[[रसगङ्गाधरमात्रस्थापद्यानि-अवशिष्टांशः Source: EB]]
[
***रसगङ्गाधरमात्रस्थापद्यानि***
(***अवशिष्टांशः***)
अधरं बिम्बमाज्ञाय मुखमब्जं च तन्वि ते ।
कीराश्च चञ्चरीकाश्च विन्दन्ति परमां मुदम् ॥1॥
अनल्पजाम्बूनददानवर्षं तथैव हर्षं जनयञ् जनेषु ।
दारिद्र्यघर्मक्षपणक्षमोऽयं धाराधरो नैव धराधिनाथः ॥2॥
अनल्पतापाः कृतकोटिपापा गदैकशीर्णा भवदुःखजीर्णाः ।
विलोक्य गङ्गां विचलत्तरङ्गाममी समस्ताः सुखिनो भवन्ति ॥3॥
अनुकूलबावमथवा पराङ्मुखत्वं सहैव नरलोके ।
अन्योऽन्यविहितमन्त्रौ विधिदिल्लीवल्लभौ वहतः ॥4॥
अन्धेन पातभीत्या सञ्चरता विषमविषयेषु ।
दृढमिह मया गृहीता हिमगिरिश्रृङ्गादुपागता गङ्गा ॥5॥
अपकुर्वद्भिरनिशं धृतराष्ट्र तवात्मजैः ।
उप्यन्ते मृत्युबीजानि पाण्डुपुत्रेषु निश्चितम् ॥6॥
अलं हिमानीपरिदीर्मगात्रः समापितः फाल्गुनसङ्गमेन ।
अत्यन्तमाकाङ्क्षितकृष्णवर्त्मा भीष्मो महात्माजनि माघतुल्यः ॥7॥
अवाप्य भङ्गं खलु सङ्गराङ्गणे
नितान्तमङ्गाधिपतेरमङ्गलम् ।
परप्रभावं मम गाण्डिवं धनु-
र्विनिन्दतस्ते हृदयं न कम्पते ॥8॥
अविरतचिन्तो लोके वृक इव पिशुनोऽत्र पिशुन इव च वृकः ।
भारतमिव सच्चित्तं सच्चित्तमिवाथ भारतं सकृपम् ॥9॥
अविरलविगलद्दानोदकधारासारसिक्तधरणितलः ।
धनदाग्रमहितमूर्त्तिर्जयतितरां सार्वभौमोऽयम् ॥10॥
अशीतलोग्रश्चण्डांशुरनुग्रसिशिरः शशी ।
उग्रशीतस्त्वमेकोऽसि राजन् कोपप्रसादयोः ॥11॥
अस्थिमालामयीं दत्त्वा मुण्डमालामयीं तनुम् ।
गृह्णतां त्वत्पुरस्थानां को लाभः स्मरशासन ॥12॥
अहं लतायाः सदृशीत्यखर्वं गौराङ्गि गर्वं न कदापि यायाः ।
गवेषणेनालमिहापरेषुमेषापि तुल्या तव तावदस्ति ॥13॥
अहन्नेको रणे रामो यातुधानाननेकशः ।
असहाया महात्मानो यान्ति काञ्चन वीरताम् ॥14॥
अहितव्रत पापात्मन् मैवं मे दर्शयाननम् ।
आत्मानं हन्तुमिच्छामि येन त्वमसि भावितः ॥15॥
अहीनचन्द्रा लसताननेन ज्योत्स्नावती चापि शुचिस्मितेन ।
एषा हि योषा सितपक्षदोषा तोषाय केषां न महीतले स्यात् ॥16॥
आखण्डलेन नाकः कुण्डलिकुलकुण्डलेन पातालम् ।
नरमण्डन रिपुखण्डन भवता भूमण्डलं विभातितमाम् ॥17॥
आज्ञा सुमेषोरविलङ्घनीया किं वा तदूया नवचापयष्टिः ।
वनस्थिता किं वनदेवता वा शकुन्तला वा मुनिकन्यकेयम् ॥18॥
आताम्रा सिनधुकन्याधवचरणनखोल्लासिकान्तिच्छटाभि-
र्ज्योत्स्नाजानैर्जटानां त्रिपुरविजयिनो जातजाम्बूनदश्रीः ।
स्वाभाव्यादच्छमुक्ताफलरचितलसद्गुच्छसच्छायकाया
पायादायासजालादमरसरिदघव्रातजातश्रमान् नः ॥19॥
आत्मनोऽस्य तपोदानैर्निर्मलीकरणं हि यत् ।
क्षालनं भास्करस्येदं सारसैः सलिलोत्करैः ॥20॥
आनन्दनेन लोकानामातापहरणेन च ।
कलाधरतया चापि राजन्निन्दूपमो भवान् ॥21॥
कलाधरस्येव कलावशिष्टा विलूनमाला लवलीलतेव ।
अशोकमूलं परिपूर्णशोका सा रामयोषा चिरमध्युवास ॥22॥
कलेव सूर्यादमला नवेन्दोः कृशानुपुञ्जात् प्रतिमेव हैमी ।
विनिर्गता यातुनिवासमध्यादध्याबभौ राघवधर्मपत्नी ॥23॥
काव्यं सुधा रसज्ञानां कामिनां कामिनी सुधा ।
धनं सुधा सलोभानां शान्तिः संन्यासिनां सुधा ॥24॥
खञ्जनदृशा निकुञ्जं गतवत्या गां गवेषयितुम् ।
अपहारिताः समस्ता गावो हरिवदनपङ्कजालोकात् ॥25॥
गाढमालिङ्ग्य सकलां यामिनीं सहतस्थुषीम् ।
निद्रां विहाय स प्रातरालिलिङ्गाथ चेतनाम् ॥26॥
चराचरजगज्जालसदनं वदनं तव ।
गलद्गगनगाम्भीर्यं वीक्ष्यास्मि हृतचेतना ॥27॥
चराचरोभयाकारजगत्कारणविग्रहम् ।
कल्पान्तकालसंक्रुद्धं हरं सर्वहरं नुमः ॥28॥
चूडामणिपदे धत्ते योऽम्बरे रविमागतम् ।
सतां कार्यातिथेयीति बोधयन् गृहमेधिनः ॥29॥
तं दृष्टवान् प्रथममद्भुतधैर्यवीर्य-
गाम्भीर्यमक्षणविमुक्तसमीपजानिम् ।
वीक्ष्याथ दीनमहलाविरहव्यथार्तं
रामो न वायमिति संशयमाप लोकः ॥30॥
तद्दर्शनोपायविमर्शनार्थं मया तदालीसदनं गतेन ।
तत्रैव सालक्ष्यत पक्ष्मलाक्षी दाक्षायणीमर्चयितुं प्रायाता ॥31॥
तपस्यतो मुनेर्वक्त्राद् वेदार्थमधिगत्य सः ।
वासुदेवनिंविष्टात्मा विवेश परमं पदम् ॥32॥
तपोनिधे कौशिक रामचन्द्रं निनीषसे चेन् नय किं विकल्पैः ।
निरन्तरालोकनपुण्यधन्या भवन्तु वन्या अपि जीवभाजः ॥33॥
तवाग्रे यदि दारिद्र्यं स्थितं भूप द्विजन्मनाम् ।
शनैः सवितुरप्यग्रे तमः स्थास्यत्यसंशयम् ॥34॥
तस्मिन् मणिब्रातहतान्धकारे पुरे निसालोपविधानदक्षे ।
पद्यो वियुक्ता दिवसावसानं कोकाः सशोकाः कथयन्ति नित्यम् ॥35॥
तुषारास्तापसव्राते तामसेषु च तापिनः ।
दृगन्तास्ताडकाशत्रोर्भूयासुर्मम भूतये ॥36॥
त्रासैर्विना विराजन्ते शुराः सन्मणयो यथा ।
न दानेन विना भान्ति नृपा लोके द्विपा इव ॥37॥
त्वयि दृष्टे त्वया दृष्टे भवन्ति जगतीतले ।
महान्तोऽप्यणवो राजन्नणवश्च महत्तराः ॥38॥
त्वामवश्यं सिसृक्षन् यः सृजति स्म कलाधरम् ।
किं वाच्यं तस्य वैदुष्यं पुराणस्य महामुनेः ॥39॥
दिवि सूर्यो भुवि त्वं च पाताले पननगाग्रणीः ।
दिक्षु दुक्पालवर्गश्च राजपुङ्गव राजते ॥40॥
दीनद्रुमान् वचोभिः खलनिकरैरनुदिनं दलितान् ।
पल्लवयन्त्युल्लसिता नित्यं तैरेव सज्जनधुरीणाः ॥41॥
दृश्यतेऽनुदिते यस्मिननुदिते नैव दृश्यते ।
जगदेतन् नमस्तस्मै कस्मैचिद् बोधभानवे ॥42॥
धनुर्विदलनध्वनिश्रवणतत्क्षणाविर्भवन्-
महागुरुवधस्मृतिः श्वसनवेगधूताधरः ।
विलोचनविनिः सरद्वहलविस्फुलिङ्गव्रजो
रघुप्रवरमाक्षिपञ्च जयति जामदग्न्यो मुनिः ॥43॥
धर्मस्यात्मा भागधेयं क्षमायाः सारः सृष्टे र्जीवितं शारदायाः ।
आज्ञा साक्षाद् ब्रह्मणो वेदमूर्तेराकल्पान्तं राजतामेष राजा ॥44॥
धर्मेण बुद्धिस्तव देव शुद्धा बुद्ध्या निबद्धा सहसैव लक्ष्मीः ।
लक्ष्म्या च तुष्टा भुवि सर्वलोका लोकैश्च नीता भुवनेषु कीर्तिः ॥45॥
न कपोतकपोतकं तव स्पृशतु श्येन मनागपि स्पृहा ।
इदमद्य मया समर्पितं भवते चारुतरं कलेवरम् ॥46॥
न कपोत भवन्तमण्वपि स्पृशतु श्येनसमुद्भवं भयम् ।
इदमद्य मया तृणीकृतं भवदायुःकुशलं कलेवरम् ॥47॥
नखकिरणपरम्पराभिरामं किमपि पदाम्बुरुहद्वयं मुरारेः ।
अभिनवसुरदीर्घिकाप्रवाहप्रकरपरीकमिव स्फुटं चकासे ॥48॥
नखैर्विदारितान्त्राणां शवानां पूयशोणितम् ।
आननेष्वनुलिम्पन्ति हृष्टा वेतालयोषितः ॥49॥
न भवानिह मे लक्ष्यः क्षत्रवर्णविलोपनः ।
के वा विटपिनो राम कुलाचलभिदः पवेः ॥50॥
न भाति रमणीयोऽपि वैराग्येण विना यतिः ।
वैदुष्येण विना विप्रो नरलोकस्त्वाया विना ॥51॥
नरैर्वरगतिप्रदेत्यथ सुरैः स्वकीयापगे-
त्युदारतरसिद्धिदेत्यखिलसिद्धसंघैरपि ।
हरेस्तनुरिति श्रिता मुनिभिरस्तसङ्गैरियं
तनोतु मम शं तनोः सपदि शन्तनोरङ्गना ॥52॥
न वयं कवयस्तव स्तवं नृप कुर्वीमहि यन् मृषाक्षरम् ।
रणसीम्नि तवावलोकने तरुणार्को दिनकौशिकायते ॥53॥
नान्यास्ति किं भूमितले सुरूपा सीतैव वा किं भवतोऽनुरूपा ।
आकर्षता चन्दनशाखिशाखां प्रबोधितोऽयं भवता फणीन्द्रः ॥54॥
नार्यः स यो न स्वहितं समीक्षते
न तद्धितं यन् न परानुतोषणम् ।
न ते परे यैर्नहि साधुताश्रिता
न साधुता सा नहि यत्र माधवः ॥55॥
न्यञ्चति बाल्ये सुदृशः समुदञ्चति गण्डसीम्नि पाण्डिमनि ।
मालिन्यमाविरासीद् राकाधिपलवलिकनकानाम् ॥56॥
परिहरतु धरां फणिप्रवीरः सुखमयतां कमठोऽपि तां विहाय ।
अहमिह पुरुहूत पक्षकोणे निखिलमिदं जगदक्लमं वहामि ॥57॥
पाण्डित्येन प्रचण्डेन येन माद्यन्ति दुर्जनाः
तेनैव सज्जना रूढा यान्ति शान्तिमनुत्तमाम् ॥58॥
पूर्णमसुरै रसातलममरैः स्वर्गो वसुन्धरा च नरैः ।
रघुवंशवीरतुलना तथापि खलु जगति निरवकाशैव ॥59॥
प्राणानर्पय सीतां वा गृध्रांस्तर्पय वा द्विजान् ।
यमं भजस्व रासं वा यथेच्छसि तथा चर ॥60॥
प्रियो हृदयवर्ती मे न मां मुञ्चति जातुचित् ।
उत्तरे नावकाशोऽस्ति दूरतस्ते मनोरथः ॥61॥
भगवद्वदनाम्भोजं पश्यन्त्या अप्यहर्निशम् ।
तृष्णाधिकमुदेति स्म गोपसीमन्तिनीदृसः ॥62॥
भवद्द्वारि क्रुध्यज्जयविजयदण्डाहतिदलत्-
किरीटास्ते कीटा इव विधिमहेन्द्रप्रभृतयः ।
वितिष्ठन्ते युष्मन्नयनपरिपातोत्कलिकया
वराकाः के तत्र क्षपितमुरनाकाधिपतयः ॥63॥
भाग्यं ते शाल्मलितरो वद किं परिकथ्यते ।
द्विजैः फलाशया युक्तैः सेव्यसे यदहर्दिवम् ॥64॥
भास्करसूनावस्तं याते जाते च पाण्डवोत्कर्षे ।
दुर्योधनस्य जीवित कथमिव नाद्यापि निर्यासि ॥65॥
भुजो भगवतो भाति चञ्चंस्चाणूरचूर्णने ।
जगन्मण्डलसंहारे वेगवानिव धूर्जटिः ॥66॥
महर्षेर्व्यासपुत्रस्य श्रावं श्रावं वचःसुधाम् ।
अभिमन्युसुतो राजा परां मुदमवाप्तवान् ॥67॥
महीभृतां खलु गणे रत्नसानुरिव स्थितः ।
त्वं काव्ये वसुधाधीश वृषपर्वेव राजसे ॥68॥
मुनिः श्ववदयं भाति सततं पर्यटन् महीम् ।
विनिवृत्तक्रियाजातः श्वापि लोके शुकायते ॥69॥
यथा तवाननं चन्द्रस्तथा हासोऽपि चन्द्रिका ।
यथा चन्द्रसमश्चन्द्रस्तथा त्वं सदृशी तव ॥70॥
यदि ते चरणाम्बुजं हृदा वहतो मे न हतो विपद्गणः।
अथ चण्डकरेण मण्डितेदिनमध्येऽपि जितं तमोगणैः ॥71॥
यदि सा मितिलेन्द्रनन्दिनी नितरामेव न विद्यते भूवि ।
अथ मे कथमस्ति जीवितं न विनालम्बनमाश्रितस्थितिः ॥72॥
यद्यनुष्णो भवेद् वह्निर्यद्यशीतं भवेज् जलम् ।
मन्ये दृढव्रतो रामस्तदा स्यादप्यसत्यवाक् ॥73॥
यश्चरणत्राणीकृतकमलासनपन्नगेन्द्रलोकयुगः ।
सर्वाङ्गावरणपटीकृतकनकाण्डः स वामनो जयति ॥74॥
ये त्वां ध्यायन्ति सततं त एव कृतिनां वराः ।
मुधा गतं पुराराते भवदन्यधियां जनुः ॥75॥
रणाङ्गणे रावणवैरिणो विभोः
शराः समन्ताद् वलिता विरेजिरे ।
निदाघमध्यन्दिनवर्तिनोऽम्बरे
सहस्त्रभानोः प्रखराः करा इव ॥76॥
रणे दीनान् देवान् दशवदन विद्राव्य वहति
प्रभावप्रागल्भ्यं त्वयि तु मम कोऽयं परिकरः ।
ललाटोद्यज्ज्वालाकवलितजगज्जालविभवो
भवो मे कोदण्डच्युतविशिखवेगं कलयतु ॥77॥
रराज राजराजस्य राजहंसः करस्थितः ।
हस्तनक्षत्रसंसक्त इव पूर्णो निशाकरः ॥78॥
राघवविरहज्वालासन्तापितसह्यशैलशिखरेषु ।
शिशिरे सुखं शयानाः कपयः कुप्यन्ति पवनतनयाय ॥79॥
राजा दुर्योधनो नाम्ना रस्वसत्त्वभयङ्करः ।
दीपानामिव साधूनां झञ्झावात इवाभवत् ॥80॥
राजा युधिष्ठिरो नाम्ना सर्वधर्मसमाश्रयः ।
द्रुमाणामिव लोकानां मधुमास इवाभवत् ॥81॥
राजेव सम्भृतं कोषं केदारमिव कर्षकः ।
भवन्तं त्रायतां नित्यं भयेभ्यो भगवान् भवः ॥82॥
रामं स्निग्धतरस्यामं विलोक्य वनमण्डले ।
धाराधरधिया धीरं नृत्यन्ति स्म शिखावलाः ॥83॥
रामं स्निग्धतरश्यामं विलोक्य वनमण्डले ।
प्रायो धाराधरोऽयं स्यादिति नृत्यन्ति केकिनः ॥84॥
रामायमाणः श्रीरामः सीता सीतामनोहरा ।
ममान्तःकरणे नित्यं विहरेतां जगद्गुरू ॥85॥
रामो विजयते यस्य क्षणात् सामर्षवीक्षणात् ।
दावाग्निदग्धकान्तारलीलां लङ्कापुरी दधौ ॥86॥
रूपवत्यपि च क्रूरा कामिनी दुःखदायिनी ।
अन्तःकाटवसम्पूर्णा सुपक्वेवेन्द्रवारुणी ॥87॥
रोगस्य ते चिकित्सां निदानमालोच्य सुन्दरि करिष्ये ।
मा हन्त कातरा भूः रसक्रियायां नितान्तनिपुणोऽस्मि ॥88॥
लीलया विहितसिन्धुबन्धनः सोऽयमेति रघुवंशनन्दनः ।
दर्पदुर्विलसितो दशाननः कुत्र यामि निकटे कुलक्षयः ॥89॥
वासयति हीनसत्त्वानतिसत्त्वानुद्धतान् विवासयति ।
त्रासयति सकलशत्रून् नीतिविदामग्रणीर्नराधिपतिः ॥90॥
विचारिते महिमनि त्वदीये नित्यनिर्मले ।
परमात्मन् गगनमप्याधत्ते परमाणुताम् ॥91॥
वृन्दापितृगहनचरौ कुसुमायुधजननहननशक्तिधरौ ।
अरिशूललाञ्छितकरौ भीतिं मे हरिहरौ हरताम् ॥92॥
व्यानम्राश्चलितास्चैव स्फारिताः परमाकुलाः ।
पाण्डुपुत्रेषु पाञ्चाल्याः पतन्ति प्रथमा दृशः ॥93॥
शशश्रृङ्गधनुर्लसत्करा गगनाम्भोरुहमालिकाधराः ।
तनयैः सह भाविजन्मनां तव खेलन्ति नरेन्द्र वैरिणः ॥94॥
स्यामं यज्ञोपवीतं तव किमिति मषीसङ्गमात् कुत्र जातः
सोऽयं शीतांशुकन्यापयसि कथमभूत् तज्जलं कज्जलाक्तम् ।
व्याकुप्यन्नूरदीनक्षितिरमणरिपुक्षोणिभृत्पक्ष्मलाक्षी-
लक्षाक्षीणाश्रुधारासमुदितसरितां सर्वतः सङ्गमेन ॥95॥
सदा जयानुषङ्गाणामङ्गानां सङ्गरस्थलम् ।
रङ्गाङ्गणमिवाभाति तत्तत्तुरगताण्डवैः ॥96॥
सरोजतामथ सतां शिशिरर्तवताधुना ।
दर्भतां सर्वंधर्माणां राज्ञानेन विदर्भितम् ॥97॥
साब्धिद्वीपकुलाचलां वसुमतीमाक्रम्य सप्तान्तरां
सर्वां द्यामपि सस्मितेन हरिणा मन्दं समालोकितः ।
प्रादुर्भूतपरप्मोदविदलद्रोमाञ्चितस्तत्क्षणं
व्यानम्रीतकन्धरोऽसुरवरो मौलिं पुरो न्यस्तवान् ॥98॥
सिन्दूरैः परिपूरितं किमथवा लाक्षारसैः श्रालितं
लिप्तं वा किमु कुङ्कुमद्रवभरैरेतन् महीमण्डलम् ।
सन्देहं जनयन् नृणामिति परित्रातत्रिलोकस्त्विषां
व्रातः प्रातरुपातनोतु भवतां भव्यानि भासां निधेः ॥99॥
सुधेव वाणी वसुधेव मूर्तिः सुधाकरश्रीसदृशी च कीर्तिः ।
पयोधिकल्पा मतिरासफेन्दोर्महीतलेऽन्यस्य नहीति मन्ये ॥100॥
स्थितेऽपि सूर्ये पद्मिन्यो वर्तन्ते मधुपैः सह ।
अस्तं गते तु सुतरां स्त्रीणां कः प्रत्ययो भुवि ॥101॥
स्पृशति त्वयि यदि चापं स्वापं प्रापन् न केऽपि नरपालाः ।
शोणे तु नयनकोणे को नेपालेन्द्र तव सुखं स्वपितु ॥102॥
हालाहलसमो मन्युरनुकम्पा सुधोपमा ।
कीर्तिस्ते चन्द्रसदृशी भटास्तु मकरोद्भटाः ॥103॥
****************
]