शान्तविलासः

[[शान्तविलासः Source: EB]]

[

   ***शान्तविलासः***

विशालविषयाटवीवलयलग्नदावानल-
प्रमृत्वरशिखावलीविकलितं मदीयं मनः
अमन्दमिलदिन्दिरे निखिलमाधुरीमन्दिरे
मुकुन्दमुखचन्दिरे चिरमिदं चकोरायताम्‌ ॥1॥

अये जलधिनन्दिनीनयननीरजालम्बन-
ज्वलज्ज्वलनजित्वरज्वरभरत्वराभङ्गुरम्‌ ।
प्रभातजलजोन्नमद्गरिमगर्वसर्वंकषै-
र्जगत्‌त्रितयरोचनैः शिशिरयाशु मां लोचनैः ॥2॥

स्मृतापि तरुणातपं करुणया हरन्ती नृणा-
मभङ्गुरतनुत्विषां वलयिता शतैर्विद्युताम्‌ ।
कलिन्दनगनन्दिनीतटसुरद्रुमालम्बिनी
मदीयमतिचुम्बिनी भवतु कापि कादम्बिनी ॥3॥

कलिन्दगिरिनन्दिनीतटवनान्तरं भावयन्‌
सदा पथि गतागतक्लमभरं हरन्‌ प्राणिनाम्‌ ।
लतावलिशतावृतो मधुरया रुचा संभृतो
ममाशु हरतु श्रमानतितरां तमालद्रुमः ॥4॥

वाचा निर्मलया सुधामधुरया यां नाथ शिक्षामदा-
स्तां स्वप्नेऽपि न संस्मराम्यहमहंभावावृतो निस्त्रपः ।
इत्यागः शतशालिनं पुनरपि स्वीयेषु मां बिभ्रत-
स्त्वत्तो नास्ति दयानिधिर्यदुपते मत्तो न मत्तोऽपरः ॥5॥

पातालं व्रज याहि वा सुरपरीमारोह मेरोः शिरः
पारावारपरम्परास्तर तथाप्याशा न शान्तास्तव ।
आधिव्याधिजरापराहत यदि क्षेमं निजं वाञ्छसि
श्रीकृष्णेति रसायनं रसय रे शून्यैः किमन्यैः श्रमैः ॥6॥

मृद्वीका रसिता सिता समशिता स्फीतं निपीतं पयः
स्वर्यातेन सुधाप्यधायि कतिधा रम्भाधरः खण्डितः ।
सत्यं ब्रूहि मदीय जीव भवता भूयो भवे भ्राम्यता
कृष्णेत्यक्षरयोरयं मधुरिमोद्‌गारः क्वचिल्‌ लक्षितः ॥7॥

वज्रं पापमहीभृतां भवगदोद्रेकस्य सिद्धौषधं
मिथ्याज्ञाननिशाविशालतमसस्तिग्मांशुबिम्बोदयः ।
क्रूरक्लेशमहीरुहामुरुभरज्वालाजटालः शिखी
द्वारं निर्वृतिसद्‌मनो विजयते कृष्णेति वर्णद्वयम्‌ ॥8॥

रे चेतः कथयामि ते हितमिदं वृन्दावने चारयन्‌
वृन्दं कोऽपि गवां नवाम्बुदनिभो बन्धुर्न कार्यस्त्वया ।
सौन्दर्यामृतमुद्गिरद्भिरभितः संमोह्य मन्दस्मितै-
रेष त्वां तव वल्लभांश्च विषयानाशु क्षयं नेष्यति ॥9॥

अव्याख्येयां वितरति परां प्रीतिमन्तर्निमग्ना
कण्ठे लग्ना हरति नितरां यान्तरध्वान्तजालम्‌ ।
तां द्राक्षाद्यैरपि बहुमतां माधुरीमुद्गिरन्तीं
कृष्णेत्याख्यां कथय रसने यद्यसि त्वं रसज्ञा ॥10॥

सन्त्येवास्मिन्‌ जगति बहवः पक्षिणो रम्यरूपा-
स्तेषां मध्ये मम तु महती वासना चातकेषु ।
यैरध्यक्षैरथ निजसखं नीरदं स्मारयद्भि-
श्चित्तारूढं भवति किमपि ब्रह्म कृष्णाभिधानम्‌ ॥11॥

विष्वद्रीच्या भुवनमभितो भासते यस्य भासा
सर्वेषामप्यहमिति विदां प्रत्ययालम्बनं यः ।
तं पृच्छन्ति स्वहृदयतलावेनो विष्णुमन्या-
नन्यायोऽयं शिव शिव नृणां केन वा वर्णनीयः ॥12॥

सेवायां यदि साभिलाषमसि रे लक्ष्मीपतिः सेव्यतां
चिन्तायामसि सस्पृहं यदि तदा चक्रायुधश्चिन्त्यताम्‌ ।
आलापं यदि काङ्क्षसि स्मररिपोर्गाथा तदालप्यतां
स्वापं वाञ्छसि चेन्‌ निरर्गलसुखे चेतः सखे सुप्यताम्‌ ॥13॥

भवग्रीष्मप्रौढातपनिवहसंतप्तवपुषो
बलादुन्मूल्य द्राङ्‌ निगडमविवेकव्यतिकरम्‌ ।
विशृद्धेऽस्मिन्नात्मामृतसरसि नैराश्यशिशिरे
विगाहन्ते दूरीकृतकलुषजालाः सुकृतिनः ॥14॥

बन्धोन्मुक्त्यै खलु मखमुखान्‌ कुर्वते कर्मपाशा-
नन्तःशान्त्यै मुनिशतमतानल्पचिन्तां भजन्ते ।
तीर्थे मज्ज्न्त्यशुभजलधेः पारमारोढुकामाः
सर्वं प्रामादिकमिह भवभ्रान्तिभाजां नराणाम्‌ ॥15॥

प्रथमं चुम्बितचरणा जङ्घाजानूरुनाभिहृदयानि ।
आलिङ्ग्यभावना मे खेलतु विष्णोर्मुखाब्जशोभायाम्‌ ॥16॥

तरणोपायमपश्यन्नपि मामक जीव ताम्यसि कुतस्त्वम्‌ ।
चेतःसरणावस्यां किं नागन्ता कदापि नन्दसुतः ॥17॥

श्रीयो मे मा सन्तु क्षणमपि च माद्यद्गजघटा-
मदभ्राम्यद्भृङ्गावलिमधुरझंकारसुभगाः ।
निमग्नानां यासु द्रविणरसपर्याकुलदृशां
सपर्यासौकर्यं हरिचरणयोरस्तमयते ॥18॥

किं निःशंकं शेषे शेषे वयसः समागतो मृत्युः ।
अथवा सुखं शयीथ निकटे जागर्ति जाह्नवी जननी ॥19॥

संतापयामि किमहं धावं धरातसे हृदयम्‌ ।
अस्ति मम शिरसि सततं नन्दकुमारः प्रभुः परमः ॥20॥

रे रे मनो मम मनोभवशातनस्य
पादाम्बुजद्वयमनारतमानमन्तम्‌ ।
किं मां निपातयसि संसृतिगर्तमध्ये
नैतावता तव गमिष्यति पुत्रशोकः ॥21॥

मरकतमणिमेदिनीधरो वा तरुणतरस्तरुरेष वा तमालः ।
रघुपतिमवलोक्य तत्र दूरादृषिनिकरैरिति संशयः प्रपेदे ॥22॥

तरणितनया किं स्यादेषा न तोयमयी हि सा
मरकतमणिज्योत्स्ना वा स्यान्‌ न सा मधुरा कुतः
इति रघुपतेः कायच्छायाविलोकनकौतुकै-
र्वनवसतिभिः कैः कैरादौ न संदिदिहे जनैः ॥23॥

चपला जलदाच्च्युता लता वा तरुमुख्यादिति संशये निमग्नः ।
गुरुनिःश्वसितैःकपिर्मनीषी निरणैषीदथ तां वियोगिनीति ॥24॥

भूतिर्नीचगृहेषु विप्रसदने दारिद्र्यकोलाहलो
नाशो हन्त सतामसत्पथजुषामायुः शतानां शतम्‌ ।
दुर्नीतिं तव वीक्ष्य कोपदहनज्वालाजटालोऽपि सन्‌
किं कुर्वे जगदीश यत्‌ पुनरहं दीनो भवानीश्वरः ॥25॥

आ मूलाद्‌ रत्नसानोर्मलयवलयितादा च कूलात्‌ पयोधे-
र्यावन्तः सन्ति काव्यप्रणयनपटवस्ते विशङ्कं वदन्तु ।
मृद्वीकामध्यनिर्यन्मसृणरसझरीमाधुरीभाग्यभाजां
वाचामाचार्यतायाः पदमनुभवितुं कोऽस्ति धन्यो मदन्यः ॥26॥

गिरां देवी वीणागुणरणनहीनादरकरा
यदीयानां वाचाममृतमयमाचामति रसम्‌ ।
वचस्तस्याकर्ण्य श्रवमसुभगं पण्डितपते-
रधुन्वन्‌ मूर्धानं नृपशुरथवायं पशुपतिः ॥27॥

मद्वाणि मा कुरु विषादमनादरेण
मात्सर्यमग्नमनसां सहसा खलानाम्‌ ।
काव्यारविन्दमकरन्दमधुव्रताना-
मास्येषु धास्यसितमां कति नो विलासान्‌ ॥28॥

मधु द्राक्षा साक्षादमृतमथ वामाधरसुधा
कदाचित्‌ केषांचिन्‌ न खलु विदधीरन्नपि मुदम्‌ ।
ध्रुवं ते जीवन्तोऽप्यहह मृतका मन्दमतयो
न येषामानन्दं जनयति जगन्नाथभणितिः ॥29॥

निर्माणे यदि मार्मिकोऽसि नितरामनत्यन्तपाकद्रवन्‌-
मृद्वीकामधुमाधुरीमदपरीहारोद्धुराणां गिराम्‌ ।
काव्यं तर्हि सखे सुखेन कथय त्वं संसुखे मादृसां
नो चेद्‌ दुष्कृकमात्मना कृतमिव स्वान्ताद्‌ बहिर्मा कृथाः ॥30॥

धुर्यैरपि माधुर्यैर्द्राक्षाक्षीरेक्षुमाक्षिकसुधानाम्‌ ।
वन्द्यैव माधुरीयं पण्डितराजस्य कवितायाः ॥31॥

शास्त्राण्याकलितानि नित्यविधयः सर्वेऽपि संभाविता
दिल्लीवल्लभपाणिपल्लवतले नीतं नवीनं वयः ।
संप्रत्युज्झितवासनं मधुपुरीमध्ये हरिः सेव्यते
सर्वं पण्डितराजराजितिलकेनाकारि लोकाधिकम्‌ ॥32॥

दुर्वुत्ता जारजन्मानो हरिष्यन्तीति शङ्कया ।
मदीयपद्यरत्नानां मञ्जूषैषा कृता मया ॥33॥

जगज्जालं ज्योत्स्नामयनवसुधाभिर्जटिलयन्‌
जनानां संतापं त्रिविधमपि सद्यः प्रशमयन्‌ ।
श्रितो वृन्दारण्यं नतनिखिलवृन्दारकवृतो
मम स्वान्तध्वान्तं तिरयतु नवीनो जलधरः ॥34॥

ग्रीष्मचण्डकरमण्डलभीष्मज्वालसंसरणतापितमूर्तेः ।
प्रावृषेण्य इव वारिधरो मे वेदनां हरतु वृष्णिवरेण्यः ॥35॥

अपारे संसारे विषमविषयारण्यसरणौ
मम भ्रामं भ्रामं विगलितविरामं जडमतेः ।
परिश्रान्तस्यायं तरणितनयातीरनिलयः
समन्तात्‌ संतापं हरिनवतमालस्तिरयतु ॥36॥

आलिङ्गितो जलधिकन्यकया सलीलं
लग्नः प्रियङ्गुलतयेव तरुस्तमालः ।
देहावसानसमये हृदये मदीये
देवश्चकास्तु भगवानरविन्दनाभः ॥37॥

नयनानन्दसंदोहतुन्दिलीकरणक्षमा ।
तिरयत्वाशु संतापं कापि कादम्बिनी मम ॥38॥

गणिकाजामिलमुख्यानवता भवता बताहमपि ।
सीदन्‌ भवमरुगर्ते करुणामूर्ते न सर्वथोपेक्ष्यः ॥39॥

मलयानिलकालकूटयो रमणीकुन्तलभोगिभोगयोः ।
श्वपयचात्मभुवोर्निरन्तरा मम भूयात्‌ परमात्मनि स्थितिः ॥40॥

निखिलं जगदेव नश्वरं पुनरस्मिन्‌ नितरां कलेवरम्‌ ।
अथ तस्य कृते कुयानयं क्रियते हन्त जनैः परिश्रमः ॥41॥

प्रतिपलमखिलाल्ँलोकान्‌ मृत्युमुखं प्रविशतो निरीक्ष्यापि ।
हा हन्त किमिति चित्तं विरमति नाद्यापि विषयेभ्यः ॥42॥

सपदि विलयमेतु राज्यलक्ष्मी-
रुपरि पतन्त्वथावा कृपाणधाराः ।
अपहरतुतरां शिरः कृतान्तो
मम तु मतिर्न मनागपैतु धर्मात्‌ ॥43॥

अपि बहलदहनजालं मूर्ध्नि रिपुर्मे निरन्तरं धमतु ।
पातयतु वासिधारामहमणुमात्रं न किंचिदपि भाषे ॥44॥

****************

]