव्यचक्षुषे॥४७॥

त्वं ज्योतिस्त्वं द्युतिर्ब्रह्मात्वंविष्णुस्त्वं प्रजापतिः॥
त्वमेव रुद्रो रुदात्मावायुरग्निस्त्वमेव च॥४८॥

योजनानां सहस्रे द्वे द्वे शते द्वेच योजने॥
एकेन निमिषार्धेन क्रममाण नमोस्तुते॥४९॥

नवयोजनलक्षाणिसहस्रद्विशतानि च॥
यावद्धटिप्रमाणेन क्रममाणनमोऽस्तुते॥५०॥

अग्रतश्च नमस्तुभ्यं पृष्ठतश्च सदा नमः॥
पार्श्वतश्च नमस्तुभ्यं नमस्तेचास्तु

सर्वदा॥५१॥

नमः सुरारिेहंत्रे च सोमसूर्याग्निचक्षुषे॥
नमो दिव्याय व्योमाय सर्वतंत्रमयायच॥५२॥

नमो वेदांतवेद्याय सर्वकर्मादिसाक्षिणे॥
नमो हरितवर्णाय सुवर्णाय नमो नमः॥५३॥

अरुणो माघमासे तु सूर्योवैफाल्गुने तथा॥
चैत्रमासे तु वेदांगो भानुर्वैशाखतापनः॥५४॥

ज्येष्ठमासे तपेदिन्द्र आषाढेतपतेरविः॥
गभास्तिः श्रावणे मासि यमो भाद्रपदे तथा॥५५॥

इषे सुवर्णरेताश्चकार्तिके च दिवाकरः॥
मार्गशीर्षे तपेन्मित्रः पौषे विष्णुः सनातनः॥५६॥

पुरुषःस्वधिके मासे मासाधिक्ये तु कल्पयेत्॥
इत्येते द्वादशादित्याः काश्यपेयाः प्रकीर्तिताः॥५७॥

उग्ररूपा महात्मानस्तपंते विश्वृरूपिणः॥
धर्मार्थकाममोक्षाणां प्रस्फुटा हेतवो नृप॥५८॥

सर्वपापहरं चैवमादित्यं सप्रपूजयेत्‌॥
एकधा दशधा चैव शतधा च सहस्रधा॥५९॥

तपंते विश्वरूपेण सृजंति संहरंति च॥
एष विष्णुः शिवश्चैवब्रह्मा चैवप्रजापतिः

॥६०॥

महेंद्रश्चैव कालश्चयमो वरुण एव च॥
नक्षत्रग्रहताराणामधिपोविश्वतापनः॥६१॥

वायुरग्निर्धनाध्यक्षो भूतकर्तास्वयंप्रभुः॥
एष देवो हि देवानां सर्वमाप्यायते जगत्‌॥६२॥

एष कर्ता हि भूतानां संहर्तारक्षकस्तथा॥
एष लोकानुलोकाश्च सप्तदीपाश्च सागराः॥६३॥

एष पातालसप्तस्था दैत्यदानवराक्षसाः॥
एषधाता विधाता च बीजं क्षेत्रं प्रजापतिः॥६४॥

एक एव प्रजा नित्यं संवर्धयति राश्मिभिः॥
एष यज्ञः स्वधा स्वाहा ह्नीः श्रीश्चपुरुषोत्तमः॥६५॥

एष भूतात्मकोदेवःसूक्ष्मोव्यक्तः सनातनः॥
ईश्वरःसर्वभूतानां परमेष्ठी प्रजापतिः॥६६॥

कालात्मा सर्वभूतात्मा वेदात्मा विश्वतोमुखः॥
जन्ममृत्युजराव्याधिसंसारभयनाशनः॥६७॥

दारिद्र्यव्यसनध्वंसीश्रीमान्देवोदिवाकरः॥
विकर्तनो विवस्वांश्चमार्तंडो भास्करोरविः॥६८॥

लोकप्रकाशकः श्रीमाल्ँलोकचक्षुर्ग्रहेश्वरः॥
लोकसाक्षी त्रिदोकेशः कर्ताहर्ता तमिस्रहा॥६९॥

तपनस्तापनश्चैव शुचिः सप्ताऽश्ववाहनः।
गभस्तिहस्तो ब्रह्मण्यः सर्वदेवनमस्कृतः॥७०॥

आयुरारोग्यमैश्वर्यं नरा नार्यश्चमंदिरे॥
यस्य प्रसादात्संतुष्टिरादित्यहृदयं जपेत्‌॥७१॥

इत्येतैर्नामभिः पार्थआदित्यं स्तौति नित्यशः॥
प्रातरुत्थ्याय कौंतेय तत्य रोगभयं नहि॥७२॥

पातकान्मुच्यते पार्थव्याधिभ्यश्च न संशयः॥
एकसंध्यं ट्विसंध्यं वा सर्वपापैःप्रमुच्यते।७३॥

त्रिसंध्यं जपमानस्तु पश्येच्चपरमं पदम्‌॥
यदह्नात्कुरुते पापं तदह्नात्प्रतिमुच्यते॥७४॥

यद्रात्र्यात्कुरुते पापं तद्रात्र्यात्प्रतिमुच्यते॥
दद्रुस्फोटककुष्ठानि मंडखानि विषूचिका॥७५॥

सर्वव्याधिमहारोगभूतबाधास्तथैव च॥
डाकिनीशाकिनीचैव महारोगभयं कुतः॥७६॥

ये चान्ये दुष्टरोगाश्च ज्वरातीसारकादयः॥
जपमानस्य नश्यंति जीवेच्च शरदां शतम्‌॥७७॥

संवत्सरेण मरणं यदा तस्य ध्रुवं भवेत्‌॥
अशीर्षांपश्यति च्छायामहोरात्रं धनंजय॥७८॥

यस्त्विदं पठते भक्त्या भानोर्वारे महात्मनः॥
प्रातःस्नाने कृते पार्थएकाग्रकृतमानसः॥७९॥

सुवर्णचक्षुर्भवति न चांधस्तु प्रजापते॥
पुत्रवान्धनसंपन्नोजायते चारुजः सुखी॥८०॥

सर्वसिद्धिमवाप्नोति सर्वत्रविजयी भवेत्‌॥
आदित्यहृदयं पुण्यं सूर्यनामविभूषितम्‌॥८१॥

श्रुत्वा च निखिलं पार्थसर्वपापैःप्रमुच्यते॥
अतःपरतरं नास्ति सिद्धिकामस्य पांडव॥८२॥

एतज्जपस्व कौंतेययेन श्रेयो ह्यवाप्स्यसि॥
आदित्यहृदयं नित्यं यः पठेत्सुसमाहितः॥८३॥

भ्रूणहा मुच्यते पापात्कृतघ्नो ब्रह्मघातकः॥
गोघ्नः सुरापो दुर्भोजी दुष्प्रतिग्रहकारकः॥८४॥

पातकानि च सर्वाणि दहत्येव नसंशयः॥
य इदं शृणयान्नित्यं जपेद्वाऽपिस माहितः॥८५॥

सर्वपापविशुद्धात्मा मर्त्यलोकेमहीयते॥
अपुत्रो लभते पुत्रान्निर्धनो धनमाप्नुयात्‌॥८६॥

कुरोगी मुच्यते रोगाद्भक्त्यायः पठते सदा॥
यस्त्वादित्यदिने पार्थनाभिमात्रजलेस्थितः८७॥

उदयाचलमारूढंभास्करं प्रणतः स्थितः॥
जपते भक्त्या शृणुयाद्वापि भक्तितः॥८८॥

सयाति परमं स्थानं यत्र देवो दिवाकरः॥
अमित्रदमनं पार्थ यदा कर्तुं समारभेत्‌॥८९॥

तदा प्रतिकृतिं कृत्वा शत्रोश्चरणपांसुभिः॥
आक्रम्यवामपादेन ह्यादित्यहृदयं जपेत्‌॥९०॥

एतन्मंत्रंसमाहूय सर्वसिद्धिकरं परम्‌॥
ॐ ह्रींमालीढं स्वाहा॥
ऊँ ह्रीं निलोढंस्वाहा॥
ॐ ह्रींमालीढं स्वाहा॥
इति मंत्रः॥
त्रिभिश्व रोगी भवतिज्वरी भवति पंचभिः॥
जपैस्त सप्तभिः पार्थ राक्षसीं तनुमाविशेत्‌॥९१॥

राक्षसेनाभिभूतस्य विकराञ्छृणु, पांडव॥
गीयते नृत्यते नग्न आस्फोटयति धावति॥९२॥

शिवारुतं च कुरुते हसते क्रन्दते पुनः॥
एवं संपीड्यते पार्थयद्यपि स्यान्महेश्वरः॥९३॥

किं पुनर्मानुषः कश्चिच्छौचाचारविवर्जितः॥
पीडितस्य न संदेहोज्वरो भवति दारणः॥९४॥

यदाचानुग्रहंतस्य कर्तुमिच्छेच्छुभंकरम्‌॥तदा सलिलमा

दाय जपेन्मंत्रमिमं बुधः॥९५॥

नमोभगवतेतुभ्यमादित्याय नमो नमः॥
जयाय जयभद्राय हरिदश्वाय ते नमः॥९६॥

स्नापयेत्तेन मंत्रेण शुभं भवति नान्यथा॥
अन्यथा च भवेद्दोषो नश्यतेनात्रसंशयः॥९७॥

अतस्ते निखिलः प्रोक्तः पूजां चैव निबोध मे॥
उपलिप्ते शुचौदेशे नियतो वाग्यतः शुचिः॥९८॥

वृत्तं वा चतुरस्रं वालिप्तभूमौलिखेच्छुचिः॥
त्रिधा तत्र लिखेत्पद्ममष्टपत्रं सकर्णिकम्॥९९॥

अष्टपत्रं लिखेत्पद्मलिप्तगोमयमंडले॥
पूर्वपत्रे लिखेत्सूर्यमाग्नेय्यां तु रविं न्यसेत्‌॥१००॥

याम्यायां च विवस्वंतं नैर्ऋत्यां तु भगं न्यसेत्‌॥
प्रतीच्यां वरुणं विंद्याद्वायव्यां मित्रमेव च॥१॥

आदित्यमुत्तरे पत्रे ईशान्यां मित्रमेव च॥
मध्ये तु भास्करं विंद्यात्क्रमेणैवं समर्चयेत्‌॥२॥

अतः परतरं नास्ति सिद्धिकामस्य पांडव॥
महातेजः समुद्यंतं प्रणमेत्सकृतांजलिः॥३॥

सकेसराणि पद्मानि करवीराणि

चार्जुन॥
तिलतंडुलयुक्तानिकुशगंधोदकानि च॥४॥

रक्तचंदनमिश्राणि कृत्वा वैताम्रभाजने॥
धृत्वा शिरसि तत्पात्रं जानुभ्यां धरणीं स्पृशेत्‌॥५॥

मंत्रपूतं गुडाकेश चार्ध्यंदद्याद्गभस्तये॥
सायुधं सरथं चैव सूर्यमावाहयाम्यहम्‌॥६॥

स्वागतो भव॥
सुप्रतिष्ठितो भव॥
सन्निधो भव॥
सन्निहितो भव॥
संमुखो भव॥
इति पंचमुद्राः॥
स्फोटयित्वाऽर्हयेत्सूर्यं भुक्तिं मुक्तिं लभेन्नरः॥७॥ॐश्रीं विद्याकिलिकिलिकटकेष्टसर्वार्थसाधनाय स्वहा॥
अँश्रीं ह्रीं ह्रूंहंसः सूर्याय नमः स्वाहा॥
ॐश्रीं ह्रां ह्रीं ह्रूं ह्रैं ह्रों ह्रःसूर्यमूर्तयेस्वाहा॥
ऊँ श्रीं ह्रींखखोल्काय सर्वमूर्तये स्वाहा॥
ॐहूंमार्तंडायस्वाहा॥
नमोऽस्तु सूर्याय सहस्रभानवे नमोऽस्तु वैश्वानरजातवेदसे॥
त्वमेव चार्घ्यंप्रतिग्रह्णदेवदेवाधिदेवाय नमो नमस्ते॥८॥

नमो भगवते तुभ्यं नमस्ते जातवेदसे॥
दत्तमर्घ्यंमया भानोत्वं गृहाण नमोस्तुते॥९॥

एहि सूर्यसहम्रांशो

जोराशे जगत्पते॥
अनुकंपय मां देव गृहाणार्घ्यंनमोऽस्तुते॥११०॥

नमो भगवते तुभ्यं नमस्ते जातवेदसे॥
ममेदमर्ध्यं गृह्ण त्वं देवदेव नमोऽस्तु ते॥११॥

सर्वदेवाधिदेवाय आधिव्याधिविनाशिने॥
इदं गृहाण मे देव सर्वव्याधिर्विनश्यतु॥१२॥

नमः सूर्याय शांताय सर्वरोगविनाशेने॥
ममेप्सितं फलंदत्त्वा प्रसीद परमेश्वर॥१३॥

ॐनमो भगवते सूर्याय स्वाहा॥ॐ शिवायस्वाहा॥ अँसर्वात्मने सूर्याय नमः स्वाहा॥ॐअक्षय्यतेजसे
नमःस्वाहा॥ सर्वसंकटदारिद्र्यं शत्रुनाशय नाशय॥सर्वलोकेषुविश्वात्मन्सर्वात्मन्सर्वदर्शक॥१४॥

नमो भगवते सूर्य कुष्ठरोगान्विखंडय॥
आयुरारोग्यमैश्वर्यंदेहि देव नमोऽस्तुते।१५॥

नमो भगवते तुभ्यमादित्याय नमो नमः॥ ऊँअक्षय्यतेजसेनमः॥ऊँसूर्याय नमः॥विश्वमूर्तये नमः॥आदित्यं च शिवं विंद्याच्छिवमादित्यरूपिणम्‌॥उभयोरंतरं नास्ति आदित्यस्य शिवस्य च॥९६॥

एत

दिच्छाम्यहं श्रोतुं पुरुषो वै दिवाकरः॥
उदये ब्रह्मणोरूपं मध्याह्नेतुमहेश्वरः॥१७॥

अस्तमाने स्वयं विष्णुस्त्रिमूर्तिश्च दिवाकरः॥
नमो भगवते तभ्यं विष्णवे प्रभविष्णवे॥१८॥

ममेदमर्घ्यं प्रतिगृह्ण देव देवाधिदेवाय नमो नमस्ते॥
श्रीसूर्याय सांगाय सपरिवाराय श्रीसूर्यनारायणायेदमर्घ्यम्‌॥१९॥

हिमघ्नाय तमोघ्नाय रक्षोघ्नाय च ते नमः॥
कृतघ्नघ्नाय सत्याय तस्मैसूर्यात्मने नमः॥१२०॥

जयो जयश्च विजयो जितप्राणो जितश्रमः॥
मनोजवो जितक्रोधो वाजिनः सप्त कीर्तिताः ॥२१॥

हरितहयरथं दिवाकरं कनकमयांबुजरेणुपिंजरम्॥
प्रतिदिनमुदये नवंनवं शरणमुपैमि हिरण्यरेतसम्‌॥२२॥

न तंव्यालाः प्रबाधंते न व्याधिभ्यो भयं भवेत्‌॥
न नागेभ्यो भयं चैव नचभूतभयं क्वचित्॥२३॥

अग्निशवुभयं नास्ति पार्थिवेभ्यस्तथैव च॥
दुर्गतिं तरते घोरां प्रजां च लभते पशून्॥२४॥

सिद्धिकामो लभेत्सिद्धिं कन्याकामस्तु

कन्यकाम्‌॥
एतत्पठेत्स कौंतेय भक्तियुक्तेन चेतसा॥२५॥

अश्वमेधसहस्रस्य वाजपेयशतस्य च॥
कन्याकोटिसहस्रस्य दत्तस्य फलमाप्नुयात्‌॥२६॥

इदमादित्यहृदयं योऽधीते सततं नरः॥
सर्वपाप विशुद्धात्मा सूर्यलोके महीयते॥२७॥

नास्त्यादित्यसमो देवो नास्त्यादित्यसमा गतिः॥
प्रत्यक्षो भगवान्विष्णुर्येन विश्वं प्रतिष्ठितम्‌॥२८॥

नवतिंयोजनानां च सदस्राणि शतानि च॥
यावद्धटीप्रमाणेन तावच्चरति भास्करः॥२९॥

गवांशतसहस्रस्य सम्यग्दत्तस्य यत्फलम्॥
वत्फलंलभते विद्वान्‌ शांतात्मा स्तौति यो रविम्‌॥३०॥

योऽधीतेसूर्यहृदयं सकलंसफलंभवेत्‌॥
अष्टानां ब्राह्मणानां च लेखयित्वास्मर्पयेत्‌॥३१॥

ब्रह्मलोके ऋषीणां च जायते मानुषोऽपि वा॥
जातिस्मरत्वमाप्नोति शुद्धात्मा नात्रसंशयः॥३२॥

अजाय लोकत्रयपावनाय भूतात्मने गोपतये वृषाय॥
सूर्याय सर्वप्रलयांतकाय नमो महाकाशणिकोत्तमाय॥३३॥

विवस्वते ज्ञानभृदंतरात्मने जगत्प्रदीपाय जगद्धितैषिणे॥
स्वयंभुवे दीप्तसहस्रचक्षुषेसुरोत्तमायामिततेजसे नमः॥३४॥

सुरैरनेकैःपरिसेविताय हिरण्यगर्भाय हिरण्मयाय॥
मरात्मने मोक्षपदाय नित्यं नमोऽस्तु ते वासरकारणाय॥३५॥

आदित्यश्चार्चितो देव आदित्यः परमं पदम्‌॥
आदित्यो मातृको भूत्वा आदित्यो वाङ्मयंजगत्‌॥३६॥

आदित्यं पश्यतभक्त्यामां पश्यतिध्रुवं नरः॥
नादित्यं पश्यते भक्त्यान स पश्यति मां नरः॥३७॥

त्रिगुणं च त्रितत्त्वंच त्रयो देवास्त्रयोऽग्नयः॥
त्रयाणां च त्रिमूर्तिस्त्वं तुरीयस्त्वं नमोऽस्तु ते॥३८॥

नमःसवित्रेजगदेकचक्षुषे जगत्प्रसूतिस्थितिनाशहेतवे॥
त्रयीमयाय त्रिगुणात्मधारिणे विरिंचिनारायणशंकरात्मने॥३९॥

यस्योदयेनेह जगत्प्रबुध्यते प्रवर्तते चाखिलकर्मसिद्धये॥
ब्रह्मेंद्रनारायणरुद्रवंदितः सनः सदा यच्छतु मंगलंरविः॥१४०॥

नमोऽस्तु सूर्याय सहस्ररश्मये सहस्रशाखान्वितसं भवात्मने॥
सहस्रयोगोद्भव भावभागिने सहस्रसंख्यायुगधारिणे नमः॥४१॥

यन्मंडलंदीप्तिकरंविशालं रत्नप्रभंतीव्रमनादिरूपम्॥
दारिद्र्यदुःखक्षयकारणं च पुनातु मां तत्सवितुर्वरेण्यम्‌॥४२॥

यन्मंडलंदेवगणैःसुपूजितं विप्रैःस्तुतं भावनमुक्तिकोविदम्‌॥
त देवदेवंप्रणमामि सूर्यं पुनातु मां तत्सवितुर्वरेण्यम्‌॥४३॥

यन्मंडलंज्ञानघनं त्वगम्यं त्रैलोक्यपूज्यं त्रिगुणात्मरूपम्‌॥
समस्ततेजोमयदिव्यरूपं पुनातु मां तत्सवि०॥४४॥

यन्मंडलंगूढमतिप्रवोधं धर्मस्य वृद्धिं कुरुते जनानाम्‌॥
यत्सर्वपापक्षयकारणं च पुनतु मां त०॥४५॥

यन्मंडलंव्याधिविनाशदुःखं यदृग्यजुःसामसुसंप्रगीतम्‌॥
प्रकाशितं येन च भूर्भुवः स्वः पुनातु मांतत्स०॥४६॥

यन्मंडलंवेदविदो वदंति गायंति यच्चारणसिद्धसंघाः॥
यद्योगिनो योगजुषां च संघाःपुनातु मां तत्स०॥४७॥

यन्मंडलंसर्वजनेषु पूजितं ज्योतिश्च कुर्यादिह मर्त्यलोके॥
यत्कालकालादिमनादिरूपं पुनातु मां तत्स०॥४८॥

यन्मंडलं

विष्णुचतुर्मुखाख्यंयदक्षरं पापहरं जनानाम्॥
यत्कालकल्पक्षयकारणं च पुनातु मां तत्स०॥४९॥

यन्मंडलंविश्वसृजां प्रसिद्धमुत्पत्तिरक्षाप्रलयप्रगल्भम्॥
यस्मिञ्जगत्संहरतेऽखिलं च पुनातु मां तत्स०॥५०॥

यन्मंडलंसर्वगतस्य विष्णोरात्मापरं धाम विशुद्धतत्वम्॥
सूक्ष्मांतरैर्योगपथानुगम्यंपुनातु मां तत्स०॥५१॥

यन्मंडलंब्रह्मविदो वंदति गायंति यच्चारणसिद्धसंघाः॥
यन्मंडलंवेदविदः स्मरंति पुनातु मां तत्स०॥५२॥

यन्मंडलंवेदविदोपगीतं यद्योगिनां योगपथानुगम्यम्‌॥
तत्सर्वदेवं प्रणमामि सूर्यंपुनातु मां तत्स०॥५३॥

मंगलाष्टमिदं पुण्यं यः पठेत्सततं नरः॥
सर्वपापविशुद्धात्मा सूर्यलोके महीयते॥५४॥

ध्येयः सदासवितृमंडलमध्यवर्तीनारायणः सरसिजासनसन्निविष्टः॥
केयूरवारः केयूरवा

न्सस्रकुंडलवान्किरीटीहारीहिरण्मयवपुर्धृतशंखचक्रः॥५५॥

सशंखचक्रं रविमंडले स्थितं कुशेशयाक्रांतमनंतमच्युतम्‌॥
भजामि बुद्ध्या तपनीयमूर्तिंसुरोंतमं चित्रविभूषणोज्ज्वल्म्‌॥५६॥

एवं ब्रह्मादयो देवा ऋषयश्च तपोधनाः॥
कीर्तयंति सुरश्रेष्ठं देवं नारायणं विभुम्॥५७॥

वेदवेदांगशारीरं दिव्यदीतिकरं परम्‌॥
रक्षोघ्नंरक्तवर्णं चसृष्टिसंहार्कारकम्‌॥५८॥

एकचक्ररथो यस्य दिव्यः कनकभूषितः॥
समे भवतु सुप्रीतः पद्महस्तो दिवाकरः॥५९॥

आदित्यः प्रथमं नाम द्वितोयं तु दिवाकरः॥
ततीयं भास्करः प्रोक्तंचतुर्थं तु प्रभाकरः॥६०॥

पंचमं तु सहस्रांशुःषष्ठं चैव त्रिलोचनः॥
सप्तमं हरिदश्वश्चअष्टमंतु विभावसुः॥६१॥

नवमं दिनकृत्प्रोक्तंदशमं द्वादशात्मकः॥
एकादशंत्रयीमूर्तिर्द्वादशं सूर्यएव च॥६२॥

द्वादशादित्यनामानि प्रातः काले पठेन्नरः॥
दुःस्वप्ननाशनं चैव सर्वदुःखं च नश्यति॥६३॥

दद्रुकुष्ठहरं चैद दारिद्यंहरते ध्रुवम्॥
सर्वतीर्थप्रदं चैव सर्वकामप्रवर्धनम्॥६४॥

यः पठेत्प्रातरुत्थाय भक्त्यानित्यमिदं नरः॥
सौख्यमायुस्तथाऽरोग्यं लभते मोक्षमेवच॥६॥

अग्निमीलेनमस्तुभ्यमिषेत्वोर्जेस्वरूपिणे॥
अग्नआयाहिवीतिस्त्वं नमस्ते ज्योति षांपते॥६६॥

शन्नोदेवि नमस्तुभ्यं जगच्चक्षुर्नमोऽस्तु ते॥
पंचमायोपवेदाय नमस्तुभ्यं नमो नमः॥६७॥

पद्मासनः पद्मकरः पद्मगर्भसमद्युतिः॥
सप्ताश्वरथसंयुक्तो द्विभुजः स्यात्सदा रविः॥६८॥

आदित्यस्य नमस्कारं ये कुर्वंति दिने दिने॥
जन्मांतरसहस्रेषु दारिद्र्यं नोपजायते॥६॥

उदयगिरिमुपेतंभास्करंपद्महस्तं निखिलभुवननेत्रंरत्नरत्नोपमेयम्॥
तिमिरकरिमृगेद्रंबोधकं पद्मिनीनासुरवरमभिवंदे सुंदरं विश्ववंद्यम्‌॥१७०॥

इति श्रीभविष्योत्तरपुराणे श्रीकृष्णार्जुनसंवादेआदित्यहृदयस्तोत्रंसंपूर्णम्‌॥८३॥

शुभंभवतु ॥

अथ सूर्याष्टकप्रारंभः।

श्रीगणेाय नमः॥
साम्ब उवाच॥

आदिदेव नमस्तुभ्यं प्रसीद मम भास्कर॥
दिवाकर नमस्तुभ्यं प्रभाकर नमोऽस्तु ते॥१॥

सप्ताश्वरथमारूढं प्रचण्डं कश्यपात्मजम्‌॥
श्वेतपद्मघरं देवं तं सूर्यंप्रणमाम्यहम्‌॥२॥

लोहितं रथमारूढंसर्वलोकपितामहम्‌॥
महापापहरं देवं तं सूर्यंप्रणमाम्यहम्‌॥३॥

त्रैगुण्यं च महाशूरंब्रह्मविष्णुमहेश्वरम्॥
महापापहरं देवं तं सूर्यं प्रणमाम्यहम्‌॥४॥

बृहितं तेजःपुंजं च वायुराकाशमेव च॥
प्रभुस्त्वं सर्वलोकानां तंसूर्यंप्रणमाम्यहम्‌॥५॥

बंधूकपुष्पसंकाशंहारकुंडलभूषितम्॥
एकचक्रधरं देवं तंसूर्यंप्रणमाम्यहम्‌॥६॥

तं सर्यंजगत्कर्तारं महातेजःप्रदीपनम्‌॥
महापापहरं देवं तंसूर्यंप्रणमाम्यहम्‌॥७॥

तं सृर्यंजगतां नाथं ज्ञानविज्ञानमोक्षदम्‌॥
महापापहरं देवं तंसूर्यंप्रणमाम्यहम्‌॥८॥

सूर्याष्टकंपठेन्नित्यं ग्रहपीडाप्रणाशनम्‌॥
अपुत्रो लभते पुत्रं दरिद्रो धनवान्भवेत्‌॥९॥

आमिषं मधुपानं च यःकरोति रवेर्दिने॥
सप्तजन्म भवेद्रोगी जन्जन्म दरिद्रता॥१०॥

स्त्रीतैलमधुमांसानि यस्त्यजेत्तु रवेर्दिने॥
न व्याधिःशोकदारिद्र्यं सूर्यलोकंस गच्छति॥११॥

इति श्रीशिवप्रोक्तं सूर्याष्टकं समाप्तम्‌॥८९॥

अथ रामगीताप्रारंभः।

श्रीगणेशाय नमः॥
श्रीमहादेव उवाच॥

ततो जगन्मंगलमंगलात्मना विधाय रामायणकीर्तिमुत्तमाम्‌॥
चचार पूर्वाचरितं रघूत्तमो राजर्षिवर्यैरभिसेवितं यथा॥१॥

सौमित्रिणा पृष्टउदारबुद्धिनारामः कथाः प्राह पुरातनीः शुभाः॥
राज्ञः प्रमत्तस्य नृगस्य शापतो द्विजस्य तिर्यक्त्वमथाह राघवः॥२॥

कदाचिदेकांतउपस्थितं प्रभुंरामं रमालालितपादपंकजम्‌॥
सौमित्रिरासादितशुद्धभावनः प्रणम्य भक्त्या विनयान्वितोऽब्रवीत्‌॥३॥

सौमित्रिरुवाच ॥

त्वं शुद्धवोधोसि हि सर्वदेहिनामात्माऽस्यधीशोऽसि निराकृतिः स्वयम्‌ ॥
प्रती

स्सेज्ञानदृशां महामते पादाब्जभृङ्गहितसंगसंगिनाम्‌॥४॥

अहंप्रपन्नोस्मि पदांबुजं प्रभो भवापवर्गंतव योगिभावितम्‌॥
यथांजसा ज्ञानमपारवारिधिं सुखं तरिष्यामि तथानुशाधि माम्॥५॥

श्रुत्वाथ सौमित्रिवचोऽखिलंतदा प्राह प्रपन्नार्तिहरः प्रसन्नधीः॥
विज्ञानमज्ञानतमोपशांतये श्रुतिप्रपन्नंक्षितिपालभूषणः॥६॥

श्रीराम उवाच॥

आदौस्ववर्णा श्रमवर्णिताः क्रियाः कृत्वा समासादितशुद्धमानसः॥
समाप्य तत्पूर्वमुपात्तसाधनः समाश्रयेत्सद्गुरुमात्मलब्धये॥७॥

क्रिया शरीरोद्भवहेतुरादृता प्रियाप्रियौतौभवतः सुरागिणः॥
धर्मेतरौतत्र पुनः शरीरकं पुनः क्रियाचक्रवदीर्यते भवः॥८॥

अज्ञानमेवास्य हि मूलकारणं तद्धानमेवात्र विधौविधीयते॥
विद्यैव तन्नाशविधौपटीयसी न कर्मतज्जंसविरोधमीरितम्॥९॥

नाज्ञानहानिर्नच रागसंक्षयो भवेत्ततः कर्मसदोषमुद्धवेत्‌॥
ततःपुनः संसृतिरप्यवारिता तस्माद्बुधो ज्ञानविचारवान्भवेत्‌॥१०॥

ननुक्रिया वेदमुखेन चोदिता यथैवविद्या पुरुषार्थसाधनम्‌॥
कर्तव्यता प्राणभृतः प्रचोदिता विद्या सहायत्वमुपैति सा पुनः॥११॥

कर्माकृतौदोषमपि श्रुतिर्जगौतस्मात्सदा कार्यमिदं मुमुक्षुणा॥
ननुस्वतंत्रा ध्रुवकार्यकारिणी विद्यान किंचिन्मनसाऽप्यपेक्षते॥१२॥

न सत्यकार्योऽपि हि यद्वदध्वरः प्रकांक्षतेऽन्यानपि कारकादिकान्‌॥
तथैव विद्या विधितःश्रकाशितैर्विशिष्यते कर्मभिरेवमुक्तये॥१३॥

केचिद्वदंतीति वितर्कवादिनस्तदप्यसद्दृष्टविरोधकारणात्‌॥
देहाभिमानादभिर्वधते क्रिया विद्या गताहंकृतितः प्रसिद्ध्यति॥१४॥

विशुद्धविज्ञानविरोचनांचिता विद्यात्मवृत्तिश्चर्मेति भण्यते॥
उदेतिकर्माखिकारकादिभिर्निहंतिविद्याऽखिलकारकादिकम्‌॥१५॥

तस्मात्त्यजेत्कार्यमशेषतः सुधीर्विद्याविरोधान्न समुच्चयो भवेत्‌॥
आत्मानुसंधानपरायणः सदा निबृत्तसर्वेंद्रियवृत्तिगोचरः॥१६॥

यावच्छरीरादिषु माययात्मधीस्तावद्विधेयो विधिवादकर्मणाम्‌॥

नेतीति वाक्यैरखिलं निषिध्य तज्ज्ञात्वापरात्मानमथ त्यजेत्क्रियाः॥१७॥

यदा परात्मात्मविभेदभेदकं विज्ञानमात्मन्यवभाति भास्वरम्‌॥
तदैवं माया प्रविलीयतेऽञ्जसासकारका कारणमात्मसंसृतेः॥१८॥

श्रुतिप्रमाणाभिविनाशिता च सा कथं भविष्यत्यपि कार्यकारिणी॥
विज्ञानमात्रादमलाद्वितीयतस्तस्मादविद्या न पुनर्भविष्यति॥१९॥

यदि स्म नष्टा न पुनः प्रसूयते कर्त्ताहमस्येति मतिः कथं भवेत्‌॥
तस्मात्स्वतंत्रा न किमप्य पेक्षते विद्या विमोक्षाय विभाति केवला॥२०॥

सा तैत्तिरीयश्रुतिराह सादरं न्यासं प्रशस्ताखिल कर्मणां स्फुटम्‌॥
एतावदित्याह च वाजिनां श्रुतिर्ज्ञानं विमोक्षाय न कर्मसाधनम्‌॥२१॥

विद्यासमत्वेन तु दर्शितस्त्वया क्रतुर्न दृष्टांत उदाहृतःसमः॥
फलैःपृथक्त्वाद्वहुकारकैःक्रतुः संसाध्यतेज्ञानमतो विपर्ययम्‌॥२२॥

सप्रत्यवायो ह्यहमित्यनात्मधीरज्ञप्रसिद्धा न तु तत्त्वदर्शिनः॥

तस्माद्बु

धैस्त्याज्यमपि क्रियात्मभिर्विधानतः कर्मविधिप्रकाशितम्‌॥२३॥

श्रद्धान्वितस्तत्त्वमसीति वाक्यतो गुरोः प्रसादादपि शुद्धमनसः॥
विज्ञाय चैकात्म्यमथात्मजीवयोः सुखीभवेन्मेरूरिवाप्रकंपनः॥२४॥

आदौपदार्थावगतिर्हिकारणं वाक्यार्थ विज्ञानविधौविधानतः॥
तत्त्वंपदार्थौपरमात्मजीवकावसीति चैकात्म्यमथानयोर्भवेत्‌॥२५॥

प्रत्यक्परोक्षादिविरोधमात्मनो विहाय संगृह्यतयोश्चिदात्मताम्॥
संशोधितां लक्षणया च लक्षितां ज्ञात्वा स्वमात्मानमथाद्वयो भवेत्‌॥२६॥

एकात्मकत्वाज्जहती न संभवेत्तथा जहल्लक्षणता विरोधतः॥
सोयं पदार्थाविव भागलक्षणा युज्येततत्त्वंपदयोरदोषतः॥२७॥

रसादिपंचीकृतभूतसंभवं भोगालयं दुःखसुखादिकर्मणाम्‌॥
शरीर माद्यतवदादिकर्मजंमायामयं स्थूलमुपाधिमात्मनः॥२८॥

सूक्ष्मं मनाबुद्धिवशेंद्रियैर्युतं प्राणैरपंचीकृतभूतसंभवम्‌॥
भोक्तुः सखादेरनुसाधनंभवेच्छरीरमन्यद्विदुरात्मनो बुधाः॥२९॥

अनाद्यनिर्वाच्यमपीहकारणं मायाप्रधानं तु परं शरीरकम्‌॥
उपाधिभेदात्तु यतःपृथक्स्थितं स्वात्मानमात्मन्यवधारयेत्क्रमात्‌॥३०॥

कोशेषु पंचस्वपितत्तथाकृतिर्विभाति संगात्स्फटिकोपलो यथा॥
असंगरूपोऽयमजो यतोऽद्वयो विज्ञायतेऽस्मिन्परितो विचारिते॥२१॥

बुद्धेस्त्रिधा वृत्तिरपीह दृश्यते स्वप्नादिभेदेन गुणत्रयात्मनः॥
अन्योऽन्यतोस्मिन्व्यभिचारतो मृषा नित्यं परे ब्रह्मणि केवलेशिवे॥३२॥

देहेंद्रियप्राणमनश्चिदात्मनां संघादजस्रंपरिवर्तते धियः॥
वृत्तिस्तमोमूलतयाऽज्ञलक्षणा यावद्भवेत्तावदसौभवोद्भवः॥३३॥

नेति प्रमाणेन निराकृताखिलो हृदा समास्वादितचिद्धनामृतः॥
त्यजेदशेषं जगदात्तसद्रसं पीत्वा यथांऽभः प्रजहाति तत्फलम्‌॥३४॥

कदाचिदात्मानमृतो नजायते न क्षीयते नापि विवर्धते नवः॥
निरस्तसर्वातिशयः सुखात्मकः स्वयंप्रभः सर्वगतोऽयमद्वयः॥३५॥

एवंविधे ज्ञानमये सुखात्मके कंथं भवो दुःखमयः प्रतीयते॥
अज्ञानतोऽध्यासवशात्प्रकाशते ज्ञाने विलीयेत विरोधतः क्षणात्‌॥२६॥

यदन्यदन्यत्र विभाव्यते भ्रमादध्यासमित्याहुरमुंविपश्चितः॥
असर्पभूतेऽहिविभावनं यथारज्ज्वादिके तद्वदपीश्वरे जगत्‌॥३७॥

विकल्पमायारहिते चिदात्मकेऽहंकार एष प्रथमः प्रकल्पितः॥
अध्यास एवात्मनि सर्वकारणे निरामये ब्रह्मणि केवले परे॥३८॥

इच्छादिरागादिसुखादिधर्मिकाः सदा धियः संसृतिहेतवः परे॥
यस्मात्प्रसुप्तौतदभावतःपरः सुखस्वरूपेण विभाव्यते हि नः॥३९॥

अनाद्यविद्योद्भवबुद्धिविंबितो जीवः प्रकाशोऽयमितीर्यते चितः॥
आत्माधियःसाक्षितया पृथक्स्थितो बुद्ध्या परिच्छिन्नपरः स एव हि॥४०॥

चिद्विंबसाक्षात्मधियां प्रसंगतस्त्वेकत्रवासादनलाक्तलोहवत्‌॥
अन्योऽन्यमध्यासवशात्प्रतीयते जडाजडत्वं च चिदात्मचेतसोः॥४१॥

गुरोः सकाशादपि वेदवाक्यतः संजातविद्यानुभवोनिरीक्ष्य तम्॥
स्वात्मानमात्मस्थमुपाधिवर्जितंत्यजेदशेषं जडमात्मगोचरम्॥४२॥

प्रकाशरूपोऽहमजोऽहमद्वयोऽसकृद्विभातोहमतीवनिर्मलः॥
विशुद्धविज्ञानघनो निरामयः संपूर्णआनंदमयोऽहमक्रियः॥४३॥

सदैवमुक्तोऽहमचिंत्यशक्तीमानतींद्रियज्ञानमविक्रियात्मकः॥
अनंतपारोक्ष्यमहर्निशं बुधैर्विभावितोऽहंहृदिवेदवादिभिः॥४४॥

एवं सदात्मानमसखंडितात्मना विचारमाणस्य विशुद्धभावना॥
हन्यादविद्यामचिरेण कारकैरसायनं यद्वदुपासितं रुजः॥४५॥

विविक्त आसीन उपारतेन्द्रियो विनिर्जितात्मा विमलांतराशयः॥
विभावयेदेकमनन्यसाधनो विज्ञानदृक्केवलआत्मसंस्थितः॥४६॥

विश्वंयदेतत्प्रमात्मदर्शनंविलापयेदात्मनि सर्वकारणे॥
पूर्णाश्चिदानंदमयोऽवतिष्ठते न वेदबाह्यंन च किंचिदांतरम्‌॥४७॥

पूर्वंसमाधेरखिलंविचिन्तयेदोंकारमात्रंसचराचरंजगत्‌॥

तदेव वाच्यं प्रणवो हि वाचको विभाव्यते ज्ञानवशान्न बोधतः॥४८॥

अकारसंज्ञः पुरुषोहि विश्वको ह्युकारकस्तैजस ईर्यते क्रमात्‌॥
प्राज्ञोमकारः परिपठ्यतेऽखिलैःसमाधिपूर्वं नतु तत्वतो भवेत्‌॥४९॥

विश्वंत्वकारं पुरुषं विलापयेदुकारमध्ये बहुधा व्यवस्थितम्‌॥
ततो मकारेप्रविलाप्य तैजसं द्वितीयवर्णं प्रणवस्य चांतिमम्‌॥५०॥

मकारमप्यात्मनि चिद्धने परे विलापयेत्प्राज्ञमपीहकारणम्‌॥
सोऽहंपरं ब्रह्म सदा विमुक्तिमद्विज्ञानदृइ्मुक्त उपाधितोऽमलः॥५१॥

एवं सदा जातपरात्मभावनः स्वानंदतुष्टःपरिविस्मृताखिलः॥
आस्ते स नित्यात्मसुखप्रकाशकः साक्षाद्विमुक्तोऽचलवारिसिंधुवत्‌॥५२॥

एवं सदाऽभ्यस्तसमाधियोगो निवृत्तसर्वेंद्रियगोचरस्य हि॥
विमिर्जिताशेषरिपोरहंसदा दृश्योभवेयं जितषड्‌गुणात्मनः॥५३॥

ध्यात्वैवमात्मानमहर्निशंमुनिस्तिष्ठेत्सदामुक्तसमस्तबंधनः॥

प्रारब्धम श्रन्नभिमानवर्जितो मय्येव साक्षात्प्रविलीयते ततः॥५४॥

आदौच मध्यं च तथैव चांततो भवं विदित्वा भयशोककारणम्॥
हित्वा समस्तं विधिवादचोदितंभजेत्स्वमात्मानमथाखिलात्मनाम्‌॥५५॥

आत्मन्यभेदेन विभावयन्निदं भवत्यभेदेन मयात्मना तदा॥
यथा जलंवारिनिधौयथा पयः क्षीरे वियद्व्योम्न्योनिलेयथानिलः॥५६॥

इत्थं यदीक्षेत हि लोकसंस्थितोजगन्मृषैवेति विभावयन्मुनिः॥
निराकृतत्वाच्छुतियुक्तिमानतो यथेंदुभेदो दिशि दिग्भ्रमादयः॥५७॥

यावन्न पश्येदखिलं मदात्मकं तावन्मदाराधनतत्परो भवेत्‌॥
श्रद्धालुरत्यूर्जितभक्तिलक्षणोयस्तस्य दृश्योहमहर्निशंहृदि॥५८॥

रहस्यमेतच्छुतिसारसंग्रहंमया विनिश्चित्य तवोदितं प्रिय॥
यस्त्वेतदालोचयतीह बुद्धिमान्स मुच्यते पातकराशिभिः क्षणात्‌॥५९॥

भ्रातर्यदीदं परिदृश्यते जगन्मयैव सर्वंपरिहृत्य चेतसा॥
मद्भावनाभावितशुद्धमानसः सुखी भवानंदमयो निरामयः॥६०॥

यःसेवते मामगुणं गुणात्परं हृदा कदा वा यदि वा गुणात्मकम्‌॥
सोहं स्वपादांचितरेणुभिः स्पृशन्पुनाति लोकत्रितयं यथा रविः॥६१॥

विज्ञानमेतदाखिलंश्रुतिसारमेकंवेदांतवेद्यचरणेन मयैव गीतम्॥
यः श्रद्धया परिपठेद्गुरुभक्तियुक्तो मद्रूपमेति यदि मद्वचनेषु भक्तिः॥६२॥

इति श्रीमदध्यात्मरामायणे उमामहेश्वरसंवादेउत्तरकांडे रामगीता समाप्ता॥८५॥

अथ रामरक्षास्तोत्रप्रारंभः।

श्रीगणेशाय नमः॥

अस्य श्रीरामरक्षास्तोत्रमंत्रस्यबुधकौशिकऋषिः श्रीसीतारामचंद्रो देवता॥ अनुष्टुप्छंदः॥ सीताशक्तिः॥ श्रीमद्धनूमान्कीलकम्‌॥ श्रीरामचंद्रप्रीत्यर्थेरामरक्षास्तोत्रजपे विनियोगः॥

॥अथ ध्यानम्‌॥

ध्यायेदाजानुबाहुं धृतशरधनुषं बद्धपद्मासनस्थं
पीतं वासोवसानं नवकमलदलस्पर्धिनेत्रंप्रसन्नम्‌॥

वामांकारुढसीतामुखकमलमिलल्लोचनं नीरदाभं
नानालं कारदीप्तंदधतमुरुजटामंडलंरामचंद्रम्‌॥१॥

॥इतिध्यानम्‌॥

चरितं रघुनाथस्य शतकोटिप्रविस्तरम्‌॥
एकैकमक्षरं पुंसां महापातकनाशनम्‌॥१॥

ध्यात्वा नीलोत्पलश्यामं रामं राजीवलोचनम्‌॥
जानकीलक्ष्मणोपेतं जटामुकुटमंडितम्॥२॥

सासितूणधनुर्बाणपाणिं नकंचरांतकम्‌॥
स्वलीलयाजगत्त्रातुमाविर्भूतमजंविभुम्॥३॥

रामरक्षां पठेत्प्राज्ञः पापघ्नींसर्वकामदाम्‌॥
शिरो मे राधवः पातु भालंदशरथात्मजः॥४॥

कौसल्येयोदृशौपातुविश्वामित्रप्रियःश्रुती॥
घ्राणं पातु मखत्राता मुखं सौमित्रिवत्सलः॥५॥

जिह्वां विद्यानिधिः पातु कंठंभरतवंदितः॥
स्कंधौदिव्यायुधः पातु भुजौभग्नेशकार्मुकः॥६॥

करौसीतापतिः पातु हृदयंजामदग्न्यजित्‌॥
मध्यं पातु खरध्वंसो नाभिंजांबवदाश्रयः॥७॥

सुग्रीवेशः कटी पातुसक्थिनी हनुमत्प्रभुः॥
उरू रघूत्तमः पातुरक्षःकुलविनाशकृत्॥८॥

जानुनी सेतुकृत्पातु जंघे दशमुखांतकः॥
पादौविभीषणश्रीदः पातु रामोऽखिलंवपुः॥९॥

एतां रामवलोपेतां रक्षां यःसुकृती पठेत्‌॥
स चिरायुः सुखी पुत्री विजयी विनयी भवेत्‌॥१०॥

पातालभूतलव्योमचारिणश्छद्मचारिणः॥
न द्रष्टुमपि शक्तास्ते रक्षितं रामनामभिः॥११॥

रामेति रामभद्रेति रामचंद्रेतिवा स्मरन्‌॥
नरो न लिप्यते पापैर्भुक्तिं मुक्तिंच विदंति॥१२॥

जगज्जैत्रैकमंत्रेण रामनाम्नाऽभिरक्षितम्॥
यःकंठे धारयेत्तस्य करस्थाः सर्वसिद्धयः॥१३॥

वज्रपंजरनामेदं यो रामकवचं स्मरेत्‌॥
अव्याहताज्ञः सर्वत्र लभते जयमंगलम्॥१४॥

आदिष्टवान्यथा स्वप्नेरामरक्षामिमां हरः॥
तथालिखितवान्प्रातः प्रवुद्धो बुधकौशिकः॥१५॥

आरामः कल्पवृक्षाणां विरामःसकलापदाम्॥
अभिरामस्त्रिलोकानां रामः श्रीमान्स नःप्रभुः॥१६॥

तरुणो रूपसंपन्नौसुकुमारौमहाबलौ॥

पुंडरीक विशालाक्षौचीरकृष्णाजिनांवरौ॥१७॥

फलमूलाशिनौदांतौतापसौब्रह्मचारिणौ॥१८॥
पुत्रौदशरथस्यैतौभ्रातरौरामलक्ष्मणौ॥१८॥

शरण्यौसर्वसत्त्वानां श्रेष्ठौसर्वधनुष्मताम्‌॥
रक्षःकुलंनिहंतारौत्रायेतां नो रघूत्तमौ॥१९॥

आत्तसज्जधनुषाविषुस्पृशावक्षयाशुगनिषंगसंगिनौ॥
रक्षणाय मम रामलक्ष्मणावग्रतः पथि सदैव गच्छताम्‌॥२०॥

सन्नद्धःकवची खङ्गीचापबाणधरो युवा॥
गच्छन्मनोरथोऽस्माकं रामः पातु सलक्ष्मणः॥२१॥

रामो दाशरथिः शूरो लक्ष्मणानुचरो वली॥
काकुत्स्थः पुरुषःपूर्णःकौसल्येयो रघूत्तमः॥२२॥

वेदांतवेद्योयज्ञेशः पुराणपुरुषोत्तमः॥
जानकीवल्लभःश्रीमानप्रमेयपराक्रमः॥२३॥

इत्येतानि जपेन्नित्यं मद्भक्तः श्रद्धयाऽन्वितः॥
अश्वमेधाधिकं पुण्यं संप्राप्नोति न संशयः॥२४॥

रामंदूर्वादलश्यामं पद्माक्षं पीतवाससम्‌॥
स्तुवंतिनामभिर्दिव्यैने ते संसारिणो नराः॥२५॥

रामंलक्ष्मणपूर्वजंरघुवरं सीतापतिं सुंदरं
काकुत्स्थं करुणार्णवं गुणनिधिं विप्रप्रियं धार्मिकम्‌॥
राजेंद्रंसत्यसंधं दशरथतनयं श्यामलंशांतमूर्तिं
वंदे लोकाभिरामं रघुकुलतिलकंराघवं रावणारिम्‌॥२६॥

रामाय रामभद्राय रामचंद्राय वेधसे॥
रघुनाथायनाथाय सीतायाः पतये नमः॥२७॥

श्रीराम राम रघुनंदन राम राम
श्रीराम राम भरताग्रज राम राम॥
श्रीराम राम रणकर्कश राम राम
श्रीराम राम शरणं भव राम राम॥२८॥

श्रीरामचंद्रचरणौ मनसा स्मरामि
श्रीरामचंद्रचरणौवचसा गृणामि॥
श्रीरामचंद्रचरणौशिरसा नमामि
श्रीरामचंद्रचरणौ शरणं प्रपद्ये॥२९॥

माता रामो मत्पितारामचंद्रः
स्वामी रामोमत्सखारामचंद्रः॥
सर्वस्वं मे रामचंद्रोदयालुर्नान्यं

जाने नैव जाने न जाने॥३०॥

दक्षिणे लक्ष्मणो यस्य वामे च जनकात्मजा॥
पुरतोमारुतिर्यस्यतं वंदे रघुनंदनम्‌॥३१॥

लोकाभि रामं रणरङ्गधीरं राजीवनेत्रं रघुवंशनाथम्॥

कारुण्यरुपं करुणाकरं तं श्रीरामचन्द्रं शरणं प्रपद्ये॥३२॥

मनोजवं मारुततुल्यवेगं जितेन्द्रियं बुद्धिमतां वरिष्ठम्॥
वातात्मजं वानरयूथमुख्यं श्रीरामदूतं शरणं प्रपद्ये॥३३॥

कूजंतं राम रामेति मधुरं मधुराक्षरम्‌॥
आरुह्य कविताशाखांवंदे वाल्मीकिकोकिलम्‌॥३४॥

आपदामपहर्तारं दातारं सर्वसंपदाम्‌॥
लोकाभिरामं श्रीरामं भूयो भूयो नमाम्यहम्‌॥३५॥

भर्जनंभवबीजानामर्जनं सुखसंपदाम्‌॥
तर्जनं यमदूतानां रामरामेति गर्जनम्‌॥३६॥

रामो राजमणिः सदा विजयते रामं रमेशंभजे
रामेणाभिहता निशाचरचमूरामाय तस्मैनमः॥
रामान्नास्ति परायणंप्रतरं रामस्य दासोऽस्यहं
रामे चित्तलयःसदा भवतु मे भो राम मामुद्धर॥३७॥

रामरामेऽतिरामेऽति रमे रामे मनोरमे॥
सहस्रनामतत्तुल्यंरामनाम वरानने॥३८॥

इति श्रीबुधकौशिकविरचितं श्रीरामरक्षास्तोत्रंसंपूर्णम्‌॥८६॥

श्रीसीतारामचन्द्रार्पणमस्तु॥

अथरामस्तवराजप्रारंभः।

श्रीगणेशाय नमः॥

अस्य श्रीरामचंद्रस्तवराजस्तोत्रमंत्रस्य॥ सनत्कुमार ऋषि॥श्रीरामो देवता॥ अनुष्टुप्छंदः॥ सीता वीजम्‌॥ हनुमान शक्तिः॥ श्रीरामगप्रीत्यर्थेजपेविनियोगः॥

॥सूत उवाच॥

सर्वशास्त्रार्थतत्त्वज्ञं व्यासं सत्यवतीसुतम्॥
धर्मपुत्रःप्रहृष्टात्माप्रत्युवाच मुनीश्वरम्॥१॥

युधिष्ठिर उवाच॥

भगवन्योगिनां श्रेष्ठ सर्वशास्त्रविशारद॥
किं तत्त्वं किं परं जाप्यं किं ध्यानं मुक्तिसाधनम्॥२॥

श्रोतुमिच्छामि तत्सर्वं ब्रूहिमे मुनिसत्तम॥

॥वेदव्यासउवाच॥

धर्मराजमहाभाग शृणु वक्ष्यामि तत्त्वतः॥३॥

यत्परं यद्गुणातीतं यज्ज्योतिरमलंशिवम्‌॥
तदेव परमं तत्त्वंकेवल्यपदकारणम्‌॥४॥

श्रीरामेति परं जाप्यं तारकं ब्रह्मसंज्ञकम्॥
ब्रह्महत्यादिपापघ्नमिति वेदविदो विदुः॥५॥

श्रीराम रामेति जना ये जपंति च सर्वदा॥
तेषां भुक्तिश्चमुक्तिश्च भविष्यति न संशयः॥६॥

स्तवराजं पुरा प्रोक्तंनारदेन च धीमता॥
तत्सर्वं संप्रवक्ष्यामि हरिध्यानपुरःसरम्‌॥७॥

तापत्रयाग्निशमनं सर्वाघौघनिकृंतनम्‌॥
दारिद्र्यदुःखशमनं सर्वसंपत्करं शिवम्‌॥८॥

विज्ञानफलदं दिव्यं मोक्षैकफलसाधनम्॥
नमस्कृत्य प्रवक्ष्यामि रामं कृष्णं जगन्मयम्‌॥९॥

अयोध्यानगरे रम्ये रत्नमंडपमध्यगे॥
स्मरेत्कल्पतरोर्मूलेरत्नसिंहासनं शुभम्‌॥१०॥

तन्मध्येष्टदलंपद्मंनानारत्नैश्चवेषितम्‌॥
स्मरेन्मध्ये दाशरथिं सहस्रादित्यतेजसम्॥११॥

पितुरंकगतं राममिंद्रनीलमणिप्रभम्‌॥
कोमलांगं विशालाक्षंविद्युद्वर्णांबरावृतम्॥१२॥

भानुकोटिप्रतीकाशं किरीटेन विराजितम्‌॥
रत्नग्रैवेयकेयूररत्नकुंडलमंडितम्‌॥१३॥

रत्नकंकणमंजीरंकटिसूत्रैरलंकृतम्‌॥
श्रीवत्सकौस्तुभोरस्कं मुक्ताहारोपशोभितम्॥१४॥

दिव्यरत्नसमायुक्तमुद्रिकाभिरलंकृतम्॥
राघवांद्वभुज बालं राममीषत्स्मिताननम्‌॥१५॥

तुलसीकुंदमंदारपुष्पमाल्यैरलंकृतम्‌॥

कर्पूरागुरुकस्तूरीदिव्यगंधानुलेपनम्‌॥१६॥

योगशास्त्रेष्वभिरतंयोगेशं योगदायकम्‌॥
सदा भरतसौमित्रिशत्रुघ्नैरुपशोभितम्‌॥१७॥

विद्याधरसुराधीशसिद्धगंधर्वकिन्नरैः॥
योगींद्रैर्नारदाद्यैश्च स्तृयमानमहर्निशम्‌॥१८॥

विश्वामित्रवसिष्ठादिमुनिभिः परिसेवितम्‌॥
सनकादिमुनिश्रेष्टैर्योगिवृंदैश्चसेवितम्॥१९॥

रामं रघुवरं वीरं धनुर्वेदविशारदम्॥
मंगलायतनं देवं रामं राजीवलोचनम्‌॥२०॥

सर्वशास्त्रार्थतत्त्वज्ञमानंदकरसुंदरम्‌॥
कौसल्यानंदनं रामंधनुर्वाणधरं हरिम्‌॥२१॥

एवं संचिंतयनि्वष्णुंयज्ज्योतिरमलंविभुम्‌॥
प्रहृष्टमानसो भूत्वा मुनिवर्यःस नारदः॥२२॥

सर्वलोकहितार्थाय तुष्टाव रघुनंदनम्॥
कृतांजलिपुटो भूत्वा चिंतयन्नद्भुतंहरिम्॥२३॥

यदेकं यत्परं नित्यं यदनंतं चिदात्मकम्‌॥
यदेकं व्यापकं लोकेतद्रूपं चिंतयाम्यहम्‌॥२४॥

वैज्ञानहेतुं विमलायताक्षं प्रज्ञानरूपंस्वसुखैकहेतुम्॥
श्रीरामचन्द्रं हारिमादिदेवं परात्परं राममहं भजांमि॥२५॥

कविं पुराणं पुरुषं पुरस्तात्सनातनं योगिनमीशितारम्‌॥
अणोरणीयां समनंतवीर्यं प्राणेश्वरं राममसौ ददर्श॥२६॥

नारद उवाच॥

नारायणं जगन्नाथमभिरामं जगत्पतिम्‌॥
कविंपुराणं वागीशं रामं दशरथात्मजम्‌॥२७॥

राजराजं रघुवरं कौसल्यानंदवर्धनम्‌॥
भर्गंवरेण्यं विश्वेशं रघुनाथं जगद्गुरुम्‌॥२८॥

सत्यं सत्यप्रियं श्रेष्ठं जानकीवल्लभं विभुम्‌॥
सौमित्रिपूर्वजं शांतंकामदं कमलेक्षणम्‌॥२९॥

आदित्यं रविमीशानं घृणिं सूर्यमनामयम्‌॥
आनंदरूपिणं सौम्यं राघवं करुणामयम्‌॥३०॥

जामदग्न्यंतपोमूर्तिंरामं परशुधारणम्‌॥
वाक्पतिं वरदं वाच्यं श्रीपतिं पक्षिवाहनम्‌॥३१॥

श्रीशार्ङ्गधारिणं रामंचिन्मयानंदविग्रहम्‌॥
हलधृग्विष्णुमीशानं वलरामं कृपानिधिम्‌॥३२॥

श्रीवल्लभंकुपानाथंजगन्मोहनमच्युतम्‌॥
मत्स्यकूर्मवराहादिरूपधारीणमव्ययम्‌॥३३॥

वासुदेवं जगद्योनिमनादिनिधनंहरिम्॥
गोविंद गोपतिं विष्णुं गोपीजनमनोहरम्॥३४॥

गोगोपालपरीवारं गोपकन्यासमावृतम्॥
विद्युत्पुंजप्रतीकाशंरामं कृष्णं जगन्मयम्‌॥३५॥

गोगोपिकासमाकीर्णं वेणुवादनतत्परम्‌॥
कामरूपं कलावंतं कामिनीकामदं विभुम्‌॥३६॥

मन्मथं मथुरानाथं माधवंमकरध्वजम्‌॥
श्रीधरं श्रीकरं श्रीशं श्रीनिवासं परात्परम्‌॥३७॥

भूतेशं भूपतिं भद्रं विभूतिं भूतिभूषणम्‌॥
सर्वदुःखहरं वीरं दुष्टदानववैरिणम्‌॥३८॥

श्रीनरसिंहंमहाबाहुं महांतं दीप्ततेजसम्‌॥
चिदानंदमयं नित्यं प्रणवं ज्योतिरूपिणम्‌॥३९॥

आदित्यमंडलगतं निश्चितार्थस्वरूपिणम्‌॥
भक्तप्रियं पद्मनेत्रं भक्तानामीप्सितप्रदम्‌॥४०॥

कौसल्येयं कलामूर्तिंकाकुत्स्थं कमलाप्रियम्॥
सिंहासने समासीनं नित्यव्रतमकल्मषम्‌॥४१॥

विश्वामित्रप्रियंदांसं स्वदारनियतव्रतम्‌॥
यज्ञेशं यज्ञपुरुषं यज्ञपालनतत्परम्‌॥४२॥

सत्यसंधं जितक्रोधं शरणागतवत्सलम्॥
सर्वक्लेशापहरणं बिभीषणवरप्रदम्‌॥४३॥

दशग्रीवहरं रौद्रं केशवं केशिवर्धनम्‌॥
वालिप्रमथनं वीरं सुग्रीवेप्सितराज्यदम्‌॥४४॥

नरवानरदेवैश्चसेवितं हनुमत्प्रियम्‌॥
शुद्धं सुक्ष्मंपरं शांतं तारकब्रह्मरूपिणम्‌॥४५॥

सर्वभूतात्म भूतस्थं सर्वाधारं सनातनम्‌॥
सर्वकारणकर्तारंनिदानं प्रकृतेः परम्‌॥४६॥

निरामयं निराभासं निरवद्यं निरंजनम्‌॥
नित्यानंदं निराकारमद्वैतं तमसःपरम्‌॥४७॥

परात्परतरं तत्वं सत्यानंदं चिदात्मकम्‌॥
मनसा शिरसा नित्यं प्रणमामि रघूत्तमम्‌॥४८॥

सूर्यमंडलमध्यस्थं रामं सीतासमन्वितम्‌॥
नमामि पुंडरीकाक्षममेयं गुरुतत्परम्‌॥९९॥

नमोऽस्तु वासुदेवाय ज्योतिषांपतये नमः॥
नमोऽस्तु रामदेवाय जगदानंदरूपिणे॥५०॥

नमो बेदांतनिष्ठाय योगिने ब्रह्मवादिने॥
मायामयनिरस्ताय प्रपन्नजनसेविने॥५१॥

वंदामहे महेशानचंडकोदंडखंडनम्॥
जानकीहृदयानंदवर्धनं रघुनंदनम्॥५२॥

उत्फुल्लामलकोमलोत्पलदलश्यामाय रामायते
कामाय प्रमदामनोहरगुणग्रामाय रामात्मने॥
योगारूढमुनींद्रमानससरोहंसाय संसारविध्वंसाय
स्फुरदोजसे रघुकुलोत्तंसायपुंसे नमः॥५३॥

भवोद्भवं वेदविदां वरिष्ठमादित्यचंद्रानलसुप्रभावम्‌॥
सर्वात्मकं सर्वगतस्वरूपं नमामि रामं तमसः परस्तात्‌॥५९॥

निरंजनं निष्प्रतिमं निरीहं निराश्रयं निष्कलमप्रपंचम्॥
नित्यध्रुवं निर्विषयस्वरूपं निरंतरं राममहं भजामि॥५५॥

मवाब्धिपोतं भरताग्रजं तं भक्तं प्रियं भानुकुलप्रदीपम्॥
भूतत्रिनाथं भुवनाधिपं भजामि रामं भवरोगवैद्यम्‌॥५६॥

सर्वाधिपत्यं समरांगधीरं सत्यं चिदानंदमयस्वरूपम्‌॥
सत्यं शिवं शांतिमयं शरण्यं सनातनं राममहं भजामि॥५७॥

कार्यक्रियाकारणमप्रमेयं कविं पुराणं कमलायताक्षम्‌॥
कुमारवेद्यंकरुणामयंतं कल्प

दुमंराममहं भजामि॥५८॥

त्रैलोक्यनाथंसरसीरुहाक्षं दयानिधिं द्वंद्वविनाशहेतुम्‌॥
महावलंवेदनिधिंसुरेशंसनातनं राममहं भजामि॥५९॥

वेदांतवेद्यं कविमीशितारमनादिमध्यांतमचिंत्यमाद्यम्‌॥
अगोचरं निर्मलमेकरूपंनमामि रामं तमसः परस्तात्‌॥६०॥

अशेषवेदात्मकमादिसंज्ञमजं हरिविष्णुमनंतमाद्यम्‌॥
अपारसंवित्सुखमेकरूंपंपरात्परं राममहं भजामि॥६१॥

तत्त्वस्वरूपं पुरुषं पुराणं स्वतेजसा पूरितविश्वमेकम्‌॥
राजाधिराजं रविमंडलस्थं विश्वेश्वरं राममहं भजामि॥६२॥

लोकाभिरामं रघुवंशनाथं हरिंचिदानंदमयं मुकुंदम्॥
अशेषविद्याधिपतिं कवींद्रंनमामि रामं तमसःपरस्तात्‌॥६३॥

योगींद्रसंघैश्च सुसेव्यमानं नारायणं निर्मलमादिदेवम्‌॥
नतोऽस्मि नित्यं जगदेकनाथमादित्यवर्णं तमसः परस्वात्‌॥६९॥

विभूतिदं विश्वसृजं विरामं राजेंद्रमीशं रघुवंशनाथम्‌॥
अचिंत्यमव्यक्तमनंतमूर्तिंज्योतिर्मयं राममहं भजामि॥६५॥

अशेषसंसारविहारहीनमादित्यगं पूर्णसुखाभिरामम्‌॥
समस्तसाक्षिं तमसः परस्तान्नारायणं विष्णुमहं भजामि॥६६॥

सुनींद्रगुह्यंपरिपूर्णकामं कलानिधिं कल्मषनाशहेतुम्‌॥
परात्परं यत्परमे पवित्रं नमामि रामं महतो महांतम्‌॥६७॥

ब्रह्मा विष्णुश्चरुद्रश्चदेवेंद्रो देवतास्तथा॥
आदित्यादिग्रहाश्चैवत्वमेवरघुनंदन॥६८॥

तापसाऋषयः सिद्धाःसाध्याश्चमरुतस्तथा॥
विप्रा वेदास्तथा यज्ञाः पुराणं धर्मसंहिताः॥६९॥

वर्णाश्रमास्तथाधर्मावर्णधर्मास्तथैवच॥
यक्षराक्षसगंधर्वादिक्पालादिग्गजादिभिः॥७०॥

सनकादिमुनिश्रेष्ठास्त्वमेव रघुपुंगव॥
वसवोऽष्टौत्रयः काला रुद्राएकादश स्मृताः॥७१॥

तारका दश दिक्चैव त्वमेव रघुनंदन॥
सप्तद्वीपाः समुद्राश्च नगा नद्यस्तथा द्रुमाः॥७२॥

स्थावरा जंगमाश्चैव त्वमेव रघुनायक॥
देवतिर्यङ्मनुष्याणां दानवानांतथैव च॥७३॥

माता पिता

यथाभ्राता त्वमेव रघुवल्लभ॥

सर्वेषां त्वंपरं ब्रह्म त्वन्मयं सर्वमेवहि॥७४॥

त्वमक्षरं परं ज्योतिस्त्वमेव पुरुषोत्तम॥
त्वमेव तारकं ब्रह्म त्वत्तोऽन्यन्नैव किंचन॥७०॥

शांतं सर्वगतं सूक्ष्मं परं ब्रह्म सनातनम्‌॥
राजीवलोचनं रामं प्रणमामि जगत्पतिम्‌॥७६॥

व्यास उवाच॥

ततः प्रसन्नः श्रीरामः प्रोवाच मुनिपुङ्गवम्‌॥
तुष्टोऽस्मि मुनिशार्दूल वृणीष्व वरमुत्तमम्‌॥७७॥

नारद उवाच॥

यदि तृष्टोऽसि सर्वज्ञ श्रीरामकरुणानिधे॥
त्वन्मूर्तिदर्शनेनैव कृतार्थोऽहं च सर्वदा॥७८॥

धन्योऽहंकृतकृत्योऽहंपुण्योऽहं पुरुषोत्तम॥
अद्य मे सफलं जन्म जीवितं सफलं च मे॥७९॥

अद्य मे सफलं ज्ञानमद्य मे सफलंतपः॥
अद्य मे सफलं कर्मत्वत्पादांभोजदर्शनात्‌॥
अद्य मे सफलं सर्वंत्वन्नामस्मरणं तथा॥८०॥

त्वत्पादांभोरुहद्वंद्वसद्भक्तिंदेहिराघव॥
ततः परमसंप्रीतः स रामः प्राह नारदम्‌॥८१॥

श्रीराम उवाच॥

मूनिवर्यमहाभाग मुने त्विष्टं ददामिते॥

यत्त्वया चेप्सितं सर्वंमनसा तद्भविष्यति॥८२॥

नारद उवाच॥

वरं न याचे रघुनाथयुष्मत्पादाब्जभक्तिः सततं ममास्तु॥
इदं प्रियंनाथ वरं प्रयाचे पुनः पुनस्त्वामिदमेव याचे॥८३॥

व्यास उवाच॥

इत्येवमीडितो रामः प्रादात्तस्मैवरान्तरम्‌॥
वीरो रामो महातेजाः सच्चिदानंदविग्रहः॥८४॥

अद्वैतममलंज्ञानं स्वनामस्मरणं तथा॥
अंतर्दधौजगन्नाथः पुरतस्तस्यराघवः॥८५॥

इतिश्रीरघुनाथस्य स्तवराजमनुत्तमम्‌॥
सर्वसौभाग्यसंपत्तिदायकं मुक्तिदं शुभम्॥८६॥

कथितं ब्रह्मपुत्रेण वेदानां सारमुत्तमम्‌॥
गुह्याद्गुह्यतमं दिव्यं तव स्नेहात्प्रकीर्तितम्‌॥८७॥

यःपठेच्छृणुयाद्वापि त्रिसंध्यं श्रद्धयान्वितः॥
ब्रह्महत्यादिपापानि तत्समानि बहूनिच॥८८॥

स्वर्णस्तेयं सुरापानं गुरुतल्पगतिस्तथा॥
गोवधाद्युपपापानि अनृतात्संभवानिच॥८९॥

सर्वैः प्रमुच्यते पापैःकल्पायुतशतोद्भवैः॥

मानसंवाचिकं पापं कर्मणा समुपार्जितम्॥९०॥

श्रीरामस्मरणेनैव तत्क्षणान्नश्यति ध्रुवम्‌॥
इदं सत्यमिदं सत्यं सत्यमेतदिहोच्यते॥९१॥

रामः सत्यं परं ब्रह्म रामात्किंचिन्न विद्यते॥
तस्माद्रामस्वरूपं हि सत्यं सत्यमिदं जगत्॥९२॥

श्रीरामचन्द्ररघुपुङगवराजवर्य
राजेंद्र राम रघुनायक राघवेश॥
राजाधिराज रघुनंदन रामचन्द्र
दासोऽहमद्यभवतः शरणागतोऽस्मि॥९३॥

वैदेहीसहितं सुरद्रुमतले हैमे महामंडपे
मध्येपुष्पकमासने मणिमये वीरासन संस्थितम्‌॥
अग्रे बाचयति प्रभंजनसुते तत्त्वंमुनीन्द्रैःपरं
व्याख्यातं भरतादिभिः परिवृतंरामं भजेश्यामलम्‌॥९४॥

रामं रत्नाकिरीटकुंडटयुतं केयूरहारान्वितं
सीतालंकृतवामभागममलं सिंहासनस्थं विभुम्‌॥
सुग्रीवादिहरीश्वरैःसुरगणैःसंसेव्यमानं सदा
विश्वामित्रपराशरादिमुनिभिः संस्तूयमानं प्रभुम्‌॥९५॥

सकलगुणनिधानंयोगिभिः स्तूयमानं
भुजविजितसमानं राक्षसेंद्रा दिमानम्॥

महितनृपभयानं सीतया शोभमानं
स्मरहृदयविमानं ब्रह्म रामाभिधानम्‌॥९६॥

रघुवर तव मूर्तिर्मामके मानसाब्जे
नरकगतिहरं तेनामधेयं मुखेमे॥
अनिशमतुलभक्त्या मस्तकंत्वत्पदाब्जे
भवजलनिधिमग्नंरक्ष मामार्तबंधो॥९७॥

रामरत्नमहं वंदे चित्रकूटपतिं हरिम्‌॥
कौसल्याभक्तिसंभूतं जानकीकंठभूषणम्‌॥९८॥`

इति श्रीसनत्कुमारसंहितायांनारदोक्त श्रीरामचंद्रस्तवःसम्पूर्णः॥८७॥

अथ संक्षिप्तमूलरामायणप्रारंभः।

श्रीगणेशाय नमः॥

तपःस्वाध्यायनिरतं तपस्वी वाग्विदांवरम्॥
नारदं परिपप्रच्छ वाल्मीकिर्मुनिपुंगवम्‌॥१॥

कोन्वस्मिन्सांप्रतं लोके गुणवान्कश्चवीर्यवान्‌॥
धर्मज्ञश्चकृतज्ञश्च सत्यवाक्यो दृढब्रतः॥२॥

चारित्रेण च को युक्तः सर्वभूतेषु को हितः॥
विद्वान्कः कः समर्थश्च कश्चैकः प्रियदर्शनः॥३॥

आत्मवान्कोजितक्रोधो द्युतिमान्कोऽनसूयकः॥
कस्य विभ्यति देवाश्च जातरोषस्य संयुगे॥४॥

एतदिच्छाम्यहं श्रोतुंपरं कौतूहलंहि मे॥
महर्षेत्वंसमर्थोऽसि ज्ञातुमेवंविधं नरम्‌॥५॥

श्रुत्वाचैतत्रिलोकज्ञोवाल्मीकेर्नारदो वचः॥
श्रुयतामितिचामंत्र्यप्रहृष्टोवाक्यमब्रवीत्‌॥६॥

बहवो दुर्ल्लभाश्चैव ये त्वया कीर्तिता गुणाः॥
मुने वक्ष्याम्यहंबुद्धा तैर्युक्तः श्रूयतां नरः॥७॥

इक्ष्वाकुवंशप्रभवोरामो नाम जनैःश्रुतः॥
नियतात्मा महावीर्यो द्युतिमान्धृतिमान्वशी॥८॥

बुद्धिमान्नीतिमान्वाग्मी श्रीमाञ्छत्रुनिवर्हणः॥
विपुलांसो महाबाहुः कंबुग्रीवो महाहनुः॥९॥

महोरस्को महेष्वासो गूढजत्रुररिंदमः॥
आजानुवाहुःसुशिराः सुललाटः सुविक्रमः॥१०॥

समः समविभक्ताड़्गःस्निग्धवर्णःप्रतापवान्‌॥
पीनवक्षा विशालाक्षो लक्ष्मीवाञ्छुभलक्षणः॥१३॥

धर्मज्ञः सत्यसंधश्च प्रजानां च हितेरतः॥
यशस्वीज्ञानसंपन्नःशुचिर्वशयः समाधिमान्॥१२॥

प्रजापतिसमः श्रीमान्धाता रिपुनिषूदनः॥
रक्षिता जीवलोकस्य धर्मस्य परिरक्षिता॥१३॥

रक्षिता स्वस्य धर्मस्यस्वजनस्य च रक्षिता॥
वेदवेदाड़्गतत्त्वज्ञोधनुर्वेदेच निष्ठितः॥१४॥

सर्वशास्त्रार्थतत्त्वज्ञः स्मृतिमान्प्रतिभानवान्‌॥
सर्वलोकप्रियः साधुरदीनात्मा विचक्षणः॥१५॥

सर्वदाहभिगतः सद्धिः समुद्र इव सिंधुभिः॥
आर्यःसर्वसमश्चैव सदैव प्रियदर्शनः॥१६॥

स च सर्वगुणोपेतः कौसल्यानंदवर्धनः॥
समुद्र इव गांभीर्येधैर्येण हिमवानिव॥१७॥

विष्णुना सदृशोवीर्येसोमवत्प्रियदर्शनः॥
कालाग्निसदृशःक्रोधेक्षमया पृथिवीसमः॥१८॥

धनदेन समस्त्यागे सत्ये धर्मइवापरः॥
तमेवं गुणसंपन्नं रामं सत्यपराक्रमम्‌॥१९॥

ज्येष्ठं श्रेष्ठगुणैर्युक्तं प्रियं दशरथात्मजम्‌॥
प्रकृतीनां हितैर्युक्तं प्रकृतिप्रियकाम्यया॥२०॥

यौवराज्येन संयोक्तुमैच्छत्प्रीत्या महीपतिः॥

तस्याभिषेकसंभारान्दृष्ट्वाभार्याऽथ कैकयी॥२१॥

पूर्वं दत्तवरादेवी वरमेनमयाचत॥
विवासनं च रामस्य भरतस्याभिषेचनम्‌॥२२॥

स सत्यवचनाद्राजाधर्मपाशेन संयुतः॥
विवासयामास सुतं रामं दशरथः प्रियम्‌॥२३॥

स जगाम वनं वीरः प्रतिज्ञामनुपालयन्‌॥
पितुर्वचननिर्देशात्कैकेय्याः प्रियकारणात्‌॥२४॥

तं ब्रजंतं प्रियो भ्राता लक्ष्मणोऽनुजगाम ह॥
स्नेहाद्विनयसंपन्नःसुमित्रानंदवर्धनः॥२५॥

भ्रातरं दयितो भ्रातुःसोभ्रात्रमनुदर्शयन्‌॥
रामस्य दयितो भ्रातुःसुमित्रानंदवर्धनः॥२६॥

जनकस्य कुलेजाता देवमायैव निर्मिता॥
सर्वलक्षणसंपन्ना नारीणामुत्तमा वधूः॥२७॥

सीताप्यनुगता रामं शशिनं रोहिणी यथा॥
पौरैरनुगतो दूरं पित्रा दशरथेन च॥२८॥

शृंगवेरपुरेसूतं गड़्गाकूले व्यसर्जयत्‌॥
गुहमासाद्यधर्मात्मा निषादाधिपतिं प्रियम्‌॥२९॥

गुहेन सहितो रामो लक्ष्मणेन च सीतया॥

ते वनेन वनंगत्वानदीस्तीर्त्वाबहूदकाः॥३०॥

चित्रकूटमनुप्राप्य भरद्वाजस्य शासनात्‌॥
रम्यमावसथं कृत्वारममाणा वने त्रयः॥३१॥

देवगंधर्वसंकाशास्तत्रये न्यवसन्त्सुखम्‌॥
चित्रकूटं गते रामे पुत्रशोकातुरस्तदा॥३२॥

राजादशारथःस्वर्गंजगामविलपन्सुतम्‌॥
मृते तु तस्मिन्‌ भरतो वसिष्ठप्रमुखैर्द्विजैः॥२३॥

नियुज्यमाने राज्याय नैच्छद्राज्यं महावलः॥
स जगाम वनं वीरो रामपादप्रसादकः॥३४॥

गत्वा तु सुमहात्मानं रामं सत्यपराक्रमम्‌॥
अयाचद्भ्रातरं राममार्यनामपुरस्कृतम्॥३५॥

त्वमेव राजा धर्मज्ञ इतिरामं वचोऽब्रवीत्॥
रामोऽपि परमोदारः सुमुखः सुमहायशाः॥२६॥

नचैच्छत्पितुरादेशाद्राज्यंरामो मराबलः॥
पादुके चास्य राज्याय न्यासं दत्त्वा पुनःपुनः॥२७॥

निवर्तयामास ततो भरतंभरताग्रजः॥
स तु काममवाप्यैव रामपादावुपस्पृशन्‌॥३८॥

नंदिग्रामेऽकरोद्राज्यं रामागमनकांक्षया॥

गते तु भरते श्रीमान्त्सत्यसंधोजितेंद्रियः॥३९॥

रामस्तु पुनरालक्ष्यनागरस्य जनस्य च॥
तत्रागमनमेकाग्रोदंडकान्प्राविवेशह॥४०॥

प्रविश्यतु महाऽरण्यं रामो राजीव लोचनः॥
विराधंराक्षसं हत्वा शरभङ्गं ददर्शह॥४१॥

सुतीक्ष्णं चाप्यगस्त्यं च अगस्त्यभ्रातरं तथा॥
अगस्त्यवचनाच्चैवजग्राहैंद्रं शरासनम्‌॥४२॥

खङ्गंच परमं प्रीतस्तुणीचाक्षयसायकौ॥
वसतस्तस्य रामस्य वने वनचरैः सह॥४२॥

ऋषयोऽभ्यागमन्त्सर्वेवधायासुररक्षसाम्‌॥
स तेषां प्रतिशुश्राव राक्षसानां तथा वने॥४॥

प्रतिज्ञातश्च रामेण वधः संयति रक्षसाम्॥
ऋषीणामग्निकल्पानां दंडकारण्यवासिनाम्‌॥४५॥

तेन तत्रैव वसता जनस्थाननिवासिनी॥
विरूपिता शूर्पणखा रक्षसी कामरूपिणी॥४६॥

ततःशूर्पणखावाक्यादुद्युक्तान्सर्वराक्षसान्‌॥
खरं त्रिशिरसंचैव दूषणं चैवराक्षसम्‌॥४७॥

निजघान रणे रामस्तेषां चैव पदानुगान्‌॥
वने तस्मिन्निवसता जनस्थाननिवासिनाम्‌॥४८॥

रक्षसांनिहतान्यासन्सहस्राणि चतुर्दश॥
ततो ज्ञातिवधं श्रुत्वा रावणः क्रोमूर्च्छितः॥४९॥

सहायं वरयामास मरीचं नाम राक्षसम्‌॥
वार्यमाणः सुबहुशो मारीचेन स रावणः॥५०॥

न विरोधो बलवताक्षमो रावण तेन ते॥
अनादृत्य तु तद्वाक्यं रावणः कालचोदितः॥५१॥

जगाम सहमारीचस्तस्याश्रमपदं तदा॥
तेन मायाविना दूरमपवाह्यनृपात्मजौ॥५२॥

जहार भार्यां रामस्य गृध्रं हत्वा जटायुषम्‌॥
गृध्रं च निहतं दृष्ट्वाहृतां श्रुत्वा च मैथिलीम्‌॥५२॥

राघवः शोकसंतप्तो विललापाकुलेंद्रियः॥
ततस्तेनैव शोकेन गृध्रं दग्ध्वा जटायुषम्‌॥५४॥

मार्गमाणो वने सीतां राक्षससं संददर्श ह॥
कवंधं नाम रूपेण विकृतंघोरदर्शनम्॥५५॥

तं निहत्य महावाहुर्ददाह स्वर्गत श्चसः॥
सचास्य कथयामाप्त शबरीं धर्मचारिणीम्‌॥८६॥

श्रमणां धर्मनिपुणामभिगच्छेति राघवम्‌॥
सोऽभिगच्छन्महातेजाः शबरीं शत्रुसूदनः॥५७॥

शबयापूजितः सम्यग्रामो दशरथात्मजः॥
पंपातीरेहनुमता संगतो वानरेण ह॥५८॥

हनुमद्वचनाञ्चैव सुग्रीवेण समागमः॥
सुग्रीवाय च तत्सर्वं शंसद्रामो महाबलः॥५९॥

आदितस्तद्यथा वृत्तं सीतायाश्च विशेषतः॥
सुग्रीवश्चापि तत्सर्वं श्रुत्वा रामस्य वानरः॥६०॥

चकार सख्यं रामेण प्रीतश्चै

वाग्निसाक्षिकम्‌॥
ततो वानररामजेन वैरानुकथनंगति॥६१॥

रामायावेदितं सर्वंप्रणयाद्दुःखितेन

च॥
प्रतिज्ञातं च रामेण तदा वालिवधं प्रति॥६२॥

वालिनश्चबलं तत्रकथयामास वानरः॥
सुग्रीवः शंकितश्चासीन्नित्यं वीर्येण राघवे॥६३॥

राघव प्रत्ययार्थं तुदुंदुभेःकायमुत्तमम्‌॥
दर्शयामास सुग्रीवो महापर्वतसन्निभम्‌॥६४॥

उत्स्मयित्वा महाबाहुःप्रेक्ष्य चास्थि महाबलः॥
पादांगुष्ठेनचिक्षेप सपूर्णंदशयोजनम्‌॥६५॥

बिभेद च पुनस्तालान्सप्तैकेन महेषुणा॥
गिरिंरसातलंचैव जनयन्प्रत्ययं तदा॥६६॥

ततः प्रीतमनास्तेन विश्वस्तःस महाकपिः॥

किष्किंधां रामसहितो जगाम च गुहांतदा॥६७॥

ततोऽगर्जद्धरिवरःसुग्रीवो हेमपिंगलः॥
तेन नादेन महता निर्जगाम हरीश्वरः॥६८॥

अवमन्य तदा तारां सुग्रीवेण समागतः॥
निजघान च तत्रैवंशरेणैकेन राघवः॥६९॥

ततः सुग्रीववचनाद्धत्वा वालिनमाहवे॥
सुग्रीवमेव तद्राज्ये राघवः प्रत्यपादयत्‌॥७०॥

स च सर्वान्समानीय वानरान्वानरर्षभः॥
दिशःप्रस्थापयामास दिदृक्षुर्जनकात्मजाम्॥७१॥

ततो गृध्रस्य वचनात्संपातेर्हनुमान्वली॥
शतयोजनविस्तीर्णं पुप्लुवे लवणार्णवम्‌॥७२॥

तत्रलंकां समासाद्यपुरीं रावणपालिताम्‌॥
ददर्श सीतां ध्यायंतीमशोकवनिकागताम्‌॥७३॥

निवेदयित्वाऽभिज्ञानं प्रवृत्तिं विनिवेद्य च॥
समाश्वास्य च वैदेहींमर्दयामास तोरणम्‌॥७४॥

पंच सेनाग्रगान्हत्वा सप्तमंत्रिसुतानपि॥
शूरमक्षंच निष्पिष्य ग्रहणे समुपागमत्॥७५॥

अस्त्रेणोन्मुक्तमात्मानं ज्ञात्वा पैतामहाद्वरात्‌॥

मर्षयन्राक्षसान्वीरोमंत्रिणस्तान्यदृच्छया॥७६॥

ततो दग्ध्वा पुरीं लंकामृते सीतां च मथिलीम्‌॥
रामाय प्रियमाख्यातुं पुनरायान्महाकपिः॥७७॥

सोऽभिगम्य महात्मानं कृत्वा रामं प्रदक्षिणम्‌॥
न्यवेदयदमेयात्मा दृष्टा सीतेति तत्वतः॥७८॥

ततः सुग्रीवसहितो गत्वा तीरं महोदधेः॥
समुद्रं क्षोमयामासशरैरादित्यसन्निभैः॥७९॥

दर्शयामास चात्मानं समुद्रः सरितां पतिः॥
समुद्रवचनाच्चैव नलःसेतुमकारयत्‌॥८०॥

तेन गत्वा पुरींलंकां हत्वा रावणमाहवे॥
रामः सीतामनुप्राप्य परां ब्रीडामुपागतम्‌॥८१॥

तामुवाच ततो रामः परुषं जनसंसदि॥
अमृष्यमाणा सासीता विवेश ज्वलनं सती॥८२॥

ततोऽग्निवचनात्सीतां ज्ञात्वा विगतकल्मषाम्‌॥
कर्मणा तेन महता त्रैलोक्यं संचराचरम्‌॥८३॥

सदेवर्षिगणं तुष्टंराघवस्यमहात्मनः बभौ
रामः सुसंहृष्टः पूजितः सर्वदैवतैः॥८४॥

अभिषिच्य च लंकायांराक्षसेंद्रं विभीषणम्॥

कृतकृत्यस्तदा रामो विज्वरः प्रमुमोदह॥८५॥

देवताभ्यो वरं प्राप्य समुत्थाप्य च वानरान्॥
अयोध्यां प्रस्थितोरामः पुष्पकेण सुहृद्वृतः॥८६॥

भारद्वाजाश्रमं गत्वा रामः सुत्यपराक्रमः॥
भ्रतस्यांतिकं रामोहनुमंतं व्यसर्जयत्‌॥८७॥

पुनराख्यायिकां जल्पन्सुग्रीवसहितस्तदा॥
पुष्पकंतत्समारुह्यनंदिग्रामंययौतदा॥८८॥

नंदिग्रामे जटां हित्वा भ्रातृभिः सहितोऽनधः॥
रामः सीतामनुप्राप्यराज्यंपुनरवाप्तवान्‌॥८९॥

प्रहृष्टोमुदितो लोकस्तुष्टः पृष्टःसधार्मिकः॥
निरामयोह्यरोगश्च दुर्भिक्षभयवर्जितः॥९०॥

न पुत्रमरणं केचिद्द्रक्ष्यंति पुरुषाःक्वचित्‌॥
नार्यश्चाविधवा नित्यं भविष्यंति पतिव्रताः॥९१॥

न चाग्निजंभयं किं चिन्नाप्सु मज्जंति जंतवः॥
न वातजं भयं किंचिन्नापि ज्वरकृतं तथा॥९२॥

न चापि क्षुद्भयं तत्र न तस्करभयं तथा॥
नगराणि च राष्ट्राणि धनधान्ययुतानि च॥९३॥

नित्यं प्रमुदिताः सर्वे यथा कृतयुगे तथा॥
अश्वमेधशतैरिष्ट्वाबहुवस्त्रसुवर्णकैः॥९४॥

गवांकोट्ययुतं दत्त्वा ब्रह्मलोकंगमिष्यति॥
असंख्येयं धनं दत्त्वाब्राह्मणेभ्यो महायशाः॥९५॥

राजवंशाञ्छतगुणन्स्थापयिष्यति राघवः॥
चातुर्वर्ण्यंच लोकेऽस्मिन्‌ स्वे स्वे धर्मे नियोक्ष्याति॥९६॥

दशवर्षसहस्राणि दशवर्षशतानि च॥
रामो राज्यमुपासित्वा ब्रह्मलोकंगमिष्यति॥९७॥

इदं पवित्रंपापघ्नंपुण्यं वेदैश्चसंमितम्‌॥
यः पठेद्रामचरितं सर्वपापैःप्रमुच्यते॥९८॥

एतदाख्यानमायुष्यं पठन्रामायणं नरः॥
सपुत्रपौत्रः सगणःप्रेत्य स्वर्गेमहीयते॥९९॥

पठान्द्विजोवागृषभत्वमीयात्क्षत्रस्तथा भूमिपतित्वमीयात्‌॥
वणिग्जनःसत्यफलत्वमीयाज्जनश्चशूद्रोऽपिमहत्वमीयात्‌॥१००॥

इत्यार्षेश्रीमद्रामायणे वाल्मीकीये आदिकाव्ये नारदवाक्ये संक्षिप्तः प्रथमः सर्गः॥८८॥

श्रीसीतारामचन्द्रार्पणमस्तु॥

अथ ब्रह्मदेवकृतरामस्तुतिप्रारंभः।

श्रीगणेशाय नमः॥
॥ब्रह्मोवाच॥

वंदे देवं विष्णुमशेषस्थितिहेतुं स्वामध्यात्मज्ञानिभिरंतर्हृदिभाव्यम्‌॥
हेयाहेयद्वंद्वविहीनं परमेकं सत्तामात्रं सर्वहृदिस्थं दृशिरूपम्॥१॥

प्राणापानौ निश्चयबुद्ध्या हृदि रुद्ध्वाछित्त्वा सर्वंसंशयवंधं विषयौधान्॥
पश्यंतीशं यं गतमोहायतयस्तं वंदे रामं रत्नकिरीटं रविभासभ्॥२॥

मायातीतं माधवमाद्यंजगदादिं मानातीतं मोहविनाशंमुनिवंद्यम्‌॥
योगिध्येयं योगविधानं परिपूर्णंवंदे रामं रंजितलोकं रमणीयम्‌॥३॥

भावाभावप्रत्ययहीनं भवमुख्यैर्भोगासक्तैरर्चितपादांबुजयुग्मम्‌॥
नित्यं शुद्धंबुद्धमनंतं प्रणवाख्यं वंदे रामं वीरमशेषासुरदावम्॥४॥

त्वं मे नाथो नाथितकार्याखिलकारी मानातीतो माधवरुपोऽखिलधारी॥
भक्त्या गम्यो भावितरूपो भवहारी योगाभ्यासैर्भावितचेतःसहचाही॥५॥

त्वामाद्यंतं लोकततीनां परमीशं लोकानां नो लौकिकमानैरधिगम्यम्॥
भक्तिश्रद्धाभावसमेतैर्भजनीयं वंदे रामं सुंदरमिंदीवरनीलम्॥६॥

को वा ज्ञातुंत्वामतिमानं गतमानं मानासक्तो माधव शक्तो मुनिमान्यम्‌॥
वृंदारण्ये वंदितवृंदारकवृंदं वंदे रामं भवमुखवंद्यंसुखकंदम्‌॥७॥

ननाशास्त्रैर्वेदकदंवैःप्रतिपाद्यंनित्यानंदंनिर्विषयज्ञानमनादिम्॥
मत्सेवार्थंमानुषभावं प्रतिपन्नं वंदे रामंमरकतवर्णंमथुरेशम्॥८॥

श्रद्धायुक्तो यः पठतीमं स्तवमाद्यंब्राह्मं ब्रह्मज्ञानविधानं भुविमर्त्यः॥
रामं श्यामंकामितकामप्रदमीशं ध्यात्वा ध्याता पातकजालैर्विगतःस्यात्‌॥९॥

इति श्रीमदध्यात्मरामायणे युद्धकांडेब्रह्मदेवकृतरामस्तोत्रंसंपूर्णम्‌॥८९॥ `

अथ रमहृदयप्रारंभः।

श्रीगणेशाय नमः॥
श्रीमहादेवउवाच॥

ततो रामः स्वयं प्राह हनूमंतमुपस्थितम्‌॥
शृणु तत्त्वंप्रवक्ष्यामि ह्यात्मानात्मपरात्मनाम्॥१॥

आकाशस्य यथा भेदस्त्रिविधोदृश्यते महान्‌॥
जलाशये मदाकाशस्तदवच्छिन्नएव हि॥
प्रतिबिंबाख्यमपरं दृश्यते त्रिविधं नभः॥२॥

बुद्ध्यवच्छिन्नचैतन्यमेकं पूर्णमथापरम्॥
आभासस्त्वपरं विंवभूतमेवं त्रिधाचितिः॥३॥

साभासबुद्धेः कर्तृत्वमविच्छिनेऽविकारिणि॥
साक्षिण्यारोप्यते भ्रांत्या जीवित्वंच तथाऽबुधैः॥४॥

आभासस्तु मृषा बुद्धिरविद्याकार्यमुच्यते॥
अविच्छिन्नंतु तद्ब्रह्मविच्छेदस्तु विकल्पितः॥५॥

अविच्छिन्नस्य पूर्णेन एकत्वं प्रतिपाद्यते॥
तत्त्वमस्यादिवाक्यैश्चसाभासस्याहमस्तथा॥६॥

ऐक्यज्ञानं यदोत्पन्नं महावाक्येन चात्मनोः॥
तदा विद्या स्वकार्यैश्चनश्यत्येव न संशयः॥७॥

एतद्विज्ञाय मद्भक्तो मद्भावायोपपद्यते॥
मद्भक्तिविमुखानां हि शास्त्रगर्तेषुमुह्यताम्॥
न ज्ञानं न च मोक्षःस्यात्तेषां जन्मशतैरपि॥८॥

इदं रहस्यं हृदयंममात्मनो मयैव साक्षात्कथितं तवोनघ॥

मद्भक्तिहीनाय शठाय न त्वया दातव्यमैंद्रादपिराज्यतोऽधिकम्‌॥९॥

इति श्रीमदध्यात्मरामायणे वालकांडे श्रीरामहृदयं संपूर्णम्‌॥९०॥

अथ जटायुकृतरामस्तोत्रप्रारंभः।

श्रीगणेशाय नमः॥
जठायुरुवाच॥

अगणितगुणमप्रेमयमाद्यंसकलजगत्स्थितिसंयमादिहेतुम्‌॥
उपरमपरमं परात्मभूतं सततमहं प्रणतोऽस्मि रामचंद्रम्‌॥१॥

निरवधिसुखमिंदिराकटाक्षं क्षपितसुरेंद्रवतुर्मुखादिदुःखम्‌॥
नरवरमनिशंनतोऽस्मि रामं वरदमहं व्रचापबाणहस्तम्‌॥२॥

त्रिभुवनकमनीयरूपमीड्यंरविशतभासुरमीहितप्रदानम्‌॥
शरणदमनिशंसुरागमूले कृतनिलयंरघुनंदनंप्रपद्ये॥३॥

भवविपिनदवाग्निनामधेयं भवमुखदैवतदैवतं दयालुम्‌॥
दनुजपतिसहस्रकोटिनाशंरवितनयासदृशं हरिं प्रपद्ये॥४॥

अविरतभवभावनातिदूरं भवविमुखैर्मुनिभिः सदैव दृश्यम्॥
भवजलधिसुतारणांध्रिपोतंशरणमहं रघुनंदनं प्रपद्ये॥५॥

गिरिशगिरिसुतामनोनिवासंगिरिवरधारिणमीहिताभिराम्‌॥
सुरवरदनुजेंद्रसेवितांध्रिंसुरवरदंरघुनायकं प्रपद्ये॥६॥

परधनप्रदारवर्जितानां परशुणभूतिषु तुष्टमानसानाम्॥
परहितनिरतात्मनां सुसेव्यं रघुवरमंबुजलोचरंप्रपद्ये॥७॥

स्मितरुचिरविकासिताननाब्जमतिसुलभंसुरराजनीलनीलम्॥
सितजलरुहचारुनेत्रशोभं रघुपतिमीशगुरोकर्गुरुं प्रपद्ये॥८॥

हरिकमलजशंभुरूपभेदात्त्वमिहविभासिगुणत्रयानुवृत्तः॥
रविरिव जलपूरितोदपात्रेष्वमरपतिस्तुतिपात्रमशमीडे॥९॥

रतिपतिशतकोटिसुंदरांगं शतपथगोचरभावनाविदूरम्‌॥
यतिपतिहृदये सदा विभांतं रघुपतिमार्तिहरं प्रभुंप्रपद्ये॥१०॥

इत्येवं स्तुवतस्तस्य प्रसन्नोऽभूद्रघूत्तमः॥
उवाच गच्छ भद्रंते मम विष्णोः परंपदम्‌॥११॥

शृणोति य इदं स्तोत्रं लिखेद्वानियतः पठेत्‌॥
स याति मम सारुप्यं मरणे मत्स्मृति लभेत्॥१२॥

भाषितं तदा श्रुतवान्हर्षसमाकुलोद्विजः॥
रघुनंदनसाम्यमास्थितः प्रययौव्रह्मसुपूजितं पदम्‌॥१३॥

इति श्रीमदध्यात्मरामायणे आरण्यकांडे जटायुकृतरामस्तोत्रं संपूणर्म्‌॥९१॥

श्रीरामार्प०॥

अथ श्रीसीतारामाष्टकप्रारंभः।

ब्रह्ममहेंद्रसुरेंद्रमरुद्गणरुद्रमुनींद्रगणैरतिरम्यं
क्षीरसरित्पतितीरमुपेत्य नुतं हि सतामवितारमुदारम्‌॥
भूमिभरप्रशमार्थमथप्रथितप्रकटीकृतचिद्धनमूर्तिं
त्वां भजतोरघुनंदन देहि दयाघन मेस्वपदांबुजदास्यम्‌॥१॥

पद्मदलायतलोचन हे रवुवंशविभृषणदेव दयालो
निर्मलनीरदनीलतनोऽखिललोकहृदंबुजभासकभानो॥
कोमलगात्र पवित्रपदाब्जरलःकणपावितगौतमकांतं
त्वां भजतो०॥२॥

पूर्णपरात्पर पालयमामतिदीनमनाथमनंतसुखाब्धे
प्रावृडदभ्रतडित्सुमनोहरपीतवरांबर राम नमस्ते॥
कामविभंजन कांततरानन कांचनभूषण रत्नकिरीटं
त्वां भजतो०॥३॥

दिव्यशरच्छशिकांतिहरोज्ज्वलमौक्तिकमालविशालसुमौले
कोटिरविप्रभ चारुचरित्र पवित्र विचित्रधनुःशरपाणे॥
चंड महाभुजदंडविखंडितराक्षसराजमहागजंदंडं
त्वां भजतो०॥४॥

दोषविहिंस्रभुजंगसहस्रसुरोषदहानलकीलकलापे
जन्मजरामरणोर्मिमनोमदमन्मथनक्रविचक्रभवाब्धौ॥
दुःखनिधौच चिरं पतिते कृपयाऽद्यसमुद्धर राम ततो मां
त्वां भजतो०॥५॥

संसृतिघोरमदोत्कटकुंजरतृट्क्षुन्नीरदपिंडिंततुण्डं
दंडकरोन्मथितं च रजस्तमउन्मदमोहपदोज्झितमार्तम्‌॥
दीनमनन्यगतिंकृपणं शरणागत माशु विमोचय मूढं
त्वां भजतो०॥६॥

जन्मशतार्जितपापसमन्वितहृत्कमले पतिते पशुकल्पे
हे रघुवीर महारणधीर दयांकुरु मय्यतिमंदमनीषे॥
त्वं जननी भगिनी च पिता मम तावदसि त्वविताऽपि कृपालो
त्वां भजतो॥७॥

त्वं तु दयालु मकिंचनवत्सलमुत्पलहारमपारमुदारं
राम विहाय कमन्यमनामयमीशजनं शरणं ननु यायाम्‌॥

त्वत्पदपद्ममतःश्रितमेव मुदा खलु देव सदाऽव संसीतं
त्वां भजतो०॥८॥

यः करूणामृतसिंधुरनाथजनोत्तमबंधुरजोत्तमकारी
भक्तभयोर्मिभवाब्धितरीसरयूतटिनीतटचारुविहारी॥
तस्य रघुप्रवरस्य निरन्तरमष्टकमेतदनिष्टहरं वै
यस्तुपठेदमरः सनरो लभतेऽच्युतरामपदांबुजदास्यम्‌॥९॥

इति श्रीमन्मधुसूदनाश्रमशिष्याऽच्युतयतिविरचितंश्रीमत्सीतारामाष्टकं संपूर्णम्‌॥९२॥

अथ रामाष्टकप्रारंभः।

श्रीगणेशाय नमः॥

भजे विशेषसुंदरं समस्तपापखंडनम्‌॥
स्वभक्तचित्तरंजनं सदैव राममद्वयम्‌॥१॥

जटाकलापशोभितं समस्तपापनाशकम्॥
स्वभक्तभीतिभंजनं भजेह राममद्वयम्॥२॥

निजस्वरूपबोधकं कृपाकरं भवापहम्‌॥
समं शिवं निरंजनं भजे हराममद्वयम्॥३॥

सदाप्रपंचकल्पितं ह्यनामरुपवास्तवम्‌॥
निराकृतिं निरामयं भजेह राममद्वयम्॥४॥

निष्प्रपंचनिर्विकल्पनिर्मलंनिरामयम्‌॥
चिदेकरूपसंततं भजेह राममद्वयम्‌॥५॥

भवाब्धिपोतरूपकंह्यशेषदेहकल्पितम्‌॥
गुणाकरं कृपाकरं भजे ह राममद्वयम्‌॥६॥

महावाक्यबोधकैर्विराजमानवाक्पदैः॥
परब्रह्मव्यापकं भजेहराममद्वयम्‌॥७॥

शिवप्रदं सुखप्रदं भवच्छिदंभमापदम्‌॥
विराजमानदैशिकं भजेहराममद्वयम्‌॥८॥

रामाष्टकं पठतियः सुकरं सुपुण्यं
व्यासेन भाषितमिदं शृणुते मनुष्यः॥
विद्यां श्रियं विपुलसौख्यमनंतकीर्तिं
संप्राप्य देहविलयेलभते चमोक्षम्‌॥९॥

इति श्रीव्यासविरचितं रामाष्टकंसंपूर्णम्‌॥९३॥

अथ श्रीमहादेवकृतरामस्तुतिप्रारंभः।

श्रीगणेशाय नमः॥
श्रीमहादेव उवाच॥

नमोस्तु रामाय सशक्तिकाय नीलोत्पलश्यमलकोमराय।
किरीटहारांगद्भूषणाय सिंहासनस्थाय महाप्रभाय॥१॥

त्वमादिमध्यांतविहीन एकः सृजस्यवस्यत्सि च लोकजातम्॥

स्वमायया तेनन लिप्यसेत्वं यत्स्वे सुखेऽजस्ररतोनवद्यः॥२॥

लीलांविधत्से गुणसंवृतस्त्वंप्रपन्नभक्तानुविधानहेतोः॥
नानाऽवतारैःसुरमानुषाद्यैःप्रतीयसे ज्ञानिभिरेव नित्यम्‌॥३॥

स्वांशेन लोकं सकलं विधाय तं बिभर्षिच त्वं तदधः फणीश्वरः॥
उपर्यधोभान्वनिलोडुपौषधीप्रवर्षरूपोऽवसि नैकधा जगत्‌॥४॥

त्वमिहदेहभृतां शिखिरूपः पचसि भक्तमशेषमजस्रम्‌॥
पवनपंचकरूपसहायो जगदखंडमनेन विभर्षि॥५॥

चंद्रसूर्यशिखिमध्यगतं यत्तेजईश चिदशेषनूनाम्‌॥
प्राभवत्तनभृतामिह धैर्यंशौर्यमायुरखिलंतव सत्वम्‌॥६॥

त्वं विरिंचिशिवविष्णुविभेदात्कालकर्मशशिसूर्यविभागात्‌॥
वादिनां पृथगिवेश विभासि ब्रह्मनिश्चितमनन्यदिहैकम्‌॥७॥

मत्स्यादिरूपेण यथा त्वमेकः श्रुतौपुराणेषु च लोकसिद्धः॥
तथैव सर्वंसदसद्विभागस्त्वमेव नान्यद्भवतो विभाति॥८॥

यद्यत्समुत्पन्नमनंतसृष्टावु

त्पत्स्यते यच्च भवच्च यच्च॥
न दृश्यतेस्थावरजंगमादौत्वया विनातः परतः परस्त्वम्‌॥९॥

तत्तवं न जानंति परात्मनस्ते जनाः समस्तास्तवमाययाऽतः॥
त्वद्भक्तसेवामलमानसानां विभातितत्त्वं परमेकमैशम्‌॥१०॥

ब्रह्मादयस्ते नविदुःस्वरूपं चिदात्मतत्त्वं वहिरर्थभावाः॥
ततो बुधस्त्वामिदमेव रूपं भक्त्या भजन्मुक्तिमुपैत्यदुःखः॥११॥

अहंभवन्नामगुणैःकृतार्थो वसामि काश्यामनिशंभवान्या॥
मुमूर्षमाणस्य विमुक्तयेऽहं दिशामि मंत्रं तव रामनाम॥१२॥

इमंस्तवं नित्यमनन्यभक्त्या शृण्वंति गायंति लिखंति येवै॥
ते सर्वसौख्यंपरमं च लब्ध्वा भवत्पदं यांतु भवत्प्रसादाता॥१३॥

इति श्रीमहादेवकृतं रामस्तोत्रंसंपूर्णम्‌॥९४॥

श्रीसीतारामचंद्रार्पणमस्तु॥.

अथ अहल्याकृतरामस्तोत्रप्रारंभः।

श्रीगणेशाय नमः॥
अहल्योवाच॥

अहो कृतार्थाऽस्मि जगन्निवासते पादाब्जसंलग्नरजःकणादहम्‌॥

स्पुश्यमि यत्पद्मजशंकरादिभिर्विमृग्यते रंधितमानसैःसदा॥१॥

अहो विचित्रं तव राम चेष्टतंमनुष्यभावेन विमोहितं जगत्‌॥
चलस्यजस्रंचरणादिवर्जितः संपूर्ण आनंदमयोऽतिमायिकः॥२॥

यत्पादपंकजपरागपवित्रगात्रा भागीरथी भविरिंचिमुखान्पुनाति॥
साक्षात्स एव मम दृग्विषयो यदास्ते किं वर्ण्यते मम पुराकृतभागधेयम्‌॥३॥

मर्त्यावतारे मनुजाकृतिंहरिं रामाभिधेयं रमणीयदेहिनम्॥
धनुर्धरंपद्मविशाललोचनं भजामि नित्यंन परान्भजिष्ये॥४॥

यत्पादपंकजरजःश्रुतिभिर्विमृग्यं यन्नाभिपंकजभवः कमलासनश्च॥
यन्नामसाररसिको भगवान्पुरारिस्तं रामचंद्रमनिशं हृदिभावयामि॥५॥

यास्यावतारचरितानि विरंचिलोके गायंति नारदमुखा भवपद्मजाद्याः॥
आनंदजाश्रुपरिषिक्तकुचाग्रसीमा वागीश्वरी च तमहं शरणं प्रपद्ये॥६॥

सोयं परात्मा पुरुषः पुराण एषस्वयंज्योतिरनंत आद्यः॥

मायातनुं लोकविमाहेनीयां धत्ते परानुग्रह एषरामः॥७॥

अयंहि विश्वोद्भवसंयमानामेकः स्वमायागुणीबंबितो यः॥
विरंचिविष्ण्वीश्वरनामभेदान्धत्ते स्वतंत्रः परिपूर्णआत्मा॥८॥

नमोऽस्तुते राम तवांघ्रिपंकजं श्रिया धृतं वक्षसिलालितं प्रियात्‌॥
आक्रांतमेकेन जगत्रयं पुरा ध्येयं मु्नींद्रैरभिमानवर्जितैः॥९॥

जगतामादिभूतस्त्वं जगत्त्वंजगदाश्रयः॥
सर्वभूतेष्व संयुक्त एको भाति भवान्परः॥३०॥

ॐकारवाच्यस्त्वं राम वाचामविषयः पुमान्‌॥
वाच्यवाचक भेदेन भवानेव जगन्मयः॥११॥

कार्यकारणकर्तृत्वफलसाधनभेदतः॥
एको विभासि रामस्त्वं मायया बहुरूपया॥१२॥

त्वन्मायामोहितधियस्त्वांन जानंति तत्त्वतः॥
मानुषं त्वाऽभिमन्यंते मायिनं परमेश्वरम्‌॥१३॥

आकाशवत्त्वं सर्वत्रवहिरंतर्गतोऽमलः॥
असंगो ह्यचलोनित्यः शुद्धोऽशुद्धःसदव्ययः॥१४॥

योषिन्मूढाहमज्ञा ते तत्तवं जानेकथं विभो॥
तस्मात्ते शतशो राम नमस्कुर्यामनन्यधीः॥१५॥

देव मेयत्रकुत्रापि स्थितया चापिसर्वदा॥
त्वत्पादकमले सक्ता भक्तिरेव सदाऽस्तु मे॥१३॥

नमस्तेपुरुषाध्यक्ष नमस्ते भक्तवत्सल॥
नमस्तेऽस्तु हृषीकेश नारायण नमोस्तु ते॥१७॥

भवभयहरमेकं भानुकोटिप्रकाशं करधृतशरचापं कालमेघावभासम्॥
कनकरुचिवस्त्रंरत्नवत्कुंडलाव्यं कमलविशदनेत्रंसानुजं राममोडे॥१८॥

स्तुत्वैवंपुरुषं साक्षाद्राघवं पुरतः स्थितम्‌॥
परिक्रम्य प्रणम्याशु सानुज्ञाता ययौपतिम्‌॥१९॥

अहल्यया कृतं स्तोत्रं यः पठेद्भक्तिसंयुतः॥
स मुच्यतेऽखिलैःपापैःपरब्रह्माधिगच्छति॥२०॥

पुत्राद्यर्थेपठेद्भक्त्यारामं हृदि निधाय च॥
संवृत्सरेणलभते वंध्या चापि सुपुत्रकम्‌॥
सर्वान्कामानवाप्रोति रामचन्द्रप्रसादतः॥२१॥

ब्रह्मघ्नो गुरुतल्पगोपिपुरुषः स्तेयी सरापोऽपिवा
मातृभ्रातृविहिंसकोऽपि सततं भोगैकबद्धातुरः॥
नित्यं स्तोत्रमिदं जपन्‌ रघुपतिं भक्त्या हृदिस्थं

स्मरम्‌ व्यायन्मुक्तिमुपैति किं पुनरसौस्वाचास्युक्तो नरः॥२२॥

इति श्रीमद्ध्यात्मरामायणे उमामहेश्वरसंवादे बालकांडांतर्गतमहल्याकृतं रामवचन्द्रस्तोत्रंसमाप्तम्‌॥९५॥

श्रीरामचन्द्रार्पणमस्सु॥.

अथ इन्द्रकृतरामस्तोत्रप्रारंभः।

श्रीगणेशाय नमः॥
इंद्र उवाच॥

भजेऽहं सदा राममिंदीवराभं भवारण्यदावानलाभाभिधानम्‌॥
भवानीहृदा भावितानंदरूपं भवाभावहेतुं भवादिप्रपन्नम्‌॥१॥

सुरानीकदुःखौघनाशैकहेतुं नराकारदेहं निराकारमीड्यम्‌॥
परेशंपरानंदरूपंवरेण्यं हरिं राममीशंभजे भारनाशम्‌॥२॥

प्रपन्नाखिलानंदहोहंप्रपन्नं प्रपन्नार्तिनिःशेषनाशाभिधानम्॥
तपोयोगयोगीशभावाभिभाव्यं कपीशादिमित्रंभजे राममित्रम्‌॥३॥

सदा भोगभाजां सुदूरे विभांतं सदा योगभाजामदूरे विभांतम्‌॥
चिदानंदकंदंसदा राघवेशं विदेहात्मजानंदरूपं प्रपद्ये॥४॥

महायोगमायाविशेषानुयुक्तो विभासीश लीलानराकारवृत्तिः॥

त्वदानंदलीलाकथापूर्णकर्णाः सदानंदरूपा भवंतीह लोके॥५॥

अहंमानपानाभिमत्तप्रमत्तोन वेदाखिलेशाभिमानाभिमानः॥
इदानीं भवत्पादपद्मप्रसादात्त्रिलोकाधिपत्यामिमानोविनष्टः॥६॥

स्फुरद्रत्नकेयूरहाराभिरामं धराभारभूतासुरानीकदावम्‌॥
शरच्चंद्रवक्त्रंलसत्पद्मनेत्रंदुरावारपारं भजे राघवेशम्‌॥७॥

सुराधीश नीलाभ्रनीलांगकांतिं विराधादिरक्षोवधाल्लोकशांतिम्‌॥
किरीटादिशोभंपुरारातिलाभंभजेरामचंद्र रघूणामधीशम्‌॥८॥

लसच्चंद्रकोटिप्रकाशादिपीठे समासीनमेकं समाधाय सीताम्‌॥
स्फुरद्धेमवर्णं तडित्पुंजभासं भजे रामचंद्रं निवृत्तार्तितंद्रम्‌॥९॥

इति श्रीमदध्यात्मरामायणे युद्धकांडे इन्द्रकृतं रामस्तोत्रं संपूर्णम्‌॥९६॥

अथ धन्याष्टकप्रारभः।

श्रीगणेशाय नमः॥

तज्ज्ञानं प्रशमकरं यदींद्रियाणांतज्ज्ञेयं यदुपनिपत्सु निश्चितार्थम्‌॥

ते धन्या भुवि परमार्थनिश्चितेहाःशेषास्तु भ्रमनिलये परिभ्रमंति॥१॥

आदौविजित्य विषयान्मदमोहरागद्वेषादिशत्रुगणमाहृतयोगराज्याः॥
ज्ञात्वाऽमृतंसमनुभूय परात्मविद्याकांतासुखा बत गृहे विचरंति धन्याः॥२॥

त्यक्त्वागृहे रतिमनोगतिहेतुभूतामात्मेच्छयोपानिषदार्थरसं पिबंतः॥
वीतस्पुहा विषयभोगपदे विरक्ता धन्याश्चरंति विजनेषु विरक्तसंगाः॥३॥

त्यक्त्वा ममाहमिति बंधकरे पदेद्वेमानावमानसदृशाः समदर्शिनश्च॥
कर्तारमन्यमवगम्य तदर्पितानि कुर्बंति कर्मपरिपाकफलानिधन्याः॥४॥

त्यक्त्वेषणात्रयमवेक्षितमोक्षमार्गाभैक्ष्यामृतेन परिकल्पितदेहयात्राः॥
ज्योतिः परात्परतरं परमात्मसंज्ञंधन्या द्विजा रहसि हृद्यवलोकयंति॥५॥

नासन्न सन्न सदसन्न महन्न चाणुन स्त्रीपुमान्न च नपुंसकमेकबीजम्‌॥
यैर्ब्रह्म तंसमनुपासितमेकचित्ता धन्या विरेजुरितरे भवपाशबद्धाः॥६॥

बेदान्तस्तोत्राणि।

अज्ञानपंकपारंमग्नमपेतसारं दुःखालयंमरणजन्मजरावसक्तम्‌॥
संसारबंधनमनित्यमवेक्ष्य धन्या ज्ञानासिना तदवशीर्यविनिश्चयंति॥७॥

शांतैरनन्यमतिभिर्मधुरस्वभावैरेकत्वनिश्चितमनोभिरपेतमोहैः॥
साकं वनेषु विजितात्मपदस्वरूपं शास्त्रेषुसम्यगनिशं विमृशंति धन्याः॥८॥

अहिमिव जनयोगं सर्वदा वर्जयेद्यः कुणपमिव सुनारीं त्यक्तुकामो विरागी॥
विषमिव विषयान्योमन्यमानोद्रंताञ्जयति परमहंसो मुक्तिभावंसमेति॥९॥

संपूर्णं जगदेकनंदनवनं सर्वेऽपि कल्पद्रुमा गांगं
वारि समस्तवारिनिवहः पुण्याः समस्ताः क्रियाः॥
वाचः प्राकृतसंस्कृताः श्रुतिशिरोवाराणसी मेदिनी
सर्वावस्थितिरस्य वस्तुविषयादृष्टे परब्रह्मणि॥१०॥

इति श्रीमत्परमहंसप रित्राजकाचारयश्रीमच्छंकराचायविरचितं धन्याकसात संपृर्णम्‌॥९७॥

अथ विज्ञाननौकाप्रारंभः।

आगणेशाय नमः॥

तपोयज्ञदानादिभिः शुद्धबुद्धिर्विरक्तोनृपादौपदे तुच्छबुद्धया॥

परित्यज्यसंर्वयदाप्नोति तत्त्वंपरं ब्रह्म नित्यं तदेवाहमस्मि॥१॥

दयालुं गुरुं ब्रह्मनिष्ठं प्रशांतं समाराध्य मत्या विचार्यस्वरूपम॥
यदाप्नोति तत्त्वंनिदिध्यास्यविद्वान्परं ब्रह्म०॥२॥

यदानंदरूपंप्रकाशस्वरूपं निरस्तप्रपंचंपरिच्छेदशून्यम्‌॥
अहंब्रह्मवृत्त्यैकगम्यंतुरीयं परं ब्रह्म०॥३॥

यदज्ञानतोभाति विश्वंसमस्तंविनष्टंच सद्योयदात्मप्रवोधे॥
मनोवागतीतंविशुद्धं विमुक्तं परं ब्रह्म०॥४॥

निषेधेकृते नेतिनेतीति वाक्यैःसमाधिस्थितानां यदाभाति पृर्णम्‌॥
अवस्थात्रयातीतमेकंतुरीयं परं ब्रह्म०॥५॥

यदानंदलेशैःसमानंदि विश्वं यदाभाति सत्त्वेतदभाति सर्वम्॥
यदालोचने रूपमन्यत्समस्तं प्ररं ब्रह्म०॥६॥

अनंतं विभुं सर्वयोनिं निरीहं शिवं संगहीनं यदोङ्कारगम्यम॥
निराकारमत्युज्ज्वलंमृत्युहीनं परं ब्रह्म०॥७॥

यदानंदसिंधौनिमग्रःपुमान्स्यादविद्याविलासः समस्तप्रपंचः॥

यदा न स्फुरत्यद्धतयन्निमित्तं परं ब्रह्म०

॥८॥

स्वरूपानुसंधानरूपां स्तुतिंयःपठेदादराद्भक्तिभावो मनुष्यः॥
शृणोतीह वा नित्यमुद्युक्तचित्तो भवेद्विष्णुरत्रैववेदप्रमाणात्‌॥९॥

विज्ञाननावंपरिगृह्य कश्चित्तरेद्यदज्ञानमयं भवाब्धिम्‌॥
ज्ञानासिना योहि विच्छिद्यतृष्णां विष्णोःपदं याति स एव धन्यः॥१०॥

इति श्रीमत्पर०शंक० वि०विज्ञाननौका संपूर्णा॥९८॥

अथ द्रादशपञ्जरिकास्तोत्रप्रारंभः।

श्रीगणेशाय नमः॥

मूढजहीहि धनागमतृष्णां कुरुसद्बुद्धिं मनसि वितृष्णाम्‌॥
यल्लभसे निजकर्मोपात्तंवित्तंतेन विनोदय चित्तम्॥१॥

अर्थमनर्थं भावय नित्यं नास्ति ततः सुखलेशः सत्यम्‌॥
पुत्रादपि धनभाजां भीतिः सर्वत्रैषा विहिता नीतिः॥२॥

का ते कांता कस्ते पुत्रः संसारोयमतीव विचित्रः॥
कस्य त्वं कः कुत आयातस्तत्त्वं चिंतय यदिदं भ्रातः॥३॥

मा कुरु जनधनयौवनगर्वहरति निमेषात्कालः सर्वम्‌॥
मायामयमिदमखिलंहित्वा ब्रह्मपदं त्वंप्रविश विदित्वा॥४॥

कामंक्रोधंंमोहं लोभंत्यक्त्वात्मानं भावय को॓ऽहम्‌॥
आत्मज्ञानविहीना मूढास्ते पच्यंते नरकनिगूढाः॥५॥

सुरमंदिरतरुमूलनिवासः शय्या भूतलमजिनं वासः॥
सर्वपरिग्रहभोगत्यागः कस्य सुखं न करोति विरागः॥६॥

शत्रौमित्रेपुत्रेबंधौमा कुरु यत्नंविग्रहसंधौ॥
भव समचित्तः सर्वत्रत्वंवाञ्छस्यचिराद्यदि विष्णुत्वम्‌॥७॥

त्वयि मयि चान्यत्रैको विष्णुर्व्यर्थं कुप्यसि सर्वसहिष्णुः॥
सर्वस्मिन्नपि पश्यात्मानं सर्वत्रोत्सृज भेदज्ञानम्‌॥८॥

प्राणायामं प्रत्याहारं नित्यानित्यविवेकविचारम्‌॥
जाप्यसमेतसमाधिविधानं कु्र्ववधानं महदवधानम्‌॥९॥

नलिनीदलठगतसलिलं तरलं तद्वज्जीवितमतिश्चयचपलम्॥
विद्धि व्याध्यभिमानग्रस्तं लोकं शोकहतं च समस्तम्‌॥१०॥

का तेऽष्टादशदेशेचिंतावातुलतव किं नास्ति नियंता॥
यस्त्वां हस्ते सुदृढनिबद्धं बोधयति प्रभवादिविरुद्धम्‌॥११॥

गुरुचरणांवुजनिर्भरभक्तः संसारादचिराद्धव मुक्तः॥
सेंद्रियमानसनियमादेवं द्रक्ष्यसि निजहृदयस्थं देवम्‌॥१२॥

द्रादशपंजरिकामय एषःशिष्याणां कथितो ह्युपदेशः॥
येषां चित्ते नैव विवेकस्तेपच्यंते नरकमनेकम्‌॥१३॥

इति श्रीमच्छंकराचार्यविरचतं द्वादशपंजरिकास्तोत्रंसंपूर्णम्‌॥९९॥

अथ चर्पटपञ्जरिकास्तोत्रप्रारंभः।

श्रीगणेशाय नमः॥

दिनमपि रजनी सायं प्रातः शिशिरवसंतौपुनरायातः॥
कालःक्रीडतिगच्छत्यायुस्तदपि न मुंचत्याशावायुः॥१॥

भज गोविंदंभज गोविंदं भज गोविंदं मुढमते॥
प्राप्ते सन्निहिते मरणे नहि नहि रक्षति डुकृञकरणे॥ध्रुवपदम्‌॥

अग्रे वह्निःपृष्ठे भानू रात्रौचुबुकसमर्पितजानुः॥
करतलभिक्षातरुतलवासस्तदपि न मुंचत्याशापाशः॥
भज गो०॥२॥

यावद्वित्तोपार्जनसक्तस्तावन्निजपरिवारों रक्तः॥
पश्चाद्धावति जर्जरदेहे वार्तांपृच्छति कोऽपि न गेहे॥
भेज गोविंदं भज०॥३॥

जटिलीमुंडी लुंचितकेशः काषायांवरबहुकृतवेषः॥
पश्यन्नपि च न पश्यति मूढ उदरनिमित्तं बहुकृतवेषः॥
भज गोविंदं भज०॥४॥

भगवद्गीता किंचिदधीता गंगाजललवकणिका पीता॥
सकृदपि येनमुरारिसमर्चातस्य यमःकिंकुरुते चर्चाम्‌॥
भज गोविंदं भज०॥५॥

अंगं गलितं पलितं मुंडं दशनविहीनं जातं तुंडम्॥
वृद्धो याति गृहीत्वा दंडं तदपिन मुंचत्याशापिंडम्॥
भज गोविंदं भ०॥६॥

बालस्तावत्क्रीडासक्तस्तरूणस्तावत्तरूणीरक्तः॥
वृद्धस्तावच्चिंतामग्नःपरे ब्रह्मणि कोऽपि न लग्नः॥
भज गोविंदं भज०॥७॥

पुनरपि जननं पुनरपि मरणं पुनरपि जननीजठरे शयनम्॥
इह संसारे खलु दुस्तारेकृपयाऽपारे पाहि मुरारे॥
भज गोविंदं भज०॥८॥

पुनरपि रजनी पुनरपि दिवसः पुनरपि पक्षः पुनरापि मासः॥
पुनरप्ययनं पुनरपि वर्षं तदपि न मुंचत्याशामर्षम्‌॥
भज गोविंदं भज गोविं०॥९॥

वयसि गते कःकामविकारः शुष्के नीरे कः कासार॥

नष्टे द्रव्ये कः परिवारोज्ञाते तत्त्वे कः संसारः॥
भज गोविंदं भज०॥१०॥

नारीस्तनभरनाभिनिवेशंमिथ्यामायामोहावेशम्‌॥
एतन्मांसवसादिविकारंमनसि विचारय वारंवारम्॥
भज गोविंदं भज गो०॥३१॥

कस्त्वं कोऽहं कुत आयातः का मे जननीको मे तातः॥
इति परिभावय सर्वमसारं विश्वं त्यकत्वा स्वप्नविचारम्‌॥
भज गोविंदं भज०॥१२॥

गेयं गीतानामसदस्रं ध्येयं श्रीपतिरूपमजस्रम्‌॥
नेयं सज्जनसंगे चित्तं देयं दीनजनाय च वित्तम्‌॥
भज गोविंदं०॥१३॥

यावज्जीवो निवसति देहे कुशलंतावत्पृच्छति गेहे॥
गतवति वायौ देहापायेभार्याबिभ्यति तस्मिन्काये॥
भज गोविंदं भज०॥१४॥

सुखतः क्रियते रामायोगः पश्चाद्धंत शरीरेरोगः॥
यद्यपि लोके मरणं शरणं तदपि न मुंचति पापाचरणम्‌॥
भज गोविंदं भज०॥१५॥

रथ्याचर्पटविरचितकंथः पुण्यापुण्यविवर्जितपंथाः॥
नाहं नत्वंनायं लोकस्तदपि किमर्थं क्रियते शोकः॥

भज गोविंदं भज०॥१६॥

कुरुते गंगासागरगमनंव्रतप्रिपालनमथवा दानम्‌॥
ज्ञानविहीनः सर्वमतेनमुक्तिंन भजति जन्मशतेन॥
भज गोविंदं भज०॥१७॥

इति श्रीमच्छंकराचार्यविरचितं चर्पटपंजरिकास्तोत्रंसंपूर्णम्‌॥१००॥

श्रीब्रह्मार्पणमस्तु॥

अथ हस्तामलकस्तोत्रप्रारंभः।

श्रीगणेशाय नमः॥

कस्त्वं शिशोकस्य कुतोऽसि गंता किं नाम ते त्वं कुत आगतोऽसि॥
एतन्मयोक्तं वद चार्भकत्वं मत्प्रीतयेप्रीतिविवर्धनोऽसि॥१॥

हस्तामलक उवाच॥

नाहं मनुष्यो न च देवयक्षो न ब्राह्मणक्षत्रियवैश्यशूद्राः॥
न ब्रह्मचारी न गृहीवनस्थो भिक्षुर्नचाहं निजवोधरूपः॥२॥

निमित्तंमनश्चक्षुरादिप्रवृत्तौनिरस्ताखिलोपाधिराकाशकल्पः॥
रविर्लोकचेष्टानिमित्तं यथा यः स नित्योपलब्धिस्वरूपोऽहमात्मा॥३॥

यमग्न्युष्णवन्नित्यबोधस्वरूपंमनश्चक्षुरादीन्यबोधात्मकानि॥
प्रवर्तंतआश्रित्यनिष्कंपमेकं स नित्योपलब्धिस्वरूपोऽह०॥९॥

मुखाभासको दर्पणे दृश्यमानोमुखत्वात्पृथक्त्वेन नैवास्ति वस्तु॥
चिदाभासको धीषुजीवोऽपि तद्वत्सनित्योपलब्धिस्वरूपोऽह०॥५॥

यदादर्पणाभाव आभासहानौमुखं विद्युते कल्पनाहीनमेकम्‌॥
तथा धीवियोगे निराभासको यः स नित्योप०॥६॥

मनश्चक्षुरादेर्वियुक्तः स्वयं यो मनश्चक्षुरादेर्मनश्चक्षुरादिः॥
मनश्चक्षुरादेरगम्यस्वरूपः स नित्योपल०॥७॥

य एको विभातिस्वतः शुद्धचेताः प्रकाशस्वरूपोऽपि नानेव धीषु॥
शरावोदकस्थो यथा भानुरेकःस नित्योपल०॥८॥

यथाऽनेकचक्षुःप्रकाशोरविर्नक्रमेण प्रकाशीकरोति प्रकाश्यम्‌॥
अनेका धियोयस्तथैकः प्रबोधः सनित्योपल०॥९॥

विवस्वत्प्रभातं यथारूपमक्षं प्रगृह्णाति नाभातमेवं विवस्वान्‌॥
यदाभातआभासयत्यक्षमेकःस नित्योपल०॥१०॥

यथासूर्य एकोऽप्स्वनेकश्चलासु स्थिरास्वप्यनन्यद्विभाग्यस्वरूपः॥
चलासु प्रभिन्नासु धीष्वेक एव सनित्योपल०॥११॥

घनच्छन्नदृष्टिर्धनच्छन्नमर्कंयथा निष्प्रभं मन्यते चातिमूढः॥
तथा बद्धवद्भाति यो मूढदृष्टेःसनित्योपल०॥१२॥

समस्तेषु वस्तुष्वनुस्यूतमेकं समस्तानि वस्तूनि यन्नस्पृशंति॥
वियद्वत्सदाशुद्धमच्छस्वरूपं स नित्योपल०॥१३॥

उपाधौयथा भेदता सन्मणीनां तथा भेदता बुद्धिभेदेषु तेऽपि॥
यथाचंद्रिकाणां जले चंचलत्वंतथा चंचलत्वंतवापीह विष्णो॥१४॥

इति श्रीमच्छंकराचार्यकृतहस्तामलकसंवादस्तोत्रंसपूर्णम्‌॥१०१॥

अथ पञ्चरत्नमालिकास्तोत्रप्रारंभः।

श्रीगणेशाय नमः।

वेदो नित्यमधीयतांतदुदितंकर्मस्वनुष्ठीयतां
तेनेशस्य विधीयतामपचितिःकाम्ये मतिस्त्यज्यताम्‌॥
पापौघःपरिधूयतां भवमुखे दोषोऽनुसंधीयतामात्मेच्छा व्यवसीयतां निजगृहात्तूर्णं विनिर्गम्यताम्‌॥१॥

संगः सत्सु विधीयतां भगवतोभक्तिर्दृढा धीयतां
शांत्यादिःपरिचीयतां दृढतरं कर्माशु संन्यस्यताम्॥

सद्विद्वानुपसर्प

तामनुदिनं तत्पादुके सेव्यतां
ब्रह्मैकाक्षरमर्थ्यतांश्रुतिशिरोवाक्यं समाकर्ण्यताम्‌॥२॥

वाक्यार्थश्चविचार्यतां श्रुतिशिरःपक्षःसमाश्रीयतां
दुस्तर्कात्सुविरम्यतां श्रुतिमतस्तर्कोऽनुसंधीयताम्‌॥
ब्रह्मास्मीति विभाव्यतामहरहो गर्वःपरित्यज्यतां
देहेऽदहंमतिरुज्झ्यतां बुधजनैर्वादः समुत्सृज्यताम्॥३॥

क्षुद्व्याधिश्चचिकित्स्यतांप्रतिदिनं भिक्षौषधं भुज्यतां
स्वाद्वन्नंन च याच्यतां विधिवशात्प्राप्तेनसंतुष्यताम्‌॥
औदासीन्यमभीप्स्यतां जनकृपानैष्टर्यमुत्सृज्यतां
शीतोष्णादि विषह्यतां न तु वृथा वाक्यंसमुच्चार्यताम्‌॥४॥

एकांते सुखमास्यतां परतरे चेतः समाधीयतां
पर्णात्मासुसमीक्ष्यतां जगदिदंतद्बाधितं दृश्यताम्॥
प्राक्कर्मप्रविलाप्यतां चितिबलान्नाप्युत्तरैःशिष्यतां
परारग्धं तिह भुज्यतामथपरब्रह्मात्मना स्थीयताम्‌॥५॥

इति श्रीमच्छंकराचार्य०पंचरत्नमालिकास्तोत्रंसंपूर्णम्‌॥१०२॥

अथ वैराग्यपंचकप्रारंभः।

श्रीगणेशाय नमः॥

शिलंकिमनलं भवेदनलमोदरं वाधितुं
पयः प्रसृतिपूरकंकिमुनधारकं सारकम्॥
अयत्नमलमल्पकंपथिपटच्चरं कच्चरं
भजंति विवुधा मुधा अहह कुक्षितः कुक्षितः॥१॥

दुरीश्वरद्वारबहिर्वितर्दिकादुरासिकायैरचितोयमंजलिः॥
यदं जनाभंनिरपायमस्ति नो धनंजयस्यंदनभूषणं धनम्‌॥२॥

काचाय नीचं कमनीयवाचा मोचाफलस्वादुमुचान याचे॥
दया कुचेले धनदत्कुचेलेस्थितेऽकुचेलेश्रितमाकुचेले॥३॥

क्षोणीकोणशतांशपालनखलद्दुर्वारगर्वानलक्षुभ्य
त्क्षुद्रनरेन्द्रचाटुरचनांधन्यां न मन्यामहे॥
देवं सेवितुमेव निश्चिनुमहेयोसौदयालुः पुरा
धानामुष्टिमुचे कुचेलमुनयेधत्तेस्म वित्तेशताम्‌॥४॥

शरीरपतनावधि प्रभुनिषेवणापादनादविंधनधनंजयप्रशमदं धनं दंधनम्॥
धनंजयविवर्धनं

प्रनमुदूढगोवर्धनं सुसाधनमवाधनंसुमनसां समाराधनम्‌॥५॥

इति श्रीसर्वतंत्रस्वतंत्रवेदां०र्यकृतं वैराग्यपंचकं संपूर्णम्‌॥१०३॥

अथ गुरुवरप्रार्थनापंचरत्नस्तोत्रम्।

श्रीशं वंदे॥

ये विज्ञातुं भृगुः स्वं पितरमुपगतः पंचबारं यथावज्ज्ञा-
नादेवामृताप्तेः सततमनुपमं चिद्विवेकादि लब्ध्वा॥
तस्मैतुभ्यं नमः श्रीहरिहरगुरवे सच्चिदानंदमुक्तानं-
ताद्रैतप्रतीते न कुरु कितवतां पाहि मां दीनवंधो॥१॥

यस्मादृश्यस्यजन्मस्थितिविलयमिमे तैत्तिरीयाः पठंति
स्वाविद्यामात्रयोगात्सुखशयनतले मुख्यतः स्वप्नवच्च॥
तस्मै०॥२॥

यो वेदांतैकलभ्यः श्रुतिषु नियमितस्तैत्तिरीयैश्च
कण्वैरन्यैरप्यानिषेकादुदयपरिमितं चारुसंस्कार भाजाम्‌॥तस्मै०॥३॥

यस्मिन्नेवावसन्नाःसकलनिगमवाङ्मौलयःसुप्तपुंसि
प्रोक्तं तन्नाम यद्वन्निजमहिमगतध्वांततत्कार्यरूपे॥
तस्मै०॥४॥

चित्त्वात्संकल्पपूर्वं सृजति जगदिदं योगिवन्मायया यः

स्वात्मन्येवामितीये परमसुखदृशिस्वप्नवद्धूम्निनित्ये॥
तस्मै०॥५॥

इत्युच्युतविरचितंगुरुवरप्रार्थनापंचरत्नस्तोत्रं संपूर्णम्‌॥१०४॥

अथात्मबोधप्रारंभः।

श्रीगणेशाय नमः॥

तपोभिः क्षीणपापानां शांतानां वीतरागिणाम्‌॥
मुमुक्षूणामपेक्ष्योऽयमात्मवोधो विधीयते॥१॥

बोधोऽन्यसाधनेभ्यो हिसाक्षान्मोक्षैकसाधनम्॥
पाकस्य वहि्नवज्ज्ञानंविनामोक्षो न सिध्यति॥२॥

अविरोधितया कर्मनाविद्यंविनिवर्तयेत्‌॥
विद्याऽविद्यांनिहंत्येव तेजस्तिमिरसंघवत्‌॥३॥

परिच्छिन्न इवाज्ञानाद्यन्नाशेसति केवलः॥
स्वयं प्रकाशते ह्यात्मा मेघापयेंऽशुमानिव॥४॥

अज्ञानकलुषं जीवं ज्ञानाभ्यासाद्धिनिर्मलम्॥
कृत्वाऽज्ञानं स्वयं नश्येज्जलंकतकरेणुवत्‌॥५॥

संसारः स्वप्नोतुल्योहि रागद्वेषादिसंकुलः॥
स्वकाले सत्यवद्भाति प्रबोधे सत्यवद्धवेत्॥६॥

तावसत्यं जगद्भाति शुक्तिका रजतं यथा॥

यावन्न ज्ञायते ब्रह्म सर्वाधिष्ठानमद्वयम्॥७॥

सच्चिदात्मन्यनस्यूते नित्ये विष्णौप्रकल्पिताः॥
व्यक्तयो विविधाः सर्वाहाटके कटकादिवत्‌॥८॥

यथाकाशोहृशीकेशो नानोपाधिगतो विभुः॥
तद्भेदाद्भिन्नवद्भाति तन्नाशे सति केवलः॥९॥

नानोपाधिवशादेव जातिवर्णाश्रमादयः॥
आत्मन्यारोपितास्तोये रसवर्णादिभेदवत्‌॥१०॥

पंचीकृतमहाभूतसंभवं कर्म संचितम्‌॥
शरीरं सुखदुःखानां भोगायतनमुच्यते॥११॥

पंचप्राणमनोबुद्धिदशेंद्रिय समन्वितम्‌॥
अपंचीकृतभूतोत्थं सूक्ष्मांगं भोगसाधनम्‌॥१२॥

अनाद्यविद्याऽनिर्वाच्या कारणोपाधिरुच्यते॥
उपाधित्रितयादन्यमात्मानमवधारयेत्‌॥१३॥

पंचकोशावियोगेनतत्तन्मयइव स्थितः॥
शुद्धात्मानीलवस्त्रादियोगेनस्फटिकोयथा॥१४॥

वपुस्तुषादिभिःकोशैर्युक्तं युक्तयावघाततः॥
आत्मानमंतरं शुद्धं विविच्यात्तंदुलंयथा॥१५॥

सदा सर्वगतोप्यात्मा न सर्वत्रावभासते॥
बुद्धावेवावभासेत स्वच्छेषु प्रतिबिंबवत्‌॥१६॥

देहेंद्रियमनोबुद्धि प्रकृतिभ्यो विलक्षणम्॥
तद्वत्तिसाक्षिणं विद्यादात्मानं राजवत्सदा॥१७॥

व्यापृतेष्विंद्रियेष्वात्मा व्यापरीवाविवेकिनाम्‌॥
दृश्यतेऽभ्रेषु धावत्सु धावन्निव यथाशशी॥१८॥

आत्मचैतन्यमाश्रित्य देहेंद्रियमनोधियः॥
स्वकीयार्थेषु वर्तंते सूर्यालोकंयथा जनाः॥१९॥

देहेंद्रियगुणान्कर्माण्यमले सच्चिदात्मनि॥
अध्यस्यंत्यविवेकेन गगने नीलतादिवत्‌॥२०॥

अज्ञानान्मानसोपाधेः कर्तृत्वादीनिचात्मनि॥
कल्प्यंतेऽबुगते चंद्रे चलनादियथांभसः॥२१॥

रागेच्छासुखदुःखादिवुद्धौसत्यां प्रवर्तते॥
सुषुप्तौनास्ति तन्नाशेतस्माद्बुद्धेस्तुनात्मनः॥२२॥

प्रकाशोऽर्कस्यतोयस्यशैत्यमग्नेर्यथोष्णता॥
स्वभावः सच्चिदानंदनित्यनिर्मलतात्मनः॥२३॥

आत्मनःसच्चिदंशश्चबुद्धर्वृत्तिरिति द्वयम्॥
संयोज्यच्याविवेकेनजानामीति प्रवर्तते॥२४॥

आत्मनो विक्रिया नास्ति बुद्धेर्बोधोन जात्विति॥
जीवःसर्वमलंज्ञात्वा कतं द्रष्टति मुह्यति॥२५॥

रज्जुसर्पवदात्पानं जीवं ज्ञात्वाभयं वदेत्‌॥
नाहंजीवः परात्मेति ज्ञातं चेन्निर्भयोभवेत्‌॥२६॥

आत्मावभासयत्येको बुद्ध्यादीनांद्रियाणिहि॥
दीपो घटादिवत्स्वात्मा जडैस्तैर्नावभास्यते॥२७॥

स्वबोधेनान्यबोधेच्छा बोधरूपतयात्सनः॥
न दीपस्यान्यदीपेच्छा यथा स्वात्मा प्रकाशते॥२८॥

निषिद्ध्य निखिलोपाधीन्नेति नेतीतिवाक्यतः॥
विद्यादैक्यं महावाक्यैर्जीवात्मपरमात्मनोः॥२९॥

आविद्यकंशरीरादिदृश्यंबुद्वुदवत्क्षरम्‌॥
एतद्विलक्षणं विद्यादहं ब्रह्मेति निर्मलम्॥३०॥

देहान्यत्वान्नमे जन्मजराकार्श्यलयादयः॥
शब्दादिविषयैःसंगो निरिंद्रियतया न च॥३१॥

अमनस्त्वान्न मे दुःखरागद्वेषभयादयः॥
अप्राणो ह्यमनाः शुभ्र इत्यादिश्रुतिशासनात्‌॥३२॥

निर्गुणो निष्क्रियो नित्यो निर्विकल्पो निरंजनः॥
निर्विकारो निराकारो नित्यमुक्तोऽस्मि निर्मलः॥३३॥

अहमाकाशवत्सर्वबहिरंतर्गतोऽच्युतः॥

सदा सर्वसमःशुद्धो निः संगो निर्मलाऽचलः॥३४॥

नित्यशुद्धविमुक्तैकमखंडानंदमद्वयम्‌॥
सत्यं ज्ञानमनंतं यत्परंब्रह्माहमेव तत्‌॥३५॥

एवं निरंतराभ्यस्ता ब्रह्मैवास्मीति वासना॥
हरत्यविद्याविक्षेपान्रोगानिवरसायनम्‌॥३६॥

विविक्तदेश आसीनो विरागो विजितेंद्रियः॥
भावयेदेकमात्मानं तमनंतमनन्यधीः॥३७॥

आत्मन्येवाखिलंदृश्यंप्रविलाप्यधियासुधीः॥
भावयेदेकमात्मानं निर्मलाकाशवत्सदा॥३८॥

रूपवर्णादिकं सर्वंविहाय परमार्थवित्‌॥
परिपूर्णचिदानंदस्वरूपेणावतिष्ठते॥३९॥

ज्ञातृज्ञानज्ञेयभेदःपरात्मनि न विद्यते॥
चिदानंदैकरूपत्वाद्दीप्यते स्वयमेव हि॥४०॥

एवमात्मारणौध्यानमंथने सततं कृते॥
उदितावगतिर्ज्वालासर्वाज्ञानेंधनं दहेत्‌॥४१॥

अरुणेनेव बोधेनपूर्वसंतमसे हृते॥
तत आविर्भवेदात्मा स्वयमेवांशुमानिव॥४२॥

आत्मा तु सततं प्राप्तोऽप्यप्राप्तवदविद्यया॥
तन्नाशे प्राप्तवद्भाति स्वकंठाभरणं यथा॥४३॥

स्थाणौ पुरुषवद्भ्रांत्याकृता ब्रह्मणि जीवता॥
जीवस्यतात्विकेरूपे तस्मिन्दृष्टेनिवर्तते॥४४॥

तत्वस्यरूपानुभवादुत्पन्नंज्ञानमञ्जसा॥
अहंममेतिचाज्ञानं बाधते दिग्भ्रमादिवत्‌॥४५॥

सम्यग्विज्ञानवान्योगी स्वात्मन्येवाखिलं स्थितम्‌॥
एवं च सर्वमात्मानमीक्षते ज्ञानचक्षुषा॥४६॥

आत्मैवेदं जगत्सर्वमात्मनोऽन्यन्नविद्यते॥
मृदोयद्वद्धटादीनिस्वात्मानं सर्वमीक्षते॥४७॥

जीवन्मुक्तस्तु तद़्विद्वान्पूर्वोपाधिगुणांस्त्यजेत्‌॥
सच्चिदानंदरूपत्वाद्भवेद्भ्रमरकीटवत्‌॥४८॥

तीर्त्वामोहार्णवं हत्वा रागद्वेषादिराक्षसान्‌॥
योगी शांतिसमायुक्तो ह्यात्मारामो विराजते॥४९॥

उपाधिस्थोपितद्धर्मैर्नंलिप्तोव्योमवन्मुनिः॥
सर्वविन्मूढवत्तिष्ठेदसक्तो वायुवच्चरेत्‌॥५०॥

बाह्यां नित्यसुखासक्तिं हित्वात्मसुखनिर्वृतः॥
घटस्थदीपवत्स्वच्छः स्वांतरेव प्रकाशते॥५१॥

उपाधिविलयाद्विष्णौनिर्विशेषंविशेन्मुनिः॥

जले जलं वियद्व्योम्नितेजस्तेलसि वा यथा॥५२॥

यल्लाभान्नापरोलाभोयत्सुखान्नापरं सुखम्॥
यज्ज्ञानान्नपरं ज्ञानं तद्ब्रह्मेत्यवधारयेत्‌॥५३॥

यदृष्ट्वान परं दृश्यंयद्भूत्वा न पुनर्भवः॥
यज्ज्ञात्वान परं ज्ञेयं तद्ब्रह्मेत्यवधारयेत्‌॥५४॥

तिर्यगूर्ध्वमधःपूर्णंसच्चिदानंदमव्ययम्‌॥
अनंतं नित्यमेकं यत्तद्ब्रह्मेत्यवधारयेत्‌॥५५॥

अतद्व्यावृत्तिरूपेण वेदांतैर्लक्ष्यतेऽव्ययम्‌॥
अखंडानंदमेकं यत्तद्ब्रह्मेत्यवधारयेत्‌॥५६॥

अखंडानंदरूपस्य तस्यानंदलवाश्रिताः॥
ब्रह्माद्यास्तारतम्येन भवंत्यानंदिनोऽखिलाः॥५७॥

तद्युक्तमखिलंवस्तु व्यवहारस्तदन्वितः॥
तस्मात्सर्वगतं ब्रह्म क्षीरे सर्पिरिवाखिले॥५८॥

अनण्वस्थूलमह्रस्वमदीर्घमजमव्ययम्॥
अरूपगुणवर्णाख्यं तद्ब्रह्मेत्यवधारयेत्‌॥५९॥

यद्भासा

भासतेऽर्कादिर्भास्यैर्यत्तु न भास्यते॥
येन सर्वमिदं भाति तद्ब्रह्मेत्यवधारयेत्‌॥६०॥

स्वयमंतर्बहिर्व्याप्य भासयन्नखिलं जगत्‌॥
ब्रह्म प्रकाशते वह्निप्रतप्तायसपिंडवत्‌॥६१॥

जगद्विलक्षणं ब्रह्म ब्रह्मणोऽन्यन्न किंचन॥
ब्रह्मान्यद्भाति चेन्मिथ्या यथा मरुमरीचिका॥६२॥

दृश्यते श्रूयते यद्यद्ब्रह्मणोऽन्यन्न तद्भवेत्॥
तत्त्वाज्ञानाच्च तद्ब्रह्मसच्चिदानंदमद्वयम्‌॥६३॥

सर्वगं सच्चिदात्मानं ज्ञानचक्षुर्निरीक्षते॥
अज्ञानचक्षुर्नेक्षेत भास्वंतं भानुमंधवत्‌॥६५॥

श्रवणादिभिरुद्दीप्तोज्ञानाग्निपरितापितः॥
जीवःसर्वमलान्मुक्तःस्वर्णवद्द्योतते स्वयम्‌॥६५॥

हृदाकाशोदितो ह्यात्मा बोधभानुस्तमोपहृत्‌॥
सर्वव्यापी सर्वधारी भाति सर्वं प्रकाशते॥६६॥

दिग्देशकालाद्यनपेक्ष्य सर्वगं शीतादि हृन्नित्यसुखं निरञ्जनम्॥
यःस्वात्मतीर्थं भजते विनिष्क्रियः स सर्ववित्सर्वगतोऽमृतो भवेत्‌॥६७॥

इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमच्छङ्कराचार्यकृत आत्मबोधः समाप्तः॥१०५॥

अथात्मषट्कप्रारंभः।

श्रीगगेशाय नमः॥

मनोबुद्ध्यहंकारचित्तानि नाहंन च श्रोत्रजिह्वेन च घ्राणनेत्रे॥
न च व्योमभूमी न तेजो न वायुश्चिदानंदरूपः शिवोऽहं शिवोऽहम्‌॥१॥

अहं प्राणवर्गोन पंचानिला मे न तोयं न मे धातवो नाव कोशाः॥
न वाक्पाणिपादौ न चोपस्थपायूचिदानंदरूपःशिवोऽहं शिवोऽहम्‌॥२॥

न मे द्वेषरागौन मे लोभमोहौ मदोनैव मे नैव मात्सर्यभानम्‌ ॥
न धर्मो न चार्थो न कामो न मोक्षश्चिदानंदरूपः शिवोहंशिवोऽहम्॥३॥

न पुण्यं न पापंन सौख्यं न दुःखं न मंत्रो न तीर्थंन वेदा न यज्ञाः॥
अरं भोजनं नैव भोज्यं न भोक्ता चिदानंदरूपः शिवोहंऽशिवोऽहम्॥९॥

न मे मृत्युशंका न मे जातिभेदः पिता नैव मे नैव माता न जन्म॥
नबंधुर्नमित्रं गुरुर्नैव शिष्यश्चिदानंदरूपः शिवोऽहं शिवोऽहम्‌॥५॥

अहंनिर्विकल्पोनिराकाररुपो विभुर्व्याप्य सर्वत्रसर्वेंद्रियाणि॥
सदामे समत्वं नमुक्तिर्नबंधश्चिदानंदरुपःशिवोऽहंशिवोहम्‌॥६॥

इति श्रीमच्छङ्कराचार्यविरचितमात्मषट्कस्तोत्रंसमाप्तम्‌॥१०६॥

श्रीशङ्करार्पणमस्तु॥

अथ सिद्धांतबिंदुप्रारंभः।

श्रीगणेशाय नमः॥

न भूमिर्न तोयं न तेजोन वायुर्न खं नेंद्रियं वा न्तेषां समूहः॥
अनौकांतिकत्वात्सुषुप्तैकसिद्धस्तदेकोवशिष्टःशिवः केवलोऽहम्॥१॥

न वर्णा नवर्णाश्रमाचारधर्मान मे धारणाध्यानयोगादयोऽपि॥
अनात्माश्रयोऽहं ममाध्यासहानात्तदेको०॥२॥

न माता पिता वा न देवा न लोका न वेदा न यज्ञा न तीर्थं ब्रुवंति॥
सुषुप्तौनिरस्तातिशून्यात्मकत्वात्तदेको०॥३॥

न सांख्यंन शैवं न तत्पांचरात्रंन जैनंन मीमांसकादेर्मतं वा॥
विशिष्टानुभूत्या विशुद्धात्मकत्वात्तदेकी०॥४॥

न चोर्ध्वं न चाधो न चांतर्नबाह्यं न मध्यंन तिर्यङ्न पूर्वापरा दिक्॥
वियद्व्यापकत्वादखंडैकरूपस्तदेको०॥५॥

न शुक्लंन कृष्णं न रक्तं न पीतं न कुब्जं न पीनं न ह्रस्वं न दीर्घम्‌॥
अरूपं तथा ज्योतिराकारकत्वात्तदेको०॥६॥

न शास्ता न शास्त्रंन शिष्यो न शिक्षा न च त्वं न चाहंन चायं प्रपंचः॥
स्वरूपावबोधो विकल्पासहिष्णुस्तदेको०॥७॥

न जाग्रन्न मे स्वप्नकोवा सुषुप्तिनंविश्वो न वा तैजसः प्राज्ञको वा॥
अविद्यात्मकत्वात्त्रयाणां तुरीयस्तदेको०॥८॥

अपि व्यापकत्वाद्धि तत्त्वप्रयोगात्स्वतःसिद्धभावादनन्याश्रयत्वात्‌॥
जगत्तुच्छमेतत्समस्तं तदन्यत्तदेको०॥९॥

न चैकंतदन्यद्द्वितीयंकुतः स्यान्नवा केवलत्वं न वाऽकेवलत्वम्‌॥
नशून्यंन चाशून्यमद्वैतकत्वात्कथं सर्ववेदांतसिद्धं ब्रवीमि॥१०॥

इति श्रीमच्छङ्कराचार्यविरचितः सिद्धांतबिंदुःसमाप्तः॥१०७॥

अथ मनीषापञ्चकप्रारंभः।

श्रीगणेशाय नमः॥

सत्याचार्यस्य गमने कदाचिन्मुक्तिदायकम्॥
काशीक्षेत्रंप्रति सह गौर्यामार्गे तु शंकरम्॥१॥

अंत्यवेषधरं दृष्ट्वागच्छ गच्छेति चाब्रवीत्॥
शंकरःसोपिचांडालस्तं पुनः प्राह शंकरम्॥२॥

अन्नमयादन्नमयमथवा चैतन्यमेवचैतन्यात्‌॥
द्विजवर दूरीकर्तुं वाञ्छसि किं ब्रूहि गच्छ गच्छेति॥३॥

किं गङ्गांबुनि बिंबितेंऽवरमणौचांडालवाटीपयः-
पूरेचांतरमस्ति कांचनघटीमृत्कुंभयोर्वांबरे॥
प्रत्यग्वस्तुनि निसतरंगसहजानंदावबोधांबुधौ
विप्रोयंश्वपचोयमित्यपिमहान्कोऽयं विभेदभ्रमः॥४॥

जाग्रत्स्वप्नसुषुप्तिषु स्फुटतरा या संविदुज्जृंभते
या ब्रह्मादिपिपीलिकांततनुषु प्रोता जगत्साक्षिणी॥
सौवाहं न च दृश्यवस्त्विति दृढप्रज्ञापि यस्यास्तिचे
च्चांडालोस्तु स तु द्विजोस्तु गुरुरित्येषा मनीषामम॥५॥

ब्रह्मैवाहमिदं जगच्च सकलं शिन्मात्रविस्तारितं

सर्वंचैतदविद्यया त्रिगुणया शेषं मयाकल्पितम्‌॥
इत्थं यस्य दृढामतिः सुखतरे नित्ये परेनिर्मले
चांडालोस्तुस तु०॥३॥

शश्वन्नश्वरमेव विश्वमखिलं निश्चित्य वाचागुरो-
र्नित्यं ब्रह्म निरंतरं विमृशता निर्व्याजशांतात्मना॥
भूतं भावि च दुष्कृतं प्रदहता संविन्मयेपावके
प्रारब्धाय समार्पितं स्ववपुरित्येषा मनीषा मम॥७॥

या तिर्यङ्नरदेबताभिरहमित्यन्तःस्फुटागृह्यते
यद्भासा हृद्याक्षदेहविषया भांति स्वतोऽचेतनाः॥
तां भास्यैःपिहितार्कमङ्गलनिभां स्फूर्तिंसदा भावयन्-
योगी निर्वृतमानसो हि गुरुरित्येषा मनीषा मम॥८॥

यत्सौख्यांबुधिलेशलेशत इमे शक्रादयो निर्वृता
यश्चित्ते नितरांप्रशांतकलने लब्ध्वा मुनिर्निर्वृतः॥
यस्मिन्नित्यसुखांबुधौगलितधीर्ब्रह्मैवन ब्रह्मविद्यः
कश्चित्स सुरेंद्रवंदितपदो नूनं मनीषा मम॥९॥

इति मनीषापञ्चकं संपूर्णम्॥१०८॥

अथवाक्यवृत्तिप्रारंभः।

श्रीगणेशाय नमः॥

सर्गस्थितिप्रलयेहेतुमचिंत्यशक्तिं
विश्वेश्वरं विदितविश्वमनंतमूर्तिम्‌॥
निर्मुक्तबंधनमपारसुखांबुराशिं
श्रीवल्लभंविमलोबोधघनं नमामि॥१॥

यस्य प्रसादादहमेव विष्णु-
र्मय्येव सर्वंपरिकल्पितं च॥
इत्थं विजानामि सदात्मरूपं
तस्यांघ्रिपद्मंप्रणतोस्मि नित्यम्॥२॥

तापत्रयार्कसंप्तंकश्चिदुद्विग्नमानसः॥
शमादिसाधनैर्युक्तः सद्गुरुंपरिपृच्छति॥३॥

अनायासेन येनास्मान्मुच्येयं भवबंधनात्‌॥
तन्मे संक्षिप्य भगवन्कैवल्यंकृपया वद॥४॥

साध्वी ते वचनव्यक्तिः प्रतिभातिवदामि ते॥
इदं तदिति विस्पष्टंसावधानमनाः शृणु॥५॥

तत्त्वमस्यादिवाक्योत्थं यज्जीविपरमात्मनोः॥
तादात्म्याविषयंज्ञानं तदिदं मुक्तिसाधनम्‌॥६॥

को

प्रीवः कःपरश्चात्मा तादात्म्यं वा कथतयोः॥
तत्त्वमस्यादिवाक्यंवा कथं तत्प्रतिपादयेत्‌॥७॥

अत्रब्रूमःसमाधानं कोन्यो जीवस्त्वमेव हि॥
यस्त्वं पृच्छसि मां कोहंब्रह्मैवासि नसंशयः॥८॥

पदार्थमेव जानामि नाद्यापि भगवन् स्फुटम्‌॥
अहं ब्रह्मेति वाक्यार्थं प्रतिपद्ये कथं वाद॥९॥

सत्यमाह भवानत्रविगानं नैव विद्यते॥
हेतुःपदार्थबोधोरि वाक्यार्थावगतेरिह॥१०॥

अंतःकरणतद्वृत्तिसाक्षी चैतन्याविग्रहः॥
आनंदरुपःसत्यःसन्‌ किं नात्मानं प्रपद्यसे॥११॥

सत्यानंदस्वरूपं धीसाक्षिणं बोधविग्रहम्‌॥
चिंतयात्मतयानित्यं त्वक्त्वा देहादिगांधियम्‌॥१२॥

रूपादिमान्यतःपिंडस्ततो नात्मा घटादिवत्‌॥
वियदादिमहाभूतविकारत्वाच्च कुंभवत्‌॥१३॥

अनात्मा यदि पिण्डोयमुक्तहेतुबलान्मतः॥
करामलकवत्साक्षादात्मानं प्रतिपादय॥१९॥

घटद्रष्टाघटाद्भिन्नःसर्बथा न घटो यथा॥
देहद्रष्टातथा देहो नादमित्यवधारय॥१५॥

एवमिंद्रियदृङ्नाहमिंद्रियाणीति निश्चिनु॥

मनो बुद्धिस्तथा प्राणो नोहमित्यवधारय॥१६॥

संघातोऽपि तथा नाहमिति दृश्यविलक्षणम्‌॥
द्रष्टारमनुमानेननिपुणं संप्रधारय॥१७॥

देहेन्द्रियादयो भावा हानादिव्यापृतिक्षमाः॥
यस्य सन्निधिमात्रेण सोहमित्यवधारय॥१८॥

अनापन्नविकारःसन्नयस्कांतवदेव यः॥
बुद्ध्यादींश्चालयेत्प्रत्यक्‌ सोहमित्यवधारय॥१९॥

अनडात्मवदाभांति यत्सांनिध्याज्जडा अपि॥
देहेंद्रियमनःप्राणाःसोहमित्यवधारय॥२०॥

अगमन्मे मनोऽन्यत्रसांप्रतं च स्थिरीकृतम्‌॥
एवं योवेत्ति धीवृत्तिं सोहमित्यवधारय॥२१॥

स्वप्नजागरिते सुप्तिं भावाभावौ धियां तथा॥
यो वेत्त्यविक्रियः साक्षात्सोहमित्यवधारय॥२२॥

घटावभासकोदीपो घटादन्योयथेष्यते॥
देहावभासकोदेही तथाहंबोधविग्रहः॥२३॥

पुत्रवित्तादयो भावा यस्य शेषतया प्रियाः॥
द्रष्टा सर्बप्रियतमः सोहमित्यवधारय॥२४॥

परप्रेमास्पदतया मानभूतमहं सदा॥
भूयासमिति यो द्रष्टा सोहमित्यवधारय॥२७॥

यः साक्षिलक्षणोवोधस्त्वंपदार्थःस उच्यते॥
साक्षित्वमपि बोद्धृत्वमविकारितयाऽऽत्मनः॥२६॥

देहेंद्रियमनः प्राणादकृतिभ्यो विलक्षणः॥
प्रोज्झिताशेषषड्भावविकारस्त्वंपदाभिधः॥२७॥

त्वमर्थमेवंनिश्चित्यतदर्थंचिंतयेत्पुनः॥
अतद्व्यावृत्तिरुपेण साक्षाद्विधिमुखेनच॥२८॥

निरस्ताशेषसंसारदोषोऽस्थूलादिलक्षणः॥
अदृश्यत्वादिगुणकः पराकृततमोमलः॥२९॥

निरस्तातिशयानंदः सत्यप्रज्ञानविग्रहः॥
सत्तास्वलक्षणःपूर्णः परमात्मेति गीयते॥३०॥

सर्वज्ञत्वंपरेशत्वंतथा संपूर्णशक्तिता॥
वेदैःसमर्थ्यते यस्य तद्ब्रह्मेत्यवधारय॥३१॥

यज्ज्ञानात्सर्वविज्ञानंश्रुतिषु प्रतिपादितम्‌॥
मृदाद्यनेकदृष्टांतैस्तद्ब्रह्मेत्यवधारय॥३२॥

यदानंत्यं प्रतिज्ञाय श्रुतिस्तत्सिद्धये जगौ॥
तत्कार्यत्वं प्रपंचस्य तद्ब्रह्मेत्यवधारय॥३३॥

विजिज्ञास्यतया यच्चवेदांतेषु मुमुक्षुभिः॥
समर्थ्यतेतियत्नेन तद्ब्रह्मेत्यवधारय॥३४॥

जीवात्मना प्रवेशश्चनियंतृत्वं च तान्प्रति॥
श्रूयते यस्य वेदेषु तद्ब्रह्मेत्यवधारय॥३५॥

कर्मणांफलदातृत्वं यस्यैव श्रूयते श्रुतौ॥
जीवानां हेतुकर्तृत्वं तद्ब्रह्मेत्यवधारय॥३६॥

तत्त्वंपदार्थौनिर्णीतोवाक्यार्थश्चिंत्यतेऽधुना॥
तादात्म्यमत्र वाक्यार्थस्तयोरेव पदार्थयोः॥३७॥

संसर्गोवा विशिष्टोवा वाक्यार्थोनात्र संमतः॥
अखंडैकरसत्वेनवाक्यार्थौविदुषां मतः॥३८॥

प्रत्यग्वोधोय आभाति सोद्वयानंदलक्षणः॥
अद्वयानंदरुपश्चप्रत्यग्वोधैकलक्षणः॥३९॥

इत्थमन्योन्यतादात्म्यप्रतिपत्तिर्यदा भवेत्‌॥
अब्रह्मत्वं त्वमर्थस्य व्यावर्त्तेत तदैव हि॥४०॥

तदर्थस्य च पारोक्ष्यं यद्येवंकिं ततः शृणु॥
पूर्णानंदैकरूपेण प्रत्यग्बोधोवतिष्ठते॥४१॥

तत्त्वमस्यादिवाक्यं च तादात्म्यप्रतिपादने॥
लक्ष्यौ तत्त्वंपदार्थौद्वावुपादाय प्रवर्तते॥४२॥

हित्वाद्वौशबलौवाच्यौवाक्यं वाक्यार्थबोधने॥
यथा प्रवर्ततेऽस्माभिस्तथा व्याख्यातमादरात्‌॥४३॥

आलंबनतया भाति योस्मत्प्रत्ययशब्दयोः॥
अंतःकरणसंभिन्नवोधः स त्वंपदाभिधः॥४९॥

मायोपाधिर्जगद्योनिः सर्वज्ञत्वादिलक्षणः॥
पारोक्ष्यशबलःसत्याद्यात्मकस्तत्पदाभिधः॥४५॥

प्रत्यक्परोक्षतैकस्य सद्वितीयत्वपूर्णता॥
विरुध्यते यतस्तस्माल्लक्षणा संप्रवर्तते॥४६॥

मानांतरविरोधेतु मुख्यार्थस्यपरिग्रहे॥
मुख्यार्थेनाविनाभूते प्रतीतिर्लक्षणोच्यते॥४७॥

तत्त्वमस्यादिवाक्येषुलक्षणा भागलक्षणा॥
सोहमित्यादिवाक्यस्थपदयोरिव नापरा॥४८॥

अहंब्रह्मेति वाक्यार्थबोधोयावद्दृढीभवेत्‌॥
शमादिसहितस्तावदभ्यसेच्छ्रवणादिकम्‌॥६९॥

श्रुत्याचार्यप्रसादेन दृढोवोधो यदा भवेत्॥

निरस्ताशेषसंसारनिदानः पुरुषस्तदा॥५०॥

विशीर्णकार्यकरणो भूतसक्ष्मैरनावृतः॥
विमुक्तकर्मनिगडः सद्यएव विमुच्यते॥५१॥

प्रारब्धकर्मवेगेन जीवन्मुक्तो यदा भवेत्‌॥
किंचित्कालमनारब्धकर्मबंधस्य संक्षये॥५२॥

निरस्तातिशयानंदं वैष्णवं परमं पदम्॥
पुनरावृत्तिरहितं कैवल्यंप्रतिपद्यते॥५३॥

इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमच्छङ्कराचार्यविरचिता वाक्यवृत्तिः समाप्ता॥१०९॥

श्रीकृष्णार्पणमस्तु॥

अथ परा पूजाप्रारभ्यते।

श्रीगणेशाय नमः॥

पूर्णस्यावाहनं कुत्र सर्वाधारस्य चासनम्॥
स्वच्छस्य पाद्यमर्ध्यं च शुद्धस्याचमनं कुतः॥१॥

निर्मलस्य कुतः स्नानं वस्त्रंविश्वोदरस्य च॥
निरालंबस्योपवीतं पुष्पं निर्वासनस्यच॥२॥

निर्लेपस्य कुतो गंधो रम्यस्याभरणं कुतः॥
नित्यतृप्तस्य नैवेद्यंतांबूलंच कुतो विभोः॥३॥

प्रदक्षिणा ह्यनंतस्य ह्यद्वयस्य कुतो नतिः॥
वेदवाक्यैरवेद्यस्य कुतः स्तोत्रंविधीयते॥४॥

स्वयं प्रकाशमानस्य कुतो नीराजनं विभोः॥
अंतर्बहिश्चपूर्णस्य कथमुद्वासनं भवेत्॥५॥

एवमेव परा पूजा सर्वावस्थासु सर्वदा॥
एकबुद्ध्या तु देवेशो विधेयाबह्मवित्तमैः॥६॥

इति परापूजा समाप्ता॥११०॥

अथ हरिहरात्मकस्तोत्रप्रारंभः।

श्रीगणेशाय नमः॥

गोविंदमाधव मुकुंद हरे मुरारे शंभो शिवेश शशिशेखर शूलपाणे॥
दामोदराच्युत जनार्दन वासुदेवत्याज्या भटाय इति संततमामनंति॥१॥

गंगाधरांधकरिपोहर नीलकंठ वैकूंठकैटभरिपो कमठाब्जपाणे॥
भूतेश खंडपरशोमृडचंडिकेश त्याज्या भटाय इति संततमामनंति॥२॥

विष्णो नृसिंह मधुसूदन चक्रपाणेगौरीपते गिरिश शंकर चंद्रचूड॥
नारायणासुरनिबर्हण शार्ङ्गपाणेत्याज्या भटाय इति संततमा०॥३॥

संकीणस्तोत्राणि॥

मृत्युञ्जयोग्र

विषमेक्षण कामशत्रोश्रीकांत पीतवसनांबुदनीलशौरे॥
ईशान कुत्तिवसन त्रिदशैकनाथ त्याज्या भटाय०॥४॥

लक्ष्मीपते मधुरिपो पुरुषोत्तमाद्य श्रीकंठ दिग्वसन शांत पिनाकपाणे॥
आनंदकंदधरणीधर पद्मनाभ त्याज्या भटा य इति०॥५॥

सर्वेश्वर त्रिपुरसूदन देवदेव ब्रह्मण्यदेव गरुडध्वजशंखपाणे॥
त्र्यक्षोरमगाभरण बालमृगांकमौले त्याज्या भटा०॥६॥

श्रीराम राघपरमेश्वर रावणारे भूतेश मन्मथरिपो प्रमथाधिनाथ॥
चाणूरमर्दनहृषीकपते सुरारे त्याज्या भटा०॥७॥

शूलिन्गिरीश रजनीशकलावतंस कंसप्रणाशन सनातन केशिनाश॥
भर्गत्रिनेत्रभवभूतपते पुरारेत्याज्या भटा०॥८॥

गोपीपते यदुपते वसुदेवसूनो कर्पूर गौर वृषभध्वज भालनेत्र॥
गोवर्द्धनोद्धरण धर्मधुरीणगोप त्याज्या भ०॥९॥

स्थाणो त्रिलोचन पिनाकधरस्मरारे कृष्णानिरुद्ध कमलाकर कल्मषारे॥

विश्वेश्वर त्रिपथगार्द्रजटाकलाप त्याज्या०॥१०॥

अष्टोत्तराधिकशतेन सुचारुनाम्नांसंदर्भितांललितरत्नकदंबकेन॥
सन्नायकांदृढगुणां निजकंठगां यः कुर्यादिमांस्रजमरोस यमं न पश्येत्‌॥११॥

गणावूचतुः॥

इत्थं द्विजेंद्र निजभृत्यगणान्सदैव संशिक्षयेदवनिगान्स हि धर्मराजः॥
अन्येऽपि ये हरिहरांकधरा धरायां ते दूरतः पुनरहो परिवर्जनीयाः॥१२॥

अगस्त्य उवाच॥

यो धर्मराजरचितां ललितप्रबंधां नामावलिं सकलकल्मषबीजहंत्रीम्॥
धीरोऽत्रकौस्तुभभृतः शशिभूषणस्य नित्यं जपेत्स्तनरसं न पिबेत्स मातुः॥१३॥

इति शृण्वन्कथां रम्यां शिवशर्माप्रियेऽनघाम्‌॥
प्रहर्षवक्त्रपुरतोददर्शाप्सरसांपुरीम्‌॥१४॥

इति श्रीस्कंदपुराणे काशीखंडे धर्मराजविराचिता हरिहराष्टोत्तरशतनामावलिः समाप्ता॥१११॥

अथ दत्तात्रेयस्तोत्रप्रारंभः।

श्रीगणेशाय नमः॥

जटाघरं पांडुरंगंशूलहस्तंकृपानिधिम्‌॥
सर्वरोगहरं देवं दत्तात्रेयमहं भजे॥१॥

अस्य श्रीदत्तात्रेयस्तोत्रमंत्रस्यभगवान्नारदऋषिः॥
अनुष्टुप्छंदः॥
श्रीदत्तः परमात्मा देवता॥
श्रीदत्तप्रीत्यर्थं जपे विनियोगः॥

जगदुत्पत्तिकर्त्रेच स्थितिसंहारहेतवे॥
भवपाशविमुक्ताय दत्तात्रेय नमोस्तुते॥१॥

जराजन्मविनाशाय देहशुद्धिकराय च॥
दिगंबर दयामूर्ते दत्तात्रेय नमोऽस्तुते॥२॥

कर्पुरकांतिदेहाय ब्रह्ममूर्तिधरायच॥
वेदशास्त्रपरिज्ञाय दत्तात्रेय नमोऽस्तुते॥३॥

ह्रस्वदीर्घकृशस्थूलनामगोत्रविवर्जित॥
पंचभूतकदीप्तायं दत्तात्रेय नमोऽस्तुते॥४॥

यज्ञभोक्तेच यज्ञाय यज्ञरूपधराय च॥
यन्ञप्रियाय सिद्धाय दत्तात्रेय नमोऽस्तुते॥५॥

आदौब्रह्मा मध्ये विष्णुरंते देवःसदाशिवः॥
मूर्तित्रयस्वरूपाय दत्तात्रेय नमोस्तुते॥६॥

भोगालयाय भोगाय योगयोग्याय धारिणे॥
जितेंद्रियजितज्ञाय दत्तात्रेय०॥७॥

दिगंबराय दिव्याय दिव्यरूपधराय च॥
सदोदितप्रब्रह्म दत्तात्रेय नभोऽस्तुते॥८॥

जंबुद्वीपे महाक्षेत्रे मातापुरनिवासिने॥
जयमान सतां देव दत्तात्रेय नमोस्तुते॥९॥

भिक्षाटनं गृहे ग्रामे पात्रं हेममयंकरे॥
नानास्वादमयी भिक्षा दत्तात्रेय नमोऽस्तुते॥१०॥

ब्रह्मज्ञानमयी मुद्रा वस्त्रमाकाशभूतले॥
प्रज्ञानघनबोधाय दत्तात्रेय नमोस्तुते॥११॥

अवधूत तदानंद परब्रह्मस्वरूपिणे॥
विदेहदेहरूपाय दत्तत्रेय०॥१२॥

सत्यरूप सदाचार सत्यधर्मपरायण॥
सत्याश्रय परोक्षाय दत्तात्रेय०॥१३॥

शूलहस्त गदापाणे वनमालासुकंधर॥
यज्ञसुत्रधरब्रह्म दत्तात्रेय०॥१४॥

क्षराक्षरस्वरूपायपरात्परतराय च॥
दत्तमुक्तिपरस्तोत्र दत्तात्रेय०॥१५॥

दत्तविद्याय लक्ष्मीशदत्तस्वात्मस्वरूपिणे॥

गुणनिर्गुणरूपाय दत्तात्रेय०॥१६॥

शत्रुनाशकरं स्तोत्रंज्ञानविज्ञानदायकम्॥
सर्वपापं शमं याति दत्तात्रेय न०॥१७॥

इदं स्तोत्रं महद्दिव्यं दत्तप्रत्यक्षकारकम्‌॥
दत्तात्रेयप्रसादाच्च नारदेन प्रकीर्तितम्‌॥१८॥

इति श्रीनारदपुराणे नारदविरचितं दत्तात्रेयस्तोत्रं संपूर्णम्‌॥९१२॥

अथ शिवरामाष्टकप्रारंभः।

श्रीगणेशाय नमः॥

शिव हरे शिवरामसखे प्रभो त्रिविधतापनिवारण हेविभो॥
अजजनेश्वर यादव पाहि मां शिव हरे विजयं कुरुमे वरम्‌॥१॥

कमललोचन राम दयानिधेहरगुरो गजरक्षक गोपते॥
शिवतनो भव शंकर पाहिमां शिवहरे वि०॥२॥

स्वजनरंजनमंगलमंदिरं भजति ते पुरुषाः परमंपदम्‌॥
भवति तस्य सुखं परमाद्भुतंशिव हरे वि०॥३॥

जय युधिष्ठिरवल्लभ भूपते जय जयार्जित पुण्यपयोनिधे॥
जय कृपामय कृष्ण नमोऽस्तुते शिव हरे विज०॥४॥

भवविमोचन माधवमापते सुकविमानसहंस शिवारते॥
जनकजारत राघवरक्ष मां शिव हरे वि०॥५॥

अवनिमंडलमंगलमापते जलद सुंदरराम रमापते॥
निगमकीर्ति गुणार्णव गोपते शिव हरे वि०॥६॥

पतितपावन नाममयी लता तव यशो विमलंपारिगीयते॥
तदपि माधव मां किमुपेक्षसे शिव हरे वि०॥७॥

अमरतापरदेव रमापते विजयतस्तव नाम धनोपमा॥
मयि कथं करुणार्णव जायते शिव ह०॥८॥

हनुमतः प्रियतापकर प्रभो सुरसरिद्धृतशेखर हे गुरो॥
मम विभो किमुविस्मरणं कृतं शिवह०॥९॥

नरहरेरतिरंजनसुंदरं पठति यः शिवरामकृतस्तवम्‌॥
विशति रामरमाचरणांवुजे शिव ह०॥१०॥

प्रातरुत्थाय यो भक्त्या पठेदेकाग्रमानसः॥
विजयो जायते तस्य विष्णुमाराध्यमाप्नुयात्‌॥११॥

इति श्रीरामानंदविरचितंशिवरामस्तोत्रंसंपूर्णम्॥११३॥

अथ शङ्कराचार्यकृतगुर्वष्टकप्रारंभः।

श्रीगणेशाय नमः॥

शरीरं सुरूपं तथा वा कलत्रं यशश्चारुचित्रंधनं मेरुतुल्यम्॥
मनश्चेन्न लग्नंहरेरंघ्रिपद्मेततःकिं ततःकिं ततःकिं ततःकिम्‌॥१॥

कलत्रं धनं पुत्रपौत्रादि सर्वं गृहं बांधवाःसर्वमेतद्धिजातम्‌॥
गुरोरंघ्रिपद्मेमनश्चेन्न लग्नंततःकिं ततःकिं ततः किं ततःकिम्‌॥२॥

षडंगादिवेदो मुखे शास्त्रविद्याकवित्वादि गद्यंसुपद्यंकरोति॥
गुरोरंघ्रिपद्मे०॥३॥

विदेशेषु मान्यः स्वदेशेषु धन्यः सदाचारवृत्तेषु मत्तो न चान्यः॥
गुरोरंघ्रिपद्मे०॥४॥

क्षमामंडलेभूपभूपालवृंदैःसदा सेवितं यस्य पादारविदम्‌॥
गुरोरंघ्रिपद्मे०॥५॥

यशो मे गतं दिक्षुदानप्रतापाज्जगद्वस्तु सर्वं करे यत्प्रसादात्॥
गुरोरंघ्रिपद्मे०॥६॥

न भोगे न योगे न वावाजिराजौन कांतामुखे नैव वित्तेषु चित्तम्‌॥
गरोरंघ्रिप०॥७॥

अरण्येन वा स्वस्यगेहे न कार्ये न देहे मनो वर्तते मे त्वनर्ध्ये॥
गुरोरंघ्रिपद्मे०॥८॥

अनर्ध्याणि रत्नानिभुक्तानि सम्यक्समालिंगिताकामिनी यामीनीषु॥
गुरोरंघ्रिपद्मे०॥९॥

गुरोरष्टकंयःपठेत्पुण्यदेही यपिर्भूपतिब्रह्मचारी च गेही॥
लभेद्वांछितार्थं पदंब्रह्मसंज्ञं गुरोरुक्तवाक्ये मनोयस्य लग्नम्॥१०॥

इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमच्छङ्कराचार्यबि०गुरोरष्टकंसंपू०॥

अथ प्रश्नोत्तररत्नमालिकाप्रारंभः।

श्रीगणेशाय नमः॥

कः खलुनालंक्रियते दृष्टदृष्टार्थसाधनपटीयान्॥
अनया कंठस्थितया प्रश्नोत्तररत्नमालिकया॥१॥

भगवन्किसुपादेयं गुरुवचनं हेयमापि च किमकार्यम्‌॥
को गुरुरधिगततत्त्वः शिष्यहिवायोद्यतःसततम्‌॥२॥

त्वरितं किं कर्तव्यं सुधिया संसारसंततिच्छेदः॥
किं मोक्षतरोर्बीजंसम्यग्ज्ञानं क्रियासहितम्‌॥३॥

कः पथ्यतरो धर्मःकःशुचिरिहयस्य मानसंझुद्धम्॥

कः पंडितो विवेकी किं विषमवधीरणा गुरुषु॥४॥

किं संसारे सारं वहुशो विचिंत्यमानमिदमेव॥
मनुजेषु दृष्टतत्त्वंस्वपरहितायोद्यतं जन्म॥५॥

मदिरेवमोहजनकः कः स्नेहः के च दस्यवो विषयाः॥
का भववल्लीतृष्णा कोवैरीयस्त्वनुद्योगः॥६॥

कस्माद्भयमिहमरणादंवादपि को विशिष्यते रोगी॥
कः शूरोयो ललनालोचनबाणैर्न च व्यथितः॥७॥

पातुं कर्णांजलिभिःकिममृतमिव युज्यते सदुपदेशः॥
किं गुरुताया मूलंयदेतदप्रार्थनं नाम॥८॥

किं गहनं स्त्रीचरितं कश्चतुरो यो न खंडितस्तेन॥
किं दारिद्र्यमतोषं किंलाघवमन्यधनपरा याच्ञा॥९॥

किं जीवितमनवद्यंकिं जाड्यंपाटवेप्यनभ्यासः॥
कोजागर्तिविवेकीका निद्रा मूढता जंतोः॥१०॥

नलिनीदलगतजलवत्तरलंकिं यौवनं धनं चायुः॥
के शशधरकरनिकरानुकारिणःसज्जना एव॥११॥

कोनरकः परवशता किं सोख्यं सर्वसङ्गविरतिर्या॥
किं साध्यं भूतहितं किमु प्रियं प्राणिनामसवः॥१२॥

किं दानमनाकांक्षंकिं मित्रं यन्निवर्तयति पापात्‌॥१३॥

कोऽलंकारः शीलंकिं वाचां मंडनं सत्यम्‌॥
किमनर्थफलंमानः सुसंगतिः का सुखावहा मैत्री॥१४॥

सर्वव्यसनविनाशे को दक्षः सर्वथा परित्यागी॥
कोेंऽधोयोऽकार्यरतः को बधिरो यः श्रुणोति न हितानि॥१५॥

कोमूको यः काले प्रियाणि वक्तुंन जानाति॥
किं मरणं मूर्खत्वं किमनर्घ्यं दत्तमवसरे यच्च॥१६॥

आमरणात्किं शल्यंप्रच्छन्नं यत्कृतं पापम्‌॥
कुत्रविधेयो यत्नो विद्याभ्यासे सदौषधे दाने॥१७॥

अवधीरणा क्वकार्या खलपरयोषित्परधंनेषु॥
काऽहर्निशमनुचिंत्या संसारासारता न तु प्रमदा॥१८॥

का प्रेयसी विधेया करुणः दीनेषु सज्जने मैत्री॥
कंठगतैरप्यसुभिः कस्यात्मा न वशमुपयाति॥१९॥

मुर्खस्य विषादवतो गर्ववतोऽपि च कृतघ्नस्य॥

कः पूज्यः सद्वृत्तःकमधममाचक्षते चलितवृत्तम्‌॥२०॥

केन जितं जगदेतत्सत्यतितिक्षावता पुंसा॥
कुत्रविधेयो वासः सज्जननिकटेऽथवा काश्याम्‌॥२१॥

कस्मैनमस्क्रिया स्याद्देवानामपि दयाप्रधानस्य॥
कस्मादुद्वेजितव्यं संसारारण्यतः सुधिया॥२२॥

कस्य वशे प्राणिगणः सत्यप्रियभाषिणो विनीतस्य॥
क्वस्थातव्यं न्याय्ये पथि दृष्टार्थलाभाय॥२३॥

विद्युद्विलसितचपलंकिं दुर्जनसंगतिर्युवतयश्च॥
कुलशीलनिष्प्रकंपाः के कालिकालेऽपिसत्पुरुषाः॥२४॥

किं शोच्यं कार्पण्यं सति विभवेकिंप्रशस्यमौदार्यम्‌॥
तनुतरविभवस्य प्रभविष्णोर्वाकिं यत्सहिष्णुत्वम्‌॥२५॥

चिंतामणिरिव दुर्ल्लभमिह किं कथयामि चतुर्भद्रम्‌॥
किं तद्वदेतिभूयो विधूततमसो विशेषेण॥२६॥

दानं प्रियवाक्सहितं ज्ञानमगंर्व क्षमान्वितं शौर्यम्‌॥
वित्तं त्यागसमेतंदुर्ल्लभमेतच्चतुर्भद्रम्‌॥२७॥

इति कंठगता विमलप्रश्नोत्तररत्नमालिका येषाम्‌॥
तेऽमुक्ताभरणा अपि विभांति विद्वेत्समाजेषु॥२८॥

इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमच्छङ्कराचार्यविरचिताप्रश्नोत्तररत्नमालिकासमाप्ता॥११५॥

अथ कल्किस्तवप्रारंभः।

श्रीगणेशाय नमः॥
राजानऊचुः॥
गद्यानि॥

जयजय निजमाययाकल्पिताशेषविशेषकल्पनापरिणामजलाप्लुतलोकत्रयोपकरणमाकलय्यमनुमनिशम्य पूरितमविजनाविजनाविर्भूतमहामीनशरीरत्वंनिजकृतधर्मसेतुसंरक्षणकृतावतारः॥१॥

पुनारिह जलधिमथनादृतेदेवदानवगणानां मंदराचलानयनव्याकुलितानां साहाय्येनादृतचित्तः पर्वतोद्धरणामृतप्राशनरचनावतारः कूर्माकारः प्रसीदपरेश त्वं दीननृपाणाम्‌॥२॥

पुनरिहदितिजबलपरिलंघितवासवसूदनादृत जितभुवनपराक्रमहिरण्य़ाक्षनिधनपृथिव्युद्धरणसंकल्पाभिनिवेशेन

कोलावतार पाहि नः॥३॥

पुनरिह त्रिभुवनजयिनो महाबलपराक्रमस्वहिरण्यकशिपोरर्दितानां देववराणां भयभीतानां कल्याणाय दितिसुतवधप्रेप्सुर्ब्रह्मणो वरदानाद्वध्यस्यन शस्त्रास्त्रैरात्रिदिवास्वर्गमर्त्यपातालतलेदेवगंधर्वकिन्नरनरनागैरिति विचिंत्य नरहरिरुपेण नखाग्रभिन्नोरुः दष्टदंतच्छदं त्यक्तासुकृतवानसि॥४॥

पुनरिह त्रिजगज्जयिनो बलेःसत्रे शक्रानुजोबटुवामनो दैत्यसंमोहनाय त्रिपदभूमियाच्चाछलेनविश्वकायस्तदुत्सृष्टजलसंस्पर्शविवृद्धमनोऽभिलाषस्त्वंभूतले बलेर्दौवारिकत्वमंगीकृतमुचितं दानफलम्‌॥५॥

पुनरिह हैहयादिनृपाणाममितबलपराक्रमाणां नानामदोल्लंघितमर्यादावर्त्मनां निधनाय भृगुवंशजोजामदग्न्यःपितृहोमधेनुहरणप्रबृद्धमन्युवशात्‌ त्रिःसप्तकृत्वोनिःक्षत्रियां पृथिवीं कृतवानसि परशुरामावतारः॥६॥

पुनरिह पुलस्त्य

वंशावतंसस्यविश्रवसःपुत्रस्य निशाचरस्यरावणस्य लोकत्रयतापनस्य निधनमुररीकृत्य रविकुलजातदशरथात्मजोविश्वामित्रादस्त्राण्युपलभ्य वने सीताहरणवशात्प्रवृद्धमन्युनाऽम्बुधिं वानरैर्निबध्य सगणं दशकंधरं हतवानसि रामावतारः॥७॥

पुनरिहयदुकुलजलधिकलानिधिः सकलसुरगणसेवितपादारविंदद्वंद्वोविविधदानवदैत्यदलनलोकत्रयदुरिततापनो वसुदेवात्मजोरामावतारो बलभद्रस्त्वमसि॥८॥

पुनरिह विधिकृतवेदधर्मानुष्ठानविहितनानादर्शनसघृणः संसारकर्मत्यागविधिना ब्रह्मभासविलासचातुरीं प्रकृतिविमाननामसंपादयन्‌ बुद्धावतारस्त्वमसि॥९॥

अधुना कलिकुलनाशावतारो बौद्धपाषंडम्लेच्छादीनां च वेदधर्मसेतुपरिपालनाय कृतावतारः कल्किरूपेणास्मान् स्त्रीत्वनिरयादुद्धृतवानसि तवानुकम्पां किमिह कथयामः॥१०॥

क्व ते ब्रह्मादीना

मविदितविलासावतरणं क्व नः कामावामाकुलितमृगतृष्णार्त्तमनसाम्॥ सुदुष्प्राप्यं युष्मच्चरणजलजालोकनमिदं कृपापारावारःप्रमुदितदृशा श्वासय निजान्‌॥११॥

इति श्रीकल्किपुराणेऽनुभागवते भविष्येद्वितीयांशेनृपकृतकल्किस्तवः सं०॥११६॥

अथ प्रातःस्मरणस्तोत्रप्रारंभः।

श्रीगणेशाय नमः॥

प्रातःस्मरामि हृदि संस्फुरदात्मतत्त्वं
सच्चित्सुखं परमहंसगतिंतुरीयम्‌॥
यत्स्वप्रजागरसुषुप्तमवैति नित्यं
सब्रह्म निष्कलमहं न च भूतसंघः॥३॥

प्रातर्भजामि मनसो वचसामगम्यं
वाचो विभांति निखिला यदनुग्रहेण॥
यन्नेति नेति वचनैर्निगमा अवोच-
स्तं देवदवमजमच्युतमाहुरग्र्यम्‌॥२॥

प्रातर्नमामि तमसः परमर्कवर्णं
पूर्णंसनातनपदं पुरुषोत्तमाख्यम्‌॥
यस्मिन्निदं जगदशेषमशेषमूर्तौ
रज्ज्वाभुजंगम इव प्रतिभासि तंवै॥३॥

श्लोकत्रयमिदं पुण्यं लोकत्रयविभूषणम्‌॥
प्रातःकाले पठेद्यस्तु स गच्छेत्परमंपदम्॥४॥

इति श्रीभगवत्पादाचार्यविरचितं प्रातःस्मरणस्तोत्रं संपूर्णम्‌॥११७॥

ॐतत्सद्ब्रह्मार्पण०॥

अथ अश्वत्थस्तोत्रप्रारंभः।

श्रीगणेशाय नमः॥
श्रीनारदउवाच॥

अनायासेन लोकोयं सर्वान्कामानवाप्नुयात्॥
सर्वदेवात्मकं चैकं तन्मे ब्रूहि पितामह॥१॥

ब्रह्मोवाच॥

शृणु देवमुनेऽश्वत्थं शुद्धं सर्वात्मकंतरुम्॥
यत्प्रदक्षिणतोलोकः सर्वान्कामान्समश्नुते॥२॥

अश्वत्थाद्दक्षिणेरुद्रः पश्चिमे विष्णुरास्थितः॥
ब्रह्मा चोत्तरदेशस्थः पूर्वे त्विंद्रादिदेवताः॥३॥

स्कंधोपस्कंधपत्रेषु गोविप्रमुनयस्तथा॥
मूलंवेदाः पयो यज्ञास्संस्तुतामुनिपुंगव॥४॥

पूर्वादिदिक्षु संयाता नदीनदसरोब्धय॥
तस्मात्सर्वप्रयत्नेन ह्यश्वत्थंसंश्रयेदूबुधः॥५॥

त्वं क्षीर्यफलकश्चैव शीतलश्चवनस्पते॥
त्वामाराध्य नरो विंद्यादैहिकामुष्मिकं फलम्॥६॥

चलद्दलाय वृक्षाय सर्वदाश्रितविष्णवे॥
बोधितत्वाय देवाय ह्यश्वत्थाय नमो नमः॥७॥

अश्वत्थयस्मात्त्वयि वृक्षराज नारायणस्तिष्ठति सर्वकाले॥
अतः श्रुतस्त्वं सततं तरूणां धन्योऽसि चारिष्टविनाशकोसि॥८॥

क्षीरदस्त्वं च येनेह येन श्रीस्त्वांनिषेवते॥
सत्येन तेन वृक्षेन्द्र मामपि श्रीर्निषेवताम्॥९॥

एकादशात्मरुद्रोसि वसुनाथशिरोमणिः॥
नारायणोसि देवानां वृक्षराजोसि पिप्पल॥१०॥

अग्निगर्भः शमीगर्भोदेवगर्भः प्रजापतिः॥
हिरण्यगर्भोभूगभों यज्ञगर्भो नमोस्तुते॥११॥

आयुर्वलंयशोवर्चः प्रजाः पशुवसूनि च॥
ब्रह्मप्रज्ञांच मेधां चत्वं नो धेहि वनस्पते॥१२॥

सततं वरुणोरक्षेत्त्वामाराद्वृष्टिराश्रयेत्‌॥
परितस्त्वां निषेवंतां तृणानि सुखमस्तु ते॥१३॥

अक्षिस्पंदं भुजस्पंदं दुःस्वप्नंदुर्विचिंतनम्‌॥
शत्रूणां च समुत्थानं ह्यश्वत्थशमय प्रभो॥१४॥

अश्वत्थाय वरेण्याय सर्वैश्वर्यप्रदायिने॥
नमो दुःस्वप्ननाशाय सुस्वप्नफलदायिने॥१५॥

मूलतो ब्रह्मरूपाय मध्यतो विष्णुरूपिणे॥
अग्रतः शिवरूपाय वृक्षराजाय ते ममः॥१६॥

यं दृष्ट्वामुच्यते रोगैःस्पृष्ट्वापापैःप्रमुच्यते॥
यदाश्रयाच्चिरंजीवी तमश्वत्थं नमाम्यहम्‌॥१७॥

अश्वत्थ सुमहाभाग सुभगप्रियदर्शन॥
इष्टान्कामांश्चमे देहि शत्रुभ्यस्तु पराभवम्॥१८॥

आयुः प्रजां धनं धान्यं सौभाग्यं सर्वसंपदम्‌॥
देहि देव महावृक्ष त्वामहं शरणं गतः॥१९॥

ऋग्यजुःसाममंत्रात्मा सर्वरूपी परात्परः॥
अश्वत्थो वेदमूलोऽसावृषिभिः प्रोच्यते सदा॥२०॥

ब्रह्महा गुरुहाचैव दरिद्रो व्याधिपीडितः॥
आवृत्य लक्षसंख्यंतत्स्तोत्रमेतत्सुखी भवेत्॥२१॥

ब्रह्मचारी हविष्याशीत्वधःशायी जितेंद्रियः॥
पापोपहतचित्तोपि व्रतमेतत्समाचरेत्‌॥२२॥

एकदस्तं द्विहस्तंवा कुर्याद्गोमयलेपनम्‌॥

र्श्वेत्पुरुषसूक्तेन प्रणवेनविशेषतः॥२३॥

मौनी प्रदक्षिणं कुर्या कुर्यात्प्राृगुक्तफलभाग्भवेत्‌॥
विष्णोर्नामसहस्रेण ह्यच्युतस्यापिकीर्तनात्‌॥२४॥

पदे पदांतरं गत्वा करचेष्टाविवर्जितः॥
वाचा स्तोत्रं नमो ध्याने चतुरंगप्रदक्षिणम्‌॥२५॥

अश्वत्थः स्थापितो येन तत्कुलंस्थापितं ततः॥
धनायुषां समृद्धिस्तु नरकात्तारयेत्पतॄन्‌॥२६॥

अश्वत्थमूल्माश्रित्य शाकान्नोदकदानतः॥
एकस्मिन्भोजिते विप्रेकाटिब्राह्मणभोजनम्‌॥२७॥

अश्वत्थमूल्माश्रित्य जपहोमसुरार्चनात्‌॥
अक्षय्यंफलमाप्नोति ब्रह्मणो वचनं तथा॥२८॥

एवमाश्वासितोऽश्वत्थःसदा श्वासाय कल्पते॥
यज्ञार्थछेदितेश्वत्थे ह्यक्षय्यं स्वर्गमाप्नुयात्‌॥२९॥

छिन्नोयेन वृथाऽश्वत्थश्छेदिताः पितृदेवताः॥
अश्वत्थः पूजित्तो यत्र पूजिताः सर्वदेवताः॥२०॥

इति श्रीब्रह्मनारदसंवादे अश्वत्थस्तोत्रंसंपूर्णम्‌॥११८॥

अथ नवग्रहस्तोत्रप्रारंभः।

श्रीगणेशाय नमः॥

जपाकुसुमसंकाशं काश्यपेयं महाद्युतिम्‌॥
तमोरिं सर्वपापघ्नंप्रणतोस्मि दिवाकरम्॥१॥

दधिशंखतुषाराभंक्षीरोर्णवसमुद्भवम्॥
नमामि शशिनं सोमं शंभोर्मुकुटभूषणम्‌॥२॥

धरणोगर्भसंभूतं विद्युत्कांतिसमप्रभम्‌॥
कुमारं शक्तिहस्तं तंमंगलंप्रणमाम्यहम्‌॥३॥

प्रियंगुकलिकाश्यामं रूपेणाऽप्रतिमं बुधम्‌॥
सौम्यं सोम्यगुणोपेतं तंबुधं प्रणमाम्यहम्॥४॥

देवानां च ऋषीणां च गुरुंकांचनसन्निभम्‌॥
बुद्धिभूतं त्रिलोकेशंतंनमामि बृहस्पतिम्‌॥५॥

हिमकुंदमृणालाभंदेत्यानां परमं गुरुम्॥
सर्वशाश्त्रप्रवक्तारंभार्गवं प्रणमाम्यहम्‌॥६॥

नीलांजनसमाभासंरविपुत्रंयमाग्रजम्‌॥
छायामार्तंडसंभूतं तं नमामि शनैश्चरम्‌॥७॥

अर्धकायं महावीर्यं च्रंद्रादित्यविमर्दनम्॥
सिंहिकागर्भसंभूतं तंराहुंप्रजमाम्यहम्‌॥८॥

पलाशपुष्पसंकाशं तारकाग्रहमस्तकम्॥
रौद्रंरौद्रात्मकंघोरं तं केतुं प्रणमाम्यहम्‌॥९॥

इति व्यासमुखोद्गीतं यः पठेत्सुसमाहितः॥
दिवा वा यदि वा रात्रौविघ्नशांतिर्भविष्यति॥१०॥

नरनारीनृपाणां च भवेद्दुःस्वप्ननाशनम्॥
ऐश्वर्यमतुलंतेषामारोग्यं पुष्टिवर्घनम्॥११॥

ग्रहनक्षत्रजाः पीडास्तस्कराग्निसमुद्भवाः॥
ताःसर्वाःप्रशमं यांति व्यासो ब्रूते न संशयः॥१२॥

इति श्रीव्यासविरचितं नवग्रहस्तोत्रंसंपूर्णम्॥११९॥

अथ शनिस्तोत्रप्रारंभः।

श्रीगणेशाय नमः॥

अस्य श्रीशनैश्चरस्तोत्रमंत्रस्य॥
दशरथऋषिः॥
शनैश्चरो देवता॥
त्रिष्टुप्छंदः शनैश्चरप्रीत्यर्थं जपेविनियोगः॥

दशरथ उवाच॥

कोणोंतको रौद्रयमोथ बुभ्रुःकृष्णः शनिः पिगलमंदसौरिः॥
नित्यंस्मृतो यो हरते च पीडां तस्मैनमः श्रीरविनंदनाय॥१॥

सुरासुराः किंपुरुषोरगेंद्रा गंधर्वविद्याधरपन्नगाश्च॥
पीड्यंति सर्वेविषमस्थितेन तस्मैनमः श्रीरविनंदनाय॥२॥

नरा नरेंद्राः पशवो मृगेंद्रा वन्याश्च ये कीटपतंगभृंगाः॥
पीड्यंति सर्वे विषमस्थितेन तस्मैनमः श्रीरविनंदनाय॥३॥

देशाश्च दुर्गाणि वनानि यत्र सेनानिवेशः पुरपत्तनानि॥
पीड्येति सर्वेविषमस्थितेन तस्मैनमः श्रीरविनंदनाय॥४॥

तिलैर्यवैर्माषगुडान्नदानैर्लेहेन नीलांवरदानतोवा॥
प्रीणातिमंत्रैर्निजवासरे च तस्मैनमः श्रीरविनंदनाय॥५॥

प्रयागकूलेयमुनातटे चसरस्वतीपुण्यजलेगुहायाम्‌॥
यो योगिनांध्यानगतोपिसूक्ष्मस्तस्मैनमःश्रीरविनंदनाय॥६॥

अन्यप्रदेशात्स्वगृहंप्रविष्टस्तदीयवारे स नरःसुखीस्यात्॥
गृहाद्गतोयो न पुनःप्रयाति तस्मैनमः श्रीरविनंदनाय॥७॥

स्रष्टास्वभृर्भवनत्रयस्य त्राता हरीशो हरतेपिनाकी॥

एकस्त्रिधा ऋग्यजुःसाममूर्तिस्तस्मैनमः श्रीरविनंदनाय॥८॥

शन्यष्टकंयः प्रयतः प्रभाते नित्यंसपुत्रैःपशुवांधवैश्च॥
पठेच्चसौख्यं भुवि भोगयुक्तः प्राप्नोति निर्वाणपदं तदंते॥९॥

कोणस्थः पिंगलोबभ्रुःकृष्णोरौद्रोंतकोयमः॥
सौरिः शनैश्चरोमंदः पिप्पलादेन संस्तुतः॥१०॥

एतानि दशनामानि प्रातरुत्थाय यः पठेत्॥
शनैश्चरकृता पीडानकदाचिद्धविष्यति॥११॥

इतिदशरथप्रोक्तंश्रीशनैश्चरस्तोत्रंसंपूर्णम्‌॥श्रीशनैश्चरार्पणमस्तु॥१२०॥

अथ ऋणमोचकमंगलस्तोत्रप्रारंभः।

श्रीगणेशाय नमः॥

मंगलोभूमिपुत्रश्चऋणहतां धनप्रदः॥
स्थिरासनो महाकायः सर्वकामविरोधकः॥१॥

लोहितोलोहिताक्षश्चसामगानां कृपाकृरः॥
धरात्मजः कुजो भौमो भूतिदो भूमिनंदनः॥२॥

अंगारको यमश्चैव सर्वरोगापहारकः॥
वृष्टिकृर्ताऽपहर्ताच सर्वकामफलप्रदः॥३॥

एतानि कुजनामानि नित्यं यः श्रद्धया पठेत्‌॥
ऋणं न जायते तस्य धनं शीघ्रमवाप्नुयात्‌॥४॥

धरणीगर्भसंभूतं विद्युत्कांतिसपप्रभम्‌॥
कुमारं शक्तिहस्तं च मंगलंप्रणमाम्वहम्‌॥५॥

स्तोत्रमंगारकस्यैतत्पठनीयं सदा नृभिः॥
न तेपांभौमजापीडा स्वल्पापि भवति क्वचित्‌॥६॥

अंगारक महाभाग भगवन्भक्तवत्सल॥
त्वांनमामि ममाशेषमृणमाशुविनाशय॥७॥

ऋणरोगादिदारिद्यंये चान्ये चापमृत्यवः॥
भयक्लेशमनस्तापा नश्यंतु मम सर्वदा॥८॥

अतिवक्र दुराराघ्य भोगमुक्तजितात्मनः॥
तृष्टोददासिसाम्राज्यं रुष्टो हरसि तत्क्षणात्‌॥९॥

विरिंचिशक्रविष्णूनां मनुष्याणां तु का कथा॥
तेन त्वं सर्वसत्त्वेन ग्रहराजो महाबलः॥१०॥

पुत्रान्देहि धनं देहि त्वामस्मि शरणंगतः॥
ऋणदारिद्युदुःखेन शत्रूणां च भयात्ततः॥११॥

एभिर्द्वादशभिः श्लोकैयेः स्तौति च धरासुतम्‌॥

महतीं श्रीयमाप्नोति ह्यपरो धनदो युवा॥१२॥

इति श्रीस्कंदपुराणे भार्गवप्रोक्तमृणमोचकमंगलस्तोत्रंसंपूर्णम्॥श्रीमन्मंगलार्पणमस्तु॥१२१॥

अथ श्रीमच्छंक० गंगाष्टकप्रा०।

श्रीरगणेशाय नमः॥

भगवति भवलीलामौलिमाले तवांभः
कणमणुपरिमाणं प्राणिनो ये स्पृशंति॥
अमरनगरनारीचामरग्राहिणीनां
विगतकलिकलंकातंकमंके लुठंति॥१॥

ब्रह्मांडं खंडयंती हरशिरसि जटावल्लिमुल्लासयंती
स्वर्लोकादापतंती कनकगिरिगुहागंडशैलात्स्खलंती॥
क्षोणीपृष्ठे लुठंती दुरितचयचमूनिर्भरं भर्त्सयंती-
पाथोधिं पूरयंती सुरनगरसरित्पावनी नः पुनातु॥२॥

मज्जन्मातंगकुंभच्युतमदमदिरामोदमत्तालिजालं
स्नानैः सिद्धांगनानां कुचयुगविलसत्कुंकुमासंगपिंगं॥
सायंप्रातर्मुनीनां कुशकुसुमचयैश्छन्नतीरस्थनीरं
पायान्नोगांगमंभः करिकरमकराक्रांतरंहस्तरंगम्‌॥३॥

आदावादिपितामहस्य नियमव्यापारपात्रे जलं
पश्चात्पन्नगशायिनो भगवतः पादोदकंपावनम्‌॥
भूयः शंभुजटाविभूषणमणिर्जह्नोर्महर्षेरियं
कन्या कल्मषनाशिनोभगवती भागोरथी भूतले ॥४॥

शैलेंद्रादवतारिणो निजजले मज्जज्जनोत्तारिणी
पारावारविहारिणी भवभयश्रेणीसमुत्सारिणी॥
शेषांगैरनुकारिणी हरशिरोवल्ली दलाकारिणी
काशीप्रांतविहारिणी विजयते गंगामनोहारिणी॥५॥

कुतो वीचिर्वीचिस्तव यदि गता लोचनपथं
त्वमापीता पीतांबरपुरनिवासं वितरसि॥
त्वदुत्संगे गंगे पतति यदि कायस्तनुभृतां
तदा मातः शातक्वतवपदलाभोप्यतिलघुः॥६॥

भगवति तव तीरे नीरमात्राशनोऽहं
विगतविषयतृष्णः कृष्णमाराधयामि॥
सकलकलु॒षभंगे स्वर्गसोपानसंगे
तरलतरतरंगे देवि गंगे प्रसीद॥७॥

मातः शांभवि शंभुसंगमिलिते मौलौनिधायांजलिं

त्वत्तीरे बपुषोऽवसानसमये नारायणांघ्रिद्वयम्॥
सानंदं स्मरतो भविष्यति मम प्राणग्रयाणोत्सवे
भूयाद्भधक्तिरविच्युता हरिहराद्वैतात्मिका शाश्वती॥८॥

गंगाष्टकमिदं पुण्यं यः पठेत्प्रयतो नरः॥
सर्वपापविनिर्मुक्तोविष्णुलोकं स गच्छति॥९॥

इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमच्छङ्कराचार्यविरचितं गंगाष्टकस्तोत्रंसंपूर्णम्‌॥१२२॥

अथ वाल्मीकिकृतगंगाष्टकप्रारंभः।

श्रीगणेशाय नमः॥

मातः शैलसुतासपत्निवसुधाशृंगारहारावलि
स्वर्गारोहणवैजयंति भवतीं भागीरथीं प्रार्थये॥
त्वत्तीरे वसतस्त्वदंबु पिबतस्त्वद्वीचिषु प्रेंखत-
स्त्वन्नाम स्मरतस्त्वदर्पितदृशः स्यान्मे शरीरव्ययः॥१॥

त्वत्तीरे तरुकोटरांतरगतोगंगे विहंगो वरं
त्वन्नीरे नरकांतकारिणि वरं मत्स्योऽथवा कच्छपः॥
नैवान्यत्र मदांधसिंधुरघटासघंट्टघंटारणत्-
कात्रस्तसमस्तवैरिवनितालब्धस्तुतिर्भूपतिः॥२॥

उक्षा पक्षी तुरग उरगः कोऽपि वा वारणो वा
वाराणस्यां जननमरणक्लेशदुःखासहिष्णुः॥
न त्वन्यत्रप्रविरलरणत्कंकणक्वाणमिश्रं
वारस्त्रीभिश्चमरमरुता वीजितो भूमिपालः॥३॥

काकैर्निष्कुषितं श्वभिःकवलितं गोमायुभिर्लुंठितं
स्रोतोभिश्चलितं तटांबुलुलितं वीचीभिरांदोलितम्‌॥
दिव्यस्त्रीकरचारुचामरमरुत्संवीज्यमानः कदा
द्रक्ष्येहं परमेश्वरित्रिपथगे भागीरथि स्वं वपुः॥४॥

अभिनवबिसवल्लीपादपद्मस्य विष्णो-
र्मदनमथनमौलेर्मालतीपुष्पमाला॥
जयति जयपताका काप्यसौमोक्षलक्ष्म्याः
क्षपितकलिकलंकाजाह्नवी नःपुनातु॥५॥

एतत्तालतमालसालसरलव्यालोलवल्लीलता-
च्छन्नंसूर्यकरप्रतापरहितं शंखेंदुकुंदोज्ज्वलम्‌॥
गंधर्वामरतिद्धकिन्नरवधूत्तुंगस्तनास्फालितं
स्नानाय प्रतिवासरं भवतु मेगांगंजलंनिर्मल॥८॥

गागं वारि मनोहारि मुरारिचरणच्युतम्‌॥

त्रिपुरारिशिरश्चारिपापहारि पुनातु माम्॥७॥

पापापहारि दुरितारि तरंगधारि
शैलप्रचारि गिरिराजगुहाविदारि॥
झंकारकारिहरिपादरजोपहारि
गांगं पुनातु सततं शुभकारि वारि॥८॥

गंगाष्टकंपठति यः प्रयतः प्रभाते
वाल्मीकिना विरचितं शभदंमनुष्यः॥
प्रक्षाल्यगात्रकलिकल्मषपंकमाशु
मोक्षं लभेत्पतति नैव नरोभवाब्धौ॥९॥

इति श्रीवाल्मीकिना विरचितं गंगाष्टकंसंपूर्णम्॥१२२॥

अथ कालिदासकृतगंगाष्टकप्रारंमः।

श्रीगणेशायं नमः॥

कत्यक्षीणि करोटयःकति कति द्वीपिद्वीपानां त्वचः
काकोलाःकतिपन्नगाःकति सुधाधाम्नश्चखंडाः कति॥
किं च त्वं च कति त्रिलोकजननि त्वद्वारिपुरोदरे
मज्जज्जंतुकदंबकंसमुदयत्येकैकमादाय यत्‌॥१॥

देवि त्वत्पुलिनांगणे स्थितिजुषां निर्मानिनां ज्ञानिनां
स्वल्पाहार निबद्धशुद्धवपुषां तार्णं गृहंश्रेयते॥

नान्यत्र क्षितिमंडले श्वरशतैःसंरक्षितो भूपतेः
प्रासादोललनागणैरधिगतो भोगींद्रभोगान्नतः॥२॥

तत्तत्तीर्थगतैःकदर्थनशतैःकिंतेरनर्थाश्रितै-
र्ज्योतिष्टोममुखैःकिमीशविमुखैर्यज्ञैरवज्ञादृतैः॥
सूते केशववासवादिविबुधा गाराभिरामां श्रियं गंगे
देवि भवत्तटे यदि कुटीवासः प्रयासं विना॥३॥

गंगातीर मुपेत्य शीतलशिलामालंब्य हैमाचलीं

यैराकीर्णकुतूहलाकुलतया कल्लोलकोलाहलः॥
ते शृण्वंति सुपर्व पर्वतशिलासिंहासनाध्यासनाः
संगीतागमशुद्धासिद्धरमणीपंजीरधीरध्वनिम्‌॥४॥

दुरं गच्छसकच्छगं च भवतो नालोकयामो
मुखं रे पारकवराक साकमितरैर्नाकप्रदैर्गम्यताम्‌॥
सद्यःप्रौद्यतमंदमारुतरजः प्राप्ता कपोलस्थले
गंगांभः कणिकाविमुक्तगणिका संगाय संभाव्यते॥५॥

विष्णोः संगातिकारिणी. हरजटाजूटाटवीचारिणी

प्रायश्चिःतनिवारिणी जलकणैःपुण्यौधविस्तारिणी॥

भूभृत्कंद्रदारिणी निमजले मज्जज्जनोद्धारिणी
श्रेयः स्वर्गविहारिणी विजयते गंगा मनोहारिणी॥६॥

वाचालंविकलंखलंश्रियमलंकामाकुलं व्याकुलं
चांडालं तरलंनिपीतगरलंदोषाविलं चाखिलम्‌॥
कुंभीपाकगतंतमंतककरादाकृष्य कस्तारयेन्-
मातर्जन्हुनरेंद्रनंदिनितवस्वल्पोदबिंदुं विना॥७॥

श्लेष्मश्लेषणयानलेऽमृरतविलेकाशाकुले व्याकुले
कंठेघर्घरघोषनादमलिने काये च संमीलति॥
यां ध्यायन्नपि भारभंगुरतरां प्राप्नोति मुक्तिं नरः
स्नातुश्चेतसिजाह्नवी निवसतांसंसारसंतापहृत्॥८॥

इति श्रीमत्कालिदासविरचितं गंगाष्टकस्तोत्रंसंपूर्णम्‌॥३२४॥

भ्रीमद्गङ्गार्पणमस्त॥

अथ गङ्गाष्टकप्रारंभः।

आगणेशाय नमः॥

नमस्तेऽस्तु गंगे त्वदंगप्रसंगाद्भुजंगास्तरंगाः कुरंगाः प्लवंगाः॥
अनंगारिरंगाः सगंगाः शिवांगा भुजंगाधिपांगीकृतांगा भवंति॥१॥

नमो जह्नुकन्ये नमन्ये त्वदन्यैर्निसर्गेदुचिह्नादिभिर्लोकभर्तुः॥
अतोऽहं नतोहंसतो गौरतोये वसिष्ठादिभिर्गीयमानाभिधेये॥२॥

त्वदामज्जनात्सज्जनो दुर्जनो वा विमानैःसमानैः समानैर्हिमानः॥
समायाति तस्मिन्पुरारातिलोके पुरद्वारसंरुद्धदिक्पाललोके॥३॥

स्वरावासदंभोलिदंभोऽपिरंभापरीरंभसंभावनाधीरचेतः॥
समाकांक्षतेत्वत्तटे वृक्षवाटीकुर्टीरे वसन्नेतुमायुर्दिनानि॥४॥

त्रिलोकस्य भर्तुर्जटाजूटबंधात्स्वसीमांतभागेमनाक्प्रस्खलंतः॥
भवान्या रुषा प्रौढसापत्नभावात्करेणाहतास्त्वत्तरंगा जयंति॥५॥

जलोन्मज्जदैरावतोद्दानकुंभस्फुरत्प्रस्खलत्सांद्रसिंदूररागे॥
क्वचित्पद्मिनीरेणुभंगे प्रसंगे मनः खेलतां जन्हुकन्यातरंगे॥६॥

भवत्तीरवानीरवातोत्थधूलीलस्पर्शतस्तत्क्षणं क्षीणपापः॥
जनोऽयं जगत्पावने त्वत्प्रसादात्पदे पौरुहूतेऽपि धत्तेऽवहलाम्‌॥७॥

त्रिसंध्यानमल्लेखकोटीरनाना विधानेकरत्नांशुविंबप्रभाभिः॥
स्फुरत्पादपीठे हठेनाष्टमूर्तेर्जटाजूटवासे नताः स्मः पदं ते॥८॥

इदं यः पठेदष्टकं जन्हुपुत्र्यास्त्रिकालं कृतं कालिदासेन रम्यम्‌॥
समायास्यतींद्रादिभिर्गीयमानं पदं कैशवंशैशवं नो लभेत्सः॥९॥

इति श्रीकालिदासकृतं गंगाष्टकस्तोत्रंसंपूर्णम्‌॥१२९॥ श्रीमद्गङ्गार्पणमस्तु॥

अथ गंगास्तवप्रारंभः। `

श्रीगणेशाय नमः॥
सूत उवाच॥

शृणुध्वंमुनयः सर्वेगंगास्तवमनुत्तमम्‌॥
शोकमोहहरं पुंसामृषिभिः परिकीर्तितम्‌॥१॥

ऋषय उचुः॥

इयंसुरतरंगिणी भवनवारिधेस्तारिणी
स्तुता हरिपदांबुजादुपगता जगत्संसदः॥
सुमेरुशिखरामर प्रियजलामलक्षालिनी
प्रसन्नवदना शुभा भवभयस्थ विद्राविणी॥२॥

भगीरथरथानुगा सुरकरींद्रदर्पापहा
महेशमुकुटप्रभा गिरिशिरःपताका सिता॥

सरासुरनरोरगैरजभवाच्युतैःसंस्तुता
विमुक्तिफलशालिनी कलुपनाशिनी राजते॥३॥

पितामहकमंडलुप्रभवमुक्तिबीजा लता
श्रुतिस्मृतिगणस्तुतद्विजकुलालवालावृता॥
सुमेरुशिखराद्धिदा निपतिता त्रिलोकावृता
सुधर्मफलशालिनीसुखपलाशिनी राजते॥४॥

चरद्विहगमालिनी सगरवंशमुक्तिप्रदा
मुनींद्रवरनंदिनी दिवि मता च मंदाकिनी॥
सदा दुरितनाशिनी विमलवारिसंदर्शन-
प्रणामगुरुकीर्तनादिषु जगत्सु संराजते॥५॥

महाभिषसुतांगना हिमगिरीशाकूटस्तना
सफेजलहासिनी सितमरालसञ्चारिणी॥
चलल्लहरिसत्करा वरसरोजमालाधरा
रसोल्लसितगामिनीजलधिकामिनी राजते॥६॥

क्वचिन्मुनिगणैःस्तुता क्वचिदनंतसंपूजिता
क्वचित्कलकलस्वना क्वचिदधीरयादोगणा॥
क्वचिद्रविकरोज्ज्वलाक्वचिदुदग्रपाताकुला
क्वचिज्जनविगाहिता जयति भीष्ममाता सती॥७॥

स एव कुशलीजनः प्रणमतीह भागीरथीं
स एव तपसां निधिर्जपतिजाह्नवीमादरात्‌॥
स एव पुरुषोत्तमः स्मरति साधु मंदाकिनीं
स एव विजयी प्रभुः सुरतरंगिणीं सेवते॥८॥

तवामलजलाचितं खगसृगालमीनक्षतं
चलल्लहरिलोलितं रुचिरतीरजंबालितम्॥
कदा निजवपुर्मुदा सुरनरोरगैःसंस्तुतोऽप्यहं
त्रिपथगामिनी प्रियमतीव पश्याम्यहो॥९॥

त्वत्तीरे वसतिं तवामलजलस्नानं तव प्रेक्षणं
त्वन्नामस्मरणं तवोदियकथा संलापनं पावनम्‌॥
गंगे मे तव सेवेनैकनिपुणोप्यानंदितश्चादृतः
स्तुत्वात्वोद्गतपातको भुवि कदा शांतश्चरिष्याम्यहम्‌॥१०॥

इत्येतदृपिभिः प्रोक्तं गंगास्तवनमुत्तमम्‌।
स्वर्ग्यं यशस्यमायुष्यं पठनाच्छ्रवणादपि॥११॥

सर्वपापहरं पुंसां बलमायुर्विवर्धनम्॥
प्रातर्मध्याह्नासायाह्नेगंगासान्निध्यता भवेत्॥१२॥

इत्येतद्धार्गवाख्यानं शुकदेवान्मया श्रुतम्॥

पठितं श्रावितंचात्र पुण्यं धन्यं यशस्करम्॥१३॥

अवतारं महाविष्णोः कल्केः परममद्भुतम्॥
पठतां शृण्वतां भक्त्या सर्वाशुभविनाशनम्‌॥१४॥

इति श्रीकल्किपुराणेऽनुभागवते भविष्ये तृतीयांशेऋषिकृतो गंगास्तवः संपूर्णः॥१२६॥

सत्यज्ञानानंदतीर्थकृतगंगाष्टकप्रा०।

श्रीगणेशाय नमः॥

यदवधि तव नीरं पातकी नैति गंगे
तदवधि मलजालैर्नैव मुक्तः कलौस्यात्‌॥
तव जलकणिकाऽलंपापिनां पापशुद्ध्यै
पतितप रमदीनांस्त्वं हि पासि प्रपन्नान्॥१॥

तव शिवजललेशं वायुनीतं समेत्य
सपदि निरयजालंशुन्यतामेति गंगे॥
शमलगिरिसमूहाः प्रस्फुटंति प्रचंडास्त्वयि
सखि विशतां नः पापशंका कुतः स्यात्‌॥२॥

तव रवजलजालंनिःसृतं यर्हि
गंगे सकलभुवनजाल पूतपूतं तदाऽभूत्॥
यमभटकलिवार्तादेविलुप्तायमोऽपि
व्यधिकृतवरदेहाः पूर्णकामाः सकामाः॥३॥

मधुमधुवनपूगैरत्नपूगैर्नृपूगै
र्मधुमधुवनपूगेर्देवपूगैःसपूगैः॥
पुरहरपरमांगे भासि मायेव गंगै
समयसि विषतापंदेवदेवस्य वंद्यम्‌॥४॥

चलितशशिकुलाभैरुत्तरंगै स्तरंगैर-
मितनदनदीनामंगसंगैरसंगैः॥
विहरसि जगदंडे खंडयंतीगिरीेंद्रान्‌
रमयसिनिजकांतंसागरं कांतकांते॥५॥

तव परमहिमानं चित्तवाचाममानं
हरिहरविधिशक्रानादि गंगे विदंति॥
श्रुतिकुलमभिधत्ते शंकितं तं गुणांतं
गुणगणसुविलापैर्नेति नेतीति सत्यम्‌॥६३॥

तवनुतिनति नामान्यप्यधंपावयंति ददति
परमशांतिंदिव्यभोगाञ्जनानाम्‌॥
इति पतितशरण्ये त्वां प्रपन्नोऽस्मि
मातर्ललिततरतरंगेचांग गंगे प्रसीद॥७॥

शुभतरकृतयोगाद्विश्वनाथ-
प्रसादाद्भवहरवरविद्यांप्राप्य काश्यांहि गंगे॥
भगवति तव तीरे नीरसारं निपीय
मुदितहृदयकंजेनंदसूनुं भजेऽहम्‌॥८॥

गंगाष्टकमिदंकृत्वा भुक्तिमुक्तिप्रदं नृणाम्‌॥

सत्यज्ञानानं

दतीर्थयतिना स्वर्पितं शिवे॥९॥

तेन प्रीणातुभगवाञ् शिवो गंगाधरो विभुः॥
करोतु शंकरःकाश्यां जनानां सततं शिवम्॥१०॥

इति सत्यज्ञानानंदतीर्थयतिना विरचितंगंगाष्टकं सं०॥१२७॥

अथ नर्मदाष्टकप्रारंभः।

श्रीगणेशाय नमः॥

सबिंदुसिंधुसुस्खलत्तरंगभंगरंजितं
द्विषत्सु पापजातजातकारिवारिसंयुतम्॥
कृतांतदूतकालभूतभीतिहारिवर्मदे
त्वदीययपादपंकजं नमामि देवि नर्मदे॥१॥

त्वदंबुलीनदीनमीनदिव्यसंप्रदायकं कलौ
मलौघभारहारिसर्वतीर्थनायकम्‌॥
सुमत्स्यकच्छनक्रचक्रचक्रवाकशर्मदे
त्वदीयपादपंकजं नमामि देवि नर्मदे॥२॥

महागभीरनीरपूरपापधूतभूतलं
ध्वनत्समस्तपातकारिदारितापदाचलम्॥
जगल्लये महाभये मृकंडुसूनुहर्म्यदे
त्वदीयपादपं०॥३॥

गतं तदैव मे भयं त्वदंबु वीक्षितं यदा
मृकंडुसूनुशौनकासुरारिसेवि सर्वदा॥

पुनर्भवाब्धिजन्मजं भवाब्धिदुःखवर्मदे
त्वदीयपादपं०॥४॥

अलक्षलक्षकिन्नरामरासुरादिपूजितं
सुलक्षनीरतीरधीरपक्षिलक्षकूजितम्‌॥
वसिष्ठशिष्टपिप्पलादिकर्दमादिशर्मदे
त्वदीयपाद०॥५॥

सनत्कुमारनाचिकेतकश्यपात्रिषट्पदै-
र्धृतंस्वकीयमानसेषु नारदादिषट्पदैः॥
रवींदुरंतिदेवदेवराजकर्मशर्मदे
त्वदीयपाद०॥६॥

अलक्षलक्षलक्षपापलक्षसारसायुधं
ततस्तुजीवजंतुतंतुभुक्तिमुक्तिदायकम्‌॥
विरिंचिविष्णुशंकरस्वकीयधामवर्मदे
त्वदीयपाद०॥७॥

अहोमृतं स्वनं श्रुतं महेशकेशजातटे
किरातसूतवाडवेषुपंडिते शठे नटे॥
दुरंतपापतापहारि सर्वजंतुशर्मदे
त्वदीयपाद०॥८॥

इदं तु नर्मदाष्टकं त्रिकालमेव ये सदा
पठंति ते निरंतरं न यांति दुर्गतिं कदा॥
सुल्भ्यदेहदुर्ल्लभं महेशधामगौरवं
पुनभर्वानरा न वैविलोकयंतिरौरवम्‌॥९॥

इति श्रीमच्छङ्कराचार्यविरंचितं नर्मदाष्टकस्तोत्रंसंपूर्णम्‌॥१२८॥॥४॥

अय यमुनाष्टकप्रारंभः।

श्रीगणेशाय नमः॥

मुरारिकायकालिमाललामवारिधारिणी
तृणीकृतत्रिविष्टपा त्रिलोकशोकहारिणी॥
मनोऽनुकूलकूलकुंजपुंजधूतदुर्मदा
धुनोतु मे मनोमलं कलिंदनंदिनी सदा॥१॥

मलापहारिवारिपूरिभूरिमंडितामृता
भृशं प्रपातकप्रपंचनातिपंडितानिशा॥
सुनंदनंदिनांगसंगरागरंजिताहिता
धुनो०॥२॥

लसत्तरंगसंगधूतभूतजातपातका
नवीनमाधुरोधुरीणभक्तिजातचातका॥
तटांतवासदासहंससंसृताह्निकामदा
धुनोतु०॥३॥

विहाररासखेदभेद्धीरतीरमारुता
गता गिरामगोचरे यदीयनीरचारुता॥
प्रवाहसाहचर्यपूतमेदिनीनदीनदा
धुनोतु०॥४॥

तरंगसंगसैकतांतरांतितं सदासिता
शरन्निशाकरांशुमंजुमंजरी सभाजिता॥
भवार्चनाप्रचारुणांबुनाधुनाविशारदा
धुनोतु०॥

जलांतकेलिकारिचारुराधिकांगरागिणी
स्वभर्तुरन्यदुर्लभांगतांगतांशभागिनी॥
स्वदत्तसुप्तसप्तसंधुभेदिनातिकोविदा
धुनो०॥६॥

जलच्युताच्युतांगरागलंपटालिशालिनी
विलोलराधिकाकचांत चंपकालिमालिनी॥
सदावगाहनावतीर्णभर्तृभृत्यनारदा
धुनोतु०॥७॥

सदैव नंदिनंदकेलिशालि कुंजमंजुला
तटोत्थफुल्लमल्लिकाकदंबरेणुसूज्ज्वला॥
जलावगाहिनां नृणां भवाब्धिसिंधुपारदा
धुनोतु०॥८॥

इति श्रीमच्छङ्कराचार्यविरचितंयमुनाष्टकंसंपूर्णम्‌॥१२९॥

अथयमुनाष्टकप्रारंभः।

श्रीगणेशाय नमः॥

कृपापारावारांतपनतनयां तापशमनीं
मुरारिप्रेयस्यां भवभयदवां भक्तिवरदां॥
वियज्जालान्मुक्तां श्रियमपिसुखाप्तेःपरिदिनं
सदा धीरो नूनं भजति यमुनां नित्यफलदाम्‌॥१॥

मधुवनचारिणि भास्करवाहिनि जाह्नविसंगिनि सिन्धुसुते

मधुरिपुभूषिणि माधवतोषिणिगोकुलभीतिविनाशकृते॥
जगदघमोचनि मानसदायिनि केशवकेलिनिदानगते
जय यमुने जय भीतिनिवारिणि संकटनाशिनि पावय माम्‌॥२॥

अयि मधुरे मधुमोदविलासिनि शैलविदारिणि वेगभरे
परिजनपालिनि दुष्टनिषूदिनि वांछितकामविलासधरे॥
ब्रजपुरवासिजनार्जितपातकहारिणि विश्वजनोद्धरिके
जय यमुने जय भीति०॥३॥

अतिविपदाम्बुधिमग्नजनं भवतापशताकुलमानसकं
गतिमतिहीनमशेषभयाकुलमागतपादसरोजयुगम्‌॥
ऋणभयभीतिमनिष्कृतिपातककीटिशतायुतपुंजतरं
जय यमुने०॥४॥

तवजलदद्युतिकोटिलसत्तनुहेममयाभरणांचितके
तडिद्वहेलिपदांचलचंचलशोभितपीतसुचैलधरे॥
मणिमयभूषणचित्रपटासनरंजितगंजितभानुकरे
जय यमुने०॥५॥

शुभपुलिने मधुमत्तयदूद्धवरासमहोत्सवकेलिभरे

उच्चकुलाचलराजितमैक्तिकहारमयाभररोदसिके॥
नवमणिकोटिकभास्करकंचुकिशोभित तारकहारयुते
जय यमुने०॥६॥

करिवरमौक्ति
कनासिकभूषणवातचमत्कृतचंचलके॥
मणिगण कुंडललोलपरिस्फुरदाकुलगण्डयुगामलके
जय यमुने०॥७॥

कलरवनूपुरहेममयांचितपादसरोरूहसारुणिके
धिमिधिमिधिमिधिमितालबिनोदितमानसमंजुलपादगते॥
तव पदपंकजमाश्रितमानवचित्तसदाखिलतापहरे
जय यमुने०॥८॥

भवोत्तापांभोधौनिपतितजनो दुर्गतियुतो
यदि स्तौति प्रातः प्रतिदिनमनन्याश्रयतया॥
हयाह्नेषैःकामंकरकुसुमपुंजैरविसुतां
सदा भोक्ता भोगान्मरणसमये याति हरिताम्‌॥९॥

इति श्रीमत्पर० श्रीमच्छंकराचार्यविरचितं यमुनाष्टकं संपूर्णम्‌॥१३०॥

अथ सरस्वत्यष्टकप्रारंभः।

श्रीगणेशाय नमः॥
शतानीकउवाच॥

महामते महाप्राज्ञ सर्वशास्त्रविशारद॥
अक्षीणकर्धबंधस्तु पुरूषो द्विजसत्तम॥१॥

मरणे यज्जपेज्जाप्यं यं च भावमनुस्मरन्‌॥
परं पदमवाप्नोति तन्मे ब्रूहि महामुने॥२॥

शौनक उवाच॥

इदमेव महाराज पृष्टवांस्ते पितामहः॥
भीष्मं धर्म विदां श्रेष्ठं धर्मपुत्रोयुधिष्ठिरः॥३॥

युधिष्टिर उवाच॥

पितामह महाप्राज्ञ सर्वशास्त्रविशारद॥
वृहस्पतिस्तुता देवी वागीशाय महात्मने॥
आत्मानंदर्शयामास सूर्यकोटिसमप्रभम्‌॥४॥

सरस्वत्युवाच॥

वरं वृणीष्व भद्रं ते यत्ते मनसिवर्तते॥

बृहस्पतिरुवाच॥

यदि मे वरदा देवि दिव्यज्ञानं प्रयच्छमः॥५॥

देव्युवाच॥

हंत ते निर्मलंज्ञानं कुमतिध्वंसकारकम्॥
स्तोत्रेणानेन ये भक्त्या मां स्तुवंतिमनीषिणः॥६॥

बृहस्पतिरूवाच॥

लभते परमं ज्ञानं यत्सुरैरपि दुर्लभम्‌॥
प्राप्नोति पुरूषो नित्यंमहामायाप्रसादतः॥७॥

सरस्वत्युवाच॥

त्रिसंध्यं प्रयतो नित्यंपठेदष्कमुत्तमम्‌॥
तस्य कंठे सदावासं करिष्यामि न संशयः॥८॥

इति श्रीपद्मपुराणे दिव्यज्ञानप्रदायकंसरस्वत्यष्टकस्तोत्रं स०॥१३१॥

अथ पुष्कराष्टकप्रारंभः।

श्रीगणेशाय नमः॥

त्रियायुतं त्रिदेहतापपापराशिनाशकं
मुनींद्रसिद्धसाध्यदेवदानवैरभिष्टुतम्‌॥
तटेऽसिति यज्ञपर्वतस्य मुक्तिदंसुखाकरं
नमामि ब्रह्मपुष्करं सवैष्णवं सशंकरम्‌॥१॥

सदार्यमासशुष्कपंचवासरे वरागतं
तदन्यथांतरिक्षगं सुतंत्रभावनायुगम्‌॥
सदंवुपानमज्जनं दृशां सदामृताकरं
नमामि०॥२॥

त्रिपुष्कर त्रिपुष्कर त्रिपुष्करेतिसंस्मरेत्-
स दूरदेशगोऽपियस्तंदगपापनाशनम्॥
प्रपन्नदुःखभंजनं सुरंजनं सुधाकरं
नमामि०॥३॥

मृकंडुमंकणौपुलस्त्यकण्वपर्वतासिता
अगस्त्य भार्गवौदधीचिनारदोशुकादयः॥
सपद्मतीर्थपावनैकदृष्टयोदयाकरं
नमामि०॥४॥

सदा पितामहेक्षितं वराहविष्णुनेक्षितं
तथाऽमरेश्वरेक्षितं सुरासुरैःसमीक्षितम्॥
इहैव भुक्तिमुक्तिदं प्रजाकरं घनाकरं
नमामि०॥५॥

त्रि

दंडिदंडिव्रह्मचारितापसैःसुसेवितं
पुरार्द्धचंद्रप्राप्तदेवनंदिकेश्वराभिधैः॥
सवैद्यनाथनीलकंठसेवितं सुधाकरं
नमामि०॥६॥

सुपंचधा सरस्वती विराजते यदंतरे
तथैकयोजनायतं विभाति तीर्थनायकम्‌॥
अनेकदैवपैत्रतीर्थसागरं रसाकरं
नमामि०॥७॥

यमादिसंयुतो नरस्त्रिपुष्करंनिमज्जति
पितामहश्च माधवोप्युमाधवः प्रसन्नताम्‌॥
प्रयाति तत्पदं ददात्ययत्नतो गुणाकरं
नमामि०॥८॥

इदंहि पुष्कराष्टकं सुनीतिनीरजाश्रितं
स्थितं मदीयमानसे कदापि माऽपगच्छतु॥
त्रिसंध्यमापठंतिये त्रिपुष्कराष्टकंनराः
प्रदीप्तदेहभूषणाभवंति मेशकिंकराः॥९॥

इति०श्रीपुष्क०॥१३२॥

अथ श्रीमणिकर्णिकाष्टकप्रारंभः॥

श्रीगणेशाय नमः॥

त्वत्तीरे मणिकर्णिके हरिहरौसायुज्यमुक्तिप्रदौ
वादं तौकुरूतः परस्परभुजौजंतोः प्रयाणोत्सबे॥
मद्रूपो मनुजोऽयमस्तु हरिणाप्रोक्तः शिवस्तत्क्षणात्-
तन्मध्याद्भृगुलाञ्छनोगरूडगः पीतांबरो निर्गतः॥१॥

इंद्राद्यास्त्रिदशाः पतंति नियतं भोगक्षये ये पुन-
र्जायंते मनजास्ततोपि पशवः कोटाः पतंगादयः॥
ये मातर्मणिकर्णिके तवजले मज्जंति निष्कल्मषाः
सायुज्येऽपि किरीटकौस्तुभधरा नारायणाः स्यर्नरा॥२॥

काशी धन्यतमा विमुक्तनगरी सालंकृता गंगया
तत्रेयं माणिकर्णिका सुखकरी मुक्तिर्हितत्किंकरी॥
स्वर्लोकस्तुलितः सहैव विवुधैःकाश्यासमं ब्रह्मणा
काशीक्षोणितले स्थिता गुरुतरा स्वर्गो लघुः खे गतः॥३॥

गंगातीरमनुत्तमं हि सकलं तत्रापि काश्युत्तमा
तस्यां सा मणिकर्णिकोत्तमतमा यत्रेश्वरो मक्तिदः॥
देवानामपि दुर्ल्लभं स्थलमिदं पापौघनाशक्षमं
पूर्वोपार्जितपुण्यपुंजगमकं पुण्यैर्जनैःप्राप्यते॥४॥

दुःखांभोनिधिमग्नजंतुनिवहास्तेषां कर्थनिष्कृति-
र्ज्ञात्वा तद्धि विरंचिना विरचिता वाराणसी शर्मदा॥
लोकाः स्वर्गसुखास्ततोपिलघवो भोगांतपातप्रदाः
काशी मुक्तिपुरी सदा शिवकरीधर्मार्थकामोत्तरा॥५॥

एकोवेणुधरोधराध्रधरः श्रीवत्सभूषाधरो
योप्येकः किलशंकरो विषधरो गंगाधरो माधवः॥
ये मातर्मणिकर्णिके तव जलेमज्जंति ते मानवा
रुद्रा वा हरयोभवंति बहवस्तेषांबहुत्वंकथम्‌॥६॥

त्वत्तीरे मरणं तु मंगलकरं देवैरपि श्लाध्यते
शक्रस्तं मनुजं सहस्रनयनैर्द्रष्टुं सदा तत्परः॥
आयांतं सविता सदस्रकिरणैःप्रत्युद्गतोऽभूत्सदा
पुण्योऽसौवृषभोऽथ वा गरुडगः किं मंदिरं यास्यति॥७॥

मध्याह्ने मणिकर्णिकास्नपनजं पुण्यं न वक्तुंक्षमः
स्वीयैरब्दशतैश्चतुमुखसुरा वेदार्थदीक्षागुरः॥
योगाभ्यासवलेन चंद्रशिखरस्तत्पुण्यपारं गत-
स्त्वत्तीरे प्रकरोति सुप्तपुरुषं नारणं वा शिवम्‌॥८॥

कृच्छ्रैःकोटिशतैः स्वपापनिधनं यच्चाश्वमेधैःफलं
तत्सर्वं मणिकर्णिकास्नपनजेपुण्ये प्रविष्टं भवेत्‌॥
स्नात्वा स्तोत्रमिदं नरः पठति चेत्संसारपाथोनिधिं
तीर्त्वा पल्वलवत्प्रयाति सदनं तेजोमयं ब्रह्मणः॥९॥

इति श्रीमच्छङ्कराचार्यविरचितं मणिकर्णिकाष्टकस्तोत्रं संपूर्णं॥१३३॥

अथ प्रयागाष्टकप्रारंभः।

श्रीगणेशाय नमः॥
मुनयऊचुः॥

सुरमुनिदितिजेन्द्रः सेब्यते योऽस्त-
तंद्रैर्गुरुतरदुरितानां काकथामानवानाम्‌॥
स भुविसुकृतकर्तुर्वांछितावाप्तिहेतुर्जयति
विनितयागस्तीर्थराजः प्रयागः॥१॥

श्रुतिः प्रमाणं स्मृतयः प्रमाणं पुराणमप्यत्रपरं प्रमाणम्‌॥
यत्रास्ति गंगा यमुना प्रमाणं स तीर्थराजो जयति प्रयागः॥२॥

न यत्रयोगाचरणप्रतीक्षा न यत्र यज्ञोष्टिविशिष्टदीक्षा॥
न तारकनज्ञानगुरोरपेक्षा स तीर्थराजोजयतिप्रयागः॥३॥

चिरं निवासं न समीक्षते यो ह्युदारचित्तः प्रददाति च्चक्रमात्‌॥
यः कटिपतार्थाश्च ददाति पुंसः स तीर्थरा०॥४॥

यत्राप्लुतानां न यमो नियंता यत्रास्थितानां सुगतिप्रदाता॥
यत्राश्रितानाममृतप्रदातासतीर्थराजो०॥५॥

पुर्यःसप्तः प्रसिद्धाः प्रतिवचनकरीस्तीर्थराजस्य नार्यो
नैकट्यान्मुक्तिदानेप्रभवति सुगुणा काश्यते व्रह्म यस्याम्‌॥
सेयं राज्ञी प्रधाना प्रियवचनकरीमुक्तिदानेन युक्ता येन
ब्रह्मांडमध्ये स जयति सुतरां तीर्थराजः प्रयागः॥६॥

तीर्थावली यस्य तु कंठभागे दानावलीवल्गतिपापमूले॥
ब्रतावलीदक्षिणपादमूरे स तीर्थराजोयति प्रयागः॥७॥

आज्ञापि यज्ञा प्रभवोपि यज्ञाः सप्तर्षिसिद्धाः सुकृतानमिज्ञाः॥
विज्ञापयंतः सततं हि काले सतीर्थरा०॥८॥

सितासिते यत्रतरंगचामरे नद्यौविभाते मुनिभानुकन्यके॥
लीलतपत्रंवट एव साक्षात्सतीर्थराजो ज०॥९॥

तीर्थराजप्रयागस्य माहात्म्यं कथयिष्यतः॥
शृण्वतः सततं भक्त्या वांछितं फलमाप्नुयात्‌॥१०॥

इति श्रीपत्स्यपुराणेप्रयागराजमाहात्म्याष्टकंसं०॥१३४॥

अथकाशीपञ्चकप्रारंभः।

श्रीगणेशाय नमः॥

मनोनिवृत्तिः परमोपशांतिः सा तीर्थवर्यामणिकर्णिका च॥
ज्ञानप्रवाहाविमलादिगंगा सा काशिकाहं निजबोधरूपा॥१॥

यस्यामिदं कल्पितमिंद्रजालं चराचरं भाति मनोविलासम्‌॥
सच्चित्सुखैका परमात्मरूपा सा का०॥२॥

कोशेषु पंचस्वधिराजमानबुद्धिर्भवानीप्रतिदेहगेहम्॥
साक्षी शिवः सर्वगतोंतरात्मा सा का०॥३॥

काश्यांहि काशते काशी काशीसर्वप्रकाशिका॥
सा काशी विदिता येन तेन प्राप्ताहि काशिका०॥४॥

काशीक्षेत्रंशरीरं त्रिभुवनजननी व्यापिनी ज्ञानगंगा
भक्तिःश्रद्धा गयेयं निजगुरुचरणध्यानयोगः प्रयागः॥

विश्वेशोयं तुरीयंसकलजनमनःसाक्षिभूतोंऽतरात्मा
देहे सर्वंमदीये यदि वसति पुनस्तीर्थमन्यत्किमस्ति॥५॥

इति श्रीमच्छङ्कराचार्यविरचितं काशीपंचकं संपूर्णम्॥३३५॥

सङ्कटानामाष्टकम्।

श्रीगणेराय नमः॥
नारदउवाच॥
ॐ॥

जैगीषव्य मुनिश्रेष्ठंसर्वज्ञ सुखदायक॥
आख्यातानि सुपुण्यानि श्रुतानि त्वत्प्रसादतः॥१॥

न तृप्तिमधिगच्छामि तव वागमृतेन च॥
वदस्वैकंमहाभाग संकटाख्यानसुत्तमम्‌॥२॥

इति तस्य वचः श्रुत्वा जैगीषव्योब्रवीत्ततः॥
संकष्टनाशनं स्तोत्रं शृणु देवर्षिसत्तम॥३॥

द्वापरे तु पुरावृत्ते भ्रष्टराज्यो युधिष्ठिरः॥
भ्रातृभिः सहितो राज्यनिर्वेदं परमं गतः॥४॥

तदानीं तु ततः काशींपुरीं यातो मदामुनिः॥
मार्कंडेय इति ख्यातः सह शिष्यैर्महायशाः॥५॥

तं दृष्ट्वास समुत्थाय प्रणिपत्य सुपूजितः॥
किमर्थंंम्लानवदनएतत्त्वंमां निवेदय॥६॥

युधिष्ठिर उवाच॥

संकटं मे महत्प्राप्तमेतादृग्वदनं ततः॥
एतन्निवारणोपायं किंचिद्धूहिमुने मम॥७॥

मार्कंडेयं उवाच॥

आनन्दकानने देवी संकटा नाम विश्रुता॥
वीरेश्वरोत्तरे भागे पूर्वं चन्द्रेश्वरस्य च॥८॥

शृणु नामाष्टकं तस्याः सर्वसिद्धिकरंनृणाम्‌॥
संकटा प्रथमं नाम द्वितीयं विजया तथा॥९॥

ततीयं कामदा प्रोक्तं चतुर्थं दुःखहारिणी॥
शर्वाणी पंचमंनाम षष्ठंकात्यायनी तथा॥१०॥

सप्तमं भीमनयना सर्वरोगहराऽष्टमम्‌॥
नामाष्टकमिदं पुण्यं त्रिसंध्यंश्रद्धयान्वितः॥११॥

यः पठेत्पाठयेद्वापि नरो मुच्येत संकटात्॥
इत्युक्त्वा तु नरश्रेष्ठमृषिर्वाराणसीं ययौ॥१२॥

इति तस्य वचःश्रुत्वा नारदोहर्षनिर्भरः॥
ततः संपूज्य तां देवीं वीरेश्वरसमन्विताम्‌॥१३॥

भुजैस्तु दशभिर्युक्तां लोचनत्रयभूषिताम्॥
मालाकमंडलुयुतांपद्मशंखगदायुताम्‌॥१४॥

त्रिशुलडमरुधरां सङ्गचर्मविभूषिताम्‌॥

वरदाभयहस्तां तांप्रणम्य विधिनंदनः॥१५॥

वारत्रयं गृहीत्वा तु ततोविष्णुपुरं ययौ॥
एतत्स्तोत्रस्य पठनंपुत्रपौत्रविवर्धनम्॥१६॥

संकष्टनाशनंचैवत्रिषुलोकेषुविश्रुतं॥
गोपनीयंप्रयत्नेन महावंध्याप्रसूतिकृत्॥३७॥

इति श्रीपद्मपुराणेसंकटानामाष्टकंसंपूर्णम्॥१३६॥

अथ सत्यव्रतोक्तदामोदरस्तोत्रम्।

श्रीगणेशाय नमः॥

सिंधुदेशोद्भवी विप्रो नाम्नासत्यव्रतः सुधीः॥
विरक्तइंद्रियार्थेभ्यस्त्यक्त्वापुत्रगृहादिकम्॥१॥

वृंदावनेस्थितः कृष्णमारराधदिवानिशं॥
निःस्वःसत्यव्रतो विप्रो निर्जने व्यग्रमानसः॥२॥

कार्तिके पूजयामास प्रीत्या दामोदरंनृप॥
तृतीयेऽह्निसंकृद्भुक्ते पत्रंमूलं फलं तथा॥३॥

पूजयित्वा हरिं स्तौति प्रीत्या दामोदराभिधम्‌॥४॥

सत्यव्रत उवाच॥

नमामीश्वरं सच्चिदानंदरुपंलसत्कुंडलंगोकुलेभ्राजमानं॥
यशोदाभियोलूखलेधावमानं परामृष्टमत्यंततो दतगोप्या॥५॥

रुदंतं मुहुर्नेत्रयुग्मं मृजंतं कराम्भोजयुग्मेन सातंकनेत्रं॥
मुहुःश्वासकंपत्रिरेखांककंठंस्थितं नौमि दामोदरं भक्तवंद्यम्‌॥६॥

वरं देव देहीश मोक्षावधिं वा न चान्यं वृणेऽहं वरेशादपीह॥
इदं ते वपुर्नाथ गोपालबालं सदा मे मनस्याविरास्तां किमन्यैः॥७॥

इदं ते मुखांभोजमत्यंतनीलैर्वृतं कुंतलैःस्निग्धवक्त्रैश्चगोप्या॥
मुहुरश्चुंबितंविंबरक्ताधरं मे मनस्याविरस्तामलंलक्षलाभैः॥८॥

नमो देवदामोदरानन्त विष्णो प्रसीद प्रभो दुःखजालाब्धिमग्नम्॥
कृपादृष्टिवृष्ट्याऽतिदीनं च रक्ष गृहाणेश मामज्ञमेवाक्षिदृश्यम्‌॥९॥

कुवेरात्मजो वृक्षमूर्ती च यद्वत्त्वया मोचितौभक्तिभाजौकृतौच॥
तथा प्रेमभक्तिंस्वकां मे प्रयच्छ न मोक्षेग्रहो मेऽस्ति दामोदरेह॥१०॥

नमस्ते सुदाम्नेस्फुरद्दीप्तधाम्नेतथोद्रस्थविश्वस्य धाम्नेनमस्ते॥
नमो राधिकायैत्वदीयप्रियायैनमोनंतलीलायदेवाय तुभ्यम्॥११॥

नारद उवाच॥

सत्यव्रतद्विजस्तोत्रं श्रुत्वादामोदरो हरिः॥
विद्युल्लीलाचमत्कारो हृदयेशनकैरभूत्‌॥१२॥

इति श्रीसत्यव्रतकृतदामोदरस्तोत्रं संपूर्णम्‌॥१३७॥

श्रीविष्णोःषोडशनामस्तोत्रम्‌।

श्रीगणेशाय नमः॥

औषधे चिन्तयेद्विष्णुं भोजने च जनार्दनम्॥
शयने पद्मनाभं च विवाहे च प्रजापतिम्॥१॥

युद्धे चक्रधरं देवं प्रवासे च त्रिविक्रमं॥
नारायणं तनुत्यागे श्रीधरं प्रियसंगमे॥२॥

दुःस्वप्नेस्मर गोविन्दं संकटे मधुसूदनं॥
कानने नरसिंहं च पावके जलशायिनम्‌॥३॥

जलमध्येवराहं च पर्वते रघुनंदनम्॥
गमने वामनं चैव सर्वकार्येषु माघवम्‌॥४॥

षोडशैतानि नामानि प्रातरुत्थाय यः पठेत्॥
सर्वपापविनिर्मुक्तोविष्णुलोके महीयते॥५॥

इ०विष्णुस्तो० समाप्तं॥१३८॥

श्रीः।

अथदशावतारस्तोत्रम्।

चलल्लोलकल्लोलकल्लोलिनीशस्फुरन्नक्रचक्रातिवक्त्रांबुलीनः॥
हतो येन मीनावतारेण शंखः स पायादपायाज्जगद्वासुदेवः॥१॥

धरानिर्जरारातिभारादपारादकूपारनीरातुराधःपतंती॥
धृताकूर्मरूपेण पृष्ठोपारिष्टे स देवो मुदे वोऽस्तु शेषांगशायी॥२॥

उदग्रेरदाग्रे सगोत्रापि गोत्रा स्थिता तस्थुषः केतकाग्रेषडंघ्रेः॥
तनोति श्रियं सश्रियं नस्तनोतु प्रभुः श्रीवराहावतारो मुरारिः॥३॥

उरोदार आरंभसंरंभिणोसौरमासंभ्रमाभंगुराग्रैर्नखाग्रैः॥
स्वभक्तातिभक्त्याभिव्यक्तेन दारुण्यघौघं सदा वःसहिंस्यान्नृसिंहः॥४॥

छलादाकल्य्य त्रिलोकीं बलीयान् बलिं संबबंध त्रिलोकीबलीयः॥
तनुत्वं दधानां तनुं संदधानो विमोहं मनो वामनो वःस कुर्यात्‌॥५॥

हतक्षत्रियासृक्प्रपानप्रमत्तप्रनृत्यत्पिशाचप्रगीतप्रतापः॥

धराकारि येनाग्रजन्माग्रहार विहारं क्रियान्मानसे वः स रामः॥६॥

नतग्रीवसुग्रीवसाम्राज्यहेतुर्दशग्रीवसंतानसंहारकेतुः॥
धनुर्येन भग्नंमहत्कामहंतुः स मे जानकीजानिरेनांसि हंतु॥७॥

घनाद्गोधनं येन गोवर्धनेन व्यरक्षि प्रतापेन गोवर्धनेन॥
हतारातिचक्री रणध्वस्तचक्री पदध्वस्तचक्री स नः पातु चक्री॥८॥

धरावद्धपद्मासनस्थांघ्रियष्टिर्नियम्यानिलंन्यस्तनासाग्रदृष्टिः॥
य आस्ते कलौयोगिनां चक्रवर्ती स बुद्धःप्रबद्धोऽस्तु निश्चिंतवर्त्ती॥९॥

दुरपारसंसारसंहारकारी भवत्यश्वचारः कृपाणप्रहारी॥
मुरारिर्दशाकारधारीहकल्कीकरोतु द्विषां ध्वंसनं वः सकल्‍की॥१०॥

इति श्रीमच्छङ्कराचार्यविरचितं दशावतारस्तोत्रं संपूर्णम्‌॥१३९॥

अथ आर्तत्राणनारायणाष्टादशकम्।

प्रह्लाद प्रभुरस्ति चेत्तव हरिः सर्वत्र मे दर्शय
स्तंभेचैैनमिति त्रुवंतमसुरं तत्राविरासीद्धरिः॥

क्षस्तस्य विदारयन्निजनखैर्वात्सल्यमावेदयन्ना-
र्तत्राणपरायणः स भगवान्नारायणो मे गातिः॥१॥

श्रीरामावबिभीषणोयमधुना त्वार्तोभयादागतः
सग्रीवानय पालयेहमधुना पौलस्त्यमेवागतम्‌॥
एवं योऽभयमस्य सर्वविदितं लंकाधिपत्यं ददा-
वार्तत्राणपरायणः०॥२॥

नक्रग्रस्तपदं समुद्यतकरं ब्रह्मेशदेवेश मां
पाहीति प्रचुरार्तरावकरिणं देवेश शक्तीशच॥
मा शोचेति ररक्ष नक्रवदनाच्चक्रश्रिया तत्क्षणाद-
आर्तत्रा०॥३॥

हा कृष्णाच्युत हा कृपाचलनिधे हा पांडवानां गते
क्वासि क्वासि सयोधनादवगतां हा रक्ष मां द्रौषदीम्‌॥
इत्युक्तोऽक्षयवस्त्ररक्षिततनुं योरक्षदापद्गणाद-
आर्त०॥४॥

यत्पादाब्जनखोदकं त्रिजगतां पापौधविध्वसनं
यन्नामामृतपूरणं च पिवतां संतापसंहारकम्‌॥
पाषाणश्चयदंघ्रितो निजवधूृरूपं मुनेराप्तवान-
आर्त०॥५॥

यन्नाम श्रुतिमात्रतोऽपरिमितं संसारवारांनिधिं
त्यकत्वागच्छति दुर्जनोपि परमं विष्णोः पदं शाश्वतं॥
तन्नैवाद्भुतकारणं त्रिजगतां नाथस्य दासोस्म्यहमार्त०॥६॥

पित्रा भ्रातरमुत्तमांकगमितं भक्तोत्तमं यो ध्रुवं
दृष्ट्वातत्सममारुरुक्षुमुदितं मात्रावमानं गतम्‌॥
योदात्तं शरणागतं तु तपसा हेमाद्रिसिंहासन
ह्यार्त०॥७॥

नाथेति श्रुतयोन तत्त्वमतयो घोषस्थिता गोपिका
जारिण्यः कुलजातिधर्मविमुखा अध्यात्मभावं ययुः॥
भक्तिर्यस्य ददाति मुक्तिमतुलां जारस्य यः सद्गति-
र्ह्या०॥८॥

क्षुत्तृष्णार्तसहस्रशिष्यसहितं दुर्वाससं क्षोभितं
द्रौपद्याभयभक्तियुक्तमनसा शाकं स्वहस्तार्पितं॥
भुक्त्वातर्पयदात्मवृत्तिमखिलामावेदयन् यः पुमान-
आर्त०॥९॥

येनारक्षि रघूत्तमेन जलधेस्तीरे दशास्यानुज-
स्त्वायातं शरणं रघूत्तम विभो रक्षातुरं मामिति॥
पौलस्त्येन निराकृतोथ सदसि भ्रात्राच लंकापुरे
ह्यार्त०॥१०॥

येनावाहिमहाहवे वसुमती संवर्तकालेमहा-
लीलाक्रोडवपुर्धरेण हरिणा नारायणेन स्वयम्‌॥
यः पापिद्रुमसंप्रवर्तम चिराद्धत्वा चऽयोगात्‌ प्रियामार्त०॥११॥

योद्धासौभुवनत्रये मधुपतिर्भर्ता नराणां बले
राधाया अकरोद्रते रतिमनःपूर्तिं सुरेंद्रानजः॥
यो वा रक्षति दीनपांडुतनयातन्नाथेति भीतिंगतानार्त०॥१२॥

यः सांदीपिनिदिशतश्चतनयं लोकांतरात्सन्नतं
चानीय प्रतिपाद्य पुत्रमरणादुज्जृंभमाणार्तये॥
संतोषं जनयन्नमेयमहिमा पुत्रार्थसंपादनाद-
आर्तत्राणपराय०॥१३॥

यन्नामस्मरणादघौघसहितो विप्रःपुराजामिलः
प्राणान्मुक्तिमशेषितामनुच यः पापौधदावार्तियुक्‌॥
सद्योभागवतोत्तमात्मनि मतिंप्रापांवरीषाभिद
श्चार्तत्रा०॥१४॥

योरक्षद्वसनादिनित्यरहितं विप्रं कुचैलाभिधं
दीनादीनचकोरपालनपरः श्रीशंखचक्रोज्ज्वलः॥
तज्जीर्णांबिरमुष्टिमात्रपृथुकानादाय भुक्त्वा क्षणाद-
आर्त०॥१५॥

यत्कल्याणगुणाभिरामममलंमंत्राणिसंशिक्षते
यत्संशेतिपतिप्रतिष्ठितमिदं विश्वंवदत्यागमः॥
योयोगीन्द्रमनःसरोरुहतमः प्रध्वंसविद्धानुमान-
आर्त०॥१६॥

कालिंदीहृदयाभिरामपुलिनेपुण्ये जगन्मंगले
चंद्रांभोजवटेपुटे परिसरे धात्रा समाराधिते॥
श्रीरङ्गे भुजगेंद्रभोगशयने शेते सदा यः पुमानार्तत्राणपरायणः स भगवान्नारायणोमे गति॥१७॥

वात्सल्यादभयाप्रदानसमया दार्तार्तिनिर्वापणादौद-
आर्यादऱघशोषणादगणित श्रेयः पदप्रापणात्‌॥
सेव्यः श्रीपतिरेव सर्वजगतामेते हि तत्साक्षिणः
प्रह्लादश्च विभीषणश्चकरिराट्पांचाल्यहल्याध्रुवः॥१८॥

इति श्रीमच्छङ्कराचार्यविरचितमार्तत्राणपरायणनारायणाष्टादशकं संपूर्णम्‌॥१४०॥

अथ पञ्चमहायुधस्तोत्रम्।

विष्णोर्मुखोत्थानिलपूरितस्य यस्य ध्वनिर्दानवदर्पहंता॥
तंपांचजन्यं शशिकोटिशुभ्रंशंखं सदाहं शरणं प्रपद्ये॥१॥

स्फुरत्सहस्रारशिखातितीव्रंसुर्दशनंभास्करकोटितुल्यम्‌॥
स्फुरद्विषांप्राणविनाशदक्षंचक्रंसदाहं शरणं प्रपद्ये॥२॥

हिरण्मयीं मेरुसमानसारां कौमोदकींदैत्यकुलस्यहंत्रीम्॥
वैकुंठवामाग्रकराभिमृष्टांगदांसदाहं शरणं प्रपद्ये॥३॥

रक्षोऽसुराणांकठिनोग्रकंठच्छेदोच्छलच्छोणितदिग्धधारम्॥
तं नंदकं नाम हरेः प्रदीप्तं खङ्गंसदाहं शरणं प्रपद्ये॥४॥

यस्यातिनादश्रवणात्सुराणां चेतांसि निर्मुक्तभयानि सद्यः॥
भवंति दैत्याशनिवाणवर्षंशार्ङ्गंसदाहं शरणं प्रपद्ये॥५॥

प्रातर्हरेः पंचमहायुधानां स्तवं पठेद्यःकृतसर्वरक्षः॥
जीवेच्छतं सर्वजनैः स पूज्यो निर्वाणकालेविशतीहविष्णुम्‌॥६॥

इति श्रीमच्छङ्कराचार्यविरचितंपञ्चमहायुधस्तोत्रंसंपूर्णम्‌॥१४१॥

मार्कण्डेयकृत श्रीनृसिंहगद्यस्तोत्रम्‌।

श्रीः॥
मार्कण्डेय उवाच॥

नमोऽस्तुते देव देव महाचित्त महाकाय महाप्राज्ञमहोद्धव महाकीर्ते ब्रह्मेन्द्रचन्द्रसूर्यार्चितपादयुगलश्रीपद्महस्तसंमर्दितदैत्यदेह अनन्तभोगशयनार्पितसर्वाङ्ग सनकसनन्दनसनातनसनत्कुमाराद्यैर्योगिभिर्नासाग्रन्यस्तलोचनैरनवरतमभिचिन्तितःमोक्षतत्त्वग- न्धर्वविद्याधरयक्षकिंनरकिंपुरुषैरहरहरर्गीयमानदिव्ययशःनृसिंह नारायण पद्मनाभ गोविन्द गोवर्द्धन गुहानिवास योगीश्वरदेवेश्वर जलेश्वर महेश्वर योगधर महामायाधर विद्याधर यशोधर कीर्तिधर त्रिगुणनिवास त्रितत्वधर त्रेताग्निधर त्रिवेदभाक्त्रिनिकेत त्रिसुपर्ण त्रिदण्डधर स्निग्धमेवाभामाचितिद्युतिविराजित पीताम्बरधर किरीटकटकके यूरहारमणिरत्नांशुदीप्तिविद्योतितसर्वदिश कनकमणिकुण्डलमण्डितगण्डस्थल मधुसूदन विश्वमूर्ते लोकनाथ यज्ञेश्वर यज्ञप्रिय तेजोमय भक्तप्रिय वासुदेव दुरितापहाऽराध्य पुरुषोत्तमनमोस्तुते नमोऽस्तुते ॥

एतन्नृसिंहगद्यंतु त्रिकालंयः पठेन्नरः॥
मार्कण्डेयइवासौस्याच्चिरंजीवी न संशयः॥

इति श्रीनृ० श्रीनृसिंहगद्यस्तोत्रं॥१४२॥

अथ नारकिकृतश्रीनृसिंहस्तोत्रं।

ऊँ नमो भगवते तस्मैकेशवाय महात्मने॥
यन्नामकीर्तनात्सद्योनरकाग्निःप्रशाम्यति॥१॥

भक्तिप्रियाय देवाय रक्षाय हरयेनमः॥
लोकनाथायशान्ताय यज्ञेशायादिमूर्तये॥२॥

अनन्तायाप्रमेयाय नरसिंहाय ते नमः॥
नारायणाय गुरवे शंखचक्रगदाभृते॥३॥

वेदप्रियाय महते विक्रमाय नमो नमः॥
वराहायाप्रतर्क्याय वेदाङ्गाय महीभृते॥४॥

नमोद्युतिमते नित्यं ब्राह्मणाय नमो नमः॥
वामनाय बहुज्ञाय वेदवेदांगधारिणे॥५॥

बलिबन्धनदत्तायवेदपालायते नमः॥
विष्णवे सुरनाथाय व्यापिने परमात्मने॥६॥

चतुर्भुजाय शुद्धाय शुद्धद्रव्याय ते नमः॥
जामदग्न्यायरामाय दुष्टक्षत्रान्तकारिणे॥७॥

रामाय रावणान्तकाय नमस्तुभ्यं महात्मने॥
अस्मानुद्धर गोविंद पूतिगन्धान्नमोस्तुते॥८॥

स्तोत्रमेतत्पठेद्यस्तुनिरयान्मुच्यते च सः॥
नास्त्यत्र संशयः स्वल्पः प्रत्यहं पाठमाचरेत्‌॥९॥

इति श्रीनृसिंहपुराणे नारकिकृतश्रीनृसिंहस्तोत्रंसंपूर्णम्‌॥१४३॥

अथ श्रीबलरामस्तोत्रम्।

श्रीः॥

जय राम सदाराम सच्चिदानन्दविग्रह॥
अविद्यापङ्कगलितनिर्मलाकार ते नमः॥१॥

जयाखिलजगद्भारधारण श्रमवर्जित॥
तापत्रयविकर्षाय हलंकलयते सदा॥२॥

प्रपन्नदीनत्राणाय वलरामाय ते नमः॥
त्वमेवेशपराशेषकलुषक्षालनप्रभुः॥३॥

प्रपन्नकरूणासिन्धोभक्तप्रियनमोऽस्तु ते॥
चराचरा फणाग्रेण धृता येन वसुन्धरा॥४॥

मामुद्धरास्माद्दुष्पाराद्भावाम्भोधेरपारतः॥
परापराणां परम परमेश नमोऽस्तु ते॥५॥

इमं स्तवं यः पठ

ति बलरामाधिदैवतम्‌॥
बलिष्ठःसर्वकार्येषु गरिष्ठःसोऽभिजायते॥६॥

इति बलरामस्तोत्रम्॥१४६॥

श्रीवेङ्कटेश्वरमङ्गलस्तोत्रम्।

श्रीवेङ्कटेश्वराय नमः॥

श्रियःकांताय देवायकल्याणानिधयेऽर्थिनाम्‌॥
श्रीवेङ्कटनिवासाय श्रीनिवासाय मङ्गलम्॥१॥

लक्ष्मीसविभ्रमालोकस

क्षुविभ्रमचक्षुपे॥
चक्षुपेसर्वलोकानां वेङ्कटेशायमङ्गलम्‌॥२॥

श्रीवेङ्कटाद्रिशृंगाय मङ्गलाभरणांध्रये॥
मङ्गलानां निवासाय श्रीनिवासाय मङ्गलम्‌॥३॥

सर्वावयवसौंदर्यसंपदा सर्वचेतसाम्‌॥
सदा संमोहनायास्तु वेङ्कटेशाय मङ्गलम्‌॥४॥

नित्याय निरवद्याय सत्यानंदचिदात्मने॥
सर्वांतरात्मने श्रीमद्वेङ्कटेशाय मङ्गलम्‌॥५॥

स्वतःसर्वविदे सर्वशक्तये सर्वशेषिणे॥
सुलभाय सुशीलाय वेङ्कटेशाय मङ्गलम्‌॥६॥

परस्मैब्रह्मणे पूर्णकामाय परमात्मने॥
प्रपन्नपरतत्त्वाय वेङ्कटेशायमङ्गय परमात्मने॥७॥

अकालतत्त्वविश्रांतावात्मानमनुपश्यताम्॥

अतृप्तामृतरूपाय वेङ्कटेशाय मङ्गलम्॥८॥

प्रायस्स्वचरणौपुंसां शरणत्त्वेन पाणिना॥
कृपया दृश्यते श्रीमद्वेङ्कटेशाय मङ्गलम्॥९॥

दयामृततरङ्गिण्यास्तरंङ्गैरपि शीतलैः॥
अपांगैस्सिंचतेविश्वं वेङ्कटेशाय मड्गलम्‌॥१०॥

स्रग्भूषांवरहेतीनां सुषमावहमूर्तये॥
सर्वार्तिशमनायास्तु वेङ्कटेशाय मड्गलम्‌॥११॥

श्रीवैकुंठविरक्ताय स्वामिपुष्करिणीतटे॥
रमया रममाणाय वेङ्कटेशाय मड्गलम्‌॥१२॥

श्रीमत्सुंदरजामपातृमुनिमानसवासिने॥
सर्वलोकनिवासाय श्रीनिवासाय मड्गलम्‌॥१३॥

नमः श्रीवेङ्कटेशाय शुद्धज्ञानस्वरूपिणे॥
वासुदेवाय शांताय श्रीनिवासाय मं०॥१४॥

मङ्गलाशासनपरैर्मदाचार्यपुरोगमैः।
सर्वैश्चपूर्वैराचार्यैःसत्कृतायास्तु मं०॥१५॥

इति श्रीवेङ्कटेशमङ्गलस्तोत्रं संपूर्णम्‌॥१४७॥

मङ्गलेनसह स्तोत्राणि १४७.

]