॥ श्रीगणेशाय नमः ॥
सूत उवाच ।
अयं ते कथितः पूर्णः खण्डो योगात्मकः परः ।
नवमः सर्वदः साक्षात् पूर्णयोगप्रदायकः ॥ १ ॥
एकस्य श्रवणेनैव खण्डस्यास्य महामते ।
सम्पूर्णं मुद्गलस्थं यत् फलं प्राप्नोति मानवः ॥ २ ॥
न शक्यते मया विप्र माहात्म्यं खण्डसम्भवम् ।
यत्र योगपतिः पूर्णो वर्णितो गणनायकः ॥ ३ ॥
चतुर्वेदभवं पुण्यं श्रवणेन भविष्यति ।
साङ्गैः साधनकैश्चास्य खण्डस्यात्र न संशयः ॥ ४ ॥
अष्टादश पुराणान्युपपुराणानि यस्तथा ।
शृणुयात् स नरस्तस्मादनन्तं त्वस्य संश्रवात् ॥ ५ ॥
शब्दब्रह्ममयान्नाना शास्त्राणि निःसृतानि तु ।
तेषां श्रवणतो जन्तुरस्यानन्तं फलं लभेत् ॥ ६ ॥
तीर्थानि सकलान्येव यः कुर्याद्विधिसंयुतः ।
तेभ्योऽनन्तगुणं पुण्यमस्य श्रवणतो लभेत् ॥ ७ ॥
क्षेत्राणि विविधान्येव यः कुर्याद्भक्तिसंयुतः ।
तेभ्योऽस्य श्रवणेनैव लभेतासङ्ख्यकं फलम् ॥ ८ ॥
दानानि विविधान्येव यः कुर्यान् मानवोत्तमः ।
अस्य श्रवणमात्रेणानन्तं तेभ्यः फलं लभेत् ॥ ९ ॥
यज्ञान् कुर्याच्च सम्पूर्णान् यथा शास्त्रप्रमाणतः ।
तेभ्योऽनन्तं फलं प्रोक्तमस्य श्रवणमात्रतः ॥ १० ॥
इष्टापूर्तादिकान्येव नाना सत्कर्मकानि यः ।
प्रकुर्यात् स फलं तेभ्यो नरोऽनन्तं लभेच्छ्रवात् ॥ ११ ॥
बहुनाऽत्र किमुक्तेन नानेन सदृशं भवेत् ।
साधनं योगखण्डेन योगो यत्र निरूपितः ॥ १२ ॥
सम्पूर्णो योगखण्डस्ते कथितो व्यासवर्णितः ।
अतः परं गमिष्यामि स्वाश्रमं त्वाज्ञया च ते ॥ १३ ॥
सम्पूर्णं मौद्गलं तुभ्यं कथितं सर्वसिद्धिदम् ।
अतः परं पुराणं च नास्ति शौनक ते नमः ॥ १४ ॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेनवमे खण्डे योगचरिते योगामृतार्थशास्त्रे दक्षमुद्गलसंवादे नवमखण्डमाहात्म्यवर्णनं नाम चत्वारिंशोऽध्यायः ॥
[[९१]]