॥ श्रीगणेशाय नमः ॥
सूत उवाच ।
वरतन्तुर्मुनिश्रेष्ठो नानाविधतपः परः ।
शान्तिं न तपसा लेभे ततः खेदयुतोऽभवत् ॥ १ ॥
नश्वरं विश्वमेवं स ज्ञात्वा ब्रह्मपरोऽभवत् ।
तत्राऽऽजगाम पौलस्त्यो विश्रवा मुनिसत्तमः ॥ २ ॥
तं दृष्ट्वोत्थाय विप्रेशं प्रणनाम पुपूज ह ।
पप्रच्छाऽऽभोज्य हर्षेण युक्तः परमपावनम् ॥ ३ ॥
वरतन्तुरुवाच ।
त्वं साक्षाद्योगिनां वन्द्यः पावनो हि समागतः ।
महापुण्येन ते पादपद्मं दृष्टं मया प्रभो ॥ ४ ॥
योगशान्तिप्रदं ब्रूहि येन शान्तो भवाम्यहम् ।
नश्वरं सर्वमुत्सृज्य तदर्थं लालसोऽधुना ॥ ५ ॥
विश्रवा उवाच ।
ब्रह्मज्ञानं विना तात न शान्तिं लभते नरः ।
ब्रह्म नानाविधं वेदेषु प्रोक्तं वेदवादिभिः ॥ ६ ॥
तेषां पतिं गणाधीशं ब्रह्मणस्पतिसञ्ज्ञितम् ।
तं भजस्व विधानेन तदा शान्तो भविष्यसि ॥ ७ ॥
विश्वं वपुः शिरो ब्रह्म गजं योगे तयोर्मतः ।
सिद्धिबुद्धिपतिः साक्षात् परः स्वानन्दवासकृत् ॥ ८ ॥
वर्णा धूम्रायिता यत्र मनसा मुनिसत्तम ।
तेन धूम्राक्षरः प्रोक्तो ब्रह्मभूयप्रदायकः ॥ ९ ॥
धूम्रवर्णं गणाधीशं भज यत्नेन मानद ।
तस्यैव भजनं कृत्वा शान्तिं प्राप्तोऽहमुत्तमाम् ॥ १० ॥
नान्यथा पूर्णशान्तिं तु लभते कोऽपि निश्चितम् ।
वेदादिभिर्मुनीन्द्रैश्च वेदाद्यैः पश्य तं विभुम् ॥ ११ ॥
पुलस्त्येनोपदिष्टोऽहं नानायोगपरायणः ।
त्यक्त्वा ब्रह्माणि तन्निष्ठः सदाऽभूवं न संशयः ॥ १२ ॥
एवमुक्त्वा महायोगी विश्रवाः स्वस्थलं ययौ ।
वरतन्तुर्विचार्यैवं गणेशभजने रतः ॥ १३ ॥
खण्डं मौद्गलसंस्थं स धूम्रवर्णात्मकं परम् ।
जजाप नित्यमानन्दात् पूज्य विघ्नेश्वरं परम् ॥ १४ ॥
पूर्णशान्तियुतो जातो योगीन्द्रः सर्वपारगः ।
गणेशकृपया नित्यमभजद्गणनायकम् ॥ १५ ॥
एकदा तीर्थसंस्थः स धूम्रवर्णं पुपूज ह ।
तस्याग्रे नित्यकं पाठं स चक्रे धौम्रवर्णकम् ॥ १६ ॥
तत्र काकः स्थितः सोऽपि वृक्षशाखापरायणः ।
शूलयुक्तः स शुश्राव धूम्रवर्णचरित्रकम् ॥ १७ ॥
सद्यश्च शूलहीनः स बभूवे हर्षसंयुतः ।
उड्डीय प्रययौ तस्माद् वृक्षात् स्वेच्छापरायणः ॥ १८ ॥
अन्ते गणेश्वरं गत्वा ब्रह्मभूतो बभूव ह ।
अज्ञानश्रवणात् पुण्यं पश्य किं कथयाम्यहम् ॥ १९ ॥
एवं नाना जनाः श्रुत्वा धूम्रवर्णचरित्रकम् ।
ब्रह्मीभूता बभूवुस्ते भुक्त्वा भोगान् विशेषतः ॥ २० ॥
तेषु किं ते महाविप्र कथ्यते तन्न शक्यते ।
अतः सङ्क्षेपतः प्रोक्तं श्रवणस्य चरित्रकम् ॥ २१ ॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेनवमे खण्डे योगचरिते योगामृतार्थशास्त्रे मुद्गलदक्षसंवादेधूम्रवर्णचरितमाहात्म्यवर्णनं नाम अष्टत्रिंशोऽध्यायः ॥
[[८९]]