[[ऋणमोचनमहागणपतिस्तोत्रम् Source: EB]]
[
ॠणमोचनमहागणपतिस्तोत्रम्
श्रीगणेशायनमः\।\।
ॐ अस्य श्रीॠणमोचन महागणपतिस्त्रोत्र मंत्रस्य भगवान् शुक्राचार्याॠषिः ॠणमोचनगणपतिर्देवता ॠणमोचनार्थे जपे विनियोगः
ॐ स्मरामि देवदेवेशं वक्रतुण्डं महाबलं \।\।
महाविध्नहरं सौम्यं नमामि ॠणमुक्तये \।\।१\।\।
महागणपतिं देवं महासत्यं महाबलं \।\।
महाविध्नहरं सौम्यं नमामि ॠणामुक्तये \।\।२\।\।
एकाक्षरं एकदंतं एकब्रह्मसनातनं \।\।
एकमेवारव्दितीयं च नममि ॠणामुक्तये \।\।३\।\।
रक्तांबरं रक्तवर्णं रक्तंगधानुलेपनं \।\।
रक्तपुष्पैः पूजामानं नमामि ॠणामुक्तये \।\।४\।\।
कृष्णांबरं कृष्णवर्णं कृष्णगंधानुलेपनं \।\।
कृष्णपुष्पैः पूज्यमानं नमामि ॠणमुक्तये \।\।५\।\।
पीतांबरं पीतवर्णं पीतगंधानुलेपनं \।\।
पीतपुष्पैः पूज्यमानं नमामि ॠणमुक्तये \।\।६\।\।
धूम्रांबारं धूम्रवर्णं धूम्रगंधानुलेपनं \।\।
धूम्रपष्पैः पूज्यमानं नमामि ॠणमुक्तये \।\।७\।\।
सर्वांबरं सर्ववर्णं सर्वगंधानुलेपनं \।\।
सर्वपुष्पैः पूज्यमानं नमामि ॠणमुक्तये \।\।८\।\।
भद्रजातं च रुपं च पाशांकुशधरं शुभं \।\।
सर्वविघ्नहरं देवं नमामि ॠणमुक्तये \।\।९\।\।
यः पठेत् ॠणहरस्तोत्रं प्रातःकाले शुचिर्नरः \।\।
षण्मासाभ्यंतरे चैव ॠणच्छेदो भविष्यति \।\।१०\।\।
इति श्रीब्रह्मांडपुराणे ॠणमोचनमहागणपतिस्तोत्रं संपूर्णम् \।
]