॥ श्रीगणेशाय नमः ॥
सूत उवाच ।
प्रह्लादो नाम विख्यातो योगी योगपरायणः ।
मयूरेशं समाश्रित्याऽभजत्तं भक्तिसंयुतः ॥ १ ॥
स्वप्ने ददर्श देवेशं मयूरोपरि संस्थितम् ।
सिद्धिबुद्धिसमायुक्तं गजास्यं भक्तवत्सलम् ॥ २ ॥
तं प्रणम्य ननर्ताऽसौ साश्रुनेत्रो महायशाः ।
तं जगाद मयूरेशो वरयस्व वरान् परान् ॥ ३ ॥
स तं प्रणम्य विघ्नेशमगदद्धर्षसंयुतः ।
योगशान्तिप्रदां देहि भक्तिं तेऽतितरां प्रभो ॥ ४ ॥
तस्य तद्वचनं श्रुत्वा तं जगाद गजाननः ।
मौद्गले नवमं खण्डं पश्य योगप्रदायकम् ॥ ५ ॥
तेन योगीन्द्रवन्द्यस्त्वं भविष्यसि महामते ।
भक्तिर्मे भविता ते तु दृढा सम्पूर्णभावतः ॥ ६ ॥
एवमुक्त्वाऽन्तर्दधेऽसौ मयूरेशो महामतिम् ।
सञ्जागृतोऽभवत् सोऽपि स्मृत्वा स्वप्नं सुविस्मितः ॥ ७ ॥
ततो मौद्गलसंस्थं स खण्डं योगात्मकं परम् ।
पपाठाऽलिख्य भक्त्या स नवमं नित्यमादरात् ॥ ८ ॥
योगगीतार्थकं योगमलभत्तत्प्रसादतः ।
ततोऽतिहर्षसंयुक्तोऽभजत्तं नवधा प्रभुम् ॥ ९ ॥
क्षेत्रसन्न्याससंयुक्तो नित्यं भक्तिसमन्वितः ।
पपाठ पाठकृत् पूर्णं नवमं मौद्गले स्थितम् ॥ १० ॥
कदा दैत्येन्द्रमुख्यश्च बहुधा सिन्धुसञ्ज्ञितः ।
क्षेत्रमूर्तिं गणेशस्य खण्डयामास संस्थिताम् ॥ ११ ॥
सिन्धोश्च प्रतिमां तत्र स्थापितां दैत्यपैः पुरा ।
प्रह्लादो दुःखसंसक्तोऽभवद् दृष्ट्वा च शौनक ॥ १२ ॥
क्षेत्रवासिजनाः सर्वे त्यक्त्वा क्षेत्रं मयूरकम् ।
प्रपेलुर्भयसंयुक्ता यत्र तत्र सुदुःखिनः ॥ १३ ॥
प्रह्लादो योगिवन्द्यः स क्षेत्रसन्न्यासभक्तितः ।
उपोषणपरो भूत्वाऽतिष्ठत्तत्रैव नित्यदा ॥ १४ ॥
मानसीमकरोत्तत्र पूजां विघ्नेश्वरस्य सः ।
तस्योच्छिष्टं बुभोजैव मनसा भक्तिसंयुतः ॥ १५ ॥
दृढाऽऽग्रहं तस्य दृष्ट्वा मयूरेशोऽमृतं सदा ।
भक्ततालुस्थं तु कृत्वा तोषयामास तेन तम् ॥ १६ ॥
एवं बहौ गते काले शिवपुत्रो बभूव ह ।
मयूरेशो ?वधार्याय सिन्धोर्देवर्षिभि?स्तुतः ॥ १७ ॥
स समागत्य सिन्धोश्च खण्डयामास मूर्तिकाम् ।
तत्रस्थां स्वयमेवं तु निवासमकरोत् प्रभुः ॥ १८ ॥
दृष्ट्वा तं पूजयामास प्रह्लादो योगिनां वरः ।
पारणं स चकारैव हर्षनिर्भरमानसः ॥ १९ ॥
प्रत्यक्षं गणराजस्तं प्रसन्नो वरदोऽभवत् ।
स वव्रे सन्निधानस्थो भजामि त्वां तथा कुरु ॥ २० ॥
ब्रह्मैव ब्रह्मकल्पान्ते मयूरेशश्चकार तम् ।
अन्यं सन्निधिवासस्थं गणं ब्रह्मप्रियाख्यकम् ॥ २१ ॥
अन्यच्च शृणु विप्रेश विश्वामित्रो महामुनिः ।
चकार मौद्गलस्यैव भक्त्या पारायणं परम् ॥ २२ ॥
?सरठस्तत्र वृक्षस्थः शुश्रावाज्ञानभावतः ।
ज्वरयुक्तः कदाचिद्वै नवमं खण्डमुत्तमम् ॥ २३ ॥
सद्यो हि ज्वरहीनः स बभूवे पुण्यगौरवात् ।
यथेष्टं विषयान् भुक्त्वाऽन्ते स्वानन्दगतोऽभवत् ॥ २४ ॥
गणेश्वरं तत्र दृष्ट्वा ब्रह्मीभूतो बभूव ह ।
एवं नाना जना ब्रह्म लेभिरे खण्डसंश्रवात् ॥ २५ ॥
कति तेषु ब्रवीम्येव केन वक्तुं न शक्यते ।
भुक्तिमुक्तिप्रदश्चायं खण्डो नवमसञ्ज्ञितः ॥ २६ ॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेनवमे खण्डे योगचरिते योगामृतार्थशास्त्रे दक्षमुद्गलसंवादे नवमखण्डमाहात्म्यवर्णनं नामैकोनचत्वारिंशोऽध्यायः ॥