उदाहरणपद्यानि

[[उदाहरणपद्यानि Source: EB]]

[

॥ ***उदाहरणपद्यानि*** ॥

अगाधं परितः पूर्णमालोक्य स महार्णवम्‌ ।
हृदयं रामभद्रस्य सस्मार पवनात्मजः ॥1॥

अङ्कितान्यक्षसंघातैः सरोगाणि सदैव हि ।
शरीरिणां शरीराणि कमलानि न संशयः ॥2॥

अतिमात्रबलेषु चापलं विदधानः कुमतिर्विनश्यति ।
त्रिपुरद्विषि वीरतां वहननवलिप्तः कुसुमायुधो यथा ॥3॥

अपहाय सकलबान्धवचिन्तामुद्वास्य गुरुकुलप्रणयम् ।
हा तनय विनयशालिन्‌ कथमिव परलोकपथिकोऽभूः ॥4॥

अपि वक्ति गिरां पतिः स्वयं यदि तासामधिदेवतापि वा ।
अयमस्मि पुरो हयाननस्मरणोल्लङ्घितवाङ्मयाम्बुधिः ॥5॥

अबलानां श्रियं हृत्वा वारिवाहैः सहानिशम्‌ ।
तिष्ठन्ति चपला यत्र स कालः समुपस्थितः ॥6॥

अभिरामतासदनमम्बुजानने नयनद्वयं जनमनोहरं तव ।
इयति प्रपञ्चविषयेऽपि वैधसे तुलनामुदञ्चति परस्परात्मना ॥7॥

अमृतद्रवमाधुरीभृतः सुखयन्ति श्रवसी सखे गिरः ।
नयने शिशिरीकरोतु मे शरदिन्दुप्रतिमं मुखं तव ॥8॥

अमृतस्य चन्द्रिकाया ललितायाश्चापि कवितायाः ।
सुजनस्य च निर्माणं जनयति नहि कस्य सन्तोषम्‌ ॥9॥

अम्बरत्यम्बरं यद्वत्‌ समुद्रोऽपि समुद्रति ।
विक्रमार्कमहीपल तथा त्वं विक्रमार्कसि ॥10॥

अम्भोजिनीबान्धवनन्दनायां कूजन्‌ बकानां समजो विरेजे ।
रूपान्तराक्रान्तगृहः समन्तात्‌ पुञ्जीभवञ्‌ शुक्ल इवाश्रयार्थी ॥11॥

अयं सज्जनकार्पासरक्षणैकहुताशनः ।
परदुःखाग्निशमनमारुतः केन वर्ण्यते ॥12॥

अयि पवनरयाणां निर्दयानां हयानां श्लथय गतिमहं नो सङ्गरं द्रष्टुमीहे ।
श्रुतिविवरममी मे दारयन्ति प्रकुप्यद्भुजगनिभभुजानां बाहुजानां निनादाः ॥13॥

अयि लावण्यजलाशय तस्या हा हन्त मीननयनायाः ।
दूरस्थे त्वयि किं वा कथयामो विस्तरेणालम्‌ ॥14॥

अये राजन्नाकर्णय कुतुकमाकर्णनयन
स्फुरन्ती हस्ताम्भोरुहि तव कृपाणी रणमुखे ।
विपक्षाणां वक्षस्यहह तरुणानां निपतति
प्रगल्भाः श्यामानामनुपरतकामाः प्रकृतयः ॥15॥

अये राजनाकर्णय कुतुमाकर्णनयन
त्वदाधारा कीर्तिर्वसति किल मौलौ दशदिशाम्‌ ।
त्वदेकालम्बोऽयं गुणगणकदम्बो गुणनिधे
मुखेषु प्रौढानां विलसति कवीनामविरतम्‌ ॥16॥

अये लीलाभग्नत्रिपुरहरकोदण्डमहिमन्‌
कथा यन्‌ नोदञ्चत्यतुलबलधैर्यस्य भवतः ।
अयं को वा तत्र प्रसृमरफणाकोणनिहित-
क्षितिः शेषः श्रीमान्‌ कमठकुलचूडामणिरपि ॥17॥

अर्जुनस्य गुरुर्मायामनुजः परमः पुमान्‌ ।
गुञ्जापुञ्जधरः पायादपायादिह कोऽपि वः ॥18॥

अर्थिनो दातुमेवेति त्रातुमेवेति कातरा ।
जातोऽयं हन्तुमेवेति वीरास्त्वां देव जानते ॥19॥

अर्थिभिश्छिद्यमानोऽपि स मुनिर्न व्यकम्पत ।
विनाशेऽप्युन्नतः स्थैर्यं न जहाति द्रुमो यथा ॥20॥

अलकाः फणिसावतुल्यशीला
नयनान्ताः परिपुङ्खितेषुलीलाः ।
चपलोपमिता खलु स्वयं या बत
लोके सुखसाधनं कथं सा ॥21॥

आह्लादिनी नयनयो रुचिरैन्दवीव
कण्‍ठे कृतातिशिशिराम्बुजमालिकेव ।
आनन्दिनी हृदि गता रसभावनेव
सा नैव विस्मृतिपथं मम जातु याति ॥22॥

इदमुदधेरुदरं वा नयनं वात्रेरुतेश्वरस्यमनः ।
दशरथगृहे तदानीमेवं संशेरते स्म कवयोऽपि ॥23॥

इन्दुना परसौन्दर्यसिन्धुना बन्धुना विना ।
ममायं विषमस्तापः केन वा शमयिष्यते ॥24॥

इन्दुस्तु परमोत्कृष्टो यः क्षीणो वर्धते मुहुः ।
धिगिदं यौवनं तन्वि क्षीणं न पुनरेति यत्‌ ॥25॥

इयति प्रपञ्चविषये तीर्थानि कियन्ति सन्ति पुण्यानि ।
परमार्थतो विचारे देवी गङ्गा तु गङ्गेव ॥26॥

ईश्वरेण समो ब्रह्मा पिता साक्षान्‌ महेश्वरः ।
पार्वत्या सदृशी लक्ष्मीर्माता मातुः समा भुवि ॥
पितास्य काष्ठसदृशः स्वयं पावकसन्निभः ॥27॥

उत्सङ्गे तव गङ्गे पायं पायं पयोऽतिमधुरतरम्‌ ।
शमिताखिलश्रमभरः कथय कदाहं चिराय शयिताहे ॥28॥

उदुम्बरफलानीव ब्रह्माण्डान्यत्ति यः सदा ।
सर्वगर्वापहः कालस्तस्य के मशका वयम् ॥29॥

उन्मूलितः सह मदेन बलाद्बलारे-
रुत्थापितो बलभृतां सह विस्मयेन ।
नीलातपत्रमणिदण्डरुचा सहैव
पाणौ धृतो गिरिधरेण गिरिः पुनातु ॥30॥

उपकारमस्य साधोर्नैवाहं विस्मरामि जलदस्य ।
दृष्टेन येन सहसा निवेद्यते नवघनश्यामः ॥31॥

उर्वीं शासति मय्युपद्रवलवः कस्यापि न स्यादिति
प्रौढं व्याहरतो वचस्तव कथं देव प्रतीमो वयम् ।
प्रत्यक्षं भवतो विपक्षनिवहैर्द्यामुत्पतद्भिः क्रुधा
यद्‌ युष्मत्कुलकोटिमूलपुरुषो निर्भिद्यते भास्करः ॥32॥

ऋतुराजं भ्रमरहितं यदाहमाकर्णयामि नियमेन ।
आरोहति स्मृतिपथं तदैव भगवान्‌ मुनिर्व्यासः ॥33॥

एकीभवत्प्रलयकालपयोधिकल्प-
मालोक्य संगरगतं कुरुवीरसैन्यम्‌ ।
सस्मार तल्पमहिपुङ्गवकायकान्तं
निद्रां च योगकलितां भगवान्‌ मुकुन्दः ॥34॥

एतावति प्रपञ्चे सुन्दरमहिलासहस्त्रभरितेऽपि ।
अनुहरति सुभग तस्या वामार्धं दक्षिणार्धस्य ॥35॥

एतावति प्रपञ्चेऽस्मिन्‌ सदेवासुरमानुषे ।
केनोपमीयतां तज्‌ज्ञै रामो रामपराक्रमः ॥36॥

एतावति महीपालमण्डलेऽवनिमण्डन ।
तारकापरिषन्मध्ये राजन्‌ राजेव राजसे ॥37॥

कटु जल्पति कश्चिदल्पवेदी रयदि चेदीदृशमत्र किं विदध्मः ।
कथमिन्दुरिवाननं त्वदीयं सकलङ्कः स कलङ्गहीनमेतत्‌ ॥38॥

कतिपयदिवसविलासं नित्यसुखासङ्गमङ्गलसवित्री ।
खर्वयति स्वर्वासं गीर्वाणधुनीतटस्थितिर्नितराम्‌ ॥39॥

कमलति वदनं यस्यामलयन्त्यलका मृणालतो बाहू ।
शैवलति रोमावलिरद्भुतसरसीव सा बाला ॥40॥

करकलितचक्रघटनो नित्यं पीताम्बरस्तमोऽरातिः ।
निजसेविजाड्यनाशनचतुरो हरिरस्तु भूतये भवताम्‌ ॥41॥

करतलनिर्गलदविरलदानजलोल्लासितावनीवलयः ।
धनदाग्रमहितमूर्तिर्जयतितरां सार्वभौमोऽयम्‌ ॥42॥

कलितकुलिशघाताःकेऽपि खेलन्ति वाताः
कुशलमिह कथं वा जायतां जीविते मे ।
अयमपि बत गुञ्जन्नालि माकन्दमौलौ
चुलुकयति मदीयां चेतनां चञ्चरीकः ॥43॥

कलिन्दशैलादियमाप्रयागं केनापि दीर्घा परिखा निखाता ।
मन्ये तलस्पर्शविहीनमस्यामाकाशमानीलमिदं विभाति ॥44॥

कस्तृष्येन मार्मिकस्तन्वि रमणीयेषु वस्तुषु ।
हित्वान्तिकं सरोजिन्याः पश्य याति न षट्पदः ॥45॥

कातराः परदुःखेषु निजदुःखेष्वकातराः ।
अर्थेष्वलोभा यशसि सलोभाः सन्ति साधवः ॥46॥

कान्तारे विपन्तीनां त्वदरातिमृगीदृशाम्‌ ।
देवनानि समाकर्ण्य हरिद्भिरपि चुक्षुभे ॥47॥

कारुण्यकुसुमाकाशः सान्तिशैत्यहुताशनः ।
यशःसौरभ्यलशुनः पिशुनः साधुदुःखदः ॥48॥

किं कुर्वते दरिद्राः कासारवती धरा मनोज्ञतरा ।
कोपावनस्त्रिलोक्यां ……………………. ॥49॥

किं नाम तेन न कृतं सुकृतं पुरारे
दाशीकृता न खलु का भुवनेषु लक्ष्मीः ।
भोगा न के बुभुजिरे विबुधैरलभ्या
येनार्चितोऽसि करुणाकर हेलयापि ॥50॥

किमहं कथयामि योषितामधरं बिम्बफलं समर्प्य याः ।
सुरसानि हरन्ति हन्तहा विदुषां पुण्यफलानि सत्वरम्‌ ॥51॥

कियदिदमधिकं मे यद् द्विजायार्थयित्रे
कवचमरमणीयं कुण्डले चार्पयामि ।
अकरुणमवकृत्य द्राक्‌ कृपाणेन निर्यद्
बहलरुधिरधारं मौलिमावेदयामि ॥52॥

कुङ्कुमद्रवलिप्ताङ्गः काषायवसनो यतिः ।
कोमलातपबालाभ्रः सन्ध्याकालो न संशयः ॥53॥

कुचकलशेष्वबलानामलकायामथ पयोनिधेः पुलिने ।
क्षितिपाल कीर्तयस्ते हारन्ति हरन्ति हीरन्ति ॥54॥

कुचाभ्यामालीढं सहजकठिनाभ्यामपि रमे
न काठिन्यं धत्ते तव हृदयमत्यन्तमृदुलम्‌ ।
मृगाङ्गानामन्तर्जननि निवसन्ती खलुचिरं
न कस्तूरी दूरीभवति निजसौरभ्यविभवात्‌ ॥55॥

कुण्डलीकृतकोदण्डदोर्दण्डस्य पुरस्तव ।
मृगारातेरिव मृगाः परे नैवावतस्थिरे ॥56॥

कुत्र शैवं धनुरिदं क्व चायं प्राकृतः शिशुः
भङ्गस्तु सर्वसंहर्त्रा कालेनैव विनिर्मितः ॥57॥

कुलिशमिव कठिनमसतां हृदयं जानीहि हृदयमिव कुलिशम्‌ ।
प्रकृतिः सतां सुमधुरा सुधेव हि प्रकृतिरिव च सुधा ॥58॥

कुसुमानि शरा मृणालजालान्यपि कालायसकर्कशान्यभूवन्‌ ।
सुदृशो दहनायते स्म राका भवनाकाशमथाभवत्‌ पयोधिः ॥59॥

कृतमपि महोपकारं पय इव पीत्वा निरातङ्कम्‌ ।
प्रत्युत हन्तुं यतते काकोदरसोदरः खलो जगति ॥60॥

कृत्वा सूत्रैः सुगूढर्थैः प्रकृतेः प्रत्ययं परम् ।
आगमान्‌ भावयन्‌ भाति वैयाकरणपुङ्गवः ॥61॥

कृपया सुधया सिञ्च हरे मां तापमूर्च्छितम्‌ ।
जगज्जीवन तेनाहं जीविष्यामि न संशयः ॥62॥

कृष्णपक्षाधिकरुचिः सदा सम्पूर्णमण्डलः ।
भूपोऽयं निष्कलङ्कात्मा मोदते वसुधातले ॥63॥

केऽपि स्मरन्त्यनुसरन्ति च केचिदन्ये
पश्चन्ति पुण्यपुरुषाः कति च स्पृशन्ति ।
मातर्मुरारिचरणाम्बुजमाध्वि गङ्गे
भाग्याधिकाः कतिपये भवतीं पिबन्ति ॥64॥

कोदण्डच्युतकाण्डमण्डलसमाकीर्णत्रिलोकीतलं
रामं दृष्टवतां रणे दशमुखप्राणापहारोद्यतम्‌ ।
दुर्दर्शोऽपि नृणामभूदुरुमरुद्वेगप्रचण्डीकृतृ-
ज्वालाभिर्जगतीतलं कवलयन्‌ कालानलो गोचरः ॥65॥

कोपेऽपि वदनं तन्वि तुल्यं कोकनदेन ते ।
उत्तमानां विकरेऽपि नापैति रमणीयता ॥66॥

कोमलातपशोणाभ्रसन्ध्याकालसहोदरः ।
काषायवसनो याति कुङ्कुमालेपनो यतिः ॥67॥

कौमुदीव भवती विभाति मे कातराक्षि भवतीव कौमुदी ।
अम्बुजेन तुलितं विलोचनं लोचनेन च तवाम्बुजं समम्‌ ॥68॥

क्रूरसत्त्वाकुलो दोषाकरभूस्तोयधिर्यथा ।
न तथा त्वं यतो भूप स्थिरधीरसि निर्मलः ॥69॥

क्वचिदपि कार्ये मृदुलं क्वापि च कठिनं विलोक्य हृदयं ते ।
को न स्मरति नराधिप नवनीतं किं च शतकोटिम्‌ ॥70॥

क्व वा रामः कामप्रतिभटललाटंतपबल-
स्तव क्वामी वीरा रणशिरसि धीरा मखभुजाम्‌ ।
दिधक्षोस्त्रैलोक्यं प्रलयशिखिनः पद्ममथन-
प्रगल्भैः प्रालेयैः प्रशममसि कर्तुं व्यवसितः ॥71॥

क्व शुक्तयः क्व वा मुक्ताः क्व पङ्कः क्व च पङ्कजम्‌ ।
क्व मृगाः क्व च कस्तूरी धिग्‌ विधातुर्विदग्धताम्‌ ॥72॥

क्व सा कुसुमसाराङ्गी सीता चन्द्रकलोपमा ।
क्व रक्षःखदिराङ्गारमध्यसंवासवैशसम्‌ ॥73॥

खर्वीकृतेन्द्रगर्व त्वरया चक्रेण भिन्ननक्रमुख ।
लीलात्तकोलमूर्त्ते मामुद्धर्तुं कथं न शक्तोऽसि ॥74॥

खलः कापट्यदोषेण दूरेणैव विसृज्यते ।
अपायशङ्किभिर्लोकैर्विषेणाशीविषो यथा ॥75॥

खलानामुक्तयो हन्त कोमलाः शीतला अपि ।
हृदयानीह साधूनां छिन्दन्त्यथ दहन्ति च ॥76॥

गगनचरं जलबिम्बं कथमिव पूर्ण वदन्ति विद्वांसः ।
दशरथचत्वरचारी हृज्ज्वरहारी विधुस्तु परिपूर्णः ॥77॥

गगनाद्‌ गलितो गभस्तिमानुत वाऽयं शिशिरो विभावसुः ।
मुनिरेवमरुन्धतीपतिः सकलज्ञः समशेत राघवे ॥78॥

गङ्गाहृद्या यथा गङ्गा गङ्गा गङ्गेव पावनी ।
हरिणा सदृशो बन्धुर्हरितुल्यः परो हरिः ॥79॥

गाम्भीर्येणातिमात्रेण महिम्ना परमेण च
राघवस्य द्वितीयोऽब्धिरम्बुधेश्चापि राघवः ॥80॥

गाहितमखिलं विपिनं परितो दृष्टाश्च विटपिनः सर्वे ।
संहकार न प्रपेदे मधुपेन तथापि ते समं जगति ॥81॥

गिरं समाकर्णयितुं यदीयां सदा रसज्ञैरनुभावनीयाम्‌ ।
समीहते नित्यमनन्यचेता नभस्वदात्मंभरिवंशनेता ॥82॥

गिरामविषयो राजन्‌ विस्तारस्तव चेतसः ।
सावकाशतया यत्र शेते विश्वाश्रयो हरिः ॥83॥

गीष्पतिरप्याङ्गिरसो गदितुं ते गुणगणान्‌ सगर्वो न ।
इन्द्रः सहस्त्रनयनोऽप्यद्भुतरूपं परिच्छेत्तुम्‌ ॥84॥

गुणवृद्धी परे यस्मिन्‌ नैव स्तः प्रत्ययात्मके ।
बुधेषु सदिति ख्यातं तद्‌ ब्रह्म समुपास्महे ॥85॥

चकोरनयनानन्दि कङ्लाराह्लादकारणम्‌ ।
तमसं कदनं भाति वदनं सुन्दरं तव ॥86॥

चन्द्रांशुनिर्मलं वारि चन्द्रो हंससमद्युतिः ।
हंसास्तु शरदि स्मेरपुण्डरीकमनोरमाः ॥87॥

चाञ्चल्ययोगि नयनं तव जलजानां श्रियं हरतु ।
विपिनेऽतिचञ्चलानामपि च मृगाणां कथं हरति ॥88॥

जगति नरजन्म तस्मिन्‌ वैदुष्यं तत्र सत्कविता ।
कवितायां परिणामो दुष्प्रपः पुण्यहीनेन ॥89॥

जगत्‌त्रयत्राणधृतव्रतस्य क्षमातलं केवलमेव रक्षन्‌ ।
कथं समारोहसि हन्त राजन्सहस्त्रनेत्रस्य तुलां द्विनेत्रः ॥90॥

जनयन्ति परप्रीतिं नराः सत्कुलसम्भवाः ।
नहि कारस्करः क्वापि तापनिर्वापणक्षमः ॥91॥

जीवितं मृत्युना लीढं सम्पदः श्वासविभ्रमाः ।
रामाः क्षणप्रबारामाः शल्यान्येतानि देहिनाम्‌ ॥92॥

ज्योत्स्नाभमञ्जुहसिता सकलकलाकान्तकान्तवदनश्रीः ।
राकेव रम्यरूपा राघवरमणी विराजते नितराम्‌ ॥93॥

तल्पगतापि च सुतनुः श्वासासङ्गं न या सेहे ।
सम्प्रति सा हृदयगतं प्रियपाणिं मन्दमाक्षिपति ॥94॥

तापत्रयं खलु नृणां हृदि तावदेव
यावन्‌ न ते वलति देव कृपाकटाक्षः ॥
प्राचीललाटपरिचुम्बिनि भानुबिम्बे
पङ्केरुहोदरगतानि कुतस्तमांसि ॥95॥

तीर्थं गङ्गा तदितरदपां निर्मलं सङ्घमात्रं
देवौ तस्याः प्रसवनिलयौ नाकिनोऽन्ये वराकाः ।
सा यत्रास्ते स हि जनपदो मृत्तिकामात्रमन्यत्‌
तां यो नित्यं नमति स बुधो बोधशून्यस्ततोऽन्यः ॥96॥

त्वत्प्रतापमहादीपशिखाविपुलकज्जलैः ।
नूनं नभस्तले नित्यं नीलिमा नूतनायते ॥97॥

त्वदङ्गणसमुद्भूता सिक्ता कुङ्कुमवारिभिः ।
त्वदङ्गतुलनां याति कदाचिल्‌ लवलीलता ॥98॥

त्वद्विपक्षमहीपालाः स्वर्बालाधरपल्लवम्‌ ।
पीडयन्तितरां तीव्रदारुणैर्दशनक्षतैः ॥99॥

त्वयि कुपिते रिपुमणडलखण्डनपाण्डित्यसम्पदुद्दण्डे ।
गिरिगहनेऽरिवधूनां दिवसैः सह लोचनानि वर्षन्ति ॥100॥

त्वां गीर्वाणगुरुं सर्वे वदन्तु कवयस्तु ते ।
समानकक्षस्तेनासीत्येषोऽर्थरतु मतो मम ॥101॥

त्वामन्तरात्मनि लसन्तमनन्तमज्ञा-

स्तीर्थेषु हन्त मदनान्तक शोधयन्तः ।
विस्मृत्य कण्ठतटमध्यपरिस्फुरन्तं
चिन्तामणिं क्षितिरजःसु गवेषयन्ति ॥102॥

दन्तप्रभापुष्पचिता पाणिपल्लवशोभिनी ।
केशपासालिवृन्देन सुवेषा हरिणेक्षणा ॥103॥

दशाननेन दृप्तेन नीयमाना बभौ सती ।
द्विरदेन मदान्धेन कृष्यमाणेव पद्मिनी ॥104॥

दूरीकर्तुं प्रियं बाला पद्मेनाताडयद्‌ रुषा ।
स बाणेन हतस्तेन तामाशु परिषस्वजे ॥105॥

दृष्टिर्मृगीदृशोऽत्यन्तं क्षुत्यन्तपरिशीलिनी ।
मुच्यन्ते बन्धनात्‌ केशा विचित्रा वैधसी गतिः ॥106॥

देव त्वद्दर्शनादेव लीयन्ते पुण्यराशयः ।
किं चादर्शनतः पापमशेषमपि नश्यति ॥107॥

द्राक्षेव मधुरं वाक्यं चरितं कौमुदी यथा ।
सदैवार्द्राणि चेतांसि सुधेव सुमहात्मनाम्‌ ॥108॥

द्रमपङ्कजविद्वांसः सर्वसंतोषरोषकाः ।
मुधैव हन्त हन्यन्ते कुठारहिमदुर्जनैः ॥109॥

द्रोहो निरागसां लोके हीनो हालाहलादपि ।
अयं हन्ति कुलं साग्रं भोक्तारं केवलं तु सः ॥110॥

नगरान्तर्महीन्द्रस्य महेन्द्रमहितश्रियः ।
सुरालये खलु क्षीबा देवा इव विरेजिरे ॥111॥

न नगाः काननगा यद् रुदतीषु त्वदरिभूपसुदतीषु ।
शकलीभवन्ति शतधा शङ्के श्रवणेन्द्रियाभावात्‌ ॥112॥

नयनानि वहन्तु खञ्जनानामिह नानाविधमङ्गभङ्गभाग्यम्‌ ।
सदृशं कथमाननं सुशोभं सुदृशो भङ्गुरसम्पदाम्बुजेन ॥113॥

नयनेन्दिन्दिरानन्दमन्दिरं मिलदिन्दिरम्‌ ।
इदमिन्दीवरं मन्ये सुन्दराङ्गि तवाननम्‌ ॥114॥

नयने सुदृशां पुरो रिपूणां वचने वश्यगिरां महाकवीनाम्‌ ।
मिथिलापतिनन्दिनीभुजान्तःस्थित एव स्थितिमाप रामचन्द्रः ॥115॥

नवप्रसङ्गं दयितस्य लोभादङ्गीकरोति स्म यदा नताङ्गी ।
श्लथं तदालिङ्गनमप्यकस्माद्‌ घनो निनादैर्घनतां निनाय ॥116॥

नवाङ्गनेवाङ्गणेऽपि गन्तुमेष प्रकम्पते ।
इयं सौराष्ट्रजा नारी महाभट इवोद्भटा ॥117॥

नवोच्छलितयौवनस्फुरदखर्वगर्वज्वरे
मदीयगुरुकार्मुकं गलितसाध्वसं वृश्चति ।
अयं पततु निर्दयं दलितदृप्तभूभृद्गल-
स्खलद्रुधिरघस्मरो मम परश्वधो भैरवः ॥118॥

निखिलजगन्महनीया यस्याभा नवपयोधरवत्‌ ।
अम्बुजवद्‌ विपुलतरे नयने तद्‌ ब्रह्म संश्रये सगुणम्‌ ॥119॥

निखिले निगमकदम्बे लोकेष्वप्येष निर्विवादोऽर्थः ।
शिव इव गुरुर्गरीयान्‌ गुरुरिव सोऽयं सदाशिवोऽपि तथा ॥120॥

नितरां धनमाप्तुमर्थिभिः क्षितिप त्वां समुपास्य यत्नतः ।
निधनं समलम्भि तावकी खलु जनवाञ्छितप्रदा ॥121॥

नितरां हितयाद्य निद्रया मे बत यामे चरमे निवेदितायाः ।
सुदृशो वचनं शृणोमि यावन्‌ मयि तावत्‌ प्रचुकोप वारिवाहः ॥122॥

नितान्तं यौवनोन्मत्ता गाढरक्ताः सदाहवे ।
वसुन्धरां समालिङ्ग्य शेरते वीर तेऽरयः ॥123॥

नितान्तरमणीयानि वस्तूनि करुणोज्झितः ।
कालः संहरते नित्यमभावादिव चक्षुषः ॥124॥

निरपायं सुधापायं पयस्तव पिबन्ति ये ।
जह्नुजं निर्जरावासं वसन्ति भुवि ते नराः ॥125॥

निर्मलाम्बररम्यश्रीः किंचिद्दर्शिततारका ।
हंसावलीहारयुता शरद्‌ विजयतेतराम्‌ ॥126॥

निशाकरादालि कलङ्कपङ्किलाद्गुणाधिकं निर्मलमाननं ते ।
अनल्पमाधुर्यकिरोऽधरादिमा गिरोऽधरा गुप्तरसाः कवीनाम्‌ ॥127॥

निष्कलङ्क निरातङ्क चतुःषष्टिकलाधर ।
सदापूर्ण महीप त्वं चनद्रोऽसीति मृषा वचः ॥128॥

नीतो नासान्तिकं तन्व्या मालत्याः कुसुमोत्करः ।
बन्धूकभावमानिन्ये रागेणाधरवर्तिना ॥129॥

नृत्यत्त्वद्वाजिराजिप्रखरखुरपुट्प्रोद्धतैर्धूलिजालै-
रालोकालोकभूमीधरमतुलनिरालोकभावं प्रयाते ।
विश्रान्तिं कामयन्ते रजनिरिति धिया भूतले सर्वलोकाः
कोकाः क्रन्दन्ति शोकानलविकलतया किं च नन्दन्त्युलूकाः ॥130॥

पञ्चशाखः प्रभो शाका सुरतरोरसौ ।
अन्यथानेन पूर्यन्ते कथं सर्वमनोरथाः ॥131॥

पद्मपत्रैर्नृणां नेत्रैः सह लोकत्रयश्रिया ।
उन्मीलन्तो निमीलन्तो जयन्ति सवितुः कराः ॥132॥

पद्मासनप्रमुखनिर्जरचित्तवृत्ति-
दुष्प्रापदिव्यमहिमन्‌ भवतो गुणौधान्‌ ।
तुष्टूषतो मम नितान्तविशृङ्खलस्य
मन्तुं शिशोः शिव न मन्तुमिहासि योग्यः ॥133॥

परिफुल्लाब्जनयना चन्द्रिका चारुहासिनी ।
हंसावलीहारयुता शरद्‌ विजयतेतराम्‌ ॥134॥

पाण्डित्यं परिहृत्य यस्य हिकृते बन्दित्वमालम्बितं
दुष्प्रापं मनसापि यो गुरुतरैः क्लेशैः पदं प्रापितः ।
रूढस्तत्र स चेन्‌ निगीर्य सकलां पूर्वोपकारावलीं
दुष्टः प्रत्यवतिष्ठते तदधुना कस्मै किमाचक्ष्महे ॥135॥

पूर्वं नयनयोर्लग्ना ततो मग्ना मनस्यभूत्‌ ।
अथ सैव प्रियस्यासीत्‌ सर्ववेदनगोचरा ॥136॥

प्रथमं श्रितकञ्जकोरकाभावथ शोभामनुभूय कन्दुकानाम्‌ ।
अधुना श्रयितुं कुचौ यतेते दयिते ते करिशावकुम्भलीलाम्‌ ॥137॥

प्रफुल्लकह्लारनिभा मुखश्री रदच्छदः कुङ्कुमरम्यरागः ।
नितान्तशुद्धा तव तन्वि वाणी विभाति कर्पूरपरम्परेव ॥138॥

प्रमोदभरतुन्दिलप्रमथदत्ततालावली-
विनोदिनी विनायके डमरुडिण्डिमध्वानिनि ।
ललाटतटविस्फटन्नवकृपीटयोनिच्छटो
हठोद्धतजटोद्भटो गतपटो नटो नृत्यति ॥139॥

प्राणापहरणेनासि तुल्यो हालाहलेन मे ।
शशाङ्क केन मुग्धेन सुधांशुरिति भाषितः ॥140॥

प्राणेशविरहक्लान्तः कपोलस्तव सुन्दरि ।
मनोभवव्याधिमत्त्वान्‌ मृगाङ्कः खलु निर्मलः ॥141॥

प्रायः पतेद्‌ द्यौः शकलीभवेद्‌ ग्लौः
सहाचलैरम्बुधिभिः स्खलेद्‌ गौः ।
नूनं ज्वलिष्यन्ति दिशः समस्ता
यद्‌ द्रौपदी रोदिति हा हतेति ॥142॥

बहु मन्यामहे राजन्‌ न वयं भवतः कृतिम्‌ ।
विपद्भिः सह दीयन्ते सम्पदो भवता यतः ॥143॥

बाहुजानां समस्तानामभाव इव मूर्तिमान्‌ ।
जयत्यतिबलो लोके जामदग्न्यः प्रतापवान्‌ ॥144॥

बुद्धिरद्धिर्महीपाल यशस्ते सुरनिम्नगा ।
कृतयस्तु शरत्कालचारुचन्दिरचन्द्रिका ॥145॥

बुद्धिर्दीपकला लोके यया सर्वं प्रकाशते ।
अबुद्धिस्तामसी रात्रिर्यया किंचिन्‌ न भासते ॥146॥

ब्रह्माम्डमण्डले भान्ति न ये पिण्डीकृता अपि ।
परस्परापरिचिता वसन्ति त्वयि ते गुणाः ॥147॥

भुजगाहितप्रकृतयो गारुडमन्त्रा इवावनीरमण ।
तारा इव भटास्तस्य परमोन्नतविग्रहाः ॥148॥

भूधरा इव मत्तेभा मत्तेभा इव सूनवः ।
सुता इव भटास्तस्य परमोन्नतविग्रहाः ॥149॥

भूमीनाथ शहाबदीन भवतस्तुल्यो गुणानां गणै-
रेतद्भूतभवप्रपञ्चविषये नास्तीति किं ब्रूमहे ।
धाता नूतनकारणैर्यदि पुनः सृष्टिं नवां भावयेन्‌
न स्यादे व तथापि तावकतुलालेशं दधानो नरः ॥150॥

भूषितानि हरेर्भक्तैर्दूषितानि पराङ्मुखैः ।
स्वकुलं नगरं देशो द्वीपं सर्वा च मेदिनी ॥151॥

मध्येगलं विहरतां मरलं निकामं
नागाधिपः शिरसि भालतले हुताशः ।
ध्याता भवज्वलनमध्यगतैस्तथापि
तापं तदैव हरते हर ते तनुश्रीः ॥152॥

मनुष्य इति मूढेन खलः केन निगद्यते ।
अयं तु सज्जनाम्भोजवनमत्तमतङ्गजः ॥153॥

मन्त्रार्पितहविर्दीप्तहुताशनतनूभुवः ।
शिखास्पर्शेन पाञ्चाल्याः स्थाने दग्धः सुयोधनः ॥154॥

मन्मथामात्यमायान्तमहं मन्ये महामहम्‌ ।
चक्षुश्चमत्कृतिं धत्ते यदहो किल कोकिलः ॥155॥

मा कुरु कशां कराब्जे करुणावति कम्पते मम स्वान्तम्‌ ।
खेलन्‌ न जातु गोपैरम्ब विलम्बं करिष्यामि ॥156॥

माधुर्यपरमसीमा सारस्वतजलधिमथनसम्भूता ।
पिबतामनल्पसुखदा वसुधायां ननु सुधा कविता ॥157॥

मामनुरक्तां हित्वा यदि राजन्‌ पुरुषसिंह यातोऽसि ।
मुक्त्वा वनमिदमेष्यति वनलक्ष्मीमत्र किं चित्रम्‌ ॥158॥

मां पाहीति विधिर्विधेयविषयो वाच्यः स्वतनत्रे कथं
नोपेक्ष्यो भवतास्मि दीन इति गीः श्लाध्या न संख्यावताम्‌ ।
एवं दोषविचारणाकुलतया देव त्वयि प्रोन्मुखे
वक्तव्यप्रतिभादरिद्रमतयः किंचिन्‌ नहि ब्रूमहे ॥159॥

मित्रात्रिपुत्रनेत्राय त्रयीशात्रवशत्रवे ।
गोत्रारिगोत्रजत्राय गोत्रात्रे ते नमो नमः ॥160॥

मुकुलितनयनं करिणो गण्डं कण्डूयतो विषद्रुतटे ।
उदभूदकाण्डदहनज्वालाजालाकुलो देहः ॥161॥

यस्य तुलामधिरोहसि लोकोत्तरवर्णपरिमलोद्गारैः ।
कुसुमकुलतिलक चम्पक न वयं तं जातु जानीमः ॥162॥

यिक्तं तु याते दुवमासफेन्दौ तदाश्रितानां यदभूद्‌ विनाशः ।
इदं तु चित्रं भुवनावकाशे निराश्रया खेलति तस्य कीर्तिः ॥163॥

रमणीयस्तबकयुता विलसितवक्षोजयुगलशालिन्यः ।
लतिका इव ता वनिता वनिता इव रेजिरे लतिकाः ॥164॥

रम्यहासा रसोल्लासा रसिकालिनिषेविता ।
सर्वाङ्गशोभासम्भारा पद्मिनी कस्य न प्रिया ॥165॥

रवितुरगदिग्गजेषु स्वर्णाचलजलधिधनदकोषेषु ।
सत्स्वेव राजपुङ्गव किं दातास्मीति गर्वमावहसि ॥166॥

रागं विना विराजन्ते मुनयो मणयस्तु न ।
कौटिल्येन विना भाति नरो न कबरीभरः ॥167॥

राजन्‌ प्रचण्डमार्तण्डमण्डलोद्दण्‍डशासन ।
कथमक्रूरसत्त्वस्त्वं पयोधिरिव गीयसे ॥168॥

लङ्कापुरादतितरां कुपितः फणीव
निर्गत्य जातु पृतनापतिभिः परीतः ।
क्रुद्धं रणे सपदि दाशरथिं दसास्यः
संरब्धदाशरथिदर्शमहो ददर्श ॥169॥

लता कुसुमभारेण शीलभारेम सुन्दरी ।
कविता चार्थभारेण श्रयते कामपि श्रियम्‌ ॥170॥

लावण्येन प्रमदा मदातिरेकेण वारणाधिपतिः
भाति विभवेन बवकान्‌ राजन्‌ भवता च वसुमतीवलयम्‌ ॥171॥

लोहितपीतैः कुसुमैरावृतमाभाति भूभृतः शिखरम्‌ ।
दावज्वलनज्वालैः कदाचिदाकीर्णमिव समये ॥172॥

वचने तव यत्र माधुरी सा हृदि पूर्णा करुणा च कोमलेऽभूत्‌ ।
आदुना हरिणाक्षि हा कथं वा कटुता तत्र कठोरताविरासीत्‌ ॥173॥

वदनं विना सुकवितां सदनं साध्वीं विना वनिताम्‌ ।
राज्यं च विना धनितां न नितान्तं भवति कमनीयम्‌ ॥174॥

वराका यं राकारमण इति वल्गन्ति सहसा
सरः स्वच्छं मन्ये मिलदमृतमेतन्‌ मखभुजाम् ।
अमुष्मिन्‌ या कापि द्युतिरतिघना भाति मिषता-
मियं नीलच्छायादुपरि निरपायाद्‌ गगनतः ॥175॥

वसु दातुं यशो धातुं विधातुमरिमर्दनम्‌ ।
त्रातुं च मादृशान्‌ राजन्नतीव निपुणो भवान्‌ ॥176॥

वसुधावलयपुरंदर विलसति भवतः करम्भोजे ।
चिन्तामणिकल्पद्रुमकामगवीभिः कृतं जगति ॥177॥

वागिव मधुरा मूर्तिर्मूर्तिरिवात्यन्तनिर्मला कीर्तिः ।
कीर्तिरिव जगति सर्वस्तवनीया मतिरमुष्य विभोः ॥178॥

वामाकल्पितवामाङ्गो भासते भाललोचनः ।
शम्पया संपरिष्वक्तो जीमूत इव शारदः ॥179॥

वारिधिराकाशसमो वारिधिसदृशस्तथाकाशः ।
सेतुरिव स्वर्गङ्गा स्वर्गङ्गेवान्तरा सेतुः ॥180॥

विज्ञत्वं विदुषां गणे सुकवितां सामाजिकानां कुले
माङ्गल्यं स्वजनेषु गौरवमथो लोकेषु सर्वेष्वपि ।
दुर्वृत्तेऽशनितां नृलोकवलये राजनत्वमव्याहतं
मित्रत्वं च वहन्नकिंचनजने देव त्वमेको भुवि ॥181॥

विद्धा मर्मणि वाग्बाणैर्घूर्णन्ते साधवः खलैः ।
सद्भिर्वचोऽमृतैः सिक्ताः पुनः स्वस्था भवन्ति ते ॥182॥

विद्धत्सु विमलज्ञाना विरक्ता यतिषु स्थिताः ।
स्वीयेषु तु गरोद्गारा नानाकाराः क्षितौ खलाः ॥184॥

विमुञ्चसि यदि प्रिय प्रियतमेति मां मन्दिरे
तदा सह नयस्व मां प्रणययन्त्रणायन्त्रितः ।

अथ प्रकृतिभीरुरित्यकिलभीतिभङ्गक्षमान्‌
न जातु भुजमण्डलादवहितो बहिर्भावय ॥185॥

विष्णुवक्षः स्थितो भाति नितरां कौस्तुभो मणिः ।
अङ्गारक इवानेकतारके गगनाङ्गणे ठ ॥186॥

व्योमाङ्गणे सरसि नीलिमदिव्यतोये
तारावलीमुकुलमण्डलमण्डितेऽस्मिन्‌ ।
आभाति षोडशकलादलमङ्कभृङ्गं
सूराभिमुख्यविकचं शशिपुण्डरीकम्‌ ॥187॥

शरदिन्दुरिवाह्लादजनको रधुनन्दनः ।
वनस्त्रजा विभाति स्म सेन्द्रचाप इवाम्बुदः ॥188॥

शरीरं ज्ञानजननं रोगो विष्णुस्मृतिप्रदः ।
विपद्‌ वैराग्यजननी त्रयं सुखकरं सताम् ॥189॥

शान्तिमिच्छसि चेदाशु सतां वागमृतं श्रृणु ।
हृदये धारणाद्‌ यस्य न पुनः खेदसंभवः ॥190॥

शीलभारवती कान्ता पुष्पभारवती लता ।
अर्थभारवती वाणी भजते कामपि श्रियम्‌ ॥191॥

शैत्यं विना न चनद्रश्रीर्न दीपः प्रभया विना ।
न सौगन्ध्यं विना भाति मालतीकुसुमोत्करः ॥192॥

श्येनमम्बरतलादुपागतं शुष्यदाननबिलो विलोकयन्‌ ।
कम्पमानतनुराकुलेक्षणः स्पन्दितुं नहि शशाक लावकः ॥193॥

श्रीतातपादैर्विहिते निबन्धे निरूपिता नूतनयुक्तिरेषा ।
अङ्गं गवां पूर्वमहो पनित्रं न वा कथं रासभधर्मपत्न्याः ॥194॥

सदसद्विवेकरसिकैरालोक्य समस्तलोकमथ कविभिः ।
गणिता गगनलतादेर्गणनायां तन्वि तव सदृशी ॥195॥

सदृशी तव तन्वि निर्मिता विधिना नेति समस्तसंमतम्‌ ।
अथ चेन्‌ निपुणं विभाव्यते मतिमारोहति कौमुदी मनाक्‌ ॥196॥

सदैव स्नेहार्द्रे सुरतटिनि निष्किंचनजने
यदि त्वं नाधत्से सुरभिरिव वत्से मयि कृपाम्‌ ।
तदा चिन्तारत्नत्रिदशपतिभूमीरुहमुखा
ददीरननर्थिभ्यः किमिति कणभिक्षामपि जडाः ॥197॥

स पण्डितो यः स्वहितार्थदर्शी हितं च तद्‌ यत्र परानपक्रियाः ।
परे च ते ये श्रितसाधुभावा सा साधुता यत्र चकास्ति केशवः ॥198॥

संपदा संपरिष्वक्तो विद्यया चानवद्यया ।
नरो न शोभते लोके हरिभक्तिरसं विना ॥199॥

सरसिजवनबन्धुक्षीसमारम्भकाले
रजनिरमणराज्ये नाशमाशुप्रयाति ।
परमपुरुषवक्त्रादुद्गतानां नराणां
मधुमधुरगिरां च प्रादुराशीद्‌ विनोदः ॥200॥

सम्भूत्यर्थं सकलजगतो विष्णुनाभिप्रपन्नं
यन्नालं स त्रिभुवनगुरुर्वेदनातो विरिञ्चिः ।
ध्येयं धन्यालिभिरतितरां स्वप्रकाशस्वरूपं
पद्माख्यं तत्‌ किमपि ललितं वस्तु वस्तुष्टयेऽस्तु ॥201॥

सरसि प्लवदाभाति जम्बीरं सुपचेलिमम्‌ ।
आदिकारणतोयौघ इव ब्रह्माण्डमण्डलम्‌ ॥202॥

सर्प इव शान्तमूर्तिः श्वेवायं मानपरिपूर्णः ।
क्षीब इव सावधानो मक्रट इव निष्क्रियो नितराम्‌ ॥203॥

संसारे चेतनास्तत्र विद्वांसस्तत्र साधवः ।
साधुष्वपि स्पृहाहीनास्तेषु धन्या निराशयाः ॥204॥

साम्राज्यलक्ष्मीरियमृष्यकेतोः सौन्दर्यसृष्टेरधिदेवता वा ।
रामस्य रामामवलोक्य लोकैरिति स्म दोला रुरुहे तदानीम्‌ ॥205॥

साहंकारसुरासुरावलिकराकृष्टभ्रमन्मन्दर-
क्षुभ्यत्क्षीरधिवल्गुवीचिवलयश्रीगर्वसर्वंकषाः ।
तृष्णाताम्यदमन्दतापसकुलैः सानन्दमालोकिता
भूमीभूषण भूषयन्ति भुवनाभोगं भवत्कीर्तयः ॥206॥

सिन्दूरारुणवपुषो देवस्य रदाङ्कुरो गणाधिपतेः ।
सन्ध्याशोणाम्बरगतनवेन्दुलेखायितः पातु ॥207॥

सुजनाः परोपकारं शूराः शस्त्रं कृपणाः ।
कुलवत्यो मन्दक्षं प्राणात्यय एव मुञ्चन्ति ॥208॥

सुधायाश्चन्द्रिकायाश्च संजीविन्या महौषधेः ।
दयादृष्टेश्च ते राजन्‌ विश्वसंजीवनं गुणः ॥209॥

सुधासमुद्रं तव रम्यवाणी वाचं क्षमाचन्द्र सुधासमुद्रः ।
माधुर्यमध्यापयितुं दधाते खर्वेतरामान्तरगर्वमुद्राम्‌ ॥210॥

सुराङ्गनाभिराश्लिष्टा व्योम्नि वीरा विमानगाः ।
विलोकन्ते निजान्‌ देहान्‌ फेरुनारीभिरावृतान्‌ ॥211॥

सुराणामारामादिह झगिति झञ्झानिलहताः
पतेयुः शाखीन्द्रा यदि तदखिलो नन्दति जनः ।
किमेभिर्वा कार्यं शिव विवेकेन विकलैः
चिरं जीवननास्तामधिधरणि दिल्लीनरपतिः ॥212॥

सुवर्णस्य कृते तन्वि देशं देशमटाम्यहम्‌ ।
तस्य दुष्प्रापताहेतोश्चिन्ताक्रान्तं मनो मम ॥213॥

सूर्याचन्द्रमसौ यस्य वासो रञ्जयतः करैः ।
अङ्गरागं सृजत्यग्निस्तं वन्दे परमेश्वरम्‌ ॥214॥

स्तनान्तर्गतमाणिक्यवपुर्बहिरुपागतम्‌ ।
मनोऽनुरागि ते तन्वि मन्ये वल्लभमीक्षते ॥215॥

स्मरदीपदीप्तदृष्टेर्घनान्धकारेऽपि पतिगृहं यान्त्याः ।
झटिति प्रादुरभूवन्‌ सख्यादिव चञ्चलाः परितः ॥216॥

स्वर्गनिर्गतनिर्गलगङ्गातुभ्गभङ्गुरतरङ्गसखानाम्‌ ।
केवलामृतमुचां वचनानां यस्य लास्यगृहमास्यसरोजम्‌ ॥217॥

स्वर्गापवर्गौ खलु दानलक्ष्मीर्दानं प्रसूते विपुला समृद्धिः ।
समृद्धिमल्पेतरभागधेयं भाग्यं च शम्भो तव पादभक्तिः ॥218।

हतकेन मया वनान्तरे वनजाक्षी सहसा विवासिता ।
अधुना मम कुत्र सा सती पतितस्येव परा सरस्वती ॥219॥

हरिः पिता हरिर्माता हरिर्भ्राता हरिः सुहृत्‌ ।
हरिं सर्वत्र पश्यामि हरेरन्यन्‌ न भाति मे ॥220॥

हरिकरसङ्गादधिकं रमणीयाप्यतुलरागसंवलिता ।
सुन्दरि तवाननाग्रे कमलाभा विगलितप्रतिभा ॥221॥

हरिचरणकमलनखगणकिरणश्रेणीव निर्मला नितराम्‌ ।
शिशिरयतु लोचनं मे देवव्रतपुत्रिणी देवी ॥222॥

हरिचरणनखरसङ्गादेके हरमूर्धसंस्थितेरन्ये ।
त्वां प्रहुः पुण्यतमामपरे सुरतटिनि वस्तुमाहात्म्यात्‌ ॥223॥

हरिमागतमाकर्ण्य मथुरामन्तकान्तकम्‌ ।
कम्पमानः श्वसन्‌ कंसो निपपात महीतले ॥224॥

हरिश्चन्द्रेण सैज्ञप्ताः प्रगीता धर्मसूनुना ।
खेलन्ति निगमोत्सङ्गे मातर्गङ्गे गुणास्तव ॥225॥

हर्षयन्ति क्षणादेव क्षणादेव दहन्ति च ।
यूनः स्मरपराधीनान्‌ निर्दया हन्त योषितः ॥226॥

हालाहलकालानलकाकोदरसंगतिं करोति विधुः ।
अभ्यसितुमिव तदीयां विद्यामद्यापि हरशिरसि(गतः) ॥227॥

हिंसाप्रधानैः खलु यातुधानैर्यानीयतापावनातां सदेव ।
रामाङ्घ्रियोगादथ सापि वन्या विन्ध्यस्य धन्यास्त मुनेः सतीव ॥228॥

हीरस्फुरद्रदनशुभ्रिमसोभि किं च
सान्द्रामृतं वदनमेणविलोचनायाः ।
वेधा विधाय पुनरुक्तमिवेन्दुबिम्बं
दूरीकरोति न कथं विदुषां वरेण्यः ॥229॥

************

]