[[करुणालहरी Source: EB]]
[
***करुणालहरी***
विषीदता नाथ विषानलोपमे विषादभूमौ भवसागरे विभो ।
परं प्रतीकारमपश्यताधुना मयायमात्मा भवते निवेदितः ॥1॥
भवानलज्वालविलुप्तचेतनःशरण्य तेऽङ्घ्रिं शिरणं भयादयाम् ।
विभाव्य भूयोऽपि दयासुधाम्बुधे विधेहि मे नाथ यथा यथेच्छसि ॥2॥
विहाय संसारमहामरुस्थलीमलीकदेहादि मिलन्मरीचिकाम् ।
कृपातरङ्गाकुलमन्मनोमृगो विगाढुमीश त्वयि गाढमीहते ॥3॥
त्वदङ्घ्रिफुल्लाम्बुजमध्यनिर्गलन्मरन्दनिःस्यन्दनितान्तलम्पटः ।
मनोमिलिन्दो मम मुक्तचापलस्त्वदन्यमीशान तृणाय मन्यते ॥4॥
जगत्त्रयत्राणविधौ धृतव्रतं तवाङ्घ्रिराजीवमपास्य ये जनाः ।
शरण्यमन्यन् मृगयन्ति यान्ति ते नितान्तमीशान कृतान्तदेहलीम् ॥5॥
रमामुखाम्भोजविकासनक्षमो जगतत्रयोदबोधविधानदीक्षितः ।
कदा मदज्ञानविभावरीं हरे हरिष्यति त्वन्नयनारुणोदयः ॥6॥
सुरासुरस्वान्तचकोरचुम्बिता समस्तसंतापचयापनोदिनी ।
महानिशीथे मम मानसे कदा स्फुरिष्यति त्वन्मुखचन्द्रचन्द्रिका ॥7॥
सुयौवनापाण्डुरगण्डमण्डलप्रतिस्फुरत्कुण्डलताण्डवाद्भुतम् ।
गदाग्रज त्वन्मुखफुल्लपङ्कजं कदा मदक्ष्णोरतिथीभविष्यति ॥8॥
सुरापगातुङ्गतरङ्गचालितां सुरासुरानीकललाटलालिताम् ।
कदा दधे देव दयामृतोदधे भवत्पदाम्भोरुहधूलिधोरणीम् ॥9॥
महाजवाश्छिन्नविवेकरश्मयो मदोद्धता देव मदक्षवाजिनः ।
हरे समासाद्य तवाङ्घ्रिमन्दुरामपास्तवेगा दधतां सुशीलताम् ॥10॥
पुरातनानां वचसामगोचरं महेशितारं पुरुषोत्तमं हरिम् ।
अपास्य तं त्वां निरपत्रपा सतीसती मतिर्मे कथमन्यमेष्यति ॥11॥
न जाग्रता स्वजगतेन वा मया समीहितं ते करुणालवादृते ।
गिरं मदीयं यदि वेत्सि तात्त्विकीं तदा जगन्नायक मामुरीकुरु ॥12॥
अयि दीनतरं दयानिधे दुरवस्थं सकलैः समुज्झितम् ।
अधुनापि न मां निभालयन् भजसे हा कथमश्मचित्तताम् ॥13॥
सुमहन्ति जगन्ति बिभ्रतरतव यो नाविरभून् मनागपि ।
स कथं परमाप्तदेहिनां परमाणोर्मम धारणे श्रमः ॥14॥
नितरां विनयेन पृच्छते सुविचार्योत्तरमत्र यच्छ मे ।
करितो गिरितोऽप्यहं गुरुस्त्वरितो नोद्धरसे यदद्य माम् ॥15॥
न धनं न च राज्यसंपदं नहि विद्यामिदमेकमर्थये ।
मयि धेहि मनागपि प्रभो करुणाभङ्गितरङ्गितां दृशम् ॥16॥
अयमत्यधमोऽपि निर्गुणो दयनीयो भवता दयानिधे ।
वमतां फणिनां विषानलं किमु नानन्दयिता हि चन्दनः ॥17॥
क्षुधितस्य नहि त्रपास्ति मे प्रतिरथ्यं प्रतिगृह्णतः कणान् ।
अकलङ्क यशस्करं न ते भवदीयोऽपि यदन्यमृच्छति ॥18॥
नितरां नरकेऽपि सीदतः किमु हीनं गलितत्रपस्य मे ।
भगवन् कुरु सूक्ष्ममक्षमं परतस्त्वां जनता किमालपेत् ॥19॥
नरके निजकर्मकल्पिता भजतो मे महतीरपि व्यथाः ।
इदमेकमसह्यमीक्षका यदनाथं निगदन्ति मां विभो ॥20॥
मृगदन्तिमुखान् मया सह प्रतिरुद्धान् भवजालबन्धने ।
तव मामपहाय मुञ्चतः करुणा किं न भिनत्ति मानसम् ॥21॥
निरुपाधिजनार्तिहारिणं भगवंस्त्वामवगत्य तत्त्वतः ।
कृतपुण्यचयावहेलनं कथमब्जेक्षण मामुपेक्षसे ॥22॥
सततं निगमेषु श्रृण्वता वरद त्वां पतितानुपावनम् ।
पुरु पापमुपास्यतेऽनिशं त्वयि विश्वासधिया मया विभो ॥23॥
सुकृतं न कृतं पुरा कदाप्यथ सर्वं कृतमेव दुष्कृतम् ।
अधुना गलितह्रिया मया भगवंस्त्वां प्रति किं निगद्यताम् ॥24॥
मदकामविमोहमत्सरा रिपवस्त्वत्पुर एव तावकम् ।
धुतशाङ्र्गदासिनन्दक प्रतिकर्षन्ति कथं न वीक्षसे ॥25॥
अयि गर्तमुखे गतः शिशुः पथिकेनापि निवार्यते जवात् ।
जनकेन पतन् भवार्णवे न निवार्यो भवता कथं विभो ॥26॥
सुकृतप्रिय मान्यथास्तु ते सुकृतिभ्यः सुखदस्य सुप्रथा ।
अपि पापमबिभ्रतस्तु मां तव विश्वंभरनाम दुर्लभम् ॥27॥
वचनैः परुषैरिह प्रभो यदि रोषं समुपागतोऽसि मे ।
सुखरं कृतकोटिकल्मषं करुणाब्धे जगतोऽपसारय ॥28॥
यदि वीक्ष्य ददासि मत्कृतिं न मयैव प्रतिगृह्यते तदा ।
अथ चेन्निजमाशयं प्रभो परितुष्टः शिरसा वहामि तत् ॥29॥
पतितोऽप्यतिदुर्गतोऽपि सन्नकृतज्ञो निखिलागसां पदम् ।
भवदीय इतीरयंस्त्वया दयनीयस्त्रपयैव केवलम् ॥30॥
सुकृतप्रकृतौ जने त्वया कृतया किं कृपया कृपनिधे ।
यदि मादृशि सा विधीयते तव कीर्तिर्वद कीदृशी तदा ॥31॥
अयि शैशवलालितः शिशुः प्रतिबुद्धो जनकेन ताड्यते ।
न कदापि च लालितस्त्वया किमु ताड्यो भगवन् कुकर्मभिः ॥32॥
अहमेव हि दोषदूषितो ऊगवंस्त्वां समुपालभे मुधा ।
रमणीविरहज्वरज्वलन्नमृतांशु कुमतिर्विनिन्दति ॥33॥
करुणाकर दुर्दशाकुलं पतितालम्बन पापपञ्जरम् ।
अमृताम्बुनिधे महाज्वरं नहि जह्या जगदीश जातु माम् ॥34॥
कटुजल्पनमल्पकस्य मे नहि ते कल्पयतु क्रुधं विभो ।
कुपितातुरबालभाषितं कुमुगृह्णन्ति मनाङ् महाशयाः ॥35॥
भुजगाहितकल्पितध्वज स्फुरदाशाभुजगालिवेल्लितम् ।
जटिलज्वरकुञ्जराङ्कुश ज्वरजुष्टं न जहीहि जातु माम् ॥36॥
न वदामि न दुष्कृतं मया कृतमित्युक्तिमिमां तु मे शृणु ।
मम भीतिमनीनशद् विभो पतितोद्धारक नाम तावकम् ॥37॥
अपि शर्वपितामहादिभिर्भजनीयः पुरुषोत्तमो हि यः ।
तमुपालभमानसुद्धतं धिगिमं मां धिगिमां धियं मम ॥38॥
अथ सर्वमिदं मयोज्झितं भवतोऽन्यन् नहि किंचिदर्थये ।
मम मानसगोचरीभवत्वरविन्दाक्ष तवाद्भुतं वपुः ॥39॥
हरिनीलमयावनीतले वरवृन्दाविपिने विलासिनि ।
मणिमण्डपमध्यविस्फुरद्विबुधक्ष्मारुहमूलमाश्रितम् ॥40॥
शिखिपिच्छमहामणिस्फुरन्मुकुटाकुञ्चितकान्तकुन्तलम् ।
कमनीयतरालकावलिभ्रमणभ्राजिललाटसुन्दरम् ॥41॥
शरदिन्दुसहोदराननं दलदम्भोजपलाशलोचनम् ।
अरुणाधरकान्तिदन्तुरस्फुटदन्तांशुविकासिताम्बरम् ॥42॥
दरपाण्डुरगण्डमण्डलप्रतिसर्पत्कमनीयकुण्डलम् ।
मणिमौक्तिकमञ्जुमञ्जरीमहनीयद्युतिरञ्चितश्रुति ॥43॥
पृथुवर्तुलमौक्तिकावलीसुषमावेल्लितकान्तकन्धरम् ।
हरिनीलगिरिद्युतिद्रुहा कमलामन्दिरवक्षसाञ्चितम् ॥44॥
चरणाब्जनखावलम्बिनीं भुजगाकारभुजान्तरागताम् ।
निबिडाभ्रमिव क्षणप्रभां वहदुत्फुल्लवनामलस्त्रजम् ॥45॥
मणिकङ्कणकान्तिमांसलं दरफुल्लाम्बुजसुन्दरद्युति ।
पतितोद्धरणे दृढव्रतं कमनीयं करयोर्युगं दधत् ॥46॥
वररत्नमयाङ्गुलीयकावलिशोभामिलिताङ्गुलीगणैः ।
मुहुराकुलितेन वेणुना वशयत् प्राणभृतां मनःश्रुतीः ॥47॥
उदरद्युतिनिम्नगोच्छलल्लहरीरूपकरोमराजिकम् ।
पशुपालविलासिनीलसन्नयनाकर्षणनाभिनिम्नितम् ॥48॥
कनकद्रवगौरमम्बरं दधतोरुद्वितयेन सुन्दरम् ।
उदयन्मणिनूपुरप्रभासरणिश्रेणिजटालजानुकम् ॥49॥
अरिगीर्णगजेन्द्रगोपने दधता जाङ्घिकतामलौकिकीम् ।
त्रिजगन्महनीयमूर्तिना वरजङ्घायुगलेन शोभितम् ॥50॥
कुलिशाङ्कुशकम्बुसाम्बुजध्वजचक्राद्यभिरामलक्ष्मणा ।
अरुणारुणकोमलत्विषा कमनीयेन कलेन राजितम् ॥51॥
विधिशर्वमुखामरस्फुरन्मुकुटोन्निद्रमणिप्रभाकुलम् ।
नखचन्द्रमयूखमूर्च्छिताखिलतापं पदयोर्युगं दधत् ॥52॥
सरतः सरणौ सतो बहिः स्वपतो वालपतो गृहान्तरे ।
वपुरीदृशमीश तावकं हृदयालम्बनमस्तु मे सदा ॥53॥
(कुलकम्)
नवनीरदनीलिमद्युतिर्नमनीयो निगमैर्निरन्तरम् ।
निरये निपतन्तमाशु मां नयनेनापि सनाथयेद् विभुः ॥54॥
प्रणिपत्य विधे भवन्तमद्धा विनिबद्धाञ्जलिरेकमेव याचे ।
जनुरस्तु कुले कृषीवलानामपि गोविन्दपदारविन्दभाजाम् ॥55॥
****************
]