सदाशिव-टीका

गंगालहरी पीयूषलहरी व्याख्या सहिता।
महाकविपण्डितराजश्रीजगन्नाथविरचिता
गङ्गालहरी । पीयूषलहरीव्याख्यासहिता ।

विद्वद्वरपणशीकरोपाह्वलक्ष्मणशर्मतनुजनुषा वासुदेवशर्मणा पाठान्तरादिभिः संस्कृता ।

सेयं मुम्बय्यां पाण्डुरङ्ग जावजी इत्येतैः स्वीये निर्णयसागराख्यमुद्रणालये संमुद्र्य प्रकाशिता ।
शाकः १८५२, सन १९३०.

मूल्यं ६ आणकाः । श्रीभागीरथीध्यानम् । किंचित्प्रास्ताविकम् ।

अयि गीर्वाणवाणीरसिका वसुंधरागीर्वाणाः ! कर्णे कुरुतेमं लघुतरं प्रस्तावम् । भूयांसः खल्वत्र मानुषप्राणिनः मुत्पद्यन्ते स्वेस्वेऽवसरे तिरोभवन्ति च । येषां गणना दुःशक्या सहस्राक्षेणापीति न तिरोहितं विदुषाम् । ते पुनर्मातृजठरान्निर्गता इत्येव संभूता इत्यभिधीयन्ते । एवंविधं जन्म तिरश्चामपि साधारणमिति कृत्वा किं तेन जननीयौवनकुठारायितेन जनुषा, किंतु स एव लोके संभूत इत्यभिधीयते संख्यावद्भिर्यस्य दशस्वपि दिक्षु धावल्येन विसृमरा कीर्तिः प्रसरति, यस्य चात्यन्तप्रणयिनीव वशंवदा भगवती सरस्वती, यश्च मोदयति सुधाधारानिर्विशेषेण मधुरेण स्वीयाचरणेन स्वान्तानि रसिकानाम् । विरलाः स्वल्वेवंविधा जनिमन्तो वसुधायां समुत्पद्यन्ते । समुत्पन्नेष्वपि विरला एव नाभिभूयन्ते सहसाऽहंकारेण। यमुद्दिश्यायमस्माभिः प्रस्ताव आरब्धः सोऽपि किल महाशयः प्रतिभटदन्तावलकेसरी पण्डितराजो जगन्नाथ एवंविधैरेवाखिलैर्गुणगणैरासीत्संपन्न इति तदैतिह्यं विबुधोद्धृतं यथाश्रुतं प्रस्तूयते-

पण्डितोत्तंसस्यैतस्य जननावसरो यद्यपि न शक्यते यथावन्निर्देष्टुं, तथापि दिल्लीपतिसमाश्रयणं नानाविधैः प्रमाणैर्निर्णीयमानं ज्ञापयत्यापाततोऽस्य स्थितिसमयम् । सोऽयं भामिनीविलासस्यान्तिमोल्लासे ‘दिल्लीवल्लभपाणिपल्लवतले नीतं नवीनं वयः’ इति स्वयमेव प्रत्यपीपदत् । सच दिल्लीशः शहाजहान एवेति निश्चीयते । यतोऽयं आसफविलासकाव्ये शहाजहानमेवास्तोत् । शहाजहानस्तु शालिवाहनीयशकस्य षोडशशताब्द्या अपरार्धे अशीत्युत्तरपञ्चशतमिते १५८० शाके दिल्लीेश्वरत्वमापन्नः सन् तस्यैव शकस्यावसाने कालवशं जागम। तदवध्येबास्य यौवनारूढस्य दिल्लीनगरे संस्थितिरित्यपि सुवचम्। आसफविलासे तैलङ्गकुलावतंसेन जगन्नाथेनेति विन्यासादस्याभिजनस्तैलङ्गापरनामाऽऽन्ध्रदेश इति निश्चीयते। पिता चास्य पण्डितमण्डलीमण्डनायमानः पेरुभट्टो नाम प्रशंसनीयोऽध्यापक आसीत् । माता च महासाध्वी लक्ष्मीर्नाम । उभयोः सुकृतातिरेकादेवाखिलपण्डितपाण्डित्यगर्वसर्वंकषो जगन्नाथस्तनयः संवृत्तः । एतस्य हि तत्तद्रसपूरितेषु पठ्यमानेषु तेषु तेषु पद्येषु तत्तद्रसमयतामिवापद्यते चेतो रसिकानाम् । मुहुर्मुहुः पठितान्यप्येतस्य पद्यानि पठ्यमानानि नवं नवमेव कमप्यपूर्वं रसं वितरन्ति । पण्डितमूर्धन्यस्यास्य प्रज्ञाप्रकर्षलुब्धेन दिल्लीवल्लभेन शहाजहानबादशाहेन मनोविनोदास्पदा निजतन यास्मै प्रदत्ताऽतुलपारिबर्हविभवभवनादिदानेन सह । सच तया सहालभ्यान्विविधविषयभोगाननुभुञ्जन् स्वर्पतिरिव दिव्यान्भोगानहरहरनुसवनं प्रकामं जुषमाणश्चिरायारीरमत् ।

अथैकदोढया यवन्या सह चरमे वयसि काश्यामुपगतः पण्डितरायस्तदा तत्रत्यैः सभ्यपण्डितैर्यवनकन्यापरिणेतृत्वादव्यवहार्योऽयमिति सतिरस्कारं सर्वत्रोदघोषि । पण्डितमण्डलकृताव्यवहार्यतावमाननाद्विषण्णान्तःकरणो जगन्नाथरायस्तान्प्रावोचत् ‘यदि मां मत्प्रेयसीं चैनां तत्रभवन्तो भवन्तः पावयेयुर्नयेयुश्चाखिलैर्ब्राह्मणैः सह पङ्क्तिपावनत्वं तदा युष्मदादिष्टं प्रायश्चित्तमङ्गीकरिष्यामी’ति । तदपि प्रार्थनं विद्वत्तिरस्कृतमवगत्य, आस्तां किं मेऽवमानोद्युक्तैरेभिर्ब्राह्मणैस्तद्वितीर्णेन सामान्येनानेन प्रायश्चित्तेन वा, जगत्त्रयपावनी भगवती सुरतरङ्गिण्येव नूनं सभार्यं मां पावयिष्यतीति सनिश्चयमाचक्षाणः पण्डितराजो द्विपञ्चाशत्सोपानान्तरितभागीरथीप्रवाहं कमपि घट्टमूर्धानमधिष्ठाय सुललितपदबन्धनानि एकपञ्चाशत् पद्यानि प्रणीयापीपठत् । यान्येव सांप्रतं गङ्गालहरीति पीयूषलहरीति वा सन्ति प्रस्तावना । सुप्रसिद्धानि । उच्चार्यमाणेषु च तेषु प्रतिपद्यमेकैकं सोपानमारुह्यान्तिमपद्यावसाने कूलंकषात्वमुपागता भागीरथी तया यवन्या सह प्रण्डितराजं स्वपात्रान्तर्विलयं निन्ये । तदैनमवलोक्य महानुभावप्रभावं काशीस्थास्तदानींतनाः पण्डिता अत्यन्तं व्यस्मयन्तेति ।

जगन्नाथपण्डितरायप्रणीतग्रन्थास्तु –(१) अमृतलहरी, (२) आसफविलासः, (३) करुणालहरी, (४) चित्रमीमांसाखण्डनम्, (५) जगदाभरणम्, (६) गङ्गालहरी, (७) प्राणाभरणम्, (८) भामिनीविलासः, (९) मनोरमाकुचमर्दनम्, (१०) यमुनावर्णनम्, (११) लक्ष्मीलहरी, (१२) सुधालहरी, (१३) रसगङ्गाधरश्चेत्येते दरीदृश्यन्ते । एतदन्येऽनुपलब्धाः स्युर्वा न वेति न विद्मो वयम् ।

एतादृशानेकनिबन्धरत्नप्रणेतृ-परमपूज्य श्रीमत्पण्डितजगन्नाथरायसंबन्धिकिंवदन्त्यनुगुणं व्रीडावहं यवनीपरिणयादि यद्यप्यदर्यस्माभिस्तथापि तादृशकालुष्यनिबर्हणाय विद्वद्वर–अप्पाशास्त्री–राशिवडे-करमहाशयैः संस्कृतचन्द्रिकायां सुनिपुणं निर्णोतं तत्तथ्यातथ्यविवेचनं यथावदत्र प्रदर्श्यते-

स्वभावत एव किल क्रोधवन्तो यवनाः स्वाङ्गनासु परस्य प्रेममयं पूज्यभावसंभवमपि नयनपातं न सहन्ते किंपुनर्विधर्मीयस्य कामाविष्टमनस आत्मनः समक्षमेव निजकन्याविषयिणीं प्रार्थनाम् । यद्यपि भूयांसो विद्वांसो वैदुष्यस्याननुरूपमहंकारमवाप्नुवते तथापि नहि काममात्रासत्तया धर्ममुल्लङ्घयितुमीहन्त इत्यपि नैव विस्मरणीयम् । क्षुद्रतमोऽपि यवनीं यदि विधर्मीयैः कृतया कान्तागतया कथयापि कोपस्य परां कोटिमारोहेत्तदा कथं वा निखिलभारतवर्षभूपालसमभ्यर्चितशासनो दिल्लीश्वरः शहाजहानः पण्डितेनापि जगन्नाथेनात्मनः समक्षमभ्यर्थितां कन्यां तस्मै प्रदाय यवनधर्ममवधीरयितुं प्रभवेत् । नूनं नैतत्कथंचिदपि संभवति । ‘यवनी नवनी’तकोमलाङ्गी’त्यादयः श्लोका यदि पण्डितराजविरचिता एवेति स्वीक्रियेत तदा भामिनीविलासेऽपि तेषामुपनिबन्धनमवश्यमङ्गीकर्तव्यम् । दुर्वृत्ता जारजन्मानो हरिष्यन्तीति शङ्कया स्वीयपद्यरत्नानां भामिनीविलासाख्यां मञ्जूषां निर्मितवता पण्डितराजेन कथं वा तानि विस्मर्येरन् कथं च मञ्जूषायां न संगृह्येरन्नित्यपि विचारणीयं विद्वद्भिः । अतो नैतानि पद्यानि पण्डितराजप्रणीतानीति प्रतीयते । ततश्च जगन्नाथस्य यवनीपरिणयविषयिणीयमाख्यायिका गगन आलेखनमनुहरति । किंच सार्वभौमायमानो दिल्लीश्वरः सभायां जलं पिबेदित्यपि न श्रद्धेयम् । नापि वा तस्य कन्यका शिरसि कलशीं निधाय हीनभाग्या योषिदिव नीरमानयेदित्यपि संभवास्पदम् । येभ्यः पन्थानोऽपि भृत्यैरेवादिश्यन्ते तेषानसूर्यंपश्याः कन्यास्तत्र च सुस्तनीत्वादिविशेषणार्हाः प्रगल्भे वयसि पदमर्पयन्त्यः परपुरुषपरिवृत्तायां परिषदि पानीयमानयेयुरित्यपि विरुद्धमेव प्रतिभाति । अतो निर्मूलेयं जगन्नाथस्य यवनीपरिणेतृत्वविषयिण्याख्यायिका ।

अथ भगवत्या भागीरथ्यात्मनोऽङ्गेषु विलयं नीतो जगन्नाथ इत्येषापि किंवदन्ती कियत्सत्यभावमवलम्बत इति विचार्यते । ययैव पण्डितराजविरचितया स्तुत्या प्रमुदितहृदया देवनदी जगन्नाथं पावयामासेति श्रूयते सा किल पीयूषलहरी गङ्गालहरीति वा प्रथिता । यदि तूपरि निर्दिष्टा लोकवार्ता मृषात्वं नावगाहेत तदा गङ्गालहरीप्रणयनकाल एव जगन्नाथस्यायुषोऽवसानावसर इति स्फुटमेव । ततश्च गङ्गालहरीप्रणयनोत्तरं जगन्नाथो नान्यं प्रबन्धं, निर्मास्यतीत्यपि सिद्धम् । अर्थाज्जगन्नाथविरचिते प्रबन्धान्तरे गङ्गा लहरीगतानि पद्यानि नैव दृश्येरन् । किंतु तानि दृश्यन्ते । अतएव प्रस्तावना ।

गङ्गालहरीप्रणयनावसान एव जन्नाथस्यायुषः परिसमाप्तिरिति वचनं नैव विचारसहम् । नापि गङ्गालहरीभिन्ना जगन्नाथविरचिता काचिदपि मन्दाकिन्याः स्तुतिरस्ति यस्या अवसानसमयं जगन्नाथस्य निधनावसरं मंस्यामहे । अतः सर्वथा निर्मूलेयमाख्यायिका । दृश्यन्ते च गङ्गालहरीगतानि पद्यानि रसगङ्गाधरे यथा-

विधत्तां निःशङ्कं निरवधि समाधिं विधिरहो सुखं शेषे शेतां हरिरविरतं नृत्यतु हरः । कृतं प्रायश्चित्तैरलमथ तपोदानविभवैः सवित्री कामानां यदि जगति जागर्ति भवति ॥

इति माधुर्योदाहरणम् । एवमनन्वयालङ्कारप्रकरणेऽपि-कृतक्षुद्राघौघानथ सपदि संतप्तमनसः समुद्धर्तुं सन्ति त्रिभुवनतले तीर्थनिवहाः । अपि प्रायश्चित्तप्रसरणपथातीतचरितान् नरानूरीकर्तुं त्वमिव जननि त्वं विजयसे ॥ इति ।

एवं भावस्योदाहरणप्रसङ्गेनोक्तं जगन्नाथेन तत्रैव ‘मन्निर्मिताश्च पञ्च लहर्यो नाम पीयूषलहरी–सुधालहरी–लक्ष्मीलहरी–अमृतल-हरी– करुणालहरी चेति । एवं च पीयूषलहर्यपराख्यायाः श्रीगङ्गालहर्याः पञ्चसु लहरीष्वन्तर्भूततया लहरीपञ्चकस्य च रसगङ्गाधर उल्लिखितत्वेन गङ्गालहरीगतानां पद्यानां रसगङ्गाधरे दृश्यमानत्वाच्च गङ्गालहर्या रसगङ्गाधरनिर्माणात्प्राक् संभूतत्वं स्फुटमेव प्रतीयते । ततश्च निर्मूलेयमाख्यायिका यदुच्यते लीनो मन्दाकिन्याकोडे जगन्नाथ इति । अथ द्वितीया किंवदन्ती । आसीत्किल दिल्लीपतेः कोऽपि पुरोहितो म्लेच्छजातीयो यः संस्कृतभाषाब्धेः परं पारमासाद्य शास्त्रसागरमुल्लङ्घय च तत्र तत्र निवसतः पण्डितगणान्पराभवतिस्म । सच तैस्तैः पण्डितैर्विवमानस्तांस्तान्विदुषो विजयमानस्तत्रतत्र प्रदेशे सनातनं भारतधर्ममुत्सादयमानो निराकुर्वन्प्रतिपक्षान्प्रतिपादयन्यवनधर्म परिखण्डयन् शास्त्राणि हेपयन्नखिलया संस्कृतगिरा भारतीयान्विबुधानवजिताशेषदक्षिणप्रदेशः सकलविद्यावैशद्यावभासितां नानाविधबुधमण्डलीमण्डितां पण्डिताग्रेसरसमुपक्रम्यमाणदार्शनिकविषयचर्चामर्चानुकूलफलसमर्पणकल्पपादपायमानेन भगवता शशिखण्डमौलिना समुद्भासितां भासिताशेषत्रिभुवनया परमपावनया मन्दाकिनीदेव्या परिगतां समुपचीयमानसुकृतराशिं काशीं नाम गरीयसीं नगरीमुपतस्थौ । ततश्च तत्रत्यान्विबुधानाह्वयमानः काजी सभां महीयसीं निर्माय विवादमारिप्सामास । पण्डिता अपि तदानीमेवाहंपूर्विकया सभामागत्य विविधाभिर्यु्क्तिभिर्नानाविधाभिर्वचनरचनाभिः परिस्फुरन्तीभिः प्रणामपरम्पराभिश्च काजीं जेतुमयतन्त । काजी तु पवन इव पथि पतितांस्तृणच्छेदांस्तानि वचनजालानि क्षणादेव प्रतिक्षिपन्नखण्डितमतः करनखराग्रैमैरानाभि लम्बमानां धवलकीर्तिसंततिमिव पुञ्जीभूयोपागतां [^१]कूर्चिकां परिष्कुर्वन् सावहेलमग्रासनमधिरुरोह तदनु विवादेऽप्रभविष्णवोऽप्यपमानासहिष्णवो वाराणसीनिवासिनो द्विजन्मानोऽनुचरविपदपहर्तारं सृष्टिस्थितिप्रलयकर्तारं निजपरिचरप्रतिभटखण्डनं सुधाकरकलामण्डनं समुपेत्यानन्यगतेन मनसा नानाविधाभिस्तत्कालसमुचिताभिः करुणरसपरिप्लुताभिः स्तुतिभिस्तमेव ——————————१ दाढीतिप्रसिद्धाम् । प्रस्तावना ।

भगवन्तमुपवीणयामासुः । अवगताशेषवृत्तान्तश्च भगवान्भुजगभूषणो भागीरथीमौलिर्महेश्वरस्तदात्व एव प्रत्यक्षीभूय वाचमेतामुदीरयामास । अस्त्यत्र कस्यापि रत्नेश्वरनाम्नो द्विजन्मनो धनिकस्य सदन [^१]आम्भसिकः कश्चिद्भिक्षुः स एवास्यावलिप्तस्य यवनहतकस्य पराजये प्रभवतीति स एवाभ्यर्थ्यतामिति । ते तु ब्राह्मणाः फलमिवात्मनो मनोरथद्रुमस्य तद्वचनमाकर्ण्य द्रुतपदं रत्नेश्वरश्रेष्ठिनो भवनमागत्यासाद्य च श्रेष्ठिनं भगवतो निदेशमावेदयामासुः । सच तेषां तद्वचनमाकर्ण्य परं विस्मयमापन्नस्तमेव नीराधिकृतमात्मनो दासं समाहूय निजगादाभिलषितं ब्राह्मणसमाजस्य । अपृच्छच्च अपि प्रभवसि कर्मण्येतस्मिन्निति । ततो धीवरजालायमानेनासंख्येयतन्तुसन्तानेनाजानुलम्बिना मलीमसेन वसनेनावेष्टिताधःकायो जठरभरमन्थरगतिरंसमुभयतः प्ररूढैर्जलकुम्भवहनसंजातैःकिणैः समुल्लसितः पीवरतनुः श्यामायमानेन चैलखण्डेन वेष्टितोत्तमाङ्गो घटीचेटो हुंकरिष्याम्येतद्यदि भवन्तोऽनुजानीयुरिति मन्दंमन्दं प्रत्ययोजिष्ट । ततः श्रेष्ठिना समर्पिते तस्मिन्प्रमुदिता ब्राह्मणाः कौशेयानि पट्टवसनानि परिधाप्य अनर्घ्यैर्भूषणैरलंकृत्योष्णीषसमुल्लसितं च तस्य मूर्धानं विधाय कनकशिबिकायामारोप्य महीयसा महोत्सवेन विरचितायां सभायामानाय्य तमुपवेशयामासुः । काजीरपि समाहूतागतस्तस्यैव संमुखमुपाविक्षत् । ततो दोलायमानकूर्चिकाकलापं समुद्धूयमानश्मश्रुजालं च प्रवदता काज्या सह प्रववृते भिक्षोर्विवादः । अन्ते पुनर्भिक्षुवचनचातुरीविस्मितोऽश्रुतपूर्वाः सहस्रशो युक्तीराकर्ण्येतिकर्तव्यतामूढो विवादसागरमुत्तरीतुमप्रभविष्णुः काजी तूष्णींभावमवलम्ब्य मिक्षुं प्रण——————————————-

[^१] अम्भःपूरणाधिकृतो विप्रः । नाम । ततो विजितं विजितं भिक्षुणेति सतालवं प्रवृत्तेषु वचनेषु तदानीमेव मूर्च्छत्सु तूर्येष्वाहन्यमानेषु मुरजेषु ध्वन्यमानेषु दुन्दुभिषु आध्मायमानेषु शङ्खेषूच्चरत्सु क्ष्वेलानुकारिषु सिंहनर्दिकाक्रेंकारेषु महोत्सवमय इव मङ्गलमय इव प्रमोदमय इव विजयमान इव यशोमय इव च तस्मिन्समये सबहुमानं सप्रणामं च सौवर्णं यानमारोप्य भिक्षं श्रेष्ठिनः सदनमानाय्य यथावृत्तं वृत्तं निजगदुर्द्विजन्मानः । ततस्तु समुद्भूतजिज्ञासाः सर्वेऽपि तस्य भिक्षोः कुलं नाम विद्यामभिजनं च पप्रच्छुः । तस्मिंश्चाशेषतोऽपि तेन कथिते निश्चिक्युः काशीस्था विबुधा अयमेव पण्डितराजो जगन्नाथ इति । काजी तु ततः प्रभृति तस्य पण्डितराजजगन्नाथस्य मित्रतामुपागच्छत् । ततो गच्छता कालेन दिल्लीं गतो बादशाहं विज्ञाप्य जगन्नाथमपि दिल्लीनगर एवानाययामास । ततः प्रभृति च प्ररूढं जगन्नाथबादशाहयोः सौहार्दमिति । एतादृंश्यन्यान्यपि लोकोत्तराणि चरितानि नैकशः सन्त्यस्य महामहिमभाजः पण्डितरायस्य तथापि स्थलतानवाद्दिग्दर्शनेनैवालमिति विरम्यते ।

श्रीः । जगन्नाथपण्डितराजप्रणीता । गङ्गालहरी । पीयूषलहरीव्याख्यासहिता ।

इदानीं महान् चोरः पुनरपि नराणां प्राणहारकोऽपि वायुः त्वल्लहरिबन्धमाहात्म्येन त्रिभुवनं पवित्रीकरोतीत्याह-

अलभ्यं सौरभ्यं हरति नियतं यः सुमनसां क्षणादेव प्राणानपि विरहशस्त्रक्ष[^१]तभृताम् । त्वदीयानां लीलाचलितलहरीणां व्यतिकरात् पुनीते सोऽपि द्रागहह पवमानस्त्रिभुवनम् ॥ ३५

अलभ्यमिति । भो अम्ब, सोऽपि परचौर्यपरप्राणहारित्वा- दिगुणयुक्तोऽपि पवमानः प्रभञ्जनः । ‘पवमानः प्रभञ्जनः इत्यमरः । त्वदीयानां तव इमाः त्वदीयाः । ‘युष्मदस्मदोरन्य- तरस्यां खञ्च’ इति चाच्छः । ‘प्रत्ययोत्तरपदयोश्चे’ति त्वादेशः ।

[^१] क्षतहृदाम् इति पाठः । तासां लीलाचलितलहरीणां लीलया चलिताः चञ्चलाः गच्छन्तो वा । ‘चल गता’ वित्यस्मात्’गत्यर्थाकर्म/5–’ इत्यनेन कर्तरि क्तः । एतादृश्यो या लहर्यः तासां व्यतिकरात्संबन्धात् त्रिभुवनं जगत्त्रत्यं पुनीते पवित्रीकरोति । अहहेत्यद्भुते । ‘अहहे- त्यद्भुते खेदे’ इत्यमरः । ननु देवोपि वायुः कथं चौर्यादिगुण- युक्त इत्याकाङ्क्षायामाह । स कः । यः पवमानः सुमनसां पुष्पा- णाम् । ‘स्त्रियः सुमनसः पुष्पम्’ इत्यमरः । अलभ्यमन्यत्र चौरैरप्राप्यम् । अनेन चौर्ये वायोः कौशल्यमावेदितम् । एतादृशं सौरभ्यं सौगन्ध्यं नियतं सततं यथा तथा हरति चोरयति । पुनः स कः । यः विरहशस्त्रक्षतभृतां विरह एव स्त्र्यदिवियोग एव शस्त्रं मारकत्वात् । यद्वा विरहश्च शस्त्रं च विरहशस्त्रे ताभ्यां यत् क्षतं तत् बिभ्रति ते विरहशस्त्रक्षतभृतः तेषाम् । क्वचित्तु विरहशस्त्रक्षतहृदामिति पाठः । तत्र विरहशस्त्राभ्यां क्षतं क्षतयुक्तं कृतं विदारितमिति यावत् । तादृशं हृत् येषामिति समासः । यद्वा विरहशस्त्रयोः क्षतं यस्मिन्निति व्यधिकरणपदो बहुव्रीहिः । तादृशं हृत् येषाम् । विरहशस्त्रक्षतयुक्तं हृत् येषामिति शाकपार्थिवादित्वान्मध्यमपदलोपी समासो वा । तेषां प्राणानपि असूनपि । ‘पुंसि भूभ्र्यसवः प्राणाः’ इत्यमरः । क्षणादेव क्षणमात्रेणैव नियतं यथा स्यात्तथा हरति एतादृशः दुष्टो वायुः श्रेष्ठत्वल्लहरिसंबन्धमाहात्म्येन महत्कार्यं करो- तीति भावः । उक्तं च हनुमन्नाटके–‘ये मञ्जन्ति निमञ्जयन्ति च परांस्ते प्रस्तरा दुस्तरे वार्धौ वीर तरन्ति वानरभटान्संतार- यन्तेऽपि च । नैते ग्रावगुणा न वारिधिगुणा नो वानराणां गुणाः श्रीमद्दाशरथेः प्रतापमहिमा सोऽयं समुज्जृम्भते इति । लोकेऽपि दुष्टः प्रभुभृत्यत्वसंबन्धमाहात्म्येन महत्कार्यं करोतीति प्रसिद्धमेव ॥ ३५ ॥

इदानीं केचन लोकाः परकार्यसंपादकाः सन्ति, केचन पवित्रात्मानः सन्तः परलोकप्रणयिनो भवन्ति, अहं तु त्वयि स्थापितलोकद्वयभरः सन् सुखेन निद्रां करोमीत्याह-

कियन्तः सन्त्येके नियतमिह लोकार्थघटकाः परे पूतात्मानः कति च परलोकप्रणयिनः । सुखं शेते मातस्तव खलु कृपातः पुनरयं जगन्नाथः शश्वत्त्वयि निहितलोकद्वयभरः ३६

कियन्त इति । भो मातः, कियन्तः कतिसंख्याकाः एके साधारणा लोकाः इह जगति नियतं लोकार्थघटकाः लोकानां जनानां अर्थाः प्रयोजनानि । ‘अर्थरैविभवा अपि’ इत्यमरः । तेषां घटकाः संयोजकाः सन्ति । यद्वा इह कियन्तः एके लोकार्थघटकाः सन्तः परलोकप्रणयिनः परलोकं प्रणयन्ति प्रार्थयन्ति ते । यद्वा परलोकं प्रकर्षेण नयन्ति गच्छन्ति ते परलोकप्रणयिनः सन्तीति योजना । इहलोके परकार्यसंपादन- जन्यपुण्येन स्वर्गलोकं गच्छन्ति । एवंच तेषामयं लोकः परलो- कश्च समीचीन इत्याकूतम् । परे चान्ये च कति । यद्वा कति- परे च पूतात्मानः सन्तः पूतः तपःसेवनादिना पवित्रः आत्मा येषां ते एतादृशाः सन्तः नियतं परलोकप्रणयिनः सन्ति भो मातः, अयं जगन्नाथः । तु पुनःशब्दस्त्वर्थः । तव कृपातः । पञ्चम्यन्तात्तसिल् । दयाहेतोः शश्वन्निरन्तरं सुखं यथा स्यात्तथा शेते निद्रां करोति । शश्वदित्यनेन कदापि अन्यन्न करोति । सुखमित्यनेन तत्रैव मम सुखं नान्यत्रेति सूचितम् । ननु एवंच लोकद्वये तव का गतिरिति चेत्तत्राह ॥ कथंभूतोऽ- यम् । त्वयि निहितलोकद्वयभरः । त्वयि भवत्यां लोकद्वये इहलोके परलोके च भरः सर्वेभ्य उत्कृष्टता निहितः स्थापितः लोकद्व- यभरो येन सः । भरः उदरपोषणं वा । ‘डुभृञ् धारणपोषणयो’ रित्यस्मादचीति दिक् ॥ ३६ ॥

इदानीं ननु रे पापनिवृत्तये मां स्तौषि तत्रादौ पापमेव किमर्थं करोषीति चेत्त्वया स्वपतिताश्लीलशवशकलसमुदायपरित्राणं यथा क्रियते तथा मयापि पापं क्रियते स्वस्वभावस्य सर्वैरपि दुष्परिहार्यत्वादित्याह-

भवत्या हि व्रात्याधमप[^१]तितया खण्डपरिषत् परित्राणस्नेहः श्लथयितुमशक्यः खलु यथा । ममाप्येवं प्रेमा दुरितनिवहेष्वम्ब जगति स्वभावोऽयं सर्वैरपि खलु यतो दुष्परिहरः ।। ३७

भवत्या हीति । भो अम्ब, व्रात्याधमपतितया व्रात्याश्चा धमाश्च वात्याधमाः व्रात्याः संस्कारहीनाः अधमा नीचाः ते पतिताः यस्यां सा तया । आहिताग्र्यदित्वात्पतितशब्दस्य परनिपातः । यद्यपि पतेः ‘सनितनिपति’ इति वार्तिकेन वेट्कत्वात् निष्ठायां ‘यस्य विभाषे’तीणनिषेधः प्राणेति तथा ‘द्वितीया श्रितातीतपतिते’ति निपातनाद्भवति । एतादृश्या भवत्या त्वया खण्डषरित्परित्राणस्नेहः खण्डानामर्थात् स्वपतितशवशकलानां । ‘भित्तं शकलखण्डे वा पुंस्यर्धोऽर्धं समेंऽशके’ इत्यमरः । परिषत् ————————————[^१]पतितपाखण्डपरिषत् इति पाठः । समुदायः तस्याः परित्राणं पालनं तत्र स्नेहः प्रेम । ‘प्रेमा ना प्रियता हार्दं प्रेम स्नेह’ इत्यमरः । श्लथयितुं त्यक्तुं यथाऽशक्यः खलु निश्चयेन, एवं दुरितनिवहे दुरितस्य पापस्य निवहः समूहस्तत्र ममापि प्रेमा प्रियता । अस्तीति शेषः । यतो यस्मात्कारणात् जगति सर्वैरपि अयं स्वभावो निसर्गः । ‘स्वरूपं च स्भाववश्च निसर्गश्चे’त्यमरः । दुष्परिहरः दुःखेनापि परिहर्तुमशक्यः । अस्तीति शेषः । दुःखशब्दे उपपदे हरतेः ‘ईषद्दुःस्वि ति सूत्रेण खल् । यद्वा दुरितनिवहे जगतीति योजना । व्रात्याधमपतितयेत्यनेन तेषामपि रक्षणे किं वक्तव्यं पुण्यवतामित्यावेदितम् । खण्डमित्यनेन अवयवस्य पालने किं वक्तव्यमवयविन इत्याशयः । परिषदित्यनेनैकमपि न त्यजत इति भावः । दुरितनिवहेत्यनेन बहुषु पातकेषु ममेच्छा नत्वेकस्मिन् द्वयोर्वेत्यावेदितम् । अत्र निन्दया स्तुत्यमिव्यक्तेर्व्याजस्तुत्यलंकारः। तदुक्तं कुवलयानन्दे ‘उक्तिर्व्याजस्तुतिर्निन्दास्तुतिभ्यां स्तुतिनिन्दयो’रिति । मम यथा,‘विवेकलेशोपि न ते रामचन्द्र रणे रिपून् । हतान् स्वनाशकान् शीघ्रं पापिनो नयसे दिव’मिति । अत्रारीन् दिवं नयसे इत्युक्त्या भक्तानवश्यं नयसे इति स्तुत्यभिव्यक्तिः ॥३७॥ इदानीं गङ्गाताण्डवविधिं वर्णयन् स्वतापशमनं प्रार्थयते-

प्रदोषान्तर्नृत्यत्पुरमथनलीलोद्धृतजटा- तटाभोगप्रेङ्खलहरिभुजसंतानविधुतिः । बिलक्रीडक्रोडजलडमरुडंकारसुभग- स्तिरोधत्तां तापं त्रिदशतटिनीताण्डबविधिः ॥ प्रदोषेति । त्रिदशतटिनीताण्डवविधिः त्रिदशानां देवानां तटिनी गङ्गा तस्याः ताण्डवम् । तण्डुना तच्छास्त्रप्रवर्तकाचार्येण प्रोक्तं ताण्डवं नाट्यम् । ‘तेन प्रोक्त’मित्यणि ‘ओर्गुणः’ इति गुणः । ‘ताण्डवं नटनं नाट्य’मित्यमरः । तस्य विधिः करणम् ‘विधिर्विधाने दैवे चे’त्यमरः । तापं अर्थाद्भक्तजनसंतापम् । यद्वा पूर्वश्लोकान्ममेत्यनुवर्तते । तथाच मम तापं तिरोधत्तां अन्तर्धानं गमयतु । नाशयत्वित्यर्थः । ताण्डवसामग्रीमाह । कथंभूतस्त्रिदशतटिनीताण्डवविधिः । प्रदोषान्तर्नृत्यत्पुरमथन- लीलोद्धृतजटातटाभोगप्रेङ्खल्लहरिभुजसंतानविधुतिः । प्रदोषस्य सूर्यास्तानन्तरं षट्घटिकात्मककालस्यान्तर्मध्ये नृत्यं कुर्वन् स चासौ पुरमथनश्च शिवश्च तेन लीलया उद्धृताः उत् ऊर्ध्वं धृताः इयं नृत्यचेष्टा एतादृश्यः याः जटाः संयताः केशाः । ‘जटा स्यात्संयतालकाः’ इति कोशः । तटे आभोगः पतनात्मकः संयोगसंबन्धः नृत्यत्पुरमथनलीलोद्धृतजटानां तटाभोगः तेन प्रेङ्खन्त्यः गच्छन्त्यः चञ्चला वा याः लहर्यः वीच्यः ता एव भुजाः संतानं च विधुतिश्च संतानविधुती संतानं दीर्घीकरणं विधुतिः कम्पः भुजानां संतानविधुती यस्मिन् स प्रदोषान्तः । इदं समस्तं व्यस्तं वा । उक्तप्रदोषलक्षणे प्रमाणं तु ‘त्रिमुहूर्तं प्रदोषः स्याद्भानावस्तंगते सती’ति हेमाद्याद्युदाहृतं वचनं बोध्यमिति दिक् । संतानेत्यत्र संपूर्वक ‘धूञ् कम्पने’ इत्यस्मात् स्त्रियां क्तिन् । पुनः कथंभूतः । त्रिदशतटिनीताण्डवविधिः । बिलक्रोडक्रीडञ्जलडमरुडंकारसुभगः बिलस्य विवरस्य क्रोडं अर्थात् मध्यः ‘न ना क्रोडं भुजान्तर’मित्यमरः । तत्र क्रीडत विहरत् यञ्जलं तदेव डमरुर्वाद्ययविशेषः । ढक्केत्यर्थः ’वाद्य- प्रभेदा डमरुमड्डुडिण्डिमझर्झराः’ इत्यमरः । तस्य तेन वा यः टंकारः शब्दविशेषः तेन सुभगः शोभनं सुष्ठु वा भगं श्रीः यस्य सः । ‘भगं श्रीकाममाहात्म्ये’त्यमरः । सुन्दर इत्यर्थः । क्वचित्तटक्रोडेति पाठः ॥ ३८ ॥

इदानीं सर्वदा भवत्यां स्थापितकुशलचिन्ताभरं मां त्वं विषमे अस्मिन् समये यदि त्यजसि तर्हि अतः परं भुवनत्रये तव विश्वासं कोपि न कुर्यात् तव करुणा च निराधारा स्यादिति गङ्गायाः भयप्रदर्शनेनाह-

सदैव त्वय्येवार्पितकुशलचिन्ताभरमिमं यदि त्वं मामम्ब त्यजसि समयेऽस्मिन्सुविषमे । तदा विश्वासोऽयं त्रिभुवनतलास्तमयते निराधारा चेयं भवति खलु निर्व्याजकरुणा ॥

सदैवेति । भो अम्ब, सदैव सर्वदैव त्वय्येव भवत्यामेव । एवो देवतीर्थान्तरं व्यावर्तयति । अर्पितकुशलचिन्ताभरं कुश- लस्य क्षेमस्य। ‘कुशलं क्षेममस्त्रिया’मित्यमरः । तस्य चिन्ता कथं मम कुशलं भविष्यतीत्याकारिका तस्या भर आधिक्यम् । बह्वी चिन्तेत्यर्थः । भरः समूहो वा । अर्पितः स्थापितः कुशल- चिन्ताभरो येन सः तम् । गङ्गैव मम कुशलं करिष्यतीति मन्य- मानमित्यर्थः । इमं त्वत्समीपे वर्तमानमेतादृशं मां सुविषमे सुतरामत्यन्तं विषमः दुःसहः तस्मिन् । अतिकठिन इत्यर्थः । यद्वा विषं गरलं मयते ददातीति विषमस्तस्मिन् ‘मेङ् ग्रणिदाने’ इत्यस्य ‘आदे च उपदेशेऽशिती’त्यात्वे ‘आतोऽनुपसर्गे का इति ‘आतो लोप इटि चे’त्याकारलोपः । एतादृशेऽस्मिन् समये यदि त्यजसि तदा तर्हि अयं विश्वासः गङ्गा शरणागतकुशल- कर्त्रीत्याकारो निश्चयः त्रिभुवनतलात् त्रिभुवनस्य तलं तस्मात् अस्तं तिरोभावं अयते गच्छति गमिष्यतीति वा । ‘वर्तमान- सामीप्ये’इति भविष्यति लट् । च पुनः इयं निर्व्याजकरुणा अकपटकरुणा निराधारा भवति निर्गतः आधारो यस्याः सा एतादृशी भवति । खलु निश्चयेन । संदेहो नास्तीति भावः । विश्वासाभावेन कस्यापि तव निकटे आगमनाभावात् करुणा- यास्तिरोधानत्वात् । लोकेऽपि यस्य विश्वासो नास्ति तस्य निकटे कोपि नागच्छतीति प्रसिद्धमेव । एवंच माहात्म्यसंरक्षणाय झटिति ममोद्धारणं कुर्विति गङ्गाया भीतिप्रदर्शनमिति भावः । क्वचित्तु समये इत्यस्य स्थाने विषये इति पाठः । तत्र विषयो- द्धारणरूपे विषये इत्यर्थः ॥ ३९ ॥

इदानीं हरवामभागे काऽद्वितीया कान्ता वर्तते इति प्रेक्षितुं कपर्दादुल्लस्य सीमन्तसरणौ आगता अतएव पार्वत्या सापत्न्यभावात् करेणाकर्षिता एतादृश्यस्तव लहर्यो विजयन्तामित्याह-

कपर्दादुल्लस्य प्रणयमिलदर्धाङ्गयुवतेः पुरारेः प्रेङ्खन्त्यो मृदुलतरसीमन्तसरणौ । भवान्या सापत्न्यस्फुरितनयनं कोमलरुचा करेणाक्षिप्तास्ते जननि विजयन्तां लहरयः ॥ ४०॥

कपर्दादिति । भो जननि, ते तव लहरयः कपर्दात् शिव- जटाजूटात् उल्लस्य प्रसृत्य प्रणयमिलदर्धाङ्गयुवतेः । प्रणयेन प्रीत्या मिलन्ती संयुज्यमाना अर्धाङ्गे वामभागे युवतिः पार्वती यस्य सः तस्य पुरारेः शिवस्य मृदुलतरसीमन्तसरणौ अतिश- येन मृदुलः कोमलः मृदुलतरः तादृशो यः सीमन्तः केशवेशः । ‘सीमन्तः केशवेशे’इति शकन्ध्वादिगणसूत्रेण पररूपम् । तस्य सरणिः तत्र प्रेड्खन्त्यः गच्छन्त्यः । उपरिष्टादधोभागे आगता इत्यर्थः । पुनः कथंभूताः । अतएव भवान्या पार्वत्या कर्तृभूतया कोमलरुचा कोमला रुक् कान्तिर्यस्य तेन । एतेन पार्वतीसौ- न्दर्यमुक्तम् । अतएव शिवेन प्रीतिवशात् लहरिकर्षणेन निवा- रिता एतादृशेन कारेण सापत्न्यस्फुरितनयनं यथास्यात्तथा समान पतिर्यस्याः सा सपत्नी तस्या भावः सापत्न्यं तेन स्फुरितेन कोपेन चञ्चले नयने यसिन्कर्मणि यथा भवति तथा आक्षिप्ताः आकर्षिताः । क्वचित्तु भवान्या इति षष्ठ्यन्तः पाठः । तत्र भवान्याः करेण कर्तृभूतेनेत्यर्थः ॥ ४० ॥

इदानीं बहवो लोकाः त्वामायान्ति तत्र तेषामभीष्टं करोषीति कारणं वर्तते । अहं तु स्वभावादेव त्वय्यनुरक्त इति तुभ्यं शप इत्याह-

प्रपद्यन्ते लोकाः कति न भवतीमत्रभवती- मुपाधिस्तत्रायं स्फुरति यदभीष्टं वितरसि । शपे तुभ्यं मातर्मम तु पुनरात्मा सुरधुनि स्वभावादेव त्वय्यमितमनुरागं विधृतवान् ॥ ४१ ॥

प्रपद्यन्त इति । भो मातः सुरधुनि, कति लोकाः अत्र- भवतीं पूज्यां भवतीं त्वां न प्रपद्यन्ते नायान्ति, अपितु बहवः प्रपद्यन्त इत्यर्थः । तत्रायं उपाधिः कारणं स्फुरति वर्तते । किं तदित्याकाङ्क्षायामाह–यत् यस्मात् कारणात् अभीष्टं वाञ्छितं वितरसि ददासि । तेभ्य इति शेषः । मम तु पुनः जगन्नाथ- स्यात्मा स्वभावादेव निसर्गादेव त्वयि भवत्याममितं अपरिमितं अनुरागं प्रीतिं विधृतवान् धारयामास इति तुभ्यं भवत्यै शपे शपथं करोमि । ‘श्लाघह्रुङस्थाशपा’मिति संप्रदानत्वम् ॥ ४१ ॥

इदानीं त्वदीया मृत्तिका मदीयं समस्तं शोकं दूरीकरोत्विति प्रार्थयते-

ललाटे या लोकैरिह खलु सलीलं तिलकिता तमो हन्तुं धत्ते तरुणतरमार्तण्डतुलनाम् । विलम्पन्ती सद्यो विधिलिखितदुर्वर्णसरणिं त्वदीया [^१]सन्मृत्स्न्ना मम हरतु कृत्स्नामपि शुचम् ॥

ललाट इति । पूर्वश्लोकात्संबोधनपदं आवर्तनीयम् । भो सुरधुनि, त्वदीया त्वत्संबन्धिनी सा मृत्स्ना प्रशस्ता मृत् मृत्स्ना ‘सस्त्रौ प्रशंसाया’मिति मृत्शब्दात्स्नुप्रत्ययः । ‘मृन्मृत्तिका प्रशस्ता तु मृत्सा मृत्स्ना च मृत्तिके’त्यमरः । मम जगन्नाथकवेः कृत्स्नामपि संपूर्णामपि शुचं शोकं हरतु । ननु मृत्तिकायाः शोकहरणे कथं सामर्थ्यमित्याकाङ्क्षायामाह। सा का । या मृत्स्न्ना इहलोके ललाटे भालदेशे सलीलं यथास्यात्तथा तिलकिता सती पुण्ड्रीकृता सती तमो हन्तुं तरुणतरमार्तण्डतुलनां तरुणतरः माध्यह्रिको यो मार्तण्डः सूर्यः तस्य तुलनां साम्यं धत्ते बिभर्ति । अत्र प्रमाणं तु–‘गङ्गातीरसमुद्धतां मृदं


[^१] सा मृत्स्ना इति पाठः । मूर्ध्ना बिभर्ति यः । बिभर्ति रूपं सोऽर्कस्य तमोनाशाय केवल’मिति ब्रह्माण्डपुराणवचनं बोध्यम् । तिलककरणप्रकारोप्युक्तस्तत्रैव ‘वा- महस्ते जलं कृत्वा सावित्र्या चाभिमन्त्रितम् । तद्विष्णोरिति मन्त्रेण मर्दयेन्मृत्तिकां ततः । अतोदेवेति सूक्तेन तिलकं कारयेत्सदे’ति । इदं तिलककरणं प्रातःस्नानोत्तरं बोध्यम् । पुनः सा का । या विधिलिखितदुर्वर्णसरणिं विधिना ब्रह्मणा लिखिताः ते च ते दुर्वर्णाः दुष्टाक्षराणि अयं दरिद्रो भविता मृतभार्यश्चेत्यादयः तेषां सरणिः तां सद्यः लापनाव्यवहितोत्तरकाले एव विलुम्प- न्ती विशेषेण लुम्पन्ती प्रोच्छन्ती । एवंच विधिलिखितमपि अलीकं कुर्वन्त्या मम शोकहरणे सामर्थ्यमस्तीति भावः ॥ ४२ ॥

इदानीं मूढान्नरानुपहसन्तः स्ववासिभ्रमराणां मालिन्यदोषं दूरीकुर्वाणाश्च गङ्गातीरतरवः मम सखायः सन्त्वित्याह-

नरान्मूढांस्तत्तजनपदसमासक्तमनसो हसन्तः सोल्लासं विकचकुसुमव्रातमिषतः । पुनानाः सौरभ्यैः सततमलिनो नित्यमलिना- न्सखायो नः सन्तु त्रिदशतटिनीतीरतरवः ॥ ४३ ॥

नरानिति । त्रिदशतटिनीतीरतरवः त्रिदशतटिन्याः ग- ङ्गायाः तीरं तत्र तस्य वा तरवः वृक्षाः नः अस्माकं भक्तजनानां सखायः मित्राणि सन्तु भवन्तु । ‘अथ मित्रं सखा सुहृदि-’ त्यमरः । कथंभूताः त्रिदशतटिनीतीरतरवः । मूढान्मूर्खान् अतएव तत्तञ्जपदसमासक्तमनसः ते च ते जनपदाश्च तत्तज्जन- पदाः स्वस्वदेशाः । ‘नीवृञ्जनपदो देश’इत्यमरः । तेषु समासक्तं संबद्धं एतादृशं मनो येषां ते तान् एतादृशान् नरान्मनुष्यान् विकचकुसुमव्रातमिषतः विकचानि प्रफुल्लानि यानि । कुसुमानि पुष्पाणि तेषां व्रातः समूहः तस्य तदेव वा मिषं छलं तस्मात् सोल्लासं सहर्षं यथास्यात्तथा हसन्तः उपहासं कुर्वन्तः एतेषां दुष्टस्वीयस्वीयदेशरचितभक्त्या तत्रैव मरणेन दुर्गतिर्भविष्यति अस्माकं तु सदैव गङ्गातीरवासित्वादुभयगतिर्भविष्यतीति तान् उपहसन्तीत्युत्प्रेक्षा । पुनः कथंभृताः । नित्यमलिनाः नित्यं मलिनाः मालिन्ययुक्ताः तान् । जन्मतः श्यामानित्यर्थः । एता- दृशान् अलिनः भ्रमरान् सौरभ्यैः निजकुसुमसौगन्ध्यैः संततं निरन्तरं यथा स्यात्तथा पुनानाः पवित्रीकुर्वाणाः एवंच ताद्द- शान् ये पुनन्ति ते स्वसखं मामपि पवित्रं करिष्यन्तीति भावः । सौरभ्यैः नित्यमलिनान् पुनाना इति वा योजना । ‘मधुलिण्म- धुपालिनः’ इत्यमरः ॥ ४३ ॥

इदानीं केचन स्वेष्टफलावप्तये यमनियमादियोगं कुर्वन्ति, अहं तु त्वन्नामस्मरणेन प्राप्तकामः सन् जगज्जालं तृणतुल्यं मन्य इत्याह-

यजन्त्येके देवान्कठिनतरसेवांस्तदपरे वितानव्यासक्ता यमनियमरक्ताः कतिपये । अहं तु त्वन्नामस्मरणभृतकामस्त्रिपथगे जगज्जालं जाने जननि तृणजालेन सदृशम् ॥

यजन्तीति । भो त्रिपथगे, एके लोकाः कठिनतरसेवान् अतिशयेन कठिना कठिनतरा सेवा येषां तान् एताद्दशान्दे- गङ्गा, ५ वान् विष्ण्वादीन् यजन्ति पूजयन्ति । तदपरे तेभ्यः देवपूज- केभ्यः अपरे अन्ये । पञ्चमीति योगविभागात्समासः । यद्वा ते देवपूजकाः अपरे येभ्यः ते इति पञ्चम्यर्थे बहुव्रीहिः । देवपूज- केभ्य उर्वरिता इत्यर्थः । वितानव्यासक्ताः उल्लोचेषु, यज्ञेषु वा व्यासक्ताः विशेषेण आसक्ताः । तत्परा इत्यर्थः । सन्तीति शेषः । ‘अस्त्री वितानमुल्लोचः’ इत्यमरः । लोके ‘चांदवा’ इति प्रसिद्धिः । ‘ऋतुविस्तारयोरस्त्री वितानं त्रिषु तुच्छके’ इत्यमरः । कतिपयेऽन्ये लोकाः यमनियमरक्ताः यमनियमयो रक्ताः अनु- रक्ताः । सन्तीति शेषः । तान्कुर्वन्तीत्यर्थः । तत्करणकाठिन्या- त्कतिपयपदोपादानम् । यमनियमग्रहणमष्टानामप्युपलक्षणम् । ते च ‘यमनियमासनप्राणायामप्रत्याहारध्यानधारणासमाधयः’ तत्र अहिंसादिपरिग्रहो यमः । शौचादिसंपादनं नियमः । पद्म- काद्यासनम् । रेचकादिप्राणायामः । इन्द्रियाणां स्वस्वविषयेभ्यः प्रत्याहरणं प्रत्याहारः । तत्रैव विच्छिद्य अन्तरिन्द्रियप्रवाहो ध्यानम् । चित्तवृत्तिनिरोधः समाधिरिति दिक्। भो त्रिपथगे जननि, त्रीन्पथो गच्छतीति त्रिपथगा, यद्वा त्रयाणां पथां स- माहारस्त्रिपथम् । ‘पथः संख्याव्ययादे’रिति नपुंसकत्वम् । तेन गच्छतीति त्रिपथगा । गमेर्डः । तत्संबोधनम् । अहं तु जगन्ना- थस्तु त्वन्नामस्मरणभृतकामः सन् तव नाम त्वन्नाम । ‘प्रत्ययोत्तर- पदयोश्चे’ति त्वादेशः । त्वन्नाममरणं चिन्तनं तेन भृताः संपा- दिताः तादृशाः कामाः मनोरथाः येन सः एतादृशः सन् जगञ्जालं जगतः जालं समूहः जगञ्जालम् । ‘जालं समूह आनायः’ इत्यमरः । तृणजालेन कक्षसंघेन सदृशं तुल्यं जाने वेद्यि । तृणजालेनेंति ‘तुल्यार्थै’रित्यादिना तृतीया । कलौ नामोच्चारणस्यैव सारत्वात्तदेव करोमीति भावः ।सदुक्तम् ’हरे- र्नामैव नामैव नामैव मम जीवनम् । कलौ नास्त्येव नास्त्येव नास्त्येव गतिरन्यथे’ति दिक् । अत्र नामशब्दो नामोच्चारण- परो बोद्धव्यः ॥ ४४ ॥

इदानीं जन्मावधि निरन्तरं पुण्यवतां साधूनां श्रेयः कर्तुं बहवो देवाः कुशलाः सन्ति, निराश्रयाणां पापिनां तु त्वां विनान्यं हितकरं जगति न पश्यांमीत्याह-

अविश्रान्तं जन्मावधि सुकृतजन्मार्जनकृतां सतां श्रेयः कर्तुं कति न कृतिनः सन्ति विबुधाः । निरस्तालम्बानामकृतसुकृतानां तु भवतीं विनामुष्मिल्ँलोके न परमवलोके हितकरम् ॥ ४५ ॥

अविश्रान्तमिति । भो त्रिपथगे जननि, अविश्रान्तं निरन्तरं जन्मावधि जन्मप्रभृति जन्मपर्यन्तं वा सुकृतजन्मार्जनकृतां सुकृतेन पुण्येन जन्मार्जनं जन्मसंग्रहस्तत् कुर्वन्ति तेषां तादृशानां सतां साधूनां श्रेयः कर्तुं कल्याणं संपादयितुं कति कतिसंख्याका विबुधाः देवाः कृतिनः कुशलाः न सन्ति । अपितु बहवः सन्तीत्यर्थः । निरस्तालम्बानां निरस्तः गतः आलम्बः आश्रयो येषां तेषां अकृतसुकृतानां तु न कृतं सुकृतं पुण्यं यैः तेषाम् । पापिनामित्यर्थः । तेषां तु अमुष्मिन् लोके भवतीं विना त्वामृते परं द्वितीयं हितकरं अभिमतसंपादकं नावलोके न पश्यामि । एतत्सर्वं चित्ते निधाय त्वामहं शरणं गत इति भावः ॥ ४५ ॥ इदानीं तब जलं पीत्वा मूढमित्रैः सह विंहर्तुं गतोऽहं क्वचिदपि सुखं न लब्धवान्, इदानीं मृदुपवनसंबन्धशीतलस्वाङ्के चिरकालमनिद्रं मां त्वं स्वापयेति प्रार्थयते-

पयः पीत्वा मातस्तव सपदि यातः सहचरै- र्विमूढैः संरन्तुं क्वचिदपि न विश्रान्तिमगमम् । इदानीमुत्सङ्गे मृदुपवनसंचारशिशिरे चिरादुन्निद्रं मां सदयहृदये शायय चिरम् ॥ ४६ ॥

पय इति । भो मातः, तब पयः पीत्वा विमूढैः मूर्खाः विमूढाः तैः । विशेषतश्च ईषदपि हिताहितज्ञानशून्यत्वम् । तादृशैः सहचरैः सह साकं चरन्ति भक्षन्ति, गच्छन्ति वा ते सहचराः मित्राणि तैः सह सपदि शीघ्रं संरन्तुं विहर्तुं यातः गतः । ‘गत्यर्थाकर्मके’त्यादिना याधातोः कर्तरि क्तः । एतादृशः अहं क्वचिदपि कस्मिंश्चित् स्थलेऽपि कस्मिंश्चित् विहारेऽपि वा विश्रान्तिं विश्रामं न अगमम् । सपदि यात इति वा योजना । यद्वा तव पयः यदि पीत्वेति संबन्धः । एतेन तृष्णावशात् शीघ्रं तव जलपानमात्रं कृतं न स्नानादिकम् । तेन स्वस्मिन्नपराधबाहुल्यमस्तीति सूचितम् । भो सदयहृदये दयया सहितं सदयं तादृशं हृदयं यस्याः सा तत्संबोधनम् । एतादृशि हे मातः, इदानीं संप्रति ‘एतर्हि संप्रतीदानीमधुना सांप्रतं तथे’त्यमरः । मृदुपवनसंचारशिशिरे मृदुः कोमलः । अल्प इत्यर्थः । एतेन वात्यायाः दुःखप्रदत्वान्निरासः सूचितः । मृदुश्चसौ पवनश्च तस्य संचारः गमनं संबन्धो वा तेन शिशिरः शीतलः । एतेन श्रमसंत्रस्तस्य निद्रास्थानयोग्यत्वमावेदितम् । एतादृशे उत्सङ्गे अङ्के चिरात् बहुकालं उन्निद्रं उगता निद्रा यस्य सः एतादृशं मां शायय स्वापय । निद्रां कारयेत्यर्थः । ‘शीङ् स्वप्ने’ इति धातोर्णिजन्तात् लोण्मध्यमपुरुषैकवचनम् । सिप् ‘अतो हे ’ इति हेर्लुक् । निद्रायाः सुखविशेषरूपफलस्य प्रयोज्यगामित्वात् प्रयोजकरूपकर्तृगामित्वाभावेन ‘णिचश्चे’ति आत्मनेपदं न । चिरात् शाययेति वा योजना । लोकेऽपि माता पुत्रं अङ्के स्वापयतीति प्रसिद्धमेव । एतदर्थमेव मातरिति संबोधनम् ॥ ४६ ॥ इदानीं ममोद्वाराय कटिबन्धादिकं कुर्वित्याह-

बधान द्रागेव द्रढिमरमणीयं परिकरं किरीटे बालेन्दुं नियमय पुनः पन्नगगणैः । न कुर्यास्त्वं हेलामितरजनसाधारणतया जगन्नाथस्यायं सुरधुनि समुद्धारसमयः ॥४७॥

बधानेति । भो सुरधुनि, जगन्नाथस्य एतन्नाम्नः अयं समुद्धारसमयः । सम्यगुद्धरणं समुद्धारः तस्य समयः कालः । अस्तीति शेषः । यद्यपि ‘आत्मनाम गुरोर्नाम नामातिकृपणस्य च । श्रेयस्कामो न गृह्णीयाज्ज्येष्ठापत्यकलत्रयो’रिति निषेधात् स्वनामग्रहणं अश्रेयस्करं भवति तथापि अत्यन्तातुरतया निषेधोल्लङ्घनम् । अतएव ‘हापितः क्कासि हे सुभ्रु बह्वेव विललाप सः’ इति भट्टिप्रयोगः संगच्छत इति दिक् । ननु अस्तु तवोद्धारसमयः मया किं कर्तव्यमित्याकाङ्क्षायामाह–बधानेति । त्वं द्रढिमरमणीयं अतिशयेन दृढः इति द्रढिमा । ‘वर्णदृढादिभ्यः प्यञ्चे’ति चादिमनिच् । ‘र ऋतो हलादेर्लयो’ रिति ऋकारस्य रकारः । द्रढिमा चासौ रमणीयश्च तम् । अतिशयेन सुन्दरं चेत्यर्थः । एतादृशं परिकरं कटिं द्राक् शीघ्रं बधान । ‘बध बन्धने’ । ‘भवेत्परिकरो व्राते पर्यङ्कपरिवारयोः । प्रगाढगात्रैकबन्धे विवेकारम्भयोरपी’ति विश्वः । ममोद्धाराय शीघ्रं कटिबन्धं कुर्विति भावः । पुनस्त्वं किरीटे मुकुटे । ‘–अथ मुकुटं किरीटं पुंनपुंसक’मित्यमरः । बालेन्दुं बालश्चासौ इन्दुश्च तं कलात्मकं चन्द्रं पन्नगगणैः पनं पतितं गच्छन्ति ते पन्नगाः सर्पाः तेषां गणाः समूहाः तैः नियमय नियमनं कुरु । तत्रैव स्थापयेत्यर्थः । अन्यथा ममागमनसमये पतिष्यतीति भावः । लोकेऽपि कश्चन मनुष्यः कस्यचिव्द्याघ्रादिपीडितस्य यदा मोचनं करोति तदा कटिबन्धशिरोभूषणादिकं दृढं करोतीति प्रसिद्धम् । यद्वा किरीटे पन्नगगणैः बालेन्दुं नियमयेति योजना । पुनः त्वं इतरजनसाधारणतया इतरः अन्यः नीचो वा । ‘इतरस्त्वन्यनीचयो’रित्यमरः । स चासौ लोकश्च जनश्च तेन साधारणः तुल्यः तस्य भावः साधारणता तया हेलां अर्थात् मम अनादरं न कुर्याः । मा कुर्वित्यर्थः । परमत्वद्भक्ते मयि अन्यजनतुल्योयमिति बुद्धिं मा कुर्विति भावः । अत्र लोकोक्त्यलंकारः। तदुक्तं कुवलयानन्दे ‘लोकप्रवादानुकृतिर्लोकोक्तिरिति भण्यते’ इति ॥ ४७ ॥ इदानीं गङ्गारूपं स्तौति-

शरच्चन्द्र श्वेतां शशिशकल श्वेतालमुकुटां करैः कुम्भाम्भोजे वरभयनिरासौ च दुधतीम् । सुधाधाराकाराभरणवसनां शुभ्रमकर- स्थितां त्वां ये ध्यायन्त्युदयति न तेषां परिभवः शरदिति । भो सुरधुनि, ये जनाः त्वां ध्यायन्ति चिन्त- यन्ति तेषां जनानां परिभवः अनादरः । ‘अनादरः परिभवः परीभावस्तिरस्क्रिये’त्यमरः । न उद्यति उत्पन्नो न भवती- त्यर्थः । यद्यपि ‘अय गता’विति धातोरात्मनेपदं तथापि ‘इटकिटकटी’त्यत्र प्रश्लिष्टस्य ईधातोरुत्पूर्वस्येदं रूपं बोध्यम् । अतएव ‘उदयति विततोर्ध्वरश्मिरञ्जा’विति माघप्रयोगः संगच्छत इति दिक् । कथंभूतां त्वाम् । शरच्चन्द्रश्वेताम् शरदि शरत्काले । ‘अथ शरत् स्त्रिया’मित्यमरः । तत्र यश्चन्द्रः तद्वत् श्वेतां शुभ्राम् । परमगौरामित्यर्थः । शरदित्यनेन परमनैर्मल्यं सूचितम् । पुनः कथंभूताम् । शशिशकलश्वेतालमुकुटाम् । अलति दंश कुर्वन् गच्छतीत्यलः सर्पः श्वेतश्चासौ अलश्च श्वेतालः शुभ्रसर्पः शशिनश्चचन्द्रस्य शकलः खण्डः शशिशकलः शशिशकलश्च श्वेतालश्च शशिशकलश्वेतालौ तौ मुकुटे यस्याः सा ताम् । यद्वा श्वेताश्च ते अलाश्च भूषणानि च श्वेतालाः । यद्वा श्वेतस्य रजतस्य अलाः भूषणानि ‘दुर्वर्णं रजतं रूप्यं खर्जूरं श्वेतमित्यपी’त्यमरः । गमनभूषणार्थकादलधातोः पचा- द्यच् । शेषसमासः पूर्ववत् । यद्वा शशिशकलश्वेतालः तादृशो मुकुटो यस्याः सा ताम् । यद्वा शशिशकलं श्वेताल इव शुभ्रभू- षणमिवेति व्याघ्रादित्वादुपमितसमासः । शशिशकलश्वेतालः तादृशो मुकुटो यस्याः सा ताम् । यद्वा शशिशकलश्वेतः श्वेतगुणः तं आसमन्तात् लातीति शशिशकलश्वेतालः तादृशो मुकुटो यस्याः सा ताम् । यन्मुकुटे चन्द्रस्य प्रभा प्रसृता भवतीति भावः । ‘ला दाने’ इति धातोः ‘आतश्चोपसर्गे’ इति की । ’गुणे शुक्लादयः पुंसी’त्यमरः । यद्वा शशिशकलं च श्वेतश्च शशिशक- लश्वेतौ । श्वेतो रजतं तौ आसमन्ताल्लातीति शशिशकलश्वेतालः । तादृशो मुकुटो यस्याः सा ताम् । यस्याः रौप्यमुकुटे शशिश- कलं वर्तत इत्यर्थः । अन्यत् विस्तारभयान्न लिख्यते । पुनः कथं- भूता । करैः चतुर्भिः हस्तैः कुम्भाम्भोजे कुम्भश्च अम्भोजं च कुम्भाम्भोजे कुम्भो घटः अम्भोजं कमलं ते वरभयनिरासौ च भयस्य निरासः नाशः । अभयमित्यर्थः । वरश्च भयनिरासश्च वर- भयनिरासौ तौ च दधती बिभ्रती । चतुर्भिर्हस्तैरिमानि चत्वारि दधतीति भावः । पुनः कथंभूतां त्वाम् । सुधाधाराकाराभरण- वसनाम् । सुधायाः अमृतस्य धारास्तदाकाराणि आभरणानि वसनं च आभरणानि भूषणानि, वसनं वस्त्रम् । ‘अलंकार- स्त्वाभरणं परिष्कारो विभूषणम्’ । ‘वस्त्रमाच्छादनं वासश्चैलं वसनमंशुक’मित्यमरः । सुधाधारावत् आकारो रूपं येषां तानि सुधाधाराकाराणि तादृशानि आभरणवसनानि यस्याः सा ताम् । अतिशुभ्राभरणवसनामित्यर्थः । पुनः कथंभूतां त्वाम् । शुभ्रम- करस्थितां शुभ्रवासौ मकरश्च शुभ्रमकरः मकरो मत्स्यः तत्र स्थिता ताम् । शुभ्रमत्स्यवाहिनीमित्यर्थः ॥ ४८ ॥

इदानीं गङ्गा मम शरीरसुखं करोत्वित्याह-

दरस्मितसमुल्लसद्वदनकान्तिपूरामृतै- र्भवज्वलनभर्जिताननिशमूर्जयन्ती नरान् । चिदेकमयचन्द्रिकाचयचमत्कृतिं तन्वती तनोतु मम शं तनोः सपदि शन्तनोरङ्गना ॥ १९ ॥ दरस्मितेति । शंतनोः भीष्मपितुः अङ्गना कल्याणानि अङ्गनानि यस्याः सा अङ्गना । ‘अङ्गात्कल्याणे’ इति पामाद्यन्त- र्गणसूत्रेण अङ्गशब्दान्नप्रत्ययः । श्रीगङ्गा मम जगन्नाथपण्डि- तस्य तनोः शरीरस्य । ‘ङिति ह्रस्वश्चे’ति वैकल्पिकत्वात् घिसं- ज्ञायां गुणः । शं सुखं सपदि शीघ्रं तनोतु विस्तारयतु । प्रार्थ- नायां लोट् । कथंभूता अङ्गना । दरस्मितसमुल्लसद्वदनकान्तिपू- रामृतैः दरं ईषत् तच्च तत् स्मितं च दरस्मितं तेन समुल्लसत् विकासमानं तच्च तद्वदनं च तस्य कान्तिः छविः तस्याः पूरा आधिक्यानि त एवामृतानि तैः भवज्वलनभर्जितान् भव एव संसार एव ज्वलनः अग्निः तेन तत्र वा भर्जिता दग्धास्तान् । एतादृशान् नरान् मनुष्यान् अनिशं सर्वदा ऊर्जयन्ती जीव- यन्ती । यद्वा भवस्य महादेवस्य ज्वलनः तृतीयनेत्राग्निः तेन तत्र वा भर्जितान् एवंच तादृशकृत्यं कुर्वन्त्या मम वपुःसुखक- रणे न कोप्यायास इति भावः । पुनः कथंभूता अङ्गना । चिदेक- मयचन्द्रिकाचयचमत्कृतिम् चिदेकमयी चित्स्वरूपा सा चासौ चन्द्रिका कौमुदी च ।‘चन्द्रिका कौमुदी ज्योत्स्ना’इत्यमरः । तस्याः चयः समूहः तस्य चमत्कृतिः चमत्कारः तां तन्वती तनोतीति तन्वती विस्तारयन्ती । तनोतेः शता । अनेकचन्द्रप्रकाशं खयमेव करोतीति भावः । अस्मिन् श्लोके पृथ्वीछन्दः । ‘जसौ जसयला वसुग्रहयतिश्च पृथ्वी गुरु’रिति लक्षणात् ॥ ४९ ॥

इदानीं संसारज्वालानिर्दग्धवपुषो मम तापं शमयेत्याह-

मन्त्रैर्मीलितमौषधैर्विगलितं त्रस्तं सुराणां गणैः स्रस्तं सान्द्रसुधारसैर्विदलितं गारुमतैर्ग्रावभिः । वीचिक्षालितकालियाहितपदे खर्लोककल्लोलिनि त्वं तापं [^१]तिरयाधुना मम [^२]भवज्वालावलीढात्मनः

मन्त्रैरिति । वीचिक्षालितकालियाहितपदे कालियस्याहितः शत्रुः कालियाहितः विष्णुः तस्य पदं चरणः वीच्या क्षालितं प्रक्षालितं वीचिक्षालितं कालियाहितपदं यया सा तत्संबोध- नम् । यद्वा कालियः अहितः शत्रुर्यस्य स कालियाहितो विष्णुः शेषं पूर्ववत् । यद्वा कालिये आहितं अर्थात् विष्णुना स्थापितं तच्च तत्पदं च शेषं प्राग्वत् । हे स्वर्लोककल्लोलिनि स्वर्लोकस्य सुरलोकस्य कल्लोलिनी नदी तत्संबोधनम् । एवं अधुना भवज्वा- लावलीढात्मनः भवस्य ज्वालाः ताभिः अवलीढः कवलितः । व्याप्त इत्यर्थः । तादृशः आत्मा यस्य तस्य मम तापं निरय निवा- रय । तिरयेति पाठः । तत्र तिरःकुरु । तिरशब्दात् णिजन्ता- ल्लोट् । अव्ययानां भमात्रे टिलोपः इति तिरसष्टेर्लोपः । क्वचित्तु भवव्यालावलीढात्मन इति पाठः । तत्र भव एव व्यालः सर्पः तेनावलीढः तादृश आत्मा यस्य स तस्येति व्याख्येयम् । ननु तादृशतापनिवारण मन्त्रादयो बहवः सन्तीति चेत्तेपि न शक्ता इत्याह–मन्त्रैरित्यादि मन्त्रैर्मीलितं साहसेन तापनिवारणा- भावात् संकुचितमित्यर्थः । अयं हेतुः सर्वत्र पूर्वार्धे योज्यः । बहुवचनं तु एकोपि न समर्थ इति बोधनाय। एवमग्रेपि बोध्यम् । यद्वा यत्र बहुभिः संकुचितं तत्र एकस्य का वार्तेत्यर्थबोधनाय । औषधैस्तापनिवारणाय योग्यैर्वैद्यशास्त्रप्रसिद्धैर्मुकुलितं मुकुलीभा- वमापन्नं । सुराणां देवानां गणैः संधैः त्रस्तं त्रासं गतं । सीन्द्र-

[^१] अयमेव पाठः साधुः । [^२] भवव्यालावलीढात्मन इति । सुधारसैः सान्द्राः निबिडाः ते च ते सुधारसाश्च तैः अमृतजलैः । ‘रसो जलं रसो हर्ष’ इत्यनेकार्थकोशः । स्रस्तं अधःपतितम् । ‘स्रंसु अधःपतने’ पदत्वाभावात् ‘वसुस्त्रंस्वि’ति दत्वं न । गारु- त्मतैः गरुत्मान् गरुडः ‘गरुत्मान् गरुडस्तार्क्ष्य’इत्यमरः । देवता येषां ते गारुत्मताः तैः ‘सास्य देवते’त्यण् । यद्वा गरुत्मतः इमे गारुत्मताः तैः ‘तस्येद’मित्यण् । एतादृशैः ग्रावभिः पा- षाणैः । ’पाषाणग्रस्तरग्रावोपलाश्मानः शिला दृषदि’त्यमरः । विदलितं विशेषेण दलितं स्फुटितम् । विशेषश्च खण्डखण्डभव- नम् । अत्र सर्वत्र पूर्वार्धे नपुंसके भावे क्तः । अतएव कर्तुरनभि- हितत्वान्मन्त्रैरित्यादिषु कर्तरि तृतीया । अत्र श्लोके शार्दूलवि - क्रीडितं छन्दः । ‘शार्दूलविक्रीडितं म्सौज्सौतौगादित्यऋषयः’ इति लक्षणात् ॥ ५० ॥

इदानीं गङ्गालहरीनटघटीताण्डवमस्मान्पुनात्विति प्रार्थयते– द्यूते नागेन्द्रकृत्तिप्रमथगणम[^१]णिश्रेणिनन्दी- न्दुमुख्यं सर्वस्वं हारयित्वा स्वमथ पुरभिदि द्राक्पणीकर्तुकामे । साकूतं हैमवत्या मृदु- लहसितया वीक्षितायास्तवाम्ब [^२]व्यालोलो- ल्लासिवल्गल्लहरिनटघटीताण्डवं नः पुनातु ॥ ५१ ॥

द्यूत इति । भो स्वर्लोककल्लोलिनि, तव भवत्याः व्यालोलोल्लासि वलूगल्लहरिनटघटीताण्डवम् । व्यालोलाश्चञ्जलाः ——————————————————-[^१] फणिश्रेणि इति पाठः । [^२] प्रोल्लोलोल्लासिलीलालहरिनवघटोत्ताण्डवं नः पुनीतां इति पाठः । उल्लासिन्यः ऊर्ध्वं उच्छलन्त्यः वल्गन्त्यः गच्छन्त्यः एतादृश्यो या लहर्यः ता एव नटस्तस्य घटीताण्डवं शिरसि घटीं धृत्वा नर्तनम् । यद्वा नटस्य घटीताण्डवं नटघटीताण्डवम् व्यालोलोल्लासिवल्गल्लहरीणां नटघटीताण्डवं तत् नः अस्मान् भक्तजनान्पुनातु पवित्रीकरोतु । व्यालोलादिविशेषणविशिष्टलहरीभवने मूलमाह । कथंभूतायास्तव । द्यूते दुरोदरे परस्य जिगीषयाक्षैः क्रीडनं द्यूतं तत्र । अत्र विनिगीषायाः सत्त्चात् ‘दिवो विजिगीषाया’ मित्यनेन निष्ठातस्य णत्वं न । नागेन्द्रकृत्तिप्रमथगणमणिश्रेणिनन्दीन्दुमुख्यम् । नागेन्द्रो वासुकिः कृत्तिर्गजादिचर्म, प्रमथगणः तन्नामकः पारिषदः, मणिश्रेणिः मणीनां रुद्राक्षादिमणीनां श्रेणिः पड्क्त्तिः, नन्दिः स्ववाहनभूतो वृषभः, इन्दुः स्वशिरोभूषणभूतश्चन्द्रः, एतेषां इतरेतरयोगद्वन्द्वः । नागेन्द्रकृत्तिप्रमथगणमणिश्रेणिनन्दीन्दवः मुख्याः श्रेष्ठाः यस्मिन् तत् एतादृशं सर्वस्वं सर्वं च तत् स्वं च सर्वस्वं धनं हारयित्वा शिवसकाशात्पार्वतीं गृहीत्वा । हारयित्वेत्यत्र णिजन्तात्क्त्वा । अत्र प्रयोजककर्तृत्वं पार्वत्याः, प्रयोज्यकर्तृत्वं शिवस्य । अतएव ‘समानकर्तृकयोः पूर्वकाले’ इत्यनेन क्त्वासुलभः । वीक्षणकर्तृकर्तृत्वा हरणमिति बोधः । प्रकृतमनुसरामः । अथ सर्वस्वहरणानन्तरं पुरभिदि पुरनामानं दैत्यं भिनत्ति विदारयतीति पुरभित् तस्मिन् शिवे स्वमात्मानं पणीकर्तुकामे सति पणनं व्यवहरणं पणः ‘घञर्थे कविधान’मिति कः । अपणः पणः यथा संपद्यते तथा कर्तुमिति पणीकर्तुं कामः इच्छा यस्य सः तस्मिन् । ‘लुम्पेदवश्यमः कृत्ये तुं काममनसोरपि । समो वाहिततयोमासस्य पचि युट्घञो’रिति पृषोदरादिगणपठितवचनेन कर्तुमिति मकारलोपः । तादृशे सति मृदुलं हसितं हास्यं यस्याः सा तया । इदानीं सपत्नीभूतगङ्गायाचनेन श्रेष्ठसिद्धिर्भविष्यतीत्याशयेन हसिता एतादृश्या हैमवत्या हिमवतो हिमाचलस्थापत्यं स्त्री हैमवती । ‘तस्यापत्य’मित्यण् ‘टिड्ढाणञि’ति ङीप् । तथा पार्वत्या साकूतं आकूतेनाभिप्रायेण सहितं साकूतं तद्यथा स्यात्तथा वीक्षितायाः विशेषेणेक्षिता वीक्षिता तस्याः । विशेषश्च जटाजूटस्थित्या द्रष्टुमशक्याया अपि यत्नतो दर्शनव्यापारवत्त्वम् । यद्यपि शिवस्य पूर्वोक्तं सर्वस्वं मया हृतम् अतएव शिवः आत्मानं पणीकरोति तथापि गङ्गा उर्वरिता वर्तते । सा च सपत्नीभूतत्वान्मामवमत्य एतावत्कालपर्यन्तं शिवशिरसि स्थिता वर्तते । इदानीं याचयित्वा दासी संपादनीयेति साकूतमित्यस्यार्थ इति दिक् । नर्तनप्रियस्य शिवस्य द्यूतं विस्मारयितुं गङ्गया नृत्यमारब्धमिति दिक् । हैमवतीत्यनेन कठिनहृदयत्वात्तेन सर्वस्वहरणयोग्यत्वम् । अस्मिन् श्लोके स्रग्धरा वृत्तम् । ‘स्रग्धरा म्रौभ्रौयौय्त्रिःसप्तकाः’ इति लक्षणात् ॥ ५१ ॥ इदानीं चरमश्लोकेन स्वाङ्गानाममलीकरणं प्रार्थयते-

विभूषितानङ्गारिपूत्तमाङ्गा सद्यः कृतानेकजनार्तिभङ्गा । मनोहरोत्तुङ्गचलत्तरङ्गा गङ्गा ममाङ्गान्यमलीकरोतु ॥ ५२ ॥ विभूषितेति । गङ्गा भागीरथी । गङ्गाशब्दार्थस्तु ‘स्मृतं सद्य’ इत्यष्टमश्लोके उक्तः । मम जगन्नाथस्याङ्गान्यमलीकरो- त्वित्यर्थः । कथंभूता गङ्गा । विभूषितानङ्गरिपूत्तमाङ्गा । अन- ङ्गस्य कामस्य रिपुर्वैरी शिवः तस्योत्तमाङ्गं मस्तकं विभूषितं स्वस्थित्या शोभायुक्तं कृतं अनङ्गरिपूत्तमाङ्गं यया सा । पुनः कथंभूता । सद्यः तत्कालमेव कृतानेकजनार्तिभङ्गा । अनेके च ते जनाश्च तेषामार्तिः पीडा तस्याः भङ्गः नाशः कृतः संपादितः अनेकजनार्तिभङ्गो यया सा । यद्वा जनानां आर्तयः पीडाः अनेकाश्च ता जनार्तयश्च तासां भङ्गः अनेकजनार्तिभङ्गो यया सा । सद्यः कृतानेकजनार्तिभङ्गेत्येकं पदं वा । पुनः कथंभूता । मनोहरोत्तुङ्गचलत्तरङ्गा । मनोहरा अतिरमणीयाः उत्तुङ्गाः उन्नताः चलन्तः चञ्चलाः तरङ्गाः यस्याः सा । अस्मिन्पद्ये उप- जातिनामकं वृत्तम्। ‘इन्द्रवज्रा तौज्गौग्’ ‘उपेन्द्रवज्रा ज्तौ- ज्गौग्’ ‘अनन्तरोदीरितलक्ष्मभाजौ पादौ यदीयावुपजातयस्ताः’ इति लक्षणात् ॥ ५२ ॥

स्वकाव्यपठनस्य फलमाह-

इमां पीयूषलहरीं जगन्नाथेन निर्मिताम् । यः पठेत्तस्य सर्वत्र जायन्ते सुखसंपदः ॥५३॥

इमामिति । पीयूषस्यामृतस्य लहरीं त्वां यथा पीतामृतलहर्या आनन्दजनकत्वं तथा अस्या अपीति शेषः । अन्यकृतिभ्रमवारणायाह–जगन्नाथेन निर्मितामिति । निर्मितां कृतीम् । शेषं सुगमम् ॥ ५३ ॥ यद्यप्यह्रं मन्दमतिस्तथापि टीकासमाप्तिर्हि बभूव शीघ्रम् । नात्रापरं कारणमस्ति किंचिच्छ्रीभास्कराज्ञा किल किंवमोघा १

शाके कीलकसंज्ञके नृसुखके संमासके चैत्रके वारे भार्गवके तिथौ करणके सर्पस्य संबालके । मूले मे विबुधौघचित्तसुखदा टीका समाप्तानया तोषं यातु समस्तपापहरिणी गङ्गा महेशाङ्गना ॥ २ ॥ नृपं द्विपं वा तुरगं मृगं वा शुकं बकं वा महिषं वृषं वा । हरीकरोष्यङ्गनकं हि गङ्गे स्नातं भवत्यां सकृदीशसङ्गे ॥३॥ नारायणो यस्य पितामहोऽभून्मणीकमट्टश्च पिता तदीयः । गोपी यदीया जननी सुशीला टीका कृता तेन सदाशिवेन ४ भक्तोपोद्गमहेतोः केदारत्वं स्थितोऽसि भूभृति किम् । तत्राप्यागत्य त्वां स्वशिवं याचे हि तत् सर्वम् ॥ ५ ॥

इति श्रीसदाशिवकृता पीयूषलहर्याख्या गङ्गालहरीटीका समाप्ता । —————————Blank निर्णयसागर छापखान्यांतील विक्रीचीं पुस्तकें.

किं. रु. आ. ई. रु. आ.

आदित्यहृदय व सूर्यकवच. ….. …… ० २ ० १ उदासीनसाधुस्तोत्र - (ब्रह्मानंदसाधुकृतमनोरमाव्याख्यासहित ). ऋणमोचनमङ्गलस्तोत्र. गणेशाष्टक. गणेशसहस्रनाम. गणपतिस्तोत्र. गोपालसहस्रनाम-गोपालकवच व गोपालस्तवराजयांसहित. गोपालसहस्रनाम–रेशमी पुठ्ठा. गंगालहरी-मूलमात्र. चतुःश्लोकी भागवत. ज्योतिर्लिङ्गस्तोत्र व शिवमानसपूजा. त्रैलोक्यमोहनकवच. दत्तात्रेयस्तोत्र. द्वादशस्तोत्र–भगवत्पादाचार्यकृत. नर्मदाष्टकस्तोत्र–शंकराचार्यकृत. पुरुषोत्तमसहस्रनाम. बृहत्स्तोत्ररत्नाकर सचित्र–(स्तोत्रें १८२) कागदी बाइंडिंग.० १४ बृहत्स्तोत्ररत्नाकर–सचित्र (स्तोत्रें १८२) कापडी बाइंडिंग. १ बृहत्स्तोत्ररत्नोकर–सचित्र (स्तोत्रे १८२) रेशमी बाइंडिंग. १ ब्रह्मज्ञानावली–शंकराचार्यकृत. मकरन्दस्तवराजस्तोत्र. महालक्ष्म्यष्टक. कि.रु.आ.ट. रु.

महिम्नस्तोत्र–मधुसूदनी (शिवविष्ण्वर्थ) व्याख्येसहित. महिम्नस्तोत्र–केवलशिवार्थबोधक सुबोधिनीटीका. यमुनाष्टक–शंकराचार्यकृत. रामरक्षास्तोत्र–अगस्त्यकृत. … रामस्तवराजस्तोत्र. रेणुकासहस्रनाम–हें सहस्रनाम प्रासादिक आहे व यांतील कवच तर केवळ मंत्रमय आहे. लक्ष्मीस्तोत्र–अगस्त्यकृत. लक्ष्मीहृदय व नारायणहृदय–रेशमी पुठ्ठा. विष्णुसहस्रनाम–साधें. विष्णुसहस्रनाम–रेशमी पुठ्ठा. विष्णुसहस्रनाम–मोठें अक्षर (साधें). शिवकवच. शिवसहस्रनाम. शिवतांडवस्तोत्र–दशकण्ठकृत, माधवानंदकृत. शिवमहिम्नस्तोत्र–(मूळ ) … शिवापराधक्षमापनस्तोत्र–शंकराचार्यकृत शीतलाष्टक. स्तवमाला–श्रीरूपदेवविरचित, जीवदेवकृत भाष्यसहित.

पांडुरंग जावजी, निर्णयसागर छापखान्याचे मालक. Blank