[[नरसिंहनस्वस्तोत्रम् Source: EB]]
[
॥ श्रीः ॥
श्रीमदानन्दतीर्थभगवत्पादप्रणीतसर्वमूलग्रन्थाः
नरसिंहनस्वस्तोत्रम्
॥ श्रीमद्धनुमद्भीममध्वान्तर्गतरामकृष्णवेदव्यासात्मकश्रीलक्ष्मीहयग्रीवाय नमः ॥
पान्त्वस्मान्पुरुहूतवैरिबलवन्मातङ्गमाद्यद्धटा-
कुम्भोच्चाद्रिविपाटानाधिकपटुप्रत्येकवज्रायिताः ।
(1)श्रीमत्कण्ठीरवास्यप्रततसुनखरा दारितारातिदूर-
प्रध्वस्तध्वान्तशान्तप्रविततमनसां भाविता (2)नाकीवृन्दैः ॥ 1 ॥
(3)लक्ष्मीकान्ति समन्ततो विकलयन्नैवेशितुस्ते समं
पश्याम्युत्तमवस्तु दूरतरतोऽपास्तं रसो योऽष्टमः(4) ।
यद्रोषोत्करदक्षनेत्रकृटिलप्रान्तोत्थिताग्निस्पुर-
त्खद्येतोपमविष्पुलिङ्गभसिता ब्रह्मेशशक्रोत्कराः ॥ 2 ॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितं नरसिंहनस्वस्त्रोत्रम् ॥
॥ इति नरसिंहनस्वस्तोत्रः ॥
॥ श्रीकृष्णार्पणमस्तु ॥
F.N.
-
प्रतत दारितारातिदूर प्रध्वस्तध्वान्त शान्त श्रीमत्कण्ढीकवास्य ते नाकिवृन्दैः भाविता सुनखराः अस्मान् पान्तु इति वा अन्वयक्रमः ।
-
भूरिभागौः (पा.)
-
लक्ष्मीकान्त इत्यनेन भगवतः अक्षकपुरुषोत्तमत्वं, …..ब्रह्मोशशक्रोत्कराः …..भसिता ब्रह्मोशशक्रोत्कराः इत्यनेन बगवतः क्षरपुरुषोत्तमत्वं सूचितं वेदितव्यं तथा च भगवान् क्षरक्षरपुरुषोत्तमः, इत्यर्थः, नरसिंहशब्दार्थोपि पुरुषोत्तमः इत्येव ।
-
एषां भूतानां पृथिवी रसः पृथिव्या आपो रसोऽपामोषधयो रस ओषधीनां पुरुषो रसः पुरुषस्य वाग्रसो वाच ऋग्रस ऋचः साम रसः सान्म उद्गीथो रसः स एष रसानां रसतमः परमः परार्ध्योऽष्टमो य उद्गीथः ॥
-छान्दोग्योपनिशत्
पृथिवी सर्वभूतेभ्यः सदा सर्वगुणैर्वरा ।
रसः सारो वरश्चेति शब्दा एकार्थवाचकाः ।
पृथिव्या वरुणः श्रेष्ठस्तस्मादोषधिदेवता ।
सोमस्तस्मात्तु पुरुषो रुद्रो यत्पौस्यदेवता ।
तस्मात्सरस्वाती वाग्धि श्रेष्ठाऽस्या ऋक्स्वरूपिणी ।
सैव श्रेष्ठा ततो वायुर्वरिष्ठस्सामनामकः ।
समत्वात्सर्वभूतेषु साम साम्नां च देवता ।
ततः श्रेष्ठतमो विष्णुः श्रेष्ठश्रेष्ठतमः सदा ।
श्रेष्ठाच्छ्रेष्ठतमाच्चापि परमात्परमो विभुः ।
परमर्धियुतत्वाच्च परार्ध्य इति कीर्तितः’ इति सारनिर्णये ।
-छान्दोग्योपनिषद्भाष्ये
]