काश्मीरक-सङ्ग्रहः

लौगाक्षि-नित्य-कर्म-विधेः

गुरुस्तुतिः

अथ गुरुस्तुतिः

ॐ ब्रह्माऽनन्दं परमसुखदं केवलं ज्ञानमूर्तिं
द्वन्द्वातीतं गगनसदृशं तत्त्वमऽस्याऽदिलक्ष्यम् ।
एकं नित्यं विमलमऽचलं सर्वधीसाक्षिभूतं
भावाऽतीतं त्रिगुणरहितं सद्गुरुं तं नमामि ॥ १ ॥

स्मारं स्मारं जनिमृतिभयं जातनिर्वेदवृत्ति-
र्ध्यायं ध्यायं पशुपतिमुमाकान्तमऽन्तर्निषण्णम् ।
पायं पायं सपदि परमानन्दपीयूषधारा
भूयो भूयो निजगुरुपदाऽम्भोजयुग्मं नमामि ॥ २ ॥

प्। ३०)

यस्य देवे परा भक्तिर्यथा देवे तथा गुरौ ।
तस्यैते कथिता ह्यर्थाः प्रकाश्यन्ते महात्मनः ॥ ३ ॥

नमामि सद्गुरुं शान्तं प्रत्यक्षं शिवरूपिणम् ।
शिरसा योगपीठस्थं धर्मकामार्थसिद्धये ॥ ४ ॥

श्रीगुरुं परमानन्दं वन्दे आनन्दविग्रहम् ।
यस्य सान्निध्यमात्रेण चिदाऽनन्दायते परम् ॥ ५ ॥

अखण्डमण्डलाकारं व्याप्तं येन चराचरम् ।
तत्पदं दर्शितं येन तस्मै श्रीगुरवे नमः ॥ ६ ॥

अज्ञानतिमिरान्धस्य ज्ञानाऽञ्जनशलाकया ।
चक्षुरुन्मूलितं येन तस्मै श्रीगुरवे नमः ॥ ७ ॥

हरौ रुष्टे गुरुस्त्राता गुरौ रुष्टे न कश्चन ।
सर्वदेवस्वरूपाय तस्मै श्रीगुरवे नमः ॥ ८ ॥

गुरुर्ब्रह्मा गुरुर्विष्णुर्गुरुः साक्षान्महेश्वरः ।
गुरुरेव जगत्सर्वं तस्मै श्रीगुरवे नमः ॥ ९ ॥

ध्यानमूलं गुरोर्मूर्तिः पूजामूलं गुरोः पदम् ।
ज्ञानमूलं गुरोर्वाक्यं मोक्षमूलं गुरोः कृपा ॥ १० ॥

नमस्ते नाथ भगवन् शिवाय गुरुरूपिणे ।
विद्यावतारसंसिद्ध्यै स्वीकृताऽनेकविग्रह ॥ ११ ॥

नवाय नवरूपाय परमार्थैकरूपिणे ।
सर्वाऽज्ञानतमोभेदभानवे चिद्घनाय ते ॥ १२ ॥

स्वतन्त्राय दयाकॢप्तविग्रहाय परात्मने ।
परतन्त्राय भक्तानां भव्यानां भव्यहेतवे ॥ १३ ॥

ज्ञानिनां ज्ञानरूपाय प्रकाशाय प्रकाशिनाम् ।
विवेकिनां विवेकाय विमर्शाय विमर्शिनाम् ॥ १४ ॥

पुरस्तात्पार्श्वयोः पृष्ठे नमस्कुर्यामुपर्यऽधः ।
सदा मच्चित्तरूपेण विधेहि भवदाऽसनम् ॥ १५ ॥

इति श्रीगुरुस्तुतिः ।

महागायत्रीस्तुतिः

अथ महागायत्रीस्तुतिः ।

सदा गवेषयन् जगत्त्रयेषु वेदमातरं
चिदाऽत्मना कृतस्थितिं समत्र चाऽद्य लब्धवान् ।
उदऽस्रु गद्गदं महोदयात्प्रणौमि भक्तिनौ-
कया सुदुस्तरं द्रुतं तितीर्षुराऽपदऽर्णवम् ॥ १ ॥

सुदीनलोकपातिनी सतां कृपाऽतिशोभते
ह्यऽतः सुधांशुचक्षुषेक्षयाऽम्ब ! मादृशं जनम् ।
नवाऽपि हीयते तवेषदीशि ! पालनेन नो
भवात् यतः कुपुत्रता न भासते प्रसूहृदि ॥ २ ॥

नमामि मुक्तविद्रुमप्रतप्तहाटकाऽसिताऽ-
वदातवर्णसुन्दरैः षडऽर्धलोललोचनैः ।
सरोजषण्डबान्धवप्रतप्तहाटकप्रभैः
किरीटरत्नरञ्जितैः सुधांशुखण्डमण्डितैः ॥ ३ ॥

मुखैर्दशार्धसम्मितैर्विराजमानविग्रहां
सुरेशचापसप्रभां समस्तदेववन्दिताम् ।
वराऽभयाऽङ्कुशाऽन्वितैः कपालशूलशङ्खच-
क्रसारसद्वयीगुणाऽङ्कितैः करैर्विराजिताम् ॥ ४ ॥

भवद्रुमस्य मूलतां गतां मुनीन्द्रवन्दिता-
मऽखण्डभावमण्डलप्रकाशकारिणीं शिवाम् ।
समस्तदेवतामयीं समस्तसिद्धिदायिनी-
मऽपूर्वरूपविग्रहां सरस्वतीं भवार्तिहाम् ॥ ५ ॥

शुचीन्दुसूर्यलोचनां शुचीन्दुसूर्यविग्रहां
शुचीन्दुसूर्यसङ्गमस्वभावशालिनीं शुभाम् ।
पदद्वयाऽनुकम्पितस्वशक्तिचक्रसेवितां
परेशशक्तिमुत्तमां भजे त्रिलोकसुन्दरीम् ॥ ६ ॥

महामहेश्वरीजगद्विसर्गसुस्थितिक्षय-
स्वतन्त्रता शरीरिणी बभूव या महेशितुः ।

प्। ३२)

द्विपत्रिताऽदिभेदतो लतायमानविग्रहा
त्रयीश्वरी सदा तु सा जगज्जयाय जायताम् ॥ ७ ॥

नमामि तन्मुखाऽरविन्दपञ्चकं मलाऽपहं
गलैकनालकं सदाविकासि भक्तिसम्भवम् ।
स्वभक्तहंससेवितं शुचीन्दुपद्मबन्धवः
प्रतीकभूतविग्रहा गता हि यत्र पञ्चताम् ॥ ८ ॥

भवाऽर्णवेऽतिदुःसहस्मराऽधिदिग्धमानसं
षड्-ऊर्मिनित्यपीडितं जनं दिधीर्षुमानसा ।
श्रुतिध्वनिस्फुरन्मुखाऽरविन्दभूसुरैः सदा
त्रिसन्ध्यमीश्वरी नुताऽस्तु सा सुखप्रदा हि नः ॥ ९ ॥

त्रयिप्रसूः स्वदृष्टिपातधूतभक्तिकल्मषा
समैर्जनैर्नुता मुदा स्ववर्णधर्मभेदतः ।
निलिम्पनिम्नगामिषेण पादधौतजं जलं
यदीयमाऽगतं क्षितिं तनोनु नः शिवं तु सा ॥ १० ॥

स्वदम्भवञ्चिताऽखिलं कुभोगसक्तमानसं
सदाशुचिं कुमार्गगं शठं च शङ्कसे यदि ।
कथं स्वपादचिन्तनोत्थवैभवं नहीश्वरि !
यतोऽङ्घ्रिचिन्तकं दयादृशेक्षसे न मादृशम् ॥ ११ ॥

अनेकदोषदूषितेष्वऽनिर्विवेचना सती
स्वतन्त्रशक्तिरीश्वरी भवाघनाशकारिणी ।
कृपामयीं दृशं विधाय सा स्वभक्तिपात्रितं
स्वपत्कजे मधुव्रतं करोतु मामऽहर्निशम् ॥ १२ ॥

त्रिसन्ध्यमिष्टदैवतं सुकेशवास्यजं स्तवं
स्मरन् हृदीद्धभावनो विधाय वेदमातरम् ।
विधूय पापसञ्चयं वितीर्य कीर्तिमुत्तमा-
मिहत्वऽमुत्र कैवलं पदं स याति निर्भयम् ॥ १३ ॥

इति श्रीमहागायत्रीलीलास्तुतिः ।

प्। ३३)

प्रार्थनास्तुतिः

प्रार्थनास्तुतिः ॥

ॐ दुर्निवारभवध्वान्त ध्वंसनैककृतेक्षणाम्
नौमि मोहविनाशाय भीतो ब्रह्मादिदैवताम् ॥ १ ॥

दुर्गतिं हर मे देवि बहुजन्मशतार्जिताम् ।
प्राप्य कल्पतरुच्छायां कथं सन्तप्यते जनैः ॥ २ ॥

पश्य मामाऽशु गायत्रि बिभ्यतं स्निग्धचक्षुषा ।
न बालमऽबलं पुत्रं मुञ्चत्यऽग्रगमम्बिका ॥ ३ ॥

एहि मां पाणिपद्मेन देहि तूर्णं वरं शुभम् ।
महामोहाऽकुलं दीनमेहि मां स्पृश नित्यशः ॥ ४ ॥

मातः प्रतीक्षते नाऽर्तो यत्तदाऽशु प्रसीद मे ।
हित्वाऽक्षसूत्त्रं सावित्रि निर्विघ्नं पश्य मामिह ॥ ५ ॥

शृण्वतो नाऽन्यकृत्यं स्यात्तत्त्वं परहितं कुरु ।
ब्रह्मविष्णुहराद्यास्त्वामाऽश्रयन्ति सुरेश्वरि ॥ ६ ॥ इति प्रार्थनास्तुतिः

सरस्वतीस्तुतिः

अथ सरस्वतीस्तुतिः ॥

ॐ सितवर्णाऽलङ्कारे ! सरस्वति ! समस्तवाङ्मयाऽधारे !
कमलजमानसवरले ! मृगाङ्कधवले ! नमस्तुभ्यम् ॥ १ ॥

धन्यः स एव लोके स एव पूज्यः स एव सर्वगुरुः ।
यस्य मुखकमलकोशे वाङ्मयि कुलदेवते ! वससि ॥ २ ॥

कस्त्वां विना विवेकी विवेकविकलस्य निष्फलं जन्म ।
तस्माद्भारति भविनां त्वमेव हेतुर्विवेकेऽपि ॥ ३ ॥

लक्ष्मीवानऽपि पुरुषः शूरः सुभगोऽपि कामसमरूपः ।
वृष इव विबुधसभायां प्रतिभात्यऽमले ! त्वया रहितः ॥ ४ ॥

मुनिमनुजमाननीयो मात ! र्मूर्खोऽपि मानवो दक्षः ।
निश्शेषशास्त्रवक्ता त्वन्मन्त्रध्यानतो भवति ॥ ५ ॥

कुवलयदृशः क्व तावद्वेश्मनि विलसन्ति कुचभराऽनम्राः ।
यावदऽसिताऽब्जनयने ! न त्वं तुष्टासि देवि भुवि भविनाम् ॥ ६ ॥

प्। ३४)

जित्वा नरोऽरिराजकमऽगगुरुगजवाजिपुरुषबलसहितः ।
यदुपैति तत्समग्रं त्वच्चरणनुतेः फलं तस्य ॥ ७ ॥

आवर्जिताऽपि कष्टैरिह जन्मनि मुञ्चति नरं श्रीः ।
न त्वं सत्प्रभवेष्विति मत्वा को नौति नो भवतीम् ॥ ८ ॥

कविवरवदनसरोरुह विहरणविस्रम्भविभ्रमद्भ्रमरि !
भगवति ! पञ्चमुखीश्वरि ! वागीश्वरि ! नमस्तेऽस्तु ॥ ९ ॥

शम्भुप्रणतां वाणीं भक्त्या यःस्तौति सोऽचिरेणैव ।
अवहितबुद्धिप्रसरो कविराजो जायते मनुजः ॥ १० ॥

इति कालिदासकृता सरस्वतीस्तुतिः ।

गौरीस्तुतिः

अथ गौरीस्तुतिः ॥

ॐ लीलाऽरब्धस्थापितलुप्ताऽखिललोकां लोकाऽतीतैर्योगिभिरन्तर्हृदिमृग्याम् ।
बालाऽदित्यश्रेणिसमानद्युतिपुञ्जां
गौरीमऽम्बामऽम्बुरुहाक्षीमऽहमीडे ॥ १ ॥

आशापाशक्लेशविनाशं विदधानां पादाऽम्भोजध्यानपराणां
पुरुषाणाम् ।
ईशीमीशाङ्गाऽर्धहरां तां तनुमध्यां
गौरीमऽम्बामऽम्बुरुहाक्षी० ॥ २ ॥

प्रत्याहारध्यानसमाधिस्थितिभाजां नित्यं चित्ते निर्वृतिकाष्ठां
कलयन्तीम् ।
सत्यज्ञानाऽनन्दमयीं तां तडिदाऽभां
गौरीमऽम्बामऽम्बुरुहाक्षी० ॥ ३ ॥

चन्द्राऽपीडाऽनन्दितमन्दस्मितवक्त्रां
चन्द्राऽपीडाऽलङ्कृतलोलाऽलकभाराम् ।
इन्द्रोपेन्द्राद्यऽर्चितपादाऽम्बुजयुग्मां गौरीमऽम्बामऽम्बुरुहाक्षी० ॥ ४

नानाकारैः शक्तिकदम्बैर्भुवनानि व्याप्य स्वैरं क्रीडति याऽसौ
स्वयमेका ।
कल्याणीं तां कल्पलतामाऽनतिभाजां गौरीमऽम्बामऽम्बुरुहाक्षी० ॥ ५

मूलाधारादुत्थितवन्तीं विधिरन्ध्रं सौरं चान्द्रं धाम विहाय
ज्वलिताङ्गीम् ।
स्थूलां सूक्ष्मां सूक्ष्मतरां तामऽभिवन्द्यां
गौरीमऽम्बामम्बुरुहाक्षी० ॥ ६ ॥

आदिक्षान्तामऽक्षरमूर्त्या विलसन्तीं भूते भूते भूतकदम्बं
प्रसवित्रीम् ।
शब्दब्रह्माऽनन्दमयीं तामऽभिरामां गौरीमऽम्बामम्बुरुहाक्षी० ॥
७ ॥

यस्याः कक्षौ लीनमऽखण्डं जगदऽण्डं भूयो भूयः
प्रादुरभूदऽक्षतमेव ।
भर्त्रा सार्धं तां स्फटिकाद्रौ विहरन्तीं गौरिमऽम्बामम्बुरुहाक्षी० ॥
८ ॥

प्। ३५)

यस्यामेतत्प्रोतमऽशेषं मणिमाला सूत्रे यद्वत्क्वाऽपि चरं
चाऽप्यऽचरं च ।
तामऽध्यात्मज्ञानपदव्या गमनीयां गौरीमऽम्बामऽम्बुरुहाक्षी० ॥ ९

नित्यः सत्यो निष्कल एको जगदीशः साक्षी यस्याः सर्गविधौ संहरणे च ।
विश्वत्राणक्रीडनशीलां शिवपत्नीं गौरीमऽम्बामऽम्बुरुहाक्षी० ॥ १० ॥

प्रातःकाले भावविशुद्धिं विदधानो भक्त्या नित्यं जल्पति गौरीदशकं
यः ।
वाचां सिद्धिं सम्पदमुच्चैः शिवभक्तिं तस्याऽवश्यं पर्वतपुत्री
विदधाति ॥ ११ ॥

इति श्रीगौरीस्तुतिः सम्पूर्णा ॥

मुकुन्दमालास्तुतिः

अथ मुकुन्दमालास्तुतिः ॥

ॐ वन्दे मुकुन्दमऽरविन्ददलाऽयताऽक्षं कुन्देन्दुशङ्खदशनं
शिशुगोपवेशम् ।
इन्द्रादिदेवगणवन्दितपादपीठं वृन्दावनाऽलयमऽहं वसुदेवसूनुम् ॥
१ ॥

श्रीवल्लभेति वरदेति दयापरेति भक्तप्रियेति भवलुण्ठनकोविदेति ।
नाथेति नागशयनेति जगन्निवासे त्याऽलापिनं प्रतिदिनं कुरु मां मुकुन्द ॥
२ ॥

जयतु जयतु देवो देवकीनन्दनोऽयं जयतु जयतु कृष्णो वृष्णिवऽंसप्रदीपः ।
जयतु जयतु मेघश्यामलः कोमलाङ्गो जयतु जयतु पृथ्वीभारनाशो
मुकुन्दः ॥ ३ ॥

मुकुन्द मूर्ध्ना प्रणिपत्य याचे भवन्तमेकान्तमियन्तमऽर्थम् ।
अविस्मृतिस्त्वच्चरणाऽरविन्दे भवे भवे मेऽस्तु भवत्प्रसादात् ॥ ४ ॥

श्रीमुकुन्दपदाम्भोजमधुनः परमाऽद्भुतम् ।
यत्पायिनो न मुह्यन्ति मुह्यन्ति यदऽपायिनः ॥ ५ ॥

नाऽहं वन्दे तव चरणयोर्द्वन्द्वमऽद्वन्द्वहेतोः
कुम्भीपाकं गुरुमऽपि हरे ! नारकं नाऽपनेतुम् ।
रम्यारामामृदुतनुलता नन्दने नाऽपि रन्तुं
भावे भावे हृदयभवने भावयेयं भवन्तम् ॥ ६ ॥

नाऽस्था धर्मे न वसुनिचये नैव कामोपभोगे
यद्यद्भव्यं भवतु भगवन् ! पूर्वकर्माऽनुरूपम् ।
एतत्प्रार्थ्यं मम बहुमतं जन्मजन्मान्तरेऽपि
त्वत्पादाऽम्भोरुहयुगगता निश्चला भक्तिरऽस्तु ॥ ७ ॥

प्। ३६)

दिवि वा भुवि वा ममाऽस्तु वासो नरके वा नरकान्तक प्रकामम् ।
आधीरितशारदाऽरविन्दौ चरणौ ते मरणेऽपि चिन्तयामि ॥ ८ ॥

सरसिजनयने सशङ्खचक्रे मुरभिदि मा विरमेह चित्त रन्तुम् ।
सुखतरमऽपरं न जातु जाने हरिचरणस्मरणाऽमृतेन तुल्यम् ॥ ९ ॥

मा भैर्मन्दमनो ! विचिन्त्य बहुधा यामीश्चिरं यातना
नाऽमी नः प्रभवन्ति पापरिपवः स्वामी ननु श्रीधरः ।
आलस्यं व्यपनीय भक्तिसुलभं ध्यायस्व नारायणं
लोकस्य व्यसनाऽपनोदनकरो दासस्य किं न क्षमः ॥ १० ॥

भवजलधिमऽगाधं दुस्तरं निस्तरेयं कथमऽहमिति चेतो मा स्म गाः
कातरत्वम् ।
सरसिजदृशि देवे तावकी भक्तिरेका नरकभिदि निषण्णा तारयिष्यत्यऽवश्यम् ॥
११ ॥

तृष्णातोये मदनपवनोद्धूतमोहोर्मिमाले
दाराऽवर्ते तनयसहजग्राहसङ्घाऽकुले च ।
संसाराऽख्ये महति जलधौ मज्जतां नस्त्रिधामन् !
पादाऽम्भोजे वरद ! भवतो भक्तिनावे प्रसीद ॥ १२ ॥

पृथ्वी रेणुरऽणुः पयांसि कणिका फल्गुः स्फुलिङ्गो लघु-
स्तेजो निःश्वसनं मरुत्तनुतरं रन्ध्रं सुसूक्ष्मं नभः ।
क्षुद्रा रुद्रपितामहप्रभृतयः कीटाः समस्ताः सुरा
दृष्टे यत्र स तावको विजयते भूमाऽवधूताऽवधि ॥ १३ ॥

आम्नायाऽभ्यसितान्यऽरण्यरुदितं कृच्छ्रव्रतान्यऽन्वहं
भेदच्छेदफलानि पूर्तविधयः सर्वं हुतं भस्मनि ।
तीर्थानामऽवगाहनानि च गजस्नानं विना यत्पद-
द्वन्द्वाऽम्भोरुहसंस्तुतिं विजयते देवः स नारायणः ॥ १४ ॥

भवजलधिगतानां द्वन्द्ववाताहतानां
सुतदुहितृकलत्रत्राणभारावृतानाम् ।
विषमविषयतोये मज्जतामऽप्लवानां भवति शरणमेको विष्णुपोतो
नराणाम् ॥ १५ ॥

रजसि निपतितानां मोहजालावृतानां जननमरणधूलिदुर्गतिं
सङ्गतानाम् ।
शरणमऽशरणानामेक एवाऽतुराणां कुशलपथि नियोक्ता
चक्रपाणिर्नराणाम् ॥ १६ ॥

अपराधसहस्रसङ्कुलं पतितं भीमभवार्णवोदरे ।
अगतिं शरणागतं हरे ! कृपया केवलमाऽत्मसात्कुरु ॥ १७ ॥

प्। ३७)

यच्चिन्तितं च मनसा वचसा यदुक्तं चक्षुःकरश्रवणपादविचेष्टितं च ।
यद्यन्निशासु दिवसेषु कृतं मयैव तत्तज्जनार्दन ! तवाऽर्चनमेव भूयात्
॥ १८ ॥

मा मे स्त्रीत्वं मा च मे दासभावो मा मूर्खत्वं मा कुदेशेषु जन्म ।
मिथ्या दृष्टिर्मा च मे स्यात्कदाचिज्जातौ जातौ विष्णुभक्तो भवामि ॥ १९ ॥

आनन्द ! गोविन्द ! मुकुन्द ! राम ! नारायणाऽनन्त ! निरामयेति ।
वक्तुं समर्थोऽपि न वक्ति कश्चिदऽहो जनानां वयसनानि मोक्षे ॥ २० ॥

क्षीरसागरतरङ्गशीकराऽसारतारकितचारुमूर्तये ।
भोगिभोगशयनीयशायिने माधवाय मधुविद्विषे नमः ॥ २१ ॥

क्षीरसारमऽपनीयशङ्कया स्वीकृतं यदि पलायनं त्वया ।
मानसे मम नितान्ततामसे नन्दनन्दन कुतो न लीयसे ॥ २२ ॥

वात्सल्यादऽभयप्रदानसमयादाऽर्तार्तिनिर्वापणात्
औदार्यादऽघशोषणादऽगणितश्रेयःपदप्रापणात् ।
सेव्यः श्रीपतिरेव सर्वजगतामेकान्ततः साक्षिणः
प्रह्लादश्च विभीषणश्च करिराट् पाञ्चाल्यऽहल्या ध्रुवः ॥ २३ ॥

नाथे श्रीपुरुषोत्तमे त्रिजगतामेकाधिपे चेतसा
सेव्ये स्वस्य पदस्य दातरि परे नारायणे तिष्ठति ।
यं कञ्चित्पुरुषाधमं कतिपयग्रामेशमल्पाऽर्थदं
सेवायै मृगयामहे नरमऽहो मूढा वराका वयम् ॥ २४ ॥

हे लोकाः ! शृणुत प्रसूतिमरणव्याधेश्चिकित्सामिमां
योगज्ञाः समुदाहरन्ति मुनयो यां याज्ञवल्क्यादयः ।
अन्तर्ज्योतिरऽमेयमेकमऽमृतं कृष्णाख्यमाऽपीयतां
तत्पीतं परमौषधं वितनुते निर्वाणमाऽत्यन्तिकम् ॥ २५ ॥

बद्धेनाऽञ्जलिना नतेन शिरसा गात्रैः सरोमोद्गमैः
कण्ठेन स्वरगद्गदेन नयनोद्गीर्णेन बाष्पाऽम्बुना ।
नित्यं त्वच्चरणाऽरविन्दयुगलध्यानामृताऽस्वादिना-
मऽस्माकं सरसीरुहाक्ष ! सततं सम्पद्यतां जीवितम् ॥ २६ ॥

तत्वं ब्रुवाणानि परं परस्मादऽहो क्षरन्तीव सुधां पदानि ।
आवर्तय प्राञ्जलिरऽस्मि जिह्वे नामानि नारायणगोचराणि ॥ २७ ॥

प्। ३८)

इदं शरीरं परिणामपेशलं पतत्यऽवश्यं श्लर्थसन्धिजर्जरम् ।
किमौषधैः क्लिश्यसि मूढ दुर्मते ! निरामयं कृष्णरसयनं पिब ॥ २८ ॥

श्रीमन्नाम प्रोच्य नारायणाऽख्यं के न प्राप्ता वाञ्छितं पापिनोऽपि ।
हा नः पूर्वं वाक्प्रवृत्ता न तस्मिंस्तेन प्राप्तं गर्भवासादिदुःखम् ॥
२९ ॥

माद्राक्षं क्षीणपुण्यान् क्षणमऽपि भवतो भक्तिहीनान् पदाब्जे
माश्रौषं श्राव्यबद्धं तव चरितमऽपास्याऽन्यदाऽख्यानजातम् ।
मास्प्राक्षं माधव ! त्वामपि भुवनपतिं चेतसाऽपह्नवानं
माभूवं त्वत्सपर्या व्यतिकररहितो जन्मजन्मान्तरेऽपि ॥ ३० ॥

मदन ! परिहर स्थितिं मदीये मनसि मुकुन्दपदारविन्दधाम्नि ।
हरनयनकृशानुना कृशोऽसि स्मरसि न चक्रपराक्रमं मुरारेः ॥ ३१ ॥

दारा वाराकरवरसुता तेऽङ्गजोयं विरिञ्चिः
स्तोता वेदास्तव सुरगणो भृत्यवर्गः प्रसादः ।
मुक्तिर्मध्ये जगदऽविकलं तावकी देवकीयं
माता मित्रं बलरिपुसुतस्तत्वतोऽन्यन्न जाने ॥ ३२ ॥

जिह्वे ! कीर्तय केशवं मुररिपुं चेतो ! भज श्रीधरं
पाणिद्वन्द्व ! समर्चयाऽच्युतकथाः श्रोत्रद्वय ! त्वं शृणु ।
कृष्णं लोकय लोचनद्वय ! हरेर्गच्छाङ्घ्रियुग्माऽलयं
जिघ्र घ्राण ! मुकुन्दपादतुलसीं मूर्धन् ! नमाऽधोक्षजम् ॥ ३३ ॥

यत्क्र्ष्णप्रणिपातधूलिधवलं तद्वै शिरः स्याच्छुभं
ते नेत्रे तमसोज्झिते सुरुचिरे याभ्यां हरिर्दृश्यते ।
सा बुद्धिर्नियमैर्यमैश्च विमला या माधवध्यायिनी
सा जिह्वाऽमृतवर्षिणी प्रतिपदं या स्तौति नारायणम् ॥ ३४ ॥

भक्तद्वेषभुजङ्गगारुडमणिस्त्रैलोक्यरक्षामणि-
र्गोपीलोचनचातकाऽम्बुदमणिः सौन्दर्यमुद्रामणिः ।
श्रीकान्तामणिरुक्मिणीघनकुच द्वन्द्वैकभूषामणिः
श्रेयो ध्येयशिखामणिर्दिशतु नो गोपालचूडामणिः ॥ ३५ ॥

शत्रुच्छेदैकमन्त्रं सकलमुपनिषद्वाक्यसम्पूज्यमन्त्रं
संसारोत्तारमन्त्रं समुदिततमसां सङ्गनिर्याणमन्त्रम्

प्। ३९)

सर्वैश्वर्यैकमन्त्रं व्यसनभुजगसन्दष्टसन्त्राणमन्त्रं
जिह्वे! श्रीकृष्णमन्त्रं जप जप सततं जन्मसाफल्यमन्त्रम् ॥ ३६ ॥

व्यामोहोद्दलनौषधं मुनिमनो वृत्तिप्रवृत्यौषधः
दैत्याऽनर्थकरौषधं त्रिभुवने सञ्जीवनैकौषधम् ।
भक्ताऽर्तिप्रशमौषधं भवभयप्रध्वंसि दिव्यौषधं
श्रेयःप्राप्तिकरौषधं पिब मनः ! श्रीकृष्णनामौषधम् ॥ ३७ ॥

आश्चर्यमेतद्धि मनुष्यलोके सुधां परित्यज्य विषं पिबन्ति ।
नामानि नारायणगोचराणि त्यक्त्वाऽन्यवाचः कुहकाः पठन्ति ॥ ३८ ॥

लाटी नेत्रपुटी पयोधरघटी क्रीडाकुटी दोस्तटी
पाटीरद्रुमवर्णनेन कविभिर्मूढैर्दिनं नीयते ।
गोविन्देति जनार्दनेति जगतां नाथेति कृष्णेति च
व्याहारैः समयस्तदेकमनसां पुंसां परिक्रामति ॥ ३९ ॥

अयाच्यमऽक्रेयमऽयातयाममऽपाच्यमऽक्षय्यमऽदुर्भरं मे ।
अस्त्येव पाथेयमऽतिप्रयाणे श्रीकृष्णनामाऽमृतभागधेयम् ॥ ४० ॥

यस्य प्रियौ श्रुतिधरौ रविलोकगीतौ मित्रे द्विजन्मपरिवारशिवावभूताम् ।
तेनाऽम्बुजाक्षचरणाम्बुजषट्पदेन राज्ञां कृता स्तुतिरियं कुलशेखरेण
॥ ४१ ॥

इति श्रीकुलशेखरराज्ञाकृता मुकुन्दमालास्तुतिः

श्रीकृष्णलीला

अथ श्रीकृष्णलीला ॥

ॐ निगमतरोः प्रतिशाखं मृगितं च मया परब्रह्म ।
मिलितमिदानीमऽङ्के गोकुलपङ्केरुहाक्षीणाम् ॥ १ ॥

तप्तं तपोभिरऽन्यैः फलितं च तद्गोपबालानाम् ।
आसां यत्कुचकुम्भे नीलनिचोलायते परं ब्रह्म ॥ २ ॥

श्रुतिमऽपरे स्मृतिमऽपरे भारतमऽन्ये भजन्तु भवभीताः ।
अहमऽपि नन्दं वन्दे यस्याऽलिन्दे परं ब्रह्म ॥ ३ ॥

किं कथयामः कस्मै कस्य मनः प्रत्ययमाऽदत्ते ।
रमयति गोपवधूटीकुञ्जकुटीरे परं ब्रह्म ॥ ४ ॥

नीतं नवनवनीतं केन च पीतं पयः क्व मे मुरली ।
इति समुदीर्य लुठन्तं भुमौ बालं नमामि गोपालम् ॥ ५ ॥

प्। ४०)

पश्यत बलमऽबलानामऽनाविले हृद्बिले बबन्धुर्याः ।
तनु दृष्टिपातरश्म्याऽकृष्टमऽमूर्तं परं ब्रह्म ॥ ६ ॥

एतत्त्वामऽहमऽर्थयामि सततं रे चित्त ! चिन्तातुर !
मा चिन्तां कुरु चञ्चलेषु विषयेष्वाऽगारदाराऽदिषु ।
गायन्तं यमुनातटद्रुमतले नीलाम्बुदश्यामलं
गोपालं वनमालिनं कमलिनं नन्दात्मजं चिन्तय ॥ ७ ॥

ध्यानाऽभ्यासवशीकृतेन मनसा तन्निर्गुणं निष्क्रियं
ज्योतिः किञ्चन योगिनो यदि परं पश्यन्ति पश्यन्तु ते ।
अस्माकं तु तदेव लोचनचमत्काराय भूयाच्चिरं
कालिन्दीपुलिनेषु तत्किमपि यन्नीलं तमो धावति ॥ ८ ॥ इति कृष्णलीला०

जयस्तुतिर्विष्णोः

अथ जयस्तुतिर्विष्णोः ॥

ॐ जय नारायण ! जय पुरुषोत्तम ! जय वामन ! कंसारे !
उद्धर मामऽसुरेशविनाशिन् ! पतितोऽहं संसारे ।
घोरं हर मम नरकरिपो ! केशव ! कल्मषभारं
मामऽनुकम्पय दीनमऽनाथं कुरु भवसागरपारम् ॥ १ ॥

जय जय देव ! जयाऽसुरसूदन ! जय केशव ! जय विष्णो !
जय लक्ष्मीमुखकमलमधुव्रत ! जय दशकन्दरजिष्णो ! ॥ घोरं० ॥ २ ॥

त्वं जननी जनकः प्रभुरऽच्युत ! त्वं पुत्रसुहृद्धनमित्रम् ।
त्वं शरणं शरणाऽगतवत्सल ! त्वं भवजलधिवहित्रम् ॥ घोरम् ॥ ३ ॥

पुनरऽपि जननं पुनरपि मरणं पुनरऽपि गर्भनिवासम् ।
सोढुमऽलं पुनरऽस्मिन्माधव ! मामुद्धर निजदासम् ॥ घोरं० ॥ ४ ॥

जनकसुतापतिचरणपरायणशङ्करमुनिवरगीतं
धारय मनसि कृष्ण ! पुरुषोत्तम ! वारय संसृतिभीतिम् ॥ घोरं० ॥ ५ ॥

यद्यपि सकलमऽहं कलयामि हरे ! नहि किमऽपि ससत्वम् ।
तदऽपि न मुञ्चति मामिदमऽच्युत ! पुत्रकलत्रममत्त्वम् ॥ ६ ॥ इति विष्णुस्तुतिः

प्। ४१)

गोविन्दाष्टकम्

गोविन्दाष्टकम् ॥

ॐ सत्यञ्ज्ञानमऽनन्तं नित्यमऽनाकाशं परमाऽकाशं
गोष्ठप्राङ्गणरिङ्खणलोलःमऽनायासं परमायासम् ।
मायाकल्पितनानाकारमऽनाकारं भुवनाकारं
क्ष्मामानाथमऽनाथं प्रणमत गोविन्दं परमानन्दम् ॥ १ ॥

मृत्स्नामऽत्सीहेति यशोदा ताडनशैशवसन्त्रासं
व्यादितवक्त्राऽलोकित लोकाऽलोकचतुर्दशलोकाऽलिम् ।
लोकत्रयपुरमूलस्तम्भं लोकालोकमऽनालोकं लोकेशं परमेशं प्र० ॥ २

त्रैविष्टपरिपुवीरघ्नं क्स्।इतिभारघ्नं भवरोगघ्नं
कैवल्यं नवनीताऽहारमऽनाहारं भुवनाहारम् ।
वैमल्यस्फुटचेतोवृत्तिविशेषाऽभासमऽनाभासं शैवं केवलशान्तं
प्र० ॥ ३ ॥

गोपालं प्रभुलीलाविग्रह गोपालं कुलगोपालं
गोपीखेलनगोवर्धनधृतिलीलालालितगोपालम् ।
गोभिर्निगदितगोविन्द स्फुटनामानं बहुनामानं गोधीगोचरदूरं प्र० ॥
४ ॥

गोपीमण्डलगोष्ठीभेदं भेदाऽवस्थमभेदाऽभं
शशद्गोखुरनिर्धूतोद्धत धूलिधूसरसौभाग्यम् ।
श्रद्धाभक्तिगृहीताऽनन्दमऽचिन्त्यं चिन्तितसद्भावं
चिन्तामणिमऽनिमानम् ॥ ५ ॥

स्नानव्याकुलयोषिद्वस्त्राण्याऽदायाऽगमुपारूढं
व्यादित्सन्तीरऽथ दिग्वस्त्रा वस्त्रं दातुमुपाकर्षतं ताः ।
निर्धूतद्वयशोकविमोहं बुद्धं बुद्धेरन्तःस्थं सत्तामात्रशरीरं
प्र० ॥ ६ ॥

कान्तं कारणकारणमाऽदिमऽनादिं कालघनाऽभासं
कालिन्दीगतकालिय शिरसि नृत्यन्तं मुहुर्नृत्यन्तम् ।
कालं कालकलाऽतीतं कलिताऽशेषं कलिदोषज्ञं कालत्रयगतिहेतुं प्र० ॥
७ ॥

वृन्दावनभुवि वृन्दारकगणः वृन्दाऽराधितवन्द्येहं
कुन्दाऽभाऽमलमन्दस्मेर स्वधानन्दं सुहृदाऽनन्दम् ।
वन्द्याऽशेषमहामुनि मानसवन्द्याऽनन्दपदद्वन्द्वं
वन्द्याऽशेषगुणाब्धिं प्र० ॥ ८ ॥

गोविन्दाऽष्टकमेतदऽधीते गोविन्दार्पितचेता यो
गोविन्दाऽच्युत ! माधव ! विष्णो ! गोकुलनायक ! कृष्णेति ।

प्। ४२)

गोविन्दाङ्घ्रिसरोजध्यानजलधौतसमस्ताऽघो
गोविन्दं परमानन्दाऽमृतमऽन्तस्थं समभ्येति ॥ ९ ॥

इति श्रीशङ्कराचार्यकृतं गोविन्दाष्टकं सम्पूर्णम्

शिवस्तुतिः

अथ शिवस्तुतिः ॥

ॐ व्याप्तचराऽचरभावविशेषं चिन्मयमेकमऽनन्तमनादिम् ।
भैरवनाथमऽनाथशरण्यं त्वन्मयचित्ततया हृदि वन्दे ॥ १ ॥

त्वन्मयमेतदऽशेस्ऽमिदानीं भाति मम त्वदऽनुग्रहशक्त्या ।
त्वं च महेश ! सदैव ममाऽत्मा स्वाऽत्ममयं मम तेन समस्तम् ॥ २ ॥

स्वात्मऽनि विश्वगते त्वयि नाथे तेन न संसृतिभीतेः कथाऽस्ति ।
सत्स्वपि दुर्धरदुःखविमोह त्रासविधायिषु कर्मगणेषु ॥ ३ ॥

अन्तक ! मां प्रति मा दृशमेनां क्रोधकरालतमां विदधीहि ।
शङ्करसेवनचिन्तनधीरो भीषणभैरवशक्तिमयोऽस्मि ॥ ४ ॥

इत्थमुपोढभवन्मयसंविद्दिधितिदारितभूरितमिस्रः ।
मृत्युयमान्तककर्मपिशाचैर्नाथ ! नमोऽस्तु न जातु बिभेमि ॥ ५ ॥

प्रोदितसत्यविबोधमरीचि प्रोक्षितविश्वपदार्थसतत्त्वः ।
भावपरामृतनिर्भरपूर्णे त्वय्यऽहमाऽत्मनि निर्वृतिमेमि ॥ ६ ॥

मानसगोचरमेति यदैव क्लेशदशाऽतनुतापविधात्री ।
नाथ ! तदैव ममत्वदऽभेदस्तोत्रपराऽमृतवृष्टिरुदेति ॥ ७ ॥

शङ्कर ! सत्यमिदं व्रतदान स्नानतपो भवतापविनाशि ।
तावकशास्त्रपराऽमृतचिन्ता सिन्धति चेतसि निर्वृतिधाराः ॥ ८ ॥

नृत्यति गायति हृष्यति गाढं संविदियं मम भैरवनाथ ।
त्वां प्रियमाऽप्य सुदर्शनमेकं दुर्लभमऽन्यजनैः समयज्ञम् ॥ ९ ॥

वसुरसपौषे कृष्णदशम्यामऽभिनवगुप्तः स्तवैदमकरोत् ।
येन विभुर्भवमरुसन्तापं शमयति झटिति जनस्य दयालुः ॥ १० ॥

इति अभिनवगुप्ताऽचार्यकृता शिवस्तुतिः

समाप्तम् ॥