॥ श्रीगणेशाय नमः ॥
सूत उवाच ।
पिप्पलादः पुरा कश्चिद्बभूव ब्राह्मणोत्तमः ।
स शैवमार्गसंयुक्तोऽभजत्तं शङ्करं सदा ॥ १ ॥
गौतमीतीरसंस्थः स क्रमतो योगसंस्थितः ।
बभूव सहजे संस्थः स्वाधीनत्वपरायणः ॥ २ ॥
ततो वेदार्थजं योगं ज्ञात्वा शान्तिधरं परम् ।
सहजं मोहहीनं तत् दृष्ट्वा दुःखयुतोऽभवत् ॥ ३ ॥
जगाम गौतमं विप्रो भक्तिसंयुत आनमत् ।
पप्रच्छ योगशान्त्यर्थमुपायं ब्रह्मदं परम् ॥ ४ ॥
जगाद गौतमो विप्रं स पृष्टश्चैकदन्तकम् ।
ब्रह्म तस्यैव भक्त्या त्वं शान्तियोगमवाप्स्यसि ॥ ५ ॥
यद्यन्मायाविकारैश्च संयुक्तं मुनिसत्तम ।
मायया सह तद्विद्धि एकशब्दप्रवाचकम् ॥ ६ ॥
मायाहीनं स्थितं यत्तन्मायिकं वा द्विजोत्तमम् ।
दन्तसञ्ज्ञं विजानीहि पश्य वेदे विचक्षण ॥ ७ ॥
तयोर्योगे गणेशान एकदन्त इति श्रुतः ।
तं भजस्व विधानेन शान्तियुक्तो भविष्यसि ॥ ८ ॥
एवमुक्त्वा महायोगी गौतमो विरराम ह ।
पिप्पलादश्च सन्नम्य ययौ स्वस्याश्रमं परम् ॥ ९ ॥
तत्रस्थश्चैकदन्तं सोऽभजद्भक्तिसमन्वितः ।
गणेशकृपया विप्रो योगशान्तियुतोऽभवत् ॥ १० ॥
ततो नित्यं महाविप्र एकदन्तचरित्रकम् ।
?अपठमौद्गले संस्थं गाणपत्यस्वभावतः ॥ ११ ॥
कस्मिंश्चित् समये योगी पूजयित्वैकदन्तकम् ।
अपठच्चरितं तस्य तत्सान्निध्ये सुभक्तितः ॥ १२ ॥
तत्र पल्ली स्थिता काचित् सा शुश्राव चरित्रकम् ।
ज्वरयुक्ता महाभाग ज्वरहीना बभूव ह ॥ १३ ॥
देहान्त गणनाथं तु जगाम चरितश्रवात् ।
तं दृष्ट्वा ब्रह्मभूता सा बभूवे चित्रमद्भुतम् ॥ १४ ॥
एवमेकरदस्यैव चरितस्य च सेवने ।
श्रवणेन नरा नार्यो ब्रह्मीभूता बभूविरे ॥ १५ ॥
तेषां न शक्यते वक्तुं चरितं केनचिन् मुने ।
अतः सङ्क्षेपतः प्रोक्तं सर्वसिद्धिप्रदायकम् ॥ १६ ॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणेनवमे खण्डे योगचरिते योगामृतार्थशास्त्रे दक्षमुद्गलसंवादे एकदन्तचरितमाहात्म्यवर्णनं नाम द्वात्रिंशोऽध्यायः ॥