शृङ्गारविलासः

[[शृङ्गारविलासः Source: EB]]

[

      ***शृङ्गारविलासः***

न मनागपि राहुरो,शङ्का न कलङ्कानुगमो न पाण्डुभावः ।
उपचीयत एव कापि शोभा परितो भोमिनि ते मुखस्य नित्यम्‌ ॥1॥

नितरां परुषा सरोजमाला न मृणालानि विचारपेशलानि ।
यदि कोमलता तवङ्गकानामथ का नाम कथापि पल्लवानाम्‌ ॥2॥

स्वेदाम्बुसान्द्रकमसालिकपोलपाली-
दोलायितश्रवणकुण्डलमण्डनीया ।
आनन्दमङ्‌कुरयति स्मरणेन कापि
रम्या दशा मनसि मे मदिरेक्षणायाः ॥3॥

कस्तूरिकातिलकमालि विधाय सायं
स्मेरानना सपदि शीलय सौधमौलिम्‌ ।
प्रौढिं भंजन्तु कुमुदानि मुदामुदारा-
मुल्लासयन्तु परितो हरितो मुखानि ॥4॥

तन्‌ मञ्जु मन्दहसितं श्वसितानि तानि
सा वै कलङ्कविधुरा मधुराननश्रीः ।
अद्यापि मे हृदयमुन्मदयन्ति हन्त
सायंतनाम्बुजसहोदरोचनायाः ॥5॥

प्रातस्तरां प्रणमने विहिते गुरूणामाकर्ण्य वाचममलां भव पुत्रिणीति ।
नेदीयसि प्रियतमे परमप्रमोदपूर्णादरं दयितया दधिरे दृगन्ताः ॥6॥

गुरुजनभयमद्विलोकनान्तःसमुदयदाकुलभावमावहन्त्याः ।
दरदलदरविन्दसुन्दरं हा हरिणदृशो नयनं न विस्मरामि ॥7॥

बदरामलकाम्रदाडिमानामपहृत्य श्रियमुन्नतौ क्रमेण ।
अधुना हरणे कुचौ यतेते दयिते ते करिशावकुम्भलक्ष्म्याः ॥8॥

कपोलपालिं तव तन्वि मन्ये लावण्यधन्ये दिशमुत्तराख्याम्‌ ।
विभाति यस्यां ललितालकायां मनोहरा वैश्रवणस्य लक्ष्मीः ॥9॥

नीवीं नियम्य शिथिलामुषसि प्रकाश-
मालोक्य वारिजदृशः शयनं जिहासोः ।
नैवावरोहति कदापि च मानसान्‌ मे
नाभेः प्रभा सरसिजोदरसोदरायाः ॥10॥

आलीषु केलीरभसेन बाला मुहुर्ममालापमुपालपन्ती ।
आरादुपाकर्ण्य गिरं मदीयां सौदामिनीयां सुषमामयासीत्‌ ॥11॥

मुधैव मन्तुं परिकल्प्य गन्तुं मृषैव रोषादुपजल्पतो मे ।
उदश्रु चञ्चन्नयना नताङ्गी गिरं न कां कामुररीकरोति ॥12॥

तदवधि कुशली पुराणशास्त्रस्मृतिशतचारजो विवेकः ।
यदवधि न पदं दधाति चित्ते हरिणकिशोरदृशो दृशोर्विलासः ॥13॥

आगतः पतिरितीरितं जनैः शृणवती चकितमेत्य देहलीम्‌ ।
कौमुदीव शिशिरीकरिष्यते लोचने मम कदा मृगेक्षणा ॥14॥

अवधौ दिवसावसानकाले भवनद्वारि विलोचने दधाना ।
अवलोक्य समागतं तदा मामथ रामा विकसन्मुखी बभूव ॥15॥

वक्षोजाग्रं पाणिनामृश्य दूरं यातस्य द्रागाननाब्जं प्रियस्य ।
शोणाग्राभ्यां भामिनी लोचनाभ्यां जोषं जोषं जोषमेवावतस्थे ॥16॥

गुरुभिः परिवेल्लितापि गण्डस्थलकण्डूयनचारुकैतवेन ।
दरदर्शितहेमहाहुनाला मयि बाला नयनाञ्चलं चकार ॥17॥

गुरुमध्यगता मया नताभ्गी निहता नीरजकोरकेण मन्दम्‌ ।
दरकुण्डलताण्डवलवे नतभ्रूलतिकं मामवलोक्य घूर्णितासीत्‌ ॥18॥

विनये नयनारुणप्रसाराः प्रणतौ हन्त निरन्तराश्रुधाराः ।
अपि जीवितसंशयः प्रयाणे नहि जीने हरिणाक्षि केन तुष्येः ॥19॥

अकरुण म-षाभाषासिन्धो विमुञ्च ममाञ्चलं
तव परिचितः स्नेहः सम्यङ्‌ मयेत्यभिधायिनीम्‌ ।
अविरलगलद्बाष्पां तन्वीं निरस्तविभूषणां
क इह भवतीं भद्रे निद्रे विना विनिवेदयेत्‌ ॥20॥

तीरे तरुण्या वदनं सहासं नीरे सरोजं च मिलद्विकासम्‌ ।
आलोक्य धावत्युभयत्र मुग्धा मरन्दलुब्धालिकिशोरमाला ॥21॥

वीक्ष्य वक्षसि विपक्षकामिनीहारलक्ष्म दयितस्य भामिनी ।
अंसदेशविनिवेशितां क्षणादाचकर्ष निजबाहुवल्लरीम्‌ ॥22॥

दरानमत्कंधरबन्धमीषन्निमीलितस्निग्धविलोचनाब्चजाम्‌ ।
अनल्पनिःश्वासभरालसाङ्‌गं स्मरामि सङ्गं चिरमङ्गनायाः ॥23॥

रोषावेशान्‌ निर्गतं यामयुग्मादेत्य द्वारं कांचिदाख्यां गृणन्तम्‌ ।
मामाज्ञायैवाययौ कातराक्षी मन्दंमन्दं मन्दिरादिन्दिरेव ॥24॥

हृदये कृतशैवलानुषङ्गा मुहुरङ्गानि य(इ)तस्ततः क्षिपन्ती ।
प्रियनामपरे मुखे सखीनामतिदीनामियमादधाति दृष्टिम्‌ ॥25॥

इत एव निजालयं गताया वनिताया गुरुभिः समावृतायाः ।
परिवर्तितकंधरं नतभ्रु स्मयमानं वदनाम्बुजं स्मरामि ॥26॥

कथय कथमिवाशा जायतां जीविते मे
मलयभुजगवान्ता वान्ति वाताः कृतान्ताः ।
अयमपि खलु गुञ्जन्‌ मञ्जु माकन्दमौलौ
चुलुकयति मदीयां चेतनां चञ्चरीकः ॥27॥

निरुध्य यान्तीं तरसा कपोतीं कूजत्कपोतस्य पुरो दधाने ।
मयि स्मितार्द्रं वदनारविन्दं सा मन्दमन्दं नमयांबभूव ॥28॥

तिमिरं हरन्ति हरितां पुरः स्थितं
तिरयन्ति तापमथ तापशालिनाम्‌ ।
वदनत्विषस्तव चकोरलोचने
परिमुद्रयन्ति सरसीरुहश्रियः ॥29॥

कुचकलशयुगान्तर्मामकीनं नखाङ्कं
सपुलकतनु मन्दं मन्दमालोकयन्ती ।
विनिहितवदनं मां वीक्ष्य बाला गवाक्षे
चकितनतनताङ्गी सद्म सद्यो विवेश ॥30॥

विधाय सा मद्वदनानुकीलं कपोलमूलं हृदये शयाना ।
तन्वी तदानीमतुलां बलारेः साम्राज्यलक्ष्मीमधरीचकार ॥31॥

मुहुरर्थितयाद्य निद्रया मे बत यामे चरमे निवेदितायाः ।
चिबुकं सुदृशो मृशामि यावन्मयि तावन्मुदिरोऽपि निर्दयोऽभूत्‌ ॥32॥

श्रुतिशतमपि भूयः शीलितं भारतं वा
विरचयति तथा नो हन्त सन्तापशान्तिम्‌ ।
अयि सपदि यथायं केलिविश्रान्तकान्ता-
वदनकमलवलात्कान्तिसान्द्रो नकारः ॥33॥

लवलीं तव लीलया कपोले कवलीकुर्वति कोमलत्विषा ।
परिपाण्डुरपुण्डरीकखण्‍डे परिपेतुः परितो महाधयः ॥34॥

यौवनोद्गमनितान्तशङ्किताः शीलशौर्यबलकन्तिलोभिताः ।
संकुचन्ति विकसन्ति राघवे जानकीनयननीरजश्रियः ॥35॥

अधिरोप्य हरस्य हन्त चापं परितापं प्रशमय्य बान्धवानाम्‌ ।
परिणेष्यति वा युवा न वायं निरपायं मिथिलाधिनाथपुत्रीम्‌ ॥36॥

भुजपञ्जरे गृहीता नवपरिणीता वरेण रहसि वधूः ।
तत्कालजालपतिता बालकुरङ्गीव वेपते नितराम् ॥37॥

उपनिषदः परिपीता गीतापि च हन्त मतिपथं नीता ।
तदपि न हा विधुवदना मानससदनाद्‌ बहिर्याति ॥38॥

अकरुणहृदय प्रियतम मुञ्चामि त्वामितः परं नाहम्‌ ।
इत्यालपति कराम्बुजमादायालीजनस्य विकला सा ॥39॥

लोभाद्‌ वराटिकानां विक्रेतुं तक्रमक्रममटन्त्या ।
लब्धो गोपकिशोर्या मध्येरथ्यं महेन्द्रनीलमणिः ॥40॥

रूपारुचिं निरसितुं रसयन्त्या हरिमुखस्य लावण्यम्‌ ।
शिव शिव मुदृशः सकले जाता सकलेवरे जगत्यरुचिः ॥41॥

किं जल्पसि मुग्धतया दन्त ममाङ्गं सुवर्णमिति ।
तद्‌ यदि पतति हुताशे तदा हताशे तुलां तवारोहेत्‌ ॥42॥

औत्सुक्यात्‌ परिमिलतां त्रपया संकोचमञ्चतां च मुहुः ।
नवसंगमयोर्यूनोर्नयनानामुत्सवो जयति ॥43॥

गरिमाणमर्पयित्वा लघिमानं कुचतटात्‌ कुरङ्गदृशाम्‌ ।
स्वीकुर्वते नमस्ते यूनां धैर्याय निर्विवेकाय ॥44॥

न्यञ्चति वयसि प्रथमे समुदञ्चति किञ्च तरुणिमनि सुदृशः ।
दधति स्म मधुरिमाणं वाचो गतयश्च विभ्रमाश्च भृशम्‌ ॥45॥

निःसीमशोभासौभाग्यं नताङ्ग्या नयनद्वयम्‌ ।
अन्योन्यालोकनानन्दविरहादिव चञ्चलम्‌ ॥46॥

गुरुमध्ये हरिणाक्षी मार्तिकशकलैर्निहन्तुकामं माम्‌ ।
रदयनत्‌रितरसनाग्रं तरलितनयनं निवारयांचक्रे ॥47॥

नयनाञ्चलावमर्शं या न कदाचित्‌ पुरा सेहे ।
आलिङ्गितापि जोषं तस्थौ सा गन्तुकेन दयितेन ॥48॥

मानपराग्वदनापि प्रिया शयानेव दयितकरकमले ।
उद्वेल्लद्भुजमलसग्रीवाबन्धं कपोलमाधत्ते ॥49॥

लोचनफुल्लाम्भोजद्वयलोभान्दोलितैकमनाः ।
कस्तूरीतिलकमिषादयमलिकेऽलिस्तवोल्लसति ॥50॥

अधिरजनि प्रियसविधे कथमपि संवेशिता गुरुभिः ।
किं भवितेति सशङ्कं पङ्कजनयना परामृशति ॥51॥

चिन्तामीलितमानसो मनसिजः सख्यो विहीनप्रभाः
प्राणेशः प्रणयाकुलः पुनरसावास्तां समस्ता कथा ।
एतत्‌ त्वां विनिवेदयामि मम चेदुक्तिं हितां मन्यसे
मुग्धे मा कुरु मानमाननमिदं राकापतिर्जेष्यति ॥52॥

अलंकर्तुं कर्णौ भुशमनुभवन्त्या नवरुजं
ससीत्कारं तिर्यग्वलितवदनाया मृगदृशः ।
कराब्जव्यापारानतिसुकृतसारान्‌ रसयतो
जनुः सर्वश्लाध्यं जयति ललितोत्तंस भवतः ॥53॥

आयातैव निशा निशापतिकरैः पूर्णं दिशामन्तिरं
भामिन्यो भवनेषु भूषणगणैरङ्गान्यलंकुर्वते ।
मुग्धे मानमपाकरोषि न मनागद्यापि रोषेण ते
हा हा बालमृणालतोऽप्यतितरां तन्वी तनुः क्षाम्यति ॥54॥

वाचो माङ्गलिकीः प्रयाणसमये जल्पत्यनल्पं जने
केलीमन्दिरमारुतायनमुखे विन्यस्तवक्त्‌राम्बुजम्‌ ।
निःश्वासग्लपिताधरं परिपतद्‌बाष्पार्द्रवक्षोरुहा
बाला लोलविलोचना शिव शिव प्राणेशमालोकते ॥55॥

दारिद्र्यं भजते कलानिधिरयं राकाधुना ग्लायति
स्वैरं कैरवकाननेषु परितो मालिन्यमुन्मीलति ।
द्योतन्ते हिदन्तराणि सुहृदां वृन्दं समानन्दति
त्वं चेदञ्चसि काञ्चनाङ्गि वदनाम्भोजे विकासश्रियम्‌ ॥56॥

पाटीरद्रुभुजङ्गपुङ्गवमुखायाता इवातापिनो
वाता वान्ति दहन्ति लोचनममी ताम्रा रसालद्रमाः ।
एते हन्त किरन्ति कूजितमयं हालाहलं कोकिला
बाला बालमृणालकोमलतनुः प्राणान्‌कथंरक्षतु ॥57॥

आयातैव निशा मनो मृगदृशामुन्निद्रमातन्वती
मानो मे कथमेष संप्रति निरातङ्कं हृदि स्थास्यति ।
ऊहापोहमिमं सरोजनयना यावद्‌ विधत्तेतरां
तावत्‌ कामनृपातपत्रसुषमं बिम्बं बभासे विधोः ॥58॥

प्रभातसमयप्रभां प्रणयिनि ह्नुवाना रसा-
दमुष्य निजपाणिना दृशममीलयल्‌ लीलया ।
अयं तु खलु पद्मिनीपरिमलालिपाटच्चरै
रवेरुदयमध्यगादधिकचारु तैर्मारुतैः ॥59॥

विदूरादाश्चर्यस्तिमितमथ किंचित्परिचया-
दुदञ्चच्चाञ्चल्यं तदनु परितः स्फारितरुचि ।
गुरूणां संघातं सपदि मयि याते समजनि
त्रपाघूर्णत्तारं नयनमिह सारङ्गदृशः ॥60॥

कपोलावुन्मीलत्पुलकनिकुरम्बौ मयि मनाक्‌
स्पृशत्यन्तःस्मेरस्तबकितमुखाम्भोरुहरुचः ।
कथंकारं शक्याः परिगदितुमिन्दीवरदृशो
दलद्‌द्राक्षानिर्यद्रसभरसपक्षा भणितयः ॥61॥

राजानं जनयांबभूव सहसा जैवातृक त्वां तु यः
सोऽयं कुण्ठिसर्वशक्तिनिकरो जातो जरातो विधिः ।
संप्रत्युन्मदखञ्जरीटनयनावक्त्राय नित्यश्रिये
दाता राज्यमखण्डमस्य जगतो धाता नवो मन्मथः ॥62॥

आविर्भूता यदवधि मधुस्यन्दिनी नन्दसूनोः
कान्तिः काचिन्‌ निखिलनयनाकर्षणे कार्मणज्ञा ।
श्वासो दीर्घस्तदवधि मुखे पाण्डिमा गण्डमूले
शून्या वृत्तिः कुलमृगदृशां चेतसि प्रादुरासीत्‌ ॥63॥

प्रसङ्गे गोपानां गुरुषु महिमानं यदुपते-
रुपाकर्ण्य स्विद्यत्पुलकितकपोला कुलवधूः ।
विषज्वालाजालं झटिति वमतः पननगपतेः
फणायां साश्चर्यं कथयतितरां ताम्डवविधिम्‌ ॥64॥

कैशोरे वयसि क्रमेण तनुतामायाति तन्व्यास्तना-
वागामिन्यखिलेश्वरे रतिपतौ तत्कालमस्याज्ञया ।
आस्ये पूर्णशशाङ्कता नयनयोस्तादात्म्यमम्भोरुहां
किं चासीदमृतस्य भेदविगमः साचिस्मिते तात्त्विकः ॥65॥

शयिता शैवलशयने सुषमाशेषा नवेन्दुलेखेव ।
प्रियमागतमपि सविधे सत्कुरुते मधुरवीक्षणेनैव ॥66॥

विरहेण विकलहृदया विलपन्ती दयितेति ।
आगतमपि सा सविधे परिचयहीनेव वीक्षते बाला ॥67॥

अधरद्युतिरस्तपल्लवा मुखशोभा शशिकान्तिलङ्घिनी ।
तनुरप्रतिमा च सुभ्रुवो न विधेरस्य कृतिं विवक्षति ॥68॥

व्यत्यस्तं लपति क्षणं क्षणमहो मौनं समालम्बते
सर्वस्मिन्‌ विदधाति किं च विषये दृष्टिं निरालम्बनाम्‌ ।
श्वासं दीर्घमुरीकरोति न मनागङ्गेषु धत्ते धृतिं
वैदेहीविरहव्यथाविकलितो हा हन्त लङ्केश्वरः ॥69॥

उदितं मण्डलमिन्दो रुदितं सद्यो वियोगिवर्गेण ।
मुदितं च सकलललनाचूडामणिशासनेन मदनेन ॥70॥

इदमप्रतिमं पस्य सरः सरसिजैर्वृतम्‌ ।
सखे मा जल्प नारीणां नयनानि दहन्ति माम्‌ ॥71॥

मुञ्चसि नाद्यापि रुषं भामिनि मुदिरालिरुदियाय ।
इति सुदृशः प्रियवचनैरपायि नयनाब्जकोणशोणरुचिः ॥72॥

आलोक्य सुन्दरि मुखं तव मन्दहासं
नन्दन्त्यमन्दमरविन्दधिया मिलिन्दाः ।
किं चासिताक्षि मृगलाञ्छनसम्भ्रमेण
चञ्चूपूटं चटुलयन्ति चिरं चकोराः ॥73॥

स्मितं नैतत्‌ किन्तु प्रकृतिरमणीयं विकसितं
मुखं ब्रूते को वा कुसुममिदमुद्यत्परिमलम्‌ ।
स्तनद्वन्द्वं मिथ्या कनकनिभमेतत्‌ फलयुगं
लता रम्या सेयं भ्रमरकुलनम्या न रमणी ॥74॥

सङ्ग्रामाङ्गणसंमुखाहतकियद्विश्वंभराधीश्वर-
व्यादीर्णीकृतध्यभागविवरोन्मीलन्नभोनीलिमा ।
अङ्गारप्रखरैः करैः कवलयन्नैतन्‌ महीमण्डलं
मार्तण्डोऽयमुदेति केन पशुना लोके शशाङ्कीकृतः ॥75॥

श्यामं सितं च सुदृशोः स्वरूपं
किं तु स्फुटं गरलमेतदथामृतं च ।
नो चेत्‌ कथं निपतनादनयोस्तदैव
मोहं मुदं च नितरां दधते युवानः ॥76॥

अलिर्मृगो वा नेत्रं वा यत्र किंचिद्‌ विभासते ।
अरविन्दं मृगाङ्को वा मुखं वेदं मृगीदृशः ॥77॥

दयिते रदनत्विषां मिषादयि तेऽमी विलसन्ति केसराः ।
अपि चालकवेषधारिणो मकरन्दस्पृहयालवोऽलयः ॥78॥

अनिशं नयनाभिरामया रमया संमदिनो मुखस्य ते ।
निशि निःसरदिन्दिरं कथं तुलयामः कलयापि पङ्कजम्‌ ॥79॥

अङ्गैः सुकुमारतरैः सा कुसुमानां श्रियं हरति ।
विकलयति कुसुमबाणो बाणालीभिर्मम प्राणान्‌ ॥80॥

खिद्यति सा पथि यान्ती कोमलचरणा नितम्बभारेण ।
खिद्यामि हन्त परितस्तद्रूपविलोकनेन विकलोऽहम्‌ ॥81॥

मथुरागमनोन्मुखे मुरारावसुभारार्तिभृतां व्रजाङ्गनानाम्‌ ।
प्रलयज्वलनायते स्म राका भवनाकाशमजायताम्बुराशिः ॥82॥

केलीमन्दिरमागतस्य शनकैरालीरपास्येङ्गिगतैः
सुप्तायाः सरुषः सरोरुहदृशः संवीजनं कुर्वतः ।
जानन्त्याप्यनभिज्ञयेव कपटव्यामीलिताक्ष्या सखि
श्रान्तासीत्यभिधाय वक्षसि तया पाणिर्ममासञ्जितः ॥83॥

मान्थर्यमाप गमनं सह शैशवेन
रक्तं सहैव मनसाधरबहिम्बमासीत्‌ ।
किं चाभवन्‌ मृगकिशोरदृशो निताम्बः
सर्वाधिको गुरुरयं सह मन्मथेन ॥84॥

श्वासोऽनुमानवैद्यः शीतान्यङ्गानि निश्चला दृष्टिः ।
तस्याः सुभग कथेयं तुष्ठतु तावत्‌ कथान्तरं कथय ॥85॥

पाणौ कृतः पाणिरिलासुतायाः सस्वेदकम्पो रघुनन्दनेन ।
हिमाम्बुगङ्गानिलविह्वलस्य प्रभातपद्‌मस्य बभार शोभाम्‌ ॥86॥

अरुणमपि विद्रुमद्रुं मृदुलतरं चापि पल्ललं बाले ।
अधरीकरोति नितरां तवाधरो मधुरिमातिशयात्‌ ॥87॥

नयने वहतां नु खञ्जनानामिह नानाविधमङ्गभङ्गभाग्यम्‌ ।
मुखमेतु तुलां कथं सुशोभं सुदृशो भङ्गुरसम्पदाम्बुजेन ॥88॥

सुदशो जितरत्नजालया सुरतान्तश्रमबिन्दुमालया ।
अलिकेन च हेमकान्तिना विदधे कापि रुचिः परस्परम्‌ ॥89॥

परपूरुषदृष्टिपातवज्राहतिभीता हृदयं प्रियस्चय सीता ।
अविशत्‌ परकामिनीभुजङ्गीभयतः सत्वरमेव सोऽपि तस्याः ॥90॥

जम्बीरश्रियमतिलङ्घ्य लीलयैव व्यानम्रीकृतकमनीयहेमकुम्भौ ।
नीलाम्भोरुहनयनेऽधुना कुचौ ते स्पर्धेते किल कनकाचलेन सार्धम्‌ ॥91॥

अङ्गानि दत्त्वा हेमाङ्गि प्राणान्‌ क्रीणासि चेन्नृणाम्‌ ।
युक्तमेतन्‌ न तु पुनः कोणं नयनपद्‌मयोः ॥92॥

जितरत्नरुचां सदा रदानां सहवासेन परां मुदं दधानाम्‌ ।
विरसादधरीकरोति नासामधुना साहसशालि मौक्तिकं ते ॥93॥

निभाल्य भूयो निजगौरिमाणं मा नाम मानं सहसैव यायाः ।
गृहे गृहे पश्य तवाङ्गवर्णा मुग्धे सुवर्णावलयो लुठन्ति ॥94॥

करिकुम्भतुलामुरोजयोः क्रियमाणां कविभिर्विशृङ्खलैः ।
कथमालि श्रृणोषि सादरं विपरीतार्थविदो हि योषितः ॥95॥

तिरस्कृतो रोषवशात्‌ परिष्वजन्‌
प्रियो मृगाक्ष्या शयितः पराङ्मुखः ।
किं दुःखितोऽसाविति कांदिशीकया
कयाचिदाचुम्ब्य चिराय सस्वजे ॥96॥

चेलाञ्चलेनाननशीतरश्मिं संवृण्वतीनां हरिदृश्वरीणाम्‌ ।
व्रजाङ्गनानां स्मरजातकम्पादकाण्डसम्पातमियाय नीवी ॥97॥

अधरेण समागमाद्रदानामरुणिम्ना पिहितोऽपि शुद्धभावः ।
हसितेन सितेन पक्ष्मलाक्ष्याः पुनरुल्लासमवाप जातपक्षः ॥98॥

सरसिरुहोदरसुरभावधरितबिम्बाधरे मृगाक्षि तव ।
वद वदने मणिरदने ताम्बूलं केन लक्षयेम वयम्‌ ॥99॥

शयिता सविधेऽप्यनीश्वरा सफलीकर्तुमहो मनोरथान्‌ ।
दयिता दयिताननाम्बुजं दरमीलननयना निरीक्षते ॥100॥

किमिति कृशासि कृशोदरि किं तव परकीयवृत्तान्तैः ।
कथय तथापि मुदे मम कथयिष्यति पथिक तव जाया ॥101॥

वदनारविन्दसौरभलोभादिन्दिन्दिरेषु निपतत्सु ।
मय्यधरार्थिनि सुदृशो दृशो जयन्त्यतिरुषा परुषाः ॥102॥

यदवधि दयितो विलोचनाभ्यां सहचरि दैववशेन दूरतोऽभूत्‌ ।
तदवधिशिथिलीकृतो मदीयैरथ करणैः प्रणयो निजक्रियासु ॥103॥

निखिलां रजनीं प्रियेण दूरादुपयातेन विबोधिता कथाभिः ।
अथिकं न हि पारयामि वक्तुं सखि मा जल्प तवायसी रसज्ञा ॥104॥

निपतद्वाष्पसंरोधमुक्तचाञ्चल्यतारकम्‌ ।
कदा नयननीलाब्जमालोकेय मृगीदृशः ॥105॥

यदि लक्ष्मण सा मृगेक्षणा न मदीक्षासरणिं समेष्टति ।
अमुना जडजीवितेन मे जगता वा विफलेन किं फलम्‌ ॥106॥

भवनं करुणावती विशन्ती गमनाज्ञालवलाभलालसेषु ।
तरुणेषु विलोचनाब्जालामथ बाला पथि पातयांबभूव ॥107॥

पापं हन्त मया हतेन विहितं सीतापि यद्‌ यापिता
सा मामिन्दुमुखी विना बत वने किं जीवितं धास्यति ।
आलोकेय कथं मुखं सुकृतिनां किं ते वदिष्यन्ति मां
राज्यं यातु रसातलं पुनरिदं न प्राणितुं कामये ॥108॥

उषसि प्रतिपक्षकामिनीसदनादन्तिकमञ्चति प्रिये ।
सुदृशो नयनाब्जकोणयोरुदियाय त्वरयारुणद्युतिः ॥109॥

क्षमापणैकपदयोः पदयोः पतति प्रिये ।
शेमुः सरोजवदनानयनारुणकान्तयः ॥110॥

निर्वासयन्तीं धृतिमङ्गनानां शोभां हरेरेणदृशो धयन्त्याः ।
चिरापराधस्मृतिमांसलोऽपि रोषः क्षणप्राघुणिको बभूव ॥111॥

राज्ञो मत्प्रतिकूलान्‌ मे महद्‌ भयमुपस्थितम्‌ ।
बाले वारय पान्थस्य वासदानविधानतः ॥112॥

मलयानिलमनलीयति मणिभवनं काननीयति क्षणतः ।
विरहेण विकलहृदया निर्जलमीनायते महिला ॥113॥

कालागुरुद्रवं सा हालाहलवद्‌ विजानती नितराम्‌ ।
अपि नीलोत्पलमालां बाला व्यालावलिं किलामनुते ॥114॥

विधिवञ्चितया मया न यातं सखि सङ्केतनिकेतनं प्रियस्य ।
अधुना बत किं विधातुकामो मयि कामो नृपतिः पुनर्न जाने ॥115॥

प्रादुर्भवति फ्योदे कज्जलमलिनं बभूव नभः ।
रक्तं च पथिकहृदयं कपोलपाली मृगीदृशः पाण्डुः ॥116॥

सुविरलमौक्तिकतोरे धवलांशुकचन्द्रिकाचमत्कारे ।
वदनपरिपूर्मचन्द्रे सुन्दरि राकासि नात्र संदेहः ॥117॥

रूपजला चलनयना नाभ्यावर्ता कचावलीभुजगा ।
मज्जन्ति यत्र सन्तः सेयं तरुणी तरङ्गिणी विषमा ॥118॥

शोणाधरांशुसंभिन्नास्तन्वि ते वदनाम्बुजे ।
केसरा इव काशन्ते कान्तदन्तालिकान्तयः ॥119॥

तया तिलोत्तमीयन्त्या मृगशावकचक्षुषां ।
ममायं मानुषो लोको नाकलोक इवाभवत्‌ ॥120॥

अङ्कायमानमलिके मृगनाभिपङ्कं पङ्केराहाक्षि वदनं तव वीक्ष्य बिभ्रत्‌ ।
उल्लासपल्लवितकोमलपक्षमूलाश्चञ्चूपुटं चटुलयन्ति चिरं चकोराः ॥121॥

शिशिरेण यथा सरोरुहं दिवसेनामृतरश्मिमण्डलम्‌ ।
न मनागपि तन्वि शोभते तव रोषेण तथेदमाननम्‌ ॥122॥

चलद्‌भृङ्गमिवाम्भोजमधीरनयनं मुखम्‌ ।
तदीयं यदि दृश्येत कामः क्रुद्धोऽस्तु किं ततः ॥123॥

शतकोटिकठिनचित्तः सोऽहं तस्याः सुधैकमयमूर्तेः ।
येनाकारिषि मित्रं स विकलहृदयो विधिर्वाच्यः ॥124॥

श्यामलेनाङ्कितं बाले भाले केनापि लक्ष्मणा ।
मुखं तवान्तरासुप्तभृङ्गफुल्लाम्बुजायते ॥125॥

आद्वितीयं रुचात्मानं मत्वा किं चनद्र हृष्यसि ।
भूमण्डलमिदं मूढ केन वा विनिभालितम्‌ ॥126॥

नीलाञ्चलेन संवृतमाननमाभाति हरिणनयनायाः ।
प्रतिबिम्बित इव यमुनागभीरनीरान्तरेणाङ्कः ॥127॥

स्तनाभोगे पतन्‌ भाति कपोलात्‌ कुटिलोउलकः ।
शशाङ्कबिम्बतो मेरौ लम्बमान इवोरगः ॥128॥

यथा लतायाः स्तबकानतायाः स्तनावनम्रे नितरां समासि ।
तथा लता पल्लविनी कसगर्वे शोणाधरायाः सदृशी तवापि ॥129॥

इदं लताभिः स्तवकानताभिमनोहरं हन्त वनान्तरालम।
सदैव सेव्यं स्त्रनभारवत्यो न चेद्र युवत्यो हत्यथं हेरेयुः ॥130॥

सा मदागमनबृंहिततोषा जागरेण गमिताखिलदोषा ।
बोधितापि बुबुधे मधुपैर्न प्रातराननजसौरभलुब्धैः ॥131॥

अविचिन्त्यशक्तिविभवेन सुन्दरि प्रथितस्य शम्बररिपोःप्रभावतः ।
विधुभावमञ्चतितमां तवाननं नयने सरोजदलनिर्विशेषताम्‌ ॥132॥

मीनवती नयनाभ्यां करचरणाभ्यां प्रफुल्लकमलवती ।
शैवालिनी च केशैः सुरसेयं सुन्दरी सरसी ॥133॥

पान्थ मन्दमते किं वा संतापमनुविन्दसि ।
पयोधरं समाशास्व येन शान्तिमवाप्नुयाः ॥134॥

संपश्यतां तामतिमात्रतन्वीं शोभाभिराभासितसर्वलोकाम्‌ ।
सौदामिनी वा सितयामिनी वेत्येवं जनानां हृदि संशयोऽभूत्‌ ॥135॥

सपल्लवा किं नु विभाति वल्लरी सफुल्लपद्‌मा किमियं नु पद्मिनी ।
समुल्लसत्पाणिपदां स्मिताननामितीक्षमाणैः समलम्भि संशयः ॥136॥

नेत्राभिरामं रामाया वदनं वीक्ष्य तत्क्षणम्‌ ।
सरोजं चन्द्रबिम्बं वेत्यखिलाः समशेरत ॥137॥

कनकद्रवकान्तिकान्तया मिलितं राममुदीक्ष्य कान्तया ।
चपलायुतवारिदभ्रमान्‌ ननृते चातकपोतकैर्वने ॥138॥

वनितेति वदन्त्येतां लोकाः सर्वे वदन्तु ते ।
यूनां परिणता सेयं तपस्येति मतं मम ॥139॥

स्मयमानाननां तत्र तां विलोक्य विलासिनीम्‌ ।
चकोराश्चञ्चरीकाश्च मुदं परतरां ययुः ॥140॥

वदनकमलेन बाले स्मितसुषमालेशमादधासि यदा ।
जगदिह तदैव जाने दशार्धबाणेन विजितमिति ॥141॥

कलिन्दजानीरभरेऽर्धमग्ना बकाः प्रकामं कृतभूरिशब्दाः ।
ध्वान्तेन वैराद्‌ विनिगीर्यमाणाः क्रोशन्ति मन्ये शशिनः किशोराः ॥142॥

परस्परासङ्गसुखान्‌ नतभ्रुवः पयोधरौ पीनतरौ बभूवतुः ।
तयोरमृष्यन्नयमुन्नतिं परामवैमि मध्यस्तनिमानमञ्चति ॥143॥

जनमोहकरं तवालि मन्ये चिकुराकारमिदं घनान्धकारम्‌ ।
वदनेन्दुरुचामिहाप्रचारादिव तन्वङ्गि नितान्तकान्तिकान्तम्‌ ॥144॥

दिवानिशं वारिणि कण्ठदघ्ने दिवाकराराधनमाचरन्ती ।
वक्षोजतायै किमु पक्ष्मलाक्ष्यास्तपश्चरत्यम्बुजपङ्क्तिरेषा ॥145॥

वियोगवह्निकुण्डेऽस्मिन्‌ हृदये ते वियोगिनि ।
प्रियसङ्गसुखायेव मुक्ताहारस्तपस्यति ॥146॥

निधिं लावण्यानां तव खलु मुखं निर्मितवतो
महामोहं मन्ये सरसिरुहसूनोरुपचितम्‌ ।
उपेक्ष्य त्वां यस्माद्‌ विधुमयमकस्मादिह कृती
कलाहीनं दीनं विकल इव राजानमकरोत्‌ ॥147॥

स्तनान्तर्गतमाणिक्यवपुर्बहुरुपागतम्‌ ।
मनोऽनुरागि ते तन्वि मन्ये वल्लभमीक्षितुम्‌ ॥148॥

जगदन्तरममृतमयैरंशुभिरापूरयन्‌ नितराम्‌ ।
उदयति वदनव्याजात्किमु राजा हरिणशावनयनायाः ॥149॥

तिमिरसारदचन्दिरचन्द्रिकाः कमलविद्रुमचम्पककोरकाः ।
यदि मिलन्ति कदापि तदाननं खलु तदा कलया तुलयामहे ॥150॥

प्रिये विषादं जहिहीति वाचं प्रिये सरागं वदति प्रियायाः ।
वारामुदारा विजगाल धारा विलोचनाभ्यां मनसश्च मानः ॥151॥

राज्याभिषेकमाज्ञाय शम्बरासुरवैरिणः ।
सुधाभिर्जगतीमध्यं लिम्पतीव सुधाकरः ॥152॥

आननं मृगशावाक्ष्या वीक्ष्य लोलालकावृतम्‌ ।
भ्रमद्भ्रमरसंभारं स्मरामि सरसीरुहम्‌ ॥153॥

यान्ती गुरुजनैः साकं स्मयमानाननाम्बुजा ।
तिर्यग्‌ग्रीवं यदद्राक्षीत तन्निष्पत्राकरोज्जगत्‌ ॥154॥

मृणालमन्दानिलचन्दनानामुशीरशैवालकुशेशयानाम्‌ ।
वियोगदूरीकृतचेतनानां विनैव शैत्यं भवति प्रतीतिः ॥155॥

विबोधयन्‌ करस्पर्शैः पद्मिनीं मुद्रिताननाम्‌ ।
परिपूर्णोऽनुरागेण प्रातर्जयति भास्करः ॥156॥

आनम्य वल्गुवचनैर्विनिवारितेऽपि
रोषात्‌ प्रयातुमुदिते मयि दूरदेशम्‌ ।
बाला कराङ्गुलिनिदेशवशंवदेन
क्रीडाबिडालशिशुनाशु रुरोध मार्गम्‌ ॥157॥

अभूदप्रत्यूहः कुसुमशरकोदण्डमहिमा
विलीनो लोकानां सह नयनतापोऽपि तिमिरैः ।
तवास्मिन्‌ पीयूषं किरति परितस्तन्वि वदने
कुतो हेतोः श्वेतो विधुरयमुदेति प्रतिदिनम्‌ ॥158॥

विनैव शस्त्रं हृदयानि यूनां विवेकभाजामपि दारयन्त्यः ।
अनल्पमायामयवल्गुलीला जयन्ति नीलाब्जदलायताक्ष्यः ॥159॥

यदवधि विलासभवनं यौवनमुदियाय चंन्द्रवदनायाः ।
दहनं विनैव तदवधि यूनां हृदयानि दह्यन्ते ॥160॥

न मिश्रयति लोचने सहसितं न संभाषते
कथासु तव किं च सा विरचयत्यरालां भ्रुवम्‌ ।
विपक्षसुदृशः कथामिति निवेदयन्त्या पुरः
प्रियस्य शिथिलीकृतः स्वविषयेऽनुरागग्रहः ॥161॥

वडवानलकालकूटवन्मकरव्यालगणैः सहैधितः ।
रजनीरमणो भवेन्‌ नृणां न कथं प्राणवियोगकारणम्‌ ॥162॥

लभ्येत पुण्यैर्गृहिणी मनोज्ञा तया सुपुत्राः परितः पवित्राः ।
स्फीतं यशस्तैः समुदेति नित्यं तेनास्य नित्यः खलु नाकलोकः ॥163॥

प्रभुरपि याचितुकामो भजते वामोरु लाघवं सहसा ।
यदहं त्वयाधरार्थी सपदि विमुख्या निराशतां नीतः ॥164॥

जलकुम्भमुम्भितरसं सपदि सरस्याः समानयन्त्यास्ते ।
तटकुञ्जगूढसुरतं भगवानेको मनोभवो वेद ॥165॥

त्वमिव पथिकः प्रियो मे विटपिस्तोमेषु गमयति क्लेशम्‌ ।
किमितोऽन्यत्‌ कुशलं मे संप्रति यत्‌ पान्थ जीवामि ॥166॥

तुलामनालोक्य निजामखर्वं गौराङ्गि गर्वं न कदापि कुर्याः ।
लसन्ति नानाफलभारवत्यो लताः कियत्यो गहनान्तरेषु ॥167॥

इयमुल्लसिता मुखस्य शोभा परिफुल्लं नयनाम्बुजद्वयं ते ।
जलदालिमयं जगद्वितन्वन्‌ कलितः क्वापि किमालि नीलमेधः ॥168॥

आसायं सलिलान्तः सवितारमुपास्य सादरं तपसा ।
अधुनाब्जेन मनाक्‌ तव मानिनि तुलना मुखस्यापि ॥169॥

अयि मन्दस्मितमधुरं वदनं तन्वङ्गि यदि मनाक्‌ कुरुषे ।
अधुनैव कलय शमितं राकारमणस्य हन्त साम्राज्यम्‌ ॥170॥

मधुरतरं स्मयमानः स्वस्मिन्नेवालपञ्‌ छनैः किमापि ।
कोकनदयंस्त्रिलोकीमालम्बनशून्यमीक्षते क्षीबः ॥171॥

मधुरसान्‌ मधुरं हि तवाधरं तरुणि मद्वदने विनिवेशय ।
मम गृहाण करेण कराम्बुजं प-प-पतामि ह-हा भ-भ-भूतले ॥172॥

शतेनोपायानां कथमपि गतः सौधशिखरं
सुधाफेनस्वच्छे रहसि शयितां पुष्पशयने ।
विबोध्य क्षामाङ्गी चकितनयनां स्मेरवदनां
सनिःश्वासं श्लिष्यत्यहह सुकृती राजरमणीम्‌ ॥173॥

गुञ्जन्ति मञ्जु परितो गत्वा धावन्ति संमुखम्‌ ।
आवर्तन्ते विवर्तन्ते सरसीषु मधुव्रताः ॥174॥

यथा यथा तामरसेक्षणा मया पुनः सरागं नितरां निषेविता ।
तथा तथा तत्त्वकथेव सर्वतो विकृष्य मामेकरसं चकार सा ॥175॥

हरिणीप्रेक्षणा यत्र गृहीणी न विलोक्यते ।
सेवितं सर्वसंपद्भिरपि तद्‌ भवनं वनम्‌ ॥176॥

लोलालकावलिचलन्नयनारविन्द-
लीलावशंवदितलोकविलोचनायाः ।
सायाहनि प्रणयिनो भवनं व्रजन्त्याश्चेतो
न कस्य हरते गतिरङ्गनायाः ॥177॥

दन्तांशुकान्तमरविन्दरमापहारि
सान्द्रामृतं वदनमेणविलोचनायाः ।
वेधा विधाय पुनरुक्तमिवेन्दुबिम्बं
दूरीकरोति न कथं विदुषां वरेण्यः ॥178॥

सानुकम्पाः सानुरागाश्चतुराः शालशीतलाः ।
हरन्ति हृदयं हन्त कान्तायाः स्वान्तवृत्तयः ॥179॥

विलसनत्यानने तस्या नासाग्रस्थितमौक्तिकम्‌ ।
आलक्षितबुधाश्लेषं राकेन्दोरिव मण्डलम्‌ ॥180॥

****************

]