अमृतलहरी

[[अमृतलहरी Source: EB]]

[

अमृतलहरी

मातः पातकपातकारिणि तव प्रातः प्रयातस्तटं
यः कालिन्दि महेन्द्रनीलपटलस्निग्धां तनुं वीक्षते ।
तस्यारोहति किं न धन्यजनुषः स्वान्तं नितान्तोल्लस-
न्नीलाम्भोधरवृन्दवन्दितरुचिर्देवो रमावल्लभः ॥1॥

नित्यं पातकभङ्गमङ्गलजुषां श्रीकण्ठकण्ठत्विषां
तोयानां यमुने तव स्तवविधौ को याति वाचालताम्‌ ।
येषु द्राग्‌ विनिमज्ज्य सज्जतितरां रम्भाकराम्भोरुह-
स्फूर्जच्चामरवीजितामरपदं जेतुं वराको नरः ॥2॥

दानान्धीकृतगन्धसिन्धुरघटागण्डप्रणालीमिलद्‌-
भृङ्‌गालीमुखरीकृताय नृपतिद्वाराय बद्धोऽञ्जलिः ।
त्वत्कूले फलमूलशालिनि मम श्लाघ्यामुरीकुर्वतो
वृत्तिं हन्त मुनेः प्रयान्तु यमुने वीतज्वरा वासराः ॥3॥

अन्तर्मौक्तिकपुञ्जमञ्जिम बहिः स्निग्धेन्द्रनीलप्रभं
मातर्मे मुदमातनोतु करुणावत्या भवत्याः पयः ।
यद्‌ रूपद्वयधारणादिव नृणामाचूडमामज्जतां
तत्कालं तनुतेतरां हरिहराकारामुदारां तनुम्‌ ॥4॥

तावत्‌ पापकदम्बडम्बरमिदं तावत्‌ कृतान्ताद्‌ भयं
तावन्मानसपद्‌मसद्‌मनि भवभ्रान्तेर्महानुत्सवः ।
यावल्लोचनयोः प्रयाति न मनागम्भोजिनीबन्धुजे
नृत्यत्तुङ्गतरङ्गभङ्गिरुचिरो वारां प्रवाहंस्तव ॥5॥

कालिन्दीति कदापि कौतुकवशात्‌ त्वन्नामवर्णानिमान्‌
व्यस्तानालपतां नृणां यदि करे खेलन्ति संसिद्धयः ।
अन्तर्ध्वान्तकुलान्तकारिणि तव क्षिप्तामृते वारिणि
स्नातानां पुनरन्वहं स महिमा केनाधुना वर्ण्यते ॥6॥

स्वर्णस्तेयपरानपेयरसिकान्‌ पाथःकणास्ते यदि
ब्रह्मघ्नान्‌ गुरुतल्पगानपि परित्रातुं गृहीतव्रताः ।
प्रायश्चित्तकुलैरलं तदधुना मातः परेताधिप-
प्रौढाहंकृतिहारिहुंकृतिमुचामग्रे तव स्त्रोतसाम्‌ ॥7॥

पायंपायमपायहारि जननि स्वादु त्वदीयं पयो
नायंनायमनायनीमकृतिनां मूर्तिं दृशोः कैशवीम्‌ ।
स्मारंस्मारमपारपुण्यविभवं कृष्णेति वर्णद्वयं
चारंचारमितस्ततस्तव तटे मुक्तो भवेयं कदा ॥8॥

मातर्वारिणि पापहारिणि तव प्राणप्रयाणोत्सवं
सम्प्राप्तेन कृतां नरेण सहतेऽवज्ञां कृतान्तोऽपि यत्‌ ।
यद्वा मण्डलभेदनादुदयिनीश्चण्डद्युतिर्वेदना-
श्चित्रं तत्र किमप्रमेयमहिमा प्रेमा यदौत्पत्तिकः ॥9॥

संज्ञाकान्तसुते कृतान्तभगिनि श्रीकृष्णनित्यप्रिये
पापोन्मूलिनि पुण्यधात्रि यमुने कालिन्दि तुभ्यं नमः ।
एवं स्नानविधौ पठन्ति खलु ये नित्यं गृहीतव्रता-
स्तानामन्त्रितसंख्यजन्मजनितं पापं क्षणादुज्झति ॥10॥

अयं पण्डितराजेन श्रीजगन्नाथशर्मणा ।
स्तवः कलिन्दनन्दिन्या निर्मलो निरमीयत ॥11॥

*************

]