॥ श्रीगणेशाय नमः ॥
सूत उवाच ।
माध्यन्दिनो महाभागो मुनिः सर्वार्थकोविदः ।
स्वधर्मनिरतो नित्यं नानाबलतपोन्वितः ॥ १ ॥
स शान्त्यर्थं जगामैव व्यासं सर्वज्ञमुत्तमम् ।
तं प्रणम्य महाभागं पप्रच्छ विनयान्वितः ॥ २ ॥
माध्यन्दिन उवाच ।
शान्त्यर्थं किं नरैः कार्यं तन्मे वद महामते ।
येन योगयुताः सर्वे ब्रह्मीभूता बभूविरे ॥ ३ ॥
व्यास उवाच ।
संयोगाऽयोगयोर्योगे ब्रह्मभूतो नरो भवेत् ।
तेन शान्तियुतो भावी सा शान्तिः सर्वसम्मता ॥ ४ ॥
स एव गणनाथस्तु महोदर इति स्मृतः ।
तं भजस्व विधानेन तदा शान्तिमवाप्स्यसि ॥ ५ ॥
संयोगाऽयोगरूपः सन् तयोरुदरगान् परान् ।
भुनक्ति सकलान् भोगान् स्मृतस्तेन महोदरः ॥ ६ ॥
ब्रह्मसु ब्रह्मसौख्यं यद्भोगरूपं प्रकीर्तितम् ।
भुक्तो भोगः स्थितो यत्र तदेव जठरं स्मृतम् ॥ ७ ॥
जगतां ब्रह्मणां विप्र जठरे संस्थितः सदा ।
गणेशो भोगभोक्ता वै कोऽपि तस्योदरे न तु ॥ ८ ॥
[[८३]]
प्रोक्तो महोदरस्तेन वेदेषु गणनायकः ।
एकस्तं भज भक्त्या वै तया शान्तिमवाप्स्यसि ॥ ९ ॥
एवमुक्त्वा महायोगी व्यासो योगीन्द्रसत्तमः ।
विरराम स तं नत्वा आश्रमं स्वं जगाम च ॥ १० ॥
महोदरचरित्रं स मौद्गलस्थं विशेषतः ।
सेव्ययोगपरो भूत्वाऽभजत्तं तु महोदरम् ॥ ११ ॥
तस्मै तुष्टो गणाधीशो ददौ योगं सुशान्तिगम् ।
ततः शान्तियुतो नित्यमभजद्गणनायकम् ॥ १२ ॥
महोदरचरित्रं यदपठन्नित्यमादरात् ।
महायोगी स्वयं तत्र स्थापयामास विघ्नपम् ॥ १३ ॥
कदाचिद्गणराजं स पूजयित्वा पपाठ तत् ।
महोदरस्य माहात्म्यं तत्र चित्रं बभूव ह ॥ १४ ॥
मण्डूको दैवयोगेन शुश्रावाज्ञानसंयुतः ।
निर्माल्ये संस्थितस्तत्र भयभीतः समन्ततः ॥ १५ ॥
ततो बहौ गते काले मृतं तं कुत्रचित् स्थले ।
मण्डूकं च समानेतुमगमन् गाणपा मुदा ॥ १६ ॥
सङ्गृह्य ब्रह्मभूतं ते चक्रुरेकश्रवात् परम् ।
पाठस्य पश्य विप्रेश माहात्म्यं परमाद्भुतम् ॥ १७ ॥
एवं नाना जना विप्र महोदरचरित्रकम् ।
संसेव्य भुक्तभोगास्तेऽभवन् ब्रह्ममयाऽमृताः ॥ १८ ॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेनवमे खण्डे योगचरिते योगामृतार्थशास्त्रे दक्षमुद्गलसंवादे महोदरचरितमाहात्म्यवर्णनं नाम त्रयस्त्रिंशोऽध्यायः ॥