॥ श्रीगणेशाय नमः ॥
सूत उवाच ।
भार्गवः कपिलो नाम सर्वशास्त्रविशारदः ।
कपिलस्य वरेणैव समुत्पन्नः सुधर्मवित् ॥ १ ॥
नानातपःसमायुक्तो योगनिष्ठो बभूव ह ।
तदर्थं शुनकं सोऽपि जगाम विनयान्वितः ॥ २ ॥
तं प्रणम्य माहात्मानं स्थित आर्जवसंयुतः ।
कदाचित्ते महाभागं पप्रच्छ पितरं मुदा ॥ ३ ॥
कपिल उवाच ।
योगशान्तिप्रदं नाथ वद ब्रह्मणि तन्मयम् ।
त्वं नो गुरुः समाख्यातस्तारयस्व भवार्णवात् ॥ ४ ॥
शुनक उवाच ।
विश्वानि विद्धि तं योगं ब्रह्माणि निःसृतानि च ।
यदाधारेण वर्तन्ते ते गच्छन्ति यदात्मनि ॥ ५ ॥
तदेव योगदं ब्रह्म लम्बोदरप्रवाचकम् ।
तस्योदरे स्थितं ब्रह्म विश्वं च भज तं सदा ॥ ६ ॥
तेन शान्तिसमायुक्तो ब्रह्मीभूतो भविष्यसि ।
नान्यथा त्वं महाभाग सिद्धिबुद्धिविमोहितः ॥ ७ ॥
एवमुक्त्वा महायोगी शुनको विरराम ह ।
तं प्रणम्य ययौ सोऽपि स्वाश्रमं हर्षसंयुतः ॥ ८ ॥
लम्बोदरचरित्रं स मौद्गलस्थं जजाप ह ।
गणेशं पूजयामास नित्यं भक्तिपरायणः ॥ ९ ॥
तेन तुष्टो गणाधीशो ददौ योगं सुशान्तिदम् ।
कपिलाय स्वभक्ताय भक्तवात्सल्यकारणात् ॥ १० ॥
शान्तियुक्तः स्वयं योगी तज्जजाप चरित्रकम् ।
नित्यं पूजापरो भूत्वा लम्बोदरसमीपगः ॥ ११ ॥
तत्र चित्रं कदाचिद्वै बभूव शृणु शौनक ।
बलीवर्दः स्थितः कश्चिद्रोगाक्रान्तः पपात ह ॥ १२ ॥
शुश्राव तच्चरित्रं स सम्पूर्णं ज्ञानहीनतः ।
सद्यो वै रोगनिर्मुक्तो बभूवे हर्षसंयुतः ॥ १३ ॥
नाजानंस्तन् महत् पुण्यं बलीवर्दः कदाचन ।
कालेन स मृतस्तत्र ब्रह्मीभूतो बभूव ह ॥ १४ ॥
एवमज्ञानतो वाऽपि ज्ञानतो विविधा जनाः ।
ब्रह्मीभूता बभूवुश्च मया वक्तुं न शक्यते ॥ १५ ॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेनवमे खण्डे योगचरिते योगामृतार्थशास्त्रे दक्षमुद्गलसंवादे लम्बोदरचरितवर्णनं नाम पञ्चत्रिंशोऽध्यायः ॥