आर्याशतकम्

[[आर्याशतकम् Source: EB]]

[

॥ श्री॥

आर्याशतक

म्॥
<MISSING_FIG href="../books_images/U-IMG-17241553017094.png"/>

कारण परचिद्रूपा
काञ्चीपुरसीम्नि कामपीठगता।
काचन विहरति करुणा
काश्मीरस्तबककोमलाङ्गलता॥१॥

कञ्चन काञ्चीतिलकं
करधृतकोदण्डबाणसृणिपाशम्।
कठिनस्तनभरनम्रं
कैवल्यानन्दकन्दमवलम्बे॥२॥

चिन्तितफलपरिपोषण–
चिन्तामणिरेव काञ्चिनिलया मे।
चिरतरसुचरितसुलभा
चित्तं शिशिरयतु चित्सुधाधारा॥३॥

कुटिलकचं कठिनकुचं
कुन्दस्मितकान्ति कुङ्कुमच्छायम्।

कुरुते विहृतिं काञ्च्यां
कुलपर्वतसार्वभौमसर्वस्वम्॥४॥

पञ्चशरशास्त्रबोधन
परमाचार्येण दृष्टिपातेन।
काञ्चीसीम्नि कुमारी
काचन मोहयति कामजेतारम्॥५॥

परया काञ्चीपुरया
पर्वतपर्यायपीनकुचभरया।
परतन्त्रा वयमनया
पङ्कजसब्रह्मचारिलोचनया॥६॥

ऐश्वर्यमिन्दुमौले–
रैकात्म्यप्रकृति काश्चिमध्यगतम्।
ऐन्दवकिशोरशेखर–
मैदंपर्यं चकास्ति निगमानाम्॥७॥

श्रितकम्पासीमानं
शिथिलितपरमशिवधैर्यमहिमानम्।
कलये पाटलिमानं
कंचन कञ्चुकितभुवनभूमानम्॥८॥

आदृतकाञ्चीनिलया–
माद्यामारूढयौवनाटोपाम्।
आगमवतंसकलिका–
मानन्दाद्वैतकन्दलीं वन्दे॥९॥

तुङ्गाभिरामकुचभर–
शृङ्गारितमाश्रयामि काञ्चिगतम्।
शृङ्गाधरपरतन्त्रं
शृङ्गाराद्वैततन्त्रसिद्धान्तम्॥१०॥

काञ्चीरत्नविभूषां
कामपि कंदर्पसूतिकापाङ्गीम्।
परमां कलामुपासे
परशिववामाङ्कपीठिकासीनाम्॥११॥

कम्पातीरचराणां
करुणाकोरकितदृष्टिपातानाम्।
केलीवनं मनो मे
केषांचिद्भवतु चिद्विलासानाम्॥१२॥

आम्रतरुमूलवसते–
रादिमपुरुषस्य नयनपीयूषम्।

आरब्धयौवनोत्सव–
माम्नायरहस्यमन्तरवलम्बे॥१३॥

अधिकाञ्चि परमयोगिभि–
रादिमपरपीठासीम्नि दृश्येन।
अनुबद्धं मम मानस–
मरुणिमसर्वस्वसंप्रदायेन॥१४॥

अङ्कितशंकरदेहा–
मङ्कुरितोरोजकङ्कणाश्लेषैः।
अधिकाञ्चि नित्यतरुणी–
मद्राक्षं कांचिदद्भुतां बालाम्॥१५॥

मधुरधनुषा महीधर–
जनुषा नन्दामि सुरभिबाणजुषा।
चिद्वपुषा काञ्चिपुरे
केलिजुषा बन्धुजीवकान्तिमुषा॥१६॥

मधुरस्मितेन रमते
मांसलकुचभारमन्दगमनेन।
मध्येकाञ्चि मनो मे
मनसिजसाम्राज्यगर्वबीजेन॥१७॥

धरणिमयीं तरणिमयीं
पवनमयीं गगनदहनहोतृमयीं।
अम्बुमयीमिन्दुमयी–
मम्बामनुकम्पमादिमामीक्षे॥१८॥

लीनस्थिति मुनिहृदये
ध्यानस्तिमितं तपस्यदुपकम्पम्।
पीनस्तनभरमीडे
मीनध्वजतन्त्रपरमतात्पर्यम्॥१९॥

श्वेता मन्थरहसिते
शाता मध्ये च वाङ्मनोऽतीता।
शीता लोचनपाते
स्फीता कुचसीम्नि शाश्वती माता॥२०॥

पुरतः कदा नु करवै
पुग्वैरिविमर्दपुलकिताङ्गलताम्।
पुनतीं काञ्चीदेशं
पुष्पायुधवीर्यसरसपरिपाटीम्॥२१॥

पुण्या कापि पुरंध्री
पुंखितकंदर्पसंपदा वपुषा।

पुलिनचरी कम्पायाः
पुरमथनं पुलकनिचुलितं कुरुते॥२२॥

तनिमाद्वैतवलग्नं
तरुणारुणसंप्रदायतनुलेखम्।
तटसीमनि कम्पाया–
स्तरुणिमसर्वस्वमाद्यमद्राक्षम्॥२३॥

पौष्टिककर्मविपाकं
पौष्परं सविधसीम्नि कम्पायाः।
अद्राक्षमात्तयौवन–
मभ्युदयं कंचिदर्धशशिमौलेः॥२४॥

संश्रितकाञ्चीदेशे
सरसिजदौर्भाग्यजाग्रदुत्तंसे।
संविन्मये विलीये
सारस्वतपुरुषकारसाम्राज्ये॥२५॥

मोदितमधुकरविशिखं
स्वादिमसमुदायसारकोदण्डम्।
आहतकाञ्चीखेलन–
मादिममारुण्यभेदमाकलये॥२६॥

उररीकृतकाञ्चिपुरी–
मुपनिषदरविन्दकुहरमधुधाराम्।
उन्नम्रस्तनकलशी–
मुत्सवलहरीमुपास्महे शंभोः॥२७॥

एणशिशुदीर्घलोचन–
मेनःपरिपन्थि संततं नमताम्।
एकाग्रनाथजीवित–
मेवंपददूरमेकमवलम्बे॥२८॥

स्मयमानमुखं काञ्ची–
मयमानं कमपि देवताभेदम्।
दयमानं वीक्ष्य मुहु–
र्वयमानन्दामृताम्बुधौ मग्नाः॥२९॥

कुतुकजुषि काञ्चिदेशे
कुमुदतपोराशिपाकशेखरिते।
कुरुते जनो मनोऽयं
कुलगिरिपरिवृढकुलैकमणिदीपे॥३०॥

बीक्षेमहि काञ्चिपुरे
विपुलस्तनकलशगरिमपरवशितम्।

विदुमसहचरदेहं
विभ्रमसमवायसारसंनाहम्॥३१॥

कुरुविन्दगोत्रगात्रं
कूलचरं कमपि नौमि कम्पायाः।

कूलङ्कषकुचकुम्भं
कुसुमायुधवीर्यसारसंरम्भम्॥३२॥

कुड्मलितकुचकिशोरैः
कुर्वाणैः काञ्चिदेशसौहार्दम्।
कुंकुमशोणैर्निचितं
कुशलपथं शंभुसुकृतसंभारैः॥३३॥

अङ्कितकचेन केनचि–
दन्धंकरणौषधेन कमलानाम्।
अन्तःपुरेण शंभो–
रलंक्रिया कापि कल्प्यते काञ्च्याम्॥३४॥

उररीकरोमि संतत–
मूष्मलफालेन लालितं पुंसा।
उपकम्पमुचितखेलन–
मुर्वीघरवंशसंपदुन्मेषम्॥३५॥

अंकुरितस्तनकोरक–
मङ्कालङ्कारमेकचूतपतेः।
आलोकेमहि कोमल–
मागमसंलापसारयाथार्थ्यम्॥३६॥

पुञ्जितकरुणमुदञ्चित–
शिञ्जितमणिकाञ्चि किमपि काञ्चिपुरे।
मञ्जरितमृदुलहासं
पिञ्जरतनुरुचि पिनाकिमूलधनम्॥३७॥

लोलहृदयोऽस्मि शंभो–
र्लोचनयुगलेन लेह्यमानायाम्।
लालितपरमशिवायां
लावण्यामृततरङ्गमालायाम्॥३८॥

मधुकरसहचरचिकुरै–
र्मदनागमसमयदीक्षितकटाक्षैः।
मण्डितकम्पातीरै–
र्मङ्गलकन्दैर्ममास्तु सारूप्यम्॥३९॥

वदनारविन्दवक्षो–
वामाङ्कतटीवशंवदीभूता।

पुरुषत्रितये त्रेधा
पुरंध्रिरूपा त्वमेव कामाक्षि॥४०॥

बाधाकरीं भवाब्धे–
राधाराद्यम्बुजेषु विचरन्तीम्।
आधारीकृतकाञ्चीं
बोधामृतवीचिमेव विमृशामः॥४१॥

कलयाभ्यन्तः शशधर–
कलयाङ्कितमौलिममलचिद्वलयाम्।
अलयामागमपीठी–
निलयां वलयाङ्कसुन्दरीमम्बाम्॥४२॥

शर्वादिपरमसाधक–
गुर्वानीताय कामपीठजुषे।
सर्वाकृतये शोणिम–
गर्वाय समर्प्यते हृदयम्॥४३॥

समया सांध्यमयूखैः
समया बुद्ध्या सदैव शीलितया।
उमया काञ्चीरतया
न मया लभ्येत किं तु तादात्म्यम्॥

जन्तोस्तव पदपूजन–
संतोषतरङ्गितस्य कामाक्षि।
बन्धो यदि भवति पुनः
सिन्धोरम्भःसु वम्भ्रमीति शिला ॥४५॥

कुण्डलि कुमारि कुटिले
चण्डि चराचरसवित्रिचामुण्डे।
गुणिनि गुहारिणि गुह्ये
गुरुमूर्ते त्वां नमामि कामाक्षि॥

अभिदाकृतिर्भिदाकृति–
रचिदाकृतिरपि चिराकृतिर्मातः।
अनहन्ता त्वमहन्ता
भ्रमयसि कामाक्षि शाश्वती विश्वम्॥

शिव शिव पश्यन्ति समं
श्रीकामाक्षीकटाक्षिताः पुरुषः।
विपिनं भवनममित्रं
मित्रं लोष्ठ च युवतिबिम्बोष्ठम् ॥४८॥

कामपरिपन्थिकामिनि
कामेश्वरि कामपीठमध्यगते।

कामदुघा भव कमले
कामकले कामकोटि कामाक्षि ॥४९॥

मध्येहृदयं मध्येनिटिलं
मध्ये शिरोऽपि वास्तव्याम्।
चण्डकरशक्रकार्मुक–
चन्द्रसमाभां नमामि कामाक्षीम् ॥५०॥

अधिकाञ्चि केलिलोलै–
रखिलागमयन्त्रतन्त्रमन्त्रमयैः।
अतिशीतं मम हृदयं
विषमशरद्रोहिजीवनोपायैः ॥५१॥

नन्दति मम हृदि काचन
मन्दिरयन्ती निरन्तरं काञ्चीम्।
इन्दुरविमण्डलकुचा
बिन्दुवियन्नादपरिणता तरुणी ॥५२॥

शम्पालतासवर्णं
संपादयितुं भवज्वरचिकित्साम्।
लिम्पामि मनसि किंचन
कम्पातटरोहि सिद्धभैषज्यम् ॥५३॥

अनुमितकुचकाठिन्या–
मधिवक्षः पीठमङ्गजन्मरिपोः।
आनन्ददां भजेता–
मानङ्गब्रह्मतत्त्वबोधिसिराम् ॥५४॥

ऐक्षिषिपाशाङ्कुशधर–
हस्तान्तं विस्मयार्हवृत्तान्तम्।
अधिकाञ्चि निगमवाचां
सिद्धान्तं शूलपाणिशुद्धान्तम् ॥५५॥

आहितविलासभङ्गी–
माब्रह्मस्तम्बशिल्पकल्पनया।
आश्रितकाञ्चीमतुला–
माद्यां विस्फूर्तिमाद्रिये विद्याम् ॥५६॥

मूकोऽपि जटिलदुर्गति–
शोकोऽपि स्मरति यः क्षणं भवतीम्।
एको भवति स जन्तु–
र्लोकोत्तरकीर्तिरेव कामाक्षि ॥५७॥

पञ्चदशवर्णरूपं
कञ्चन काञ्चीविहारधौरेयम्।

पञ्चशूरीयं शंभो–
र्वञ्चनवैदग्ध्यमूलमवलम्बे ॥५८॥

परिणतवतीं चतुर्धा
पदवीं सुधियां समेत्य सौषुम्नीम्।
पश्चाशदर्णकल्पित–
पदशिल्पां तां नमामि कामाक्षीम् ॥५९॥

आदिक्षन्मम गुरुरा–
डादिक्षान्ताक्षरात्मिकां विद्याम्।
स्वादिष्ठचापदण्डां
नेदिष्ठामेव कामपीठगताम् ॥६०॥

तुष्यामि हर्षितस्मर–
शासनया काञ्चिपुरि कृतासनया।
स्वासनया सकलजग–
भ्दासनया कलितशम्बरासनया ॥६१॥

प्रेमवती कम्पायां
स्थेमवती यतिमनःसु भूमवती।
सामवती नित्यगिरा
सोमवती शिरसि भाति हैमवती ॥६२॥

कौतुकिना कम्पायां
कौसुमचापेन कीलितेनान्तः।
कुलदैवतेन महता
कुड्मलमुद्रां धुनोतु नः प्रतिभा ॥६३॥

केनापि मिलितदेहा
यूना स्वाहासहायतिलकेन।
सहकारमूलदेशे
संविद्रूपाकुटुम्बिनी रमते ॥६४॥

कुसुमशरगर्वसंप–
त्कोशगृहं भाति काञ्चिमध्यगतम्।
स्थापितमस्मिन्कथमपि
गोपितमन्तर्मया मनोरत्नम् ॥६५॥

दग्धषडध्वारण्यं
दरदलितकुसुम्भसंभृतारुण्यम्।
कलये नवतारुण्यं
कम्पातटसीम्नि किमपि कारुण्यम् ॥६६॥

अधिकाञ्चि वर्धमाना–
मतुलां करवाणि पारणामक्ष्णोः।

आनन्दपाकभेदा–
मरुणिमपरिणामगर्वपल्लविताम् ॥६७॥

बाणसृणिपाशकार्मुक–
पाणिममुं कमपि कामपीठगतम्।
एणधरकोणचूडं
शोणिमपरिपाकभेदमाकलये ॥६८॥

किं वा फलति ममान्यै–
र्बिम्बाधरचुम्बिमन्दहासमुखी।
संबाधकरी तमसा–
मम्बा जागर्ति मनसि कामाक्षी ॥६९॥

मंचे सदाशिवमये
परशिवमयललितपौष्पपर्यङ्के।
अधिचक्रमध्यमास्ते
कामाक्षीनाम किमपि मम भाग्यम् ॥

लक्ष्योऽस्मि कामपीठी–
लासिकया घनकृपाम्बुराशिकया।
श्रुतियुवतिकुन्तलीमणि–
मालिकया तुहिनशैलबालिकया ॥७१॥

लीये पुरहरजाये
माये तव तरुणपल्लवच्छाये।
चरणे चन्द्राभरणे
काञ्चीशरणे नतार्तिसंहरणे ॥७२॥

मूर्तिमति मुक्तिबीजे
मूर्ध्नि स्तवकितचकोरसाम्राज्ये।
मोदितकम्पाकूले
मुहुर्मुहुर्मनसि मुमुदिषास्माकम् ॥७३॥

वेदमयीं नादमयीं
बिन्दुमयीं परषदोद्यदिन्दुमयीम्।
मन्त्रमयीं तन्त्रमयीं
प्रकृतिमयीं नौमि विश्वविकृतिमयीम् ॥७४॥

पुरमथनपुण्यकोटी
पुञ्जितकविलोकयक्तिरसधाटी।
मनसि मम कामकोटी
विहरतु करुणाविपाकपरिपाटी ॥७५॥

कुटिलं चटुलं पृथुलं
मृदुलं कचनयनजघनचरणेषु।

अवलोकितमवलम्बित–
मधिकम्पातटममेयमस्माभिः ॥७६॥

प्रत्यङ्मुख्या दृष्ट्या
प्रसाददीपाङ्कुरेण कामाक्ष्याः।
पश्यामि निस्तुलमहो
पचेलिम किमपि परशिवोल्लासम् ॥७७॥

विद्ये विधातृविषये
कात्यायनि कालि कामकोटि कले।
भारति भैरवि भद्रे
शाकिनि शांभवि शिवे स्तुवे भवतीम् ॥७८॥

मालिनि महेशचारिणि
काञ्चीखेलनि विपक्षकालिनि ते।
शूलिनि विद्रुमशालिनि
सुरजनपालिनि कपालिनि नमोऽस्तु ॥७९॥

देशिक इति किं शङ्के
तत्तादृक्तव नु तरुणिमोन्मेषः।
कामाक्षि शूलपाणेः
कामागमतन्त्रयज्ञदीक्षायाम् ॥८०॥

वेतण्डकुम्भडम्बर–
वैतण्डिककुचभरार्तमध्याय।
कुङ्कुमरुचे नमस्यां
शङ्करनयनामृताय रचयामः ॥८१॥

अधिकाञ्चितमणिकाञ्चन–
काञ्चीमधिकाञ्चि कांचिदद्राक्षम्।
अवनतजनानुकम्पा–
मनुकम्पाकूलमस्मदनुकूलाम् ॥८२॥

परिचितकम्पातीरं
पर्वतराजन्यसुकृतसंनाहम्।
परगुरुकृपया वीक्षे
परमशिवोत्सङ्गमङ्गलाभरणम् ॥८३॥

दग्धमदनस्य शंभोः
प्रथीयसीं ब्रह्मचर्यवैदग्धीम्।
तव देवि तरुणिमश्री–
चतुरिमपाको न चक्षमे मातः ॥८४॥

मदजलतमालपत्रा
वसनितपत्रा करादृतखनित्रा।

विहरति पुलिन्दयोषा
गुञ्जाभूषा फणीन्द्रकृतवेषा ॥८५॥

अङ्के शुकिनी गीते
कौतुकिनी परिसरे च गावकिनी।
जयसि सविधेऽम्ब भैरव–

मण्डलिनी श्रवसि शङ्खकुण्डलिनी ॥८६॥

प्रणतजनतापवर्गा
कृतरणसर्गा ससिंहसंसर्गा।
कामाक्षि मुदितभर्गा
हतरिपुवर्गा त्वमेव सा दुर्गा ॥८७॥

श्रवणचलद्वेतण्डा
समरोद्दण्डा धुतासुरशिखण्डा।
देवि कलितान्त्रषण्डा
धृतनरमुण्डा त्वमेव चामुण्डा ॥८८॥

उर्वीधरेन्द्रकन्ये
दर्वीभरितेन भक्तपूरेण।
गुर्वीमकिंचनार्तिं
स्वर्वीकुरुषे त्वमेव कामाक्षि ॥८९॥

ताडितरिपुपरिपीडन–
भयहरणनिपुणहलमुसला।
क्रोडपतिभीषणमुखी
क्रीडसि जगति त्वमेव कामाक्षि ॥९०॥

स्मरमथनवरणलोला
मन्मथहेलाविलासमणिशाला।
कनकरुचिचौर्यशीला
त्वमम्ब बाला कराब्जधृतमाला ॥९१॥

विमलपटी कमलकुटी
पुस्तकरुद्राक्षशस्तहस्तपुटी।
कामाक्षि पक्ष्मलक्षी
कलितविपञ्ची विभासि वैरिञ्ची ॥९२॥

कुंकुमरुचिपिङ्गमसृ–
क्पङ्किलमुण्डालिमण्डितं मातः।
जयति तव रूपधेयं
जपपटपुस्तकवराभयाब्जकरम् ॥९३॥

कनकमणिकलितभूषां
कालायसकलहशीलकान्तिकलाम्।

कामाक्षि शीलये त्वां
कपालशूलामिरामकरकमलाम् ॥९४॥

लोहितिमपुञ्जमध्ये
मोहितभुवनं मुदा निरीक्षन्ते।
वदनं तव कुचयुगलं
काञ्चीसीमां च केऽपि कामाक्षि ॥९५॥

जलधिद्विगुणितहुतवह–
दिशादिनेश्वरकलाश्विनेयदलैः।
नलिनैर्महेशि गच्छसि
सर्वोत्तरकरकमलदलममलम् ॥९६॥

सत्कृतदेशिकचरणाः
सबीजनिर्बीजयोगनिश्रेण्या।
अपवर्गसौधवलभी–
मारोहन्त्यम्बकेऽपि तव कृपया ॥९७॥

अन्तरपि बहिरपि त्वं
जन्तुततेरन्तकान्तकृदहंते।
चिन्तितसन्तानवतां
संततमपि तन्तनीषि महिमानम् ॥९८॥

कलमञ्जुलवागनुमित–
गलपञ्जरशुकग्रहौत्कण्ठ्यात्।
अम्ब रदनाम्बरं ते
बिम्बफलं शम्बरारिणा न्यस्तम् ॥९९॥

जय जय जगदम्ब शिवे
जय जय कामाक्षि जय जयाद्रिसुते।
जय जय महेशदयिते
जय जय चिद्गगनकौमुदीधारे ॥१००॥

आर्याशतकं भक्त्या
पठतामार्याकटाक्षेण।
निःसरति वदनकमला–
द्वाणी पीयूषधोरणी दिव्या ॥१०१॥

इति आर्याशतकं संपूर्णम् ॥

<MISSING_FIG href="../books_images/U-IMG-1724163868IMG_20240820_195331.png"/>

॥श्रीः॥

॥पादारविन्दशतकम्॥

<MISSING_FIG href="../books_images/U-IMG-1724164134IMG_20240820_195801.png"/>

महिम्नः पन्थानं मदनपरिपन्थिप्रणयिनि
प्रभुर्निर्णेतुं ते भवति यतमानोऽपि कतमः।
तथापि श्रीकाञ्चीविहृतिरसिके कोऽपि मनसो
विपाकस्त्वत्पादस्तुतिविधिषु जल्पाकयति माम् ॥

गलग्राही पौरंदरपुरवनीपल्लवरुचां
धृतप्राथम्यानामरुणमहसामादिमगुरुः।
समिन्धिबन्धूकस्तबकसहयुध्वा दिशि दिशि
प्रसर्पन्कामाक्ष्याश्चरणकिरणानामरुणिमा ॥२॥

मरालीनां यानाम्यसनकलनाफूलपुरवे
दरिद्राणां त्राणव्यतिकरसुरोद्यानतरवे।
तमस्काण्डप्रौढिप्रकटनतिरस्कारपटवे
जनोऽयं कामाक्ष्याश्चरणनलिनाय स्पृहयते ॥३॥

वहन्ती सैन्दूरीं सरणिमवनग्रामरपुरी–
पुरंध्रीसीमन्ते कविकमलबालार्कसुपमा।

त्रयीसीमन्तिन्याः स्तनतटनिचोलारुणपटी
विभान्ती कामाक्ष्याः पदनलिनकान्तिर्विजयते ॥४॥

प्रणम्रीभूतस्य प्रणयकलहत्रस्तमनसः
स्मरारातेश्चूडावियति गृहमेवी हिमकरः।
ययोः सांध्यां कान्तिं वहति सुषमाभिश्चरणयो–
स्तयोर्मे कामाक्ष्या हृदयमपतन्द्रं विहरताम् ॥५॥

ययोः पीठायन्ते विबुधमुकुटीनां पटलिका
ययोः सौधायन्ते स्वयमुदयभाजो भणितयः।
ययोर्दासायन्ते सरसिजभवाद्याश्चरणयो–
स्तयोर्मे कामाक्ष्या दिनमनु वरीवर्तु हृदयम् ॥६॥

नयन्ती संकोचं सरसिजरुचं दिक्परिसरे
सृजन्ती लौहित्यं नखकिरणचन्द्रार्धखचिता।
कवीन्द्राणां हृत्कैरवविकसनोद्योगजननी
स्फुरन्ती कामाक्ष्याश्चरणरुचिसंध्या विजयते ॥

विरावैर्माञ्जीरैः किमपि कथयन्तीव मधुरं
पुरस्तादानम्रे पुरविजयिनि स्मेरवदने।
वयस्येव प्रौढा शिथिलयति या प्रेमकलह–
प्ररोहं कामाक्ष्याश्चरणयुगली सा विजयते ॥८॥

सुपर्णस्त्रीलोलालकपरिचितं षट्पदकुलैः
स्फुरल्लाक्षारागं तरुणतरणिज्योतिररुणैः।
भृतं कान्त्यम्भोभिर्विसृमरमरन्दैः सरसिजै–
र्विधत्ते कामाक्ष्याश्चरणयुगलं बन्धुपदवीम् ॥९॥

रजःसंसर्गेऽपि स्थितमरजसामेव हृदये
परं रक्तत्वेन स्थितमपि विरक्तैकशरणम्।
अलभ्यं मन्दानां दधदपि सदा मन्दगतितां
विधत्ते कामाक्ष्याश्चरणयुगमाश्चर्यलहरीम् ॥१०॥

जटाला मञ्जीरस्फुरदरुणरत्नांशुनिकरै–
र्निषीदन्ती मध्ये नखरुचिझरीगाङ्गपयसाम्।
जगत्त्राणं कर्तुं जननि मम कामाक्षि नियंत
तपश्चर्यां धत्ते तव चरणपाथोजयुगली ॥११॥

तुलाकोटिद्वन्द्वक्वणितभणिताभीतिवचसो–
र्विनम्रं कामाक्ष्या विसृमरमहः पाटलितयोः।
क्षणं विन्यासेन क्षपिततमसोर्मेललितयोः
पुनीयान्मूर्धानं पुरहरपुरन्ध्री चरणयोः ॥१२॥

भवानि दुह्येतां भवनिबिडितेभ्यो मम मुहु–
स्तमोव्यामोहेभ्यस्तव जननि कामाक्षि चरणौ।

ययोर्लाक्षाबिन्दुस्कुरणधरणाद्धूर्जटिजटा–
कुटीरा शोणाङ्कं वहति वपुरेणाङ्ककलिका ॥१३॥

पवित्रीकुर्युर्नः पदतलभुवः पाटलरुचः
परागास्ते पापप्रशमनधुरीणास्तव शिवे।
कणं लब्धुं येषां निजशिरसि कामाक्षि नियतं
वलन्तो व्यातन्वन्त्यहमहमिकां वासवमुखाः ॥१४॥

बलाकामालाभिर्नखरुचिमयीभिः परिवृते
विनम्रस्वर्नारीविकचकचकालाम्बुदकुले।
स्फुरन्तः कामाक्षि स्फुटदलितबन्धूकसुहृद–
स्तडिल्लेखायन्ते तवचरणपाथोजकिरणाः ॥१५॥

सरागः सद्वेषः प्रसृमरसरोजे प्रतिदिनं
निसर्गादाक्रामन्विबुधजनमूर्धानमधिकम्।
कथंकारं मातः कथय पदपद्मस्तवसतां
नतानां कामाक्षि प्रकटयति कैवल्यसरणिम् ॥१६॥

जपालक्ष्मीशोणो जननि परमज्ञाननलिनी–
विकासव्यासङ्गो विफलितजगज्जाड्यगरिमा।
मनःपूर्वाद्रिं मे तिलकयतु कामाक्षि तरमा
तमस्काण्डद्रोही तव चरणपाथोजरमणः ॥१७॥

नमस्कुर्मः प्रेङ्खन्मणिकटकनीलोपलमहः–
पयोधौ रिङ्खद्भिर्नखकिरणफेनैर्धवलिते।
स्फुटं कुर्वाणाय प्रबलचलदौर्वानलशिखा–
वितर्कं कामाक्ष्याः सततमरुणिम्ने चरणयोः ॥१८॥

शिवे पाशायेतामलघुनि तमः कूपकुहरे
दिनाधीशायेतां मम हृदयपाथोजविपिने।
नभोमासायेतां सरसकवितारीतिमरिति
त्वदीयौ कामाक्षि प्रसृतकिरणौदेवि चरणौ ॥१९॥

निषक्तं श्रुत्यन्ते नयनमिव सद्वृत्तरुचिरैः
समैर्जुष्टं शुद्धैरधरमिव रम्यैर्द्विजगणैः।
शिवे वक्षोजन्मद्वितयमिवमुक्ताश्रितमुमे
त्वदीयं कामाक्षि प्रणतशरणं नौमि चरणम् ॥२०॥

नमस्यासंसज्जन्नमुचिपरिपन्थिप्रणयिनी
निसर्गप्रेङ्खोलत्कुरलकुलकालाहिशबले।
नखच्छायादुग्धोदधिपयसि ते वैद्रुमरुचां
प्रचारं कामाक्षि प्रचुरयति पादाब्जसुषमा ॥२१॥

कदा दूरीकर्तुं कटुदूरितकाकोलजनितं
महान्तं संतापं मदनपरिपन्थिप्रियतमे।

क्षणाचे कामक्षि त्रिभुवनपरीतापहरणे
पटीयांसं लप्स्ये पदकमलसेवामृतरसम् ॥२२॥

ययोः सान्ध्यं रोचिः सततमरुणिम्ने स्पृहयते
ययोश्चान्द्री कान्तिः परितपति दृष्ट्वानखरुचिम्।
ययोः पाकोद्रेकं पिपठिषति भक्त्या किसलयं
म्रदिम्नः कामाक्ष्या मनसि चरणौ तौ तनुमहे ॥२३॥

जगन्नेदं नेदं परमिति परित्यज्य यतिभिः
कुशाग्रीयस्वान्तैः कुशलधिषणैः शास्त्रमरणौ।
गवेष्यं कामाक्षि ध्रुवमकृतकानां गिरिसुते
गिरामैदम्पर्यं तव चरणमाहात्म्यगरिमा ॥२४॥

कृतस्नानं शास्त्रामृतसरसि कामाक्षि नितरां
दधानं वैशद्यं कलितरसमानन्दसुधया।
अलंकारं भूमेर्मुनिजनमनश्चिन्मयमहा–
पयोधेरन्तःस्थं तव चरणरत्नं मृगयते ॥२५॥

मनोगेहे मोहोद्भवतिमिरपूर्णे मम मुहु–
र्दरिद्राणीकुर्वन्दिनकरसहस्राणि किरणैः।
विधत्तां कामाक्षि प्रसृमरतमोवञ्चनचणः
क्षणार्धं सान्निध्यं चरणमणिदीपो जननि ते ॥२६॥

कवीनां चेतोवन्नखररुचिसंपर्कि विबुध–
स्रवन्तीस्रोतोत्पटुमुखरितं हंसकवैः।
दिनारम्भश्रीवन्नियतमरुणच्छायसुभगं
मदन्तः कामाक्ष्याः स्फुरतु पदपङ्केरुहयुगम् ॥२७॥

सदा किं संपर्कात्प्रकृतिकठिनैर्नाकिमुकुटै–
स्तटैर्नीहाराद्रेरधिकमणुना योगिमनसा।
विभिन्ते संमोहं शिशिरयति भक्तानपि दृशा–
मदृश्यंकामाक्षि प्रकटयति ते पादयुगलम् ॥२८॥

पवित्राभ्यामम्बप्रकृतिमृदुलाभ्यां तव शिवे
पदाभ्यां कामाक्षि प्रसभमभिभूतैः सचकितैः।
प्रवालैरम्भोजैरपि च वनवासव्रतदशाः
सदैवारभ्यन्ते परिचरितनानाद्विजगणैः ॥२९॥

चिराद्दृश्या हंसैः कथमपि सदा हंससुलभं
निरस्यन्ती जाड्यं नियतजडमध्यैकशरणम्।
अदोषव्यासङ्गा सततमपि दोषाप्तिमलिनं
पयोजं कामाक्ष्याः परिहसति पादाब्जयुगली ॥३०॥

सुराणामानन्दप्रबलनतया मण्डनतया
नखेन्दुज्योत्स्नाभिर्विसृमरतमः खण्डनतया।

योजश्रीद्वेषव्रतरततया त्वच्चरणयो–
र्विलासः कामाक्षि प्रकटयति नैशाकरदशाम् ॥३१॥

सेतिम्ना कान्तीनां नखरजनुषां पादनलिन–
च्छवीनां शोणिम्ना तव जननि कामाक्षि नमने।
लभन्ते मन्दारग्रथितनवबन्धूककुसुम–
स्रजां सामीचीन्यं सुरपुरपुरन्ध्रीकचभराः ॥३२॥

नखश्रीसंनद्धस्तबकनिचितः स्वैश्चकिरणैः
पिशङ्गैः कामाक्षि प्रकटितलसत्पल्लवरुचिः।
व्रतां गभ्यः शङ्के सकलफलदाता सुरतरु–
स्त्वदीयः पादोऽयं तुहिनगिरिराजन्यतनये ॥३३॥

स्फुरन्मध्ये शुद्धे नखकिरणदुग्धाब्धिपयसां
वहन्नब्जं चक्रं दरमपि च लेखात्मकतया।
श्रितो मात्स्यं रूपं श्रियमपि दधानो निरुपमां
त्रिधामा कामाक्ष्याः पदनलिननामा विजयते ॥३४॥

वषट्कुर्वन्माञ्जीरजकलकलैः कर्मलहरी–
हवींषि प्रोद्दण्डं ज्वलति परमज्ञानदहने।
महीयान्कामाक्षि स्फुटमहसि जोहोति सुधियां
मनोवेद्यां मातस्तव चरणयज्वा गिरिसुते ॥३५॥

महामन्त्रं किंचिन्मणिकटकनादैरिव जप–
न्क्षिपन्दिक्षु स्वच्छं नखरुचिमयं भास्मनरजः।
नतानां कामाक्षि प्रकृतिपटुरुच्चाट्य ममता–
पिशाचीं पादोऽयं प्रकटयति ते मान्त्रिकदशाम् ॥३६॥

उदीते बोधेन्द्रौ तमसि नितरां जग्मुपि दशां
दरिद्रां कामाक्षि प्रकटमनुरागं विदधती।
सितेनाच्छाद्याङ्गं नखरुचिपटेनाङ्घ्रियुगली–
पुरन्ध्री ते मातः स्वयमभिसरत्येव हृदयम् ॥३७॥

दिनारम्भः सध्र्यङ्नलिनविपिनानामभिनवो
विकासो वासन्तः सुकविपिकलोकस्य नियतम्।
प्रदोषः कामाक्षि प्रकटपरमज्ञानशशिन–
श्चकास्ति त्वत्पादस्मरणमहिमा शैलतनये ॥३८॥

धृतच्छायं नित्यं सरसिरुहमैत्रीपरिचितं
निधानं दीप्तीनां निखिलजगतां बोधजनकम्।
मुमुक्षूणां मार्गप्रथनपटु कामाक्षि पदवीं
पदं ते पातङ्गीं परिकलयते पर्वतसुते ॥३९॥

शनैस्तीर्त्वा मोहाम्बुधिमथ समारोदुमनसः
श्रमात्कैवल्याख्यां सुकृतिसुलभां सौधवलभीम्।

लभन्ते निःश्रेणीमिवझटिति कामाक्षि चरणं
पुरश्चर्याभिस्ते पुरमथनसीमन्तिनि जनाः ॥४०॥

प्रचण्डार्तिक्षोभप्रमथनकृते प्रातिभसरि–
त्प्रवाहप्रोद्दण्डीकरणजलदाय प्रलमताम्।
प्रदीपाय प्रौढे भ

—————-रण
प्रसादौन्मुख्याय स्पृहयति जनोऽयं जननि ते ॥४१॥

मरुद्भिः संसेव्या सततमपि चाञ्चल्यरहिता
सदारुण्यंयान्ती परिणतिदरिद्राणसुषमा।
गुणोत्कर्पान्मञ्जीरजकलकलैस्तर्जनपटुः
प्रवालं कामाक्ष्याः परिहसति पादाब्जयुगली ॥४२॥

जगद्रक्षादक्षा नलिनरुचिशिक्षापटुतरा
सुरैर्नम्या रम्या सततमभिगम्या बुधजनैः।
द्वयी लीलालोला श्रुतिषु सुरपालादिमुकुटी–
तटीसीमाधामा तत्र जननि कामाक्षि पदयोः ॥४३॥

गिरां दूरौ चोरौ जडिमतिमिराणां कृतजग–
त्परित्राणौ शोणौ मुनिहृदयलीलैकनिपुणौ।

नखैः स्मेरौ सारौ निगमवचसां खण्डितभव-
ग्रहोन्मादौ पादौ मम मनसि कामाक्षि कलये ॥४४॥

अविश्रान्तं पङ्कं यदपि कलयन्यावकमयं
निरस्यन्कामाक्षि प्रणमनजुषांपङ्कमखिलम्।
तुलाकोटिद्वन्द्वं दधदपि च गच्छन्नतुलतां
गिरां मार्गं पादो गिरिवरसुते लङ्घयति ते ॥४५॥

प्रवालं सव्रीडं विपिनविवरे वेपयति वा
स्फुरल्लीलं बालातपमधिकबालं दधति या।
रुचिं सांध्यां वन्ध्यां विरचयति या वर्धयतु सा
शिवं मे कामाक्ष्याः पदनलिनपाटल्यलहरी ॥४६॥

किरञ्ज्योत्सारीतिंनखमणिरुचा हंसमनसां
वितन्वानः प्रीतिं विकचतरुणाम्भोरुहरुचिः।
प्रकाशः श्रीपादस्तव जननि कामाक्षि तनुते
शरत्कालप्रौढिं शशिशकलचूडग्रियतमे ॥४७॥

नखाङ्कूरस्मेरद्युतिविमलगङ्गाम्भसि सुखं
कृतस्नानं ज्ञानामृतमलमास्वाद्यनियतम्।
उदञ्चन्माञ्चीरस्फुरणमणिदीपे मम मनो
मनोज्ञे कामाक्ष्याश्चरणमणिहर्म्ये विहरताम् ॥४८॥

भवाम्भोधौ नौकां जडिमविपिने पावकशिखां
प्रणम्रेन्द्रादीनामधिमुकुटमुत्तंसकलिकाम्।
जगत्तापज्योत्स्नामकृतकवचःपञ्जरपुटे
शुकस्त्रीं कामाक्ष्या मनसि कलये पादयुगलीम् ॥४९॥

परात्मप्राकाश्यप्रतिफलनचुञ्चुः प्रणमतां
मनोज्ञस्त्वत्पादो मणिमुकुरमुद्रां कलयते।
यदीयां कामाक्षि प्रकृतिमसृणाः शोधकदशां
विधातुं चेष्टन्ते वलरिपुवधूटीकचभराः ॥५०॥

अविश्रान्तं तिष्ठन्नकृतकवचःकंदरपुटी–
कुटीरान्तः प्रौढां नखरुचिसटालीं प्रकटयन्।
प्रचण्डं खण्डत्वं नयतु मम कामाक्षि तरसा
तमोवेतण्डेन्द्रं तव चरणकण्ठीरवपतिः ॥५१॥

पुरस्तात्कामाक्षि प्रचुररसमाखण्डलपुरी–
पुरंध्रीणां लास्यं तव ललितमालोक्य शनकैः।
नखश्रीभिः स्मेरा बहु वितनुते नूपुररवै-
श्चमत्कृत्या शङ्के चरणयुगली चाटुरचनाः ॥५२॥

सरोजं निन्दन्ती नखकिरणकर्पूरशिशिरा
निषिक्ता मारारेर्मुकुटशशिरेखाहिमजलैः।

स्फुरन्ती कामाक्षि स्फुटरुचिमये पल्लवचये
तवाधत्ते मैत्रीं पथिकसुदृशा पादयुगली ॥५३॥

नतानां संपत्तेरनवरतमाकर्षणजपः
प्ररोहत्संसारप्रसारगरिमस्तम्भनजपः।
त्वदीयः कामाक्षि स्मरहरमनोमोहनजपः
पटीयान्नः पायात्पदनलिनमञ्जीरनिनदः ॥५४॥

वितन्वीथा नाथे मम शिरशि कामाक्षि कृपया
पदाम्भोजन्यासं पशुपरिवृढप्राणदयिते।
पिबन्तो यन्मुद्रां प्रकटमुकम्पापरिसरं
दृशा नानन्द्यन्ते नलिनमवनारायणमुखाः ॥५५॥

प्रणामोद्यद्वृन्दारकमुकुटमन्दारकलिका–
विलोलल्लोलम्बप्रकरमयधूमप्रचुरिमा।
प्रदीप्तः पादाब्जद्युतिविततिपाटल्यलहरी–
कृशानुः कामाक्ष्या मम दहतु संसारविपिनम् ॥

वलक्षश्रीर्ऋक्षाधिपशिशुसदृक्षा तव नखै–
र्जिघृक्षुर्दक्षत्वं सरसिरुहभिक्षुत्वकरणे।
क्षणान्मे कामाक्षि क्षपितभवसंक्षोभगरिमा
वचोवैचक्षण्यं चरणयुगली पक्ष्मलयताम् ॥५७॥

समन्तात्कामाक्षि क्षततिमिरसंतानसुभगा–
ननन्ताभिर्भाभिर्दिनमनु दिगन्तान्विरचयन्।
अहंताया हन्ता मम जमिदन्तावलरिपु
र्विभिन्तां संतापं तवचरणचिन्तामणिरसौ ॥५८॥

दधानो भास्वत्ताममृतनिलयो लोहितवपु–
र्विनम्राणां सौम्यो गुरुरपि कवित्वं च कलयन्।
गतौ मन्दो गङ्गाधरमहिषिकामाक्षि भजतां
तमःकेतुर्मातस्तव चरणपद्मो विजयते ॥५९॥

नयन्तीं दासत्वं नलिनभवमुख्यानसुलभ–
प्रदानाद्दीनानाममरतरुदौर्भाग्यजननीम्।
जगज्जन्मक्षेमक्षयविधिषु कामाक्षि पदयो–
र्धुरीणामीष्टे कस्तव भणितुमाहीपुरुषिकाम् ॥६०॥

जनोऽयं संतप्तो जननि भवचण्डांशुकिरणै-
रलब्ध्वैकं शीतं कणमपि परज्ञानपयसः।
तमोमार्गे पान्थस्तव झटिति कामाक्षि शिशिरां
पदाम्भोजच्छायां परमशिवजाये मृगयते ॥६१॥

जयत्यम्ब श्रीमन्नखकिरणचीनांशुकमयं
वितानं बिभ्राणे सुरमुकुटसंघट्टमसृणे।

निजारुण्यक्षौमास्तरणवति कामाक्षि सुलभा
बुधैः संविन्नारी तव चरणमाणिक्यभवने ॥६२॥

प्रतीमः कामाक्षि स्फुरिततरुणादित्यकिरण–
श्रियो मूलद्रव्यं तव चरणमद्रीन्द्रतनये।
सुरेन्द्राशामापूरयति यदसौ ध्वान्तमखिलं
धुनीते दिग्भागानपि च महसा पाटलयते ॥६३॥

महाभाष्यव्याख्यापटुशयनमारोपयति वा
स्मरव्यापारेर्ष्यापिशुननिटिलं कारयति वा।
द्विरेफाणामध्यासयति सततं वाधिवसतिं
प्रणम्राः कामाक्ष्याः पदनलिनमाहात्म्यगरिमा ॥६४॥

विवेकाम्भः स्रोतः स्नपनपरिपाटीशिशिरिते
समीभूते शास्त्रस्मरणहलसंकर्षणवशात्।
सतां चेतःक्षेत्रे वपति तव कामाक्षि चरणौ
महासंवित्सस्यप्रकरवरबीजं गिरिसुते ॥६५॥

दधानो मन्दारस्तबकपरिपाटीं नखरुचा
वहन्दीप्तां शोणाङ्गुलिपटलचाम्पेयकलिकाम्।
अशोकोल्लासं नः प्रचुरयतु कामाक्षि चरणो
विकासी वासन्तः समय इव ते शर्वदयिते ॥६६॥

नखांशुप्राचुर्यप्रसृमरमरालीधवलितः
स्फुरन्मञ्जीरोद्यन्मरकतमहः शैवलयुतः।
भवत्याः कामाक्षि स्फुटचरणपाटल्यकपटो
नदः शोणाभिख्यो नगपतितनूजे विजयते ॥६७॥

धुनानां पङ्कौघ परमसुलभं कण्टककुलै–
र्विकासव्यासङ्गं विदधदपराधीनमनिशम्।
नखेन्दुज्योत्स्नाभिर्निशदरुचि कामाक्षि नितरा–
मसामान्यं मन्ये सरसिजमिदं ते पदयुगम् ॥६८॥

करीन्द्राय द्रुह्यत्यलसगतिलीलासु विमलैः
पयोजैर्मात्सर्यं प्रकटयति कामं कलयते।
पदाम्भोजद्वन्द्वं तत्र तदपि कामाक्षि हृदये
मुनीनां शान्तानां कथमनिशनस्मै स्पृहयते ॥६९॥

निरस्ता शोणिम्ना चरणकिग्णानां तव शिवे
समिन्धाना संध्यारुचिरचनराजन्पतनये।
असामर्थ्यादेनं परिभवितुमेतत्समरुचां
सरोजानां जाने मुकुलयति शोभां प्रतिदिनम् ॥७०॥

उपादिक्षाक्ष्यं तव चरणनामा गुरुरसौ
मरालानां शङ्के मसृणगतिलालित्यसरणौ।

अतस्ते निस्तन्द्रं नियतममुना सख्यपदवीं
प्रपन्नं पाथोजं प्रतिदधति कामाक्षि कुतुकम् ॥७१॥

दधानैः संसर्गं प्रकृतिमलिनैः षड्पदकुलै–
र्द्विजाधीशश्लाघाविधिषु विदधद्भिर्मुकुलताम्।
रजोमिश्रैः पद्मैर्नियतमपि कामाक्षि पदयो–
र्विरोधस्ते युक्तो विषमशरवैरिप्रियतमे ॥७२॥

कवित्वश्रीमिश्रीकरणनिपुणौ रक्षणचणौ
विपन्नानां श्रीमन्नलिनसृणौ शोणकिरणौ।
मुनीन्द्राणामन्तःकरणशरणौ दसरणौ
मनोज्ञौ कामाक्ष्या दुरितहरणौ नौमि चरणौ ॥७३॥

परस्मात्सर्वस्मादपि च परयोर्मुक्तिकरयो–
र्नखश्रीषु ज्योत्स्नाकुलिततुलयोस्ताम्रतलयोः।
निलीये कामाक्ष्या निगमनुतयोर्नाकिनतयो–
र्निरस्तप्रोन्मीलन्नलिनमदयोरेव पदयोः ॥७४॥

स्वभावादन्योन्यं किसलयमपीदं तव पदं
म्रदिम्ना शोणिम्ना भगवति दधाते सदृशताम्।
वने पूर्वस्येच्छा सततमवने किं तु जगतां
परस्येत्थं भेदः स्फुरति हृदि कामाक्षि सुधियाम् ॥७५॥

कथं वाचालोऽपि प्रकटमणिमञ्जीरनिनदैः
सदैवानन्दार्द्रान्विरचयति वाचंयमजनान्।
प्रकृत्या ते शोणच्छविरपि च कामाक्षि चरणो
मनीषानैर्मल्यं कथमिव नृणां मांसलयते॥७६॥

चलत्तृष्णावीचीपरिचलनपर्याकुलतया
मुहुर्भ्रान्त्वा तान्तः परमशिवनामाक्षि परवान्।
तितीर्षुः कामाक्षि प्रचुरतरकर्माम्बुधिममुं
कदाहं लप्स्ये ते चरणमणिसेतुं गिरिसुते॥७७॥

विशुष्यन्त्यां प्रज्ञासरिति दुरितग्रीष्मसमय–
प्रभावेण क्षीणे सति मम मनःकेकिनि शुचा।
त्वदीयः कामाक्षि स्फुरितचरणाम्भोदमहिमा
नभोमासाटोपं नगपतिसुते किं न कुरुते॥७८॥

विनम्राणां चेतोभवनवलभीसीम्नि चरण–
प्रदीपे प्राकाश्यं दधति तवनिर्धूततमसि।
असीमा कामाक्षि स्वयमलघुदुष्कर्मलहरी
विघूर्णन्ती शान्तिं शलभपरिपाटीय भजते॥७९॥

विराजन्ती शुक्तिर्नखकिरणमुक्तामणितते–
र्विपत्पाथोराशौ तरिरपि नराणां प्रणमताम्।

त्वदीयः कामाक्षि ध्रुवमलघुवह्निर्भववने
मुनीनां ज्ञानाग्नेररणिरयमङ्घ्रिर्विजयते॥८०॥

समस्तैः संसेव्यः सततमपि कामाक्षि विबुधैः
स्तुतो गन्धर्वस्त्रीसुललितविपञ्चीकलरवैः।
भवत्या भिन्दानो भवगिरिकुलं जृम्भिततमो–
वलद्रोही मातश्चरणपुरुहूतो विजयते॥८१॥

वसन्तं भक्तानामपि मनसि नित्यं परिलस–
द्धनच्छायापूर्णं शुचिमपि नृणां तापशमनम्।
नखेन्दुज्योत्स्नाभिः शिशिरमपि पद्मोदयकरं
नमामः कामाक्ष्याश्चरणमधिकाश्चर्यकरणम्॥८२॥

कवीन्द्राणां नानाभणितिगुणचित्रीकृतवचः–
प्रपञ्चव्यापारप्रकटनकलाकौशलनिधिः।
अधःकुर्वन्नब्जं सनकभृगुमुख्यैर्मुनिजनै–
र्नमस्यः कामाक्ष्याश्चरणपरमेष्ठी विजयते॥८३॥

भवत्याः कामाक्षि स्फुरितपदपङ्केरुहभुवां
परागाणां पूरैः परिहृतकलङ्कव्यतिकरैः।
नतानामामृष्टे हृदयमुकुरे निर्मलरुचि–
प्रसन्ने निःशेषं प्रतिफलति विश्वं गिरिसुते॥८४॥

तव त्रस्तं पादात्किसलयमरण्यान्तरमगा–
त्परं रेखारूपं कमलममुमेवाश्रितमभृत्।
जितानां कामाक्षि द्वितयमपि युक्तं परिभवे
विदेशे वासो वा शरणगमनं वा निजरिपोः॥८५॥

गृहीत्वा याथार्थ्यं निगप्तवचसां देशिककृपा–
कटाक्षार्कज्योतिःशमितममताबन्धतमसः।
यतन्ते कामाक्षि प्रतिदिवसमन्तर्द्रढयितुं
त्वदीयं पादाब्जं सुकृतपरिपाकेन सुजनाः॥८६॥

जडानामप्यम्बस्मरणसमये त्वच्चरणयो–
र्भमन्मन्थक्ष्माभृद्घुमघुमितसिन्धुप्रतिभटाः।
प्रसन्नाः कामाक्षि प्रसभमधरस्पन्दनकरा
विभान्ति स्वच्छन्दं प्रकृतिपरिपक्वा भणितयः॥८७॥

वहन्नप्यश्रान्तं मधुरनिनदं हंसकमसौ
तमेवाधःकर्तुं किमिव यततेकेलिगमने।
भवस्यैवानन्दं विदधदपि कामाक्षि चरणो
भवत्यास्तद्द्रोहं भगवति किमेवं वितनुते॥८८॥

यदत्यन्तं ताम्यत्यलसगतिवार्तास्वपि शिवे
तदेतत्कामाक्षि प्रकृतिमृदुलं ते पदयुगम्।

किरीटैः संघट्टं कथमिव सुरौघस्य सहते
मुनीन्द्राणामास्ते मनसि च कथं सूचिनिशिते॥८९॥

मनोरङ्गे मत्के विबुधजनसंमोदजननी
सरागव्यासङ्गं सरसमृदुसंचारसुभगा।
मनोज्ञा कामाक्षि प्रकटयतु लास्यप्रकरणं
रणन्मञ्जीरा ते चरणयुगलीनर्तकवधूः॥९०॥

परिष्कुर्वन्मातः पशुपतिकपर्दं चरणराट्
पराचां हृत्पद्मं परमभणितीनां च मुकुटम्।
भवाख्ये पाथोधौ परिहरतु कामाक्षि ममता–
पराधीनत्वं मे परिमुषितपाथोजमहिमा॥९१॥

प्रसूनैः संपर्कादिमरतरुणीकुन्तलभवै–
रभीष्टानां दानादनिशमपि कामाक्षि नमताम्।
स्वसङ्गात्कङ्केलिप्रसवजनकत्वेन च शिवे
त्रिधा धत्ते वार्तां सुरभिरिति पादो गिरिसुते॥९२॥

महामोहस्तेनव्यतिकरभयात्पालयति यो
विनिक्षिप्तं स्वस्मिन्निजजनमनोरत्नमनिशम्।
स रागस्योद्रेकात्सततमपि कामाक्षि रुचिरां
किमेवं पादोऽसौ किसलयरुचिं चोरयति ते॥९३॥

सदा स्वादुंकारं विषयलहरीशालिकणिकां
समास्वाद्य श्रान्तं हृदयशुकपोतं जननि मे।
कृपाजाले कालेक्षणमहिपि कामाक्षि रमसा–
द्गृहीत्वा रुन्धीथाश्चरणयुगलीपञ्जरपुटे॥९४॥

धुनानं कामाक्षि स्मरणलमात्वेण जडिम–
ज्वरप्रौढिं गूढस्थिति निगहरेकुञ्जकुहरे।
अलभ्यं सर्वेषांकतिचन लभन्ते सुकृतिन–
श्चिरादन्विष्यन्तस्तव चरणसिद्धौषधमिदम्॥९५॥

रणन्मञ्जीराभ्यां ललितगमनाभ्यां सुकृतिनां
मनोवास्तव्याभ्यांम..तिमिराभ्यांनखरुचा।
निधेयाभ्यां पत्या निजशिरसिकामाक्षि सततं
नमस्ते पादाभ्यां नलिदमृदुलराभ्यां गिरिमुते॥९६॥

सुरागे राकेन्दप्रतिनिधिमुखे पर्वतसुते
चिराल्लभ्ये भक्त्या शमधनजनानां परिपदा।
मनोभृङ्गो मत्कः पदकमलयुग्मे जननि ते
प्रकामं कामाक्षि त्रिपुरहरवामाक्षि रमताम्॥९७॥

शिवे संवित्पाशैः शशिशकलचूडप्रियतमे
शनैर्गत्यागत्या जितसुरवरेभे गिरिसुते।

यतन्ते सन्तस्ते चरणनलिनालानयुगले
सदा बद्धुं चित्तप्रमदकरियूथं दृढतरम्॥९८॥

यशः सूते मातर्मधुरकवितां पक्ष्मलयते
श्रियं दत्ते चित्ते कमपि परिपाकं प्रथयते।
सतां पाशग्रन्थिं शिथिलयति किं किं न कुरुते
प्रपन्ने कामाक्ष्याः प्रणतिपरिपाटी चरणयोः॥९९॥

मनीषां माहेन्द्रीं ककुभमिव ते कामपि दशां
प्रधत्ते कामाक्ष्याश्चरणतरुणादित्यकिरणः।
यदीये संपर्के धृतरसमरन्दा कवयतां
परीपाकं धत्ते परिमलवती सूक्तिनलिनी॥१००॥

पुरा मारारातिः पुरमजयदम्ब स्तवशतैः
प्रसन्नायां सत्यां त्वयि तुहिनशैलेन्द्रतनये।
अतस्ते कामाक्षि स्फुरतु तरसा कालसमये
समायाते मातर्मम मनसि पादाब्जयुगली॥१०१॥

पदद्वन्द्वं मन्दं गतिषु निवसन्तं हृदि सतां
गिरामन्ते भ्रान्तं कृतकरहितानां परिवृढे।
जनानामानन्दं जननि जनयन्तं प्रणमतां
त्वदीयं कामाक्षि प्रतिदिनमहं नौमि विमलम्॥१०२॥

इदं यः कामाक्ष्याश्चरणनलिनस्तोत्रशतकं
जपेन्नित्यं भक्त्या निखिलजगदाह्लादजनकम्।
स विश्वेषां वन्द्यः सकलकविलोकैकतिलक–
श्चिरं भुक्त्वा भोगान् परिणमति चिदुपकलया॥१०३॥

पादारविन्दशतकं संपूर्णम्॥

<MISSING_FIG href="../books_images/U-IMG-1724206227IMG_20240820_195331.png"/>

॥ श्रीः ॥

स्तुतिशतकम्॥

<MISSING_FIG href="../books_images/U-IMG-1724206288IMG_20240820_195801.png"/>

पाण्डित्यं परमेश्वरि स्तुतिविधौ नैवाश्रयन्ते गिरां
वैरिञ्चान्यपि गुम्फनानि विगलद्गर्वाणि शर्वाणि ते।
स्तोतु त्वां परिफुल्लनीलनलिनश्यामाक्षि कामाक्षि मां
वाचालीकुरुते तथापि नितरां त्वत्पादसेवादरः॥१॥

तापिञ्छस्तबकत्विषे तनुभृतां दारिद्र्यमुद्राद्विषे
संसाराख्यतमोमुपे पुररिपोर्वामाङ्कसीमाजुषे।
कम्पातीरमुपेयुषेकवयतां जिह्वाकुटीं जग्मुपे
विश्वत्राणपुषे नमोऽस्तु सततं तस्मै परंज्योतिषे॥२॥

ये संध्यारुणयन्ति शंकरजटाकान्तारचन्द्रार्भकं
सिन्दूरन्ति च ये पुरन्दरवधूसीमन्तसीमान्तरे।
पुण्यं ये परिपक्वयन्ति भजतां काञ्चीपुरे माममी
पायासुः परमेश्वरप्रणयिनीपादोद्भवाः पांसवः॥३॥

कामाडम्बरपूरया शशिरुचा कस्मितानां त्विषा
कामारेरनुरागसिन्धुमधिकं कल्लोलितं तन्वती।

कामाक्षीति समस्तसज्जननुना कल्याणदात्री नृणां
कारुण्याकुलमानसा भगवती कम्पातटे जृम्भते॥४॥

कामाक्षीणपराक्रमप्रकटनं संभावयन्ती दृशा
श्यामा क्षीरसहोदरस्मिदरुचिप्रक्षालिताशान्तरा।
वामाक्षीजनमौलिभूषणमणिर्वाचां परा देवता
कामाक्षीति विभाति कापि करुणा कम्पातटिन्यास्तटे॥

श्यामा काचन चन्द्रिकात्र भुवने पुण्यात्मनामानने
सीमाशुन्यकवित्ववर्षजननी या कापि कादम्बिनी।
मारारातिमनोविमोहनविधौ काचित्तमःकन्दली
कामाक्ष्याः करुणाकटाक्षलहरी कामाय मे कल्पतात्॥६॥

प्रौढध्वान्तकदम्बके कुमुदिनीपुण्याङ्कुरं दर्शय–
ञ्ज्योत्स्नासंगमनेऽपि कोकमिथुनं मिश्रं समुद्भावयन्।
कालिन्दीलहरीदशां प्रकटयन्कम्रां नभस्यद्भुतां
कश्चिन्नेत्रमहोत्सवो विजयते काञ्चीपुरे शलिनः॥७॥

तन्द्राहीनतमालनीलसुपमैस्तारुण्यलीलागृहै-
स्तारानाथकिशोरलाञ्चितकवैस्ताम्रारविन्देक्षणैः।
मातः संश्रयतां मनो मनसिजप्रागल्भ्यनाडिंधमैः
कम्पातीरचरैर्घनस्तनभरैः पुण्याङ्कुरैः शांकरैः॥८॥

नित्यं निश्चलतामुपेत्य मरुतां रक्षाविधिं पुष्णती
तेजःसंचयपाटवेन किरणानुष्णद्युतैर्मुष्णती।
काञ्चीमध्यगतापि दीप्तिजननी विश्वान्तरे जृम्भते
काचिच्चित्रमहो स्मृतापि तमसां निर्वापिका दीपिका॥९॥

कान्तैः केशरुचां चयैर्भ्रमरितं मन्दस्मितैः पुष्पितम्
कान्त्या पल्लवितं पदाम्बुरुहयोर्नेत्रत्विषापत्रितम्।
कम्पातीरवनान्तरं विदधती कल्याणजन्मस्थली
काञ्चीमध्यमहामणिर्विजयते काचित्कृपाकन्दली॥१०॥

राकाचन्द्रसमानकान्तिवदना नाकाधिराजस्तुता
मूकानामपि कुर्वती सुरधुनीनीकाशवाग्वैभवम्।
श्रीकाञ्चीनगरीविहाररसिका शोकापन्त्री सता–
मेका पुण्यपरम्परा पशुपतेराकारिणी राजते॥११॥

जाता शीतलशैलतः सुकृतिनां दृश्या परं देहिनां
लोकानां क्षणमात्रसंस्मरणतः संतापविच्छेदिनी।
आश्चर्यं बहुखेलनं वितनुते नैश्चल्यमाबिभ्रती
कम्पायास्तटसीम्रिकापि तटिनी कारुष्यपाथोमयी॥१२॥

ऐक्यं येन विरच्यते हरतनौ दम्भावपुंभावके
रेखा यत्कचसीम्नि शेखरदशां नैशाकरी गाहते।

औन्नत्यं मुहुरेति येन स महान्मेनासखः सानुमा-
न्कम्पातीरविहारिणा सशरणास्तेनैव धाम्ना वयम्॥१३॥

अक्ष्णोश्च स्तनयोः श्रिया श्रवणयोर्बाह्वोश्च मूलं स्पृश–
न्नुत्तंसेन मुखेन च प्रतिदिनं दुह्यन्पयोजन्मने।
माधुर्येण गिरां गतेन मृदुना हंसाङ्गनां ह्वेपय-
न्काञ्चीसीम्नि चकास्ति कोऽपि कवितासंतानबीजाङ्कुरः॥

खण्डं चान्द्रमसं वतंसमनिशं काञ्चीपुरे खेलनं
कालायश्छवितस्करीं तनुरुचिं कर्णेजपे लोचने।
तारुण्योष्मनखंपचं स्तनभरं जङ्घास्पृशं कुन्तलं
भाग्यं देशिकसंचितं मम कदा संपादयेदम्बिके॥१५॥

तन्वानं निजकेलिसौधसरणिं नैसर्गिकीणां गिरां
केदारं कविमल्लसूक्तिलहरीसस्यश्रियां शाश्वतम्।
अंहोवञ्चनचञ्चु किंचन भजे काञ्चीपुरीमण्डनम्
पर्यायच्छवि पाकशासनमणेः पौष्पेषवं पौरुषम्॥१६॥

आलोके मुखपङ्कजे च दधती सौधाकरीं चातुरीम्
चूडालंक्रियमाणपङ्कजवनीवैरागमप्रक्रिया।
मुग्धस्मेरमुखी घनस्तनतटीमूर्छालमध्याञ्चिता
काञ्चीसीमनि कामिनी विजयते काचिञ्जगन्मोहिनी॥१७॥

यस्मिन्नम्ब भवत्कटाक्षरजनी मन्देऽपि मन्दस्मित–
ज्योत्स्नासंस्त्नपिता भवत्यमिमुखी तं प्रत्यहो देहिनम्।
द्राक्षामाक्षिकमाधुरीमदभरव्रीडाकरी वैखरी
कामाक्षि स्वयमातनोत्यभिसृतिं वामेक्षणेव क्षणात्॥१८॥

कालिन्दीजलकान्तयः स्मितरुचिस्वर्वाहिनीपाथसि
प्रौढध्वान्तरुचः स्फुटाधरमहोलौहित्यसंध्योदये।
माणिक्योपलकुण्डलांशुशिखिनि व्यामिश्रधूमश्रियः
कल्याणैकभुवः कटाक्षतुपमाः कामाक्षि राजन्ति ते॥१९॥

कलकलरणत्काञ्ची काञ्चीविभूषणमालिका
कचभरलसच्चन्द्रा चन्द्रावतंससधर्मिणी।
कविकुलगिरः श्रावंश्रावं मिलत्पुलकाङ्कुरा
विरचितशिरःकम्पा कम्पातटे परिशोभते॥२०॥

सरसवचसां वीची नीचीभवन्मधुमाधुरी
भरितभुवना कीर्तिर्भूर्तिर्मनोभवजित्वरी।
जननि मनसो योग्यं भोग्यं नृणां तव जायते
कथमिवविना काञ्चीभूपे कटाक्षतरङ्गितम्॥२१॥

भ्रमरितसरित्कूलो नीलोत्पलप्रभया भया–
नतजनतमःखण्डी तुण्डीरसीम्नि विजृम्भते।

अचलतपसामेकः पाकः प्रसूनशरासन–
प्रतिभटमनोहारी नारीकुलैकशिखामणिः॥२२॥

मधुरवचसो मन्दस्मेरा मतङ्गजगामिन–
स्तरुणिमजुषस्तापिञ्छाभास्तमः परिपन्थिनः।
कुचभरनताः कुर्युर्भद्रं कुरङ्गविलोचनाः
कलितकरुणाः काञ्चीभाजः कपालिमहोत्सवाः॥२३॥

कमलसुषमाकक्ष्यारोहे विचक्षणवीक्षणाः
कुमुदसुकृतक्रीडाचूडालकुन्तलबन्धुराः।
रुचिररुचिभिस्तापिञ्छश्रीप्रपञ्चनचुञ्चवः
पुरविजयिनः कम्पातीरे स्फुरन्ति मनोरथाः॥२४॥

कलितरतयः काञ्चीलीलाविधौ कविमण्डली–
वचनलहरीवासन्तीनां वसन्तविभूतयः।
कुशलविधये भूयासुर्भेकुरङ्गविलोचनाः
कुसुमविशिखारातेरक्ष्णां कुतूहलविभ्रमाः॥२५॥

कवलिततमस्काण्डास्तुण्डीरमण्डलमण्डनाः
सरसिजवनीसंतानानामरुतुदशेखराः।
नयनसरणेर्नेदीयांसः कदा नु भवन्ति मे
तरुणजलदश्यामाः शंभोस्तपःफलविभ्रमाः॥२६॥

‌अचरममिषुं दीनं मीनध्वजस्य मुखश्रिया
सरसिजभुवो यानं म्लानं गतेन च मञ्जुना।
त्रिदशसदसामन्नं खिन्ने गिरा च वितन्वती
तिलकयति सा कम्पातीरं त्रिलोचनसुन्दरी॥२७॥

जननि भुवने चङ्क्रम्येऽहं कियन्तमनेहसं
कुपुरुषकरभ्रष्टैर्दुष्टैर्धनैरुदरंभरिः।
तरुणकरुणे तन्द्राशुन्ये तरङ्गय लोचने
नमति मयि ते किंचित्काञ्चीपुरीमणिदीपिके॥२८॥

मुनिजनमनःपेटीरत्नं स्फुरत्करुणानटी–
विहरणकलागेहं काञ्चीपुरीमणिभूषणम्।
जगति महतो मोहव्याधेर्नृणां परमौषधं
पुरहरदृशां साफल्यं मे पुरः परिजृम्भताम्॥२९॥

सुनिजनमनोधाम्ने धाम्ने वचोमयजाह्नवी–
हिमगिरितटप्राग्भारायाक्षराय परात्मने।
विहरणजुषे काञ्चीदेशे महेश्वरलोचन–
त्रितयसरसक्रीडासौधाङ्गणाय नमो नमः॥३०॥

मरकतरुचां प्रत्यादेश महेश्वरचक्षुषा–
ममृतलहरीपूरं पारं भवाख्यपयोनिधेः।

सुचरितफलं काञ्चीभाजो जनस्य पचेलिमं
हिमशिखरिणो वंशस्यैकं वतंसमुपास्महे॥३१॥

प्रणमनदिनारम्भे कम्पानदीसखि तावके
सरसकवितोन्मेषः पूषासतां समुदञ्चितः।
प्रतिभटमहाप्रौढप्रोद्यत्कवित्वकुमुद्वतीं
नयति तरसा निद्रामुद्रां नगेश्वरकन्यके॥३२॥

शमितजडिमारम्भा कम्पातटीनिकटेचरी
निहतदुरितस्तोमा सोमार्धमुद्रितकुन्तला।
फलितसुमनोवाञ्छा पाञ्चायुधी परदेवता
सफलयतु मे नेत्रेगोत्रेश्वरप्रियनन्दिनीं॥३३॥

मम तु धिषणा पीड्या जाड्यातिरेक कथं त्वया
कुमुदसुपमामैत्रीपात्रीवतंसितकुन्तलाम्।
जगति शमितस्तम्भां कम्पानदीनिलयामसौ
श्रयति हि गलत्तन्द्रा चन्द्रावतंससधर्मिणीम्॥३४॥

परिमलपरीपाकोद्रेकं पयोमुचि काञ्चने
शिखरिणि पुनर्द्वैधीभावं शशिन्यरुणातपम्।
अपि च जनयन्कम्बोर्लक्ष्मीमनम्बुनि कोऽप्यसौ
कुसुमधनुषः काञ्चीदेशे चकास्ति पराक्रमः॥३५॥

पुरदमयितुर्वामोत्सङ्गस्थलेन रसज्ञया
सरसकविताभाजा काञ्चीपुरोदरसीमया।
तटपरिसरैर्नीहाराद्रेर्वचोभिरकृत्रिमैः
किमिव न तुलामस्मच्चेतो महेश्वरि गाहते॥३६॥

नयनयुगलीमास्माकीनां कदा नु फलेग्रहीं
विदधति गतौ व्याकुर्वाणा गजेन्द्रचमत्क्रियाम्।
मरकतरुचो देहे माहेश्वराः स्तननम्रिताः
सुकृतविभवाः प्राञ्चः काचीवतंसधुरंधराः॥३७॥

मनसिजयशःपारस्पर्यं मरन्दझरीसुवां
कलिकुलगिरां कन्दं कम्पानदीतटमण्डनम्।
मधुरललितं मत्कं चक्षुर्मनीषिमनोहरं
पुरविजयिनः सर्वस्वं तत्पुरस्कुरुते कदा॥३८॥

शिथिलिततमोलीलां नीलारविन्दविलोचनां
दहनविलसत्कालां श्रीकामकोटिमुपास्महे।
करधृतलसच्छूलां कामारिचित्तहरांपरां
मनसिजकृपालीलां लोलालकामलिकेक्षणाम्॥३९॥

कलालीलाशाला कविकुलवचः कैरववनी–
शरज्ज्योत्स्नाधारा शशधरशिशुश्लाघ्यमुकुटी।

पुनीते नः कम्पापुलिनतटसौहार्दतरला
कदा चक्षुर्मार्गं कनकगिरिधानुष्कमहिषी॥४०॥

नमः स्तान्नम्रेभ्यः स्तनगरिमगर्वेण गुरुणा
दधानेभ्यश्चूडाभरणममृतस्यन्दिशिशिरम्।
सदा वास्तव्येभ्यः सविधभुवि कम्पाख्यसरितो
यशोव्यापारेभ्यः सुकृतविभवेभ्यः पशुपतेः॥४१॥

असूयन्ती काचिन्मरकतरुचो नाकिमुकुटी–
कदम्बं चुम्बन्ती चरणनखचन्द्रांशुपटलैः।
तमोमुद्रां विद्रावयतु मम काञ्चीनिलयना
हरोत्सङ्गश्रीमन्मणिगृहमहादीपकलिका॥४२॥

अनाद्यन्ता काचित्सुजननयनानन्दजननी
निरुन्धाना कान्तिं निजरुचिचिलासैर्जलमुचाम्।
स्मरारेस्तारल्यं मनसि जनयन्ती स्वयमहो
गलत्कम्पा शम्पा परिलमति कम्पापरिसरे॥४३॥

सुधाडिण्डीरश्रीः स्मितरुचिषु तुण्डीरविषयं
परिष्कुर्वाणासौ परिहसितनीलोत्पलरुचिः।
स्तनाभ्यामानम्रा स्तबकयतु मे कांक्षिततरुं
दृशामैशानीनां सुकृतफलपाण्डित्यगरिमा॥४४॥

कृपाधारा द्रोणी कृपणधिषणानां प्रणमतां
निहन्त्री संतापं निगममुकुटोत्तंसकलिका।
परा काञ्चीलीलापरिचयवती पर्वतसुता
गिरां नीवी देवी गिरिशपरतन्त्रा विजयते॥४५॥

कवित्वश्रीकन्दा सुकृतपरिपाटी हिमगिरे–
र्विधात्री विश्वेषांविषमशरवीरध्वजपटी।
सखी कम्पानद्याः पदहसितपाथोजयुगली
पुराणी पायान्नः पुरमथनसाम्राज्यपदवी॥४६॥

दरिद्राणां मध्ये दरदलिततापिञ्छसुषमाः
स्तनाभोगक्लान्तास्तरुणहरिणाङ्काङ्कितकचाः।
हराधीना नानाविबुधमुकुटीचुम्बितपदाः
कदा कम्पातीरे कथय विहरामो गिरिसुते॥४७॥

वरीवर्तु स्थेमा त्वयि मम गिरां देवि मनसो
नरीनर्तु प्रौढा वदनकमले वाक्यलहरी।
चरीचर्तु प्रज्ञाजननि जडिमा नः परजने
सरीसर्तु स्वैरं जननि मयि कामाक्षि करुणा॥४८॥

क्षणं ते कामाक्षि भ्रमरसुषमाशिक्षणगुरुः
कटाक्षव्याक्षेपो मम भवतु मोक्षाय विपदाम्।

रीनर्तु स्वैरं वचनलहरी निर्जरपुरी–
सरिद्वीचीनीचीकरणपटुरास्ये मम सदा॥४९॥

रस्तान्मे भूयः प्रशमनपरः स्तान्प्रम रुजां
प्रचारस्ते कम्पाटविहृति संपादिनि दृशोः।
मां याच्ञ मूरीकुरु सपदि दूरीकुरु तमः–
परीपाकं मत्कं सपदि बुधलोकं च नय माम्॥५०॥

कदञ्चन्ती काञ्चीनगरनिलने त्वत्करुणया
समृद्धा वाग्धाटी परिहसिनमाध्वी कवयताम्।
पादत्ते मारप्रतिभटजटाजूटमुकुटी–
कुटीरोल्ल सिन्याः शतमखतटिन्या जयपटीम्॥१॥

श्रेयं विद्यां दद्याज्जननि नमतां कीर्तिममितां
सुपुत्रान् प्रादते तव झटिति कामाक्षि करुणा।
त्रैलोक्यामाधिक्यं त्रिपुरपरिपन्थिप्रणयिनि
प्रणामस्त्वत्पादे शमितदुरिते किं न कुरुते॥५२॥

तनःस्तम्भं स्तम्भं गमयदुपकम्पं प्रणमतां
सदा लोलंनीलं चिकुरजितलोलम्बनिकरम्।
गिरां दूरं स्मेरं धृतशशिकिशोरं पशुपते–
र्दृशां भोग्यं योग्यं तुहिनगिरिभाम्यं विजयते॥५३॥

घनश्यामान् कामान्तकमहिषि कामाक्षि मधुरा–
न्दृशां पातानेतानमृतजलशीताननुपमान्।
भवोत्पाते भीते मयि वितर नाथे दृढभव–
न्मनःशोके मूके हिमगिरिपताके करुणया॥५४॥

नतानां मन्दानां भवनिगलबन्धाकुलधियां
महान्ध्यं रुन्धानामभिलषितसंतानलतिकाम्।
चरन्तीं कम्पायास्तटभुवि सवित्रीं त्रिजगतां
स्मरामस्तां नित्यं स्मरमथनजीवातुकलिकाम्॥५५॥

परा विद्या हृद्याश्रितमदनविद्या मरकत–
प्रभानीला लीलापरवशितशूलायुधमनाः।
तमःपुरं दूरं चरणनतपौरन्दरपुरी–
मृगाक्षी कामाक्षी कमलतरलाक्षी नयतु मे॥५६॥

अहंताख्या मत्कं कवलयति हा हन्त हरिणी
हठात्संविद्रूपं हरमहिपि सख्यांकुरमसौ।
कटाक्षव्याक्षेपप्रकटहरिपाषाणपटलै–
रिमामुच्चैरुच्चाटय झटिति कामाक्षि कृपया॥५७॥

बुधे वा मूके वा तव पतति यस्मिन्क्षणमसौ
कटाक्षः कामाक्षि प्रकटजडिमक्षोदपटिमा।

कथंकारं नास्मै करमुकुलचूडालमुकुटा
नमोवाकं ब्रूयुर्नमुचिपरिपन्थिप्रभृतयः॥५८॥

प्रतीचीं पश्यामः प्रकटरुचिनीवारकणिश–
प्रभासध्रीचीनां प्रदलिताडाधारकमलाम्।
चरन्तीं सौपुम्णे पथि परपदेन्दुग्रविगल–
त्सुधार्द्रां कामाक्षीं परिणतपरज्योतिरुदयाम्॥५९॥

जम्भारातिप्रभृतिमुकुटीः पादयोः पीठयन्ती
गुम्फान्वाचां कविजनकृतान्स्वैरमारामयन्ती।
शम्मालक्ष्मीं मणिगणरुचापाटलैः प्रापयन्ती
कम्मातीरे कविपरिषदां जृम्भते भाग्यसीमा॥६०॥

चन्द्रापीडां चतुरवदनां चञ्चलापाङ्गलीलां
कुन्दस्मेरां कुचभरनतां कुन्तलोद्धूतभृङ्गाम्।
मारारातेर्मदनशिखिनं मांसलं दीपयन्तीं
कामाक्षीं तां कविकुलगिरां कल्पवल्लीमुपासे॥६१॥

कालाम्भोदकरसुषमां कान्तिभिस्तर्जयन्ती
कल्याणानामुदयसरणिः कल्पवल्ली कवीनाम्।
कंदपरिःप्रियसहचरी कल्मपाणां निहन्त्री
काञ्चीदेशं तिलकपति सा कापि कारुण्यसीमा॥६२॥

ऊरीकुर्वन्नुरसिजतटे चातुरीं भूधराणां
पाथोजानां नयनयुगले पारिपन्थ्यं वितन्वन्।
कम्पातीरे विहरति रुचा मोघयन्मेघशैलीं
कोकद्वेषं शिरसि कलयन्कोऽपि विद्याविशेषः॥६३॥

काञ्चीलीलापरिचयवती कापि तापिञ्छलक्ष्मी
र्जाड्यारण्ये हुतवहशिखा जन्मभूमिः कृपायाः।
माकन्दश्रीर्मधुरकविताचातुरीकोकिलानां
मार्गे भूयान्मम नयनयोर्मान्मथी कापि विद्या॥६४॥

सेतुर्मातर्मरकतमयो भक्तिभाजां भवाब्धौ
लीलालोला कुवलयमयी मान्मथी वैजयन्ती।
काञ्चीभूषा पशुपतिदृशां कापि कालाञ्जनाली
मत्कं दुःखं शिथिलयतु ते मञ्जुलापाङ्गमाला॥६५॥

व्यावृण्वानाः कुवलयदलप्रक्रियावैरमुद्रां
व्याकुर्वाणा मनसिजमहाराजसाम्राज्यलक्ष्मीम्।
काञ्चीलीलाविहृतिरसिके काङ्क्षितं नः क्रियासु–
र्बन्धच्छेदे तव नियमिनां बद्धदीक्षाः कटाक्षाः॥६६॥

कालाम्भोदे शशिरुचि दलं कैतकं दर्शयन्ती
मध्येसौदामिनि मधुलिहां मालिकां राजयन्ती।

हंसारावं विकचकमले मञ्जुमुल्लासयन्ती
कम्पातीरे विलसति नवा कापि कारुण्यलक्ष्मीः॥

चित्रं चित्रं निजमृदुतया भर्त्सयन्पल्लवालीं
पुंसां कामान्भुवि च नियतं पूरयन्पुण्यभाजाम्।
जातः शैलान्न तु जलनिधेः स्वैरसंचारशीली
काञ्चीभूषाकलयतु शिवं कोऽपि चिन्तामणिर्मे॥

ताम्राम्भोजं जलदनिकटे तत्र बन्धूकपुष्पं
तस्मिन्मल्लीकुसुमसुषमां तत्र वीणानिनादम्।
व्यावृण्वाना सुकृतलहरी कापि काञ्चीनगर्या–
मैशानी सा कलयतितरामैन्द्रजालं विलासम्॥६९॥

आहारांशं त्रिदशसदसामाश्रये चातकाना–
माकाशोपर्यपि च कलयन्नालयं तुङ्गमेपाम्।
कम्पातीरे विहरतितरां कामधेनुः कवीनां
मन्दस्मेरो मदननिगमप्रकियासंप्रदायः॥७०॥

आर्द्रीभूतैरविरलकृपैराचलीलाविलासै–
रास्थापूर्णैरधिकचपलैरञ्चिताम्भोजशिल्पैः।
कान्तैर्लक्ष्मीललितभवनैः कान्तिकैवल्यसारैः
काश्मल्यं नः कबलयतु सा कामकोटी कटाक्षेः॥७१॥

आधुन्वन्त्यै तरलनयनैराङ्गजीं वैजयन्ती–
मानन्दिन्यै निजपदजुषामात्तकाञ्चीपुरायै।
आस्माकीनं हृदयमखिलैरागमानां प्रपञ्चै–
राराध्यायै स्पृहयतितरामादिमायै जनन्यै॥७२॥

दूरं वाचां त्रिदशसदसां दुःखसिन्धोस्तरित्रं
मोहक्ष्वेलक्षितिरुहवने तीक्ष्णधारं कुठारम्।
कम्पातीर प्रणयि कविभिर्वर्णितोद्यच्चरित्रं
शान्त्यै सेवे सकलविपदां शांकरं तत्कलत्रम्॥७३॥

खण्डीकृत्य प्रकृतिकुटिलं कल्मषंप्रातिभश्री–
शुण्डीरत्वं निजपदजुषां शून्यतन्द्रं दिशन्ती।
तुण्डीराख्यें महति विषये स्वर्णवृष्टिप्रदात्री
चण्डी देवी कलयति रतिं चन्द्रचूडालचूडे॥७४॥

येन ख्यातो भवति स गृही पूरुषोमेरुधन्वा
यद्दृक्कोणे मदननिगमप्राभवं बोभवीति।
यत्प्रीत्यैव त्रिजगदधिपो जृम्भते किंपचानः
कम्पातीरे स जयति महान्कश्चिदोजोविशेषः॥७५॥

धन्या धन्या गतिरिह गिरां देवि कामाक्षि कामं
निन्द्यां भिन्द्यात्सपदि जडतां कल्मपादुमिषन्तीम्।

साध्वी माध्वीरसमधुरताभञ्जिनी मञ्जुरीति–
र्वाणीवेणी झटिति वृणुतात्स्वर्धुनीस्पर्धिनी माम्॥

यस्या वाटी हृदयकमलं कौसुमी योगभाजां
यस्याः पीठी सततशिशिरा शीकरैर्माकरन्दैः।
यस्याः पेटी श्रुतिपरिचलन्मौलिरत्नस्य काञ्ची
सा मे सोमाभरणमहिषी साधयेत्कांक्षितानि॥७७॥

एका माता सकलजगतामीयुषी ध्यानमुद्रा–
मेकाम्राधीश्वाचरणयोरेकतानां समिन्धे।
बाटङ्कोद्यन्मणिगणरुचाताम्रकर्णप्रदेशा
तारुण्यश्रीस्तयकितरुचा तापसी कापि वाला॥७८॥

दन्तादन्तिप्रकटनकरी दन्तिभिर्मन्दयानैः
मन्दाराणां मदपरिणतिं मथ्नती मन्दहासैः।
अंकूराभ्यां मनसिजतरोरङ्कितोराः कुचाभ्या–
मन्तःकाञ्चि स्फुरति जगतामादिमा काषि माता॥

त्रियम्बककुटुम्बिनीं त्रिपुरसुन्दरीमिन्दिरां
पुलिन्दपतिसुन्दरीं त्रिपुरभैरवीं भारतीम्।
मतङ्गकुलनायिकां महिषमर्दिनीं मातृकां
भणन्ति विबुधोत्तमा विहृतिमेव कामाक्षि ते॥८०॥

महामुनिमनोनटी महिताम्यकम्पातटी–
कुटीरकविहारिणी कुटिलबोधसंहारिणी।
सदा भवतु कामिनी सकलदेहिनां स्वामिनी
कृपातिशयकिंकरी मम विभूतये शांकरी॥८१॥

जडाः प्रकृतिनिर्धना जनविलोचनारुंतुदा
नरा जननि वीक्षणं क्षणमवाप्य कामाक्षि ते।
वचःसु मधुमाधुरीं प्रकटयन्ति पौरंदरी–
विभूतिषु विडम्बनां वपुषि मान्मथीं प्रक्रियाम्॥८२॥

घनस्तनतटस्फुटस्फुरितकञ्चुलीचञ्चली–
कृतत्रिपुरशासना सुजनशीलितोपासना।
दृशोः सरणिमश्नुते मम कदा नु काञ्चीपुरे
परा परमयोगिनां मनसि चित्कला पुष्कला॥८३॥

कवीन्द्रहृदयेचरी परिगृहीतकाञ्चिपुरी
निरूढकरुणाझरी निखिललोकरक्षाकरी।
मनःपथदवीयसी मदनशासनप्रेयसी
महागुणगरीयसी मम दृशोऽस्तु नेदीयसी॥८४॥

धनेन न रमामहे खलजनान्न सेवामहे
न चापलमयामहे भवभयान्न दूयामहे।

स्थिरां तनुमहेतरां मनसि किं च काञ्चीरत–
स्मरान्तककुटुम्बिनीचरणपल्लवोपासनाम्॥८५॥

सुराः परिजना वपुर्मनसिजाय वैरायते
त्रिविष्टपनितम्बिनीकुचतटी च केलीगिरिः।
गिरः सुरभयो वयस्तरुणिमा दरिद्रस्य वा
कटाक्षसरणौ क्षणं निपतितस्य कामाक्षि ते॥८६॥

पवित्रय जगत्त्रयीविबुधबोधजीवातुभिः
पुरत्रयविमर्दिनः पुलककञ्चुलीदायिभिः।
भवक्षयविचक्षणैर्व्यसनमोक्षणैर्वीक्षणै–
र्निरक्षरशिरोमणिं करुणयैव कामाक्षि माम्॥८७॥

कदा कलितखेलनाः करुणयैव काञ्चीपुरे
कलायमुकुलत्विषः शुभकदम्बपूर्णांकुराः।
पयोधरभरालसाः कविजनेषु ते बन्धुराः
पचेलिमकुमारसाः परिपतन्ति मार्गे दृशोः॥८८॥

अशोध्यमचलोद्भवं हृदयनन्दनं देहिना–
मनर्घमधिकाञ्चि तत्किमपि रत्नमुद्द्योतते।
अनेन समलंकृता जयति शङ्कराङ्कस्थली
कदास्य मम मानसं व्रजति पेटिकाविभ्रमम्॥८९॥

परामृतझरीप्लुता जगति नित्यमन्तश्चरी
नृणामपि बहिश्चरी परमसंविदेकात्मिका।
महद्भिरपरोक्षिता सततमेव काञ्चीपुरे
ममान्वहमहंमतिर्मनसि भातु माहेश्वरी॥९०॥

त्वमेव सति चण्डिका त्वमिह देवि चामुण्डिका
त्वमेव परमातृका त्वमपि योगिनीरूपिणी।
त्वमेव किल शांभवी त्वमपि कामकोटी जया
त्वमेव विजया त्वयित्रिजगदम्ब किं ब्रूमहे॥९१॥

चरे जननि पार्वति प्रणतपालिनि प्रातिभ–
प्रदात्रि परमेश्वरि त्रिजगदाश्रिते शाश्वते।
त्रियम्बककुटुम्बिनि त्रिपदसङ्गिनि त्रीक्षणे
त्रिशक्तिमयि वीक्षणं मयि निधेहि कामाक्षि ते॥९२॥

मनोमधुकशेत्सवं विदधती मनीषाजुषां
स्वयंप्रभववैखरीविपिनवेदिकालम्बिनी।
अहो शिशिरिता कृपामधुरसेन कम्पातटे
चराचरविधायिनी चलति कापि चिन्मञ्जरी॥९३॥

कलावति कलाभृतो मुकुटसीम्नि लीलावति
स्पृहावति महेश्वरे भुवनमोहने भास्वति।

प्रभावति रमे सदा महितरूपशोभावति
त्वरावति परे सतां गुरुकृपाम्बुधारावति॥९४॥

त्ववैव जगदम्बया भुवनमण्डली सूयते
त्वयैव करुणार्द्रया तदपि रक्षणं नीयते।
त्वयैव खरकोपया नयनपावके हूयते
त्वयैव किल नित्यया जगति संततं स्थीयते॥९५॥

चराचरजगन्मयीं सकलहृन्मयीं चिन्मयीं
गुणत्रयमयीं जगत्त्रयमयीं त्रिधामामयीम्।
परापरमयीं सदा दशदिशां निशाद्दर्मयीं
परां सततसन्मयीं परमचिन्मयीं शीलये॥९६॥

जय जगदम्बिके हरकुटुम्बिनि नेत्ररुचा
जितशरदम्बुजे घनविडम्बिनि केशरुचा।
परमवलम्बनं कुरु सदा पररूपधरे
मम गतसंविदो जडिमडम्बरताण्डविनः॥९७॥

भुवनजननि भूषाभूतचन्द्रे नमस्ते
कलुषशमनि कम्पातीरगेहे नमस्ते।
निखिलनिगमवेद्ये नित्यरूपे नमस्ते
परशिवमयि पाशच्छेदहस्ते नमस्ते॥९८॥

तमोविपिनधाविनं सततमेव काञ्चीपुरे
विहाररसिका परा परमसंविदुर्वीरुहे।
कटाक्षनिगलैर्दृढं हृदयदुष्टदन्तावलं
चिरं नयतु मामकं त्रिपुरवैरिसीमन्तिनी॥ ९९॥

क्वणत्काञ्ची काञ्चीपुरमणिविपञ्चीलयझरी–
शिरःकम्पा कम्पासतिरनुकम्पाजलनिधिः।
घनश्यामा श्यामा कठिनकुचसीमा मनसि मे
मृगाक्षी कामाक्षी हरनटनसाक्षी विहरताम्॥१००॥

समरविजयकोटी साधकानन्दघाटी
मृदुगुणपरिपेटी मुख्यकादम्बवाटी।
मुनिनुतपरिपाटी मोहिताजाण्डकोटी
परमशिववधूटी पातु मां कामकोटी॥१०१॥

इति स्तुतिशतकं संपूर्णम् ॥

<MISSING_FIG href="../books_images/U-IMG-1724240121IMG_20240821_170423.png"/>

॥श्रीः॥

॥कटाक्षशतकम्॥

<MISSING_FIG href="../books_images/U-IMG-1724240374IMG_20240821_170847.png"/>
मोहान्धकारनिवहं विनिहन्तुमीडे
मूकात्मनामपि महाकवितावदान्यान्।
श्रीकाञ्चिदेशशिशिरीकृतिजागरूका–
नेकाम्रनाथतरुणीकरुगावलोकान्॥१॥

मातर्जयन्ति ममताग्रहमोक्षणानि
माहेन्द्रनीलरुचिशिक्षणदक्षिणानि।
कामाक्षि कल्पितजगत्त्रयरक्षणानि
त्वद्वीक्षणानि वरदानविचक्षणानि॥२॥

आनङ्गतन्त्रविधिदर्शितकौशलाना–
मानन्दमन्दपरिघूर्णितमन्थराणाम्।
तारल्यमम्बतव ताडितकर्णसीम्नां
कामाक्षि खेलति कटाक्षनिरीक्षणानाम्॥३॥

कल्लोलितेन करुणारसवेल्लितेन
कल्माषितेन कमनीयमृदुस्मितेन।

मामञ्चितेन तव किंचन कुञ्चितेन
कामाक्षि तेन शिशिरीकुरु वीक्षितेन॥४॥

साहाय्यकं गतवती मुहरर्जुनस्य
मन्दस्मितस्य परितोषितभीमचेताः।
कामाक्षि पाण्डवचमूरिवतावकीना
कर्णान्तिकं चलति हन्त कटाक्षलक्ष्मीः॥५॥

अस्तं क्षणान्नयतु मे परितापसूर्य–
मानन्दचन्द्रमसमानयतां प्रकाशम्।
कालान्धकारसुषमां कलयन्दिगन्ते
कामाक्षि कोमलकटाक्षनिशागमस्ते॥६॥

ताटङ्कमौक्तिकरुचांकुरदन्तकान्तिः
कारुण्यहस्तिपशिखामणिनाधिरूढः।
उन्मूलयत्वशुभपादपमस्मदीयं
कामाक्षि तावककटाक्षमतङ्गजेन्द्रः॥७॥

छायाभरेण जगतां परितापहारी
ताटङ्करत्नमणितल्लजपल्लवश्रीः।
कारुण्यनाम विकिरन्मकरन्दजालं
कामाक्षि राजति कटाक्षसुरद्रुमस्ते॥८॥

सूर्याश्रयप्रणयिनी मणिकुण्डलांशु–
लौहित्यकोकनदकाननमाननीया।
यान्ती तव स्मरहराननकान्तिसिन्धुं
कामाक्षि राजति कटाक्षकलिन्दकन्या॥९॥

प्राप्नोति यं सुकृतिनं तव पक्षपाता–
त्कामाक्षिं वीक्षणविलासकलापुरन्ध्री।
सद्यस्तमेव किल मुक्तिवधूर्वृणीते
तस्मान्नितान्तमनयोरिदमैकमत्यम्॥१०॥

यान्ती सदैव मरुतामनुकूलभावं
भ्रवल्लिशक्रधनुरुल्लसिता रसार्द्रा।
कामाक्षि कौतुकतरङ्गितनीलकण्ठा
कादम्बिनीव तव भाति कटाक्षमाला॥११॥

गङ्गाम्भसि स्मितमये तपनात्मजेव
गङ्गाधरोरसि नवोत्पलमालिकेव।
वक्त्रप्रभासरसि शैलमण्डलीव
कामाक्षि राजति कटाक्षरुचिच्छटा ते॥१२॥

संस्कारतः किमपि कन्दलितान्रसज्ञ–
केदारसीम्नि सुधियामुपभोगभाग्यान्।

कल्याणसूक्तिलहरीकलमांकुरान्नः
कामाक्षि कन्दलयतु त्वदपाङ्गमेघः॥१३॥

चाञ्चल्यमेव नियतं कलयन्प्रकृत्या
मालिन्यभूः श्रुतिपथाक्रमजागरूकः।
कैवल्यमेव किमु कल्पयते नतानां
कामाक्षि चित्रमपि ते करुणाकटाक्षः॥१४॥

संजीवने जननि चूतशिलीमुखस्य
संमोहने शशिकिशोरकशेखरस्य।
संस्तम्भने च ममताग्रहचेष्टितस्य
कामाक्षि वीक्षणकला परमौषधं ते॥१५॥

नीलोऽपि रागमधिकं जनयन्पुरारे–
र्लोलोऽपि भक्तिमधिकां द्रढयन्नराणाम्।
वक्रोऽपि देवि नमतां समतां वितन्व–
न्कामाक्षि नृत्यतु मयि त्वदपाङ्गपातः॥१६॥

कामद्रुहो हृदययन्त्रणजागरूका
कामाक्षि चञ्चलदृगञ्चलमेखला ते।
आश्चर्यमम्ब भजतां झटिति स्वकीय–
संपर्क एव विधुनोति समस्तबन्धान् ॥१७॥

कुण्ठीकरोतु विपदं मम कुञ्चितभ्रू–
चापाञ्चितः श्रितविदेहभवानुरागः।
रक्षोपकारमनिशं जनयञ्जगत्यां
कामाक्षि राम इव ते करुणाकटाक्षः॥१८॥

श्रीकामकोटि शिवलोचनशोषितस्य
शृङ्गारबीजविभवस्य पुनः प्ररोहे।
प्रेमाम्भसार्द्रमचिरात्प्रचुरेण शङ्के
केदारमम्ब तवकेवलदृष्टिपातम्॥१९॥

माहात्म्यशेवधिरसौ तव दुर्विलङ्घ्य–
संसारविन्ध्यगिरिकुण्ठनकेलिचुञ्चुः।
धैर्याम्बुधिं पशुपतेश्चुलकीकरोति
कामाक्षि वीक्षणविजृम्भणकुम्भजन्मा॥२०॥

पीयूषवर्षशिशिग स्फुटदुत्पलश्री–
मैत्री निसर्गमधुरा कृततारकाप्तिः।
कामाक्षि संश्रितवती वपुष्टमूर्ते–
र्ज्योत्स्नायते भगवति त्वदपाङ्गमाला॥२१॥

अम्ब स्मरप्रतिभटस्य वपुर्मनोज्ञ–
मम्भोजकाननमिवाञ्चितकण्टकाभम्।

भृङ्गीव चुम्बति सदैव सपक्षपाता
कामाक्षि कोमलरुचिस्त्वदपाङ्गमाला॥२२॥

केशप्रभापटलनीलवितानजाले
कामाक्षि कुण्डलमणिच्छविदीपशोभे।
कम्रे कटाक्षरुचिरङ्गतले कुपाख्या
शैलूषकी नटति शङ्करवल्लभे ते॥२३॥

अत्यन्तशीतलमतन्द्रयतु क्षणार्ध–
मस्तोकविभ्रममनङ्गविलासकन्दम्।
अल्पस्मितादृतमपारकृषाप्रवाह–
मक्षिप्ररोहमचिरान्मयि कामकोटि॥२४॥

मन्दाक्षरागतरलीकृतिपारतन्त्र्या–
त्कामाक्षि मन्थातयं स्वदपाङ्गदोलाम्।
आरुह्य मन्दमतिकौतुकशालि चक्षु–
रानन्दमेति मुहुरर्धशशाङ्कमौलेः॥२५॥

त्रैयम्बकं त्रिपुरसुन्दरि हर्म्यभूमि–
रङ्ग विहारसरसी करुणाप्रवाहः।
दासाश्चवासवमुखाः परिपालनीयं
कामाक्षि विश्वमपि वीक्षणभूभृतस्ते॥२६॥

वागीश्वरी सहचरी नियमेन लक्ष्मी–
र्भ्रुवल्लरीवशकरी भुवनानि गेहम्।
रूपं त्रिलोकनयनामृतमम्ब तेषां
कामाक्षि येषु तव वीक्षणपारतन्त्री॥२७॥

माहेश्वरं झटिति मानसमीनमम्ब
कामाक्षि धैर्यजलधौ नितरां निमग्नम्।
जालेन शृङ्खलयति त्वदपाङ्गनाम्ना
विस्तारितेन विपमायुधदाशकोऽसौ॥२८॥

उन्मथ्य बोधकमलाकरमम्ब जाड्य–
स्तम्बेरमं मम मनोविपिने भ्रमन्तम्।
कुण्ठीकुरुष्व तरसा कुटिलाग्रसीम्ना
कामाक्षि तावककटाक्षमहाङ्कुशेन॥२९॥

उद्वेल्लितस्तवकितैर्ललिवैर्विलासै–
रुत्थाय देवि तव गाढकटाक्षकुञ्जात्।
दूरं पलाययतु मोहमृगीकुलं मे
कामाक्षि सत्वरमनुग्रहकेसरीन्द्रः॥३०॥

स्नेहादृतां विदलितोत्पलकान्तिचोरां
जितारमेव जगदीश्वरि जेतुकामः।

मानोद्धतो मकरकेतुरसौ धुनीते
कामाक्षि तावककटाक्षकृपाणवल्लीम्॥३१॥

श्रौतीं व्रजन्नपि सदा सरणिं मुनीनां
कामाक्षि सन्ततमपि स्मृतिमार्गगामी।
कौटिल्यमम्ब कथमस्थिरतां च धत्ते
चौर्यं च पङ्कजरुचां त्वदपाङ्गपातः॥३२॥

नित्यं श्रुतेः परिचितौ यतमानमेव
नीलोत्पलं निजसमीपनिवासलोलम्।
प्रीत्यैव पाठयति वीक्षणदेशिकेन्द्रः
कामाक्षि किं नु तव कालिमसंप्रदायम्॥३३॥

भ्रान्त्वा मुहुः स्तबकितस्मितफेनराशौ
कामाक्षि वक्त्ररुचिसंचयवारिराशौ।
आनन्दति विपुरमर्दननेत्रलक्ष्मी–
रालम्ब्य देवि तव मन्दमपाङ्गसेतुम्॥३४॥

श्यामा तव त्रिपुरसुन्दरि लोचनश्रीः
कामाक्षि कन्दलितमेदुरतारकान्तिः।
न्योत्स्त्नावती स्मितरुचापि कथं तनोति
स्पर्धामहो कुवलयैश्च तथा चकोरैः॥३५॥

कालाञ्जनं च तव देवि निरीक्षणं च
कामाक्षि साम्यसरणिं समुषैति कान्त्या।
निःशेषनेत्रसुलभं जगतीषु पूर्व–
मन्यत्त्रिनेत्रसुलभं तुहिनाद्रिकन्ये॥३६॥

धूमाङ्कुरो मकरकेतनपावकस्य
कामाक्षि नेत्ररुचिनीलिमचातुरी ते।
अत्यन्तमद्भुतमिदं नयनत्रयस्य
हर्षोदयं जनयते हरिणाङ्कमौलेः॥३७॥

आरम्भलेशसमये तव वीक्षणस्य
कामाक्षि सूकमपि वीक्षणमात्रनम्रम्।
सर्वज्ञता सकललोकसमक्षमेव
कीर्तिः स्वयंवरणमाल्यवती वृणीते॥३८॥

कालाम्बुवाह इव ते परितापहारी
कामाक्षि पुष्करमधः कुरुते कटाक्षः।
पूर्वः परं क्षणरुचा समुपैति मैत्री–
मन्यस्तु सन्ततरुचि प्रकटीकरोति॥३९॥

सूक्ष्मेऽपि दुर्गमतरेऽपि गुरुप्रसाद–
साहाय्यकेन विचरन्नपवर्गमार्गे।

संसारपङ्कनिचये न पतत्यमुं ते
कामाक्षि गाढमवलम्ब्य कटाक्षयष्टिम्॥४०॥

कामाक्षि संततमसौ हरिनीलरत्न–
स्तम्भे कटाक्षरुचिपुञ्जमये भवत्याः।
बद्धोऽपि भक्तिनिगलैर्मम चित्तहस्ती
स्तम्भं च बन्धमपि मुञ्जति हन्त चित्रम्॥४१॥

कामाक्षि कार्ष्ण्यमपि संततमञ्जनं च
बिभ्रन्निसर्गतरलोऽपि भवत्कटाक्षः।
वैमल्यमन्वहमनञ्जनतां च भूयः
स्थैर्यं च भक्तहृदयाय कथं ददाति॥४२॥

मन्दस्मितस्तवकितं मणिकुण्डलांशु–
स्तोमप्रवालरुचिरं शिशिरीकृताशम्।
कामाक्षि राजति कटाक्षरुचेः कदम्ब–
मुद्यानमम्ब करुणाहरिणेक्षणायाः॥४३॥

कामाक्षि तावककटाक्षमहेन्द्रनील–
सिंहासनं श्रितवतो मकरध्वजस्य।
साम्राज्यमङ्गलविधौमणिकुण्डलश्री–
र्नीराजनोत्सवतरङ्गितदीपमाला॥४४॥

मातः क्षणं स्नषय मां तव वीक्षितेन
मन्दाक्षितेन सुजनैरपरोक्षितेन।
कामाक्षि कर्मतिमिरोत्करभास्करेण
श्रेयस्करेण मधुपद्युतितस्करेण॥४५॥

प्रेमापगापयसि मज्जनमारचय्य
युक्तः स्मितांशुकृतभस्मतिलेपनेन।
कामाक्षि कुण्डलमणिद्युतिभिर्जटालः
श्रीकण्ठमेव भजते तव दृष्टिपातः॥४६॥

कैवल्यदाय करुणारसकिंकराय
कामाक्षि कन्दलितविभ्रमशंकराय।
आलोकनाय तव भक्तशिवंकराय
मातर्नमोऽस्तु परतन्त्रितशंकराय॥४७॥

साम्राज्यमङ्गलविधौ मकरध्वजस्य
लोलालकालिकृततोरणमाल्यशोभे।
कामेश्वरि प्रचलदुत्पलवैजयन्ती–
चातुर्यमेति तव चञ्चलदृष्टिपातः॥४८॥

मार्गेणमञ्जुकचकान्तितमोवृतेन
मन्दायमानगमना मदनातुरासौ।

कामाक्षि दृष्टिरयते तव शंकराय
संकेतभूमिमचिरादभिसारिकेव ॥४९॥

व्रीडानुवृत्तिरमणीकृनसाहचर्या
शैवालितां गलरुचा शशिशेखरस्य।
कामाक्षि कान्तिसरसीं त्वदपाङ्गलक्ष्मी–
र्मन्दं समाश्रयति मज्जनखेलनाय॥५०॥

काषायमंशुकमिव प्रकटं दधानो
माणिक्यकुण्डलरुचिं ममताविरोधी।
श्रुत्यन्तसीमनि रतः सुतरां चकास्ति
कामाक्षि तावककटाक्षयतीश्वरोऽसौ॥५१॥

पाषाण एव हरिनीलमणिर्दिनेषु
प्रम्लानतां कुवलयं प्रकटीकरोति।
नैमित्तिको जलदमेचकिमा ततस्ते
कामाक्षि शून्यमुपमानमपाङ्गलक्ष्म्याः॥५२॥

शृङ्गारविभ्रमवती सुतरां सलज्जा
नासाग्रमौक्तिकरुचा कृतमन्दहासा।
श्यामा कटाक्षसुषमा तव युक्तमेत–
त्कामाक्षि चुम्बति दिगम्बरववत्रबिंबम्॥५३॥

नीलोत्पलेन मधुपेन च दृष्टिपातः
कामाक्षि तुल्य इति ते कथमामनन्ति।
शैत्येन निन्दति यदन्वहमिन्दुपादा–
न्पाथोरुहेण यदसौ कलहायते च॥५१॥

ओष्ठप्रभापटलविदुभमुद्रिते ते
भ्रूवल्लिवीचिसुभगे मुखकान्तिसिन्धौ।
कामाक्षि वारिभरपुरणलम्बमान–
कालाम्बुवाहसरणि लभते कटाक्षः॥५५॥

मन्दस्मितैर्धवलिता मणिकुण्डलांशु–
संपर्कलोहितरुचिस्त्वदपाङ्गधारा।
कामाक्षि मल्लिकुसुमैर्नवपल्लवैश्च
नीलोत्पलेश्चरचितेव विभाति माला॥५६॥

कामाक्षि शीतलकृपारसनिर्झराम्भः
संपर्कपक्ष्मलरुचिस्त्वदपाङ्गमाला।
गोभिः सदा पुररिपोरभिलष्यमाणा
दुर्वाकदम्बकविडम्बनमातनोति॥५७॥

हृत्पङ्कजं मम विकामयतु प्रमुष्ण–
न्नुल्लासमुत्पलरुचेस्वमसां निरोध्दा।

दोषानुपङ्गजडतां जगतां धुनानः
कामाक्षि वीक्षणविलासदिनोदयस्ते॥५८॥

चक्षुर्विमोहयति चन्द्रविभूषणस्य
कामाक्षि तावककटाक्षतमः प्ररोहः।
प्रत्यङ्मुखं तु नयनं स्तिमितं मुनीनां
प्राकाश्यमेव नयतीति परं विचित्रम्॥५९॥

कामाक्षि वीक्षणरुचा युधि निर्जितं ते
नीलोत्पलं निरवशेषगताभिमानम्।
आगत्य तत्परिसरं श्रवणावतंस–
व्याजेन नूनमभयार्थनमातनोति॥६०॥

आश्चर्यमम्बमदनाभ्युदयावलम्बः
कामाक्षि चञ्चलनिरीक्षणविभ्रमस्ते।
धैर्यं विधूय तनुते हृदि रागबन्धं
शम्भोस्तदेव विपरीततया मुनीनाम्॥६१॥

जन्तोः सकृत्प्रणमतो जगदीड्यतां च
तेजस्वितां च निशितां च मतिं सभायाम्।
कामाक्षि माक्षिकझरीमिव वैखरीं च
लक्ष्मीं च पक्ष्मलयति क्षणवीक्षणं ते॥६२॥

कादम्बिनी किमयते न जलानुषङ्गं
भृङ्गावली किमुररीकुरुते न पद्मम्।
किं वा कलिन्दतनया सहते न भङ्गं
कामाक्षि निश्चयपदं न तवाक्षिलक्ष्मीः॥६३॥

काकोलपावकतृणीकरणेऽपि दक्षः
कामाक्षि बालकसुधाकरशेखरस्य।
अत्यन्तशीतलतमोऽप्यनुपारतं ते
चित्तं विमोहयति चित्रमयं कटाक्षः॥६४॥

कार्पण्यपूरपरिवर्धितमम्ब मोह–
कन्दोद्गतं भवमयं विषपादपं मे।
तुङ्गं छिनत्तु तुहिनाद्रिसुते भवत्याः
काञ्चीपुरेश्वरि कटाक्षकुठारधारा॥६५॥

कामाक्षि घोरभवरोगचिकित्सनार्थ-
मभ्यर्थ्य देशिककटाक्षभिषक्प्रसादात्।
तत्रापि देवि लभते सुकृती कदाचि–
दत्यन्तदुर्लभमपाङ्गमहौषधं ते॥६६॥

कामाक्षि देशिककृपांकुरमाश्रयन्तो
नानातपोनियमनाशितशबन्धाः।

वासालयं तव कटाक्षममुं महान्तो
लब्ध्वा सुखं समधियो विचरन्ति लोके॥६७॥

साकूतसंलपितगर्भितमुग्धहासं
व्रीडानुरागसहचारि विलोकनं ते।
कामाक्षि कामपरिपन्थिनि मारवीर–
साम्राज्यविभ्रनदशां सफली करेति॥६८॥

कामाक्षि विभ्रमबलैकनिधिर्विधाय
भ्रूवल्लिचापकुटिलीकृतिमेव चित्रम्।
स्वाधीनतां तव निनाय शशाङ्कमौले–
रङ्गार्थराज्यसुखलाभमपाङ्गवीरः॥६९॥

कामांकुरैकनिलयस्तव दृष्टिपातः
कामाक्षि भक्तमनसां प्रददाति कामान्।
रागान्वितः स्वयमपि प्रकटीकरोति
वैराग्यमेव कथमेष महामुनीनाम्॥७०॥

कालाम्बुवाहनिवहैः कलहायते ते
कामाक्षि कालिममदेन सदा कटाक्षः।
चित्रं तथापि नितराममुमेव दृष्ट्वा
सोत्कण्ठ एवरमते किल नीलकण्ठः॥७१॥

कामाक्षि मन्मथरिपुं प्रति मारताप–
मोहान्धकारजलदागमनेन नृत्यन्।
दुष्कर्मकञ्चुकिकुलं कबलीकरोतु
व्यामिश्रमेवकरुचिस्त्वदपाङ्गकेकी॥७२॥

कामाक्षि मन्मथरिपोरवलोकनेषु
कान्तं पयोजमिव तावकमक्षिपातम्।
प्रेमागमो दिवसवद्विकचीकरोति
लज्जाभरो रजनिवन्मुकुलीकरोति॥७३॥

मुको विरिञ्चति परं पुरुषः कुरूपः
कंदर्पति त्रिदशराजति किंषचानः।
कामाक्षि केवलमुपक्रमकाल एव
लीलातरङ्गितकटाक्षरुचः क्षणं ते॥७४॥

नीलालका मधुकरन्ति मनोज्ञनासा–
मुक्तारुचः प्रकटरूढबिसांकुरन्ति।
कारुण्यमम्बमकरन्दति कामकोटि
मन्ये ततः कमलमेव विलोचनं ते॥७५॥

आकाङ्क्ष्यमाणफलदानविचक्षणायाः
कामाक्षि तावककटाक्षककामधेनोः।

संपर्क एव कथमम्ब विमुक्तपाश–
बन्धाः स्फुटं तनुभृतः पशुतां त्यजन्ति॥७६॥

संसारधर्मपरितापजुषां नराणां
कामाक्षि शीतलतराणि तवेक्षितानि।
चन्द्रातपन्ति घनचन्दनकर्दमन्ति
मुक्तागुणन्ति हिमवारिनिषेचनन्ति॥७७॥

प्रेमाम्बुराशिसततस्त्रपितानि चित्रं
कामाक्षि तावककटाक्षनिरीक्षणानि।
संधुक्षयन्ति मुहुरिन्धनराशिरीत्या
मारद्रुहो मनसि मन्मथचित्रभानुम्॥७८॥

कालाञ्जनप्रतिभटं कमनीयकान्त्या
कन्दर्पतन्त्रकलया कलितानुभावम्।
काञ्चीविहाररसिके कलुषार्तिचोरं
कल्लोलयस्व मयि ते करुणाकटाक्षम्॥७९॥

क्रान्तेन मन्मथमदेन विमोह्यमान–
स्वान्तेन चूततरुमूलगतस्य पुंसः।
कान्तेन किंचिदवलोकय लोचनस्य
प्रान्तेन मां जननि काञ्चिपुरीविभूषे॥८०॥

कामाक्षि केऽपि सुजनास्त्वदपाङ्गसंगे
कण्ठेन कन्दलितकालिमसंप्रदायाः।
उत्तंसकल्पितचकोरकुटुम्बपोषा
नक्तंदिवप्रसवभूनयना भवन्ति॥८१॥

नीलोत्पलप्रसवकान्तिनिदर्शनेन
कारुण्यविभ्रमजुषा तव वीक्षणेन।
कामाक्षि कर्मजलधेः कलशीसुतेन
पाशत्रयाद्वयममी परिमोचनीयाः॥८२॥

अत्यन्तचञ्चलमकुत्रिममञ्जनं कि
झङ्कारभङ्गिरहिता किमु भृङ्गमाला।
धूमांकुरः किमु हुताशनसंगहीनः
कामाक्षि नेत्ररुचिनीलिमकन्दली ते॥८३॥

कामाक्षि नित्यममञ्जलिरस्तु मुक्ति–
बीजाय विभ्रमदोदयघूर्णिताय।
कन्दर्पदर्पपुनरुद्भवसिद्धिदाय
कल्याणदाय तव देवि दृगञ्चलाय॥८४॥

दर्पांकुरो मकरकेतनविभ्रमाणां
निन्दांकुरो विदलितोत्पलचातुरीणाम्।

दीपांकुरो भवतमिस्रकदम्बकानां
कामाक्षि पालयतु मां त्वदपाङ्गपातः॥८५॥

कैवल्यदिव्यमणिरोहणपर्वतेभ्यः
कारुण्यनिर्झरपयः कृतमञ्जनेभ्यः।
कामाक्षि किंकरितशंकरमानसेभ्य–
स्तेभ्यो नमोऽस्तु तत्र वीक्षणविभ्रमेयः॥८६॥

अल्पीय एव नवमुत्पलमम्ब हीना
मीनस्य वा सरणिरम्बुरुहां च किं वा।
दूरे मृगीदृगसमञ्जसमञ्जनं च
कामाक्षि वीक्षणरुचौ तत्र तर्कयामः॥८७॥

मिश्रीभवद्गग्लपङ्किलशांकरोरः–
सीमाङ्गणे किमपि रिङ्खणमादधानः।
हेलावधूतललितश्रवणोत्पलोऽसौ
कामाक्षि बाल इव राजति ते कटाक्षः॥८८॥

प्रौढीकरोति विदुषां नवसूक्तिघाटी–
चूताटवीषु बुधकोकिललाल्यमानम्।
माध्वीरसं परिमलं च निरर्गलं ते
कामाक्षि वीक्षणविलासवसन्तलक्ष्मीः॥८९॥

कूलंकषं वितनुते करुणाम्बुवर्षी
सारस्वतं सुकृतिनः सुलभं प्रवाहम्।
तुच्छीकरोति यमुनाम्बुतरङ्गभङ्गीं
कामाक्षि किं तव कटाक्षमहाम्बुवाहः॥९०॥

जागर्ति देवि करुणाशुकसुन्दरी ते
ताटङ्करनरुचिदाडिमखण्डशोणे।
कामाक्षि निर्भरकटाक्षमरीचिपुञ्ज–
माहेन्द्रनीलमणिपञ्जरमध्यभागे॥९१॥

कामाक्षि सन्कुवलयस्य सगोत्रभावः–
दाक्रामति श्रुतिमसौ तव दृष्टिपातः।
किं च स्फुटं कुटिलतां प्रकटीकरोति
भ्रूवल्लरीपारचितस्य फलं किमेतत्॥९२॥

एषा तवाक्षिसुषमाविषमायुवस्य
नाराचवर्षलहरी नगराजकन्ये।
शङ्के करोति शतधा हृदि धैर्यमुद्रां
श्रीकामकोटि यदसौ शिशिरांशुमौलेः॥९३॥

बाणेन पुष्पधनुषः परिकल्प्यमान–
त्राणेन भक्तमनसां करुणाकरेण।

कोणेन कोमलदृशस्तव कामकोटि
शोणेन शोषय शिवे मम शोकसिन्धुम्॥९४॥

मारद्रुहा मुकुटसीमनि लाल्यमाने
मन्दाकिनीपयसि ते कुटिलं चरिष्णुः।
कामाक्षि कोपरभसाद्वलमानमीन–
सन्देहमङ्कुरयति क्षणमक्षिपातः॥९५॥

कामाक्षि संवलितमौक्तिककुण्डलांशु–
चञ्चत्तिश्रवणचामरचातुरीकः।
स्तम्भे निरन्तरमपाङ्गमये भवत्या
बद्धश्चकास्ति मकरध्वजमत्तहस्ती॥९६॥

यावत्कटाक्षरजनीसमयागमस्ते
कामाक्षि तावदचिरान्नमतां नराणाम्।
आविर्भवत्यमृतदीधितिबिम्बमम्ब
संविन्मयं हृदयपूर्वगिरीन्द्रशृङ्गे॥९७॥

कामाक्षि कल्पविटपीव भवत्कटाक्षो
दित्सुः समस्तविभवं नमतां नराणाम्।
भृङ्गस्य नीलनिलयस्य च कान्तिसंप–
त्सर्वस्वमेव हरतीति परं विचित्रम्॥९८॥

अज्ञातभक्तिरसमप्रसरद्विवेक–
मत्यन्तगर्वमनधीतसमस्तशास्त्रम्।
अप्राप्तसत्यमसमीपगतं च मुक्तेः
कामाक्षि नैव तव कांक्षति दृष्टिपातः॥९९॥

अत्यन्तशीतलमनर्गलकर्मपाक–
काकोलहारि सुलभं सुमनोभिरेतत्।
पीयूषमेव तव वीक्षणमम्ब किं तु
कामाक्षि नीलमिदमित्ययमेव भेदः॥१००॥

पातेन लोचनरुचेस्तव कामकोटि
पोतेन पातकपयोधिभयातुराणाम्।
पूतेन तेन नवकाञ्चनकुण्डलांशु–
वीतेन शीतलय भूधरकन्यके माम्॥१०१॥

इति कटाक्षशतकं संपूर्णम्॥

<MISSING_FIG href="../books_images/U-IMG-1724329263IMG_20240822_175019.png"/>

॥मन्दस्मितशतकम्॥

<MISSING_FIG href="../books_images/U-IMG-1724329818IMG_20240822_175904.png"/>

अघ्नीमो वयमञ्जलिं प्रतिदिनं बन्धच्छिदे देहिनां
कन्दर्पागमतन्त्रमूलगुरवे कल्याणकेलीभुवे।
कामाक्ष्या घनसारपुञ्जरजसे कामद्रुहश्चक्षुषां
मन्दारस्तबकप्रभामदम्रुषे मन्दस्मितज्योतिषे॥१॥

सध्रीचे नवमल्लिकासुमनसां नासाग्रमुक्तामणे–
राचार्याय मृणालकाण्डमहसां नैसर्गिकाय द्विषे।
स्वर्धुन्या सह युध्वने हिमरुचेरर्धासनाध्यासिने
कामाक्ष्याः स्मितमञ्जरीधवलिमाद्वैताय तस्मै नमः॥२॥

कर्पूरद्युतिचातुरीमतितरामल्पीयसीं कुर्वती
दौर्भाग्योदयमेव संविदधती दोषाकरीणां त्विषाम्।
शुल्लानेव मनोज्ञमल्लिनिकरान्फुल्लानपि व्यञ्जती
कामाक्ष्या मृदुलस्मितांशुलहरी कामप्रसरस्तु मे॥३॥

या पीनस्तनमण्डलोपरि लसत्कर्पूरलेपायते
या नीलेक्षणरात्रिकान्तिततिषु ज्योत्स्नाप्ररोहायते।
या सौन्दर्यधुनीवरङ्गततिषु व्यालोलहंसायते
कामाक्ष्याः शिशिरीकरोतु हृदयं सा मे स्मितप्राचुरी॥४॥

येषां गच्छति पूर्वपक्षसरणिं कौमुद्वतः श्वेतिमा
येषां संततमारुरुक्षति तुलाकक्ष्यां शरच्चन्द्रमाः।
येषामिच्छति कम्बुरप्यसुलभामन्तेवसत्प्रक्रियां
कामाक्ष्या ममतां हरन्तु मम ते हासत्विषामङ्कुराः॥५॥

आशासीमसु संततं विदधती नैशाकरीं व्याक्रियां
काशानामभिमानभङ्गकलनाकौशल्यमाबिभ्रती।
ईशानेन विलोकिता सकृतुकं कामाक्षि ते कल्मष–
क्लेशापायकरी चकास्ति लहरी मन्दस्मितज्योतिषाम्॥६॥

आरूढस्य समुन्नतस्तनतटीसाम्राज्यसिहासनं
कन्दर्पस्य विभोर्जगत्त्रयजयप्राकट्यमुद्रानिधेः।
यस्याश्चामरचातुरीं कलयते रश्मिच्छटा चञ्चला
सा मन्दस्मितमञ्जरी भवतु नः कामाय कामाक्षि ते॥७॥

शम्भोर्या परिरम्भसंभ्रमविधौ नैर्मल्यसीमानिधि–
र्गैर्वाणीव तरङ्गिणी कृतमृदुस्यन्दां कलिन्दात्मजाम्।
कल्माषीकुरुते कलङ्कसुषमां कण्ठस्थलीचुम्बिनीं
कामाक्ष्याः स्मितकन्दली भवतु सा कल्याणसंदोहिनी॥८॥

जेतुं हारलतामिव स्तनतटीं संजग्मुती संततं
गन्तुं निर्मलतामिव द्विगुणित मग्ना कृषस्रोतसि।

लब्धुं विस्मयनीयतामिव हरं रागाकुलं कुर्वती
मञ्जुस्ते स्मितमञ्जरी भवभयं मथ्नातु कामाक्षि मे॥९॥

श्वेतापि प्रकटं निशाकररुचां मालिन्यमातन्वती
शीतापि स्मरपावकं पशुपतेः संधुक्षयन्ती सदा।
स्वाभाव्यादराश्रितापि नमतामुच्चैर्दिशन्ती गतिं
कामाक्षि स्फुटमन्तरा स्फुरतु नस्त्वन्मन्दहासप्रभा॥१०॥

‌वक्त्रश्रीसरसीजले तरलितभ्रुवल्लिकल्लोलिते
कालिम्ना दधती कटाक्षजनुषा माधुव्रतीं व्यापृतिम्।
निर्निद्रामलपुण्डरीककुहनापाण्डित्यपाबिभ्रती
कामाक्ष्याः स्मितचातुरी मम मनः कातर्यमुन्मूलयेत्॥११॥

नित्यं बाधितबन्धुजीवमधरं मैत्रीजुषं पल्लवैः
शुद्धस्यद्विजमण्डलस्य च तिरस्कर्तारमप्याश्रिता
या वैमल्यवती सदैव नमतां चेतः पुनीतेतरां
कामाक्ष्या हृदयं प्रसादयतु मे सा मन्दहासप्रभा॥१२॥

दुह्यन्ती तमसे मुहुः कुमुदिनीसाहाय्यमाबिभ्रती
यान्ती चन्द्रकिशोरशेखरवपुः सौधङ्गणे प्रेङ्खणम्।
ज्ञानाम्भोनिधिवीचिकां सुमनसां कूलंकषां कुर्वती
कामाक्ष्याः स्मितकौमुदी हरतु मे संसारतापोदयम्॥१३॥

काश्मीरद्रवधातुकर्दमरुचा कलमाषतांबिभ्रती
हंसौघैरिव कुर्वती परिचितिंहारीकृतैर्मौक्तिकैः।
वक्षोजन्मतुषारशैलकटके संचारमातन्वती
कामाक्ष्या मृदुलस्मितद्युतिमयी भागीरथी भासते॥१४॥

कम्बोर्वंशपरम्परा इव कृपासंतानवल्लीभुवः
संफुल्लतबकाप्रसृमरा मूर्तीः प्रसादा इव।
वाक्पीयूषकणा इव त्रिपथगापर्यायभेदा इव
भ्राजन्ते तवमन्दाहासकिरणाः काञ्चीपुरीनायिके॥१५॥

वक्षोजे धनसारपत्ररचनाभङ्गीसपत्नायिता
कण्ठे मौक्तिकहारयष्टिकिरणव्यापारमुद्रायिता।
ओष्ठश्रीनिकुरुम्बपल्लवपुटे प्रेङ्खप्रसूनायिता
कामाक्षि स्फुरतां मदीयहृदये त्वन्मन्दहासप्रभा॥१६॥

येषां बिन्दुरिवोपरि प्रचलितो नासाग्रमुक्तामणि–
र्येषां दीनइवाधिकण्ठनयते हारः करालम्बनम्।
येषां बन्धुरिवोष्ठयोररुणिना धत्ते स्वयं रञ्जनं
कामाक्ष्याः प्रभवन्तु ते मम शिवोल्लासाय हासांकुराः॥

या जाड्याम्बुनिधिं क्षिणोति भजतां वैरायते कैरवै–
र्जित्यंया नियमेन या च यतते कर्तुं त्रिनेत्रोत्सवम्।

बिम्बं चान्द्रमसं च वञ्चयति या गर्वेण सा तादृशी
कामाक्षि स्मितमञ्जरी तव कथं ज्योत्स्नेत्यसौ कीर्त्यते॥

आरूढा रभसात्पुरः पुररिपोराश्लेषणोपक्रमे
या ते मातरुपैति दिव्यतटिनीशङ्काकरी तत्क्षणम्।
ओष्ठं वेपयति भ्रुर्वो कुटिलयत्यानम्रयत्याननं
तां वन्दे मृदुहासपूरसुषमामेकाम्रनाथप्रिये॥१९॥

वक्त्रेन्दोस्तव चन्द्रिका स्मितरुचिर्वल्गु स्फुरन्ती सतां
स्याच्चेद्युक्तमिदं चकोरमनसां कामाक्षि कौतूहलम्।
एतच्चित्रमहर्निशं यदधिकामेषा रुचिं गाहते
बिम्बोष्ठद्युमणिप्रभास्वपि च यद्विब्वोकमालम्बते॥२०॥

सादृश्यं कलशाम्बुधैर्वहति ते कामाक्षि मन्दस्मितं
शोभामोष्ठरुचा च विद्रुमभवामेतद्भिदां ब्रूमहे।
एकस्मादुदितं पुरा किल षषौशर्वः पुराणः पुमा–
नेतन्मध्यसमुद्भवं रसयते माधुर्यरूपं रसम्॥२१॥

उत्तुङ्गस्तनकुम्भशैलकटके विस्तारिकस्तूरिका–
पत्रश्रीजुषि चञ्चलाः स्मितरुचः कामाक्षि ते कोमलाः।
संध्यादीधितिरञ्जिता इव मुहुः सान्द्राधरज्योतिषा
व्यालोलामलशारदाभ्रंशकलव्यापारमातन्वते॥२२॥

क्षीरं दुरतएव तिष्ठतु कथं वैमल्यमात्रादिदं
मातस्ते सहपाठवीथिमयतां मन्दस्मितैर्मञ्जुलैः।
किं चेयं तु भिदास्ति दोहनवशादेकं तु संजायते
कामाक्षि स्वयमर्थितं प्रणमतामेतत्तु दोदुह्यते॥२३॥

कर्पूरैरमृतैर्जगज्जननि ते कान्तैश्चचन्द्रातपै–
र्मुक्ताहारगुणैर्मृणालवलयैर्मुग्धस्मितश्रीरियम्।
श्रीकाञ्चीपुरनायिके समतया संस्तूयते सज्जने–
स्तत्तादृङ्भम तापशान्तिविधये किं देवि मन्दायते॥२४॥

मध्ये गर्भितमञ्जुवाक्यलहरीमाध्वीझरीशीतला
मन्दारस्तबकायते जननि ते मन्दस्मितांशुच्छटा।
यस्या वर्धयितुं मुहुर्विकसनं कामाक्षि कामद्रुहो
बल्गुर्वीक्षणविभ्रमव्यतिकरो वासन्तमासायते॥२५॥

बिम्बोष्ठद्युतिपुञ्जरञ्चितरुचिस्त्वन्मन्दहासच्छटा
कल्याणं गिरिसार्वभौमतनये कल्लोलयत्वाशु मे।
फुल्लन्मल्लिपिनद्धहल्लकमयीं मालेव या पेशला
श्रीकाञ्चीश्वरि मारमर्दितुरुरोमध्ये मुहुर्लम्बते॥२६॥

विभ्राणा शरदभ्रविभ्रमदशां विद्योतमानाप्यसौ
कामाक्षि स्मितमञ्जरी किरति ते कारुण्यधारारसम्।

आश्चर्यं शिशिरीकरोति जगतीमालोक्य चैनामहो
कामं खेलति नीलकण्ठहृदयं कौतूहलान्दोलितम्॥२७॥

प्रेङ्खत्प्रौढकटाक्षकुञ्जकुहरेष्वत्यच्छगुच्छायितं
वक्त्रेन्दुच्छविसिन्धुवीचिनिचये फेनप्रतानायितम्।
वैरन्तर्यविजृम्भितस्तनतटे नैचोलपट्टायितं
कल्माषं कबलीकरोतु मम ते कामाक्षि मन्दस्मितम्॥२८॥

पीयूषं तब मन्थरस्मितमिति व्यर्थैव सापप्रथा
कामाक्षि धृवमीदृशं यदि भवेदेतत्कथं वा शिवे।
मन्दारस्य कथालवं न सहते मथ्नाति मन्दाकिनी–
मिन्दुं निन्दति कीर्तितेऽपि कलशीपाथोधिमीर्ष्यायते॥

विश्वेषां नयनोत्सवं वितनुतां विद्योततां चन्द्रमा
विख्यातो मदनान्तकेन मुकुटीमध्येन संमान्यताम्।
आः किं जातमनेन हाससुषमामालोक्य कामाक्षि ते
कालङ्कोमवलम्बते खलु दशां कल्माषहीनोऽप्यसौ॥३०॥

चेतः शीतलवन्तु नः पशुपतेरानन्दजीवातवो
नम्राणां नयनाध्वसीमसु शरच्चन्द्रातपोपक्रमाः।
संसाराख्यसरोरुहाकरखलीकारे तुषारोत्कराः
कामाक्षि स्मरकीर्तिबीजनिकरास्त्वन्मन्दहासांकुराः॥३१॥

कर्मौघाख्यतमःकचाकचिकारान्कामाक्षि संचिन्तये
त्वन्मन्दस्मितरोचिषां त्रिभुवनक्षेमङ्करानङ्कुरान्।
ये वक्त्रं शिशिरश्रियो विकसितं चन्द्रातपाम्भोरूह–
द्वेषोद्घोषणचातुरीमिव तिरस्कर्तुं परिष्कुर्वते॥३२॥

कुर्युर्नः कुलशैलराजतनये कूलंकषंमङ्गलं
कुन्दस्पर्धनचुञ्चस्तव शिवे मन्दस्मितप्रक्रमाः।
ये कामाक्षि समस्तसाक्षिनयनं संतोषयन्तीश्वरं
कर्पूरप्रकरा इव प्रसृभराः पुंसामसाधारणाः॥३३॥

क्रमेण स्रपयस्व कर्मकुहनाचोरेण मारागम–
व्याख्याशिक्षणदीक्षितेन विदुष मक्षीणलक्ष्मीपुषा।
कामाक्षि स्मितकन्दलेन कलुषस्फोटकियाचुञ्चुना
कारुण्यामृतवीचिकाविहरणप्राचुर्यधुर्येण माम्॥३४॥

त्वन्मन्दस्मिकदलस्य नियतं कामाक्षि शङ्कामहे
बिम्बः कश्चन नूतनः प्रचलितो नैशाकरः शीकरः।
किं च क्षीरपयोनिधिः प्रतिनिधिः स्वर्वाहिनीवीचिका–
बिब्बोकोऽपि विडम्ब एव कुहना मल्लीमतल्लीरुचः॥३५॥

दुष्कर्मार्कनिसर्गकर्कशमहः संपर्कतप्त मिल–
त्पङ्कं शंकरवलभे मम मनः काञ्चीपुरालंक्रिये।

अम्ब त्वन्मृदुलस्मितामृतरसे मङ्क्त्वा विधूय व्यथा–
मानन्दोदयसौधश्रृङ्गपदवीमारोढुमाकाङ्क्षति॥३६॥

नम्राणां नगराजशेखरसुते नाकालयानां पुरः
कामाक्षि त्वरया विपत्प्रशमने कारुण्यधाराः किरन्।
आगच्छन्तमनुग्रहं प्रकटयन्नानन्दबीजानि ते
नासीरे मृदुहास एव तनुते नाथे सुधाशीतलः॥३७॥

कामाक्षि प्रथमानबिभ्रमनिधिः कन्दर्पदर्पप्रसू
र्मुग्धस्ते मृदुहास एवं गिरिजे मुष्णातु मे किल्बिषम्।
यं द्रष्टुं विहिते करग्रह उमे शंभुस्त्रपामीलितं
स्मेरं कारयति स्म ताण्डवविनोदानन्दिना तण्डुना॥३८॥

क्षुष्णं केनचिदेव धीरमनसा कुत्रापि नानाजनैः
कर्मग्रन्थिनियन्त्रितैरसुगमं कामाक्षि सामान्यतः।
मुग्धैर्द्रष्टुमशक्यमेव मनसा मूढस्य मे मौक्तिकं
मार्गं दर्शयतु प्रदीप इव ते मन्दस्मितश्रीरियम्॥३९॥

ज्योत्स्नाकान्तिभिरेव निर्मलतरं नैशाकरं मण्डलं
हंसैरेव शरद्विलाससमये व्याकोचमम्भोरुहम्।
स्वच्छैरेव विकस्वरैरुडुगणैः कामाक्षि बिम्बं दिवः
पुण्यैरेव मृदुस्मितैस्तव मुखं पुष्णाति शोभाभरम्॥४०॥

मानग्रन्थिविधुंतुदेन रभसादास्वाद्यमाने नव–
प्रेमाडम्बरपूर्णिमाहिमकरे कामाक्षि ते तत्क्षणम्।
आलोक्य स्मितचन्द्रिकांमुहुरिमामुन्मीलनं जग्मुषीं
चैतः शीलयते चकोरचरितं चन्द्रार्धचूडामणेः॥४१॥

कामाक्षि स्मितमञ्जरीं तत्र भजे यस्यास्त्विषामङ्कुरा–
नापीनस्तनपानलालसतया निःशङ्कमङ्केशयः।
ऊर्ध्वं वीक्ष्य विकर्षति प्रसृमरानुद्दामया शुण्डया
सूनुस्ते विशङ्कयाशु कुहनादन्तावलग्रामणीः॥४२॥

आढाश्लेषविमर्दसंभ्रमवशादुद्दाममुक्तागुण–
प्रालम्बे कुचकुम्भयोर्विगलिते दक्षद्विषो वक्षसि।
या सख्येन पिनह्यति प्रचुरया भासा तदीयां दशां
सा मे खेलतु कामकोटि हृदये स्वच्छा स्मितांशुच्छटा॥

अन्दारे तव मन्थरस्मितरुचो मात्सर्यमालोक्यते
कामाक्षि स्मरशासने च नियतं रागोदयो लक्ष्यते।
चान्द्रीषु द्युतिमञ्जरीषु च महान्द्वेषाङ्कुरो दृश्यते
शुद्धानां कथमीदृशी गिरिसुतेऽशुद्वा दशा कथ्यताम्॥४४॥

पीयूष खलु पीयते सुरजनैर्दुग्धाम्बुधिर्मथ्यते
साहेशैश्च जटाकलापनिगडैर्मन्दाकिनी नह्यते।

शीतांशुः परिभूयते च तमसा तस्मादनेतादृशी
कामाक्षि स्मितमञ्जरी तव वचोवैदग्ध्यमुल्लङ्घते॥४५॥

आशङ्के तव मन्दहासलहरीमन्यादृशीं चन्द्रिका–
मेकाम्रेशकुटुम्बिनि प्रतिपदं यस्याः प्रभासंगमे।
वक्षोजाम्बुरुहे न ते रचयतः कांचिद्दशां कौङ्भली–
मास्याम्भोरुहमम्ब किं च शनकैरालम्बते फुल्लताम्॥४६॥

आस्तीर्णाधरकान्तिपल्लवचये पातं मुहुर्जग्मुषी
कामद्रोहिणि मांसलस्मरशरज्वालावलिं व्यञ्जती।
निन्दन्ती घनसारहारवलयज्योत्स्नामृणालानि ते
कामाक्षि स्मितचातुरी विरहिणीरीतिं जगाहेतराम्॥४७॥

सूर्यालोकविधौ विकासमधिकं यान्ती हरन्ती तमः–
संदोहं नमतां निजस्मरणतो दोषाकरद्वेषिणी।
निर्यान्ती वदनारविन्दकुहरान्निधृतजाड्या नृणां
श्रीकामाक्षि तव स्मितद्युतिमयी चित्त्रीयते चन्द्रिका॥४८॥

कुण्ठीकुर्युरमी कुबोधघटनामस्मन्मनोमाथिनीं
श्रीकामाक्षि शिवंकरास्तव शिवे श्रीमन्दहासांकुराः।
ये तन्वन्ति निरन्तरं तरुणिमस्तम्बेरमग्रामणी–
कुम्भद्वन्द्वविडम्बिनि स्तनतटे मुक्ताकुथाडम्बरम्॥४९॥

ङ्खन्तः शरदम्बुदा इव शनैः प्रेमानिलैः प्रेरिता
मञ्जन्तो मदनारिकण्ठसुषमासिन्धौ मुहुर्मन्थरम्।
..कामाक्षि तव स्मितांशुनिकराः श्यामायमानश्रियो
नीलाम्भोधरनैपुणीं तत इतो निर्निद्रयन्त्यञ्जसा॥५०॥

यापारं चतुराननैकविहृतौ व्याकुर्वती कुर्वती
रुद्राक्षग्रहणं करेण सततं वागूर्मिकल्लोलिता।
त्फुल्लं धवलारविन्दमधरीकृत्य स्फुरन्ती सदा
श्रीकामाक्षि सरस्वती विजयते त्वन्मन्दहासप्रभा॥५१॥

कार्पुरद्युतितस्करेण महसा कल्माषयत्याननं
श्रीकाञ्चीपुरनायिके पतिरिव श्रीमन्दहासोऽपि ते।
आलिङ्गत्यतिपीवरां स्तनतटीं बिम्बाधरं चुम्बति
प्रौढं रागभरं व्यनक्ति मनसो धैर्यं धुनीतेतराम्॥५२॥

शद्येन च विश्वतापहरणक्रीडापटीयस्तया
पाण्डित्येन पचेलिमेन जगतां नेत्रोत्सवोत्पादने।
कामाक्षि स्मितकन्दलैस्तव तुलामारोढुमुद्योगिनी
ज्योत्स्नासौ जलराशिपोषणतया दूष्यां प्रपन्ना दशाम्॥

लावण्याम्बुजिनीमृणालवलयैः शृङ्गारगन्धद्विप–
ग्रामण्यः श्रुतिचामरैस्तरुणिमस्वाराज्यबीजांकुरैः।

आनन्दामृतसिन्धुवीचिपृषतैरास्याब्जहंसैस्तव
श्रीकामाक्षि मथान मन्दहसितैर्मत्कं मनःकल्मषम्॥५४॥

उत्तुङ्गस्तनमण्डलीपरिचलन्माणिक्यहारच्छटा-
चञ्चच्छोणिमपुञ्जमध्यसरणिं मातः परिष्कुर्वती।
या वैदग्ध्यमुपैति शङ्करजटाकान्तारवाटीयत–
त्स्वर्वापीपयसः स्मितद्युतिरसौ कामाक्षि ते मञ्जुला॥५५॥

सन्नामैकजुषा जनेन सुलभं संसूचयन्ती शनै–
रुत्तुङ्गस्य चिरादनुग्रहतरोरुत्पत्स्यमानं फलम्।
प्राथम्येन विकस्वरा कुसुमवत्प्रागल्भ्यमभ्येयुषी
कामाक्षि स्मितचातुरी तव मम क्षेमंकरी कल्पताम्॥५६॥

धानुष्काग्रसरस्य लोलकुटिलभ्रुलेखया बिभ्रतो
लीलालोकशिलीमुखं नववयःसाम्राज्यलक्ष्मीपुरः।
जेतुं मन्मथमर्दिनं जननि ते मन्दस्मितप्रक्रमो
वल्गुर्विभ्रमभूभृतो वितनुते सेनापतिप्रक्रियाम्॥५७॥

यन्नाकम्पत कालकूटकबलीकारे चुचुम्बे न यद्–
ग्लान्या चक्षुषि रूपितानलशिखे रुद्रस्य तत्तादृशम्।
येतो यत्प्रसभं स्मरज्वरशिखिज्वालेन लेलिह्यते
तत्कामाक्षि तव स्मितांशुकणिकाहेलाभवं प्राभवम्॥५८॥

संमिन्नेव सुपर्वलोकतटिनी वीचीचयैर्यामुनेः
संमिश्रेव शशाङ्कदीप्तिलहरी नीलैर्महानीरदैः।
कामाक्षि स्फुरिता तवस्मितरुचिः कालाञ्जनस्पर्धिना
कालिम्ना कचरोचिषां व्यतिकरे कांचिद्दशामश्नुते॥५९॥

जानीमो जगदीश्वरप्रणयिनि त्वन्मन्दहासप्रभां
श्रीकामाक्षि सरोजिनीमभिनवामेषा यतः सर्वदा।
आस्येन्दोरवलोकने पशुपतेरभ्येति संफुल्लतां
तन्द्रालुस्तदभाव एव तनुते तद्वैपरीत्यक्रमम्॥६०॥

जान्ती लोहितिमानमभ्रतटिनी धातुच्छटाकर्दमै–
र्भान्ती बालगभस्तिमालिकिरणर्मेघावली शारदी।
बिम्बोष्ठद्युतिपुञ्जचुम्बनकलाशोणायमानेन ते
कामाक्षि स्मितरोचिषा समदशामारोढुमाकाङ्क्षते॥६१॥

श्रीकामाक्षि सुखेन्दुभूषणमिदं मन्दस्मितं तावकं
नेत्रानन्दकरं तथा हिमकरो गच्छेद्यथा तिग्मताम्।
शीतं देवि तथा यथा हिमजलं संतापमुद्रास्पदं
श्वेतं किंच तथा यथा मलिनतां धत्तेच मुक्तामणिः॥६२॥

त्वन्मन्दस्मितमञ्जरीं प्रसृमरां कामाक्षि चन्द्रातपं
सन्तः सन्ततमामनन्त्यमलता तल्लक्षणं लक्ष्यते।

यन्नासौ विधुनोति तापमधिकं नाभ्यन्तरं मानस–
ध्वान्तं तत्खलु दुःखिनो वयममी केनेति जानीमहे॥६१॥

नम्रस्य प्रणयप्ररूढकलहच्छेदाय पादाब्जयो–
र्मन्दं चन्द्रकिशोरशेखरमणेः कामाक्षि रागेण ते।
बन्धूकप्रसवश्रियं जितवतो बंहीयसीं तादृशीं
बिम्बोष्ठस्य रुचिं निरम्य हसितज्योत्स्ना वयस्वायते॥६४॥

मुक्तानां परिमोचनं विदधतस्तत्प्रीतिनिष्पादिनी
भूयो दुरत एव धूतमरुतस्तत्पालनं तन्वती।
उद्भूतस्य जलान्तरादविरतं तद्दुरतां जग्मुषी
कामाक्षि स्मितमञ्जरी तव कथं कम्बोरतुलामश्नुते॥६५॥

श्रीकामाक्षि तव स्मितद्युतिझरीवैदग्ध्यलीलायितं
पश्यन्तोऽपि निरन्तरं सुविमलंमन्या जगन्मण्डले।
लोकं हासयितुं किमर्थमनिशं प्राकाश्यमातन्वने
मन्दाक्षं विरहय्य मङ्गलतरं मन्दारचन्द्रादयः॥६६॥

क्षीराब्धेरपि शैलराजतनये त्वन्मन्दहासस्य च
श्रीकामाक्षि वलक्षमोदयनिधेः किंचिद्भिदां ब्रुमहे।
एकस्मै पुरुषाय देवि स ददौ लक्ष्मीं कदाचित्पुरा
सर्वेभ्योऽपि ददात्यसौ तु सततं लक्ष्मीं च वागीश्वरीम्॥

श्रीकाञ्चीपुरस्त्नदीपकलिके तान्येव विश्वान्तरे
चाकराणि चराचरेश्वरि परं धन्यानि मन्यामहे।
कम्पातीकुटुम्बचंक्रमकलाचुञ्चूनि चञ्चूपुटै–
र्नित्यं न्यानि तव स्मितेन्दुमहसामास्वादमातन्वते॥६८॥

शैत्यप्रकामानाश्रितोऽपि नमतां जाड्यपथां धूनय–
नामन्यञ्जनपेशलोऽपि गिरिजे वैमल्यमुल्लासयन्।
लीलालपुरःसरोऽपि सततं वाचंयमान्प्रीणय–
न्कामक्षि स्नितरोचिषां तव समुल्लासः कथं वर्ण्यते॥६९॥

श्रोणीचञ्चलमेखलामुखरितं लीलागतं मन्थरं
भ्रूवल्लीचलनं कटाक्षवलनं मन्दाक्षवीक्षाचणम्।
यद्वैदग्ध्यखेन मन्मथरिपुं संमोहयन्त्यञ्जसा
श्रीकामाक्षि तव स्मिताय सततं तस्मै नमस्कुर्महे॥७०॥

श्रीकामाक्षि मनोज्ञनन्दहसितज्योतिष्प्ररोहे तव
स्फीध्दितिमतविभौमसरणीप्रागल्भ्यमभ्येयुषि।
चन्द्रोऽयंयुराजतां कलयते चेटीधुरं चन्द्रिका
गङ्गासा च सुधाझरी सहचरीसाधर्म्यजालम्बते॥७१॥

ज्योत्स्नाकिं तनुते फलं तनुमतामौष्ण्यप्रशान्ति विना
त्वमन्दस्मितरोचिषा तनुनतांकामाक्षि रोचिष्णुसा।

संतापोऽपि निवार्यते नववचःप्राचुर्यमङ्कुर्यते
सौन्दर्यं परिपूर्यते जगति सा कीर्तिश्च संचार्यते॥७२॥

वैमल्यं कुमुदश्रियां हिमरुचः कान्त्यैव संधुक्ष्यते
ज्योत्स्नारोचिरपि प्रदोपसमय प्राप्यैव संपद्यते।
त्वच्छत्वं नवमौक्तिकस्य परमं संस्कारतो दृश्यते
कामाक्ष्याः स्मितदीधितेर्विशदिमा नैसर्गिको भासते॥७३॥

प्राकाश्यं परमेश्वरप्रणयिनि त्वन्मन्दहासश्रियः
श्रीकामाक्षि मम क्षिणोतु ममतावैचक्षणीमक्षयाम्।
यद्भीत्येव निलीयते हिमकरो मेघोदरे शुक्तिका–
गर्भे मौक्तिकमण्डली च सरसीमध्ये मृणाली च सा॥

हेरम्बे च गुहे च हर्षभरितं वात्सल्यमङ्कूरय–
न्मारद्रोहिणि पुरुषे सहभुवं प्रेमांकुरं व्यञ्जयत्।
आनम्रेषु जनेषु पुर्णकरुणावैदग्ध्यमुत्तालय–
त्कामाक्षि स्मितमञ्जसा तव कथंकारं मया कथ्यते॥७५॥

संक्रुद्धद्विजराजकोऽप्यविरतं कुर्वन्द्विजैः संगमं
वाणीपद्धतिदूरगोऽपि सततं तत्साहचर्यं वहन्।
अश्रान्तं पशुदुर्लभोऽपि कलयन्पत्यौ पशूनां रति
श्रीकामाक्षि तव स्मितामृतरसस्यन्दो मयि स्पन्दताम्॥७६॥

श्रीकामाक्षि महेश्वरे निरुपमप्रेमांकुरप्रक्रमं
नित्यं यः प्रकटीकरोति सहजामुन्निद्रयन्माधुरीम्।
त्तत्तादृक्तव मन्ददाससुषमा मातः कथं मानितां
तन्मूर्ध्ना सुरनिम्नगां च कलिकामिन्दोश्च तां निन्दति॥ ७७॥

ये माधुर्यविहारमण्डपभ्रुवो ये शैत्यमुद्राकरा
ये वैशद्यदशाविशेषसुभगास्ते मन्दहासांकुराः।
कामाक्ष्याः सहजं गुणत्रयमिदं पर्यायतः कुर्वतां
वाणीगुम्फनडम्बरे च हृदये कीर्तिप्ररोहे च मे॥७८॥

कामाक्ष्या मृदुलस्मितांशुनिकरा दाक्षान्तके वीक्षणे
मन्दाक्षग्रहिला हिमद्युतिमयूखाक्षेपदीक्षांकुराः।
दाक्ष्यं पक्ष्मलयन्तु माक्षिकगुडद्राक्षाभवं वाक्षु मे
सूक्ष्मं मोक्षपथं निरीक्षितुमपि प्रक्षालयेयुर्मनः॥७९॥

जात्या शीतलशीतलानि मधुराण्येतानि पूतानि ते
गाङ्गानीव पयांसि देवि पटलान्यल्पस्मितज्योतिषाम्।
एनः पङ्कपरम्परामलिनितामेकाम्रनाथप्रिये
प्रज्ञानात्सुतरां मदीयधिषणां प्रक्षालयन्तु क्षणात्॥८०॥

अश्रान्तं परतन्त्रितः पशुपतिस्त्वन्मन्दहासांकुरैः
श्रीकामाक्षि तदीयवर्णसमतासङ्गेन शङ्कामहे।

इन्दुं नाकधुनीं च शेखरयते मालां च धत्ते नवै–
र्वैकुण्ठैरवकुण्ठनं च कुरुते धूलीचयैर्भास्मनैः॥८१॥

श्रीकाञ्चीपुरदेवते मृदुवचःसौरभ्यमुद्रास्पदं
प्रौढप्रेमलतानवीनकुसुमं मन्दस्मितं तावकम्।
मन्दं कन्दलति प्रियस्य वदनालोके समाभाषणे
श्लक्ष्णे कुङ्भलति प्ररूढपुलके चाश्लेषणे फुल्लति॥८२॥

किं त्रैस्त्रोतसमम्बिके परिणतं स्रोतश्चतुर्थं नवं
पीयूषस्य समस्ततापहरणं किं वा द्वितीयं वपुः।
किंस्वित्त्वन्निकटं गतं मधुरिमाभ्यासाय गव्यं पथः
श्रीकाञ्चीपुरनायकप्रियतमे मन्दस्मितं तावकम्॥८३॥

भूषा वक्त्रसरोरुहस्य सहजा वाचां सखी शाश्वती
नीवी विभ्रमसंतत्तेः पशुपतेः सौधी दृशां पारणा।
जीवातुर्मदनश्रियः शशिरुवेरुच्चाटनी देवता
श्रीकामाक्षि गिरामभूमिमयते हासप्रभानञ्जरी॥८४॥

सूतिः श्वेतिमकन्दलस्य वसतिः शृङ्गारसारश्रियः
पूर्तिः सूक्तिझरीरसस्य लहरी कारुण्यपाथोनिधेः।
वाटी काचन कौसुमी मधुरिमस्वाराज्यलक्ष्म्यास्तव
श्रीकामाक्षि ममास्तु मङ्गलकरी हासप्रभाचातुरी॥८५॥

उत्तुङ्गस्तनमण्डलस्य विलसल्लवण्यलीलानटी–
रङ्गस्य स्फुटमूर्ध्वसीमनि मुहुः प्राकाश्यमभ्येयुषी।
श्रीकामाक्षि तव स्मितद्युतिततिर्बिम्बोष्ठकान्त्यंकुरै–
श्चित्रां विद्रुममुद्रिकां वितनुतेभौक्तीं वितानश्रियम्॥८६॥

जन्तूनां जनिदुःखमृत्युलहरीसंतापनं कृन्ततः
प्रौढानुग्रहपूर्णशीतलरुचो नित्योदयं बिभ्रतः।
श्रीकामाक्षि विसृत्वरा इव करा हासांकुरास्ते हृटा–
दालोकेन निहन्युरन्धतमसस्तोमस्य मे संततिम्॥८७॥

स्वाभाब्यात्तव वक्त्रमेव ललितं संतोषसंपादनं
शंभोः किं पुनरञ्चितस्मितरुचः पाण्डित्यपात्रीकृतम्।
अम्भोजं स्वत एव सर्वजगतां चक्षुःप्रियंभावुकं
कामाक्षि स्फुरिते शरद्विकसिते कीदृग्विधं भ्राजते॥८८॥

पुंभिर्निर्मलमानसैर्विदधते मैत्रीरसं निर्मलं
कर्तुं कर्मलयं च निर्मलतमां कीर्तिं लभन्तेतराम्।
सूक्तिं पक्ष्मलयन्ति निर्मलगुणां यत्तावकाः सेवका–
स्तत्कामाक्षि तव स्मितस्य कलया नैर्मल्यसीमानिधेः॥

आकर्षन्नयनानि नाकिमदलां

शैत्येन संस्तम्भय–
न्निन्दु किं च विमोहयन्पशुपतिं विश्वार्तिमुच्चाटयन्।

हिंसन्संसृतिडम्बरं तव शिवे हासाह्वयो मान्त्रिकः
श्रीकामाक्षि मदार्तितापतमसो विद्वेषणे चेष्टताम्॥९०॥

क्षेपीयः क्षपयन्तु कल्मषभयान्यस्माकमल्पस्मित–
ज्योतिर्मण्डलचङ्क्रमास्तव शिवे कामाक्षि रोचिष्णवः।
पीडाकर्मठकर्मघ

र्मसमयव्यापारतापानल–
श्रीपाता नवहर्षवर्षणसुधास्रोतस्विनीशीकराः॥९१॥

श्रीकामाक्षि तव स्मिंतैन्दवमहः पूरे परिस्फूर्जति
प्रौढां वारिधिचातुरीं कलयते भक्तात्मनां प्रातिभम्।
दौर्गत्यप्रसरास्तमःपटलिकासाधर्म्यमाबिभ्रते
किं किं कैरवसाहचर्यपदवीरीत्यां न धत्ते पदम्॥९२॥

मन्दारादिषु मन्मथारिमहिषि प्राकाश्यरीतिं निजां
कादाचित्कतया विशङ्क्य बहुशो वैशद्यमुद्रागुणः।
श्रीकामाक्षि तदीयसंगमकलामन्दीभवत्कौतुकः
सातत्येन तव स्मिते वितनुते स्वैरासनावासनाम्॥९३॥

इन्धाने भववीतिहोत्रनिवहे कर्मौघचण्डानिल–
प्रौढिम्ना बहुलीकृते निपतितं संतापचिन्ताकुलम्।
मातर्मां परिषिञ्च किंचिदमलैः पीयूषवर्षैरिव
श्रीकामाक्षि तव स्मितद्युतिकणैः शैशिर्यलीलाकरैः॥९४॥

भाषाया रसनाग्रखेलनजुषः शृङ्गारमुद्रासखी
लीलाजातरतेः सुखेन नियमस्नानाय येनात्मजे।
श्रीकामाक्षि सुधामयीव शिशिरा स्रोतस्विनी तावकी
गाढानन्दतरङ्गिता विजयते हासप्रभाचातुरी॥९५॥

संतापं विरलीकरोतु सकलं कामाक्षि मच्चेतना
मज्जन्ती मधुरस्मितामधुनीकल्लोलजालेषु ते।
नैरन्तर्यमुपेत्य मन्मथमरुल्लोलेषु येषु स्फुटं
प्रेमेन्दुः प्रतिबिम्बतो वितनुते कौतूहलं धूर्जटेः॥९६॥

चेतः क्षीरपयोधिमन्थरचलद्रागाख्यमन्थाचल–
क्षोभव्यापृतिसंभवां जननि ते मन्दस्मितश्रीसुधाम्।
स्वादं स्वादमुदीतकौतुकरा नेत्रत्रयी शांकरी
श्रीकामाक्षि निरन्तरं परिणमत्यानन्दवीचीमयी॥९७॥

आलोके तव पञ्चसायकरिपोरुद्दामकौतूहल–
प्रेङ्खन्मारुतघट्टनप्रचलितादानन्ददुग्धाम्बुधेः।
काचिद्वीचिरुदञ्चति प्रतिनवा संवित्प्ररोहात्मिका
तां कामाक्षि कवीश्वराः स्मितमिति व्याकुर्वते सर्वदा॥

सूक्तिः शीलयते किमद्रितनये मन्दस्मितात्तेमुहु–
र्माधुर्यागमसंप्रदायमथवा सूक्तेर्नु नन्दस्मितम्।

इत्थं कामपि गाहते मम मनः संदेहमार्गभ्रमिं
श्रीकामाक्षि न पारमार्थ्यसरणिस्फूर्तौ निधत्ते पदम्॥९९॥

क्रीडालोलकृपासरोरुहमुखीसौधाङ्गणेभ्यः कवि–
श्रेणीवाक्परिपाटिकामृतझरीसूतीगृहेभ्यः शिवे।
निर्वाणांकुरसार्वभौमपदवीसिंहासनेभ्यस्तव
श्रीकामाक्षि मनोज्ञमन्दहसितज्योतिष्कणेभ्यो नमः॥१००॥

मन्दस्मितशतकं संपूर्णम्॥

<MISSING_FIG href="../books_images/U-IMG-1724416810IMG_20240823_180925.png"/>

]