अपराधक्षमापणस्तोत्रम्

[[अपराधक्षमापणस्तोत्रम् Source: EB]]

[

अपराधक्षमापणस्तोत्रम्

अपराधक्षमापणस्तोत्रम् ..

ॐ अपराधशतं कृत्वा जगदम्बेति चोच्चरेत्

यां गतिं समवाप्नोति न तां ब्रह्मादयः सुराः ॥ १ ॥
सापराधोऽस्मि शरणं प्राप्तस्त्वां जगदम्बिके ।

इदानीमनुकम्प्योऽहं यथेच्छसि तथा कुरु ॥ २ ॥

अज्ञानाद्विस्मृतेर्भ्रोन्त्या यन्न्यूनमधिकं कृतम् ।

तत्सर्वं क्षम्यतां देवि प्रसीद परमेश्वरि ॥ ३ ॥

कामेश्वरि जगन्मातः सच्चिदानन्दविग्रहे ।

गृहाणार्चामिमां प्रीत्या प्रसीद परमेश्वरि ॥ ४ ॥
सर्वरूपमयी देवी सर्वं देवीमयं जगत् ।

अतोऽहं विश्वरूपां त्वां नमामि परमेश्वरीम् ॥ ५ ॥
यदक्षरं परिभ्रष्टं मात्राहीनञ्च यद्भवेत् ।

पूर्णं भवतु तत् सर्वं त्वत्प्रसादान्महेश्वरि ॥ ६ ॥

यन्मात्राबिन्दुबिन्दुद्वितयपदपदद्वन्द्ववर्णादिहीनं

भक्त्याभक्त्यानुपूर्वं प्रसभकृतिवशात् व्यक्त्तमव्यक्त्तमम्ब ।

मोहादज्ञानतो वा पठितमपठितं साम्प्रतं ते स्तवेऽस्मिन्

तत् सर्वं साङ्गमास्तां भगवति वरदे त्वत्प्रसादात् प्रसीद ॥ ८ ॥

]