क्रमस्तोत्रम्

[[क्रमस्तोत्रम् Source: EB]]

[

अयं दुःखव्रातव्रतपरिगमे पारणविधिर्
महासौख्यासारप्रसरणरसे दुर्दिनमिदम् ।
यदन्यन्यक्कृत्या विषमविशिखप्लोषणगुरोर्विभोः स्तोत्रे
शश्वत्प्रतिफलति चेतो गतभयम् ॥ १ ॥

विमृश्य स्वात्मानं विमृशति पुनः स्तुत्यचरितं तथा
स्तोता स्तोत्रे प्रकटयति भेदैकविषये ।
विमृष्टश्च स्वात्मा निखिलविषयज्ञानसमये तदित्थं
त्वत्स्तोत्रेऽहमिह सततं यत्नरहितः ॥ २ ॥

अनामृष्टः स्वात्मा न हि भवति भावप्रमितिभाजनामृष्टः
स्वात्मेत्यपि हि न विनाऽमर्शनविधेः ।
शिवश्चासौ स्वात्मा स्फुरदखिलभावैकसरसस्ततोऽहम्
त्वत्स्तोत्रे प्रवणहृदयो नित्यसुखितः ॥ ३ ॥

विचित्रैर्जात्यादिभ्रमणपरिपाटीपरिकरैरवाप्तम्
सार्वज्ञं हृदय यदयत्नेन भवता ।
तदन्तस्त्वद्बोधप्रसरसरणीभूतमहसि स्फुटं वाचि
प्राप्य प्रकटय विभोः स्तोत्रमधुना ॥ ४ ॥

विधुन्वानो बन्धाभिमतभवमार्गस्थितिमिमां
रसीकृत्यानन्तस्तुतिहुतवहप्लोषितभेदाम् ।
विचित्रस्वस्फारस्फुरितमहिमारम्भरभसात्पिबन् भावान्
एतान् वरद मदमत्तोऽस्मि सुखितः ॥ ५ ॥

भव प्राज्यैश्वर्यप्रथितबहुशक्तेर्भगवतो विचित्रं
चारित्रं हृदयमधिशेते यदि ततः ।
कथं स्तोत्रं कुर्यादथ च कुरुते तेन सहसा
शिवैकात्म्यप्राप्तौ शिवनतिरुपायः प्रथमकः ॥ ६ ॥

ज्वलद्रूपं भास्वत्पचनमथ दाहं प्रकटनम्
विमुच्यान्यद्वह्नेः किमपि घटते नैव हि वपुः ।
स्तुवे संविद्रश्मीन् यदि निजनिजांस्तेन स नुतो भवेन्
नान्यः कश्चिद्भवति परमेशस्य विभवः ॥ ७ ॥

विचित्रारम्भत्वे गलितनियमे यः किल रसः
परिच्छेदाभावात्परमपरिपूर्णत्वमसमम् ।
स्वयं भासां योगः सकलभवभावैकमयताविरुद्धैर्
धर्मौघैः परचितिरनर्घोचितगुणा ॥ ८ ॥

इतीदृक्षैर्रूपैर्वरद विविधं ते किल वपुर्विभाति
स्वांशेऽस्मिन् जगति गतभेदं भगवतः ।
तदेवैतत्स्तोतुं हृदयमथ गीर्बाह्यकरणप्रबन्धाश्च
स्युर्मे सततमपरित्यक्तरभसः ॥ ९ ॥

तवैवैकस्यान्तः स्फुरितमहसो बोधजलधेर्
विचित्रोर्मिव्रातप्रसरणरसो यः स्वरसतः ।
त एवामी सृष्टिस्थितिलयमयस्फूर्जितरुचां
शशाङ्कार्काग्नीनां युगपदुदयापायविभवाः ॥ १० ॥

अतश्चित्राचित्रक्रमतदितरादिस्थितिजुषो विभोः शक्तिः
शश्वद्व्रजति न विभेदं कथमपि ।
तदेतस्यां भूमावकुलमिति ते यत्किल पदं
तदेकाग्रीभूयान्मम हृदयभूर्भैरव विभो ॥ ११ ॥

अमुष्मात्संपूर्नात्वत रसमहोल्लाससरसान्निजां शक्तिं
भेदं गमयसि निजेच्छाप्रसरतः ।
अनर्घं स्वातन्त्र्यं तव तदिदमत्यद्भुतमयीं
भवच्छक्तिं स्तुन्वन् विगलितभयोऽहं शिवमयः ॥ १२ ॥

इदन्तावद्रूपं तव भगवतः शक्तिसरसं
क्रमाभावादेव प्रसभविगलत्कालकलनम् ।
मनःशक्त्या वाचाप्यथ करणचक्रैर्बहिरथो घटाद्यैस्
तद्रूपं युगपदधितिष्ठेयमनिशम् ॥ १३ ॥

क्रमोल्लासं तस्यां भुवि विरचयन् भेदकलनां
स्वशक्तीनां देव प्रथयसि सदा स्वात्मनि ततः ।
क्रियाज्ञानेच्छाख्यां स्थितिलयमहासृष्टिविभवां त्रिरूपं
भूयासं समधिशयितुं व्यग्रहृदयः ॥ १४ ॥

पुरा सृष्टिर्लीना हुतवहमयी यात्र विलसेत्
परोल्लासौन्मुख्यं व्रजति शशिसंस्पर्शसुभगा ।
हुताशेन्दुस्फारोभयविभवभाग्भैरवविभो तवेयं
सृष्ट्याख्या मम मनसि नित्यं विलसताम् ॥ १५ ॥

विसृष्टे भावांशे बहिरतिशयास्वादविरसे यदा
तत्रैव त्वं भजसि रभसाद्रक्तिमयताम् ।
तदा रक्ता देवी तव सकलभावेषु ननु मां क्रियाद्
रक्तापानक्रमघटितगोष्ठीगतघृणम् ॥ १६ ॥

बहिर्वृत्तिं हातुं चितिभुवमुदारां निवसितुं यदा
भावाभेदं प्रथयसि विनष्टोर्मिचपलः ।
स्थितेर्नाशं देवी कलयति तदा सा तव विभो स्थितेः
सांसारिक्याः कलयतु विनाशं मम सदा ॥ १७ ॥

जगत्संहारेण प्रशमयितुकामः स्वरभसात्
स्वशङ्कातङ्काख्यं विधिमथ निषेधं प्रथयसि ।
यमं सृष्ट्वेत्थं त्वं पुनरपि च शङ्कां विदलयन्
महादेवी सेयं मम भवभयं संदलयताम् ॥ १८ ॥

विलीने शङ्कौघे सपदि परिपूर्णे च विभवे गते
लोकाचारे गलितविभवे शास्त्रनियमे ।
अनन्तं भोग्यौघं ग्रसितुमभितो लंपटरसा विभो
संहाराख्या मम हृदि भिदांशं प्रहरतु ॥ १९ ॥

तदित्थं देवीभिः सपदि दलिते भेदविभवे
विकल्पप्राणासौ प्रविलसति मातृस्थितिरलम् ।
अतः संहारांशं निजहृदि विमृश्य स्थितिमयी
प्रसन्ना स्यान्मृत्युप्रलयकरणी मे भगवती ॥ २० ॥

तदित्थं ते तिस्रो निजविभवविस्फारणवशादवाप्ताः
षट्चक्रक्रमकृतपदं शक्तय इमाः ।
क्रमादुन्मेषेण प्रविदधति चित्रां भवदशामिमाभ्यो
देवीभ्यः प्रवणहृदयः स्यां गतभयः ॥ २१ ॥

इमां रुन्धे भूमिं भवभयभिदातङ्ककरणीमिमां
बोधैकान्तद्रुतिरसमयीं चापि विदधे ।
तदित्थं संरोधं द्रुतिमथ विलुप्याशुभततीर्
यथेष्टं चाचारं भजति लसतां सा मम हृदि ॥ २२ ॥

क्रियाबुद्ध्यक्षादेः परिमितपदे मानपदवीमवाप्तस्य
स्फारं निजनिजरुचा संहरति या ।
इयं मार्त ङ्दस्य स्थितिपदयुजः सारमखिलं हठाद्
आकर्षन्ती कृशतु मम भेदं भवभयात् ॥ २३ ॥

समग्रामक्षालीं क्रमविरहिता सात्मनि मुहुर्
निवेश्यानन्तान्तर्बहलितमहारश्मिनिवहा ।
परा दिव्यानन्दं कलयितुमुदारादरवती प्रसन्ना मे
भूयाथृदयपदवीं भूषयतु च ॥ २४ ॥

प्रमाणे संलीने शिवपदलसद्वैभववशात्
शरीरप्राणादिर्मितकृतकमातृस्थितिमयः ।
यदा कालोपाधिः प्रलयपदमासादयति ते तदा देवी यासौ
लसति मम सा स्याच्छिवमयी ॥ २५ ॥

प्रकाशाख्या संवित्क्रमविरहिता शून्यपदतो
बहिर्लीनात्यन्तं प्रसरति समाच्छादकतया ।
ततोऽप्यन्तःसारे गलितरभसादक्रमतया महाकाली
सेयं मम कलयतां कालमखिलम् ॥ २६ ॥

ततो देव्यां यस्यां परमपरिपूर्णस्थितिजुषि क्रमं
विच्छिद्याशु स्थितिमतिरसात्संविदधति ।
प्रमाणं मातारं मितिमथ समग्रं जगदिदं स्थितां
क्रोडीकृत्य श्रयतु मम चित्तं चितिमिमाम् ॥ २७ ॥

अनर्गलस्वात्ममये महेशे तिष्ठन्ति
यस्मिन् विभुशक्तयस्ताः ।
तं शक्तिमन्तं प्रणमामि देवं
मन्थानसंज्ञं जगदेकसारम् ॥ २८ ॥

इत्थं स्वशक्तिकिरणौघनुतिप्रबन्धानाकर्ण्य देव
यदि मे व्रजसि प्रसादम् ।
तेनाशु सर्वजनतां
निजशासनांशुसंशान्तिताखिलतमःपटलां विधेयाः ॥ २९ ॥

षट्षष्टिनामेके वर्षे नवम्यामसितेऽहनि ।
मयाऽभिनवगुप्तेन मार्गशीर्षे स्तुतः शिवः ॥

इति श्री अभिनवगुप्तपादाचार्यकृतं क्रमस्तोत्रं सम्पूर्णम् ॥


____________

गन्धर्व-नगरम् । द्सो सन्स्क्रितर्छिवे


\\\\Z

]