अष्टादशशक्तिपीठस्तोत्रम्

[[अष्टादशशक्तिपीठस्तोत्रम् Source: EB]]

[

अष्टादशशक्तिपीठस्तोत्रम्


अष्टादशशक्तिपीठस्तोत्रम् ॥

लङ्कायां शाङ्करी देवी कामाक्षी काञ्चिकापुरे ।

प्रद्युम्ने शृङ्खलादेवी चामुण्डी क्रौञ्चपट्टणे ॥

अलम्पुरे जोगुलाम्बा श्रीशैले भ्रमराम्बिका ।

कोल्हापुरे महालक्ष्मी माहूर्ये एकवीरिका ॥
उज्जयिन्यां महाकाली पीठिक्यां पुरुहूतिका ।

ओढ्यायां गिरिजादेवी माणिक्या दक्षवाटके ॥

हरिक्षेत्रे कामरूपा प्रयागे माधवेश्वरी ।

ज्वालायां वैष्णवी देवी गया माङ्गल्यगौरिका ॥

वारणस्यां विशालाक्षी काश्मीरेषु सरस्वती ।

अष्टादश सुपीठानि योगिनामपि दुर्लभम् ॥

सायङ्काले पठेन्नित्यं सर्वशत्रुविनाशनम् ।

सर्वरोगहरं दिव्यं सर्वसम्पत्करं शुभम् ॥

इति अष्टादशशक्तिपीठस्तुतिः ।

]