आदित्यहृदयम्

[[आदित्यहृदयम् Source: EB]]

[

[TABLE]

<MISSING_FIG href="../books_images/U-IMG-1725294250ad.JPG"/>

श्रीगणेशाय नमः॥ ॥आचम्य देशकालौ संकीर्त्य ममारोग्यावाप्तये श्रीसवितृसूर्यनारायणप्रीत्यर्थंद्वादशनमस्काराख्यं कर्म करिष्ये॥॥अथ ध्यानम्॥ ध्येयः सदा सवितृमंडलमध्यवर्तीनारायणः सरसिजासन संनिविष्टः॥ केयूरवान्मकरकुंडलवान्किरीटी हारी हिरण्मयवपुर्धृतशंखचक्रः॥१॥ एकचक्रो रथो यस्य दिव्यः कनकभूषितः॥ स मे भवतु सुप्रीतः पद्महस्तो दिवाकरः॥२॥ मित्राय नमः॥ रवये नमः।सूर्याय नमः॥ भानवे नमः॥ खगाय नमः॥ पूष्णे नमः॥ हिरण्यगर्भाय नमः॥ मरीचये नमः॥ आदित्याय नमः॥ सवित्रे नमः॥ अर्काय नमः॥ भास्कराय नमः॥१२॥नमः सवित्रे जगदेकचक्षुषे जगत्प्रसूतिस्थितिनाशहेतवे॥ त्रयीमयाय त्रिगुणात्मधारिणे विरिंचिनारायणशंकरात्मने॥१॥ नमोऽस्तु सूर्याय सहस्ररश्मये सहस्रशाखान्वित

संभवात्मने॥
सहस्रयोगोद्भवभावभागिने सहस्रसंख्यायुगधारिणे नमः॥२॥

आदित्यस्य नमस्कारं ये कुर्वति दिने दिने।
जन्मांतरसहस्रेषु दारिद्र्यं नोपजायते॥३॥

इति नमस्काराः॥

॥शतानीक उवाच॥

कथमादित्यमुद्यतमुपतिष्ठेद्विजोत्तम।
एतन्मे ब्रूहि विप्रेंद्र प्रपद्ये शरणं तव ॥१॥

॥सुमंतुरुवाच॥

इदमेव पुरा पृष्टं शंखचक्रगदाधरम्।
प्रणम्य शिरसा देवमर्जुनेन महात्मना॥२॥
कुरुक्षेत्रे महाराज निवृत्ते भारते रणे।
कृष्णनाथं समासाद्य प्रार्थयित्वाऽब्रवीदिदम्॥३॥

॥अर्जुन उवाच॥

ज्ञानं च धर्मशास्त्राणां गुह्याद्गुह्यतरं तथा॥
मया कृष्ण परिज्ञातं वाङ्मयं सचराचरम्॥४॥
सूर्यस्तुतिमयं न्यासं वक्तुमर्हसि माधव॥
भक्त्या पृच्छामि देवेश कथयस्व प्रसादतः॥५॥
सूर्यभक्तिं करिष्यामि कथं सूर्यं प्रपूजयेत्।
तदहं श्रोतु

मिच्छामि त्वत्प्रसादेन यादव॥६॥

॥श्रीभगवानुवाच॥

रुद्रादिदैवतैः सर्वैः पृष्टेन कथितं मया॥
वक्ष्येऽहं सूर्यविन्यासं शृणु पांडव यत्नतः॥७॥
अस्माकं यत्त्वया पृष्टमेकचित्तो भवार्जुन॥
तदहं संप्रवक्ष्यामि आदिमध्यावसानकम्॥८॥

॥अर्जुन उवाच॥

नारायण सुरश्रेष्ठ पृच्छामि त्वां महायशः॥
कथमादित्यमुद्यंतमुपतिष्ठेत्सनातनम्॥९॥

॥श्रीभगवानुवाच॥

साधुपार्थ महाबाहो बुद्धिमानसि पांडव॥
यन्मां पृच्छस्युपस्थानं तत्पवित्रं विभावसोः॥१०॥
सर्वमंगलमांगल्यं सर्वपापप्रणाशनम्॥
सर्वरोगप्रशमनमायुर्वर्धनमुत्तमम्॥११॥
अमित्रदमनं पार्थ संग्रामे जयमुत्तमम्॥
वर्धनं घनपुत्राणामादित्यहृदयं शृणु॥१२॥
यच्छ्रुत्वा सर्वपापेभ्यो मुच्यते नात्र संशयः॥
त्रिषु लोकेषु विख्यातं निःश्रेयसकरं परम्॥१३॥
देवदेवं नमस्कृत्य

प्रातरुत्थाय चार्जुन।
विनान्यनेकरूपाणि नश्यंति स्मरणादपि॥१४॥
तस्मात्सर्वप्रयत्नेनसूर्यमाराधयेत्सदा॥
आदित्यहृदयं नित्यं जाप्यं तच्छृणु पांडव॥१५॥
यज्जपन्मुच्यते जंतुदरिद्र्यादाशु दुस्तरात्॥
लभते च महासिद्धिं कुष्ठव्याधिविनाशनम्॥१६॥
अस्मिन्मंत्रे ऋषिश्छंदो देवता शक्तिरेव च॥
सर्वमेवमहाबाहो कथयामि तवाग्रतः॥१७॥
मयातोगोपितं न्यासं सर्वशास्त्रप्रबोधितम्॥
अथ ते कथयिष्यामि उत्तमं मंत्रमेव च॥१८॥

ॐ अस्य श्रीआदित्यहृदयस्तोत्रमंत्रस्य॥ श्रीकृष्णऋषिः॥ श्रीसूर्यात्मा त्रिभुवनेश्वरो देवता॥अनुष्टुप् छंदः॥हरितहयरथं दिवाकरं घृणिरिति बीजम्॥ ॐ नमो भगवते जितकेश्वानर जातवेदस इति शक्तिः॥ ॐ नमो भगवते आदित्याय नम इति कीलकम्॥ ॐ अग्निगर्भदेवता इति मंत्रः॥ ॐ नमो

भगवते तुभ्यमादित्याय नमो नमः॥ श्रीसूर्यनारायणप्रीत्यर्थे जपे विनियोगः॥ ॥अथ न्यासः॥ ॥ॐ ह्राँअंगुष्ठाभ्यां नमः॥ ॐ ह्रीं तर्जनीभ्यां नमः॥ ॐ ह्रूँमध्यमाभ्यां नमः॥ ॐ ह्रैंअनामिकाभ्यां नमः ॥ ॐ ह्रौंकनिष्ठिकाभ्यां नमः॥ ॐ ह्रःकरतलकरपृष्ठाभ्यां नमः॥ ॐ ह्रांहृदयाय नमः॥ ह्रीं शिरसे स्वाहा॥ ॐ ह्रूंशिखायै वषट् ॥ ॐ ह्रैंकवचाय हुम्॥ ॐ ह्रौंनेत्रत्रयाय वौषट्॥ ॐ हः अस्त्राय फट्॥ ॐ ह्रांह्रींह्रूंह्रैंह्रौंह्रःइति दिग्बंधः॥ अथ ध्यानम्॥ भास्वद्रत्नाढ्यमौलिः स्फुरदधररुचा रंजितश्चारुकेशौभास्वीन्वै दिव्यतेजाः करकमलयुतः स्वर्णवर्णः प्रभाभिः ॥विश्वाकाशाव-काशग्रहपतिशिखरे भाति यश्चोदयाद्रौ सर्वानंद प्रदाता हरिहरनमितः पातु मांविश्वचक्षुः॥१॥ पूर्वमष्टदलं पद्मं प्रणवादिप्रंति

ष्ठितम्॥
मायाबीजं दलाष्टाग्रे यंत्रमुद्धारयेदिति॥२॥

आदित्यं भास्करं भानुं रविं सूर्यं दिवाकरम्।
मार्तंडं तपनं चेति दलेष्वष्टसु योजयेत्॥३॥

दीप्ता सूक्ष्मा जया भद्रा विभूतिर्विमलातथा॥
अमोघा विद्युता चेति मध्ये श्रीः सर्वतोमुखी॥४॥

सर्वज्ञः सर्वगश्चैव सर्वकारणदेवता॥
सर्वेशं सर्वहृदयं नमामि सर्वसाक्षिणम्॥५॥

सर्वात्मा सर्वकर्ता च सृष्टिजीवनपालकः॥
हितः स्वर्गापवर्गश्च भास्करेश नमोऽस्तु ते॥६॥

॥इति प्रार्थना॥

नमो नमस्तेऽस्तु सदा विभावसो सर्वात्मने सप्तहयाय भानवे ॥
अनंतशक्ते मणिभूषणेन ददस्वभुक्तिं मम मुक्तिमव्ययाम्॥७॥

अर्कंतु मूर्ध्नि विन्यस्य ललाटे तु रविं न्यसेत्॥
विन्यसेनेत्रयोः सूर्यं कर्णयोश्च दिवाकरम्॥८॥

नासिकायां न्यसेद्भानुं मुखे वै भास्करं न्यसेत्॥
पर्जन्यमोष्ठयोश्चैव तीक्ष्णं

जिह्वांतरे न्यसेत्॥९॥

सुवर्णरेतसं कंठे स्कंधयोस्तिग्मतेजसम्।
बाह्वोस्तु पूषणं चैव मित्रं वै पृष्ठतो न्यसेत्॥१०॥

वरुणंदक्षिणे हस्ते त्वष्टारं वामतः करे।
हस्तावुष्णकरः पातु हृदयं पातुभानुमान्॥११॥

उदरे तु यमं विद्यादादित्यं नाभिमंडले।
कट्यां तु विन्यसेद्धंसं रुद्रमूर्वोस्तु विन्यसेत्॥१२॥

जान्वोस्तु गोपतिं न्यस्य सवितारं तु जंघयोः॥
पादयोश्च विवस्वंतं गुल्फयोश्च दिवाकरम्॥१३॥

बाह्यतस्तु तमोध्वंसं भगमभ्यंतरे न्यसेत्॥
सर्वांगेषु सहस्रांशुं दिग्विदिक्षु भगंभ्यंतरेन्यसेत्॥१४॥

इति दिग्बंधः॥

एष आदित्यविन्यासो देवानामपि दुर्लभः॥
इमंभक्त्या न्यसेत्पार्थ स याति परमां गतिम्॥१५॥

कामक्रोधकृतात्पापान्मुच्यते नात्र संशयः॥
सर्पादपि भयं नैव संग्रामेषु पथिष्वपि॥१६॥

रिपुसंघट्टकालेषु तथा चोरसमागमे॥

त्रिसंध्यं जपतो न्यासं महापातकनाशनम्॥१७॥

विस्फोटकसमुत्पन्नं तीव्रज्वरसमुद्भवम्॥
शिरोरोगं नेत्ररोगं सर्वव्याधिविनाशनम्॥१८॥

कुष्ठव्याधिस्तथा दद्रूरोगाश्चविविधाश्च ये॥
जपमानस्य नश्यंति शृणु भक्त्या तदर्जुन॥१९॥

आदित्यो मंत्रसंयुक्तआदित्यो भुवनेश्वरः॥
आदित्यान्नापरो देवो ह्यादित्यः परमेश्वरः॥२०॥

आदित्यमर्चयेद्ब्रह्मा शिव आदित्यमर्चयेत्॥
यदादित्यमयं तेजो मम तेजस्तदर्जुन॥२१॥

आदित्यं मंत्रसंयुक्तमादित्यं भुवनेश्वरम्॥
आदित्यं ये प्रपश्यंति मां पश्यंति न संशयः॥२२॥

त्रिसंध्यमर्चयेत्सूर्यं स्मरेद्भक्त्यातु यो नरः॥
न स पश्यति दारिद्र्यं जन्मजन्मनि चार्जुन॥२३॥

एतत्ते कथितं पार्थ आदित्यहृदयं मया॥
मुच्यते सर्वपापेभ्यः सूर्यलोके महीयते॥२४॥

नमो भगवते तुभ्यमादित्याय नमो

नमः॥
आदित्यः सविता सूर्यः खगः पूषा गभस्तिमान्॥२५॥

सुवर्णस्फटिको भानुः स्फुरितो विश्वतापनः॥
रविर्विश्वो महातेजाः सुवर्णः सुप्रबोधकः॥२६॥

हिरण्यगर्भस्त्रिशिरास्तपनो भास्करो रविः॥
मार्तंडो गोपतिः श्रीमान्कृतज्ञश्च प्रतापवान्॥२७॥

तमिस्रहा भगो हंसो नासत्यश्च तमोनुदः॥
शुद्धो विरोचनः केशी सहस्रांशुर्महाप्रभुः॥२८॥

विवस्वान्पूषणो मृत्युमिहिरो जामदग्न्यजित्॥
धर्मरश्मिः पतंगश्चशरण्यो मित्रहातपः॥२९॥

दुर्विज्ञेयगतिः शूरस्तेजोराशिर्महायशाः॥
शंभुचित्रांगदः सौम्यो हव्यकव्यप्रदायकः॥३०॥

अंशुमानुत्तमोदेव ऋग्यजुः साम एव च॥
हरिदश्वस्तमोदारः सप्तसप्तिर्मरीचिमान्॥३१॥

अग्निगर्भोऽदितेः पुत्रः शंभुस्तिमिरनाशनः॥
पूषा विश्वंभरी मित्रः सुवर्णः सुप्रतापवान्॥३२॥

अतपी

मंडली भास्वान् तपनः सर्वतापनः॥

कृतविश्वो महातेजाः सर्वरत्नमयोद्भवः॥३३॥

अक्षरश्चक्षरश्चैव प्रभाकरविभाकरौ॥
चंद्रश्चंद्रांगदः सौम्यो हव्यकव्यप्रदायकः॥३४॥

अंगारकोंऽगदो हस्ती रक्तांगश्चांगवर्धनः॥
बुधो बुद्धासनो बुद्धिर्बुद्धात्माबुद्धिवर्धनः॥३५॥

बृहद्भानुर्बृहद्भासो बृहद्धामा बृहस्पतिः॥
शुक्रस्त्वं शुक्लरेतास्त्वं शुक्लांगः शुक्लभूषणः॥३६॥

शनिमान्शनिरूपस्त्वं शनैर्गच्छसि सर्वदा॥
अनादिरादिरादित्यस्तेजोराशिर्महातपाः॥३७॥

अनादिरादिरूपस्त्वमादित्यो दिक्पतिर्यमः॥
भानुमान्भानुरूपस्त्वं स्वर्भानुर्भानुदीप्तिमान्॥३८॥

धूमकेतुर्महाकेतुः सर्वकेतुरनुत्तमः॥
तिमिरावरणः शंभुः स्रष्टा मार्तंड एव च॥३९॥

नमः पूर्वाय गिरये पश्चिमाय नमो नमः॥
नमोत्तराय गिरये दक्षिणाय नमो नमः॥४०॥

नमो नमः सहस्रांशो ह्यादित्याय नमो नमः ।
नमः पद्मप्रबोधाय नमस्ते द्वादशात्मने॥४१॥

नमो विश्वप्रबोधाय नमो भ्राजिष्णुजिष्णवे॥
ज्योतिषे च नमस्तुभ्यं ज्ञानार्काय नमो नमः॥४२॥

प्रदीप्ताय प्रगल्भाय युगांताय नमो नमः॥
नमस्ते होतृपतये पृथिवीपतये नमः॥४३॥

नमोंकार वषट्कार सर्वयज्ञ नमोऽस्तु ते॥
ऋग्वेदादिर्यजुर्वेद सामवेद नमोऽस्तु ते॥४४॥

नमो हाटकवर्णाय भास्कराय नमो नमः॥
जयाय जयभद्राय हरिदश्चायते नमः॥४५॥

दिव्याय दिव्यरूपाय ग्रहाणां पतये नमः॥
नमस्ते शुचये नित्यं नमः कुरुकुलात्मने॥४६॥

नमस्त्रैलोक्यनाथाय भूतानां पतये नमः॥
नमः कैवल्यनाथाय नमस्ते दिव्यचक्षुषे॥४७॥

त्वं ज्योतिस्त्वं द्युतिर्ब्रह्मा त्वं विष्णुस्त्वं प्रजापतिः॥
त्वमेव रुद्रो रुद्रात्मा वायुर

ग्निस्त्वमेव च॥४८॥

योजनानां सहस्रे द्वे द्वे शते द्वे च योजने॥
एकेन निमिषार्धेन क्रममाण नमोऽस्तु ते॥४९॥

नवयोजनलक्षाणि सहस्रद्विशतानि च॥
यावद्धटीप्रमाणेन क्रममाण नमोऽस्तु ते॥५०॥

अग्रतश्च नमस्तुभ्यं पृष्ठतश्च सदाः नमः॥
पार्श्वतश्च नमस्तुभ्यं नमस्ते चास्तु सर्वदा॥५१॥

नमः सुरारिः हंत्रे च सोमसूर्याग्निचक्षुषे॥
नमो दिव्याय व्योमाय सर्वतंत्रमयाय च॥५२॥

नमो वेदांतवेद्याय सर्वकर्मादिसाक्षिणे॥
नमो हरितवर्णाय सुवर्णाय नमो नमः॥५३॥

अरुणो माघमासे तु सूर्यो वै फाल्गुने तथा॥
चैत्रमासे तु वेदांगो भानुर्वैशाखतापनः॥५४॥

ज्येष्ठमासे तपेदिंद्र आषाढे तपते रविः॥
गभस्तिः श्रावणे मासे यमो भाद्रपदे तथा॥५५॥

इषे सुवर्णरेताश्च कार्तिके च दिवाकरः॥
मार्गशीर्षे तपेन्मित्रः पौषे विष्णुः सनातनः

॥५६॥

पुरुषस्त्वधिके मासे मासाधिक्येषु कल्पयेत्॥
इत्येते द्वादशादित्याः काश्यपेयाः प्रकीर्तिताः॥५७॥

उग्ररूपा महात्मानस्तपंते विश्वरूपिणः॥
धर्मार्थकाममोक्षाणां प्रस्फुटा हेतवो नृप॥५८॥

सर्वपापहरं चैवमादित्यं संप्रपूजयेत्॥
एकधा दशधा चैव शतधा च सहस्रधा॥५९॥

तपंते विश्वरूपेण सृजंति संहरंति च॥
एष विष्णुः शिवश्चैव ब्रह्मा चैव प्रजापतिः॥६०॥

महेंद्रश्चैव कालश्च यमो वरुण एव च।
नक्षत्रग्रहताराणामधिपो विश्वतापनः॥६१॥

वायुरग्निर्धनाध्यक्षो भूतकर्ता स्वयंप्रभुः॥
एष देवो हि देवानां सर्वमाप्यायते जगत्॥६२॥

एष कर्ता हि भूतानां संहर्ता रक्षकस्तथा॥
एष लोकानुलोकश्च सप्तद्वीपांश्च सागराः॥६३॥

एष पातालसप्तस्थो दैत्यदानवराक्षसाः॥
एष धाता विधाता च बीजं क्षेत्रं प्रजापतिः॥६४॥

एष एव प्रजा नित्यं संवर्ध

यति रश्मिभिः॥
एष यज्ञः स्वधा स्वाहा हीः श्रीश्च पुरुषोत्तमः॥६५॥

एष भूतात्मको देवः सूक्ष्मोऽव्यक्तः सनातनः॥
ईश्वरः सर्वभूतानां परमेष्ठी प्रजापतिः॥६६॥

कालात्मा सर्वभूतात्मा वेदात्मा विश्वतोमुखः॥
जन्ममृत्युजराव्याधिसंसारभयनाशनः॥६७॥

दारिद्र्यव्यसनध्वंसी श्रीमान् देवो दिवाकरः॥
विकर्तनो विवस्वांश्च मार्तंडो भास्करो रविः॥६८॥

लोकप्रकाशकः श्रीमाल्ँलोकचक्षुर्ग्रहेश्वरः॥
लोकसाक्षी त्रिलोकेशः कर्ता हर्ता तमिस्रहा॥६९॥

तपनस्तापनश्चैव शुचिः सप्ताश्ववाहनः॥
गभस्तिहस्तो ब्रह्मण्यः सर्वदेवनमस्कृतः॥७०॥

आयुरारोग्यमैश्वर्यं नरानार्यश्व मंदिरे॥
यस्य प्रसादात्संतुष्टिरादित्यहृदयं जपेत्॥७१॥

इत्येतैर्नामभिः पार्थ आदित्यं स्तौति नित्यशः॥

प्रातरुत्थाय कौन्तेय तस्य रोगभयं नहि॥७२॥

पातकान्मुच्यते पार्थ

व्याधिभ्यश्व न संशयः॥
एकसंध्यं द्विसंध्यं वा सर्वपापैः प्रमुच्यते॥७३॥

त्रिसंध्यं जपमानस्तु पश्येच्च परमं पदम्॥
यदह्ना कुरुते पापं तदह्ना प्रतिमुच्यते॥७४॥

यद्रात्र्या कुरुते पापं तद्रात्र्या प्रतिमुच्यते॥
दद्रुस्फोटककुष्ठानि मंडलानि विषूचिका॥७५॥

सर्वव्याधिमहारोगभूतबाधास्तथैव च॥
डाकिनी शाकिनी चैव महारोगभयं कुतः॥७६॥

ये चान्ये दुष्टरोगाश्च ज्वरातीसारकादयः॥
जपमानस्य नश्यंति जीवेच्च शरदांशतम्॥७७॥

संवत्सरेण मरणं यदा तस्य ध्रुवं भवेत्॥
अशीर्षांपश्यति च्छायामहोरात्रं धनंजय॥७८॥

यस्त्विदं पठते भक्त्या भानोर्वारे महात्मनः॥
प्रातःस्त्राने कृते पार्थ एकाग्रकृतमानसः॥७९॥

सुवर्णचक्षुर्भवति न चांधस्तु प्रजायते॥
पुत्रवान् धनसंपन्नो जायते चारुजः सुखी॥८०॥

सर्वसिद्धिमवाप्नोति सर्वत्र विजयी भवेत्॥
आदित्यहृदयं पुण्यं सूर्यनामविभूषितम्॥८१॥

श्रुत्वा च निखिलं पार्थ सर्वपापैः प्रमुच्यते॥
अतः परतरं नास्ति सिद्धिकामस्य पांडव॥८२॥

एतज्जपस्व कौंतेय येन श्रेयो ह्यवाप्स्यसि॥
आदित्यहृदयं नित्यं यः पठेत्सुसमाहितः॥८३॥

भ्रूणहा मुच्यते पापात्कृतघ्नो ब्रह्मघातकः॥
गोघ्नःसुरापो दुर्भोजी दुष्प्रतिग्रहकारकः॥८४॥

पातकानि च सर्वाणि दहत्येव न संशयः॥
य इदं शृणुयानित्यं जपेद्वापि समाहितः॥८५॥

सर्वपापविशुद्धात्मा सूर्यलोके महीयते॥
अपुत्रो लभते पुत्रान्निर्धनो धनमाप्नुयात्॥८६॥

कुरोगी मुच्यते रोगाद्भक्त्या यः पठते सदा॥
यस्त्वादित्यदिनेपार्थ नाभिमात्रजले स्थितः॥८७॥

उदयाचलमारूढं भास्करं प्रणतः स्थितः॥
जपते मानवो भक्त्या शृणुयाद्वापि भक्तितः॥८८॥

स याति परमं स्थानं यत्र देवो दिवाकरः॥
अमित्रदमनं पार्थ यदा कर्तुं समारभेत्॥८९॥

सम्यक् प्रतिकृतिं कृत्वा शत्रोश्च रणपांसुभिः॥
आक्रम्य वामपादेन आदित्यहृदयं जपेत्॥९०॥

एतन्मंत्रं समाहूय सर्वसिद्धिकरं परम्॥
ॐ ह्रीं हिमालीढं स्वाहा॥
ॐ ह्रीं निलीढं स्वाहा॥
ॐ ह्रीं मालीढं स्वाहा॥ इति मंत्रः॥
त्रिभिश्व रोगी भवति ज्वरी भवति पंचभिः॥
जपैस्तु सप्तभिः पार्थ राक्षसीं तनुमाविशेत्॥९१॥

राक्षसेनाभिभूतस्य विकारान् शृणु पांडव॥
गायते नृत्यते नग्नःआस्फोटयति धावति॥९२॥

शिवारुतं च कुरुते हसते क्रंदते पुनः॥
एवं संपीड्यते पार्थ यद्यपि स्यान्महेश्वरः॥९३॥

किं पुनर्मानुषः कश्चिच्छौचाचारविवर्जितः॥
पीडितस्य न संदेहो ज्वरो भवति दारुणः॥९४॥

यदा चानुग्रहं तस्य कर्तुमिच्छेच्छुभंकरम्॥
तदा सलिलमादाय जपे

न्मंत्रमिमं बुधः॥९५॥

नमो भगवते तुभ्यमादित्याय नमो नमः॥
जयाय जयभद्राय हरिदश्वाय ते नमः॥९६॥

स्नापयेत्तेन मंत्रेण शुभं भवति नान्यथा॥
अन्यथा च भवेदेषो नश्यते नात्र संशयः॥९७॥

स्तवस्ते निखिलः प्रोक्तः पूजां चैव निबोध मे॥

उपलिप्ते शुचौ देशे नियतो वाग्यतः शुचिः॥९८॥

वृत्तं वा चतुरस्रं वा लिप्तभूमौ लिखेच्छुचिः॥
त्रिधा तत्र लिखेत्पद्ममष्टपत्रं सकर्णिकम्॥९९॥

अष्टपत्रं लिखेत्पद्मं लिप्तगोमयमंडले॥

पूर्वपत्रे लिखेत्सूर्यमाशेये तु रविं न्यसेत्॥१००॥

याम्यायां च विवस्वंतं नैर्ऋत्यां तु भगं न्यसेत्॥
प्रतीच्यां वरुणं विद्याद्वायव्यां मित्रमेव च॥१॥

आदित्यमुत्तरे पत्रे ईशान्यां विष्णुमेव च॥
मध्ये तु भास्करं विद्यात्क्रमेणैवं समर्चयेत्॥२॥

अतः परतरं नास्ति सिद्धिकामस्य पांडव॥
महातेजः समुद्यतं

प्रणमेत्स कृतांजलिः॥३॥

सकेसराणि पद्मानि करवीराणि चार्जुन॥
तिलतंदुलसंयुक्तकुशगंधोदकेन च॥४॥

रक्तचंदनमिश्राणि कृत्वा वै ताम्रभाजने॥
धृत्वा शिरसि तत्पात्रं जानुभ्यां धरणिं स्पृशेत्॥५॥

मंत्रपूतं गुडाकेश चार्घ्यं दद्याद्गभस्तये॥
सायुधं सरथं चैव सूर्यमावाहयाम्यहम्॥६॥

स्वागतो भव॥ सुप्रतिष्ठितो भव॥ सन्निधौ भव॥
सन्निहितो भव॥ संमुखो भव॥ इति पंचमुद्राः॥
॥ स्फुटयित्वार्हयेत्सूर्यं भुक्तिं मुक्तिं लभेन्नरः॥७॥

ॐ श्रीं विद्यां किलिकिलिकटकेष्टसर्वार्थसाधनाय स्वाहा॥
ॐ श्रीं ह्रीं हः हंसः सूर्याय नमः स्वाहा॥
ॐ श्रीं-हां-हीं-हुं-हौं-हःसूर्यमूर्तये स्वाहा॥
ॐ श्रीं-हींखंखः लोकाय सर्वमूर्तये स्वाहा॥
ॐ-हूं-मार्तंडाय स्वाहा॥

नमोऽस्तुसूर्याय सहस्रभानवे नमोऽस्तु वैश्वानर जातवेदसे॥

त्वमेवचार्घ्यं प्रतिगृण्हदेव देवाधिदेवाय नमो नमस्ते॥८॥

नमो भगवते तुभ्यं नमस्ते जातवेदसे॥
दत्तमर्घ्यं मया भानो त्वं गृहाण नमोऽस्तु ते॥९॥

एहि सूर्यसहस्रांशो तेजोराशे जगत्पते॥
अनुकंपय मां देव गृहाणार्घ्यं नमोऽस्तु ते॥१०॥

नमो भगवते तुभ्यं नमस्ते जातवेदसे॥
ममेदमर्घ्यं गृह्ण त्वं देवदेव नमोऽस्तु ते॥११॥

सर्वदेवाधिदेवाय आधिव्याधिविनाशिने॥
इदं गृहाण मे देव सर्वव्याधीर्विनश्यतु॥१२॥

नमः सूर्याय शांताय सर्वरोगविनाशिने॥
ममेप्सितं फलं दत्त्वा प्रसीद परमेश्वर॥१३॥

ॐ नमो भगवते सूर्याय स्वाहा॥ ॐ शिवाय स्वाहा॥
ॐ सर्वात्मने सूर्याय नमः स्वाहा॥ ॐ अक्षय्यतेजसेनमः स्वाहा॥

सर्वसंकटदारिद्र्यं शत्रुं नाशय नाशय॥
सर्वलोकेषु विश्वात्मा सर्वात्मा सर्वदर्शकः॥१४॥

नमो भगवतेसूर्य कुष्ठरोगान् विखंडय॥
आयुरारोग्यमैश्वर्यं देहि देव नमोऽस्तु ते॥१५॥

नमो भगवते तुभ्यमादित्याय नमो नमः॥

ॐ अक्षय्यतेजसे नमः॥ ॐ सूर्याय नमः॥ ॐ विश्वमूर्तये नमः॥

आदित्यं च शिवं विद्याच्छिवमादित्यरूपिणम्॥
उभयोरतरं नास्ति आदित्यस्य शिवस्य च॥१६॥

एतदिच्छाम्यहं श्रोतुं पुरुषो वै दिवाकरः॥
उदये ब्रह्मणो रूपं मध्याह्ने तु महेश्वरः॥१७॥

अस्तमाने स्वयं विष्णुस्त्रिमूर्तिश्व दिवाकरः॥
नमोभगवते तुभ्यं विष्णवे प्रभविष्णवे॥१८॥

ममेदमर्घ्यं प्रतिगृहदेव देवाधिदेवाय नमो नमस्ते॥
श्रीसूर्याय सांगाय सपरिवाराय श्रीसूर्यनारायणायेदमयं०॥ १९ ॥

हिमज्ञाय तमोघ्नायरक्षोघ्नाय च ते नमः॥
कृतघ्नघ्नाय सत्याय तस्मै सूर्यात्मने नमः॥१२०॥

जयो जयश्च विजयो जितप्राणो जितश्रमः॥
मनोजवो

जितक्रोधो वाजिनः सप्त कीर्तिताः॥२१॥

हरितहयरथं दिवाकरं कनकमयांबुजरेणुपिंजरम्॥
प्रतिदिनमुदये नवं नवं शरणमुपैमि हिरण्यरेतसम्॥२२॥

न च व्यालाः प्रबाधंते न व्याधिभ्यो भयं भवेत्॥
न नागेभ्यो भयं चैव न च भूतभयं क्वचित्॥२३॥

अग्निशत्रुभयं नास्ति पार्थिवेभ्यस्तथैव च॥
दुर्गतिंतरते घोरां प्रजां च लभते पशून्॥२४॥

सिद्धिकामो लभेत्सिद्धिं कन्याकामस्तु कन्यकाम्।
एतत्पठेत्स कौन्तेय भक्तियुतेन चेतसा॥२५॥

अश्वमेधसहस्रस्य वाजपेयशतस्य च॥
कन्याकोटिसहस्रस्य दत्तस्य फलमाप्नुयात्॥२६॥

इदमादित्यहृदयं योऽधीते सततं नरः॥
सर्वपापविशुद्धात्मा सूर्यलोके महीयते॥२७॥

नास्त्यादित्यसमो देवो नास्त्यादित्यसमागतिः॥
प्रत्यक्षो भगवान् विष्णुर्येन विश्व प्रतिष्ठितम्॥२८॥

नवतिर्योजनं लक्षं सहस्राणि शतानि च॥

यावद्धटीप्रमाणेनतावञ्चरति भास्करः॥२९॥

गवां शतसहस्रस्य सम्यग्दत्तस्ययत्फलम्॥
तत्फलं लभते विद्वान् शांतात्मा स्तौति यो रविम्॥१३०॥

योऽधीते सूर्यहृदयं स फलं सकलं लभेत्॥
अष्टानांब्राह्मणानां च लेखयित्वा समर्पयेत्॥३१॥

ब्रह्मलोकऋषीणांच जायते मानुषोऽपि वा॥
जातिस्मरत्वमाप्नोति शुद्धात्मा नात्रसंशयः॥३२॥

अजाय लोकत्रयपावनाय भूतात्मने गोपतये वृषाय॥
सूर्याय सर्वप्रलयांतकाय नमो महाकारुणिकोत्तमाय॥ ३३॥

विवस्वते ज्ञानभृदंतरात्मने जगत्प्रदीपाय जगद्धितैषिणे॥
स्वयंभुवे दीप्तसहस्रचक्षुषे सुरोत्तमायामिततेजसे नमः॥३४॥

सुरैरनेकैः परिसेविताय हिरण्यगर्भाय हिरण्मयाय॥
महात्मने मोक्षपदाय नित्यं नमोऽस्तु ते वासरकारणाय॥३५॥

आदित्यश्चार्चितो देव आदित्यः परमं पदम्॥
आदित्यो मातृकाभूत आदित्यो वाङ्मयं जगत्॥३६॥

आदित्यं पश्यते भक्त्या मां पश्यति ध्रुवं नरः॥
नादित्यं पश्यते भक्त्या न सपश्यति मां नरः॥३७॥

त्रिगुणं च त्रितत्त्वं च त्रयो देवास्त्रयोऽमयः॥
त्रयाणां च त्रिमूर्तिस्त्वं तुरीयस्त्वं नमोऽस्तु ते॥३८॥

नमः सवित्रे जगदेकचक्षुषे जगत्प्रसूतिस्थितिनाशहेतवे॥
त्रयीमयाय त्रिगुणात्मधारिणे विरिंचिनारायणशंकरात्मने॥३९॥

यस्योदयेनेह जगत्प्रबुद्ध्यते प्रवर्तते चाखिलकर्मसिद्धये॥
ब्रह्मेद्रनारायणरुद्रवंदितः स नः सदा यच्छतु मंगलं रविः॥१४०॥

नमोऽस्तु सूर्याय सहस्ररश्मये सहस्रशाखान्वितसंभवात्मने॥
सहस्रयोगोद्भवभावभागिने सहस्रसंख्यायुगधारिणे नमः॥४१॥

यन्मंडलं दीप्तिकरं विशालं रत्नप्रभं तीव्रमनादिरूपम्

दारिद्र्यदुःखक्षयकारणं च पुनातु मां तत्सवितुर्वरेण्यम्॥४२॥

यन्मंडलं देवगणैः सुपूजितं विप्रैः स्तुतं भावनमुक्तिकोविदम्॥
तदेव रूपं प्रणमामि सूर्यं पुनातु मां तत्सवितुर्वरेण्यम्॥४३॥

यन्मंडलं ज्ञानमयं त्वगम्यं त्रैलोक्यपूज्यं त्रिगुणात्मरूपम्॥
समस्ततेजोमय दिव्यरूपं पुनातु मां तत्सवितुर्वरेण्यम्॥४४॥

यन्मण्डलं गूढमतिप्रबोधं धर्मस्य वृद्धिं कुरुते जनानाम्॥
तत्सर्वपापक्षयकारणं च पुनातु मां०॥४५॥

यन्मंडलं व्याधिविनाशदक्षं यदृग्यजुः सामसु संप्रगीतम्।
प्रकाशितं येन च भूर्भुवः स्वःपुनातु मां०॥४६॥

यन्मंडलं वेदविदो विदंति गायंति यच्चारणसिद्धसंघाः॥
यद्योगिनो योगजुषां च संघाः पुनातु मां तत्सवितुः॥४७॥

यन्मंडलं सर्वजनेषु पूजितं ज्योतिश्च कुर्यादिहमर्त्यलोके॥
यत्कालकालाद्यमनादिरूपं पुनातु मां तत्सवितु

यन्मंडलं विष्णुचतुर्मुखाख्यं यदक्षरं पापहरं जनानाम्॥
यत्कालकल्पक्षयकारणं च पुनातुः॥४९॥

यन्मंडलविश्वसृजां प्रसिद्धमुत्पत्तिरक्षाप्रलयप्रगल्भम्॥
यस्मिन् जगत्संहरतेऽखिलं च पुनातु॥१५०॥

यन्मंडलं सर्वगतस्य विष्णोरात्मा परं धाम विशुद्धतत्त्वम्॥
सूक्ष्मांतरैर्योगपथानुगम्यंपुनातु०॥५१॥

यन्मंडलं ब्रह्मविदो विदंति गायंति यच्चारणसिद्धसंघाः॥
यन्मंडलं वेदविदः स्मरंति पुनातु०॥५२॥

यन्मंडलं वेदविदोपगीतं यद्योगिनां योगपथानुगम्यम्॥
तत्सर्ववेदंप्रणमामि सूर्यं पुनातु मां तत्सवितुर्वरेण्यम्॥५३॥

मंडलाष्टमिदं पुण्यं यः पठेत्सततं नरः॥
सर्वपापविशुद्धात्मा सूर्यलोके महीयते॥५४॥

ध्येयः सदा सवितृमंडलमध्यवर्ती नारायणःसरसिजासनसंनिविष्टः॥
केयूरवान्मकरकुंडलवान्किरीटी हारी

हिरण्मयवपुर्धृतशंखचक्रः॥५५॥

सशंखचक्रं रविमंडले स्थितं कुशेशयाक्रांतमनन्तमच्युतं॥
भजामि बुद्ध्या तपनीयमूर्ति सुरोत्तमं चित्रविभूषणोज्वलम्॥५६॥

एवं ब्रह्मादयो देवा ऋषयश्च तपोधनाः॥
कीर्तयंति सुरश्रेष्ठं देवं नारायणं विभुम्॥५७॥

वेदवेदांगशारीरं दिव्यदीप्तिकरं परम्॥
रक्षोघ्नं रक्तवर्णं च सृष्टिसंहारकारकम्॥५८॥

एकचक्रोरथो यस्य दिव्यः कनकभूषितः॥
स मे भवतु सुप्रीतः पद्महस्तो दिवाकरः॥५९॥

आदित्यः प्रथमं नाम द्वितीयं तु दिवाकरः॥
तृतीयं भास्करःप्रोक्तं चतुर्थं तु प्रभाकरः॥६०॥

पंचमं तु सहस्रांशुः षष्ठं चैवत्रिलोचनः॥
सप्तमं हरिदश्वश्चअष्टमं च विभावसुः॥६१॥

नवमं दिनकृत्प्रोक्तं दशमं द्वादशात्मकं॥
एकादशं त्रयीमूर्तिर्द्धादशं सूर्य एव च॥६२॥

द्वादशादित्यनामानि प्रातःकाले पठे

न्नरः॥
दुःखप्रनाशनं चैव सर्वदुःखं च नश्यति॥६३॥

दद्रुकुष्ठहरंचैव दारिद्र्यं हरते ध्रुवम्॥
सर्वतीर्थप्रदं चैव सर्वकामफलप्रदं॥६४॥

यः पठेत्प्रातरुत्थाय भक्त्या नित्यमिदं नरः॥
सौख्यमायुस्तथारोग्यं लभते मोक्षमेव च॥६५॥

अग्निमीले नमस्तुभ्यमिषेत्वोर्जेस्वरूपिणे।
अग्नआयाहि वीतस्त्वां नमस्ते ज्योतिषां पते॥६६॥

शन्नो देवी नमस्तुभ्यं जगचक्षुर्नमोऽस्तु ते॥
पंचमायोपवेदाय नमस्तुभ्यं नमो नमः॥६७॥

पद्मासनः पद्मकरः पद्मगर्भसमद्युतिः॥
सप्ताश्वरथसंयुक्तो द्विभुजः स्यात्सदा रविः॥६८॥

आदित्यस्य नमस्कारं ये कुर्वंति दिने दिने॥
जन्मांतरसहस्रेषु दारिद्र्यंनोपजायते॥६९॥

उदयगिरिमुपेतं भास्करंपद्महस्तं निखिलभुवननेत्रं रत्नरत्नोपमेयम्॥
तिमिरकरिमृगेंद्रं बोधकं पद्मिनीनां सुरवरमभिवंदे सुंदरं विश्ववंद्यम्॥१७०॥

इति श्री भविष्योत्तरपुराणे श्रीकृष्णार्जुनसंवादे आदित्यहृदयं संपूर्णम्॥

॥अथ सूर्यकवचं प्रारभ्यते॥

श्रीगणेशाय नमः॥ याज्ञवल्क्य उवाच॥

शृणुष्व मुनिशार्दूल सूर्यस्य कवचंशुभम्॥
शरीरारोग्यदं दिव्यं सर्वसौभाग्यदायकम्॥१॥

देदीप्यमानमुकुटं स्फुरन्मकरकुंडलम्॥
ध्यात्वा सहस्रकिरणं स्तोत्रमेतदुदीरयेत्॥२॥

शिरो मे भास्करः पातु ललाटं मेऽमितद्युतिः॥
नेत्रे दिनमणिः पातु श्रवणे वासरेश्वरः॥३॥

घ्राणं धर्मघृणिः पातु वदनं वेदवाहनः॥
जिह्वां मे मानदः पातु कंठं मे सुरवंदितः॥४॥

स्कंधौ प्रभाकरः पातु वक्षः पातु जनप्रियः।
पातु पादौद्वादशात्मा सर्वांगं सकलेश्वरः॥५॥

सूर्यरक्षात्मकं स्तोत्रं लिखित्वा भूर्जपत्रके॥
दधाति यः करे तस्य वशगाः सर्वसिद्धयः॥६॥

सुखातो यो जपेत्सम्यग्योस्वस्थमानसः॥
स रोगमुक्तो दीर्घायुः सुखं पुष्टिं च विंदति ॥७॥

इति श्रीयाज्ञवल्क्यप्रणीतं सूर्यकवचस्तोत्रं संपूर्णम्॥

इदं पुस्तकं नारायण राम आचार्य “काव्यतीर्थ” इत्यनेन संशोधितं, तच्च मुम्बय्यां सत्यभामाबाई पाण्डुरङ्ग इत्येताभिः निर्णयसागराख्यमुद्रणयंत्रालये मुद्रापयित्वा तस्यैव कृते प्रकाशितम्।
शके १८६७, सन १९४५

[TABLE]

]