आर्तत्राणस्तोत्रम्

[[आर्तत्राणस्तोत्रम् Source: EB]]

[

आर्त्तत्राणस्तोत्रम्


आर्त्तत्राणस्तोत्रम् ॥

क्षीराम्भोनिधिमन्थनोद्भवविषात् सन्दह्यमानान् सुरान्

निःशङ्कं निजलीलया कवलयन् लोकान् ररक्षादरात्

क्षीरं स्वादु निपीय मातुलगृहे गत्वा स्वकीयं गृहं

कारुण्यादुपमन्यवे निरवधिं क्षीराम्बुधिं दत्तवान्

मृत्युं वक्षसि ताडयन् निजपदध्यानैकभक्तं मुनिं

नेत्राम्भोजसमर्पणेन हरयेऽभीष्टं रथाङ्गं ददौ

ऊढं द्रोणजयद्रथादिरथिकैः सैन्यं महत् कौरवं

पार्थं रक्षितवान् अमोघविषयं दिव्यास्त्रमुद्घोषयन्

बालं शैवकुलोद्भवं परिहसत्स्वज्ञातिपक्षाकुलं

दृष्ट्वाऽऽनम्य विरिञ्चिरम्यनगरे पूजां त्वदीयां भजन्

सन्त्रस्तेषु पुरा सुरासुरभयादिन्द्रादिवृन्दारकेऽ- (वृन्दारके अश्वारूढो
)
रक्षन् यः कृपया समस्तविबुधान् जित्वा पुरारीन् क्षणात्

श्रौतस्मार्त्तपथे पराङ्मुखमपि प्रोद्यन्महापातकं

रक्षन् यः करुणापयोनिधिरिति प्राप्तप्रसिद्धिः पुरा

गाङ्गं वेगमवाप्य मान्यविबुधैः सोढुं पुरा याचितो

कारुण्यादवनीतले सुरनदीमापूरयत् पावनीम्

इति श्रीमदप्पयदीक्षितविरचितं गङ्गाधरस्तोत्रम् अथवा आर्त्तत्राणस्तोत्रम् सम्पूर्णम् ॥

]