प्राणाभरणम्‌-जगदाभरणम्‌

[[प्राणाभरणम्‌-जगदाभरणम्‌ Source: EB]]

[

***प्राणाभरणम्‌ (जगदाभरणम्‌)***

विद्वांसो वसुधातले परवचःश्लाघासु वाचंयमा
भूपालाः कमलाविलासमदिरोन्मीलन्मदाघूर्णिताः ।
आस्ये धास्यति कस्य लास्यमधुना धन्यस्य कामालस-
स्वर्वामाधरमाधुरीमधरयन्‌ वाचां विलासो मम ॥1॥
विद्वांस इत्यादि प्रायदर्शनाभिप्रायमेतत्‌, तेन सहृदयैर्न मनागपि विमनायितव्यम्‌ । भावध्वनिश्चायम्‌ । उत्तरार्धप्रति- पाद्यार्थालम्बनाया एतत्पद्यप्रयोगानुभावायाः कविगतचिन्तायाः प्राधान्येनाबिव्यक्तेः । अनुपात्तोभयनिमित्तको व्यतिरेकः स्फुटोऽलङ्कारः । कामालसत्वं वामाविशेषणमधरमाधुरीप्रकर्षकम्‌ ॥1॥

विद्राणैव गुणज्ञता समुदितो भूयानसूयाभरः
कालोऽयं कलिराजगाम जगतीलावण्यकुक्षिम्भरिः ।
एवं भावनया मदीयकविते मौनं किमालम्बसे
जागर्तु क्षितिमण्डले चिरमिह श्रीकामरूपेश्वरः ॥2॥
कविगतराजविषयकरतिभावध्वनिश्चायम्‌ । इत उर्ध्वमयमेव आचरमपद्यमनुवर्त्तिष्यते । अस्याश्चात्र मौनानुभावितो वर्णनीयालम्बनो निर्वेदो गुण इति प्रेयोऽलङ्कारास्पदम्‌ । अत्र च अचेतनायां कवितायां चेतनत्वाध्यवसायमूला असम्हन्धे सम्बन्धात्मिका अतिशयोक्तिर्विवश्रिता । तेन बावनामौन निर्वेदानां सम्बोधनस्य च नानुपपत्तिः ॥2॥

पारीन्द्राणां धुरीणैरवनिधरगुहागर्भतः प्रोत्पतद्भिः
स्वापभ्रंशापराधप्रचलितनयनप्रान्तमाकर्ण्यमानः ।
त्वत्प्रस्थानान्तरुद्यत्प्रलयजलधरध्वानधिक्कारधीरो
घृष्टक्षीरोदतीरो जगति विजयते दुन्दुभिद्वन्द्वनादः ॥3॥
अत्र राजालम्बनस्य तादृशनादश्रवणोद्दीपितस्य नयनप्रचलनानुभावितस्य गिरिगुहागर्भोत्पतनाभिव्यक्तेनामर्षेण सञ्चारिणा परिपोषितस्य पारीन्द्रगतोत्साहस्य स्थायिनो राजविषयकरतिभावाङ्गत्वात्‌ रसालङ्कारत्वम्‌ । यदाहुः- ‘प्रधानेऽन्यत्र वाक्यार्थे यत्राङ्गं तु रसादयः । काव्ये तस्मिन्नलङ्कारो रसादिरिति मे मतिः ॥’ इति । तृतीयचतुर्थचरण- योस्तु स्फुटावेव व्यतिरेकातिशयौ । घृष्टपदेन तादृशनादो वेलाचल-प्रतिबद्धत्वादग्रे न गतोऽन्यथा तु लोकालोकाचलमपि स्पृशेदिति भावो गम्यते । अत एव मृष्टेति नोक्तम्‌ । तथा सति शैथिल्यप्रत्ययापत्तेः ॥3॥

कि ब्रूमस्तव वीरतां वयममी यस्मिन्‌ धराखण्डल-
क्रीडाकुण्डलितभ्रुशोणनयने दोर्मण्डलं पश्यति ।
माणिक्यावलिकान्तिदन्तुरतरैर्भूषासहस्त्रोत्करै-
र्विन्ध्यारम्यगुहागृहावनिरुहास्तत्कालमुल्लासिताः ॥4॥
अत्र विन्ध्यारण्यगतानां गुहगृहाणामवनिरुहाणां च विन्ध्यगतानां गुहागृहाणामरण्‌यगतानामवनिरुहाणां च वा भूषणेन कार्येणाप्रस्तुतेन त्वदरिनारीणां स्वनगराणि परित्यज्य निशिगुहागृहेषु तरुतलेषु च विन्यस्य सकलाभरणानि कृतशयनानां प्रातस्त्वदागमनसंभ्रमेण तत्कर्मकं विस्मरणं भारवशात्‌ परित्यागो वा प्रस्तुतो गम्यत इत्यप्रस्तुतप्रशंसा । कार्यस्य यथाकथंचित्‌ प्रस्तुतत्वे तु पर्यायोक्तमलङ्कारः ॥4॥

माहात्म्यस्य परोऽवधिर्निजगृहं गम्भीरतायाः पिता
रत्नानामहमेक एव भूवने को वाऽपरो मादृशः
इत्येवं परिचिन्त्य मा स्म महसा गर्वान्धकारं गमो
दुग्धाब्धे भवता समो विजयते श्रीप्राणनारायणः
अत्रोपमानस्य गुणविशेषप्रयुक्तसादृश्याभावनिबन्धन- मुत्कर्षं परिहर्त्तुं वर्ण्यमानतादृशसादृश्यात्मकः प्रतीपालङ्कारस्य भेदः । स चोपमाविशेष इत्येके । विच्छित्तिवैलक्षण्यादतिरिक्त एवेत्यपरे ॥5॥

त्वत्तो जन्म सितांशुशेखरतनुज्योत्स्नानिमग्नात्मनो
दुग्धाम्भोनिधिमुग्धवीचिवलयैः साकं परिक्रीडनम्‌ ।
संवासः सुरलोकसिन्धुपुलिने वादः सुधांशोः करैः
कस्मान्‌ नोज्वलिमानमञ्चतितमां देव त्वदीयं यशः ॥6॥
अत्र यशसि धवलतातिशयस्तद्धर्मिसम्बन्धप्रयुक्तत्वेन कथित इति समस्य विषयः । अंशुकृतश्चन्द्रे तत्कृतश्च भगवति भगवत्कृतश्च राजनीत्येवमुत्तरोत्तरमुपचीयमानो राजगति उत्कर्षः प्रतीयति इति सारविषयः । वस्तुतस्त्वनुक्तत्वात्‌ प्रौढोक्तिरेवेति ॥6॥

आबध्नास्यलकाननिरस्यसितमां चोलं रसाकाङ्क्षया-
लङ्कायावशतां तनोषि कुरुषे जङ्घाललाटक्षतम्‌ ।
प्रत्यङ्गं परिमर्दनिर्दयमहो चेतः समालम्बसे
वामानां विषये नृपेन्द्र भवतः प्रागल्भ्यमत्यद्भुतम्‌ ॥7॥
अत्र प्रकृतधर्मिगतयोः प्रकृताप्रकृतयोः प्रकृतयोरेव वा वृत्तान्तयोः श्लेषः । स च षट्सु स्थलेषु शब्दनानात्वनिबन्धनो द्वयोश्चार्थनानात्वनिबन्धनः । द्वावप्येतौ शब्दालङ्काराविति प्राञ्चः । आद्यो जतुकाष्ठन्यायेन शब्दश्लेषणाच्छब्दालङ्कारो द्वितीयस्त्वेकवृन्तगतफलद्वयन्यायेनार्थश्लेषणादर्थालङ्कार इति नव्याः ॥7॥

देव त्वां परितः स्तुवन्तु कवयो लोभेन किं तावता
स्तुत्यस्त्वं भवितासि यस्य तरुणश्चापप्रतापोऽधुना ।
क्रोडान्तः कुरुतेतरां वसुमतीमाशाः समालिङ्गति
द्यां चुम्बत्यमरावतीं च सहसा गच्छत्यगम्यामपि ॥8॥
अत्र प्रतापगतः पृथिव्यादिसम्बन्धो लिङ्गविशेषावच्छिन्नतत्तत्साधारणविशेषणाभिव्यक्तकामुकवृत्तान्ताभिननतया स्थित इति समासोक्तिः कार्यरूपधर्मप्रयुक्तशुद्धसाधारण्येन च विशेषणसाम्यमालम्ब्य प्रवृत्ता, सा च निन्दोत्थापकत्वाद्‌ व्याजस्तुतौ गुणः ॥8॥

लोकानां विपदं धुनोषि तनुषे सम्पत्तिमत्युत्कटा-
मित्यल्पेतरजल्पितैर्जडधियां भूपाल मा गा मदम्‌ ।
यत्‌ कीर्तिस्तव वल्लभा लघुतरब्रह्माण्डभाण्डोदरे
पिण्डीकृत्य महोन्नतामपि तनुं कष्टेन हा वर्तते ॥9॥
अत्रापि प्राग्वत्‌ । परं त्वाधाराधेयान्यतरविस्तृतत्व सिद्धिफलकान्यतरन्यूनत्वकल्पनात्माधिकालङ्कारोऽपि तस्यां गुणः ॥9॥

क्षोणीं शासति मय्युपद्रवलवः कस्यापि नि स्यादिति
प्रौढं व्याहरतो वचस्तव कथं देव प्रतीमो वयम्‌ ।
प्रत्यक्षं भवतो विपक्षनीवहैर्द्यामुत्पतद्भिः क्रुधा
यद्‌ युष्मत्कुलकोटिमूलपुरुषो निर्भिद्यते भास्करः ॥10॥
इह त्वधिकसमासोक्तिभ्यामनालिङ्गितैव सा (व्याजस्तुतिः) ॥10॥

आस्वादेन रसो रसेन कविता काव्येन वाणी तया
लोकान्तःकरणानुरागरसिकः सभ्यः सभा चामुना ।
दारिद्र्यानलदह्यमानजगतीपीयूषधाराधर
क्षोणीनाथ तया भवांश्च भवता भूमण्डलं भासते ॥11॥
मालादीपकमेतदिति प्राञ्चः । दीपकस्य सादृश्यमूलकतानियमान्नेदं दीपकम्‌ अपित्वेकावलीभेद इति तु वयम्‌ ॥11॥

अम्लायान्‌ यदरातिकैरवकुलान्यम्लासिषुः सत्वरं
दैन्यध्वान्तकदम्बकानि परितो नेशुस्तमां तामसाः ।
सन्मार्गाः प्रसरन्ति साधुनलिनान्युल्लासमातन्वते
तन्‌ मन्ये भवतः प्रतापतपनो देव प्रभातोन्मुखः ॥12॥
इह रूपकनिष्पादितलिङ्गकमनुमानं निमित्तविरहादुत्प्रेक्षाया अयोगाद्‌ । वाचकमनुमितिपरम्‌ ॥12॥

उत्क्षिप्ताः कबरीभरं विवलिताः पार्श्वद्वयं न्यक्कृताः
पादाम्भोजयुगं रुषा परिहृता दूरेण चेलाञ्चलम्‌ ।
गृह्णन्ति त्वरया भवत्प्रतिभटक्ष्मापालवामभ्रुवां
यान्तीनां गहनेषु कण्टकचिताः के के न भूमीरुहाः ॥13॥
अत्र कण्टकचितत्वेन कबरीग्रहणादेः सङ्कीर्णत्वात् कार्यधर्मान्तरसंकीर्णशुद्धसाधारण्येन विशेषणसाम्यमालम्ब्य प्रवृत्ता समासोक्तिः ॥13॥

दोर्दण्डद्वयकुण्डलीकृतलसत्कोदण्डचण्डांशुग-
ध्वस्तोद्दण्डविपक्षमण्डलमथ त्वां वीक्ष्य मध्येरणम्‌ ।
वल्गद्गाण्डिवमुक्तकाण्डवलयज्वालावलीताण्डव-
भ्रश्यत्खाण्डवमहो को न क्षितीशः स्मरेत्‌ ॥14॥
अत्र स्मरणालङ्कारः । भाव इति तु न भ्रमितव्यम्‌ । सादृश्यमूलकत्वतदमूलकत्वाभ्यां भावत्वालङ्कारत्वयोरिह व्यवस्थितेः । शब्दवेद्यात्वाच्च ॥14॥

सृष्टः सृष्टिभुवा पुरा किल परित्रातुं जगन्मण्डलं
त्वं चण्डातप निर्दयं तपसि यज्‌ ज्वालाजटालैः करैः ।
संरम्भारुणलोचनो रणभुवि प्रस्थातुकामऽधुना
जानीमो भवता न हन्त विदितः श्रीकामरूपेश्वरः ॥15॥
अत्र राजवर्णनाङ्गत्वेन रवेर्भयोत्पादने वर्म्यत्वेन प्रस्तुते साक्षात्तदनुगुणत्वेनाप्रस्तुतेन प्रस्थानेन साक्षात्तदनुगुणं रिपुकर्तृकं सूर्यमण्डलभेदनं कार्यं गम्यते ॥15॥

आयाता कमलासनस्य भवनाद्‌ द्रष्टुं त्रिलोकीतलं
गीर्वाणेषु दिनानि कानिचिदथो नीत्वा पुनः कौतुकात्‌ ।
भ्रान्त्वा भूवलये महाकविकुलोपास्या तवास्याम्बुजे
राजन्‌ सम्प्रति सत्यधामनि गिरां देवी सुखं वर्तते ॥16॥
(उपरिलिखितौ इमौ द्वौ श्लोकौ पूनास्थभाण्डारकर प्राच्यसंशोधनमन्दिरस्थहस्तलिखितप्राणाभरणे नोपलभ्येते)
अत्रैकस्याधेयस्यानेकाधारसम्बन्धात्‌ पर्यायः । तत्र प्रथमचरणगतमधिकरणमार्थम्‌ । विश्लषावधिपञ्चम्या विश्लेषस्योपश्लेषास्योपश्लेषापेक्षत्वे नौपश्लेषिकाधिकरणस्याक्षेपगम्यत्वात्‌ । सत्यधामनीति श्लेषबित्तिका भेदाध्यवसानेन मुखस्य सत्यलोकतासिद्धौ सुखवर्तनसिद्धिः ॥16॥

दष्टिः सम्भृतमङ्गला बुधमयी देव त्वदीया सभा
काव्यस्याश्रयभूतमास्यमरुणाधारोऽधरः सुन्दरः ।
क्रोधस्तेऽशनिभूरुदारधिषणा स्वान्तं तु सोमास्पदं
राजन्‌ नुनमनूनविक्रम भवान्‌ सर्वग्रहालम्बनम्‌ ॥17॥
अत्रेत्प्रेक्ष्यमाणस्य सर्वग्रहालम्बनत्वस्य समानाधिकरणेषु धर्मेषु तत्तद्ग्रहाश्रिताङ्गकत्वेषु विशेषणीभूतैस्तत्तद्ग्रहैः सह विषयस्य राज्ञः कल्याणाश्रयत्वादिषु विषेषणीभूतानां कल्याणादीनां श्लेषेणाभेदसम्पादनद्वारा तादृशधर्मसाधारणतासम्पत्तौ तन्निमित्तकोत्प्रेक्षासिद्धिः ॥17॥

विद्वद्दैन्यतमस्त्रिमूर्तिरथवा वैरीन्द्रवंशाटवी-
दावाग्निः किमहो महोज्वलयशःशीतांशुदुग्धाम्बुधिः ।
किं वानङ्गभुजड्गदष्टवनिताजीवातुरेवं नृणां
केषामेष नराधिपो न जनयत्यल्पेतराः कल्पनाः ॥18॥
अत्र कोटीनामरोपान्तरमूलकत्वात्‌ पर्परितरूपकमूलः संशयः । स चाहार्यः मूलारोपस्य तथात्वात्‌ कवाविव कविनिबद्कधप्रमात्रन्तरेऽप्याहार्यबुद्धेरविरोधात्‌ ॥18॥
नदन्ति मददन्तिनः परिलसन्ति वाजिव्रजाः
पठन्ति बिरुदावलीमहितमन्दिरे बन्दिनः
इदं तदवधि प्रभो यदवधि प्रवृद्धा न ते
युगान्तदहनोपमा नयनकोणशोणद्युतिः ॥19॥
अत्र मुख्यार्थस्य राजविषयायाः कविरतेरुपस्कारकस्य यदैव तव कापोदयस्तदैव तव रिपूणां सम्पदो भस्मसाद्‌ भविष्यन्तीति वस्तुन उपस्कारिका नयनकोणशोणद्युतेर्युगान्त- दहनोपमा ॥19॥

मयि त्वदुपमाविधौ वसुमतीश वाचंयमे
न वर्णयति मामसौ कविरिति क्रुधं मा कृथाः ।
चराचरमिदं जगज्‌ जनयतो विधेर्मानसे
पदं न विदधेतरां तव खलु द्वितीयो नरः ॥20॥
अत्र त्वत्समो नास्तीति प्रत्ययादुपमानलुप्तोपमा व्यङ्ग्येति प्राञ्चः । सर्वथैव साम्यस्याप्रतिष्ठानाननेयमुपमा । अन्यथा व्यतिरेकस्यापि तत्त्वापत्तेः । ढुढोल्लन्तो मरिससि कंटककलिआइं केअइवणाइं । मालइकुसुमसरिच्छं भमर भमंतो ण पावेसि ॥ इत्यत्र तु न प्राप्स्यसी- त्युक्त्वा क्वचित्‌ त्वदगोचरे स्थले भवष्यतीति प्रतीतेः सादृश्यपद- प्रतिष्ठानाल्लुप्तोपमास्तु । तस्मादसमालङ्कार एवायमिति तु नव्याः ॥20॥

भुजभ्रमितपट्टिशोद्दलितदृप्तदन्तावलं
भवन्तमरिमण्डलक्रथन पश्यतः सङ्गरे ।
करालकुलिशाहतिस्फुटविभिन्नविन्ध्याचलो
न कस्य हृदयं झगित्यधिरुरोह जम्भाहितः ॥21॥

अत्रापि स्मरणालङ्कारः परन्तु लक्ष्यः ॥21॥

यमः प्रतिमहीभृतां हुतवहोऽसि तन्नीवृतां
सतां खलु युधिष्ठिरो धनपतिर्धनाकांक्षिणाम्‌ ।
गृहं शरणमिच्छतां कुलिशकोटिभिर्निर्मितं
त्वमेक इह भूतले बहुविधो विधात्रा कृताः ॥22॥
अत्र कविना यमत्वादिना रूपेण राज्ञो रूपवतः करणाद्रूपकेण विपक्षभूपालादीनामेतस्मिन्नागते यमत्वादिना भ्रान्तेरपि सम्भवात्‌ भ्रान्तिमता तैरेवानेकैः ग्रहीतृङीर्यमत्वादिकै- र्धर्मैरुल्लेखनादुल्लेखविशेषेण च सह सङ्कीर्णोऽयं सम्बन्धिषष्ठ्यन्तभेदप्रयुक्तवर्ण्यानेकविधत्वक उल्लेखः ॥22॥

द्विनेत्र इव वासवः करयुगो विवस्वानिव
द्वितीय इव चन्द्रमाः श्रितवपुर्मनोभूरिव ।
नराकृतिरिवाम्बुधिर्गुरुरिव क्षमामागतो
नुतो निखिलभूसुरै र्जयति कामरूपेश्वरः ॥23॥
अत्र राजगतानां द्विनेत्रत्वादीनां वासवादितादात्म्य- विरोधिनां विरोधनिवर्तनाय विषयिषु वासवादिष्वारोपेण साधारणीकरणात्तन्निमित्तकोत्प्रेक्षा । सा चेह मालारूपा । न चात्रोपमा शक्यनिरूपणा । द्विनेत्रत्वाद्युक्तेर्निष्प्रयोजकत्वापत्तेः । न चोपमानिष्पादकं तेषां साधारण्यं तदभावेऽपि परमैश्वर्यादिभिस्तस्याः प्रतीयमानैर्निष्पत्तेः । असुन्दरत्वेन उपमानिष्पादकतया कवेरनभिप्रेतत्त्वाच्च । एवं द्वितीयत्वादीनां चन्द्रादिष्वारोपोऽप्युपमायां सत्यामनर्थक एव स्यात्‌ ॥23॥

दीनव्राते दयार्द्रा निखिलरिपुकुले निर्दया किं च मृद्वी
काव्यालापेषु तक्रप्रतिवचनविधौ कर्कशत्वं दधाना ।
लुब्धा धर्मेष्वलुब्धा वसुनि परविपद्दर्शने कान्दिशीका
राजन्नाजनमरम्या स्फुरति बहुविधा तावकी चित्तवृत्तिः ॥24॥
अत्र विषयानेकत्वप्रयुक्तं चित्तवृत्तेरनेकविधत्वमित्युल्लेखः । तत्र च तदीयचित्तवृत्तित्वेनैकत्वाध्यवसानं तन्त्रम्‌ ॥24॥

देवाः के पूर्वदेवाः समिति मम नरः सन्ति के वा पुरस्ता-
देवं जल्पन्ति तावत्‌ प्रतिभटपृतनावर्तिनः क्षत्रवीराः ।
यावन्‌ नायाति राजन्‌ नयनविषयतामन्तकत्रासिमूर्ते-
र्मुग्धारिप्राणदुग्धाशनमसृणरुचिस्त्वत्कृपाणो भुजङ्गः ॥25॥

अत्र शुद्धपरम्परितरूपकम्‌ ॥25॥

प्राची सन्ध्या समुद्यन्महिमदिनमणेर्मानमाणिक्यकान्ति-
र्ज्वालामाला कराला कवलितजगतः क्रोधकालानलस्य ।
आज्ञा कान्तापदाम्भोरुहतलविगलन्मञ्जुलाक्षारसानां
सा भाति क्षोणिशोभाकरण तव दृशोः सङ्गरे शोणिमश्रीः ॥26॥
अत्रापि तदेव परन्तु मालात्मकम्‌ ।(अस्य पद्यम्य पूनास्थभाण्‍डारकर संशोधनमन्दिरश्थहस्तलिखिते व्याख्या नास्ति) ॥26॥

त्वां सुन्दरीनिवहनिष्ठुरधैर्यगर्वनिर्वासनैकरसिकं समरे निरीक्ष्य ।
केषामरिक्षितिभृतां नवराज्यलक्ष्मीः स्वामिव्रतत्वमपरिस्खलितं बभार ॥27॥
अत्र शूत्रूणां राज्यलक्ष्मीस्त्वां प्राप्तेति विवक्षितोऽर्थः पातिव्रत्यस्खलितरूपेणाभिहित इति पर्यायोक्तम्‌ । तच्च राज्यलक्ष्म्या नायिकात्वसिद्ध्यर्थं समासोक्तिमपेक्षत इति सा तत्र गुणः ॥27॥

नासत्ययोगो वचनेषु कीर्त्तौ तथार्जुनः कर्मणि चापि धर्मः ।
चित्ते जगत्प्राणभवो यदास्ते वशंवदास्ते किमु पाण्‍डुपुत्राः ॥28॥
अत्र पाण्डुपुत्रेषु विषयेषु राजवशंवदतादात्म्योत्प्रेक्षायां राजाश्रितत्वरूपो विषयिधर्मः श्लेषेण विषयाणां राजाश्रितानां चासत्याभावशुक्लगुणपुण्यपरमेश्वराणामभेदसम्पादनद्वारा विषयसाधारणीकृतः ॥28॥

मन्थाचलभ्रमणवेगवशंवदा ये
दुग्धाम्बुधेरुदपतन्नणवः सुधायाः ।
तैरेकतामुपगतैर्विविधौषधीभि-
र्धाता ससर्ज तव देव दयादृगन्तान्‌ ॥29॥
अत्र दृगन्तेषु न केवलं संजीवकत्वादयोऽमृतमात्रगुणा एव कवेर्बुबोधयिषिता अपितु निखिलजनवशीकारकत्वादयोऽन्येऽपीति सुधाकणेष्वोषधीसंसर्गो विशेषणतया अतिशयार्थंमुपात्त इति प्रौढोक्तिः ॥29॥

केशैर्वधूनामथ सर्वकोषैः प्राणैश्च साकं प्रतिभूपतीनाम्‌ ।
त्वया रणे निष्करुणेन गाढं चापस्य जीवा चकृषे जवेन ॥30॥
अत्र चापकर्षणकार्याणां केशाकर्षणादीनां पौर्वापर्य-विपर्ययात्मनातिशयेनानुप्राणिता सहोक्तिः ॥30॥

महेन्द्रतुल्यं कवयो भवन्तं किं तानिह वारयामः ।
भवान्‌ सहस्त्रैः समुपास्यमानः कथं समानस्त्रिदशाधिपेन ॥31॥
अत्र श्लेषोत्थापितत्रित्वदशत्वसंख्यामादाय व्यतिरेक उपात्तोभयनिमित्तः ॥31॥

स तु वर्षतु वारि वारिदस्त्वमुदारासय रत्नवर्षणः ।
स कुहूजनीमलीमसस्त्वमिहान्तर्बहिरेव निर्मलः ॥32॥
अत्रापि स एव परं श्लेषोऽत्रानुत्थापको निषिध्यमानं साम्यं च न शाब्दमिति विशेषः ॥32॥

कतिपयैर्निरणायि जनाधिपस्तदपरैरुदटङ्कि धनाधिपः ।
अजनि केवलमेष गिरां पतिर्भुवि मदेकमते कमतेश्वरः ॥33॥
अत्र नायं राजा किंतु गिरां पतिरित्याकारापह्नुतिः । तत्र निषेधभागः परमतत्वोक्त्या पूर्वार्धेन गम्य्ते । आरोपभाग स्तूत्तरार्धेन शाब्द एव ॥33॥

मकरप्रतिमैर्महाभटैः कविभी रत्ननिभैः समन्वितः ।
कवितामृतकीर्तिचन्द्रयोस्त्वमिहोर्वीरमणीसि भाजनम्‌ ॥34॥
अत्र राज्ञो जलध्युपमायाः शब्देनानभिधानेऽप्यङ्गोपमाभिराक्षेपादेकदेशविवर्तिन्युपमां । तेनोत्तरार्धे उपमित समास एव विशेषणसमासवेद्यस्य तादात्म्यस्य प्रकृतेऽनुपयोगात्‌ ॥34॥

पुरः पुरस्तादरिभूपतीनां भवन्ति भूवल्लभ भस्मशेषाः ।
अनन्तरं ते भ्रुकुटीविटङ्कात्‌ पतन्ति रोषानलविस्फुलिङ्गाः ॥35॥
अत्र प्रयोजकातिशयकृतः प्रयोज्यशैघ्य्रातिशयो गम्यते । कार्यकारणपौर्वापर्यविपर्ययरूपा चेयमतिशयोक्तिः ॥35॥

भुवनत्रितयेऽपि मानवैः परिपूर्णे विबुधैश्च दानवैः ।
न भविष्यति नास्ति नाभवन्‌ नृप यस्ते भजते तुलास्पदम्‌ ॥36॥
अत्रोपमानलुप्तोपमेति प्राञ्चः । असमाख्यमलङ्कारान्तरमिति तु वयम्‌ ॥36॥

पीयूषयूषकल्पामल्पामपि ते गिरं निपीतवताम्‌ ।
तोषाय कल्पते नो योषाधरबिम्बमधुरिमोद्रेकः ॥37॥
अत्र सम्बन्धेऽप्यसम्बन्ध इत्यतिशयोक्तिभेदः । उपमेयोपमानविसेषणाभ्यामल्पत्वोद्रिक्तत्वाभ्यामल्पयापि सह भूयानपि मधुरिमा यत्र साम्यं कर्तुमनीशस्तत्र किं वायं भूयस्येति वैलक्षण्यात्मा व्यतिरेकश्च ॥37॥

भासयति व्योमस्था जगदखिलं कुमुदिनीर्निकासयति ।
कीर्तिस्तव धरणिगता सगरसुतायासमफलतां नयते ॥38॥
अत्र व्यज्यमानचन्द्रिकासमुद्ररूपसङ्कीर्ण उल्लेखः ॥38॥

भाग्येन सह रिपूणामुत्तिष्ठिसि विष्टरात्‌ क्रुधाविष्टः ।
सहसैव पतसि तेषु क्षितिशासन मृत्युना साकम्‌ ॥39॥

केशैर्वधूनाम्‌(30)इत्यत्र कर्मणः सहोक्तिः इह तु कर्तुरिति विशेषः ॥40॥

त्वयि पाकशासने शासति सकलं वसुन्धरालयम्‌ ।
विपिने वैरिवधूनां वर्षन्ति विलोचनानि च दिनानि ॥40॥
अत्र वर्षवदाचरन्तीत्याचीरक्विबन्तेन श्लेषात्‌ श्लेषमूलिका तुल्ययोगिता । रिपुकामिनीवर्णनविषयत्वेन उपमानोपमेययोः द्वयोरपि प्रकृतत्वात्‌ ॥40॥

अहितापकरणभेषज नरनाथ भवान्‌ करस्थितो यस्य ।
तस्य कुतोऽहिभयं स्यादखिलामपि मेदिनीं चरतः ॥41॥
अत्र श्लेषनिवेदितस्य सर्पभयाभावस्य उपपादकतया उपात्तस्य राजनि भेषजतादात्म्यारोपस्याप्युपपादकतया स्थितं राजसम्बन्धिनि द्विषदपकरणरूपे धर्मे श्लेषनिवेदितं सप्रतापकरणतादात्म्यमिति प्रथमचरणे श्लिष्टपरम्परितरूपकं तृतीये तु श्लेष एव ॥41॥

कुवलयलक्ष्मीं हरते तव कीर्तिस्तत्र किं चित्रम्‌ ।
यस्मान्‌ निदानमस्या लोकनमस्याङ्घ्रिपङ्कजो हि भवान्‌ ॥42॥
अत्रोत्पादकसमानगुणत्वादुत्पाद्यस्योत्पादकभावसंसर्गानुरूपः समालङ्कारविशेषः । श्लेषश्चास्मिन्‌ गुणः ॥42॥

दृष्टः सदसि चेदुग्राश्चन्द्रचन्दनचन्द्रिकाः ।
अथ त्वं सङ्गरे सौम्याः शेषकालानलाब्धयः ॥43॥
अत्र दृष्टः सदसीति वाक्ये त्वमित्यस्यापकर्षणात्‌ अथ त्वं सङ्गर इति वाक्ये च दृष्ट इत्यस्यानुवर्तनाद्वाक्ययोः पदविनिमयात्मा लङ्कारः । पूर्वार्द्धे उत्तरार्द्धे च प्रकृतानामेक र्धमसम्बन्धान् तुल्ययोगिता । उपमेयस्य अलङ्कारान्तरेण शबलिता ॥43॥

अपारे खलु संसारे विधिनैकोऽर्जुनः कृतः ।
कीर्त्या निर्मलया भूप त्वया सर्वेऽर्जुनाः कृताः ॥44॥

इह श्लेषमूलो व्यतिरेकः ॥44॥

दधीचिबलिकर्णेषु हिमहेमाचलाब्धिषु ।
अदातृत्वमधैर्यत्वं दृष्टे भवति भासते ॥45॥
अत्रापि सैव तथाविधा । यथासंख्यसङ्करस्तु विशेषुः ॥45॥

शासति त्वयि हे राजननखण्डावनिमण्डलम्‌ ।
न मनागपि निश्चिन्ते मण्डले शत्रुमित्रयोः ॥46॥
इहापि तुल्ययोगिता मित्रशब्दश्लेषोत्थापिता व्याजस्तुतिश्च ॥46॥

भानुरग्निर्यमो वायं बलिः कर्णोऽथवा शिबिः ।
प्रत्यर्थिनोऽर्थिनश्चेत्थं त्वयि यान्ति विकल्पनाम्‌ ॥47॥
इह संशय उल्लेखालिङ्गितः ॥47॥

कमलावासकासारः क्षमाधृतिफणीश्वरः ।
भवान्‌ कुवलयस्येन्दुरानन्दयति मानवान्‌ ॥48॥
इह श्लिष्टपरम्परितरूपकं परन्तु मालारूपम्‌ ॥48॥

गगने चन्द्रिकायन्ते हिमायन्ते हिमाचले ।
पूथिव्यां सागरायन्ते भूपाल तव कीर्तयः ॥49॥
इह मालोपमालिङ्गित उल्लेखः ॥49॥

मृगतां हरयन्‌ मध्ये वृक्षतां च पटीरयन्‌ ।
नक्षत्रतां महीपानां त्वमिन्दवसि भूपते ॥50॥
इह शुद्धपरम्परिता मालारूपोपमा । आचारक्विबन्ताच्छतरि रूपाणि । तिङि चैकम्‌ ॥50॥

मध्ये सुधासमुद्रस्य सितामयगृहोदरे ।
पूर्णेन्दुविष्टरे देव स्थातुं योग्यास्तवोक्तयः ॥51॥
अत्र त्रयाणां शुधासमुद्रादीनां विशेषणविशेष्यभावेन मधुरिमणि परां काष्ठामधिरूढे त्वदीयोक्तिपदसम्बन्धो युक्तो न तु विशकलित इत्यतिशायिका सद्विशेषमनिबन्धना प्रौढक्तिः ॥51॥

अमृतलहरीचन्द्रज्योत्स्नारमावदनाम्बुजा-
न्यधरितवतो निर्मर्यादप्रसादमहाम्बुधेः ।
उदभवदयं देव त्वत्तः कथं परमोल्बणः
प्रलयदहनज्वालाजालाकुलो महसां गणः ॥52॥

कांरणगुणविरुद्धस्वगुणस्य कार्यस्योत्पत्तेर्विषमालङ्कारः । अमृतलहर्यादीनां त्रयाणामधरीकरणात्मना व्यतिरेकेण संजीवकत्वपरमशीतलत्वविशुद्धत्वसौन्दर्याणामतिशयो गम्यते । एतेषु पद्येषु सम्भवन्तोऽलङ्काराः स्फुटत्वान्न विवेचिताः । सहृदयानां प्रीत्यावश्यकं किंचित्‌ व्याख्यातमन्यत्तु तैरेवोल्लासनीयमित्यलं पल्ललवितेन ॥42॥
{जगदा. अत्रामृतलहर्याद्यधरीकरणाभिव्यञ्जकैः संजीवकत्वपरमाह्लादकत्वपरमसौन्दर्यादिभिरनेकैर्गुणैर्युक्तात्‌ कारणात् तद्विरुद्धगुणकस्य कम्पकार्योत्पत्तेर्वर्णनाद्विषमः । व्यतिरेकस्तु त्त्र गुणः । एवमेतेषु पद्येषु सुधीभिः संभवन्तोऽपि अलङ्कारा उन्नेयाः । सहृदयप्रीत्या अत्यावश्यकमेव अस्माभिः किंचित्‌ निरूपितम्‌ ॥52॥}अत्र

{जगदा. तैलङ्गान्वयमङ्गलालयमहालक्ष्मीदयालालितः
श्रीमत्पेरमभट्टसूरितनयो विद्वल्ललाटंतपः ।
श्रीराणाकलिकर्णनन्दनजगत्सिंहप्रभोर्वर्णनं
श्रीमत्पण्डितरायसत्कविजगननाथो व्यतानीदिदम्‌ ॥}तैलङ्गान्वयमङ्गलालयमहालक्ष्मीदयालालितः
श्रीमत्पेरमभट्टसूनुरनिशं विद्वल्ललाटंतपः ।
सन्तुष्टः कमताधिपस्य कवितामाकर्ण्य तद्वर्णनं
श्रीमत्पण्डितराजपण्डितजगन्नाथो व्यधासीदिदम्‌ ॥53॥

इति महामहोपाध्यायपदवाक्यप्रमाणपारीणतैलङ्गकुलावतंस श्रीपेरमभट्टसूरेस्तनयेन विनिर्मितं जगदाभरणाख्यं जगत्सिंह-वर्णनम्‌ ॥)

********************

]