[[लक्ष्मीलहरी Source: EB]]
[
***लक्ष्मीलहरी***
0000समुन्मीलन्नीलाम्बुजनिकरनीराजितरुचा-
मपाङ्गानां भङ्गैरमृतलहरीश्रेणिमसृणैः ।
ह्निया हीनं दीनं भृशमुदरलीनं करुणया
हरिश्यामा सा मामवतु जडसामाजिकमपि ॥1॥
समुन्मीलत्वन्तःकरणकरुणोद्गारचतुरः
करिप्राणत्राणप्रणयिनि दृगन्तस्तव मयि ।
यमासाद्योन्माद्यद्द्विपनियुतगण्डश्थलगल-
न्मदक्लिन्नद्वारो भवति सुखसारो नरपतिः ॥2॥
उरस्यस्य भ्रश्यत्कबरभरनिर्यत्सुमनसः
पतन्ति स्वर्बालाः स्मरशरपराधीनमनसः ।
सुरास्तं गायन्ति स्फुरिततनु गङ्गाधरमुखा-
स्तवायं दृक्पातो यदुपरि कृपातो विलसति ॥3॥
समीपे संगीतस्वरमधुरभङ्गी मृगदृशां
विदूरे दानान्धद्विरदकलभोद्दामनिनदः ।
बहिर्द्वारे तेषां भवति हयहेषाकलकलो
दृगेषा ते येषामुपरि कमले देवि सदया ॥4॥
अगण्यैरिन्द्राद्यैरिह परमपुण्यैः परिचितो
जगज्जन्मस्थानप्रलयरचनाशिल्पनिपुणः ।
प्रसर्पत्पीयूषाम्बुधिलहरिलीलाविलसितो
दृगन्तस्तेऽमन्दं मम कलुषवृन्दं दलयतु ॥5॥
नमन्मौलिश्रेणित्रिपुरपरिपन्थिप्रतिलसत्-
कपर्दव्यावृत्तिस्फुरितफणिफूत्कारचकितः ।
लसत्फुल्लाम्भोजम्रदिमहरणः कोऽपि चरण-
श्चिरं चेतश्चारी मम भवतु वारीशदुहितुः ॥6॥
प्रवालानां दीक्षागुरुरपि च लाक्षारुणरुचां
नियन्त्री बन्धूकद्युतिनिकरबन्धूकृतिपटुः ।
नृणामन्तर्ध्वान्तं निबिडमपहर्तुं तव किल
प्रभातश्रीवेषा चरणरुचिरेषा विजयते ॥7॥
प्रभातप्रोन्मीलत्कमलवनसंचारसमये
शिखाः किंजल्कानां विदधति रुजं यत्र मृदुलाः ।
तदेतन्मातस्ते चरणमरुणश्लाघ्यकरुणं
कठोरा मद्वाणी कथमियमिदानीं प्रविशतु ॥8॥
स्मितज्योत्स्नामज्जद्द्विजमणिमयूखामृतझरै-
र्निषिञ्चन्तीं विश्वं तव विमलमूर्तिं स्मरति यः ।
अमन्दं स्यन्दन्ते वदनकमलादस्य कृतिनो
विविक्तौ वैकल्पाः सततमविकल्पा नवगिरः ॥9॥
शरौ मायाबीजौ हिमकरकलाक्रान्तशिरसौ
विधायोर्ध्वं बिन्दुं स्फुरितमिति बीजं जलधिजे ।
जपेद् यः स्वच्छन्दं स हि पुनरमन्दं गजघटा-
मदभ्राम्यद्भृङ्गैर्मुखरयति वेश्मानि विदुषाम् ॥10॥
स्मरो नामं नामं त्रिजगदभिरामं तव पदं
प्रपेदे सिद्धिं यां कथमिव नरस्तां कथयतु ।
यया पातं पातं पदकमलयोः पर्वतचरो
हरो हा रोषार्द्रामनुनयति शैलेन्द्रतनयाम् ॥11॥
हरन्तो निःशङ्कं हिमकरकलानां रुचिरतां
किरन्तः स्वच्छन्दं किरणमयपीयूषनिकरम् ।
विलुम्पन्तु प्रौढा हरिहृदयहाराः प्रियतमा
ममान्तःसंतापं तव चरणशोणाम्बुजनखाः ॥12॥
मिषान् मणिक्यानां विगलितनिमेषं निमिषता-
ममन्दं सौन्दर्यं तव चरणयोरम्बुधिसुते ।
पदालंकाराणां जयति कलनिक्वाणनपटु-
रुदञ्चन्नुद्दामः स्तुतिवचनलीलाकलकलः ॥13॥
मणिज्योत्स्नाजालैर्निजतनुरुचां मांसलतया
जटालं ते जङ्घायुगलमघभङ्गाय भवतु ।
भ्रमन्ती यन्मध्ये दरदलितशोणाम्बुजरुचां
दृशां माला नीराजनमिव विधत्ते मुररिपोः ॥14॥
हरद् गर्वं सर्वं करिपतिकराणां मृदुतया
भृशं भाभिर्दम्भं कनकमयरम्भावनिरुहाम् ।
लसज्जानुज्योत्स्नासरणिपरिणद्धं जलधिजे
तवोरुद्वन्द्वं नः श्वथयतु भवोरुज्वरभयम् ॥15॥
कलक्वाणां काञ्चीं मणिगणजटालामधिवहन्
वसानः कौसुम्भं वसनमसनं कौस्तुभरुचाम् ।
मुनिव्रातैः प्रातः शुचिवचनजातैरतिनुतं
नितम्बस्ते बिम्बं हसति नवमम्बाम्बरमणेः ॥16॥
जगन्मिथ्याभूतं मम निगदतां वेदवचसा-
मभिप्रायो नाद्यावधि हृदयमध्याविशदयम् ।
इदानीं विश्वेषां जनकमुदरं ते विमृशतो
विसंदेहं चेतोऽजनि गरुडकेतोः प्रियतमे ॥17॥
अनल्पैर्वादीन्द्रैरगणितमहायुक्तिनिवहै-
र्निरस्ता विस्तारं क्वचिदकलयन्ती तनुमपि ।
असत्ख्यातिव्याख्याधिकचतुरिमाख्यातमहिमा
वलग्ने लग्नेयं सुगतमतसिद्धान्तसरणिः ॥18॥
निदानं श्रृङ्गारप्रकरमकरन्दस्य कमले
महानेवालम्बो हरिनयनरोलम्बवरयोः
निदानं शोभानां निधनमनुतापस्य जगतो
जवेनाभीतिं मे दिशतु तव नाभीसरसिजम् ॥19॥
गभीरमुद्वेलां प्रथमरसकल्लोलमिलितां
विगाढुं ते नाभीविमलसरसीं गौर्मम मनाक् ।
पदं यावन् न्यस्यत्यहह विनिमग्नैव सहसा
नहि क्षेमं सूते गुरुमहिमभूतेष्वविनयः ॥20॥
कुचौ ते दुग्धाम्भोनिधिकुलशिखामम्डनमणे
हरेते सौभाग्यं यदि सुरगिरेश्चित्रमिह किम् ।
त्रिलोकीलावण्याहरणनवलीलानिपुणयो-
र्ययोर्दत्ते भूयः करमखिलनाथो मधुरिपुः ॥21॥
हरक्रोधत्रस्यन्मदननवदुर्गद्वयतुलां
दधत् कोकद्वन्द्वद्युतिदमनदक्षाधिगुरुताम् ।
तवैतद् वक्षोजद्वितयमरविन्दाक्षमहिले
मम स्वान्तध्वान्तं किमपि च नितान्तं गमयतु ॥22॥
अनेकब्रह्माण्डस्थितिनियमलीलाविलसिते
दयापीयूषाम्भोनिधिसहजसंवासभवने ।
विधोश्चित्तायामे हृदयकमले ते तु कमले
मनाङ्मन्निस्तारस्मृतिरपि च कोणे निवसतु ॥23॥
मृणालीनां लीलाः सहजलवणिम्ना लघयतां
चतुर्णां सौभाग्यं तव जननि दोष्णां वदतु कः
लुठन्ति स्वच्छन्दं मरकतशिलामांसलरुचः
श्रुतीनां स्पर्धां ये दधत इव कण्ठे मधुरिपोः ॥24॥
अलभ्यं सौसभ्यं कविकुलनमस्या रुचिरता
तथापि त्वद्धस्ते निवसदरविन्दं विकसितम् ।
कलापे काव्यानां प्रकृतिकमनीयस्तुतिविधौ
गुणोत्कर्षाधानं प्रथितमुपमानं समजनि ॥25॥
अनल्पं जल्पन्तु प्रतिहतधियः पल्लवतुलां
रसज्ञामज्ञानां क इव कमले मन्थरयतु ।
त्रपन्तु क्षीभिक्षावितरणवशीभूतजगतां
कराणां सौभाग्यं तव तुलयितुं तुङ्गरसनाः ॥26॥
समाहरः श्रीणां विरचितविहारो हरिदृशां
परीहारो भक्तप्रभवभवसंतापसरणेः ।
प्रहारः सर्वासामपि च विपदां विष्णुदयिते
ममोद्धारोपायं तव सपदि हारो विमृशतु ॥27॥
अलंकुर्वाणानां मणिगणघृणीनां लवणिमा
यदीयाभिर्भाभिर्भजति महिमानं लघुरपि ।
सुपर्वश्रेणीनां जनितपरसौभाग्यविभवा-
स्तवाङ्गुल्यस्ता मे ददतु हरिवामेऽभिलषितम् ॥28॥
तपस्तेपे तीव्रं किमपि परितप्य प्रतिदिनं
तव ग्रीवालक्ष्मीलवपरिचयादाप्तविभवम् ।
हरिः कम्बुं चुम्बत्यथ वहति पाणौ किमधिकं
वदामस्तत्रायं प्रणयवशतोऽस्यै स्पृहयति ॥29॥
अभूदप्रत्यूहः सकलहरिदुल्लासनविधि-
र्विलीनो लोकानां स हि नयनतापोऽपि कमले ।
तवास्मिन पीयुषं किरति वदने रम्यवदने
कुतो हेतोश्चेतो विधुरयमुदेति स्म जलधेः ॥30॥
मुखाम्भोजे मन्दस्मितमधुरकान्त्या विकसतां
द्विजानां ते हीरावलिविहितनीराजनरुचाम् ।
इयं ज्योत्स्ना कापि स्त्रवदमृतसंदोहसरसा
ममोद्यद्दारिद्र्यज्वरतरुणतापं तिरयतु ॥31॥
कुलैः कस्तूरीणां भृशमनिशमाशास्यमपि च
प्रभातप्रोन्मीलन्नलिननिवहैरश्रुतचरम्
वहन्तः सौरभ्यं मृदुगतिविलासा मम शिवं
तव श्वासा नासापुटविहितवासा विदधताम् ॥32॥
कपोले ते दोलायितललितलोलालकवृते
विमुक्ता धम्मिल्लादभिलसति मुक्तावलिरियम् ।
स्वकीयानां बन्दीकृतमसहमानैरिव बलात्
निबध्योर्ध्वं कृष्टा तिमिरनिकुरम्बैर्विधुकला ॥33॥
प्रासादो सस्यायं नमदमितगीर्वाणमुकुट-
प्रसर्पज्ज्योत्स्नाभिश्चरणतलपीठार्चितविधिः ।
दृगम्भोजं तत् ते गतिहसितमत्तेभगमने
वने लीनैर्दीनैः कथय कथमीयदिह तुलाम् ॥34॥
दुरापा दुर्वृत्तैर्दुरितदमने दारणभरा
दयार्द्रा दीनानामुपरि दलदिन्दीवरनिभा ।
दहन्ती दारिद्र्यद्रुमकुलमुदारद्रविणदा
त्वदीया दृष्टिर्मे जननि दुरदृष्टं दलयतु ॥35॥
तव श्रोत्रे फुल्लोत्पलसकलसौभाग्यजयिनी
सदैव श्रीनारायणगुणगणौघप्रणयिनी ।
रवैर्दीनां लीनामनिमवधानातिशयिनी
ममाप्येतां वाचं जलधितनये गोचरयताम् ॥36॥
प्रभाजालैः प्राभातिकदिनकराभापनयनं
तवेदं खेटं मे विघटयतु ताटङ्कयुगलम् ।
महिम्ना यस्यायं प्रलयसमयेऽपि क्रतुभुजां
जगत् पायंपायं स्वपिति निरपायं तव पतिः ॥37॥
निवासो मुक्तानां निबिडतरनीलाम्बुदनिभ-
स्तवायं धम्मिल्लो विमलयतु मल्लोचनयुगम् ।
भृशं यस्मिन् कालागुरुबहुलसौरभ्यनिवहैः
पतन्ति श्रीभिक्षार्थिन इव मदान्धा मधुलिहः ॥38॥
विलग्नौ ते पार्श्वद्वयपरिसरे मत्तकरिणौ
करोन्नीतैरञ्चन्मणिकलशमुग्धास्यगलितैः ।
निषिञ्चन्तौ मुक्तामणिगणजयैस्त्वां जलकणै-
र्नमस्यामो दामोदरगृहिणि दारिद्र्यदलिताः ॥39॥
अये मातर्लक्ष्मि त्वदरुणपदाम्भोजनिकटे
लुठन्तं बालं मामविरलगलद्वाष्पजटिलम् ।
सुधासेकस्तनिग्धैरतिमसृणमुग्धैः करतलैः
स्पृशन्ती मा रोदीरिति वद समाश्वास्यसि कदा ॥40॥
रमे पद्मे लक्ष्मि प्रणतजनकल्पद्रुमलते
सुधाम्भोधेः पुत्रि त्रिदशनिकरोपास्तचरणे ।
परे नित्यं मातर्गुणमयि परब्रह्ममहिले
जगन्नाथस्याकर्णय मृदुलवर्णावलिमिमाम् ॥41॥
**********
]