३४ दक्षमुगलसंवादेगजाननचरितश्रवणपठनमाहात्म्यवर्णनम्

॥ श्रीगणेशाय नमः ॥

सूत उवाच ।

आश्वलायनवंशस्थो ब्राह्मणः सुरुचिः पुरा ।
नाम्ना स्वधर्मनिष्ठः स ब्रह्मज्ञानपरोऽभवत् ॥ १ ॥

नानायोगक्रमे सक्तः शमी दमपरायणः ।
चचार योगचर्यां तामन्ते सहजगोऽभवत् ॥ २ ॥

तत्र स्वाधीनतां दृष्ट्वा विस्मितः प्रययौ स्वयम् ।
स्वगुरुं तं प्रणम्याऽऽदौ योगं पप्रच्छ उत्तमम् ॥ ३ ॥

सुरुचिरुवाच ।
वद योगं महायोगिन् शान्तिदं सर्वभावतः ।
अस्माकं त्वं परा काष्ठा गुरुर्वंशधरः प्रभुः ॥ ४ ॥

आश्वलायन उवाच ।

पैलेन कथितो योगो मह्यं शान्तिप्रदः परः ।
तं तेऽहं कथयिष्यामि ब्रह्मीभूतप्रदायकम् ॥ ५ ॥

चित्तं पञ्चविधं त्यक्त्वाऽहं ब्रह्मेति प्रबोधतः ।
सरसं तेन शान्तिस्थो भविष्यसि न संशयः ॥ ६ ॥

सरसं चित्तकं यस्मात् सम्भूतं यन्मयं मतम् ।
अन्ते यत्र गतं तत्त्वं गजं जानीहि मानद ॥ ७ ॥

तदेवाननकं यस्य तं भजस्व विधानतः ।
गजाननं सुशान्तिस्थो भविष्यस्यधुना मुने ॥ ८ ॥

एवमुक्त्वा महाविप्र आश्वलायन आदरात् ।
तूष्णीं स्थितः स तं नत्वा ययौ स्वस्याश्रमं पुनः ॥ ९ ॥

गजाननपरो भूत्वाऽभजत्तं नित्यमादरात् ।
गजाननचरित्रं सोऽपठन् मौद्गलसंस्थितम् ॥ १० ॥

तेन तुष्टो गणाधीशो ददौ योगं प्रशान्तिदम् ।
भक्ताय वै सुरुचये भक्तवाञ्छाप्रपूरकः ॥ ११ ॥

ततस्तेन रहस्यं यच्चतुर्वेदसमुद्भवम् ।
ज्ञातं गजाननाख्ये तत् संस्थितं ब्रह्मणोदितम् ॥ १२ ॥

गच्छन्ति यत्र सर्वाणि विश्वानि ब्रह्मकाणि तु ।
योगरूपेण यस्तेषु स गच्छति ?ग उच्यते ॥ १३ ॥

सर्वगं ब्रह्म सत्प्रोक्तमृग्वेदे सारगं परम् ।
तदेव गश्च विज्ञेयो मुने नाम्नि गजानने ॥ १४ ॥

जायन्ते विविधान्येव विश्वानि ब्रह्मकाणि च ।
तस्माददः स जः ख्यातोऽद्वितीयात्मक एककः ॥ १५ ॥

आदिमध्यान्तभावेषु यादृशं तादृशं भवेत् ।
यजुषि ब्रह्म सम्प्रोक्तं स्मृतोऽजः स गजानने ॥ १६ ॥

पञ्चचित्तमयं सर्वं नाशवन्नात्र संशयः ।
नष्टं नकारगं विद्ध्याऽऽसमन्तादा च तत्र वै ॥ १७ ॥

नष्टभावेषु यस्तिष्ठेदासमन्तात्तदेव तत् ।
ब्रह्म साम्ना समाख्यातं स्थित आनो गजानने ॥ १८ ॥

पञ्चचित्तमयं सर्वं नष्टं ज्ञातव्यमञ्जसा ।
तदेव योगभावेन ब्रह्मरूपं प्रकीर्तितम् ॥ १९ ॥

अथर्वणसमाख्यातमहमात्मा न संशयः ।
अज्ञानेन विनाशाख्यो न स्मृतः स गजानने ॥ २० ॥

एतद् ब्रह्ममुखेभ्यश्च चतुर्भ्यः सारमीरितम् ।
गजाननो महाविप्र चतुर्वेदात्मकः स्मृतः ॥ २१ ॥

एवं गजाननं ज्ञात्वाऽभजत्तं सुरुचिः सदा ।
अपठत्तस्य माहात्म्यं तत्र चित्रं बभूव ह ॥ २२ ॥

कपोतो वृक्षसंस्थः कः तत् शुश्राव चरित्रकम् ।
स रोगसंयुतः पापी रोगहीनो बभूव ह ॥ २३ ॥

अन्ते गजाननं गत्वा ब्रह्मीभूतोऽभवन् मुदा ।
अज्ञानश्रवणेनैवाऽतः फलं किं वदामि ते ॥ २४ ॥

एवं नाना जना खण्डं यद्गजानननामकम् ।
श्रुत्वा पठित्वा भुक्त्वान्ते भोगान् ब्रह्म प्रलेभिरे ॥ २५ ॥

॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेनवमे खण्डे योगचरिते योगामृतार्थशास्त्रे दक्षमुगलसंवादेगजाननचरितश्रवणपठनमाहात्म्यवर्णनं नाम चतुस्त्रिंशोऽध्यायः ॥

[[८५]]