आञ्जनेयकवचम्

[[आञ्जनेयकवचम् Source: EB]]

[

आञ्जनेयकवचम्

श्री आञ्जनेय कवचम्

अस्य श्रीहनुमत्कवच स्तोत्रमहामन्त्रस्य ।
श्रीरामचन्द्र ऋषिः ।
गायत्रि छन्दः ।
श्रीहनुमान् परमात्मा देवता ।
मारुतात्मज इति बिजम् ।
अञ्जनासुनुरिति शक्तिः ।
श्री रामदूत हति कीलकम् ।
मम मानसाभीष्टसिद्धयर्थे जपे विनियोगः ॥

श्री रामचन्द्र उवाच ।

हनुमान् पूर्वतः पातु दक्षिणे पवनात्मजः ।

प्रतीच्यां पातु रक्षोघ्नः सौम्यां सागरतारणः ॥

ऊर्ध्वं में केसरी पातु विष्णुभक्तस्तु में ह्यधः ।

लंकाविदाहकः पातु सर्वापद्भयो निरन्तरम् ॥

सुग्रीवसचिवः पातु मस्तके वायुनन्दनः ।

फालं पातु महावीरः भ्रुवोर्मध्ये निरन्तरम् ॥

नेत्रे छायापहारी च पातु मां प्लवगेश्वरः ।

कपोलौ कर्णमूले तु पातु मे रामकिङ्करः ॥

नासायामञ्जनासुनुः पातु वक्त्रं हरीश्वरः ।

पातु कण्ठं च दैत्यारिः स्कन्धौ पातु सुरार्चितः ॥

भुजौ पातु महातेजाः करौ तु चरणायुधः ।

नखान नखायुधः पातु कुक्षौ पातु कपीश्वरः ॥

वक्षो मुद्रापहारी च पातु पार्श्वे महाभुजः ।

सीताशोकप्रहर्ता च स्तनौ पातु निरन्तरम् ॥

लंकाभयंकर पातु पृष्टदेशे निरन्तरम् ।

नाभिं श्रीरामदासो मे कटिं पातु समीरजः ॥

गुह्यं पातु महाप्राज्ञः सक्थिनी च शिवप्रियः ।

उरु च जानुनी पातु लंकाप्रसादभंजनः ॥

जंघे पातु कपिश्रेष्ठः गुल्फं पातु महाबलः ।

अचलोद्धारकः पातु पादौ भास्करसन्निभः ॥

अंगान्यमितसत्वाढयः पातु पादांगुलिस्सदा ।

सर्वांगानि महाशूरः पातु रोमाणि चात्मवान् ॥

हनुमत्कवचं यस्तु पठेत विद्वान विचक्षणः ।

स एव पुरुषश्रेष्ठः भुक्तिं मुक्तिं च विन्दति ॥

श्रिकालं एककालं वा पठेत मासत्रयं नरः ।

सर्वान् रिपुन् क्षणात् जित्वा स पुमान श्रियं आप्नुयात् ॥

अर्धरात्रौ जले स्थित्वा सप्तवारं पठेत यदि ।

क्षयापस्मारकुष्ठकादि तापत्रयनिवारणम् ॥

अश्वत्थमूले अर्कवारे स्थित्वा पठति यः पुमान् ।

अचलां श्रियमाप्नोति संग्रामे विजयी भवेत ॥

सर्वरोगाः क्षयं यान्ति सर्वसिद्धिप्रदायकम् ।

यः करे धारयेन्नित्यं रामरक्षासमन्वितम् ॥

रामरक्षां पठेद्यस्तु हनुमत्कवचं विना ।

अरण्ये रुदितं तेन स्तोत्रपाठञ्च निष्फलम् ॥

सर्वदुःखभयं नास्ति सर्वत्र विजयी भवेत ।

अहोरात्रं पठेद्यस्तु शुचिः प्रयतमानसः ॥

मुच्येत नात्र सन्देहः कारागृहगतो नरः ।

पापोपपातकान्मर्त्यः मुच्यते नात्र संशयः ॥

यो वारान्निधिमल्पपल्वलमिवोल्लंघ्य प्रतापान्वितः
वैदेहीहीघनशोकतापहरणो वैकुण्ठभक्तिप्रियः ।

अक्षघ्नो जितराक्षसेश्वरमहादर्पापहारी रणे
सो अयं वानरपुंगवो अवतु सदा त्वस्मिन समीरात्मजः ॥

इति श्रीआञ्जनेयकवचं संपूर्णम् ॥

]