३६ योगामृतार्थशास्त्रेविकटखण्डमाहात्म्यवर्णनम्

॥ श्रीगणेशाय नमः ॥

सूत उवाच ।

अश्वत्थामा महाभागो द्रोणपुत्रः प्रतापवान् ।
कृपेण मातुलेनैव जगाम वनमुत्तमम् ॥ १ ॥

भारते संस्थितं सारं ज्ञात्वा कृष्णमुखाच्च्युतम् ।
बुद्धेः परतरं ब्रह्माऽभवत्तत्रैव लालसः ॥ २ ॥

बुद्धेः पत्युर्गणेशस्य हृदि ज्ञानं कथं भवेत् ।
परिपूर्णं तदर्थं स गौतमं शरणं ययौ ॥ ३ ॥

कृपस्तं विनयेनैव प्रणम्याश्रमसंस्थितः ।
सेवार्थं भागिनेयेन संयुक्तः परमार्थवित् ॥ ४ ॥

कदाचिद्योगिनां मध्ये गौतमः संस्थितोऽभवत् ।
कथयामास योगं स शान्तिदं योगसेवया ॥ ५ ॥

तत्र हर्षेण संयुक्तोऽश्वत्थामा विनयान्वितः ।
पप्रच्छ कृपसंयुक्तः संशयस्यापनुत्तये ॥ ६ ॥

अश्वत्थामोवाच ।
योगप्राप्त्यर्थमानन्दात् कस्योपासनमाचरेत् ।
योगरूपस्य योगीश बद सर्वज्ञ ते नमः ॥ ७ ॥

गौतम उवाच ।

गणेशोपासनं मुख्यं पूर्णं शान्तिप्रदायकम् ।
योगाकारः स वै वेदे नरे गजमयत्वतः ॥ ८ ॥

पञ्चचित्तात्ममोहेन तेन सर्वं विमोहितम् ।
न जानाति परं भावं योगदं गणनायकम् ॥ ९ ॥

समोहं चित्तमुत्सृज्य स्वयं चिन्तामणिर्भवेत् ।
तस्माद्विकटभक्त्या स लभ्यते विकटः प्रभुः ॥ १० ॥

पञ्चचित्तमयं यद्यत्तस्माद्विकटभावतः ।
भ्रमं त्यक्त्वा स्वचित्तस्थं तं भजस्व गजाननम् ॥ ११ ॥

तच्छ्रुत्वा विस्मिताः सर्वे मुनयस्तं प्रणम्य च ।
स्वस्वाश्रमं समागम्य विकटे भजने रताः ॥ १२ ॥

अश्वत्थामा कृपश्चैव तं प्रणम्य महामतिम् ।
स्वस्वाश्रमं समागत्य विकटे भजने रतौ ॥ १३ ॥

मौद्गलस्थं चरित्रं तौ विकटस्य महात्मनः ।
प्रपेठतुर्महाभक्त्या पूज्य नित्यं गणेश्वरम् ॥ १४ ॥

ततः स्वल्पेन कालेन सन्तुष्टो विकटोऽभवत् ।
ददौ योगं स ताभ्यां वै पूर्णशान्तिप्रदायकम् ॥ १५ ॥

तथापि तौ महाभागौ पाठं चक्रतुरादरात् ।
खण्डस्य विकटस्यैव विकटं पूज्य नित्यदा ॥ १६ ॥

एकदा पाठसंयुक्तावभूतां च द्विजोत्तमौ ।
तत्र श्वा च कृपस्याग्रे शुश्रुवे संस्थितो महान् ॥ १७ ॥

अश्वत्थाम्नश्च मार्जारः समीपस्थित आशृणोत् ।
तौ रोगाद्यैर्विहीनौ च जातावज्ञानतः श्रवात् ॥ १८ ॥

अन्ते स्वानन्दगौ जातावेकश्रवणपुण्यतः ।
अतः कं महिमानं ते कथयामि ह्यपारकम् ॥ १९ ॥

अश्वत्थामा कृपश्चैव स्वस्वांशे सङ्गतौ मुदा ।
अन्ते योगयुतौ विप्र विकटे भजने रतौ ॥ २० ॥

शौनक उवाच ।

योगयुक्तौ कथं सूत स्वांशगौ तौ बभूवतुः ।
गणेशेन तदाकारौ महच्चित्रं वदस्व माम् ॥ २१ ॥

सूत उवाच ।

देवाः कलांशभावेन भूभारहरणाय वै ।
भवन्ति मानवाद्यास्ते नानासामर्थ्यसंयुताः ॥ २२ ॥

इह पापं यदा कृत्वा गच्छन्ति यमपं मृताः ।
पतन्ति नरकेष्वेव यथा दशरथादयः ॥ २३ ॥

अथवा पुण्यमुग्रं ते कृत्वाऽन्ते स्वर्गगा मुदा ।
भवन्ति भोगसंयुक्ता यथा रामो यमस्थले ॥ २४ ॥

भवन्ति योगयुक्तास्ते यदा स्वस्वांशगास्तदा ।
तदाकारा गणेशानं कल्पान्ते सङ्गता मुदा ॥ २५ ॥

यथा विदूरकः सद्यः कौरवे यमदेहगः ।
यमाकारो गणेशानमभजद्भक्तिसंयुतः ॥ २६ ॥

अन्ते योगसमायुक्तो यमः परमपावनः ।
ययौ गणेश्वरं विप्र ब्रह्मभूतः स्वभावतः ॥ २७ ॥

एतत्ते कथितं पूर्णं चरित्रं श्रवणात्मकम् ।
विकटस्यैव खण्डस्य सर्वसिद्धिप्रदायकम् ॥ २८ ॥

एवं नानाजनाद्याश्च श्रुत्वा खण्डं महाद्भुतम् ।
विकटस्य सुखं भुक्त्वा ब्रह्मीभूता बभूविरे ॥ २९ ॥

॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेनवमे खण्डे योगचरिते दक्षमुद्गलसंवादे योगामृतार्थशास्त्रेविकटखण्डमाहात्म्यवर्णनं नाम षट्त्रिंशोऽध्यायः ॥

[[८७]]