४१ पुराणसमाप्तिवर्णनम्

॥ श्रीगणेशाय नमः ॥

शौनक उवाच ।

पुराणेषु महाभाग संशयैर्विविधैः परैः ।
प्राप्तैस्तैः संयुतोऽहं च संस्थितः खेदसंयुतः ॥ १ ॥

अन्यस्यैव पुराणस्य संशयाः श्रवणेन मे ।
गमिष्यन्ति महाबुद्धे विचार्यैवं स्थितोऽभवम् ॥ २ ॥

आन्त्यं मौद्गलकं श्रुत्वा संशया मे गताः पुरा ।
निःसंशयः कृतः सूत त्वयाऽहं नात्र संशयः ॥ ३ ॥

एको मे संशयश्चैव हृदि तिष्ठति तं नुद ।
गच्छ पश्चान्निजं स्थानं धन्यं मां कुरु शान्तिद ॥ ४ ॥

गणेशस्य रहस्यं यज्ज्ञातं व्यासेन धीमता ।
सर्वातिगं मौद्गलस्थं महच्चित्रं परात्परम् ॥ ५ ॥

ततो व्यासेन शास्त्रं तत् कृतं भारतकं परम् ।
धर्माधर्मव्यवस्थानं ब्रह्मसायुज्यदायकम् ॥ ६ ॥

तत्राऽऽदौ गणनाथस्य पूजनं स्मरणं कृतम् ।
पश्चाद्गणेश्वरस्यैव वर्णनं न कृतं किल ॥ ७ ॥

सम्पूर्णे भारते जाते कृतकृत्यो महामुनिः ।
अभवन्नात्र सन्देहः किमिदं कौतुकं वद ॥ ८ ॥

शौनकस्य वचः श्रुत्वा सूतः सस्मार तं गुरुम् ।
तत्क्षणात्तत्र योगीशोऽभवत् व्यासः समागतः ॥ ९ ॥

तं दृष्ट्वा हर्षसंयुक्ताः सूतशौनकमुख्यकाः ।
उत्थायाऽऽपूज्य ते नेमुः स्थाप्य प्राञ्जलयोऽभवन् ॥ १० ॥

ततः समीपे संस्थाप्य जगाद मुनिसत्तमः ।
व्यासः शौनकमुख्यांस्तु ज्ञात्वा सूतप्रयोजनम् ॥ ११ ॥

व्यास उवाच ।

मया शास्त्रं कृतं विप्र भारतं नात्र संशयः ।
तत्रायं बुद्धिगः साक्षाद्वर्णितो ब्रह्मसञ्ज्ञितः ॥ १२ ॥

सिद्धिदो ब्रह्मरूपोऽयं मुख्यं तदेव सम्मतम् ।
विकुण्ठादय एवं वै नाशयुक्ताः प्रकीर्तिताः ॥ १३ ॥

सिद्धिबुद्धिवरेणैव मोहितोऽहं न संशयः ।
गणेशं सर्वभावेन वर्णितुं विस्मृतोऽभवम् ॥ १४ ॥

अन्यं ग्रन्थं ततः कर्तुमुद्यतो ह्यभवं मुने ।
तत्राऽऽकाशभवा वाणी मामुवाच शृणुष्व तत् ॥ १५ ॥

गणेशवर्णनं पूर्णं प्रशस्तं मा कुरुष्व वै ।
मोहनार्थं गणेशेन जनानां रचितं त्विदम् ॥ १६ ॥

मुद्गलं मुनिमुख्यं च त्यक्त्वा सर्वे मुनीन्द्रकाः ।
स्पष्टं गणपते रूपं वर्णितुं न क्षमाः कदा ॥ १७ ॥

श्रुत्वाऽहं तां नमस्कृत्य संस्थितो मौद्गले रतः ।
अतः संशयहीनस्त्वं मौद्गलं भज भक्तितः ॥ १८ ॥

पुराणेषु गणेशस्य स्वरूपं वर्णितं परम् ।
ब्रह्मणस्पतिबोधस्य दायकं नात्र संशयः ॥ १९ ॥

तथापि मोहिताः सर्वे विप्राद्या न गजाननम् ।
जानन्ति तादृशं तेषु सिद्धिबुद्धिवरेण ते ॥ २० ॥

गणेशवरदानेन भक्त्यै मौद्गलकं परम् ।
दृष्ट्वा गणेश्वरं पूर्णं ज्ञास्यन्ते नान्यथा क्वचित् ॥ २१ ॥

अतो मौद्गलमेकं त्वं भज वै नित्यमादरात् ।
कलिदोषेण हीनः सन् सर्वं च लभसे परम् ॥ २२ ॥

एवमुक्त्वा महायोगी व्यासस्तत्र महामतिः ।
विरराम च तत्रैव धूम्रवर्णः समाययौ ॥ २३ ॥

तं दृष्ट्वोत्थाय नेमुस्ते गणेशं भक्तिसंयुताः ।
सम्पूज्य तुष्टुवुस्ते वै गाणेशैर्गणपप्रियैः ॥ २४ ॥

धूम्रवर्णः सञ्जगाद तुष्टस्तान् हास्यसंयुतः ।
स्वभक्तान् गणनाथस्तु वचनं सुखदायकम् ॥ २५ ॥

धूम्रवर्ण उवाच ।

कलेः पराक्रमः सर्वो मया सम्पूर्णभावतः ।
खण्डितो मुनिमुख्याश्चाऽधुना चरत निर्भयाः ॥ २६ ॥

एवमुक्त्वा गणाधीशस्तान् गृह्य धरणीतले ।
स्थापयामास धर्मेण युक्तांश्चक्रे स मानवान् ॥ २७ ॥

जगाद मुनिमुख्यांस्तान् मौद्गलं मे रहस्यदम् ।
जपध्वं नित्यमानन्दात्तेनाऽहं वशगो भवे ॥ २८ ॥

नानेन सदृशं किञ्चित् प्रियं चोपनिषत् परम् ।
यत्राऽहं पञ्चधा संस्थो योगाकारस्वरूपधृक् ॥ २९ ॥

पञ्चधा मे स्वरूपं तु मौद्गलेन प्रकाश्यते ।
श्रवणेन पुराणस्य पठनेन तदर्थतः ॥ ३० ॥

मौद्गलं यत्र विप्रेशाः पठ्यते श्रूयते जनैः ।
तत्राहं संस्थितः सर्वैर्भक्तिग्रहणलोलुपः ॥ ३१ ॥

ब्राह्मे बुद्धिस्थितं रूपं वर्णितं मे तदंशतः ।
तत्राऽहं संस्थितश्चैव निर्गुणाकृतिलक्षणः ॥ ३२ ॥

ब्रह्माण्डे प्रणवाकारो नानाखेलसमन्वितः ।
विश्वाकारप्रभावेणाऽंशेन तत्र स्थितो मुदा ॥ ३३ ॥

गाणेशे मूर्तिगोऽहं तु तयोर्ज्ञानप्रकाशकः ।
गजवक्त्रादिचिह्नैः संयुक्तस्तिष्ठामि सर्वदा ॥ ३४ ॥

अन्येषु च पुराणेषु शिवविष्ण्वादिरूपधृक् ।
संस्थितस्तत्कलांशेन नानाभेदविहारतः ॥ ३५ ॥

मौद्गले योगरूपोऽहं तिष्ठाम्युपनिषद्रतः ।
सर्वेषां मे स्वरूपाणां योगस्तत्र प्रकीर्तितः ॥ ३६ ॥

तेषां प्रकाशकं पूर्णं तथा योगप्रकाशकम् ।
मौद्गलं मे प्रियं तस्मात्तत् समं नैव विद्यते ॥ ३७ ॥

भक्त्या सम्प्रार्थितोऽहं तु सृष्ट्याऽऽदौ मुनिसत्तमाः ।
तदा मया वरो दत्तो भक्त्यै भक्तिविवर्धनः ॥ ३८ ॥

तदर्थं मौद्गलं पूर्णं रचितं च मया पुरा ।
मुद्गलस्य हृदि क्षिप्तं सर्वसौख्यप्रदायकम् ॥ ३९ ॥

मयाऽसौ प्रेरितो योगी परं दक्षाय मौद्गलम् ।
कथयामास सम्पूर्णं पुराणं मे मुदाकृती ॥ ४० ॥

ततः शिवादिभिर्दैवैर्मरीचादिमहर्षिभिः ।
शेषादिभिर्नरैः सर्वैः सेव्यते मे पुराणकम् ॥ ४१ ॥

न मौद्गलं विना विप्राः स्वरूपं मे यथार्थतः ।
ज्ञायते केनचित् क्वापि पूर्णं सर्वप्रकाशकम् ॥ ४२ ॥

अन्यत्र मे स्वरूपं तु वर्णितं पूर्णभावतः ।
तत्र मोहो भवेन्नूनं सिद्धिबुद्धिकृतः परः ॥ ४३ ॥

सृष्ट्याऽऽदौ सिद्धिबुद्धिभ्यां प्रार्थितोऽहं विशेषतः ।
जगतां मोहनार्थं च ब्रह्मणां खेलकारणात् ॥ ४४ ॥

तदा मया वरो दत्तो मौद्गलं त्यज्य मां कदा ।
ज्ञास्यन्ति न च विश्वानि तेषु ब्रह्माणि संस्थितम् ॥ ४५ ॥

अतो मां मौद्गले संस्थं भजध्वं त्वेकचेतसः ।
तेन मे भक्तिसंयुक्ताश्चरिष्यथ निरन्तरम् ॥ ४६ ॥

नानेन सदृशं किञ्चिन् मत्प्राप्तौ साधनं परम् ।
सर्वसिद्ध्यर्थमेवं तु ज्ञातव्यं द्विजसत्तमाः ॥ ४७ ॥

अस्य श्रवणमात्रेण कृतकृत्यो नरो भवेत् ।
न शक्यते फलं वक्तुमपारत्वान् मया कदा ॥ ४८ ॥

मौद्गलश्रवणेनैव सन्तुष्टोऽहं महर्षयः ।
दास्यामि सकलाभीष्टं वृणुध्वं निर्विशङ्कया ॥ ४९ ॥

शौनकाद्या ऊचुः ।
भक्तिं देहि त्वदीयां नौ योगं शान्तिप्रदायकम् ।
यद्यदिच्छामहे नाथ तत्तत् सिद्ध्यतु सर्वदा ॥ ५० ॥

गाणपत्यांश्च नः सर्वान् कुरु त्वं सर्वदा परान् ।
इमान् वरान् गुणाध्यक्ष प्रार्थितान् देव देहि नः ॥ ५१ ॥

तथेति तानथोक्त्वाऽसौ गणेशो ब्रह्मनायकः ।
व्यासादींश्च जगादाऽसौ वृणुध्वं वाञ्छितान् वरान् ॥ ५२ ॥

तैस्तथैव गणाध्यक्षः प्रार्थितो गणपप्रियैः।
तथेति तानथोक्त्वा च सूतमूचे च विघ्नपः ॥ ५३ ॥

वरान् ब्रूहि महाभाग त्वया संश्रावितं परम् ।
द्विजेभ्यस्तेन सन्तुष्टो दास्यामि स तथाऽब्रवीत् ॥५४॥

तथेति तमथोक्त्वाऽसौ धूम्रवर्णो गजाननः ।
अन्तर्धाय स्वमात्मानं स्वानन्दस्थो बभूव ह ॥ ५५ ॥

सर्वे सन्तुष्टचित्तास्ते स्वं स्वं स्थानं ययुस्ततः ।
मौद्गलं तत् समाश्रित्य गणेशमभजन् परम् ॥ ५६ ॥

इमां मुद्गलजां श्लोकैः संहितां वेदबृंहिताम् ।
त्रयोविंशतिसाहस्त्रैः सार्धैकशतसंयुतैः ॥ ५७ ॥

अष्टाविंशत्यधिकैश्च अध्यायैश्च चतुः शतैः ।
खण्डैश्च नवभिः पूर्णां सर्वसिद्धिमयीञ्चिताम् ॥ ५८ ॥

मुद्गलः कथयामास सर्वेषां हितकारणात् ।
शब्दब्रह्मरहस्याख्यां साक्षाद्ब्रह्मप्रदायिनीम् ॥ ५९ ॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेनवमे खण्डे योगचरिते योगामृतार्थशास्त्रे दक्षमुद्गलसंवादे पुराणसमाप्तिवर्णनं नामैकचत्वारिंशोऽध्यायः ॥

[[९३]]

॥ श्रीगजाननार्पणमस्तु ॥॥ वक्रतुण्डाद्यष्टमूर्तिधरः गणेशः प्रसन्नो वरदो भवतु ॥

॥ इति श्रीमुद्गलपुराणं समाप्तम् ॥

॥ इति श्रीमुद्गलपुराणे नवमः खण्डः समाप्तः ॥

॥ इति श्रीमुद्गलपुराणं समाप्तम् ॥