॥ श्रीगणेशाय नमः ॥
सूत उवाच ।
विभीषणो महाभागो लङ्कां प्राप्य सुहृद्धृतः ।
रामं पूज्यं स्वयं नित्यं भक्तियुक्तोऽभजत् परम् ॥ १ ॥
तत्रादौ गणनाथस्य पूजनं वेदसम्मतम् ।
विचार्य विस्मितः सोऽपि दुःखयुक्तो बभूव ह ॥ २ ॥
धारयामास मनसि गणेशं ब्रह्मनायकम् ।
सर्वपूज्यं गणेशस्योच्छिष्टभुजोऽमरान् परान् ॥ ३ ॥
कदाचित्तत्र योगीशो नारदः स्वेच्छयाऽऽगतः ।
तं प्रणम्य प्रपूज्यैव परं पप्रच्छ हृत्स्थितम् ॥ ४ ॥
विभीषण उवाच ।
गणेशोच्छिष्टभोक्तारो देवा विष्णुमुखा मुने ।
अग्रपूज्यप्रभावत्वात् किमिदं वेदसम्मतम् ॥ ५ ॥
नारद उवाच ।
ब्रह्माकाराः शिवाद्याश्च नानायोगप्रधारकाः ।
ब्रह्माण्यन्नमुखान्येव वेदेषु कथितं बुधैः ॥ ६ ॥
तेषां स्वामी गणेशानो ब्रह्मणस्पतिसञ्ज्ञितः ।
ब्रह्मणां पातृभावाद्वै पालयितृप्रभावतः ॥ ७ ॥
तेषां योगप्रदानार्थं देहधारी बभूव ह ।
गजाननादिचिह्नैः स संयुक्तो ब्रह्मरूपकैः ॥ ८ ॥
विघ्ना सत्तात्मकाः प्रोक्तास्तेषां स्वामी गजाननः ।
विघ्नैः सर्वान् प्रमर्द्यैव खेलते योगरूपधृक् ॥ ९ ॥
ब्रह्माणि विघ्नयुक्तानि भवन्ते राक्षसाधिप ।
सत्यसङ्कल्पहीनानि तदा तमभजन् परम् ॥ १० ॥
पराधीनस्वभावं च जानन्ते तानि नित्यदा ।
स्वकीयं च ततः प्रीतो गणेशो जायते परः ॥ ११ ॥
ददाति योगमुख्यं स्वं गणेशस्तेभ्य आदरात् ।
तदा विघ्नविहीनानि भवन्ते वीर्यवन्ति तु ॥ १२ ॥
अतो गणेश्वरः पूर्णः सर्वेषां पूर्णतां गतः ।
पूर्णसर्वादितां वेदे ज्येष्ठराजप्रभावतः ॥ १३ ॥
एवं विघ्नेश्वरं नित्यं भज त्वं शान्तिदायकम् ।
रामः स एव विघ्नेशः कलांशेन न संशयः ॥ १४ ॥
गणेशभजने कस्य व्यभिचारो भवेन्न वै ।
समूहानां पतित्वात्तु समूहा विष्णुमुख्यकाः ॥ १५ ॥
एवमुक्त्वा महायोगी नारदो गणपं स्मरन् ।
ययौ सोऽपि महाबुद्धिर्विचार्य गणपे रतः ॥ १६ ॥
पपाठ विघ्नराजस्य स खण्डं मौद्गलस्थितम् ।
नित्यं भक्तिप्रयुक्तः सम्पूज्य तं गणनायकम् ॥ १७ ॥
ततः शान्तिसमायुक्तो बभूवेह विभीषणः ।
गणेशमभजन्नित्यं परं रामैक्यमार्गतः ॥ १८ ॥
एकदा राक्षसाधीशो ह्यगमत् सेतुबन्धनम् ।
महोदरं प्रपूज्यैव तत्रस्थः पाठमाकरोत् ॥ १९ ॥
तत्र भेकी जले संस्था शुश्रुवे खण्डमुत्तमम् ।
विघ्नराजस्य तेनैव सुखयुक्ता बभूव ह ॥ २० ॥
एतस्मिन्नन्तरे तत्र सा सर्पेण धृताऽभवत् ।
ग्रस्ता ममार गाणेशैर्नीता स्वानन्दके पुरे ॥ २१ ॥
भेकीं गृह्य ब्रह्मभूतां चक्रुर्हर्षसमन्विताः ।
एवमज्ञानतः पुण्यं विघ्नेशचरितोद्भवम् ॥ २२ ॥
नाना जनादयो विप्र श्रुत्वा खण्डं ययुर्मुदा ।
स्वानन्दं भुक्तभोगाश्च मया वक्तुं न शक्यते ॥ २३ ॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेनवमे खण्डे योगचरिते योगामृतार्थशास्त्रे दक्षमुदलसंवादेविघ्नराजखण्डश्रवणपठनमाहात्म्यवर्णनं नाम सप्तत्रिंशोऽध्यायः ॥
[[८८]]