प्रास्ताविकविलासः

[[प्रास्ताविकविलासः Source: EB]]

[

  ***प्रास्ताविकविलासः***

दिगन्ते श्रूयन्ते मदमलिनगण्डाः करटिनः
करिण्यः कारुण्यास्पदमसमशीलाः खलु मृगाः ।
इदानीं लोकेऽस्मिन्ननुपमशिखानां पुनरयं
नखानां पाण्डित्यं प्रकटयतु कस्मिन्‌ मृगपतिः ॥1॥

पुरा सरसि मानसे विकचसारसालिस्खलत्‌-
परागसुरभीकृते पयसि यस्य यातं वयः ।
स पल्वलजलेऽधुना मिलदनेकभेकाकुले
मरालकुलनायकः कथय रे कथं वर्तताम्‌ ॥2॥

तृष्णालोलविलोचने कलयति प्राचीं चकोरीगणे
मौनं मुञ्चति किं च कैरवकुले कामे धनुर्धुन्वति ।
माने मानवतीजनस्य सपदि प्रस्थातुकामेऽधुना
धातः किं तु विधौ विधातुमुचितो धाराधराडम्बरः ॥3॥

अयि दलदरविन्द स्यन्दमानं मरन्दं
तव किमपि लिहन्तो मञ्जन्तु भृङ्गाः ।
दिशि दिशि निरपेक्षस्तावकीनं विवृण्वन्‌
परिमलमयमन्य बान्धवो गन्धवाहः ॥4॥

समुपागतवति दैवादवहेलां कुटज मधुकरे मा गाः ।
मकरन्दतुन्दिलानामरविन्दानामयं महामान्यः ॥5॥
तावत्‌ कोकिल विरसान्‌ यापय दिवसान्‌ वनान्तरे निवसन्‌ ।
यावन्‌ मिलदलिमालः कोऽपि रसालः समुल्लसति ॥6॥

नितरां नीचोऽस्मीति त्वं खेदं कूप मा कदापि कृथाः ।
अत्यन्तसरसहृदयो यतः परेषां गुणग्रहीतासि ॥7॥

कमलिनि मलिनीकरोषि चेतः किमिति बकैरवहेलितानभिज्ञैः ।
परिणतमकरन्दमार्मिकास्ते जगति भवन्तु चिरायुषो मिलिन्दाः ॥8॥

येनामन्दमरन्दे दलदरविन्दे दिनान्यनायिषत ।
कुटजे खलु तेनेहा तेने हा मधुकरेण कथम्‌ ॥9॥

आयि मलयज महिमायं कस्य गिरामस्तु विषयस्ते ।
उद्गिरतो यद्‌ गरलं फणिनः पुष्णासि परिमलोद्‌गारैः ॥10॥

पाटीर तव पटीयान्‌ कः परिपाटीमिमामुरीकर्तुम्‌ ।
यत्पिंषतामपि नृणां पिष्टोऽपि तनोषि परिमलैः पुष्टिम्‌ ॥11॥

नीरक्षीरविवेके हंसालस्यं त्वमेव तनुषे चेत्‌ ।
विश्वस्मिन्नधुनान्यः कुलव्रतं पालयिष्यति कः ॥12॥

उपरि करवालधाराकाराः क्रूरा भुजङ्गमपुङ्गवात्‌ ।
अन्तः साक्षाद्‌ द्राक्षादीक्षागुरवो जयन्ति केऽपि जनाः ॥13॥

स्वच्छन्दं दलदरविन्द ते मरन्दं
विन्दन्तो विदधतु गुञ्जितं मिलिन्दाः ।
आमोदानथ हरिदन्तराणि नेतुं नैवान्यो
जगति समीरणात्‌ प्रवीणः ॥14॥

याते मय्यचिरान्‌ निदाघमिहिरज्वालाशतैः शुष्कतां
गन्ता कं प्रति पान्थसंततिरसौ संतापमालाकुला ।
एवं यस्य निरन्तराधिपटलैर्नित्यं वपुः क्षीयते
धन्यं जीवनमस्य मार्गसरसो धिग्‌ वारिधीनां जनुः ॥15॥

आपेदिरेऽम्बरपथं परितः पतङ्गा
भृङ्गा रसालमुकुलानि समाश्रयन्ति ।
संकोचमञ्चति सरस्त्वयि दीनदीनो
मीनो नु हन्त कतमां गतिमभ्युपैतु ॥16॥

मधुप इव मारुतेऽस्मिन्‌ मा सौरभलोभमम्बुजिनि मंस्थाः ।
लोकानामेव मुदे महितोऽप्यात्मामुनार्थितां नीतः ॥17॥

गुञ्जति मञ्जु मिलिन्दे मा मालति मौनमुपयासीः ।
शिरसा वदान्यगुरवः सादरमेनं वहन्ति सुरतरवः ॥18॥

यैस्त्वं गुणगणवानपि सतां द्विजिह्वैरसेव्यतां नीतः ।
तानपि वहसि पटीरज किं कथयामस्त्वदीयमौन्नत्यम्‌ ॥19॥

अपनीतपरिमलान्तरकथे पदं न्यस्य देवतरुकुसुमे ।
पुष्पांन्तरेऽपि गन्तुं वाञ्छसि चेद्‌ भ्रमर धन्योऽसि ॥20॥

तटिनि चिराय विचारय विन्ध्यभुवस्तव पवित्रायाः ।
शुष्यन्त्या अपि युक्तं किं खलु रथ्योदकादानम्‌ ॥21॥

पत्रफलपुष्पलक्ष्म्या कदाप्यदृष्टं वृतं च खलु शूकैः ।
उपसर्पेम भवन्तं बर्बुर वद कस्य लोभेन ॥22॥

एकस्त्वं गहनेऽस्मिन्‌ कोकिल न कलं कदाचिदपि कुर्याः ।
साजात्यशङ्कयामी न त्वां निघ्नन्ति निर्दयाः काकाः ॥23॥

तरुकुलसुषमापहरां जनयन्तीं जगति जीवजातार्तिम्‌ ।
केन गुणेन भवानीतात हिमानीमिमां वहसि ॥24॥

कलभ तवान्तिकमागतमलिमेलं मा कदाप्यवज्ञासीः ।
अपि दानसुन्दराणां द्विपधुर्याणामयं शिरोधार्यः ॥25॥

अमरतरुकुसुमसौरभसेवनसंपूर्णसकलकामस्य ।
पुष्पान्तरसेवेयं भ्रमरस्य विडम्बना महती ॥26॥

पृष्टाः खलु परपुष्टाः परितो दृष्टश्च विटपिनः सर्वे ।
माकन्द न प्रपेदे मधुपेन तवोपमा जगति ॥27॥

तोयैरल्पैरपि करुणया भीमभानौ निदाघे
मालाकार व्यरचि भवता या तरोरस्य पुष्टिः ।
सा किं शक्या जनयितुमिह प्रावृषेण्येन वारां
धारासारानपि विकिरता विश्वतो वारिदेन ॥28॥

आरामधिपतिर्विवेकविकलो नूनं रसा नीरसा
वात्याभिः परुषीकृता दश दिशश्चण्डातपो दुःसहः ।
एवं धन्वनि चम्पकस्य सकले संहारहेतावपि
त्वं सिञ्चन्नमृतेन तोयद कुतोऽप्याविष्कृतो वेधसा ॥29॥

न यत्र स्थेमानं दधुरतिभयभ्रान्तनयना
गलद्दानोद्रेकभ्रमदलिकदम्बाः करटिनः ।
लुठन्मुक्ताभारे भवति परलोकं गतवतो
हरेरद्य द्वारे शिव शिव शिवानां कलकलः ॥30॥

दधानः प्रेमाणं तरुषु समभावेन विपुलां
न मालाकारोऽसावकृत करुणां बालबकुले
अयं तु द्रागुद्यत्कुसुमनिकराणां परिमलै-
र्दिगन्तानातेने मधुपकुलझङ्कारभरितान्‌ ॥31॥

मूलं स्थूलमतीव बन्धनदृढं शाखाः शतं मांसला
वासो दुर्गमहीधरे तरुपते कुत्रास्ति भीतिस्तव ।
एकः किंतु मनागयं जनयति स्वान्ते ममाधिज्वरं
ज्वालालीवलयीभवन्नकरुणो दावानलो घस्मरः ॥32॥

ग्रीष्मे भीष्मतरैः करैर्दिनकृता दग्धोऽपि यश्चातक-
स्त्वां ध्यायन्‌ घन वासरान्‌ कथमपि द्राघीयसो नीतवान्‌ ।
दैवाल्‌ लोचनगोचरेण भवता तस्मिन्निदानीं यदि
स्वीचक्रे करकानिपातनकृपा तत्‌ कं प्रति ब्रूमहे ॥33॥

दवदहनजटालज्वालजालाबहतानां
परिगलितलतानां म्लायतां भूरुहाणाम्‌ ।
अयि जलधर शैलश्रेणिशृङ्गेषु तोयं
वितरसि बहु कोऽयं श्रीमदस्तावकीनः ॥34॥

शृण्वन्‌ पुरः परुषगर्जितमस्य हन्त
रे पान्थ विह्वलमना न मनागपि स्याः ।
विश्वार्तिवारणसमर्पितजीवनोऽयं
नाकर्णितः किमु सखे भताम्बुवाहः ॥35॥

सौरभ्यं भुवनत्रयेऽपि विदितं शैत्यं तु लोकोत्तरं
कीर्तिः किं च दिगङ्गनाङ्गणगता किं त्वेतदेकं शृणु ।
सर्वानेव गुणानियं निगिरति श्रीखण्ड ते सुन्दरान्‌
उज्झन्ती खलु कोटरेषु गरलज्वालां द्विजिह्वावली ॥36॥

नापेक्षा न च दाक्षिण्यं न प्रीतिर्न च सङ्गतिः ।
तथापि हरते तापं लोकानामुन्नतो घनः ॥37॥

समुत्पत्तिः स्वच्छे सरसि हरिहस्ते निवसनं
निवासः पद्‌मायाः सुरहृदयहारी परिमलः ।
गुणैरेतैरन्यैरपि च ललितस्याम्बुज तव
द्विजोत्तंसे हंसे यदि रतिरतीवोन्नतिरियम्‌ ॥38॥

साकं ग्रावगणैर्लुठन्ति मणयस्तीरेऽर्कबिम्बोपमा
नीरे नीरचरैः समं स भगवान्‌ निद्राति नारायणः ।
एवं वीक्ष्य तवाविवेकमपि च प्रौढिं परामुवन्नतेः
किं निन्दान्यथवा स्तवानि कथय क्षीरार्णव त्वामहम्‌ ॥39॥

किं खलु रत्नैरेतैः किं पुनरभ्रायितेन वपुषा ते ।
सलिलमपि यन्‌ न तावकमर्णव वदनं प्रयाति तृषितानाम्‌ठ ॥40॥

इयत्यां संपत्तावपि च सलिलानां त्वमधुना
न तृष्णामार्तानां हरसि यदि कासार सहसा ।
निदाघे चण्डांशौ किरति परितोऽङ्‌गारनिकरान्‌
कृशीभूतः केषामहह परिहर्तासि खलु ताम्‌ ॥41॥

अयि रोषमुरीकरोषि नो चेत्‌ किमपि त्वां प्रति वारिधे वदामः ।
जलदेन तवार्थिना विमुक्तान्यपि तोयानि महान्‌ न हा जहासि ॥42॥

न वारयामो भवतीं विशन्तीं वर्षानदि स्त्रोतसि जह्नुजायाः ।
न युक्तमेतत्‌ तु पुरो यदस्यास्तरङ्गभङ्गान्‌ प्रकटीकरोषि ॥43॥

पौलोमीपतिकानने विलसतां गीर्वामभूमीरुहां
येनाघ्रातसमुज्झितानि कुसुमान्याजघ्रिरे निर्जरैः ।
तस्मिन्नद्य मधुव्रते विधिवशान्‌ माध्वीकमाकाङ्क्षति
त्वं चेदञ्चसि लोभमम्बुज तदा किं त्वां प्रति ब्रूमहे ॥44॥

भूक्ता मृणालपटली भवता निपीतान्यम्बूनि यत्र नलिनानि निषेवितानि ।
रे राजहंस वद तस्य सरोवरस्य कृत्येन केन भवितासि कृतोपकारः ॥45॥

प्रारम्भे कुसुमाकरस्य परितो यस्योल्लसन्मञ्जरी-
पुञ्जे मञ्जुलगुञ्जितानि रचयंस्तानातनोरुत्सवान्‌ ।
तस्मिन्नद्य रसालशाखिनि दशां दैवात्‌ कृशामञ्चति
त्वं चेन्मुञ्चसि चञ्चरीक विनयं नीचस्त्वदन्योऽस्ति कः ॥46॥

एणीगणेषु गुरुगर्वनिमीलिताक्षः
किं कृष्णसार खलु खेलसि काननेऽस्मिन्‌ ।
सीमामिमां कलय भिननकरीन्द्रकुम्भ-
मुक्तामयीं हरिविहारवसुंधरायाः ॥47॥

जठरज्वलनज्वलताप्यपगतशङ्कं समागतापि पुरः ।
करिणामरिणा हरिणा हरिणाली हन्यतां नु कथम्‌ ॥48॥

येन भिन्नकरिकुम्भविस्खलन्मौक्तिकावलिभिरञ्चिता मही ।
अद्य तेन हरिणान्तिके कथं कथ्यतां नु हरिणा पराक्रमः ॥49॥

स्थितिं नो रे दध्याः क्षणमपि मदान्धेक्षण सखे
गजश्रेणीनाथ त्वमिह जटिलायां वनभुवि ।
असौ कुम्भिन्त्या खरनखरविद्रावितमहा-
गुरुग्रावग्रामः स्वपिति गिरिगर्भे हरिपतिः ॥50॥

गिरिगह्वरेषु गुरुगर्वगुम्फितो गजराजपोत न कदापि संचरेः ।
यदि बुध्यते हरिशिशुः स्तनंधयो भविता करेणुपरिशेषिता मही ॥51॥

निसर्गादारामे तरुकुलसमारोपसुकृती
कृती मालाकारो वकुलमपि कुत्रापि विदधे।
इदं को जानीते यदयमिह कोणान्तरगतो
जगज्जालं कर्ता कुसुमभरसौरभ्यभरितम्‌ ॥52॥

यस्मिन्‌ खेलति सर्वतः परिचलत्कल्लोलकोलाहलै-
र्मन्थाद्रिभ्रमणभ्रमं हृदि हरिद्दन्तावलाः पेदिरे ।
सोऽयं तुङ्गतिमिङ्गिलाङ्गकवलीकारक्रियाकोविदः
क्रोडे क्रीडतु कस्य केलिकलहत्यक्तार्णलो राघवः ॥53॥

लूनं मत्तगजैः कियत्‌ कियदपि च्छिन्नं तुषारार्दितैः
शिष्टं ग्रीष्मजभीष्मभानुकिरणैर्भस्मीकृतं काननम्‌ ।
एषा कोणगता मुहुः परिमलैरामोदयन्ती दिशो
हा कष्टं ललिता लवङ्गलतिका दावाग्निना दह्यते ॥54॥

स्वर्लोकस्य शिखामणिः सुरतरुग्रामस्य धामाद्‌भुतं
पौलोमीपुरुहूतयोः परिणतिः पुण्यावलीनामसि ।
सत्यं नन्दन किं त्विदं सहृदयैर्नित्यं विधिः प्रार्थ्यते
त्वत्तः खाण्डवरङ्गताण्डवनटो दूरेऽस्तु वैश्वानरः ॥55॥

स्वस्वव्यापृतिमग्नमानसतया मत्तो निवृत्ते जने
चञ्चूकोटिविपाटिताररपुटो यास्याम्यहं पञ्जरात्‌ ।
एवं कीरवरे मनोरथमयं पीयूषमास्वादय-
त्यन्तः संप्रविवेश वारणकराकारः फणिग्रामणीः ॥56॥

रे चाञ्चल्यजुषो मृगाः श्रितनगाः कल्लोलमालाकुला-
मेतामम्बुधिकामिनीं व्यवसिताः संगाहितुं वा कथम्‌ ।
अत्रैवोच्छलदम्बुनिर्भरमहावर्तैः समावर्तितो
यद्‌ ग्रावेव रसातलं पुनरसौ यानो गजग्रामणीः ॥57॥

पिब स्तन्यं पोत त्वमिह मददन्तावलधिया
दृगन्तानाधत्से किमिति हरिदन्तेषु परुषान्‌ ।
त्रयाणां लोकानामपि हृदयतापं परिहर-
न्नयं धीरं धीरं ध्वनति नवनीलो जलधरः ॥58॥

धीरध्वनिभिरलं ते नीरद मे मासिको गर्भः ।
उन्मदवारणबुद्ध्या मध्येजठरं समुच्छलति ॥59॥

वेतण्डगण्डकण्डूतिपाण्डित्यपरिपन्थिना ।
हरिणा हिणालीषु कथ्यतां कः पराक्रमः ॥60॥

नीरान्‌ निर्मलतो जनर्मधुरता रामामुखस्पर्धिनी
वासः किञ्च हरेः करे परिमलो गीर्वाणचेतोहरः ।
सर्वस्वं तदहो महाकविगिरां कामस्य चाम्भोरुह
त्वं चेत्‌ प्रीतिमुरीकरोषि मधुपे तत्‌ त्वां किमाचक्ष्महे ॥61॥

लीलामुकुलितनयनं किं सुखशयनं समातनुषे ।
परिणामविषमहरिणा करिनायक वर्धते वैरम्‌ ॥62॥

विदुषां वदनाद्‌ वाचः सहसा यान्ति नो बहिः ।
याताश्चेन्‌ न पराञ्चन्ति द्विरदानां रदा इव ॥63॥

औदार्यं भुवनत्रयेऽपि विदितं संभूतिरम्भोनिधे-
र्वासो नन्दनकानने परिमलो गीर्वाणचेतोहरः ।
एवं दातृगुरोर्गुणाः सुरतरोः सर्वेऽपि लोकोत्तराः
स्यादर्थिप्रवरार्थितार्पणविधावेको विवेको यदि ॥64॥

एको विश्वसतां हराम्यपघृणः प्राणानहं प्राणिना-
मित्येवं परिचिन्त्य मात्ममनसि व्याधानुतापं कृथाः ।
भूपानां भवनेषु किं च विमलक्षेत्रेषु गूढाशयाः
साधूनामरयो वसन्ति कति न त्वत्तुल्यकक्षा नराः ॥65॥

विश्वास्य मधुरवचनैः साधून्‌ ये वञ्चयन्ति नम्रतमाः ।
तानपि दधासि मातः काश्यपि यातस्तवापि च विवेकः ॥66॥

अन्या जगद्धितमयी मनसः प्रवृत्ति-
रन्यैव कापि रचना वचनावलीनाम्‌ ।
लोकोत्तरा च कृतिराकृतिरार्तहृद्या
विद्यावतां सकलमेव गिरां दवीयः ॥67॥

आपद्गतः खलु महाशयचक्रवर्ती
विस्तारयत्यकृतपूर्वमुदारभावम्‌ ।
कालागुरुर्दहनमध्यगतः समन्ताल्‌
लोकोत्तरं परिमलं प्रकटीकरोति ॥68॥

विश्वाभिरामगुणगौरवगुम्फितानां
रोषोऽपि निर्मलधियां रमणीय एव ।
लोकंपृणैः परिमलैः परिपूरितस्य
काश्मीरजस्य कटुतापि नितान्तरम्या ॥69॥

लीलालुण्ठितशारदापुरमहासंपद्भराणां पुरो
विद्यासद्‌मविनिर्गलत्कणमुषो वल्गन्ति चेत्‌ पामराः ।
अद्य श्वः फणिनां शकुन्तशिशवो दन्तावलानां शशाः
सिंहानां च सुखेन मूर्धसु पदं धास्यन्ति शालावृकाः ॥70॥

गीर्भिर्गुरूणां परुषाक्षराभिस्तिरस्कृता यान्ति नरा महात्त्वम्‌ ।
अलब्धशाणोत्कषणा नृपाणां न जातु मौलौ मणयो वसन्ति ॥71॥

वहति विषधरान्पटीरजन्मा शिरसि मषीपटलं दधाति दीपः ।
विधुरपि भजतेतरां कलङ्कं पिशुनजनं खलु बिभ्रति क्षितीन्द्राः ॥72॥

सत्पूरुषः खलु हिताचरणैरमन्दमानन्दयत्यखिललोकमनक्त एव ।
आराधितः कथय केन करैरुदरैरिन्दुर्विकासयति कैरविणीकुलानि ॥73॥

परार्थव्यासङ्गादुपजहदथ स्वार्थपरता-
मभेदैकत्वं यो वहति गुणभूतेषु सततम्‌ ।
स्वभावाद्‌ यस्यान्तः स्फुरति ललितोदात्तमहिमा
समर्थो यो नित्यं स जयतितरां कोऽपि पुरुषः ॥74॥

वंशभवो गुणवानपि सङ्‌गविशेषेण पूज्यते पुरुषः ।
न हि तुम्बीफलविकलो वीणादण्डः प्रयाति महिमानम्‌ ॥75॥

अमितगुणोऽपि पदार्थो दोषेणैकेन निन्दितो भवति ।
निखिलरसायनमहितो गन्धेनोग्रेण लशुन इव ॥76॥

उपकारमेव तनुते विपद्गतः सद्गुणो नितराम्‌ ।
मूर्च्छां गतो म-तो वा निदर्शनं पारदोऽत्र रसः ॥77॥

वनान्ते खेलन्ती शशकशिशुमालोक्य चकिता
भुजप्रान्तं भर्तुर्भजति भयहर्तुः सपदि या ।
अहोसेयं सीता दशवदननीता हलरदैः
परीता रक्षोभिः श्रयति विवशा कामपि दशाम्‌ ॥78॥

पुरो गीर्वाणानां निजभुजबलाहोपुरुषिका-
महो कारंकारं पुरभिदि शरं संमुखयतः ।
स्मरस्य स्वर्बालानयनसुममालार्चनपदं
वपुः सद्यो भालानलभसितजालास्पदमभूत्‌ ॥79॥

युक्तं सभायां खलु मर्कटानां शाखास्तरूणां मृदुलासनानि ।
सुभाषितं चीत्कृतिरातिथेयी दन्तैर्नखाग्रैश्च विपाटितानि ॥80॥

किं तीर्थं हरिपादपद्मभजनं किं रत्नमच्छा मतिः
किं शास्त्रं श्रवणेन यस्य गलति द्वैतान्धकारोदयः ।
किं मित्रं सततोपकाररसिकं तत्त्वावबोधः सखे
कः शत्रुर्वद खेददानकुशलो दुर्वासनानां चयः ॥81॥

निंष्णातोऽपि च वेदान्ते साधुत्वं नैति दुर्जनः ।
चिरं जलनिधौ मग्नो मैनाक इव मार्दवम्‌ ॥82॥

नैर्गुण्यमेव साधीयो धिगस्तु गुणगौरवम्‌ ।
शाखिनोऽन्ये विराजन्ते खण्ड्यन्ते चन्दनद्रुमाः ॥83॥

परोपसर्पणानन्तचिन्तानलशिखाशतैः ।
अचुम्बितान्तः करणाः साधु जीवन्ति पादपाः ॥84॥

शून्येऽपि च गुणवत्तामातन्वानः स्वकीयगुणजालैः ।
विवराणि मुद्रयन्‌ द्रागूर्णायुरिव सुजनो जयति ॥85॥

खलः सज्जनकार्पासरक्षणैकहुताशनः
परदुःखाग्निशमनो मारुतः केन वर्ण्यताम्‌ ॥86॥

परगुह्यगुप्तिनिपुणं गुणमयमखिलैः समीहितं नितराम्‌ ।
ललिताम्बरमिव सज्जनमाखव इव दूषयन्ति खलाः ॥87॥

यशः सौरभ्यलशुनः शान्तिशैत्यहुताशनः ।
कारुण्यकुसुमाकाशः खलः सज्जनदुःखदः ॥88॥

धत्ते भरं कुसुमपत्रफलावलीनां
घर्मव्यथां वहति शीतभवां रुजं च ।
यो देहमर्पयति चान्यसुखस्य हेतो-
स्तस्मै वदान्यगुरवे तरवे नमोऽस्तु ॥89॥

हालाहलं खलु पिपासति कौतुकेन
कालानलं परिचुचुम्बिषति प्रकामम्‌ ॥
व्यालाधिपं च यतते परिरब्धुमद्धा
यो दुर्जनं वशयितुं तनुते मनीषाम्‌ ॥90॥

दीनानामिह परिहाय शुष्कसस्या-
न्यैदार्यं प्रकटयतो महीधरेषु ।
औन्नत्यं विपुलमवाप्य दुर्मदस्य
ज्ञातोऽयं जलधर तावको विवेकः ॥91॥

गिरयो गुरवस्तेभ्योऽप्युर्वी गुर्वी ततोऽपि जगदण्डम्‌ ।
तस्मादप्यतिगुरवः प्रलयेऽप्यचला महात्मानः ॥92॥

व्योमनि बीजाकुरुते चित्रं निर्माति सुन्दरं पवने ।
रचयति रेखाः सलिले यस्तु खले चरति सत्कारम्‌ ॥93॥

हरं वक्षसि केनापि दत्तमज्ञेन मर्कटः ।
लेढि जिघ्रति संक्षिप्य करोत्युन्नतमासनम्‌ ॥94॥

मलिनेऽपि रागपूर्णां विकसितवदनामनल्पजल्पेऽपि ।
त्वयि चपलेऽपि च सरसां भ्रमर कथं वा सरोजिनीं त्यजसि ॥95॥

स्वार्थं धनानि धनिकात्‌ प्रतिगृह्णतो य-
दास्यं भजेन्‌ मलिनतां किमिदं विचित्रम्‌ ।
गृह्णन्‌ परार्थमपि वारिनिधेः पयोऽपि
मेघोऽयमेति सकलोऽपि च कालिमानम्‌ ॥96॥

जनकः सानुविशेषो जातिः काष्ठं भुजङ्गमैः सङ्गः ।
स्वगुणैरेव पटीरज यातोऽसि तथापि महिमानम्‌ ॥97॥

कस्मै हन्त फलाय सज्जन गुणग्रामार्जने सज्जसि
स्वात्मोपस्करणाय चेन्‌ मम वचः पथ्यं समाकर्णय ।
ये भावा हृदयं हरन्ति नितरां शोभाभरैः संभृता-
स्तैरेवारस्य कलेः कलेवरपुषो दैनंदिनं वर्तनम्‌ ॥98॥

धूमायिता दश दिशो दलितारविन्दा
देहं दहन्ति दहना इव गन्धवाहाः ।
त्वामन्तरेण मृदुताम्रदलाम्र मञ्जु-
गुञ्जन्मधुव्रत मधो किल कोकिलस्य ॥99॥

भिन्ना महागिरिशिलाः करजाग्रजाग्र-
दुद्दामशौर्यनिकरैः करटिभ्रमेण ।
दैवे पराचि करिणामरिणा तथापि
कुत्रापि नापि खलु हा पिशितस्य लेशः ॥100॥

गर्जितमाकर्ण्य मनागङ्के मातुर्निशार्धजातोऽपि ।
हरिशिशुरुत्पतितुं द्रागङ्गान्याकुञ्च्य लीयते निभृतम्‌ ॥101॥

किमहं वदामि खल दिव्यमते गणपक्षपातमभितो भवतः ।
गुणशालिनो निखिलसाधुजनान्‌ यदहर्निशं न खलु विस्मरसि ॥102॥

रे खल तव खलु चरितं विदुषामग्रे विविच्य वक्ष्यामि ।
अथवालम पापात्मन्‌ कृतया कथयापि ते हतया ॥103॥

आनन्दमृगदावाग्निः शीलशाखिमदद्विपः ।
ज्ञानदीपमहावायुरयं खलसमागमः ॥104॥

खलास्तु कुशलाः साधुहितप्रत्यूहकर्मणि ।
निपुणाः फणिनः प्राणानपहर्त्तुं निरागसाम्‌ ॥105॥

वदने विनिवेशिता भुजङ्गी पिशुनानां रसनामिषेण धात्रा ।
अनया कथमन्यथावलीढा न हि जीवन्ति जना मनागमन्त्राः ॥106॥

कृतं त्वयोन्नतं कृत्यमर्जितं चामलं यशः ।
यावज्जीवं सखे तुभ्यं दास्यामो विपुलाशिषः ॥107॥

अविरतं परकार्यकृतां सतां मधुरिमातिशयेन वचोऽमृतम्‌ ।
अपि च मानसमम्बुनिधिर्यशो विमलशारदचन्दिरचन्द्रिका ॥108॥

निर्गुणः शोभते नैव विपुलाडम्बरोऽपि ना ।
आपातरम्यपुष्पश्रीशोभितः शाल्मलिर्यथा ॥109॥

पङ्कैर्विना सरो भाति सदः खलजनैर्विना ।
कटुवर्णैर्विना काव्यं मानसं विषयैर्विना ॥110॥

तत्त्वं किमपि काव्यानां जानाति विरलो भुवि ।
मार्मिकः को मरन्दानामन्तरेण मधुव्रतम्‌ ॥111॥

सरजस्कां पाण्डुवर्णां कण्टकप्रकरान्विताम्‌ ।
केतकीं सेवसे हन्त कथं रोलम्ब निस्त्रपः ॥112॥

यथा तानं विना रागो यथा मानं विना नृपः ।
यथा दानं विना हस्ती तथा ज्ञानं विना यतिः ॥113॥

सन्तः स्वतः प्रकाशन्ते गुणा न परतो नृणाम्‌ ।
आमोदो न हि कस्तूर्याः शपथेन विभाव्यते ॥114॥

अयि बत गुरुगर्वं मास्म कस्तूरि यासी-
रखिलपरिमलानां मौलिना सौरभेण ।
गिरिगहनगुहायां लीनमत्यन्तदीनं
स्वजनकममुनैव प्राणहीनं करोषि ॥115॥

दूरीकरोति कुमतिं विमलीकरोति
चेतश्चिरन्तनमघं चुलुकीकरोति ।
भूतेषु किं च करुणां बहुलीकरोति
सङ्‌गः सतां किमु न मङ्गलमातनोति ॥116॥

अविरतपरोपकरणव्यग्रीभवदमलचेतसां महताम्‌ ।
आपातकाटवानि स्फुरन्ति वचनानि भेषजानीव ॥117॥

व्यागुञ्जन्मधुकरपुञ्जमञ्जुगीता-
माकर्ण्य स्तुतिमुदयन्नयातिरेकात्‌ ।
आभूमीतलनतकन्धराणि मन्येऽ-
रण्येऽस्मिन्नवनिरुहां कुटुम्बकानि ॥118॥

मृतस्य लिप्सा कृपणस्य दित्सा विमार्गगायाश्च रुचिःस्वकान्ते ।
सर्पस्य शान्तिः कुटिलस्य मैत्री विधातृसृष्टौ न हि दृष्टपूर्वा ॥119॥

उत्तमानामपि स्त्रीणां विश्वासौ नैव विद्याते ।
राजप्रियाः कैरविण्यो रमन्ते मधुपैः सह ॥120॥

अयाचितः सुखं दत्ते याचितश्च न यच्छति ।
सर्वस्वं चापि हरते विधिरुच्छृङ्खलो नृणाम्‌ ॥121॥

खण्डितानेत्रकञ्जालिमञ्जुरञ्जनपण्डिताः ।
मण्डिताखिलदिक्‌ प्रान्ताश्चण्डांशोः पान्तु भानवः ॥122॥

****************

]