न स्मरन्ति शिवं जातु
शिवम् इच्छन्ति मानवाः।
जानन्ति यदि तत्त्वं ते
सर्वेऽपि शिव-रूपिणः॥1 ॥+++(4)+++
सर्व-व्यापी महा-विष्णुर्
विष्णुना रक्षितं जगत्।
न भजन्ते तथा विष्णुं
विश्वाक्रमण-कांक्षिणः॥2॥+++(4)+++
शशिनश् चन्द्रिकेवैषा
शक्तिश् च परमात्मनः।
स्तुवन्ति नैव शक्तिं ते
शक्तिम् इच्छन्ति सर्वदा॥3॥+++(4)+++
आत्मोद्भूतं भृशं विश्वम्
आत्मन्य् एव हि लीयते।
आत्मन्य् अपि न विश्वासो
येषां ते वायु-भस्त्रिकाः॥4॥+++(4)+++
बीजं विना कथं वृक्षो
वृक्षं विना कथं फलम्।
विना मृदं घटो नास्ति
न देहो देहिनं विना ॥5॥+++(5)+++
नास्ति वृष्टिर् विना मेघं
न सूतिः पितरौ विना।
हेतुं विना कथं कार्यं
सेवे तस्माज् जगद्-विभुम्॥6॥